Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रमाणवार्त्तिस्ववृत्ति
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
13003 अथ तच् शब्द-रूपं नित्यं स्याद् उपलभ्य-स्वभावं च / 13004 स च तस्य स्वभावः कदाचिन् न अपैति इति नित्यम् उपलभ्येत / 13005 एवं हि स नित्यः स्याद् यदि न कुतश्चित् सामर्थ्यात् प्रच्यवेत् / 13006 ज्ञान-जनन-सामर्थ्यस्य तदात्मकत्वात् / अर्थान्तरत्वस्य च 13007 प्राग् एव निषिद्धत्वात् / न अपि तस्य उपलभ्य-आत्मनः किंचिद् उपलम्भ- 13008 आवरणं सम्भवति / तस्य सतो अपि तदात्मनम् अखण्डयतः 13009 सामर्थ्य-तिरस्कार-अयोगात् / न हि तत्र अतिशयम् अनुत्पादयन् 13010 किंचित्करो नाम / अकिंचित्करश् च कः कस्य आवरणम् अन्यद् 13011 वा इति निर्लोठित-प्रायम् एतत् / कुड्य-आदयो घट-आदीनां कम् अतिशयम् 13012 उत्पादयन्ति खण्डयन्ति वा येन आवरणम् इष्यन्ते / न ब्रूमस् 13013 ते कंचिद् अतिशाययन्ति इति / अपि तु न सर्वे घट-क्षणाः सर्वस्य इन्द्रिय- 13014 विज्ञान-हेतवः परस्पर-सहितास् तु विषय-इन्द्रिय-आलोकाः 13015 परस्परतो विशिष्ट-क्षण-अन्तर-उत्पादाद् विज्ञान-हेतवः / अनुपकार्यस्य 13016 अपेक्षा-अयोगात् / शक्त-स्वभावस्य नित्यं जननम् अजननं 13017 वा अन्यस्य सर्वदा स्याद् इत्य् उक्तम् / ते च अव्यवहिताः प्रतिघातिना 13018 अन्येन अन्योन्यस्य उपकारिणः / अव्यवधान-देश-योग्यता-सहकारित्वात् 13019 तेषाम् अन्योन्य-अतिशय-उत्पत्तेः / व्यवधाने तु हेत्व्-अभावात् 13020 समर्थ-क्षण-अन्तर-अनुत्पत्तेर् ज्ञान-अनुत्पत्तिः / तस्मात् पूर्व-उत्पन्न- 13021 समर्थ-निरोधात् सति कुड्ये अन्यस्य उत्पित्सोः कारण-अभावेन अनुत्पत्तेः 13022 कारण-वैकल्याज् ज्ञान-अनुत्पत्तिर् इति कुड्य-आदय आवरणम् 13023 उच्यन्ते / न प्राग् योग्यस्य प्रतिबन्धात् / तस्य स्वभावाद् अप्रच्युतेः /
13024 अथवा सम्भवत्य् अपि भावानां क्षणिकानाम् अन्योन्य-उपकारो 13025 अचिन्त्यत्वाद् हेतु-प्रत्यय-सामर्थ्यस्य असर्वविदा / तेन 13026 यद् इन्द्रिय-विषय-मध्य-स्थितम् आवरणं तत् तौ विज्ञान-उत्पत्ति- 13027 वैगुण्य-तारतम्य-भेदेन अतिशययेद् अपि / आवरण-भेदे न शब्द- 13028 आदौ श्रुति-मान्द्य-पाटव-दर्शनात् / अन्यथा क्वचिद् अप्य् अकिंचित्करस्य 13101 संनिधानस्य अप्य् असंनिधान-तुल्यत्वात् तस्य इदम् इत्य् / 13102 उपसंहारो विकल्प-निर्मित एव स्यात् / न वस्त्व्-आश्रयः / न च 13103 समारोप-अनुविधायिनो अर्थक्रियाः / न हि माणवको दहन-उपचाराद् 13104 आधीयते पाके / तस्मात् सत्याम् अपि कल्पनायाम् अतत्-परावृत्तयो 13105 भावा यथा-स्वभाव-वृत्तय एव स्युः / तत् सत्य् अप्य् 13106 आवरणे विज्ञापयेयुर् एव इन्द्रिय-आदयः / न च तथा / तस्मात् तेन आधेयविशेषा 13107 इति गम्यन्ते / न खल्व् एवं नित्यानां शब्दानां 13108 कस्मिंश्चित् सत्य् अतिशय-हानिर् उत्पत्तिर् वा / तद् यदि तेषां ज्ञान-जननः 13109 स्वभावः सर्वस्य सर्वदा सर्वाणि स्व-विषय-ज्ञानानि सकृज् 13110 जनयेयुः / नो चेन् न कदाचित् कस्यचित् किंचिद् इत्य् एकान्त एषः / 13111 अश्रुतिर् विकलत्वाच् चेत् कस्यचित् सहकारिणः / 13112 स्याद् एतत् / न आवरणान् नित्यं सर्वे शब्दा न श्रूयन्ते / अपि तु 13113 किंचित् तेषां प्रतिपत्तौ सहकारि प्रतिनियतम् अस्ति / तत् कदाचित् 13114 कस्यचिद् भवति इति तत्-कृतम् एषां कदाचित् क्वचिच् श्रवणम् इति / 13115 कामम् अन्य-प्रतीक्षा अस्तु नियमस् तु विरुध्यते //252//
13116 न वै वयं कारणानां सहकारीणि प्रतिक्षिपामः / किं त्व् 13117 अपेक्षन्त एव कारणानि तद्-अवस्था-उपकारिणम् / ततो लभ्यस्य अतिशयस्य 13118 कार्य-उपयोगात् / तथा शब्दो अपि यदि किंचिद् अपेक्ष्य 13119 कार्यं कुर्यात् करोतु पूर्व-स्वभाव-नियत इत्य् एतन् न स्यात् / 13120 तस्य प्रच्युतेः / अपेक्ष्याच् च स्वभाव-अन्तर-प्रतिलम्भात् / 13121 न ह्य् अनुपकार्य् अपेक्ष्यत इत्य् उक्तम् एतत् / तद्-उपकारस्य 13122 च अर्थान्तरत्वे तस्य इति सम्बन्ध-अभाव-आदयो अप्य् उक्ताः / तस्य 13123 च अज्ञेयत्वम् / उपकाराद् एव ज्ञान-उत्पत्तेः / तस्माद् एव शब्दो न इन्द्रियं 13124 न संनिकर्षं न आत्मानम् अन्यद् वा किंचिज् ज्ञान-उत्पत्ति-समाश्रयं 13125 स्व-विज्ञान-जनने अपेक्षते / सर्वस्य तत्र अकिंचित्करत्वाद् / 13126 अपि च / एते शब्दा व्यापिनो वा स्युर् अव्यापिनो वा / 13127 सर्वत्र अनुपलम्भः स्यात् तेषाम् अव्यापिता यदि / 13128 कथं एक-देश-वर्तितं तच्-शून्य-देश-स्थित उपलब्धेत / अप्राप्त- 13201 ग्रहण-पक्षे अदोष इति चेत् / न / तत्र अपि योग्य-देश-स्थिति-तारतम्य- 13202 अपेक्षणाद् अयस्कान्त-आदि-वत् / अन्यथा स्पष्ट-अस्पष्ट-श्रुति- 13203 भेदो न स्यात् / सति च उपलम्भ-प्रत्यये सर्वत्र देशे तुल्यम् 13204 उपलभ्येरन् / तस्मान् न अव्यापिनः / 13205 सर्वेषाम् उपलम्भः स्याद् युगपद् व्यापिता यदि //253//
13206 न हि कश्चिच् शब्द क्वचिन् न अस्ति इति सर्वे युगपद् उपलभ्येरन् 13207 सर्व-देश-स्थितैश् च / योग्य-इन्द्रियत्वाद् विषय-संनिधानाद् अप्रतिबन्धाच् 13208 च / 13209 संस्कृतस्य उपलम्भे च कः संस्कर्ता अविकारिणः / 13210 स्याद् एतत् / सन्न् अपि न सर्वः शब्द उपलभ्यते सर्वेण / संस्कृतस्य 13211 संस्कृतेन एव उपलम्भाद् इति / तत्र न संस्कृतस्य उपलम्भो 13212 अनाधेयविकारस्य संस्कार-अयोगात् / 13213 इन्द्रियस्य हि संस्कारः शृणुयान् निखिलं च तत् //254//
13214 तत्र यदि संस्कृतेन उपलम्भ इत्य् असंस्कृतेन इन्द्रियो न उपलभते / 13215 यस्य संस्कार इन्द्रियस्य कृतः स सर्व-शब्दान् युगपच् शृणुयाद् 13216 इति प्रसङ्गो अनिवृत्त एव / 13217 संस्कार-भेदाद् भिन्नत्वाद् एक-अर्थ-नियमो यदि / 13218 अनेक-शब्द-संघाते श्रुतिः कलकले कथम् //255//
13219 अथ अपि स्यात् / प्रतिनियताः ते संस्काराः शब्दानाम् / तत्र केनचित् 13220 संस्कृतम् इन्द्रियं कस्यचिद् एव ग्राहकम् इति न युगपत् सर्व- 13221 शब्द-श्रुतिर् इति / संस्कार-विशेषाच् श्रुति-नियमे इन्द्रियाणाम् अनेक- 13222 शब्द-संघातस्य कलकलस्य श्रुतिर् न स्यात् / न ह्य् एकः 13223 शब्दः कलकलो नाम / भिन्न-स्वभावानां युगपच् श्रवणात् / 13224 स्वभाव-भेद-आश्रयत्वाच् च भेद-व्यवस्थितेः / लघुवृत्तेः 13225 सकृच्-श्रुतिर् भ्रान्तिर् इति चेत् / वंश-आdi-svara-dhआरायां गमक-अवयव- 13226 संहारात् संकुला प्रतिपत्तिः स्यात् / वक्ष्यते च अत्र प्रतिषेधः / 13227 तस्माद् एक-गति-शक्ति-प्रतिनियमाद् इन्द्रियस्य अनेकात्मा 13228 कलकलो न श्रूयेत / 13229 ध्वनयः केवलं तत्र श्रूयन्ते चेन् न वाचकाः / 13301 न वै कलकले वर्ण-पद-वाक्यानि श्रूयन्ते / ध्वनीनाम् एव 13302 केवलानां श्रवणात् / वाचके च प्रतिनियत-शक्ति-इन्द्रियं न 13303 ध्वनिषु / तत्र / 13304 ध्वनिभ्यो भिन्नम् अस्ति इति श्रद्धा इयं अतिबह्व् इदम् //256//
13305 न हि वयं ध्वनिं शब्दं च वाचकं पृथग्-रूपम् उपलक्षयामः / 13306 एकम् एव एकदा वर्ण-अनुक्रम-श्रवणे शब्द-आत्मानं 13307 व्यवस्यामः / तत् कथं व्यवसाय-पूर्वकं व्यवहारम् 13308 अव्यवस्यन्तः प्रवर्तयामः / तस्माद् ध्वनि-विशेष एव इयं 13309 वर्ण-आद्य्-आख्यः / अपि च / 13310 स्थितेष्व् अन्येषु शब्देषु श्रूयते वाचकः कथम् / 13311 न ध्वनिर् अतो भिन्नस् तेन सह पृथग् वा / न हि प्रत्यक्षे 13312 अर्थे पर-उपदेशो गरीयान् / तद् अयं स्थितेष्व् अन्येषु व्याहर्तृषु 13313 केवलम् एव शब्दं शृण्वंस् तद्-उपलम्भ-प्रत्ययानां तद्-अन्य- 13314 निष्पादने सामर्थ्य-अभावं प्रत्येति / यदि हि समर्थाः स्युस् 13315 तत्-साधितं तद् उपलभ्येत / तत्-स्वभावा एव पुनः प्रत्ययाः 13316 कथं कलकले अर्थ-अन्तरम् आरभेरन् / न हि कारण-अभेदे 13317 कार्य-भेदो युक्तः / भेदस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्तम् / 13318 न च कलकले वाचको न श्रूयते / पद-वाक्य-विच्छेदानाम् उपलक्षणात् / 13320 कथं वा शक्ति-नियमाद् भिन्न-ध्वनि-गतिर् भवेत् //257//
13321 तानि प्रतिनियत-शक्तीन्य् अपि इन्द्रियाणि नाना-रूपान् प्रति-शब्द-नियतान् 13322 ध्वनीन् शृण्वन्ति न त्व् एवं शब्दान् इति कः शब्देष्व् एषां 13401 निर्वेदः / यद् उक्तं न ध्वनयो भेदेन वाचकेभ्यः सिद्धा 13402 इति कथं न सिद्धाः / वचनाद् अर्थ-प्रतिपत्तेः / न हि ध्वनि- 13403 भागाद् अल्पीयसः शब्द-अर्थ-प्रतीतिः / न च सो अन्यं सम इति / 13404 तद् इयं समस्त-पद-वाक्य-रूप-साध्य-अर्थ-प्रतीतिर् असमस्त- 13405 भागेषु ध्वनिषु न सम्भवति इति सिद्धम् अक्रम-सत्त्वं 13406 शब्द-रूपम् / क्रमवद्-भागश् च ध्वनिर् इति / तन् न / अक्रमस्य 13407 क्रमवद्-व्यतिरेकिणः प्राग् एव निषिद्धत्वात् / अतिप्रसङ्गश् च एवम् / 13408 कर्म-भागानां पूर्वेण अपरस्य अप्रतिसन्धानात् एक-अंशाच् 13409 च अप्रतिपत्तेः तद्-व्यतिरेकी हस्त-संज्ञा-आदिष्व् अर्थ-प्रतिपत्ति- 13410 हेतुः समस्त-रूपः कर्म-आत्म-अभ्युपगन्तव्यः स्यात् / शब्द-वद् 13411 एव / क्रम-भाविन एव यथास्वं करण-प्रयोगाद् भिन्ना 13412 वर्ण-भागाः कर्म-भागा वा क्रमेण विकल्प-विषया यथा- 13413 संकेतम् एव अर्थ-प्रतीतिं जनयन्ति इति न्याय्यम् / किं च / 13414 ध्वनयः सम्मता यैस् ते दोषैः कैर् अप्य् अवाचकाः / 13415 ध्वनिभिर् व्यज्यमाने अस्मिन् वाचके अपि कथं न ते //258//
13416 क्रम-उत्पादिभिर् ध्वनि-भागैर् व्यक्तः किल वाचको वक्ति / तम् 13417 अपि ते न एव सकृत् प्रकाशयन्ति / क्रम-भावात् / न अप्य् एक एव 13418 भागः शब्दं व्यनक्ति / तd-anya-vaiyarthय-प्रसङ्गात् / एक-वर्ण- 13419 भाग-काले च समस्त-रूप-अनुपलक्षणात् / तद् अयम् अप्रतिसंहित- 13420 सकल-उपलम्भो ध्वनि-वद् उपलम्भ-साकल्य-संनिधान- 13421 अर्थं कथं साधयेत् / को हि विशेषो अत्यन्त-अनुपलम्भे 13422 सद्-असतोर् उपलम्भ-साध्येष्व् अर्थेषु / न च संनिधि-मात्रेण 13423 साधनः / व्यक्त्य्-अपेक्षणात् / सा च इयं क्रम-भाविनी सद्-असतोस् 13424 तुल्य-उपयोग इति ध्वनिभिर् अशक्य-साधनं कार्यम् / तत्र अपि 13425 तथा इत्य् अलं अन्येन / तस्मान् न वर्णेषु वाक्ये वा अपौरुषेयता / 13426 वर्ण-अनुपूर्वी वाक्यं चेन् न वर्णानाम् अभेदतः / 13501 न अर्थ-अन्तरम् एव शब्द-रूपं वाक्यम् अपौरुषेयम् / किं तर्हि / 13502 वर्ण-अनुक्रम-लक्षणं हि नो वाक्यम् / तद् अपौरुषेयं साध्यम् 13503 इति चेत् / न / वर्णानाम् आनुपूर्व्या अभेदात् / न इयम् अर्थ-अन्तरं 13504 वर्णेभ्यः / दृश्यायां विभाग-उपलम्भात् / अदृश्यायां ततो 13505 अप्रतिपत्तेर् लिङ्ग-अभावात् / भेदवत्याश् च आनुपूर्व्या अभावे वर्ण- 13506 मात्रम् अवशिष्टं सर्वत्र इति पूर्ववत् प्रसङ्गः / 13507 तेषां च न व्यवस्थानं क्रम-अन्तर-विरोधतः //259//
13508 यद्य् अकृतक-अनुपूर्वी वर्णानां ते च न बहवः समान-जातीयाः 13509 येन केचिद् व्यवस्थित-क्रमाः स्युः अन्ये यथा इष्ट-परावृत्तयः 13510 किं तर्हि एक एव त्रैलोक्ये अकारस् तथा गकारः तदा अग्निर् इत्य् 13511 एव स्यात् न गगनम् इति अकार-गकारयोः पूर्वापर-भावस्य 13512 व्यवस्थितत्वात् / कृतकानाम् अपि हेतु-परिणाम-नियमवताम् 13513 अशक्यः क्रम-विपर्ययः कर्तुम् / यथा बीज-अङ्कुर-पत्र-आदीनाम् 13514 ऋतु-संवत्सर-आदीनां च / किं पुनर् अचलित-अवस्था-स्वभावानाम् 13515 अकृतकानां कथंचित् स्थितानां पूर्व-अवस्था-त्यागम् अन्तरेण 13516 अन्यथा अभाव-अयोगात् / त्यागे वा विनाश-प्रसङ्गात् / विशेषेण नित्यायाम् 13517 आनुपूर्व्यां / तद् एतत् प्रतिपदं क्रम-अन्यत्वं वर्ण- 13518 अन्यत्वे अपूर्व-उत्पादात् वर्ण-बाहुल्याद् वा स्यात् / तच् च अनभिमतम् / 13519 अपि च / 13520 देश-काल-क्रम-अभावो व्याप्त्i-nityatva-varणनात् / 13521 सा च इयम् आनुपूर्वी वार्णानां देश-कृता वा स्यात् / यथा पिपीलिकानां 13522 पङ्क्तौ / काल-कृता वा यथा बीज-अङ्कुर-आदीनाम् / सा द्विविधा अपि 13523 वर्णेषु न सम्भवति / व्याप्तेर् नित्यत्वाच् च / अन्योन्य-देश- 13601 परिहारेण वृत्तिर् हि देश-पौर्वापर्यम् / तत् सर्वस्य सर्वेण 13602 तुल्यदेशत्वाद् वर्णेषु न सम्भवति / वात-आतप-वद् आत्म-आदि-वच् 13603 च / तथा काल-परिहारेण वृत्तिः काल-पौर्वापर्यम् / यदा एको 13604 न अस्ति तदा अन्यस्य भावात् / तद् अपि नित्येषु न सम्भवति / सर्वदा 13605 सर्वस्य भावात् / न च अन्या गतिर् अस्ति / तत् कथं वर्ण-पौर्वापर्यं 13606 वाक्यं यद् अपौरुषेयं साध्येत / 13607 अनित्य-अव्यापितायां च दोषः प्राग् एव कीर्तितः //260//
13608 अथ मा भूद् अयं दोष इत्य् अनित्यान् अव्यापिनश् च वर्णान् इच्छेत् / 13609 ताव् अपि पक्षौ प्राग् एव निराकृताव् इत्य् अपरिहारः / 13610 व्यक्ति-क्रमो अपि वाक्यं न नित्य-व्यक्ति-निराकृतः / 13611 न वर्णानां रूप-अनुपूर्वी वाक्यम् / किं तर्हि / तद्-व्यक्तेः / सा 13612 यथा स्व-वर्ण-अभिव्यक्त्i-pratyaya-kramआद् भवन्ती क्रम-योगिनी 13613 इति तदा अनुपूर्वी वाक्यम् इत्य् अपि मिथ्या / तस्या नित्येषु प्राग् एव 13614 निषिद्धत्वात् / कार्यता-विशेष एव साक्षाच्-शक्त्य्-उपधानेन ज्ञान- 13615 जनकानां व्यक्तिर् इत्य् आख्यातम् एतत् / 13616 व्यापाराद् एव तत्-सिद्धेः करणानां च कार्यता //261//
13617 यत् खलु रूपं यत एव उपलभ्यते तस्य तद्-उपलब्धि-नान्तरीयकाम् 13618 उपलब्धिम् एव आश्रित्य लोकः कार्यतां प्रज्ञापयति / सा 13619 वर्णेष्व् अप्य् अस्ति / स एव च अन्यत्र अपि तद्-आश्रयः / न विशेषः / तत् 13620 कथं तुल्ये अभ्युपगम-निबन्धने न वर्णाः कार्याः / न 13621 च एतद् उपलब्ध्य्-आश्रया कार्यता-स्थितिः / किं तर्हि / यत् सत्य् एव 13622 भवति इति सत्ता-आश्रया / सा सत्ता कुतः सिद्धा ये न कार्यतां साधयेत् / 13623 न ह्य् असिद्धायाम् अस्याम् एवं भवति इति / तस्मात् सत्ता- 13624 सिद्धिस् तत्-साधनी / सा च उपलब्धिर् एव / सत्यम् एवं यदि तस्य 13625 प्राङ् न सत्ता सिद्धा स्यात् / सा हि सत्ता-सिद्धिर् या असिद्धि-पूर्विका / 13701 ननु तद् रूपम् असिद्धम् एव यत् तथाभूत-विज्ञान-अव्यवधान- 13702 उपयोगि / सिद्धम् एव तद् अन्य-वैकल्यान् न उपयुक्तम् इति 13703 चेत् / कथम् इदानीम् उपयुक्त-अनुपयुक्तयोर् अभेदः / न अपि भेदः 13704 शब्द-स्वभाव-असंस्पर्शी तस्य एव अतिशयस्य उपयोग-सिद्धेस् तस्या 13705 कारणत्व-प्रसङ्गात् / यस्य एव भावे साध्य-सिद्धिस् तद् एव हि 13706 तत्र उपयोगि युक्तम् / तद्-अतिशय-उपयोगे अप्य् अस्य तद्वत् प्रसङ्गः / 13707 तस्माद् अतिशेत एव अव्यवहित-सामर्थ्य-उपयोगो अवस्था- 13708 भेदस् तद्-अन्यम् / अनतिशयस्य अपेक्षा च प्राग् एव निषिद्धा / 13709 स च करण-व्यापाराद् एव सिद्ध इति सर्व-कार्य-तुल्य-धर्मा / 13710 तस्य तादृशस्य व्यक्तौ सर्वं व्यङ्ग्यं न वा किंचिद् अप्य् 13711 अविशेषात् / तथा हि / 13712 स्व-ज्ञानेन अन्य-धी-हेतुः सिद्धे अर्थे व्यञ्जको मतः / 13713 यथा दीपो अन्यथा वा अपि को विशेषो अस्य कारकात् //262//
13714 स्व-प्रतिपत्ति-द्वारेण अन्य-प्रतिपत्ति-हेतुर् लोके व्यञ्जकः सिद्धः 13715 दीप-आदि-वत् स चेत् प्राक् सिद्धः स्यात् समान-जातीय-उपादान-क्षण-सिद्धेः / 13716 न तस्य एव अतिशयस्य ज्ञान-हेतोः तस्य तत्-सामग्री-प्रत्ययत्वात् / 13717 ये पुनर् असिद्ध-उपलम्भनाः कारका एव कुलाल-आदि-वद् 13718 घट-आदौ / प्रत्यभिज्ञान-आदयो अपि सिद्धि-हेतवो न हेतु-लक्षणं 13719 पुष्णन्ति / यद् अपि किंचिद् उत्तरा अकार-प्रतीतिर् अकार-प्रतीतेः पूर्व-अभिन्न- 13720 विषया तद्वद् इत्य् आदि / तद् अपि न स्वलक्षणयोर् अभेद- 13721 साधने समर्थम् / तत्-स्वभाव-सिद्धेः / सामान्येन वचने 13801 भिन्न-विषयत्वस्य अप्य् अविरोधः / एक-विषययोश् च प्रतीत्योः 13802 पूर्वापर-भाव-अयोगात् संनिहित-असंनिहित-कारणत्वेन उत्पाद-अनुत्पादात् 13803 संनिधाने अप्य् अनुत्पन्नस्य अतत्-कारणत्वात् तयोर् 13804 भिन्न-अखिल-कारणत्वम् / तत्र एक-अभेदे अपि शक्तस्य अप्रतीक्षणाद् 13805 युक्ति-विरुद्धं पूर्वापरयोः प्रतीत्योर् एक-विषयत्वम् / प्रतीति- 13806 प्रतिभास-स्वभाव-भेदे अपि नाम-साम्याद् एक-विषयत्वम् अप्य् 13807 अयुक्तम् / घट-आदिष्व् अपि प्रसङ्गात् / तत्र दृष्ट-विरोधाद् असाधनत्वम् 13808 इति चेत् / इह अपि विरोध-अभावः केन सिद्धः / यावत् तथा अभिधेयता- 13809 अर्थ-भेदेन व्याप्ता न साध्यते तावत् सन्दिग्धो 13810 व्यतिरेकः / प्रतिकरण-भेदं च भिन्न-स्वभावः शब्दः 13811 श्रुतौ निविशमानो यदा एकः साध्यते किं न घट-आदयः / तत्र 13812 अपि शक्यम् एवं व्यञ्जक-भेदात् प्रतिभास-भेद इति प्रत्यवस्थातुम् / 13813 अपि च / 13814 करणानां समग्राणां व्यापाराद् उपलब्धितः / 13815 नियमेन च कार्यत्वं व्यञ्जके तद्-असम्भवात् //263//
13816 न हि कदाचिद् व्यापृतेषु करणेषु शब्द-अनुपलब्धिः / न च अवश्यं 13817 व्यञ्जक-व्यापारो अर्थम् उपलम्भयति / क्वचित् प्रकाशे 13818 अपि घट-आद्य्-अनुपलब्धेः / सा इयं नियमेन उपलब्धिस् तद्-व्यापाराच् 13819 शब्दस्य तद्-उद्भवे स्यात् / अकर्तुर् व्यापारे अपि तत्-सिद्ध्य्-अयोगात् / 13820 व्यापि-नित्यत्वाद् उपलम्भ इति चेत् / क इदानीं घट-आदिषु 13821 समाश्वासः / तेषां तथा अनिष्टेर् इति चेत् / शब्दः किम् इष्टस् तत्-समान- 13822 धर्मा / न च अस्य कश्चिद् अतिशय इत्य् उक्तम् / प्रतिषिद्धे च 13823 व्यापि-नित्यत्वे / घट-आदीनां व्यञ्जक-अन्तर-सम्भवाद् अदोषः / 13824 प्रकाशो ह्य् एषां व्यञ्जकः सिद्धः / कुलाल-आदीनां व्यञ्जकत्वे 13825 तादृशा एव स्युः / अतिशेरते च / ततो व्यञ्जक-अतिशयात् कारका एव / 13826 उपकारकस्य गत्य्-अन्तर-अभावात् / तद् एतच् शब्देष्व् अपि तुल्यम् / 13827 तत्र अपि इन्द्रिय-योग्य-देशता-आदिभ्यः करणानाम् अतिशयात् / घट-आदि- 13828 कारक-धर्मस्य च करणेषु दृष्टेः / तस्य एव प्रदीप-आदेर् 13829 विषय-अन्तरस्य च कस्यचिद् व्यञ्जक-अन्तर-अभावात् / तत्- कारणानि 13830 तेषां व्यञ्जकानि स्युः / तस्मान् न व्यक्तिः शब्दस्य / भवन्ती 13901 वा करणेभ्यो अतिशयत्ता वा शब्दस्य व्यक्तिर् आवरण-विगमो 13902 विज्ञानं वा गत्य्-अन्तर-अभावात् / तत्र न अतिशय-उत्पत्तिर् अनित्यता- 13903 प्रसङ्गात् / तस्याः पूर्वापर-रूप-हान्य्-उपजनन-लक्षणत्वात् / 13904 अथ 13905 तद्-रूप-आवरणानां च व्यक्तिस् ते विगमो यदि / 13906 अभावे करण-ग्राम-सामर्थ्यं किं नु तद् भवेत् //264//
13907 न ह्य् आवरणस्य अकिंचित्कराणि करणानि समर्थानि नाम / विगमश् 13908 च अभावः / न च अभावः कार्यम् इति निवेदितम् एतत् / न अपि शब्दस्य 13909 नित्यस्य किंचिद् आवरणम् असामर्थ्याद् इत्य् अप्य् उक्तम् / 13910 तस्मान् न आवरणे करण-उपक्षेपः / न अप्य् एषाम् असामर्थ्यम् / तद्- 13911 व्यापार-अभावे शब्द-अनुपलब्धेः / अतो युक्तम् एते यच् शब्दान् 13912 कुर्युः / अन्यथा / 13913 शब्द-अविशेषाद् अन्येषाम् अपि व्यक्तिः प्रसज्यते / 13914 तथा अभ्युपगमे सर्व-कारणानां निरर्थता //265//
13915 यदि सर्व-कारण-समान-धर्माण्य् अपि करणानि व्यञ्जकानि न 13916 किंचिद् इदानीं कार्यं स्यात् / न च एतद् युक्तम् / सर्व-कारणानाम् 13917 आनर्थक्य-प्रसङ्गात् / वस्तुनो अनाधेयविशेषत्वात् / आवरण-अभावस्य 13918 अकार्यत्वात् / वस्तु-वद् एव ज्ञानस्य अपि सिद्धत्वात् / ज्ञानं 13919 प्रति कारकत्वे कस्यचित् तथाभूतानाम् अन्येषाम् अपि तथाभाव- 13920 प्रसङ्गेन सर्वस्य कार्यता-प्रसङ्गात् / तस्माद् अयं 13921 कारक-अभिमतो अर्थ-कलापो न व्यक्तौ न क्रियायाम् इति व्यर्थ 13922 एव स्यात् / तथा च इदम् अनुपकार्य-उपकारकं निरीहं जगत् स्यात् / 13923 शब्द-नित्यत्वे च / 13924 साधनं प्रत्यभिज्ञानं सत्-प्रयोग-आदि यन् मतम् / 13925 अनुदाहरणं सर्व-भावानां क्षण-भङ्गतः //266//
14001 क्षण-भङ्गिनो हि सर्व-भावा विनाशस्य अकारणत्वाद् इत्य् उक्तं 14002 वक्ष्यते च / उत्पत्तिमन्तश् च परतः / सत्ताया आकस्मिकत्व-अयोगात् / 14003 तन् न इदं प्रत्यभिज्ञानं सत्-प्रयोग-आदिकं क्वचिद् अन्वेति 14004 स्थिर-एक-रूपे / अपरापर-स्वभाव-परावृत्तिष्व् एव दीप-आदिषु 14005 दृष्टम् इति विरुद्धम् एव / न / अभिन्न-जन्मनः साधर्म्य-विप्रलम्भाद् 14006 भ्रान्त्या दीप-आदिषु भावात् / अभिन्न-जन्म इति केन अवष्टम्भेन 14007 उच्यते / तस्य एव अभेदस्य सर्वत्र पौर्वापर्येण 14008 चिन्त्यत्वात् / तथा भेदस्य अपि इति चेत् / तेन एव संशयो अस्तु / न च 14009 संशयितात् सिद्धिः / विवेक-अदर्शनाद् एकत्वम् इति चेत् / न / ज्ञान- 14010 पौर्वापर्येण सदसत्त्व-सिद्धेः / स्वभाव-विवेक-सद्भावात् / 14011 यद्य् अपराणि ज्ञानानि प्राक् संनिहित-कारणानि पूर्व-ज्ञान-वज् जातानि 14012 एव स्युः / अजातानि तु कारण-वैकल्यं सूचयन्ति / समर्थस्य 14013 जननाद् असमर्थस्य अपि पुनः सामर्थ्य-अप्रतिलम्भात् / 14014 प्रतिलम्भे वा स्थैर्य-अयोगात् / तद् अयम् सत्-प्रयोग इत्य् अपि जननम् 14015 एव प्रयोक्तुः सामर्थ्यात् / स्वयं समर्थे तस्य अनुपयोगात् / 14016 प्रयोग इत्य् अपि इष्ट-साधन-समर्थ-उत्पादनम् एव समान- 14017 जातीय-उपादान-अपेक्षम् अनपेक्षं वा वास्य्-आdi-prayoga-vat कर्म- 14018 आdi-prayoga-vac च कथ्यते / यो अपि मन्यते समक्षे प्रत्यभिज्ञानं 14019 प्रत्यक्षम् एव ततः प्रत्यक्षाद् एव स्थैर्य-सिद्धिर् 14020 इति / तद् अप्य् उत्तरत्र निषेत्स्यामः / 14021 दूष्यः कुहेतुर् अन्यो अपि / 14022 न एव कश्चिद् धर्मो यः समान-जातीयम् अन्वेति / सर्व-धर्माणाम् 14023 एतद्-अवस्थत्वात् / सर्व-स्थैर्य-प्रतिज्ञायाश् च यथा अभिधानं 14024 युक्ति-विरोधाद् अन्ये अपि नित्य-हेतवो वाच्य-दोषाः / 14025 बुद्धेर् अपुरुष-आश्रये / 14026 बाधा अभ्युपेत-प्रत्यक्ष-प्रतीत-अनुमितैः समम् //267//
14027 यदि व्यक्तिर् बुद्धिस् तदा आनुपूर्वी वाद्यम् / तस्या अपौरुषेयत्व- 14101 प्रसाधने बुद्धीनां पुरुष-गुणत्व-अभ्युपगमात् सम यो 14102 अस्य बाध्यते / प्रत्यक्षं खल्व् अप्य् एतद् यद् इमा बुद्धयः 14103 पुरुष-संख्यातेभ्यः पुरुष-गुणेभ्यो वा मनस्कार-आदिभ्यो 14104 भवन्ति इति / न च कार्यता नाम अन्या भाव-अभाव-विशेषाभ्याम् / 14105 स च भावः प्रत्यक्षो अभावो अप्य् अनुपलब्धि-लक्षणः प्रत्यक्ष- 14106 सामर्थ्य-सिद्ध इति वक्ष्यामः / तत एव पुरुष-कार्यता 14107 बुद्धीनाम् अनुमेय-अन्वय-व्यतिरेक-लिङ्गत्वाद् अस्याः / किं च / 14108 आनुपूर्व्याश् च वर्णेभ्यो भेदः स्फोटेन चिन्तितः / 14109 कल्पना-आरोपिता सा स्यात् कथं वा अपुरुष-आश्रया //268//
14110 वर्ण-व्यतिरेकिण्य् आनुपूर्वी स्फोट-विचार-अनुक्रमेण एव प्रतिविहिता / 14111 न अपि सा वर्ण-स्वभावा / वस्तु-स्वभावस्य एतद्-विकल्प -अनतिक्रमात् / 14112 अतद्-रूपेषु तद्-रूप-समारोप-प्रतिभासिन्या बुद्धेर् 14113 अयं विभ्रमः स्याद् आनुपूर्वी इति / सा च कथम् अपौरुषेयी / बुद्धि- 14114 विठपन-प्रत्युपस्थापनात् / अपि च / आत्यन्तिकस्य कस्यचित् 14115 स्वभावस्य अभावाद् भवता ध्वनिना अनात्यन्तिकेन भवितव्यम् / 14116 स च अहेतुको अन्य-हेतुको वा नित्यं भवेन् न च पुरुष- 14117 व्यापारात् / तस्मान् न अपौरुषेयः / कथम् इदं गम्यते अनात्यन्तिको 14118 ध्वनिर् अन्यो वा भाव इति / 14119 सत्ता-मात्र-अनुबन्धित्वान् नाशस्य अनित्यता ध्वनेः / 14120 न हि नाशो भावानां कुतश्चिद् भवति / तद् भाव-स्वभावो भवेत् / 14121 भावस्य एव स्व-हेतुभ्यस् तद्-धर्मणो भावात् / न च भाव- 14122 विशेष-स्वभावः / तस्य निषेत्स्यमानत्वात् / तस्माद् भाव- 14123 मात्र-स्वभावः स्यात् / तेन शब्दो अन्यो वा सत्ता-भाजनः सर्व 14124 एव भावो अनात्यन्तिक इति सिद्धम् / न सिद्धम् / तस्य एव विनाशस्य 14125 अपर-जन्म-असिद्धेः / तथा ह्य् अग्निना काष्ठं दण्डेन 14201 घट इति विनाश-हेतवो भावानां दृश्यन्ते / अन्वय-व्यतिरेक-अनुविधानं 14202 हेतु-तद्वतोर् लक्षणम् आहुः / न / पूर्वस्य स्व-रस- 14203 निरोधे अन्यस्य विशिष्ट-प्रत्यय-आश्रयेण विकृतस्य उत्पत्तेः / 14204 अस्तु वा अग्निः काष्ठ-विनाश-हेतुः / स विनाशो अग्नि-जन्मा किं काष्ठम् 14205 एव आहोस्विद् अर्थ-अन्तरम् / 14206 अग्नेर् अर्थ-अन्तर-उत्पत्तौ भवेत् काष्ठस्य दर्शनम् //269//
14207 अविनाशात् / 14208 किम् इत्य् अर्थ-अन्तराद् अर्थ-अन्तर-जन्मनि काष्ठम् अभूतं नाम 14209 न दृश्यते वा / अतिप्रसङ्गो ह्य् एवं स्यात् / 14210 स एव अस्य विनाश इति चेत् / 14211 यदि स एव अर्थो अग्नि-जन्मा अभावस् तद् इदम् अभूतत्वान् न दृश्यत 14212 इति / भवतु तस्य इदं नाम अभाव इति / तथा अपि 14213 कथम् / 14214 अन्यो अन्यस्य विनाशः / न हि कस्यचिद् अर्थस्य नाम-करण-मात्रेण 14215 काष्ठं न दृश्यत इति युक्तम् / न च अन्यो अन्यस्य विनाशः / 14216 अतिप्रसङ्गात् / विशेष-अभावात् तस्य अर्थान्तरत्वेन वस्तु-भूतस्य 14217 तद्-अन्येभ्यः / काष्ठे अग्नि-कृतः स्वभावो विनाशो न सर्व इति 14218 चेत् / काष्ठा इति कः सम्बन्धः / आश्रयाश्रयि सम्बन्धश् चेत् / 14219 न / तस्य निषेत्स्यमानत्वात् / जन्यजनकभावाश् चेत् / अग्नेर् इति 14220 किम् / काष्ठाद् एव भावात् / तद्-अपेक्षाद् उत्पत्तेर् अदोष इति चेत् / 14221 अनतिशय-लाभिनः का अपेक्षा / लाभे वा अपर-काष्ठ-जन्म स्यात् / 14222 पूर्वं त्व् अप्रच्युति-कारणम् / तथा एव दृश्यत / तत एव अग्नेः 14223 पूर्व-विनाश इति चेत् / पूर्वेण अस्य कः सम्बन्ध इति स एव प्रसङ्गो 14224 अपर्यवसानश् च / तद् अवश्यं विनाश-सम्बन्ध-योग्यम् उत्तरम् 14225 अतिशयं प्रत्युपकुर्वाणो अग्निर् अपूर्वम् एव जनयति इति 14226 पूर्वं तद्-अवस्थं दृश्येत / काष्ठ-विनाश इति च काष्ठ-अभाव 14301 उच्यते / न च अभावः कार्यः / तत्-कारी च अकारक एव इत्य् अनपेक्षणीय 14302 इत्य् उक्तम् / स्वभाव-अभावस्य च ततो भेदे ततो निवर्तमानस्य 14303 भावस्य स्वभाव एव समर्थितः स्याद् इति कथम् 14304 अभूतो नाम / तस्मान् न 14305 अन्यो अन्यस्य विनाशो अस्तु काष्ठं कस्मान् न दृश्यते //270//
14306 को अयम् अर्थ-अन्तर-भाव-काष्ठ-दर्शनयोर् विरोधः / 14307 तत्-परिग्रहतश् चेन् न तेन अनावरणं यतः / 14308 यदि तेन अर्थ-अन्तरेण परिगृहीतम् इति काष्ठं न दृश्येत तत् 14309 काष्ठस्य आवरणम् इत्य् आपन्नम् / न च एतद् युक्तम् / आवरणं 14310 हि दर्शनं बिबध्नीयान् न अभिघाट-आदीनि द्रव्य-सामर्थ्यानि / 14311 सर्व-प्रतिबन्धे च नन्व् अनेन एव द्रव्यं विनाशितं स्यात् / 14312 सर्व-शक्ति-प्रच्यावनात् / पुनस् तत्र अप्य् अग्नाव् इव प्रसङ्गाद् 14313 अनवस्था / अप्रच्युतेषु वा अस्य अभिघाट-सामर्थ्य-आदिषु सता वा 14314 तेन अन्येन किं विनाशितम् / यदि च अग्नि-समुद्भवस्य विनाश-आख्यस्य 14315 अर्थस्य परिग्रहात् काष्ठं न दृष्टम् / 14316 विनाशस्य विनाशित्वं स्याद् उत्पत्तेस् ततः पुनः //271//
14317 काष्ठस्य दर्शनं / 14318 अवश्यं ह्य् उत्पत्तिमता विनाशेन विनष्टव्यम् / तस्मिन् विनष्टे 14319 पुनः काष्ठ-आदीनाम् उन्मज्जनं स्यात् / 14320 हन्तृ-घाते चैत्र-अपुनर्भवः / 14321 यथा अत्र अप्य् एवम् इति चेद् धन्तुर् न अमरणत्वतः //272//
14322 विनाश-विनाशे अपि च वस्तुनः प्रत्यापत्तिः / न हि हन्तरि हते अपि 14323 तद्वतः प्रत्युज्जीवति इति चेत् / न / हन्तुस् तद्-घात-हेतुत्वात् / 14324 न ब्रूमो विनाश-हेतोर् अग्नि-दण्ड-आदेर् निवृत्तौ भावेन भवितव्यम् 14325 इति / किं तर्हि / भाव-अभावस्य अत्यन्त-अनुपलब्धि-लक्षणस्य / 14326 तन्-निवृत्तौ कान्या गतिः स्वभाव-स्थितेः / हन्ता हि चैत्रस्य 14327 न नाश-कल्पः / किं तर्हि / दण्ड-आदि-कल्पः / नाश-कल्पं 14401 ह्य् अस्य मरणं / तन्-निवृत्तौ च स्याद् एव अस्य पुनर्भावः / 14402 अनन्यत्वे अपि नाशस्य स्यान् नाशः काष्ठम् एव तु / 14403 तस्य सत्त्वाद् अहेतुत्वं न अतो अन्या विद्यते गतिः //273 / 14404 अनर्थ-अन्तर-भूतो विनाशः काष्ठात् / तद् एव तद् भवति / तच् 14405 च प्राग् एव अस्ति इति किम् अत्र सामर्थ्यं वह्न्य्-आदीनाम् / तस्मात् 14406 तद्-अनुपकारात् तेन न अपेक्ष्यन्ते कथंचित् / न अप्य् अस्य इदम् इति 14407 सम्बन्धम् अर्हति / तस्य उपकार-निबन्धनत्वात् / अन्यथा अतिप्रसङ्गात् / 14408 पारंपर्येण उपकारे अप्य् अवश्यम् अयं विकल्पो अन्वेति 14409 स किम् उपकारो अर्थ-अन्तरम् आहोस्वित् तद् एव इति / तद्-अर्थान्तरत्वे 14410 अपि तस्य इति पुनर् उपकारत्व-आदि-पर्यनुयोगस् तद्-अवस्था 14411 एव / तथा अनन्यत्वे / तस्मात् सतो रूपस्य तत्त्वान्यत्त्व-अव्यतिक्रमात् / 14412 उपकार-उत्पादनस्य च रूप-निष्पादन-लक्षणत्वात् / 14413 तd-atat-kriyआ-विकलो न कर्ता एव इति न कस्यचिद् हेतुर् अहेतुश् च 14414 न अपेक्षते / तस्मात् स्वयम् अयं भावस् तत्-स्वभाव इति सिद्धम् / 14415 अहेतुत्वे अपि नाशस्य नित्यत्वाद् भाव-नाशयोः//
14416 सहभाव-प्रसङ्गश् चेद् असतो नित्यता कुतः //274//
14417 स्याद् एतद् यस्य अपि विनाशो अहेतुकः सो अवश्यं नित्य इति भावस् 14418 तद्-अभाव-लक्षणो विनाशश् च सह स्याताम् इति / न / तस्य नित्य-अनित्य- 14419 धर्म-अयोगात् / न ह्य् असत्य् अयं विकल्पः सम्भवति / 14420 तयोर् वस्तु-धर्मत्वात् / विनाशस्य च अकिंचित्वात् / भवतो हि 14421 केनचित् सहभावः स्यात् / न च विनाशो भवति / तस्माद् अदोषः / 14422 असत्त्वे अभाव-नाशित्व-प्रसङ्गो अपि न युज्यते / 14423 यस्माद् भावस्य नाशेन न विनाशनम् इष्यते //275//
14424 कथम् असन् विनाशो भावं नाशयेत् / अतो अविनाशी भावः स्याद् 14425 इत्य् अप्रसङ्ग एव / विनाशाद् भाव-नाश-अनभ्युपगमात् / यो हि 14501 विनाश इति किंचिन् न इत्य् आह स कथं ततो भाव-नाशम् इच्छेत् / 14502 कथम् इदानीम् असति विनाशे भावो नष्टो नाम / न ह्य् असद्-विनाशा 14503 नष्टा गण्यन्ते प्रत्युत्पन्न-अवस्थायाम् / न हि यो येन अतद्वान् 14504 स तेन तथा व्यपदिश्यते प्रतीयते वा / यथा अश्वो विषाणेन / 14505 न वै विनाशो न अस्त्य् एव / स तु न अस्ति यो भावस्य भवन्ति / भाव 14506 एव तु क्षण-स्थिति-धर्मा विनाशः / तम् अस्य स्वभावम् उत्तर- 14507 कालं विभावयन्तो विनाशो अस्य भूत इति यथा-प्रतीति व्यपदिशन्ति 14508 इत्य् उक्तम् / न हि भावस्य किंचित् कदाचिद् भवति / स एव 14509 केवलं स्व-हेतुभ्यस् तथाभूतो भवति / तन् न केनचिद् भवता 14510 स नष्टः / किं तर्हि / स्वभाव एव अस्य येन स नष्टो नाम / 14511 कथं तर्हि इदानीम् अहेतुको विनाशो भवति इत्य् उच्यते / 14512 नश्यन् भावो अपर-अपेक्ष इति तज्-ज्ञापनाय सा / 14513 अवस्था अहेतुर् उक्ता अस्या भेदम् आरोप्य चेतसा //276//
14514 न भावो जातो अपरस्मान् नाशं प्रतिलभते तथाभूतस्य एव 14515 स्वयं जातेर् इत्य् अपर-अपेक्ष-धर्म-अन्तर-प्रतिषेध-अर्थं तत्- 14516 स्वभाव-ज्ञापनेन अर्थ-अन्तरम् इव धर्मिणो धर्मं चेतसा 14517 विभज्य तन्-मात्र-जिज्ञासायां स्वभाव एव तथा उच्यते / तद् एतन् 14518 मन्द-बुद्धयः क्वचित् तथा दर्शनाद् घोष-मात्र-विप्रलब्धा 14519 नाशं गुणं तस्य च भावम् आरोप्य सहेतुकम् अहेतुकं 14520 वा अप्रतिष्ठित-तत्त्वया भाव-चिन्तया आत्मानम् आकुलयन्ति / 14521 स्वतो अपि भावे अभावस्य विकल्पश् चेद् अयं समः / 14522 नन्व् अपरभावित्वे अपि विनाशस्य स्वत एव भावस्य भवतो 14523 अयं तत्त्वान्यत्त्व-विकल्पस् तुल्यः / तदा किम् अर्थ-अन्तर-भावे 14524 भावो न दृश्यते अनर्थान्तरत्वे अपि तद् एव तद् भवति / 14525 तन् न किंचिद् अस्य जातम् इति कथं विनष्टो नाम / नन्व् अत्र / 14526 न तस्य किंचिद् भवति न भवत्य् एव केवलम् //277//
14527 इत्य् उक्तम् / न ह्य् अयं विनाशो अन्यो वा कश्चिद् भावस्य भवति इत्य् 14528 आह / किं तर्हि / स एव भावो न भवति इति / यदि हि कस्यचिद् भावं 14529 ब्रूयात् न भावो अनेन निवर्तितः स्यात् / तथा च भाव-निवृत्तौ 14530 प्रस्तुतायाम् अप्रस्तुतम् एव उक्तं स्यात् / न हि कस्यचिद् 14531 भावेन भावो न भूतो नाम / तदा न भूतो यदि स्वयं न 14601 भवेत् / न भवति इति च प्रसज्यप्रतिषेध एष न पर्युदासः / 14602 अन्यथा इह अपि कस्यचिद् भावे न प्रतिषेध-पर्युदासयो रूप- 14603 भेदः स्याद् उभयत्र विधेः प्राधान्यात् / एवं च अप्रतिषेधात् 14604 कस्यचित् पर्युदासो अपि क्वचिन् न स्यात् / यदि हि किंचित् कुतश्चिन् 14605 निवर्तेत तदा तद्-व्यतिरेकि संस्पृश्येत / तत्-पर्युदासेन / तच् 14606 च न अस्ति / सर्वत्र निवृत्तिर् भवति इत्य् उक्ते कस्यचिद् भावस्य एव 14607 प्रतीतिः / तथा च अनेन अर्थ-अन्तर-भाव एव उक्तः स्यात् / न तयोः 14608 परस्परं विवेकः / अविवेके च न पर्युदासः / तद् एवं व्यतिरेक- 14609 अभावाद् अन्वयो अपि न स्यात् / तस्य एक-स्वभाव-स्थिति-लक्षणत्वात् / 14610 तत्-स्थितिश् च तd-anya-vyatirekए सति स्यात् / स च न अस्ति इत्य् अप्रवृत्ति- 14611 निवृत्तिकं जगत् स्यात् / तस्माद् यस्य नाशो भवति इत्य् उच्यते स 14612 स्वयम् एव न भवति इत्य् उक्तं स्यात् / न वै घोष-साम्याद् विषय- 14613 अन्तर-दृष्टो विधिः सर्वत्र योजनाम् अर्हति / न हि गर्दभ इति 14614 नाम-करणाद् बालेय-धर्मा मनुष्ये अपि संयोज्याः / तथा न 14615 चैत्रस्य पुत्रो भवति इत्य् अत्र दृष्टो विधिर् नाशे अपि विरोधात् / 14616 एवं च अभिधाने अपि प्रयोजनम् आवेदितम् एव /
अतः 14617 भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्व्-अनुरोधतः / 14618 भावो अवश्यं भवन्तम् अपेक्षते / स च स्वभाव एव / निःस्वभावस्य 14619 क्वचिद् व्यापारे समावेश-अभावात् / व्यापार इति हि 14620 तथाभूत-स्वभाव-उत्पत्तिः / सा निःस्वभावस्य कथं स्यात् / 14621 कथम् इदानीं भवत्य् अभावः शश-विषाणम् इत्य् आदि-व्यवहारः / 14622 न वै शश-विषाणं किंचिद् भवति इत्य् उच्यते / अपि त्व् एवम् 14623 अस्य न भवति इति भाव-प्रतिषेध एव क्रियते / अपि च / व्यवहर्तार 14624 एव एतद् एवं व्यापार-वद् इव समारोप्य आदर्शयन्ति 14625 प्रकरणेन केनचित् / न तु तत् तथा / सर्व-अर्थ-विवेचनं हि 14626 तत्र तत्त्वं न कस्यचित् समावेशः / न खल्व् एवं विनाशो वस्तुनि 14627 तद्-भावात् / असाव् अपि यदि वक्तृभिर् एवं ख्याप्यते न 14628 तु स्वयं तथा तदा न किंचिद् भवति इति इष्टम् एव / तस्मात् स्वयं 14701 भवन् स्वभावो विकल्प-द्वयं न अतिवर्तते तत्त्वम् अन्यत्त्वम् 14702 इति / अतत्त्वम् एव स्वभावस्य अन्यत्त्वम् / न हि रूप-रसयोर् 14703 अप्य् अन्यद् एव परस्परम् अन्यत्त्वम् / स्वभाव-अप्रतिबन्धो 14704 अन्यत्त्वम् इति चेत् / को अयं प्रतिबन्धो नाम येन स च न 14705 स्यात् / न अन्य-स्वभावश् च / जन्म इति चेत् / सर्व-कारणानां परस्परम् 14706 अवाच्यता स्यात् / तथा च सर्वः सर्वस्य कथंचिद् उपयोगि 14707 इति न कश्चित् कुतश्चिद् अन्यः स्यात् / एवं च अवाच्यता इत्य् अपि कार्यकारणभाव 14708 एव शब्द-अन्तरेण उक्तः स्यात् / न अर्थ-भेदः / स्वभाव-अननुगमनं 14709 त्व् अन्यत्त्वं ब्रूमः / स च स्वभाववतां परस्परम् 14710 अस्त्य् एव इत्य् अन्यत्त्वम् एव /
न च तज्-जन्म-लक्षणात् 14711 स्वभावप्रतिबन्धाद् अन्यः प्रतिबन्धो नाम / अनायत्तस्य 14712 व्यभिचार-अविरोधात् / ततो धर्म-भेदाच् च अन्यत्त्वम् / ज्ञान-कृतः 14713 प्रतिबन्ध इति चेत् / स्याद् एतत् / यत्-प्रतिपत्ति-नान्तरीयकं 14714 यज्-ज्ञानं तद्-गतौ नियमेन तत्-प्रतिभासनात् तद् अतद्-रूपम् 14715 अप्य् अवाच्यम् इति / न / तस्य निःस्वभावत्वात् स्वयम् / स एव हि 14716 तस्य स्वभावो यः प्रतिभाति / स्वभाववत्त्वे अस्य तद्वत् प्रतिभास- 14717 प्रसङ्गात् / अप्रतिभासमानस्य च दृश्य-अभावात् / अदृश्यत्वे 14718 अपि न तद्-रूपं ज्ञानम् इति कस्य किम् आयत्ता प्रतिपत्तिः / न 14719 च यद् यद् आयत्ता-प्रतीतिकं तस्य स्वभाव-प्रतिभास एव नश्यति / 14720 प्रकाश-आयत्त-प्रतीतीनाम् इव नील-आदीनाम् / का वा तस्य प्रत्यासत्तिः / 14721 तत्र यत् तस्मिन्न् अनात्म-रूपे प्रतीयमाने स स्वयं 14722 प्रत्युपतिष्ठते / अतिप्रसङ्गो ह्य् एवं स्यात् / प्रतीयमानस्य 14723 तद्-उपादानता इति चेत् / को अयम् उपादान-अर्थः / न कार्यकारणभावो 14724 अनभ्युपगमात् / अभ्युपगमे वा न कार्य-कारणे अन्योन्य- 14725 प्रतीति-प्रत्युपस्थापने / प्रतीतेर् एव तन्-नान्तरीयकता 14726 प्रत्यासत्तिर् इति चेत् / ननु स एव असति प्रतिबन्धे न युक्ता इत्य् उच्यते / 14801 न अकार्य-कारणयोः कश्चित् प्रतिबन्ध इति च उक्तम् / यत् -प्रतिपत्ति- 14802 नान्तरीयकं यज्-ज्ञानम् इत्य् अपि तज्-ज्ञाने सति स्यात् / न हि यो 14803 विज्ञाने स्वरूपेण अस्वरूप-असंसर्गेण न प्रतिभासते तस्य किंचिज् 14804 ज्ञानम् / तद्-अभावान् न सिध्यति अवाच्यता-लक्षणम् अर्थ- 14805 रूपस्य / तद् भवता वस्तुतस् तत्त्वान्यत्त्व-भाजा भवितव्यम् /
14806 यस्य तु विनश्यतो भावस्य न किंचिद् भवति / तेन 14807 न भावो भवति इत्य् उक्तम् अभावो भवति इत्य् अपि //278//
14808 यद् अप्य् अयं भावस्य अभावो भवति इत्य् आह / तद् अपि भावो 14809 न भवति इत्य् एव उक्तं भवति / एवं हि स निवर्तितो भवति / 14810 प्रतिषेधे विधेर् असम्भवात् / तत एव अस्य विनाशे न कश्चिद् हेतुः / 14811 तथा हि / 14812 अपेक्ष्येत परः कार्यं यदि विद्यत किंचन / 14813 यद् अकिंचित्करं वस्तु किं केनचिद् अपेक्ष्यते //279//
14814 सति हि कार्ये कारणं भवति / न च नश्यतो भावस्य किंचित् 14815 कार्यम् इत्य् उक्तम् / तस्माद् यो नाम नाश-हेतुः स भावे न 14816 किंचित् करोति इत्य् अकिंचित्करो न अपेक्ष्यणीयः / तत् कथं इदानीम् 14817 अनुत्पन्न-अतिशयस् तद्-अवस्थ एव भावो नष्टो नाम / 14818 नन्व् अतिशय-उत्पत्ताव् अपि स एव तस्य अतिशय उत्पन्न इति कथं 14819 स नष्टो नाम / तेन न अयं तद्-अवस्थो नष्टो नाम / येन स्वयं 14820 न भवति तेन नष्टः / न अर्थ-अन्तर-उत्पादाद् इत्य् उक्तम् / न ह्य् 14821 अतिशय-उत्पत्त्या स्वयं न भूतो नाम / अभावस्य सर्व-अतिशय-उपाख्या- 14822 निवृत्त्या सर्व-भाव-धर्म-विवेक-लक्षणत्वात् / भावस्य 14823 च उत्पत्ति-समावेश-लक्षणत्वात् / तस्मान् न अभावे कस्यचिद् भाव-उपक्षेपो 14824 अन्यस्य / 14825 एतेन अहेतुकत्वे अपि ह्य् अभूत्वा नाश-भावतः / 14826 सत्ता-नाशित्व-दोषस्य प्रत्याख्यातं प्रसञ्जनम् //280//
14827 यो अपि मन्यते अहेतुके अपि विनाशे अभूत्वा अस्य भावात् सत्ता-अनित्यत्वं 14901 च दुर्निवारम् / अभूत्वा भवन्न् अहेतुको भवति इत्य् अपि 14902 विरुद्धम् इति / सो अप्य् अनेन एव प्रत्याख्यातः / कस्यचिद् भावान् अभ्युपगमात् / 14904 यथा केषांचिद् एव इष्टः प्रतिघो जन्मिनां तथा / 14905 नाशः स्वभावो भावानां न अनुत्पत्तिमतां यदि //281//
14906 अथ अपि स्याद् / भवतु नाम स्वभाव एष भावानां य इमे क्षण- 14907 स्थिति-धर्माणाः / स तु उत्पत्तिमताम् एव भविष्यति / न हि स्वभाव 14908 इति सर्वः सर्वस्य स्वभावो भवति प्रतिघ-आत्मता-वत् / 14909 सत्यम् एतत् / तथा अपि / 14910 स्वभाव-नियमाद् हेतोः स्वभाव-नियमः फले / 14911 न अनित्ये रूप-भेदो अस्ति भेदकानाम् अभावतः //282//
14912 न वै प्रतिघो अन्यो वा स्वभावो अकस्मात् प्रतिनियमवान् / यादृशी 14913 तु स्व-हेतोः शक्ति-स्थितिस् तादृशं फलं भवति इति हेतु-स्वभाव- 14914 नियमात् फल-स्वभाव-नियमः / आकस्मिकत्वे अप्य् अस्य उक्तो 14915 दोषः / प्रतिघात-आत्मता-हेतु-स्वभाव-प्रतिनियमवन् न नश्वर- 14916 जनन-प्रतिनियत-स्वभावं भावं पश्यामः / येन तज्-जन्मा 14917 तथा स्यान् न अन्यः / सर्व-आकार-जन्मनां विनाश-दर्शनात् / 14918 नन्व् इदम् अप्य् अनिश्चेयम् एव सर्व-आकार-जन्मानो नश्यन्ति इति / 14919 तासाम् अनिःशेष-दर्शनात् / विचित्र-शक्तयो हि सामग्र्यो दृश्यन्ते / 14920 तत्र काचित् स्याद् अपि या अनश्वर-आत्मानं जनयेत् / न / ज्ञेय-अधिकारात् / 14921 ये कदाचित् क्वचित् केनचिज् ज्ञाताः सन्तो न ज्ञायन्ते 14922 तेषां सत्ता-अनुबन्धी नाश इति ब्रूमः / त एव कृतका अनित्याः 14923 साध्यन्ते / न ह्य् अयं सम्भवो अस्ति यत् ते ज्ञान-जनन- 14924 स्वभावाः पुनर् अनष्टा न जनयेयुर् अपेक्षेरन् वा परम् / 14925 तज्-जनन-स्वभावस्य निष्पत्तेः / न च तेष्व् अनपेक्षेषु कस्यचित् 14926 कदाचित् किंचिज् ज्ञानं निवर्तेत / न च एवंभूतं किंचिद् अस्ति / 14927 सर्वस्य केनचित् कदाचित् ज्ञानात् / ज्ञान-मात्र-अर्थक्रियायाम् अप्य् 15001 असामर्थ्ये वस्त्व् एव न स्यात् / तथा हि तल्-लक्षणं वस्त्व् इति 15002 वक्ष्यामः / तस्य च विनाश-अव्यभिचारात् स सत्ता-अनुबन्धी / 15003 प्रत्याख्येया अत एव एषां सम्बन्धस्य अपि नित्यता / 15004 अत एव यथा उक्ताद् वस्तु-मात्र-अनुबन्धाद् विनाशस्य शब्द-वत् 15005 सम्बन्ध-नित्यता अपि प्रत्याख्येया / या च शब्द-शक्तिर् योग्यता-आख्या 15006 अर्थ-प्रतिपत्त्या आश्रयो जैमिनीयैर् वर्ण्यते स अर्थ-अन्तरम् 15007 एव न भवति / तथा हि / योग्यता इति रूप-अतिशय एव भावानाम् इत्य् 15008 आवेदितं प्राक् / अस्तु वा अर्थ-अन्तरम् / तथा अपि 15009 सम्बन्ध-दोषैः प्राग् उक्तैः शब्द-शक्तिश् च दूषिता //283//
15010 उक्तो हि सम्बन्ध-अर्थ-अन्तर-वादे अनेक-प्रकारो दोषः / तेन एव 15011 सा शब्द-शक्तिर् दूषिता इति न पुनर् उच्यते / अपि च / 15012 न अपौरुषेयम् इत्य् एव यथा अर्थ-ज्ञान-साधनम् / 15013 दृष्टो अन्यथा अपि वह्न्य्-आदिर् अदुष्टः पुरुष-आगसा //284//
15014 भवन्तु नाम अपौरुषेया वैदिकाः शब्दाः तथा अपि सम्भाव्यम् 15015 एव एषाम् अयथार्थ-ज्ञान-हेतुत्वम् / न हि पुरुष-दोष-उपधानाद् 15016 एव अर्थेषु ज्ञान-विभ्रमः / तद्-रहितानाम् अपि प्रदीप-आदीनां नील-उत्पल- 15017 आदिषु वितथ-ज्ञान-जननात् / तद् इमे शब्दाः संस्कार-निरपेक्षाः 15018 प्रकृत्या च अर्थेषु प्रतिभान-हेतवः स्युः / स्वभाव-विशेषाद् 15019 वह्न्य्-आदि-वत् / वितथ-व्यक्तयश् च नियमेन एव नियम- 15020 कारण-अभावाद् अयुक्तम् इति चेत् / अवितथ-व्यक्ति-नियमे किं 15021 कारणम् / तस्माद् यथार्थ-व्यक्त्i-niyama-vat प्रकृत्या अयथार्थ- 15022 व्यक्ति-नियमः किं न कल्प्यते / अथवा वह्न्य्-आदि-वद् एव अर्थेषु 15023 उभय-ज्ञान-हेतुत्वं स्यात् / न ह्य् अपौरुषेया अपि वह्न्य्-आदय 15024 एकत्र यथार्थ-ज्ञान-हेतवो अपि सर्वत्र तथा भवन्ति इति / 15025 तथा शब्दानाम् अप्य् अपौरुषेयत्वे अप्य् उभयं स्याद् इति / भवतु 15026 वह्न्य्-आदीनाम् कृतकत्वाद् यथा-प्रत्ययम् अन्यत्र अन्यथात्वम् 15027 न पुनर् नित्येषु शब्देष्व् एतद् अस्ति / नन्व् एवंविधो अन्यत्र 15028 अप्य् अस्त्य् एव धर्मस् तेषाम् अपि संकेत-बलाद् अन्यथा-वृत्तेः 15029 कार्य-जनन-स्वभाव-स्थितौ च एषां समय-आदेर् अपेक्षणीयस्य अभावात् / 15101 ततः प्रतीतिर् अर्थेषु सर्वस्य सर्वदा स्यात् / न च अस्ति 15102 तस्मान् न शब्दाः स्थित-स्वभावा इति / अपि च / 15103 न ज्ञान-हेतुता एव स्यात् तस्मिन्न् अकृतके मते / 15104 नित्येभ्यो अवस्तु-सामर्थ्यान् न हि जन्म अस्ति कस्यचित् //285//
15105 यद्य् अकृतकः शब्दो न तस्माद् अर्थेषु प्रतीतिर् एव स्यात् / प्रतीति- 15106 जन्म-इतर-कालयोस् तुल्य-रूपस्य प्रतीति-जन्मनि सामर्थ्य- 15107 सम्भावना-अयोगात् / एवम् अयं जनको न एवम् इति विवेचनीयस्य 15108 रूप-भेदस्य अभावात् / न यादृशो अस्य अजनकस् तादृश एव जनको 15109 युक्तः / अन्य-अपेक्षा अपि निषिद्धा एव / तस्मान् न नित्यानां क्वचिद् 15110 विज्ञान-जनन-सामर्थ्यम् / कदाचिद् अजनने नित्यम् अजनन- प्रसङ्गात् / 15111 कार्य-सातत्य-अदर्शनाच् च न ते कथंचित् कर्तार इत्य् 15112 उक्त-प्रायम् / या अप्य् एता नित्य-अभिमतेष्व् आकाश-आदिषु प्रतिपत्तयस् 15113 ता अपि न तत्-स्वभाव-भाविन्यः / तथा हि / 15114 विकल्प-वासना-उद्भूताः समारोपित-गोचराः / 15115 जायन्ते बुद्धयस् तत्र केवलं न अर्थ-गोचराः //286//
15116 स्वलक्षण-विषया हि बुद्धिर् नियमेन तद्-योग्यता-उपस्थापन-अनुविधायिनी 15117 इति तस्मिन् सत्य् अस्याः कारणे योग्ये सा भवत्य् एव / 15118 तद् यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित् ज्ञानं स्यात् 15119 सर्वस्य सर्वदा स्यात् / कार्य-विशेषा हि व्यक्तयः कथंचित् 15120 क्वचिद् उपयुज्यमानास् तद्-उपजनन-योग्य-अतिशय-प्रतिलम्भ-हेतुम् 15121 वस्तु-विशेषम् अपेक्षन्त इति युक्तम् / तथा अकार्य-विशेषो नित्यो 15122 भावः केनचिद् गृह्यमाणस् तत्-कारण-अपेक्षो यदि ग्रहणम् अस्य 15123 जनयेत् युक्तं यत् तेन एव गृह्येत / तच् च स्थित-स्वभावत्वान् 15124 न सम्भवति इति / सर्वेण समं गृह्येत न वा केनचिद् इति 15125 सन् केनचिद् दृष्टो न नित्यः कश्चिद् अतीन्द्रियः स्यात् / न च एतद् अस्ति / 15126 तस्माद् अर्थ-सामर्थ्य-अनपेक्षाः समारोपित-गोचरा आन्तरम् एव उपादानं 15127 विकल्प-वासना-प्रबोधम् आश्रित्य बाह्य-अर्थ-शून्या भ्रान्तय 15128 एव आकाश-आदिषु सर्वस्य सम्भवन्ति इति / तस्मान् न अपरावृत्ति- 15201 धर्माः शब्दाः / तत्त्वे वा कुत एतद् अवितथ-अर्थ-प्रतीतय 15202 एव इति / न ह्य् अग्निर् हिमस्य भेषजम् इत्य् आदिषु शीत-प्रतिघात- 15203 सामर्थ्यं लोक-प्रसिद्धं अग्नेः ख्याप्यत इति सर्वं तथा 15204 भवति / लोकस्य स्व-इच्छा-कृत-संकेत-अनुव्यवहारात् किम् अयं 15205 लोकः स्व-संकेतम् अनुविदधद् एवं प्रत्येति आहोस्विच् शब्द- 15206 स्वभाव-स्थितेर् इति सन्देहः / लोक-इच्छया अपि परावर्त्यमानाः 15207 शब्दाः पुनर् अन्यत्र अन्यथा दृश्यन्त इति लोक-प्रसिद्ध्य्-अनुविधाने 15208 अपि सम्भवत्य् एषाम् अन्यथाभावः / तस्मात् कस्यचिद् अवैपरीत्य- 15209 दर्शने अपि सर्वेषां तथाभावो न सिध्यति / अकृतक-स्वभावत्वे 15210 अपि ह्य् एषां कश्चिन् मिथ्या-अर्थ-नियतो अपि स्याद् इति स्वभाव- 15211 अपरिज्ञानात् सर्वत्र संशयः स्यात् / 15212 मिथ्यात्वं कृतकेष्व् एव दृष्टम् इत्य् अकृतं वचः / 15213 सत्य-अर्थं व्यतिरेकस्य विरोधि-व्यापनाद् यदि //287//
15214 अथ यन् मिथ्या-अर्थं वचनं तद् अखिलं कृतकम् इति हेतु-व्यतिरेकेण 15215 साध्य-व्यतिरेकस्य व्याप्तेर् अन्यत्र असम्भवाद् अकृतकं 15216 सत्य-अर्थम् इति स्याद् विना अप्य् अन्वयेन / यो हि येन अव्याप्तस् 15217 तत्र तद्-व्यतिरेकः शङ्क्येत / न च विरुद्धयोर् एकत्र सम्भवो 15218 अस्ति / असम्भवे च विजातीयस्य गत्य्-अन्तर-अभावाद् इष्ट-अर्थ-सिद्धेस् 15219 तत्-साधनत्वाच् च लिङ्गस्य व्यर्थम् अन्वय-दर्शनं 15220 व्यतिरेक-मात्रेण एव सिद्धेर् इति / सत्यम् एतत् यदि विपक्षयोर् 15221 व्याप्यव्यापकभावः सिध्येत् / स तु न सिद्धः / यस्मात् 15222 हेताव् असम्भवे अनुक्ते भावस् तस्य अपि शङ्क्यते / 15223 विरुद्धानां पदार्थानाम् अपि व्यापक-दर्शनात् //288//
15224 यदि हेतोः साध्य-विपक्षे अभावः सिध्येत् तदा साध्य-व्यतिरेकं 15225 हेतु-व्यतिरेको व्याप्नुयात् / न च तत्र तस्य असम्भवे 15226 प्रमाणं पश्यामः / न च अविरुद्ध-विधिः प्रतिषेध-साधनो 15227 युक्तः / अतिप्रसङ्गात् / न च एकत्र दृष्टस्य अन्यत्र असम्भव 15228 एव पृथग् विरुद्ध-सहभाविनाम् अपि दर्शनात् / अनित्यत्व-वत् 15229 प्रयत्नानन्तरीयक-इतरयोर् / न च तथाविधस्य अदर्शनाद् असत्त्वम् 15230 एव / यस्मात् / 15301 न असत्ता-सिद्धिर् इत्य् उक्तं सर्वतो अनुपलम्भनात् / 15302 असिद्धायाम् असत्तायां सन्दिग्धा व्यतिरेकिता //289//
15303 न ह्य् अयं पुरुष-मात्रकः सर्वं द्रष्टुं समर्थो येन अस्य 15304 दर्शन-निवृत्त्या न तथा स्यात् / यस्य हि ज्ञानं ज्ञेय-सत्तां 15305 न व्यभिचरति स एवं ब्रुवाणः शोभेत अदर्शनान् न अस्ति इति / 15306 तद् इमे स्वभाव-देश-काल-विप्रकर्षेण सन्तो अप्य् अनुपलक्ष्याः 15307 स्युः / तथा हि / को अत्यन्तपरोक्षे अर्थे संवादनम् इतरद् 15308 वा सर्व-दर्शी वचनस्य अकृतकस्य इतरस्य वा विभावयितुं समर्थः / 15309 प्रतिपादितं च एतत् क्वचित् तथा दृष्टानाम् अप्य् अर्थानां 15310 पुनः कथंचिद् अन्यथाभावः यथा क्वचिद् देशे मधुराणि 15311 निम्ब-फलानि संस्कार-विशेषाद् आमलकी-फलानि च न 15312 च इदानीम् अतद्-दर्शिना तानि प्रतिक्षेप्तव्यान्य् एव इति / तस्माद् अकृतकं 15313 च स्याद् स्यान् मिथ्या-अर्थं च इति न विरोधं पश्यामः / न 15314 हि इयम् अनुपलब्धिर् अदृश्य-आत्मस्व् अभाव-साधिका इत्य् उक्तम् / तेन 15315 यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इत्य् अनिश्चयाद् 15316 अव्याप्तिः / तथा हि / 15317 अन्वयो व्यतिरेको वा सत्त्वं वा साध्य-धर्मिणि / 15318 तन्-निश्चय-फलैर् ज्ञानैः सिध्यन्ति यदि साधनम् //290//
15319 तथा च उक्तम् / य एव तु उभय-निश्चित-वाची स साधनम् दूषणम् 15320 वा न अन्यतर-प्रसिद्ध-सन्दिग्ध-वाची पुनः साधन-अपेक्षत्वाद् 15321 इति / को ह्य् अदृष्ट-विरोधस्य सम्भवं प्रत्याचक्षीत / तद् अयं 15322 व्यतिरेकः संशयाद् असाधनम् / अपि च / 15323 यत्र साध्य-विपक्षस्य वर्ण्यते व्यतिरेकिता / 15324 स एव अस्य सपक्षः स्यात् सर्वो हेतुर् अतो अन्वयी //291//
15401 यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इति हेतु-विपक्षेण 15402 साध्य-विपक्षस्य व्याप्तिस् तद्-अभावे अभाव-सिद्धौ स्यात् / तद्-अभावे 15403 भवतस् तेन व्याप्त्य्-अयोगात् / या एव च विजातीययोर् व्यावृत्ति-सिद्धिः 15404 सा एव अन्वय-स्थितिर् विपक्ष-व्यवच्छेद-लक्षणत्वात् साध्यस्य / 15405 प्रतिषेध-द्वयाच् च विधि-सिद्धिर् इति का अनन्वय-अव्यतिरेक-व्याप्ति- 15406 सिद्धिः / तन् न कश्चिद् हेतुर् अनन्वयो नाम / एक-व्यवच्छेदस्य 15407 तद्-विजातीय-सिद्धि-नान्तरीयकत्वात् / अनित्य-निरात्मता-आदि-व्यवच्छेदे 15408 अपि तथा स्यात् / न / व्यतिरेक-व्यवच्छेदस्य भाव-रूपत्वात् / 15409 न भाव-रूप-व्यवच्छेदे भाव-अनुषङ्गः / अभाव-व्यवच्छेदस् 15410 तु नियमेन भाव-उपस्थापनः / भाव-अभावयोर् अन्योन्य-विवेक- 15411 रूपत्वात् / अभाव-रूपस् तु व्यतिरेकः स च व्यतिरिच्यमानो 15412 भावम् उपस्थापयति न एवं नैरात्म्य-आदयः स्वभाव-विशेषात् / 15413 क्रिया-भोग-अधिष्ठान-अस्वतन्त्रो ह्य् आत्मा निरात्मा / तत्-स्वातन्त्र्य- 15414 लक्षणत्वाद् आत्मनः / तद् रूपं नैरात्म्यं न आत्म-निवृत्ति- 15415 मात्रम् अन्यथा निरुपाख्ये कृतकत्व-आद्य्-अयोगान् न ततो नैरात्म्य- 15416 सिद्धिः स्यात् / आत्म-व्यवच्छेदेन निरात्मनो भावस्य परामर्शाद् 15417 अदोष इति चेत् / पर्युदासेन वस्तु-संस्पर्शाद् तद् एव 15418 वस्तु-रूपं नैरात्म्यम् आयातम् / यस्य अपि न अभाव-रूपो व्यतिरेकस् 15419 तस्य भाव-रूप-व्यवच्छेदे न भाव-सिद्धिः स्याद् इति 15420 न अन्वय-अनुषङ्गः / तथा अनैरात्म्ये अपि न भाव-सिद्धिः /
यथा 15421 न इदं निरात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति विपक्षयोर् 15422 व्याप्यव्यापकभाव-चिन्तायाम् अप्राण-आदिमत्त्व एव नैरात्म्यं 15423 दृष्टम् / तद्-अभावे च न अस्ति इति स्वयं न भवद् अपि प्राण-आदीनां 15424 न आत्मनि सिद्धिम् उपस्थापयति / तथा साध्ये अपि प्राण-आदिभिर् 15425 व्युदस्यमानं स्यात् केवलम् / नैरात्म्ये अभावात् प्राण- 15426 आदयस् तन्-निरसना न आत्म-उपस्थापनाः / तत्र भाव-असिद्धेः / 15427 न च नैरात्म्य-निवृत्त्या आत्म-सिद्धिः स्यात् / विपक्ष-व्यतिरेक-दर्शने 15428 अपि प्रसङ्गात् / तन् न विपर्यय-व्याप्तिर् व्यतिरेक-असिद्धौ / 15429 तत्-सिद्धिर् एव च अन्वय-सिद्धिः / असिद्धौ वा तद्-व्यतिरेक-निवृत्ति- 15430 सिद्धाव् अपि तद्-असिद्धिर् इति साध्ये अपि प्रसङ्गः / तन् न अनन्वया 15431 व्यतिरेक-व्याप्तिः / मिथ्या-अर्थतायास् तु पौरुषेयत्वेन व्याप्त्या 15501 अपौरुषेयान् निवृत्ताव् अपि न सत्य-अर्थत्वम् / प्रकार-अन्तर-सम्भवात् / 15502 द्वैराश्ये तु शब्दानाम् एतत् स्याद् एक-निवृत्तौ गत्य्-अन्तर- 15503 अभावात् / ते त्व् अनर्थका अपि स्युर् इति न इष्टसिद्धिः / अर्थ-प्रतीतेर् 15504 न अनर्थका इति चेत् / एष पुरुष-व्यापारः स्यात् / अर्थ-अन्तर-विकल्प-वत् / 15505 यथा अतद्-अर्थत्वे अपि भरत-उर्वश्य्-आदि-चरित-आदिकम् अर्थम् 15506 अन्ये अन्यथा व्याचक्षते / तद्-अनुसारेण च केषांचित् प्रतीतिः / 15507 तथा अयम् अनर्थकेष्व् अर्थ-विकल्पः पुरुष-कृतः न तु शब्द- 15508 स्वभाव-कृतः पुरुष-उपदेश-अपेक्षणात् अर्थ-अन्तर-वद् एव / 15509 न हि प्रकृत्या प्रकाशनास् तम् अपेक्षन्ते वह्न्य्-आदयः / पुरुषस् 15510 तु स्व-समय-व्यापारम् आचक्षाण उपदिशति इति न्याय्यम् /
15511 पुरुष-समित-निसर्ग-सिद्धयोर् उपदेश-अपेक्षण-अविशेषाद् अन्य-विशेष-अभावाच् 15512 च एको नैसर्गिको अन्यस् तु पौरुषेय इति दुरवसानम् / अस्ति 15513 विशेषः प्रमाण-संवाद इति चेत् / एतद् उत्तरत्र निषेत्स्यामः न अस्त्य् 15514 अत्यन्तपरोक्षे अर्थे प्रमाण-अन्तर-वृत्तिर् इति / समान-धर्मिणोर् 15515 अर्थयोः प्रमाण-संवाद-मात्र-विशेषाद् एकत्र अपौरुषेयत्वे बहुतरम् 15516 इदानीम् अपौरुषेयम् / सन्ति पुरुष-कृतान्य् अपि वाक्यानि कानिचिद् 15517 एवंविधानि इति तेष्व् अपि प्रसङ्गः / तद्वद् एषाम् अप्य् अभिमत- 15518 अर्थवत्ता पौरुषेयी च स्यात् प्रमाण-अनुरोधिनी च / अपि 15519 च इदं मन्त्रा अपौरुषेयाश् च इति व्याहतं पश्यामः / तथा हि / 15520 समयत्वे हि मन्त्राणां कस्यचित् कार्य-साधनम् / 15521 युक्तम् / यद्य् एते मन्त्राः कस्यचित् समयो यथा मत्-प्रणीतम् / 15522 एतद् अभिमत-अर्थ-उपनिबन्धनं वाक्यम् एवं नियुञ्जानम् 15523 अनेन अर्थेन योजयामि इति परार्थ-परता-अनुरोधेन अन्यतो वा कुतश्चिद् 15524 हेतोः कृतः स्यात् तदा मन्त्र-प्रयोगात् कदाचित् अर्थ- 15525 निष्पत्तिर् युक्ता कवि-समयाद् इव पाठकानाम् / 15526 अथ अपि भाव-शक्तिः स्याद् अन्यत्र अप्य् अविशेषतः //292//
15527 न वै पुरुष-समयान् मन्त्रेभ्यो अर्थ-सिद्धिः / किं तर्हि / भाव- 15528 स्वभाव एष यद् इमे कथंचिन् नियुक्ताः फलदाः / तत् तर्हि 15601 रूपं वर्णानां सर्वत्र अविशिष्टम् इति यथाकथंचित् प्रयुक्ताद् 15602 अपि फलं स्यात् / वर्णा एव हि मन्त्रो न अन्यत् किंचित् / तत्-क्रमो 15603 मन्त्र इति चेत् / 15604 क्रमस्य अर्थान्तरत्वं च पूर्वम् एव निराकृतम् / 15605 न वर्ण-व्यतिरिक्तो अन्यः क्रम इति निवेदितम् एतत् / अव्यतिरेके 15606 च वर्णा एव मन्त्रस् / ते च अविशिष्टाः सर्वत्र इति सर्वदा फलदाः 15607 स्युः / उपप्लवस् त्व् अल्पीयसो अपि क्रमस्य भ्रंशाद् दृष्टः / 15608 कस्यचिद् अनुष्ठानाद् देवता-संनिधेर् असाकल्येन विराधनाच् 15609 च / सर्व-भ्रंशे तु कस्यचिद् एव समयस्य अननुष्ठानाद् असंनिधेर् 15610 न अर्थ-अनर्थौ / किं च क्रमस्य अर्थान्तरत्वे अनर्थान्तरत्वे 15611 वा वर्ण-आत्मनस् तत्-क्रम-आत्मनो वा मन्त्रस्य अर्थ-हेतोर् 15612 अकृतकत्वान् नित्यस्य नित्यं संनिधानम् इति 15613 नित्यं तd-artha-siddhiः स्याद् / 15614 यतो हि भाव-शक्तेः फल-उत्पत्तिः सा अविकला इति न फल-वैकल्यं 15615 स्यात् / न हि कारण-साकल्ये कार्य-वैकल्यं युक्तम् / तस्य 15616 अकारणत्व-प्रसङ्गात् / न केवलान् मन्त्र-प्रयोगाद् इष्टसिद्धिस् 15617 तस्य विधान-अपेक्षत्वाद् इति चेत् / 15618 असामर्थ्यम् अपेक्षणे //293//
15619 यदि मन्त्रा विधानाद् अन्यतो वा कंचित् स्वभाव-अतिशयम् आसादयेयुः 15620 स तत्र समर्थो अपेक्ष्यः स्यात् / न च नित्येष्व् एतद् 15621 अस्ति इत्य् उक्तम् / तत् किम् अयम् असमर्थो अपेक्ष्यत इत्य् अनपेक्षाः 15622 सदा कुर्युर् न वा कदाचिद् अनतिशयात् / 15623 सर्वस्य साधनं ते स्युर् भाव-शक्तिर् यद् ईदृशी / 15624 प्रयोक्तृ-भेद-अपेक्षा च न असंस्कार्यस्य युज्यते //294//
15625 यदि भाव-शक्तया एव मन्त्राः सिद्धि-प्रदा न ते कंचित् परिहरेयुर् 15626 यजमानम् अन्यं वा / न ह्य् अन्यं प्रति स्वभावो अतद्-भावो 15627 भवति / तस्य तेन अनपकर्षणाद् अन्येन च अनुत्कर्षणात् / 15701 केनचित् सह कार्यकारणभाव-अयोगात् / प्रत्यासत्ति-विप्रकर्ष- 15702 अभावात् / अत एव अस्य असंस्कार्यत्वात् प्रयोक्ता अपि न अस्ति / अतः 15703 प्रयोक्ता फलम् अश्नुवीत / 15704 संस्कार्यस्य अपि भावस्य वस्तु-भेदो हि भेदकः / 15705 प्रयोक्तृ-भेदान् नियमः शक्तौ न समये भवेत् //295//
15706 आधेयविशेषा ह्य् अनित्या भावाः / तद्-हेतोः स्वभाव-भेदे ततः 15707 समासादित-अतिशयत्वाद् अन्यत्र अन्यथा स्युः / न अभेदे / कारण-अविशेषे 15708 कार्य-अविशेषात् / विशेषे तस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्त- 15709 प्रायम् / तद् इमे मन्त्राः स्वभाव-अतिशयात् फलदायिनः कार्या 15710 अपि न शूद्र-आदि-प्रयोगे अप्य् अन्यथा स्युः / शूद्र-विप्र-अभिधानयोः 15711 पुरुषयोः स्वभाव-अभेदात् / न हि पुरुष-इच्छा-अनुविधायिनो 15712 नाम-व्यवहार-भेदात् स्वभाव-भेद-अनुबन्धिनाम् अर्थानाम् अन्यथात्वम् 15713 अस्ति / तयोर् जाति-भेद इति चेत् / स खल्व् आकृति-गुण-शक्ति- 15714 भेदे दृष्टो गव-अश्व-वत् / अनुपदेशं च एनं लोकः प्रतिपद्यते / 15715 न तद्वद् अनयोः कंचिद् अपि गुणं विनियतं पश्यामः / अपश्यन्तश् 15716 च कथं भेदं प्रतिपद्येमहि / यो अप्य् अयं नाम- 15717 भेद-अन्वयो लोके प्रतीति-भेदः सो असत्य् अपि जाति-भेदे व्यापार- 15718 विशेष-अनुष्ठानाद् अन्वयाच् च स्याद् वैद्य-वणिग्-व्यपदेश-आदि-वत् / 15719 तद् इमे अविशिष्टेन प्रयुज्यमाना मन्त्रास् ततो अविशिष्टम् एव 15720 स्वभावम् आसादयन्ति / तेन अविशेषेण एव फलदाः स्युः / यदा 15721 तु समयाद् एभ्यः फलं तदा अयम् अदोषः / समयकारस्य 15722 रुचेः फल-उत्पत्ति-नियमात् / स्वभाव-वृत्तयो हि भावास् तन्-मुखेन 15723 प्रसङ्गम् अर्हन्ति / न पुरुष-इच्छा-वृत्तयस् तेषां 15724 यथाकथंचिद् वृत्तेः / यद् अपि प्रयोक्ता फलम् अश्नुत इति 15725 प्रयोगं समीहित-अर्थ-योग्यस्य उत्पादनं सन्तानपरिणामनं 15726 वा पश्यामः / तद् उभयं विशेष-जन्मनि स्यात् / अन्यथा / 15727 अनाधेयविशेषाणां किं कुर्वाणः प्रयोजकः / 15728 येन ततः कश्चित् फलम् अश्नुते अन्यो न / 15729 प्रयोगो यद्य् अभिव्यक्तिः सा प्राग् एव निराकृता //296//
15801 न हि नित्यानां काचिद् अभिव्यक्तिर् इत्य् उक्तम् यतो अभिव्यञ्जकः 15802 प्रयोक्ता स्यात् / 15803 व्यक्तिश् च बुद्धिः सा यस्मात् स फलैर् यदि युज्यते / 15804 स्याच् श्रोतः फल-सम्बन्धो वक्ता हि व्यक्ति-कारणम् //297//
15806 न हि शब्दस्य अन्यतः स्वरूप-परिणामो व्यक्तिर् न अप्य् आवरण-विगमनम् / 15807 किं तु तद्-विषया प्रतीतिर् अश्रूयमाणे अव्यक्त-व्यपदेशात् / 15808 तत्र यदि बुद्धि-हेतुर् वक्ता स्यात् तत् तुल्यं श्रोतर्य् अपि इति 15809 सो अपि फलं वक्तृ-वद् अश्नुवीत / न हि वक्तुः कश्चिद् अन्यस् 15810 तद्-भावो अन्यत्र तd-buddhi-hetutvआत् / पर-उपाधि-बुद्धिः श्रोतुर् 15811 न वक्तुर् इति विशेष इति चेत् / कः पुनर् उपयोगो वक्तुः श्रोतरि 15812 येन उपाधिर् इष्यते / ततः शब्द-श्रुतिर् इति चेत् / ननु तद् एव इदं 15813 पर्यनुयुज्यते कथं तत इति / असम्बन्धात् / विषय-उपनयनाद् 15814 अयम् अस्य श्रावकः स्यात् / तच् च न शक्यम् तस्य कथंचिद् 15815 अप्य् अपरिणामात् / इन्द्रिय-संस्कार-आदयो अप्य् उक्ताः / मां 15816 श्रावयत्य् अहं श्रावयामि इति तयोः प्रत्ययाद् वक्तृ-श्रोतृ-भेद 15817 इति चेत् / अनुपकार्य-उपकारकाद् भ्रान्ति-मात्रात् तद्-भावे अतिप्रसङ्गात् / 15818 अन्यत्र अपि भ्रान्त्या प्रत्यय-दर्शनात् / सर्वथा उपकार-अभावे 15819 च तथा प्रत्ययो न युक्तः / सर्वेषां परस्परम् एवं 15820 प्रसङ्गात् / भ्रान्तिर् अपि कुतश्चिद् उपकारे सति कयाचित् प्रत्यासत्त्या 15821 अन्यत्र भवति / स अप्य् अत्यन्त-अनुपकारे न स्यात् / तस्माद् 15822 वक्तृ-श्रोत्रोर् व्यक्ति-हेतुत्वे अविशेषात् तुल्यः फल-सम्बन्धः 15823 स्यात् / अपि च / 15824 अनभिव्यक्त-शब्दानां करणानां प्रयोजनम् / 15825 मनोजपो वा व्यर्थः स्याच् शब्दो हि श्रोत्र-गोचरः //298//
15826 श्रोत्र-ग्रहण-लक्षणः शब्दः / तद्-अतिक्रमे अतिप्रसङ्गात् / नन्व् 15827 एवं सामान्ये अपि प्रसङ्गः / न ब्रूमः शब्द एव इति / शब्दस् त्व् 15828 अवश्यं तल्-लक्षणस् तस्य लक्षण-अन्तर-अभावात् / तत्र यदि 15829 शब्द-आत्मनां मन्त्राणां व्यक्ति-हेतुः प्रयोक्ता अनभिव्यक्त- 15901 श्रुति-विषयाणां करणानां प्रयोक्ता जापी न मन्त्र-फलेन 15902 युज्यते न अपि मनसा जपन् / न हि तदा श्रोत्रेण कंचिद् अर्थं 15903 विभावयामः / न च अशब्द-आत्मा मन्त्रः / 15904 पारंपर्येण तज्जत्वात् तद्-व्यक्तिः सा अपि चेन् मतिः / 15905 न हि मनसा ध्यायतो अपि मन्त्र-आभासा बुद्धिः शब्द-श्रवणाद् 15906 ऋते / ततः शब्द-प्रभवात् सा अपि शब्द-व्यक्तिर् एव / अनवस्था एवं 15907 स्यात् / शब्द-अर्थ-विकल्पानाम् अपि परंपरया प्रसूतिर् अस्ति इति / 15908 ते / 15909 अपि 15910 तथा स्युस् तद्-अर्था चेद् असिद्धं कल्पना-अन्वयात् //299//
15911 न ब्रूमः सर्वा शब्द-प्रभवा बुद्धिस् तद्-व्यक्तिर् इति / या तु 15912 तद्-विषया सा तस्य व्यक्तिर् इति / मनो-विकल्पस्य तद्-विषयत्वम् 15913 असिद्धम् / न हि स्वलक्षणे विकल्पानां वृत्तिर् इति निवेदयिष्यामः / 15914 ते हि यथास्वम् आन्तराद् विकल्प-वासना-प्रबोधाद् अनपेक्षित- 15915 बाह्य-अर्थ-उपनिधयो भवन्ति / बाह्य-अपायान-आगमे अपि भावात् / 15916 न हि यो यस्य सत्ता-उपधानं न अपेक्षते स तस्य हेतुः / अहेतुश् 15917 च कथं विषयः / तस्मान् न मनो-विकल्पः शब्द-व्यक्तिर् 15918 यतस् तद्वान् प्रयोक्ता स्यात् / तत्-प्रसूता तद्-विषया बुद्धिस् तद्-व्यक्तिः / 15919 तद्-आश्रयः प्रयोक्ता इति / अत्र अप्य् उक्तं श्रोतर्य् अपि प्रसङ्ग 15920 इति / तज्-ज्ञाने च प्रयोगे शब्दः पुरुषे व्याप्रियते / तस्य ज्ञान- 15921 जननात् / न पुरुषः शब्दे / तदात्मन्य् अनुपकारात् / अथ च 15922 पुरुषः शब्दानां प्रयोक्ता इत्य् अलौकिको अयं व्यवहारः / 15923 सर्वथा शब्द-स्वभावानां मन्त्राणां प्रयोगात् फल-अवाप्तौ 15924 व्यर्थो मनोजपो विकल्पस्य शब्द-रूप-असंस्पर्शात् / 15925 स्व-सामान्य-स्वभावानाम् एक-भाव-विवक्षया / 15926 उक्तेः समयकाराणाम् अविरोधो न वस्तुनि //300//
15927 समयकारस् तु स्वलक्षणम् इन्द्रिय-विषयं सामान्यलक्षणं 15928 च विकल्प-प्रतिभासं यथा-व्यवहारं संवृत्या संकलय्य 15929 समयम् आरोचयेत् यथा-समयं च अर्थं निष्पादयेद् इति 16001 न मनोजप-आदाउ दोषः / वस्तु-स्वभावात् तु फलाव् आप्ताव् अतत्- 16002 स्वभाव-संस्पर्शे न स्यात् / यद् उक्तं न वर्णेभ्यो अन्या काचिद् 16003 आनुपूर्वी इति तत्र / 16004 आनुपूर्व्याम् असत्यां स्यात् सरो रस इति श्रुतौ / 16005 न कार्य-भेद इति चेद् / 16006 न हि सरो रस इत्य् आदि-पादेषु कश्चिद् वर्ण-भेदो न च वर्ण-व्यतिरिक्तम् 16007 अन्यद् यतः कार्य-भेदः स्यात् / भिन्नां च तयोः 16008 प्रतिभां पश्यामः आनुपूर्वीम् एव च अतुल्याम् / न च कारण-अभेदे 16009 कार्य-भेदो युक्तः / तस्माद् अस्ति सा भेदवती यतो अयम् 16010 प्रतीति-भेदः / सत्यम् 16011 अस्ति सा पुरुष-आश्रया //301//
16012 तथा हि / 16013 यो यद्-वर्ण-समुत्थान-ज्ञानजाज् ज्ञानतो ध्वनिः / 16014 जायते तद्-उपाधिः स श्रुत्या समवसीयते //302//
16015 तज्-ज्ञान-जनित-ज्ञानः स श्रुताव् अपटु-श्रुतिः / 16016 अपेक्ष्य तत्-स्मृतिं पश्चाद् आधत्ते स्मृतिम् आत्मनि //303//
16017 इत्य् एषा पौरुषेय्य् एव तd-hetu-grआहि-चेतसाम् / 16018 कार्यकारणता वर्णेष्व् आनुपूर्वी इति कथ्यत् //304//
16019 चित्त-समुत्थाना हि वाग्-विज्ञप्तिर् वर्ण-पद-वाक्य-अभिधाना / तत्र 16020 सकार-समुत्थापन-चेतसा समनन्तरप्रत्ययेन अकर-उत्थापन- 16021 चित्तम् उत्थाप्यते / तथा रेफ-आकार-विसर्जनीय-उत्थापनानि पूर्व- 16022 पूर्व-प्रत्ययानि / तद् इमे अन्यान्य-हेतवो वर्णाः स्व-कारण- 16101 आनुपूर्वी-जन्मानः / श्रुति-काले अपि यदा मन्द-चारिणः पूर्व- 16102 वर्ण-ज्ञान-सहकार्i-pratyaya-apekषाः स्व-ज्ञानं जनयन्ति तदा 16103 पूर्व-वर्ण-स्मरण-अपेक्षा एव स्मृतिम् उपलीयन्ते / स एष वर्णानां 16104 भिन्न-कार्यकारणभाव-प्रत्यय-निर्वृत्ति-धर्मा भिन्न- 16105 निर्वर्तन-धर्मा च स्वभावः पुरुष-संस्कार-भेद-भिन्नः 16106 क्रम इत्य् उच्यते / 16107 अन्यद् एव ततो रूपं तद् वर्णानां पदं पदम् / 16108 कर्तृ-संस्कारतो भिन्नं सहितं कार्य-भेद-कृत् //305//
16109 तस्मान् न खल्व् एक एव पदेषु वर्णानां स्वभावः कर्तृ-चित्त- 16110 संस्कार-भेदेन भेदात् / स च परस्पर-सहितः कार्य-भेद- 16111 हेतुः / 16112 सा च आनुपूर्वी वर्णानां प्रवृत्ता रचन-आकृतः / 16113 इच्छा अविरुद्ध-सिद्धीनां स्थित-क्रम-विरोधतः //306//
16114 कार्यकारणभूत-प्रत्यय-उत्पन्न-स्वभाव-विशेषो वर्णानाम् आनुपूर्वी 16115 इत्य् उक्तम् / सा च पुरुष-वितर्क-विचार-कृता इति न स्थित-क्रमा 16116 वर्णाः / इच्छा अविरुद्ध-सिद्धि-क्रमत्वात् / क्रम-विशेष-अनुक्रम-वत् / 16117 न हि स्थित-क्रमाणां देश-कालयोर् हिमवd-vindhya-malaya- 16118 आदीनां बीज-अङ्कुर-आदीनां च स्व-इच्छया क्रम-रचना शक्यते 16119 कर्तुम् / तत एव पुरुष-धर्म-संख्याते विकल्प-अनुक्रमे सति 16120 भावाद् असति च अभावात् / 16121 कार्यकारणता-सिद्धेः पुंसां वर्ण-क्रमस्य च / 16122 सर्वो वर्ण-क्रमः पुम्भ्यो दहन-इन्धन-युक्ति-वत् //307//
16123 सति इन्धने दाह-वृत्तेर् असत्य् अभावाद् अदृष्ट-इन्धनो अपि दहनो 16124 न अनिन्धनस् तस्य देश-काल-नियम-अयोगात् / नियमे च तस्य एव इन्धनत्वाद् 16125 दहन-उपादान-लक्षणत्वाद् इन्धनस्य / तथा अयम् 16201 अपि वर्ण-अनुक्रमः पुरुष-विकल्पं यदि न अपेक्षेत निरालम्बनः 16202 स्वयं प्रकाशेत / यत्ने अपि न शक्येत / अतत्-प्रभवात् / 16203 क्वचिच् शक्तौ सर्वस् तथा स्यात् / विशेष-अभावात् / तद्-भाव-भाविनो 16204 अतद्-विशिष्टस्य च अतत्-कृतौ सर्वत्र कार्यकारणभावश् च 16205 निराकृतः स्यात् / अन्वय-व्यतिरेक-लक्षणत्वात् तस्य / लक्षण-अन्तरं 16206 वा वक्तव्यम् / सर्वे अपि घट-आदयो भावाः कृत्रिमा अकृत्रिमा 16207 प्रसजन्ति / तत्र अप्य् एवं विकल्पनायाः सम्भवात् / विशेष-अभावाच् 16208 च / तान् अपि हि पर-क्रिया-दर्शन-पूर्वकम् एव अन्यः करोत्य् अविदित 16209 कर्तारश् च केचिद् इति सर्वेषां केषांचिद् वा अक्रिया-अभिनिवेशो अस्तु / 16210 तस्मात् सर्वा एव इयं वर्ण-आनुपूर्वी प्रसिद्ध-कार्यकारणभाव- 16211 वस्तु-धर्म-अनतिक्रमात् पुरुष-कृता / अत एव / 16212 असाधारणता सिद्धा मन्त्र-आख्य-क्रम-कारिणाम् / 16213 पुंसां ज्ञान-प्रभावाभ्याम् अन्येषां तद्-अभावतः //308//
16214 अयं क्रमो वर्णानां विष-निर्घात-आदि-समर्थो न अन्य इति यद्य् 16215 अन्यो अपि जानीयत् तं तथा एव प्रतिपद्येत / न च एवम् / तस्माद् 16216 अयम् अनुक्रमः स्वभावतो अपि कार्य-कृत् कैश्चिद् एव विज्ञात इत्य् 16217 अस्ति परोक्ष-अर्थ-दर्शी पुरुषः / न ह्य् अयम् अर्थः समर्थो 16218 न अयम् इति शक्यम् उन्नेतुम् असंकीर्णस्य लिङ्ग-विशेषस्य असिद्धेः / 16219 प्रत्यक्षयोर् अप्य् अनुपदिष्टयोर् मन्त्र-अमन्त्रयोर् अपरिज्ञानात् / 16220 उपदेशे अपि कथंचित् स्वभाव-विवेक-अप्रतीतेर् अन्यत्र कार्य- 16221 संवादात् तस्य च करणात् प्राग् द्रष्टुम् अशक्यत्वात् / न 16222 च अयम् अनुक्रमः स्वभावतः कारकः कस्यचिद् आशु-सिद्धेर् 16223 अन्यस्य चिराद् अपरस्य व्रत-चरण-आद्य्-अपेक्षणात् / एकस्माद् अपि 16224 कर्मणः कयोश्चिद् अर्थ-अनर्थ-सन्दर्शनात् / वहताम् अपि 16225 मन्त्राणां पुनः क्वचिद् विसंवादात् / न ह्य् अयं प्रकारः 16226 स्वभावे युक्तः / स्वभावस्य सर्वत्र अविशेषात् / पुरुषस् 16227 तु स्व-इच्छा-प्रवृत्तिः सत्त्व-सभागता-आदि-वशात् सा इव अविशेषाद् वा 16301 कंचिद् अनुगृह्णाति न अपरम् इति युक्तम् / व्रत-चर्या-भ्रंश- 16302 आदिना धर्म-अधर्म-उपचये धर्म-अधर्म-आत्मनोर् वा प्रकृत्या 16303 सिद्ध्य्-असिद्धी इति चेत् / न / धर्म-विरुद्धानाम् अपि क्रौर्य- 16304 स्तेय-मैथुन-हीन-कर्म-आदि-बहुलानां व्रतानां डाकिनी-भगिनी- 16305 तन्त्र-आदिषु दर्शनात् / तैश् च सिद्धि-विशेषात् / न च एवंविधो 16306 धर्म-स्वभाव इति च यथावसरं निवेदयिष्यामः / मैत्री- 16307 शौच-धर्म-परायणानां च तन्-निमित्तम् एव कस्याश्चिद् सिद्धेर् 16308 असिद्धेर् विपर्यये च पुनः सिद्धेः /
न च एक-रूपात् कर्मणः 16309 स तद्-विरोधी धर्मो युक्तो अधर्मश् च / कथम् इदानीं धर्म- 16310 फलम् इष्टम् अधर्म-आत्मनो व्रत-आदेर् अश्नुते / न वै तस्य एव 16311 तद् इष्टं फलं व्रत-आदेर् विपाको अपि तु पूर्वस्य कर्मणः / 16312 ब्रह्म-हत्य्-आदेश-अनुष्ठानाद् ग्राम-प्रतिलम्भ-वत् / तस्य त्व् 16313 अधर्म-आत्मनो व्रतस्य आगामि फलम् अनिष्टम् / स तु मन्त्र-आदि- 16314 प्रयोगस् तस्य इष्ट-फलस्य कर्मणः कथंचिद् उपकारात् पाचकश् 16315 चित्रत्वाद् उपकारक-शक्तेः / पुरुष-विशेष-आश्रय-विपाक- 16316 धर्मा स धर्मस् तेन कृतः स तथा तद्-आराधनेन फलति इति / 16317 तत्-प्रयोग-उपकार-विपाक-धर्मणः कृतत्वात् तत्-फलस्य कर्मणः / 16318 विना अपि पुरुषेण तद्-उपकारात् फलम् इति चेत् / न / पुरुष-आकार- 16319 स्वभाव-चर्या-अधिमुक्ति-वैयर्थ्य-प्रसङ्गात् / तस्य अप्य् उपकारत्वे 16320 सिद्धः पुरुष-विशेषो असाधारण-गुणः / तद्-अधिमुक्तेर् 16321 एव हि विष-कर्म-आदि-करणात् / तस्मात् च मन्त्राः पुरुष-प्रनीता 16322 अपि तd-upayoga-nirapekषाः स्वभावेन फलदाः / 16323 ये अपि तन्त्रविदः केचिन् मन्त्रान् कांश्चन कुर्वते / 16324 प्रभु-प्रभावस् तेषां स तd-ukta-nyआय-वृत्तितः //309//
16325 रथ्या-पुरुषा अपि केचन तन्त्रज्ञाः स्वयं-कृतैर् मन्त्रैः 16326 किंचित् कर्म कुर्वन्ति / तथा अन्यो अप्य् अनतिशयश् च कर्ता च 16327 मन्त्राणाम् इति / न / तेषां प्रभाववता एव अधिष्ठानात् / तत्-कृतं 16328 हि ते समयम् अनुपालयन्तस् तद्-उपदेशेन च वर्तमानाः समर्थाः / 16329 तत्-समय-उपदेश-निरपेक्षाणाम् असामर्थ्यात् / तत्र अपि 16401 तद्-आकार-ध्यान-आदेर् एव प्रयोगात् / तस्मात् तद्-अधिष्ठानम् एव 16402 तत् तादृशम् इत्य् उन्नेयम् / अपि च / सो अपि तादृशः प्रभाववान् 16403 एव अनन्य-साधारण-शक्तित्वाद् इति पुरुष-विशेष एव समर्थितः 16404 कृतकाः पौरुषेयाश् च वाच्या मन्त्राः फल-ईप्सुना / 16405 न ह्य् अकृतकानां प्रयोगः सम्भवति न च अप्रयुक्तेभ्यः 16406 फलम् इति प्रयोगात् फलम् इच्छता कृतका मन्त्रा वाच्याः पौरुषेयाश् 16407 च / पुरुष-अधिष्ठानम् अन्तरेण अन्यतो असम्भवत्-फलानां 16408 फल-दर्शनात् / कृत-समय-काव्य-आदि-वत् / 16409 अशक्ति-साधनं पुंसाम् अनेन एव निराकृतम् //310//
16410 प्रतिपादिता हि पुरुष-कृतास् तद्-अधिष्ठानाच् च फलदा मन्त्राः / 16411 तद् अस्ति कश्चिद् अतिशयवान् इति तत्-प्रतिक्षेप-साधनान्य् अपि प्रतिव्यूढानि / 16413 बुद्ध्i-indriya-ukti-puंस्त्व-आदि साधनं यत् तु वर्ण्यते / 16414 प्रमाण-आभं यथार्था अस्ति न हि शेषवतो गतिः //311//
16415 यत् तु बुद्ध्i-indriya-vacana-yogआत् पुंस्त्वाद् इति पुरुष-अतिशय-प्रतिक्षेप- 16416 साधनं तत् त्व् अगमकम् एव / प्रतिक्षेप-सामान्य- 16417 साधनयोर् असम्भवात् / न ह्य् अतीन्द्रियेष्व् अतद्-दर्शिनः प्रतिक्षेपः 16418 सम्भवति / सताम् अप्य् एषाम् अज्ञानात् / अत एव विरोध-असिद्धेः / 16419 अविरोधिना च सह सम्भव-अविरोधाद् इत्य् अप्य् उक्तम् / 16420 न अपि इतर-सामान्य-सिद्धिर् विशेष-असम्भवस्य ज्ञातुम् अशक्यत्वात् / 16421 ईदृशेषु च अनुपलब्धेर् हेतुत्व-प्रतिक्षेपात् / पुंस्त्व-आदि-साम्ये 16422 अपि कस्यचिद् विशेषस्य दर्शनात् / सम्भवद्-विशेषे च साम्य-असिद्धिर् 16423 इत्य् उक्तम् / तस्माच् शेषवद् अनुमानम् एतत् / व्यतिरेकस्य 16424 सन्देहाद् असमर्थम् अदर्शने अपि विपक्ष-वृत्तेः / अपि 16425 च एवंवादिनो जैमिनीयाः स्वम् एव वादं स्व-वाचा विधुरयन्ति / 16426 तथा हि / 16501 अर्थो अयं न अयम् अर्थो न इति शब्दा वदन्ति न / 16502 कल्प्यो अयम् अर्थः पुरुषैस् ते च राग-आदि-संयुताः //312//
16503 तत्र एकस् तत्त्वविन् न अन्य इति भेदश् च किं-कृतः / 16504 तद्वत् पुंस्त्वे कथम् अपि ज्ञानी कश्चित् कथं न वः //313//
16506 न खल्व् एते वैदिकाः शब्दा एवं विक्रोशन्ति एत भवन्तो ब्राह्मणा 16507 अयम् अस्माकम् अर्थो ग्राह्यो न अन्य इति केवलम् अनभिव्यक्त- 16508 अर्थ-विशेष-संसर्गाः श्रुतिम् अभिपतन्ति / तत्र एकः पुरुषः 16509 कंचिद् अर्थं कल्पयत्य् अन्यो अपरम् / न च शब्दानां 16510 कश्चित् स्वभाव-प्रतिनियमो येन एकम् अर्थम् अनुरुन्धते न अपरम् / 16511 केवलं समय-वशात् तं तम् आविशन्तो दृश्यन्ते / तेषाम् 16512 अविदित-अर्थ-नियमानाम् अत्यक्ष-आवेशाद् अविद्वान् एव दोष-उपप्लवः 16513 कश्चित् तत्त्वं व्याचष्टे न अपर इति न न्याय्यम् / अथ 16514 कुतश्चिद् अतिशयाद् बुद्धि-इन्द्रिय-आदीनां स एव वेत्ति न अपरः / तस्य 16515 कुतो अयम् अतीन्द्रिय-ज्ञान-अतिशयः / तथा अन्यो अपि द्रष्टा देश-काल- 16516 स्वभाव-विप्रकृष्टानाम् अर्थानां किम् असम्भवी दृष्टः / न 16517 हि तत्-प्रतिक्षेप-साधनानि कानिचिद् यानि न एनम् उपलीयन्ते / 16518 यथा अयं तत्-साधन-सम्भवे अप्य् अस्य विशेषस् तथा अन्यस्य अपि 16519 स्याद् इत्य् अनभिनिवेश एव युक्तः / 16520 यस्य प्रमाण-संवादि वचनं सो अर्थविद् यदि / 16521 न ह्य् अत्यन्तपरोक्षेषु प्रमाणस्य अस्ति सम्भवः //314//
16522 स्याद् एतन् न वयं पुरुष-प्रामाण्यात् कस्यचिद् व्याख्यानम् 16523 अभिनिविष्टाः / किं तर्हि / प्रमाण-अन्तर-संवादाद् / बहुष्व् अपि 16524 व्याख्यातृषु यः प्रमाणं प्रत्यक्ष-आदिकं संस्यन्दयति सो 16525 अनुमन्यते / तन् न / अतीन्द्रियेष्व् अदृष्ट-आदिषु प्रमाण-अन्तर-अवृत्तेः / 16526 तद्-असम्भवाद् एव ह्य् आगमस् तत्-प्रतिपत्त्य्-अर्थम् उपयाच्यते / 16527 अन्यथा सत्य् अपि तस्मिन् प्रमाण-अन्तर-अवृत्ताव् अप्रतिपत्तेः / ततश् 16601 च केवलाद् अर्थ-प्रतिपत्तेर् असाधनम् एव आगमः स्यात् / केवलाद् अन्यतो 16602 अप्य् अतीन्द्रियेष्व् अप्रतिपत्तिर् इति चेत् / कथम् अतीन्द्रियश् च नाम 16603 प्रत्यक्ष-आदि-विषयश् च / ते पुनः स्व-विषये अप्य् आगमम् अपेक्ष्य एव 16604 साधकाश् चेत् / अनागमाद् धूम-आदेर् अग्न्य्-आदि-प्रत्ययो न स्यात् / 16605 न वै प्रवृत्त आगमे प्रमाण-अन्तरम् अन्विष्यते किं तर्हि 16606 स एव आगम-प्रवृत्तिर् न ज्ञायत इति चेत् / स्वयं समर्थस्य प्रसाधने 16607 अस्य तद्-आगम-उपधानं कम् अतिशयं पुष्णाति / असमर्थं 16608 त्व् आगम-प्रवृत्तिम् अपि न एव साधयिष्यति / सा च अतीन्द्रिय- 16609 अर्थ-सम्बद्धा आगम-प्रवृत्तिर् अतीन्द्रिया कथम् अन्येन 16610 सिद्धा / अन्यच् च एवम् आगम-लक्षणं स्यात् / तथा हि / 16611 यस्य प्रमाण-संवादि वचनं तत्-कृतं वचः / 16612 स आगम इति प्राप्तं निरर्था अपौरुषेयता //315//
16613 तुल्ये अप्य् आगम-वादे प्रमाण-बलाद् आगमस्य क्वचिद् आगमत्वे 16614 प्रमाण-संवादो वचनानाम् आगम-लक्षणं स्यात् / न अपुरुष- 16615 क्रिया / तस्याः सर्व-अर्थेषु तुल्यत्वे अपि प्रमाण-अबाधनात् प्रतिपत्तेः / 16516 तद्-भावे अप्य् अन्यत्र प्रमाण-असंवादिन्य् अनिष्टत्वात् / 16617 किं च / 16618 यद्य् अत्यन्तपरोक्षे अर्थे अनागम-ज्ञान-सम्भवः / 16619 अतीन्द्रियार्थवित् कश्चिद् अस्ति इत्य् अभिमतं भवेत् //316//
16620 यद्य् आगम-अनपेक्षं ज्ञान-अयाथातथ्यं पुरुषस्य इष्यते परोक्षे 16621 अर्थे सन्ति पुरुषा अतीन्द्रियार्थदृश इति इष्टं स्यात् / प्रत्यक्ष- 16622 पूर्वकानां प्रमाणानाम् अतद्-दर्शने असम्भवात् / प्रत्यक्ष- 16624 प्रमाणम् आगमः / प्रमाण-अन्तर-वृत्तिस् तु प्रत्यक्षम् 16625 अन्वाकर्षति इति न पुरुष-अतिशयो निवार्यः स्यात् / तस्मान् न अस्त्य् अतीन्द्रियेषु 16626 प्रमाण-अन्तर-वृत्तिः / अत एव आगमस्य अर्थ-विशेष-वृत्तेर् 16627 अपरिज्ञानाद् अयं जैमिनिर् अन्यो वा 16628 स्वयं राग-आदिमान् न अर्थं वेत्ति वेदस्य न अन्यतः / 16701 न वेदयति वेदो अपि वेद-अर्थस्य कुतो गतिः //317//
16702 सर्व एव हि पुरुषो अनतिक्रान्त-दोष-विप्लवस् तम् अतीन्द्रियम् 16703 अर्थ-विशेष-प्रतिनियमं व्याख्याता न स्वयं वेत्ति / न अप्य् एनम् 16704 अन्यो वेदयति / तस्य अपि तुल्य-प्रसङ्गत्वात् / न ह्य् अन्धेन आकृश्यमाणो 16705 अन्धः पन्थानं प्रतिपद्यते / न अपि स्वयं वेदः 16706 स्वार्थं विवृणोति / उपदेश-वैयर्थ्य-प्रसङ्गात् / तद् अयम् अपरिज्ञात- 16707 अर्थः शब्द-गडुर् एवं शल्यभूतो असद्-दर्शन-स्नायु 16708 विनिबद्धो दुरुद्धरो दुःखम् आसयति / 16709 तेन अग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ / 16710 खादेच् श्वमांसम् इत्य् एष न अर्थ इत्य् अत्र का प्रमा //318//
16711 क्वचिद् अप्य् अर्थे प्रत्यासत्ति-विप्रकर्ष-रहितस्य अग्निहोत्रं जुहुयात् 16712 स्वर्गकाम इत्य् आदि-वाक्यस्य भूत-विशेषे यथा-अभिमतं 16713 घृत-आदि प्रक्षिपेद् इत्य् अयम् अर्थः न पुनः श्वमांसं खादेद् 16714 इति न अतिशयं पश्यामः / नन्व् अयं सर्वत्र समानः प्रसङ्गः 16715 परोक्ष-दैशिकानां वचनानाम् अर्थं यथा-अभिप्रायम् इदानीन्तनाः 16716 किं समनुयन्ति आहोस्विद् विपर्ययम् इति / न / उपदेष्टुः 16717 स्व-अभिप्राय-प्रकाशनेन सम्प्रदाय-सम्भवात् / न ह्य् 16718 अयम् अदैशिकानां शब्दानां सम्भवति / लोक-प्रत्यायन-अभिप्रायश् 16719 च ब्रुवाणो लोक-संकेत-प्रसिद्धिम् अनुपालयति इति ततो अपि 16720 तd-artha-siddhiः स्यात् न अपौरुषेयाणां शब्दानाम् / तत्र कस्यचित् 16721 समीह-अभावात् / अपि च न्यायम् एव अनुपालयन्तः पण्डिता हेय-उपादेय- 16722 तद्-आश्रयेषु संघटन्ते न तु प्रवाद-मात्रेण इति न समानः 16723 प्रसङ्गः / तच् च यथावसरं प्रतिपादयिष्यामः / ननु 16724 कश्चिल् लोक-संनिवेश-आदिर् अयुक्ति-विषयो अपि सम्भावनीय-पुरुष- 16725 वचनाद् अर्थः प्रतिपद्यते / न / अप्रत्ययात् / न हि क्वचिद् 16726 अस्खलित इति सर्वं तथा / व्यभिचार-दर्शनात् / तत् प्रवृत्तेर् 16801 अविसंवादेन व्याप्त्य्-असिद्धेश् च / अगत्या च इदम् आगम-लक्षणम् 16802 इष्टम् / न अतो निश्चयः / तन् न प्रमाणम् आगम इत्य् अप्य् उक्तम् / 16803 अपौरुषेयानां शब्दानाम् अर्थ-ज्ञानं न सम्प्रदायान् 16804 न युक्तेर् न लोकाद् इति तत्र अप्रतिपत्तिर् न्याय्या / तत्र अपि / 16805 प्रसिद्धो लोक-वादश् चेत् / 16806 प्रतिपत्ति-हेतुः / 16807 तत्र को अतीन्द्रियार्थदृक् / 16808 अनेक-अर्थेषु शब्देषु येन अर्थो अयं विवेचितः //319//
16809 न ह्य् अयं लोक-व्यवहारो अपौरुषेयाच् शब्द-अर्थ-सम्बन्धात् / 16810 किं तर्हि / समयात् / स्व-शास्त्रकार-समयात् पाणिनीय-आदि-व्यवहार-वत् / 16811 उपदेश-अपेक्षणात् / न ह्य् अपौरुषेये तस्मिन्न् उपदेशो 16812 युक्तः / तस्य केनचिद् अज्ञानात् / अतीन्द्रियत्वात् / ऐन्द्रियकत्वे 16813 स्वयं प्रतिपत्ति-प्रसङ्गात् / रूप-आदि-वत् / उपदेशे च पुरुषाणां 16814 स्वतन्त्राणां यथा-तत्त्वम् उपदेशेन अविसंवादस्य असिद्धेर् अनाश्वासः / 16815 वेद-वत् तद्-व्याख्यानम् अप्य् अपौरुषेयं सम्प्रदाय-अविच्छेदाद् 16816 आगतम् ततो अर्थ-सिद्धिर् इति चेत् / तस्य अपि शब्द-आत्मकत्वे 16817 तुल्यः पर्यनुयोगः कथम् अस्य अर्थो विदित इति / पुरुषो 16818 हि स्वयं समितानां शब्दानाम् अर्थं शृङ्ग-ग्राहिकया अपि तावद् 16819 अबुधं बोधयेद् इत्य् अस्ति पौरुषेयानां शब्दानाम् अर्थ-गताव् 16820 उपायः / अपौरुषेयस् तु शब्दो न एवं करोति / न च अस्य कश्चित् 16821 क्वचित् सम्बन्ध-नियमं ज्ञातुम् ईश इत्य् अप्रतिपत्तिर् एव 16822 तद्-अर्थस्य / अपि च वेदस् तद्-व्याख्यानं वा पुरुषेण पुरुषाय उपदिश्यमानम् 16823 अनष्ट-सम्प्रदायम् एव अनुवर्तत इत्य् अत्र अपि समयः 16824 शरणम् / आगम-भ्रंश-कारिणाम् आहोपुरुषिकया तद्-दर्शन- 16825 विद्वेषेण वा तत्-प्रतिपन्न-खलीकाराय धूर्त-व्यसनेन अन्यतो 16826 वा कुतश्चित् कारणाद् अन्यथा रचन-अदर्शनात् / अपि च अत्र 16827 भवान् स्वम् एव मुख-वर्णं स्व-वाद-अनुरागान् नूनं विस्मृतवान् 16901 पुरुषो राग-आदिभिर् उपप्लुतो अनृतम् अपि ब्रूयाद् इति न अस्य 16902 वचनं प्रमाणम् इति / तद् इह अपि किं न प्रत्यवेक्ष्यते 16903 सम्भवति न वा इति /
स एव उपदिशन्न् उपप्लवाद् वेदं वेद-अर्थं 16904 वा अन्यथा अप्य् उपदिशेद् इति / श्रूयन्ते हि कैश्चित् पुरुषैर् उत्सन्न-उद्धृतानि 16905 शाखा-अन्तराणि / इदानीम् अपि कानिचिद् विरल-अध्येतृकाणि / 16906 तद्वत् प्रचुर-अध्येतृकाणाम् अपि कस्मिंश्चित् काले कथंचित् 16907 संहार-सम्भवात् / पुनः सम्भावित-पुरुष-प्रत्ययात् प्रचुरता- 16908 उपगमन-सम्भावना-असम्भवात् / तेषां च पुनः प्रतानयितृऋणां 16909 कदाचिद् अधीत-विस्मृत-अध्यनानाम् अन्येषां वा सम्भावना- 16910 भ्रंश-भय-आदिना अन्यथा उपदेश-सम्भवात् / तत्-प्रत्ययाच् 16911 च तद्-भक्तानाम् अविचारेण प्रतिपत्तेर् बहुष्व् अध्येतृषु 16912 सम्भावितात् पुरुषाद् बहुलं प्रतिपत्ति-दर्शनात् / ततो अपि कथंचिद् 16913 विप्रलम्भ-सम्भवात् / किं च / परिमित-व्याख्यातृ- 16914 पुरुष-परंपराम् एव च अत्र भवताम् अपि शृणुमः / तत्र 16915 कश्चिद् द्विष्टाज्ञ-धूर्तानाम् अन्यतमः स्याद् अपि इत्य् अनाश्वासः / 16916 तस्मान् न अपौरुषेयाद् व्याख्यानान् न अपि सामयिकाल् लोक-व्यवहाराद् 16917 वेद-अर्थ-सिद्धिः / असामयिकत्वे अपि नाना-अर्थानां शब्दानां 16918 व्यवहारे दर्शनात् कस्यचिद् अप्रसिद्ध-अर्थस्य अप्रसिद्धस्य वा 16919 पुनर् व्युत्पत्ति-दर्शनेन सर्वत्र तद्-आशङ्का-अनिवृत्तेः / सर्वेषां 16920 यथार्थ-नियोगे अप्य् अवैगुण्येन यथा-समयं प्रतीति- 16921 जननात् / इष्ट-अनिष्टयोर् अविशेषात् / अविशिष्टानां सर्व-अर्थेष्व् एकम् अर्थम् 16922 अत्यक्ष-संयोगम् अनत्यक्ष-दर्शिनि पुरुष-सामान्ये को विवेचयेद् 16923 यतो लोकात् प्रतीतिः स्यात् / अपि च / स्वयम् अप्य् अयं न 16924 सर्वत्र प्रसिद्धिम् अनुसरति / यस्मात् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
