Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रमाणवार्त्तिस्ववृत्ति
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
16925 स्वर्ग-उर्वश्य्-आदि-शब्दश् च दृष्टो अरूढ-अर्थ-वाचकः / 16926 अनेन एव निर्वर्ण्यमानः / मनुष्य-अतिशायि-पुरुष-विशेष-निकेतो अतिमानुष- 16927 सुख-अधिष्ठानो नाना-उपकरणः स्वर्गः तन्-निवासिन्य् 16928 अप्सरा उर्वशी नाम इति लोक-वादः / तम् अनादृत्य-अन्याम् एव अर्थ-कल्पनाम् 16929 अयं कुर्वाणः शब्द-अन्तरेषु कथं प्रसिद्धिं प्रमाणयेत् / 16930 तत्र अविरोधाद् अभ्युपगम इति चेत् / न / अत्र अप्य् अतीन्द्रिये 16931 विरोध-असिद्धेः / अन्यत्र अप्य् अविरोधस्य दुरन्वयत्वात् / विरुद्धाम् 16932 अप्य् अग्निहोत्रात् स्वर्ग-अवाप्तिं मान्द्याद् अयं न लक्षयेद् 16933 अपि / विरोध-अविरोधौ च बाधक-साधक-प्रमाण-वृत्ती / ते च अत्यक्षे 17001 न अभिमते / तत् कथं तद्-वशात् प्रतीतिः / न च वचन- 17002 वृत्तेर् एव अविरोधो अन्यत्र अपि प्रसङ्गात् / अपौरुषेय आगमस् तस्य 17003 प्रवादाद् अर्थ-सिद्धिः / तत्र पुनर् विरोध-चिन्तायाम् अनाश्वास 17004 आगमे स्यात् / सत्य् अपि तस्मिन्न् अतथाभावाद् अर्थस्य अप्रमाण- 17005 वृत्तेर् अन्यस्य अपि शङ्कनीयत्वात् / यद् उक्तम् अग्निहोत्रं 17006 जुहुयात् स्वर्गकाम इत्य् अत्र श्वमांस-भक्षण-देशना-विकल्पो 17007 भवत्व् इति स न भवति / प्रदेश-अन्तरेषु तथा तस्य चर्चनात् / 17008 न / तस्य अर्थ-अपरिज्ञानात् / प्रदेश-अन्तरेष्व् अपि तथाविध-अर्थ- 17009 कल्पनाया अनिवार्यत्वात् / यदि हि क्वचिद् विदित-अर्थो अयम् अपौरुषेयः 17010 शब्द-राशिः स्यात् तदा ततो अर्थ-प्रतीतिः स्यात् / ते तु बाहुल्ये 17011 अप्य् अन्धा एव सर्व इति यथेष्टम् प्रणीयन्ते / तस्मात् / 17012 शब्द-अन्तरेषु तादृक्षु तादृश्य् एव अस्तु कल्पना //320//
17013 यादृश्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अस्य वाक्यस्य / अपि 17014 च 17015 प्रसिद्धिश् च नृणां वादः प्रमाणं स च न इष्यते / 17016 ततश् च भूयो अर्थ-गतिः किम् एतद् द्विष्ट-कामितम् //321//
17017 न प्रसिद्धिर् नाम अन्या अन्यत्र जन-प्रवादात् / ते च सर्वे जना 17018 राग-आद्य्-अविद्या-अपरीतत्वाद् असम्भावनीय-याथातथ्य-वचनाः / 17019 तद् एषां प्रवादो न प्रमाणम् / न हि कस्यचिद् अपि सम्यक्-प्रतिपत्तेर् 17020 अभावे बाहुल्यम् अर्थ-वद् भवति / पारशीक-मातृ-मिथ्या- 17021 चार-वत् / तेषाम् एव पुरुषाणां वचनात् पुनः परोक्ष-अर्थ-सम्प्रतिपत्तिर् 17101 इति कथं तद् एव युगपद् द्वेष्यं च काम्यं च / 17102 अथ प्रसिद्धिम् उल्लङ्घ्य कल्पने न निबन्धनम् / 17103 प्रसिद्धेर् अप्रमाणत्वात् तत्-ग्रहे किं निबन्धनम् //322//
17105 प्राप्त-प्रतिलोमनेन अन्यत्र प्रवृत्तिर् गुण-दोष-सन्दर्शनेन युक्ता 17106 इति प्रसिद्धेर् अन्वय इति चेत् / न / प्राप्तेः प्रमाण-वृत्ति-लक्षणत्वात् / 17107 यत् किंचन ग्रहणं हि प्रसिद्धिम् अप्रमाणयतस् 17108 तन्-मुखेन प्रतीतिः / न्यायात् प्राप्ति-प्रतिषेधात् / तुल्या स्व-पर- 17109 विकल्पयोर् उभयथा अपि वृत्तिर् इति कः प्रसिद्धाव् अनुरोधः / 17110 अपि च इयम् 17111 उत्पादिता प्रसिद्ध्या एव शङ्का शब्द-अर्थ-निश्चये / 17112 यस्मान् नाना-अर्थ-वृत्तित्वं शब्दानां तत्र दृश्यते //323//
17113 न प्रसिद्धेर् एक-अर्थ-निश्चयः शब्दानां तत एव शङ्का-उत्पत्तेः / 17114 नाना-अर्था हि शब्दा लोके दृश्यन्ते / लोक-वादश् च प्रतीतिः / अत एव 17115 नाना-अर्था इति तत एक-अर्थ-नियमो न युक्तः / 17116 अन्यथा असम्भव-अभावान् नाना-शक्तेः स्वयं ध्वनेः / 17117 अवश्यं शङ्कया भाव्यं नियामकम् अपश्यताम् //324//
17118 इत्य् अन्तरश्लोकः / तस्माद् अविदित-अर्थ-विभागेषु शब्देष्व् एकम् 17119 अर्थम् अत्यक्ष-संयोगम् अनालम्बन-समारोपं विनिश्चित्य व्याचक्षाणो 17120 जैमिनिस् तद्-व्याजेन स्वम् एव मतम् आह इति न तीर्थकर- 17121 अन्तराद् अस्य विशेषं पश्यामः / तथा हि / तd-artha-vacana-vyआपार- 17122 शून्यस्य तत्-समारोपेण अभिधानं न स्व-वचनम् अतिशेते / 17123 तत्-कारिणा केवलं मिथ्या-विनीतता एव आत्मनः समुद्द्योतिता स्यात् 17124 तथा हि / 17125 एष स्थाणुर् अयं मार्ग इति वक्ति इति कश्चन / 17126 अन्यः स्वयं ब्रवीमि इति तयोर् भेदः परिक्ष्यताम् //325//
17201 निरभिप्राय-व्यापार-वचने स्थाणौ समारोप्य-उपदिशतः स्वतन्त्रस्य 17202 वा स्वयं वचन-उपगमे न कश्चिद् विशेषो अन्यत्र जडस्य 17203 प्रतिपत्ति-मान्द्यात् / अपि च एक-अर्थ-नियमे सत्य् एनं जैमिनिर् 17204 जानीयात् / स एव शब्दस्य 17205 सर्वत्र योग्यस्य एक-अर्थ-द्योतने नियमः कुतः / 17206 न हि शब्दस्य कश्चिद् अर्थः स्वभाव-नियतः सर्वत्र योग्यत्वात् / 17207 अयोग्यत्वे च तद्-अप्रच्युतेर् अविधेयस्य पुरुषाणां क्वचिद् 17208 उपनयन-अपनयन-असम्भवात् / 17209 ज्ञाता वा अतीन्द्रियाः केन विवक्षा-वचनाद् ऋते //326//
17210 पुरुष-प्रणीते हि शब्दे कयाचिद् विवक्षया स तां कदाचित् क्वचिन् 17211 निवेदयेद् अपि इति विवक्षा-पूर्वकानां शब्दानाम् अर्थ-नियमः 17212 प्रतीयेत अपि / अपौरुषेये तु विद्यमानो अप्य् अर्थ-नियमः कथं 17213 विज्ञेयः / स्वभाव-भेदस्य अभावात् / सति वा प्रत्यक्षस्य स्वयं 17214 प्रतीति-प्रसङ्गात् / अप्रत्यक्षे अपि केनचिज् ज्ञातुम् अशक्यत्वात् / 17215 न च अस्ति कश्चिद् विशेषः / सर्व-शब्दा हि सर्व-अर्थ- प्रत्यासत्ति-विप्रकर्ष- 17216 रहिताः / ततस् तेषाम् 17217 विवक्षा नियमे हेतुः संकेतस् तत्-प्रकाशनः / 17218 अपौरुषेये सा न अस्ति तस्य सा एकार्थता कुतः //327//
17219 विवक्षया हि शब्दो अर्थे नियम्यते न स्वभावतः तस्य 17220 क्वचिद् अप्रतिबन्धेन सर्वत्र तुल्यत्वात् / यत्र अपि प्रतिबन्धस् 17221 तद्-अभिधान-नियम-अभावात् / सर्व-शब्दैः करणानाम् अभिधान- 17222 प्रसङ्गात् / तस्माद् विवक्षा-प्रकाशनाय अभिप्राय- निवेदन-लक्षणः 17223 संकेतः क्रियते / अपौरुषेये तु न विवक्षा न संकेतः 17224 कस्यचिद् अभिप्राय-अभावाद् इति न नियमो न तज्-ज्ञानम् / 17225 स्वभाव-नियमे अन्यत्र न योज्येत तया पुनः / 17226 यदि संकेत-निरपेक्षः स्वभावत एव अर्थेषु शब्दो निलीनः 17227 स्यात् उक्तम् अत्र अप्रतिबन्धाद् अनियम इति / अपि च / स्वाभाविके 17228 वाच्यवाचकभावे न पुनर् विवक्षया यथेष्टं नियुज्येत / 17301 संकेतश् च निरर्थः स्याद् / 17302 न हि स्वभाव-भेद इन्द्रिय-गम्यः स्व-प्रतीतौ परिभाषा-आदिकम् 17303 अपेक्षते / नील-आdi-bheda-vat / तद्-अपेक्ष-प्रतीतयस् तु न वस्तु-स्वभावाः / 17304 किं तर्हि / सामयिका राज-चिह्न-आदि-वत् / यश् च सामयिकः 17305 स स्वभाव-नियतो अयुक्तस् तस्य इच्छा-वृत्तेः / अत एव संकेतात् 17306 स्वभाव-विशेषस्य 17307 व्यक्तौ च नियमः कुतः //328//
17308 स्व-इच्छा-वृत्तिः संकेतः स इह एव कर्तुं शक्यते न अन्यत्र इति 17309 न उपरोधो अस्ति / स च पुरुषैः स्व-इच्छया क्रियमाणस् तम् एव 17310 स्वभावं व्यनक्ति न अन्यम् इति न नियमो अस्ति / 17311 यत्र स्वातन्त्र्यम् इच्छाया नियमो नाम तत्र कः / 17312 द्योतयेत् तेन संकेतो न इष्टाम् एव अस्य योग्यताम् //329//
17313 इति अन्तरश्लोकः / 17314 यस्मात् किल ईदृशं सत्यं यथा अग्निः शीत-नोदनः / 17315 वाक्यं वेद-एकदेशत्वाद् अन्यद् अप्य् अपरो अब्रवीत् //330//
17316 अन्यस् त्व् अपौरुषेयम् आगम-लक्षणं परित्यज्य अन्यथा प्रामाण्यं 17317 वेदस्य साधयितुकामः प्राह अवितथानि वेद-वाक्यानि 17318 यत्र अप्रतिपत्तिर् वेद-एकदेशत्वात् यथा अग्निर् हिमस्य 17319 भेषजम् इत्य् आदि-वाक्यम् इति / तस्य इदम् / 17320 रस-वत् तुल्य-रूपत्वाद् एक-भाण्डे च पाक-वत् / 17321 शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदा ईदृशम् //331//
17322 स्वयम् ईदृशम् आचार्येण अनुमानं नैयायिक-शेषवद्-अनुमान- 17323 व्यभिचारम् उद्भावयता तुल्य-रूपतया फलानां तुल्य-रस- 17324 साधन-वद् एक-स्थाल्य्-अन्तर्गमाद् दृष्ट-वद् अदृष्ट-तण्डुल-पाक- 17325 साधन-वच् च असाधनम् उक्तम् / तद्-असाधनत्व-न्यायश् च 17326 पूर्वम् एव उक्तः / उक्तं च इदम् आगम-लक्षणम् अस्माभिः तत् तु 17327 सर्वस्य शक्य-विचारस्य विषयस्य यथास्वं प्रमाणेन विधि- 17328 प्रतिषेध-विशुद्धौ नान्तरीयकत्व-अभावे अपि शब्दानाम् अर्थेषु 17401 वरं संशयितस्य वृत्तिः तत्र कदाचिद् अविसंवाद-सम्भवात् 17402 न त्व् अन्यत्र दृष्ट-प्रमाण-उपरोधस्य पुरुषस्य प्रवृत्तिर् इति / 17403 यः पुनः प्राकृत-विषयस्य वह्नेः शीत-प्रतिघात-सामर्थ्यस्य 17404 अभिधानं सत्य-अर्थम् उपदर्श्य सर्वं सत्य-अर्थम् आह 17405 शास्त्रं शक्य-परिच्छेदे अपि विषये प्रमाण-विरोधाद् बहुतरम् 17406 अयुक्तम् अपि / 17407 नित्यस्य पुंसः कर्तृत्वं नित्यान् भावान् अतीन्द्रियान् / 17408 ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम् //332//
17409 निवृत्तिं च प्रमाणाभ्याम् अन्यद् वा व्यस्त-गोचरम् / 17410 विरुद्धम् आगम-अपेक्षेण अनुमानेन वा वदत् //333//
17411 विरोधम् असमाधाय शास्त्र-अर्थं च अप्रदर्श्य सः / 17412 सत्य-अर्थं प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम् //334//
17414 अप्रच्युत-अनुत्पन्न-पूर्वापर-रूपः पुमान् कर्ता क्रमेण कर्मणां 17415 कर्म-फलानां च भोक्ता समवायि-कारण-अधिष्ठान-भाव-आदिना 17416 इत्य् आह वेदः तच् च अयुक्तम् इत्य् आवेदित-प्रायम् नित्यत्वं च 17417 केषांचिद् भावानाम् अक्षणिकस्य वस्तु-धर्म-अतिक्रमाद् अयुक्तम् 17418 अप्रत्यक्षान्य् एव हि सामान्य-आदीनि प्रत्यक्षानि जन्म-स्थिति- 17419 निवृत्तीश् च विषमाः पदार्थानाम् अनाधेयविशेषस्य प्राग् अकर्तुः 17420 पर-अपेक्षया जनकत्वम् निष्पत्तेर् अकार्य-रूपस्य आश्रय-वशेन 17421 स्थानम् कारणाच् च विनाश इत्य् आदिकम् अन्यद् अपि प्रत्यक्ष- 17422 अनुमानाभ्यां प्रसिद्धि-विपर्ययम् आगम-आश्रयेण च अनुमानेन 17423 बाधितम् अग्निहोत्र-आदेः पाप-शोधन-सामर्थ्य-आदिकम् / तस्य 17424 एवंवादिनो वेदस्य सर्वत्र शास्त्र-शरीरे प्रमाण-विरोधम् 17425 अप्रतिसमाधाय सम्बन्ध-अनुगुण-उपाय-पुरुष-अर्थ-अभिधानानि च 17426 शास्त्र-धर्मान् अप्रदर्श्य-अत्यन्त-प्रसिद्ध-विषय-सत्य-अभिधान- 17427 मात्रेण प्रज्ञा-प्रकर्ष-दुरवगह-गहने अपि निरत्ययतां साधयितुकामो 17428 बन्धकीम् अपि प्रागल्भ्येन विजयते / काचित् किल 17429 बन्धकी स्वयं स्वामिना विप्रतिपत्ति-स्थाने दृष्ट्वा उपालब्धा / सा 17430 तं प्रत्युवाच / पश्यत मातः पुरुषस्य वैपरीत्यं / मयि 17431 धर्म-पत्न्यां प्रत्ययम् अकृत्वा आत्मीययोर् न इतर-अभिधानयोर् 17432 जल-बुद्बुदयोः / करोति / तेन जरत्काणेन ग्राम्य-काष्ठ-हारकेण 17501 प्रार्थिता अपि न संगता / रूप-गुण-अनुरागेन किल मन्त्रि-मुख्य- 17502 दारकं कामये अहम् इति / एवंजातीयकम् एतद् अपि वह्नेः 17503 शीत-प्रतीकार-वचनेन दृष्ट-प्रमाण-विरोधस्य अप्य् अत्यन्तपरोक्षे 17504 अर्थे अविसंवाद-अनुमानम् / 17505 सिध्येद् प्रमाणं यद्य् एवम् अप्रमाणम् अथ इह किम् / 17506 न ह्य् एकं न अस्ति सत्य-अर्थं पुरुषे बहु-भाषिणि //335//
17507 यथा इदम् अतिदुष्करम् अत्यन्त-सत्य-अभिधानं तथा अत्यन्त-असत्य- 17508 अभिधानम् अपि / तत्र एकस्य वचनस्य कथंचित् संवादेन अविशिष्टस्य 17509 तd-vacana-rआशेस् तथाभावे न कश्चित् पुरुषो अनाप्तः 17510 स्यात् / अपि च / 17511 न अयं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः / 17512 न च तद्-व्यतिरिक्तस्य विद्यते अव्यभिचारिता //336//
17513 न तावद् एतद् वचनं वाच्यानां स्वभावः / न अप्य् एषां कार्यम् 17514 तद्-अभावे अपि वक्तुर् विवक्षा-मात्रेण भावात् / न च अन्यः 17515 कश्चित् कस्यचिद् अव्यभिचारी / व्यभिचारे च ततो अन्यथा अपि 17516 तत्-सम्भवात् तद्-भावात् तत्-प्रतीतिर् अयुक्ता / 17517 प्रवृत्तिर् वाचकानां च वाच्य-दृष्टि-कृता इति चेत् / 17518 स्याद् एतत् कार्यम् एव वचनं वाचकस्य वाच्य-दर्शन-वृत्तेर् / 17519 एवं सति / 17520 परस्पर-विरुद्ध-अर्था कथम् एकत्र सा भवेत् //337//
17521 यद्य् एष प्रतिनियमो वाच्यं वस्त्व् अन्तरेण शब्दो न प्रवर्तत 17522 इति / भिन्नेषु प्रवादेष्व् एकत्र वस्तुनि विरुद्ध-स्वभाव-उपसंहारेण 17523 वचन-वृत्तिर् न स्यात् / न ह्य् अयं सम्भवो अस्ति एकः 17524 शब्दो निष्पर्यायं नित्यश् च स्याद् अनित्यश् च इति / 17525 वस्तुभिर् न आगमास् तेन कथंचिन् नान्तरीयकाः / 17526 प्रतिपत्तुः प्रसिध्यन्ति कुतस् तेभ्यो अर्थ-निश्चयः //338//
17527 आगमं प्रमाणं तद्-आदर्शित-अर्थ-प्रतिपत्तये अज्ञो जनः समन्वेषते 17528 समधिगत-याथातथ्यानाम् उपदेश-अनपेक्षणात् / अज्ञस्य 17529 च अतीन्द्रिय-गुण-पुरुष-विवेचने असामर्थ्यात् / वचनानां 17601 समीहित-अर्थ-सत्ताम् अन्तरेण अपि वृत्तिं पश्यतो भवितव्यम् एव अदृष्ट- 17602 व्यभिचार-वचसाम् अपि पुरुषाणां वाचि शङ्कया किं यथार्था 17603 न वा इति / तेन न युक्तम् अनेन कस्यचिद् वचनेन किंचिन् 17604 निश्चेतुम् / 17605 तस्मान् न तन्-निवृत्त्या अपि भाव-अभावः प्रसिध्यति / 17606 यद् उक्तं सर्व-विषयत्वाद् आगमस्य सति वस्तुन्य् अविसंवादेन 17607 अस्य वृत्तेस् तन्-निवृत्ति-लक्षण-अनुपलब्धिर् अभावं साधयति 17608 इति तद् अस्य सर्व-विषयत्वे अपि वस्त्व्-अन्तरेण आवृत्तौ स्यात् / तच् 17609 च न अस्ति / ततः प्रतिपत्तुकामस्य असिद्धिर् इत्य् उक्तम् / 17610 तेन असंनिश्चय-फला अनुपलब्धिर् न सिध्यते //339//
17611 तस्मान् न प्रमाण-त्रय-निवृत्ताव् अपि विप्रकृष्टेष्व् अभाव-निश्चयः / 17613 वेद-प्रामाण्यं कस्यचित् कर्तृ-वादः / 17614 स्नाने धर्म-इच्छा जाति-वाद-अवलेपः / 17615 सन्ताप-आरम्भः पाप-हानाय च इति / 17616 ध्वस्त-प्रज्ञाने पञ्च लिङ्गानि जाड्ये //340//
17617 इति प्रमाणवार्त्तिके प्रथमः परिच्छेदः // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
