Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रमाणविनिश्चय-fragment
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — K. Matsuda und E. Steinkellner: "The Sanskrit Manuscripts of Dharmakīrti's Pramāṇaviniścaya: Report on a Single Folio Fragment from the National Archives Collection, Kathmandu", WZKS 35 (1991), pp. 139-149.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
धर्मकीर्ति: प्रमाणविनिश्चय-fragment
र्1: द् अन्वयम् आपादयति / प्रतिषेधनिषेधस्य विधानरूपत्वात्* / असतः सपक्षान् न निवृत्तिर् इत्य् असपक्ष एव नास्तीति चेत्* / नेति सैव निवृत्तेर् निर्वृत्तिः असतः कथम् इष्टा / अभावप्रतिषेधो हि भावो
2: ऽसत्य् अप्य् अस्ति / भावप्रतिषेधस् तु न संभवतीत्य् अस्खलितप्रज्ञो देवानांप्रियो यस् तद्विषयं प्रतिषेधं नेच्छति / असद् अभाव इति च व्यवहरति / निर्लोठितश् चायम् अर्थो ऽसति नास्तितेत्य्
3: अर्थान्तरे / तेन नेह प्रतन्यते / न चासन्न् आत्मा सत्तासाधनवृत्तेः सन्दिग्धः स्यात्* / न च परेण तथोपगत इति // अप्रमाणाद् अभ्युपगमात् तथैव भवति / अतिप्रसङ्गात्* /
4: न चोपगमबलेन सपक्षासपक्षौ व्यवस्थाप्य प्रमाणप्रवर्तनं युक्तम्* / एवं ह्य् आगमसिद्ध आत्मा स्यात्* / नानुमानसिद्धः / तस्माद् अव्यतिरेके ऽप्य् असतः / सपक्षाद् व्यतिरेकः सन्दिग्धः
5: स्यात्* प्राणादीनां / आत्मनः सन्देहात्* / अत एव विपक्षाद् अपि / एकत्र हि नियमे सिद्धे ऽन्यनिवर्तनं
व्1: सिध्येत्* / अन्यथा क्वचिद् दृष्टे ऽभावसिधाव् अपि स्याद् एवादृष्टे संशयः / तथा ह्य् असकलव्यक्तिभेदव्यापिनो ऽप्य् अर्थाः केचित् तज्जातिसंभविनो दृष्टाः पार्थिवालोहलेख्यवत्* / विरोधस्य चादृष्टेः संदेह
2: एव / नैरात्म्येन प्राणादीनां उक्तलक्षणस्य विरोधस्यासिद्धेः / सन्दिग्धो नैरात्म्याद् व्यतिरेकः / आत्मप्रतिनियमे हि तत्कार्यात्मतया प्राणादीनां नैरात्म्येन सह विरोधः
3: स्यात्* / स च न सिध्यतीत्य् उक्तम्* / अस्तु नाम निरात्मकेभ्यो व्यतिरेकः प्राणादीनां तद्भावे च नैरात्म्यव्यावृत्तिः / तथापि नानैरात्म्याद् आत्मा जीवच्छरीरे सिध्यति / येनायं न व्यतिरेकस्याभावं
4: भावम् इच्छति / यथा व्यतिरेकाभवे ऽपि सपक्षे प्राणादिर् नेष्टः / सपक्षाव्यतिरेकी चेद् धेतुर् हेतुर् अतो ऽन्वयी / नान्वयव्यतिरेकी चेद् अनैरात्म्यं न सात्मकं / इति संग्रहश्लोकः /
5: न प्राणादिसंभवेन नैरात्म्यव्यावर्तनाद् आत्मगति / किं तर्हि विधिमुखेनैव प्राणादयः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
