Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रमाणवार्त्तिस्ववृत्ति
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
08828 चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता / 08901 अस्त्य् एव वस्तु न अन्वेति प्रवृत्त्य्-आदि-प्रसङ्गतः //180 / 08902 सर्व एव गौर् अश्वाद् भिन्नो अभिन्नो वा इति भेदम् अभेदं वा 08903 पृच्छन् विशेषम् एव भावस्य स्वभाव-आख्यम् अधिकृत्य प्रवर्तते / 08904 स एव हि तथा उच्यते / द्रव्यत्व-आदयस् तु न तत्र शब्द-चोदिताः 08905 यथास्वं पृथग्-अभिधानात् / अर्थस्य तद्-अव्यभिचारात् 08906 ततो गतिः स्यात् / निर्लोठितं च एतद् आचार्येण / तद् अयं गव-आदि-शब्द- 08907 प्रत्युपस्थापितम् अर्थं भिन्नम् अभिन्नं वा पृच्छन्न् 08908 अर्थ-अन्तर-उपक्षेपेण तत्र किम् इति dvi-mukha-buddhiः क्रियते / 08909 तस्माद् यो अस्य आत्मा अनन्य-साधारणो यं पुरस्कृत्य पुरुषो 08910 विशिष्ट-अर्थक्रिया-अर्थी प्रवर्तते यथा गोर् वाह-दोह-आदौ न अन्य- 08911 सम्भविनो अर्थस्य यथा युद्ध-प्रवेशे स एव स्वभावो 08912 यथास्वं शब्द-चोदितो न द्रव्यत्व-आदि सामान्यम् / तच्-चोदनया 08913 तदा प्राप्तुम् अनभिप्रेतत्वात् / गव-आदि-समावेशात् तद् आत्मभूतानां 08914 च अनन्वयेन तत्र अनुभय-रूपत्वात् / तम् एव च अयं भावं 08915 प्रकारैः पर्यनुयुङ्क्ते / तस्य भेदे द्रव्यत्व-आद्य्-अभेदो 08916 अस्य अबाधक एव / सर्वत्र स्वभावेन भेदस्य अभ्युपगमात् 08917 सामान्यस्य च व्यावृत्ति-लक्षणस्य स्वभाव-भूतस्य च सामान्यस्य 08918 अभेदे अप्य् उक्तम् / स्वात्मना एव अभेदे तु तत्-स्वभाव-निबन्धन- 08919 अर्थक्रिया-अर्थी समं द्वयोर् अपि प्रवर्तेत / एको अपि 08920 ताम् अर्थक्रियां तत्-स्वभावत्वाद् एव करोति / तद्-अन्यस्य अपि 08921 तत् तुल्यम् इति सो अपि किं न करोति / 08922 एतेन एव यद् अह्रीकाः किं अप्य् अश्लीलम् आकुलम् / 08923 प्रलपन्ति प्रतिक्षिप्तं तद् अप्य् एकान्त-सम्भवात् //181//
08924 यद् अयम् अह्रीकः स्याद् उष्ट्रो दधि स्यान् न इति किम् अप्य् अश्लीलम् 08925 अयुक्तम् अहेय-उपादेयम् अपरिनिष्ठानाद् आकुलं प्रलपन्ति / तद् 08926 अप्य् अनेन निरस्तं स्वभावेन एकान्त-भेदात् / तद्-अन्वये वा / 08927 सर्वस्य उभय-रूपत्वे तद्-विशेष-निराकृतेः / 08928 चोदितो दधि खादेति किम् उष्ट्रं न अभिधावति //182//
09001 तथा ह्य् उष्ट्रो अपि स्याद् दधि न अपि स एव उष्ट्रः ये न अन्यो अपि स्याद् 09002 उष्ट्रः / तथा दध्य् अपि स्याद् उष्ट्रः न अपि तद् एव दधि येन अन्यद् 09003 अपि स्याद् दधि / तद् अनयोर् एकस्य अपि कस्यचित् तद्-रूप-अभावस्य 09004 अभावात् स्वरूपस्य वा अतद्-भाविनः स्व-नियतस्य अभावात् 09005 न कश्चिद् विशेष इति / दधि खादेति चोदित उष्ट्रम् अपि खादेत् / 09006 अथ अस्त्य् अतिशयः कश्चिद् येन भेदेन वर्तते / 09007 स एव दधि सो अन्यत्र न अस्ति इत्य् अनुभयं परम् //183//
09008 अथ अनयोः कश्चिद् अतिशयो अस्ति येन अयं तथा चोदितः क्षीर-विकार 09009 एव प्रवर्तते न अन्यत्र / स एव अतिशयो अर्थक्रिया-अर्थि-प्रवृत्ति-विषयो 09010 दधि / तत्-फल-उपादान-भाव-लक्षित-स्वभावं हि 09011 वस्तु दधि इति / स च तादृशः स्वभावो अन्यत्र न अस्ति इति / प्रवृत्त्य्-अभावाद् 09012 अर्थिनः / तस्मात् तन् न उभय-रूपम् इत्य् एकान्त-वादः / 09013 अपि च / 09014 सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धी-ध्वनी / 09015 भेद-संहार-वादस्य तद्-अभावाद् असम्भवः //184//
09016 सो अयम् अह्रीकः क्वचिद् अप्य् एकम् आकारं प्रतिनियतम् अपश्यन् 09017 विभाग-अभावाद् भावानां कथं असंसृष्ट-अन्य-आकारवत्या बुद्ध्य्- 09018 आधिमुच्येत अर्थान् अभिलपेद् वा / ततो भेद-अग्रहात् तत्-संहार- 09019 वादो न स्यात् स्याद् उष्ट्रो दधि स्यान् न इति / अथ पुनर् असंसृष्टाव् 09020 आकारौ प्रतिपद्य संहरेत् / एक-रूप-संसर्गिण्याः बुद्धेः 09021 क्वचित् प्रतिनियमात् तत्-प्रतिभास-भेद-कृत एव तयो रूपयोः 09022 स्वभाव-भेदो अपि स्यात् / एक-अनेक-व्यवस्थितेः प्रतिभास-विषयत्वात् / 09023 तथा च न एकस् तd-ubhaya-rऊपः स्याद् इति मिथ्या-वाद 09024 एषः / स्थितम् एतत् न भावानां कश्चित् स्वभाव-अन्वयो अस्ति 09025 भेद-लक्षणम् एव तु सामान्यम् / अथ च प्रकृत्या केचिद् एक-ज्ञान- 09026 आदि-फलाः केचिन् न इति / भवतु नाम भावानां स्वभाव- 09101 भेदः सामान्यम् / येषां तु निरुपाख्यानां स्वभाव एव न अस्ति 09102 तत्र कथं स्वभाव-भेद-विषयाः शब्दाः / तेष्व् अवश्यं 09103 शब्द-प्रवृत्त्या भाव्यम् / कथंचिद् अव्यवस्थापितेषु विधि-प्रतिषेध- 09104 अयोगात् / तथा च सर्वत्र अयम् अन्वय-व्यतिरेक-आश्रयो व्यवहारो 09105 न स्यात् उष्ण-स्वभावो अग्निर् न अनुष्ण इत्य् अपि / स्वभाव-अन्तरस्य 09106 असतः कथंचिद् अव्यवस्थापनात् / सर्वथा अप्रतिपत्तेर् 09107 अग्नि-स्वभावस्य अप्रतिपत्तिर् इति व्यामूढं जगत् स्यात् / स्याद् एतत् 09108 न तत्र कस्यचिद् असतो निषेधः अनुष्णं सद् एव अर्थ-अन्तरं 09109 निषिध्यत इति / कथम् इदानीं सद् असन् नाम /
न ब्रूमः सर्वत्र 09110 असत् तत्र न अस्ति इति देश-काल-धर्म-निषेध एव सर्व-भावेषु 09111 क्रियते न धर्मिणः तन्-निषेधे तद्-विषय-शब्द-प्रवृत्त्य्-अभावात् 09112 अनिर्दिष्ट-विषयस्य नञो अप्रयोगात् / सो अपि तर्हि देश-आदि- 09113 प्रतिषेधः कथम् / यस्मान् न तत्र अपि देश-आदीनां प्रतिषेधो 09114 न अप्य् अर्थस्य / सम्बन्धो निषेध्यत इति चेत् / ननु तन्-निषेधे 09115 अपि तुल्यो दोषो निषेधाद् असति शब्द-अप्रवृत्तिर् इत्य् आदि / असतो वा अस्य 09116 निषेधे तद्वद् धर्मिणो अपि निषेधः / न वै सम्बन्धस्य 09117 न अस्ति इति निषेधः / किं तर्हि / न इह घटो न इदानीं न एवम् इत्य् उक्तौ 09118 न अनेन सम्बन्धो अस्ति न एतद् धर्मा वा इति प्रतीतिः / तथा 09119 च सम्बन्धो निषिद्धो भवति इति / तथा अपि कथं निषिद्धो यावद् 09120 अस्य सम्बन्धो धर्मो वा न अस्ति इति मतिर् न भवति / न च अस्याः 09121 कथंचिद् भावे सम्भवो अभावेषु तथा अभावात् / तस्मात् सम्बन्ध- 09122 अभाव-प्रतीतेर् न अयम् इह इत्य् आद्या प्रतीतिः / स तद्-अभावे 09201 न स्यात् / प्रतीतौ वा तद्-अभावस्य / यथा प्रतीति-मतस् तत्-प्रभवाः 09202 शब्दाः केन निवार्यन्ते / स एव हि शब्दानां न विषयो 09203 यो न वितर्काणाम् / ते चेत् प्रवृत्ताः को वचनस्य निषेद्धा / 09204 न ह्य् अवाच्यम् अर्थं बुद्धयः समीहन्ते / सम्बन्धस्य 09205 तु स्वरूपेण अनभिधानम् उक्तम् / अभिधाने सम्बन्धित्वेन 09206 बुद्धाव् उपस्थानात् / यथा-अभिप्रायम् अप्रतीतिः / तद् अयं प्रतीयमानो 09207 अपि सम्बन्धि-रूप एव इति स्वरूपेण न अभिधीयते / तस्मान् 09208 न अभाव-वत् सम्बन्धे अपि प्रसङ्गः / अपि च /
अयम् 09209 अभावम् अभिधेयं ब्रुवाणं प्रति प्रतिविदधद् अब्रुवाणः 09210 कथं प्रतिविदध्यात् / वचने वा अस्य कथम् अभावो अनुक्तः / 09211 अथ अभावम् एव न इच्छेत् / तेन अवचनम् / तद् एव इदानीं कथम् 09212 अभावो न अस्ति इति / यत् पुनर् एतद् अर्थ-निषेधे अनर्थक-शब्द-अप्रयोगान् 09213 निर्विषयस्य नञो अप्रयोग इत्य् अत्र उत्तरं वक्ष्यते / तस्मात् 09214 सन्त्य् अभावेषु शब्दाः / तेषु कथं स्वभाव-भेद इति / 09215 तत्र अपि / 09216 रूप-अभावाद् अभावस्य शब्दा रूप-अभिधायिनः / 09217 न आशङ्क्या एव सिद्धास् ते व्यवच्छेदस्य वाचकाः //185//
09218 वस्तु-वृत्तीनां शब्दानां किं रूपम् अभिधेयम् आहोस्विद् भेद 09219 इति शङ्का स्यात् / अभावस् तु विवेक-लक्षण एव निमित्तीकर्तव्यस्य 09220 कस्यचिद् रूपस्य अभावात् तद्-भावे अभाव-अयोगात् / तद्-भाव-लक्षणत्वाद् 09221 भावस्य / तस्माद् अयम् एव स मुख्यो विवेकः / 09222 तस्य तथा अभाव-ख्यापिनः शब्दाः किं विवेक-विषया इत्य् अस्थानम् 09223 एव एतद् आशङ्कायाः / तस्मात् सिद्धम् एतत् सर्वे शब्दा विवेक-विषया 09301 विकल्पाश् च / त एते एक-वस्तु-प्रतिशरणा अपि यथास्वम् 09302 अवध्i-bheda-upakalpiतैर् भेदैर् भिन्नेष्व् इव प्रतिभात्सु बुद्धौ 09303 विवेकेषु उपलयनाद् भिन्न-विषया एव / तेन स्वभावस्य एव साध्यसाधनभावे 09304 अपि न साध्य-साधन-संसर्गः / तौ न प्रतिज्ञार्थैकदेशो 09305 हेतुर् इति / स च अयं हेतुत्वेन अपदिश्यमानः / 09306 उपाध्i-bheda-apekषो वा स्वभावः केवलो अथवा / 09307 उच्यते साध्य-सिद्ध्य्-अर्थं नाशे कार्यत्व-सत्त्व-वत् //186//
09308 अपेक्षित-पर-व्यापारो हि स्वभाव-निष्पत्तौ भावः कृतकः / 09309 तेन इयं कृतक-श्रुतिः स्वभाव-अभिधायिन्य् अपि पर-उपाधिम् एनम् 09310 आक्षिपति / एतेन प्रत्यय-भेद-भेदित्व-आदयो व्याख्याताः / एवम् 09311 उपाध्i-bheda-apekषः क्वचित् स्वभावो हेतुर् उच्यते क्वचिद् अनपेक्षः 09312 सामान्येन यथा अनित्यत्व एव सत्त्वम् क्वचित् स्वभाव-भूत- 09313 धर्म-विशेष-परिग्रहेण यथा तत्र एव उत्पत्तिः / अनया 09314 दिशा अन्ये अपि स्वभाव-हेतु-प्रविभागा द्रष्टव्याः / 09315 सत्ता-स्वभावो हेतुश् चेन् न सत्ता साध्यते कथम् / 09316 अनन्वयो हि भेदानां व्याहतो हेतु-साध्ययोः //187//
09317 यदि सत्त्वम् अनित्यत्वे अन्यत्र वा हेतुः स्यात् साध्यम् अपि कस्मात् 09318 न इष्यते / तत् किल एवं प्रसाध्यमानं विशेषीभवति / 09319 न च विशेषः साधायितुं शक्यते अनन्वयात् / यथा आह प्रमाण- 09320 विशेषया अज्ञानाद् इति / सो अयं विशेषो न साध्य एव व्याहन्यते / 09321 किं तर्हि / हेताव् अपि तुल्य-दोषत्वात् / न हि हेतुर् अनन्वयः सिद्धेर् 09322 अङ्गं ततः संशयात् / न एष दोषः / यस्मात् / 09401 भाव-उपादान-मात्रे तु साध्ये सामान्य-धर्मिणि / 09402 न कश्चिद् अर्थः सिद्धः स्याद् अनिषिद्धं च तादृशम् //188//
09403 न सर्वथा सत्ता-साधने विशेषः साधितो भवति / भाव-मात्र- 09404 विशेषणो अस्ति कश्चिद् धर्मी इति प्रसाधयतो अनिर्दिष्ट-स्वभाव-विशेषस्य 09405 कस्यचित् सत्ता-मात्रे विरोध-अभावात् न इह सत्ता-साधन- 09406 प्रतिषेधः किं तु स तथा अस्ति कश्चिद् इति कंचन अस्य भेदम् 09407 अपरामृशन् ब्रुवाणः कं स्वार्थं पुष्णाति / तस्माद् अनेन उपात्त- 09408 भेद एव साध्यः / 09409 उपात्त-भेदे साध्ये अस्मिन् भवद् हेतुर् अनन्वयः / 09410 सत्तायां तेन साध्यायां विशेषः साधितो भवेत् //189//
09411 स हि धर्मी प्रधान-लक्षण एको नित्यः सुख-आद्य्-आत्मको अन्यो 09412 वा इति यथाकथंचिद् अपि विशेषितस् तत्-स्वभावः प्रसाधितो भवति / 09413 स च तथा न अन्वेति / यद् अपि सत्ता-मात्रम् अन्वेति न तेन 09414 सिद्धेन किंचित् / नन्व् एवम् अग्न्य्-आदिष्व् अपि प्रसङ्गः / तत्र अपि 09415 न अग्नि-सत्ता-मात्रे कश्चिद् विवादः / विशिष्ट-आधार-विशेषस्य त्व् अभिमतस्य 09416 अनन्वयाद् असिद्धिः / न वै स आधारस् तं विशेषीकरोति / 09417 तद्-अयोगव्यवच्छेदेन विशेषणाद् इत्य् उक्तं वक्ष्यते च / तस्मात् 09418 तत्र सामान्यम् एव साध्यते तद्-अयोगव्यवच्छेदेन / 09419 न तथा इह अपि क्वचित् सत्तायाः साधनम् / प्रधान-आदि-शब्द-वाच्यस्य 09420 एव अर्थस्य क्वचिद् अभावान् निर्विशेषणा एव सा / कथम् अभावो 09421 ज्ञेय-अभिधेय-प्रमेयत्वैः सो अपि सिद्ध एव / तत् किम् इदानीं 09422 ज्ञेयम् अस्ति इति सिद्धिर् अस्तु / तथा अपि किं सिद्धं स्यात् / अन्यत्र 09423 तु तद् एव अग्नि-सामान्यं तत्र असिद्धम् इति साध्यते / ननु तत्र अपि 09424 तd-ayoga-virahiणा सामान्येन अन्वयो न सिद्ध एव / न वै कश्चित् 09425 तथा अभूतेन अन्वयं करोति / प्रतिपादयता हि परं धूमो 09426 अग्नि-नान्तरीयको दर्शनीयो यत्र धूमस् तत्र अग्निर् इति / स तथा अग्नि- 09427 मात्रेण व्याप्तः सिद्धो यत्र एव स्वयं दृश्यते तत्र एव अग्नि- 09501 बुद्धिं जनयति / तत्र च साध्य-निर्देशेन न किंचित् / तत्र 09502 दर्शन-सम्बन्ध-आख्यान-मात्राद् इष्टसिद्धेः / तद्-अनिर्देशे च 09503 कथं तद्-विशिष्टेन अन्वयः / तद् अयम् अग्निना अविनाभावी 09504 सिद्धः / अर्थाद् एव अग्नेस् तत्-प्रदेश-अयोगं व्यवच्छिनत्ति इति स 09505 तथा साध्य उच्यते / न पुनस् तथा अस्य उपन्यास-पूर्वको अन्वयः 09506 साध्य-उक्तेर् इह अनङ्गत्वात् / तत्-पूर्वकत्वे वा कः प्रतिज्ञां 09507 साधनाद् अपाकरोति / तथा च आह / 09508 लिङ्गस्य अव्यभिचारस् तु धर्मेण अन्यत्र दर्श्यते / 09509 तत्र प्रसिद्धं तद्-युक्तं धर्मिणं गमयिष्यति / 09510 तस्मान् न अग्न्य्-आदि-साधन-वत् सत्ता-साधनम् अप्य् अनवद्यम् इति / 09511 अपरामृष्ट-तद्-भेदे वस्तु-मात्रे तु साधने / 09512 तन्-मात्र-व्यापिनः साध्यस्य अन्वयो न विहन्यते //190//
09513 साधने पुनः सत्त्वे स्वभाव-विशेष-अपरिग्रहेण वस्तु-मात्र- 09514 व्यापिनि साध्य-धर्मे न अन्वय-व्याघातः / न हि तत्र अवश्यं 09515 विशेष-परिग्रहः कार्यः / सन्-मात्र-आश्रये अपि साधन-सामर्थ्यात् / 09516 न साध्यत्वे / वैफल्यात् / अपि च / 09517 न असिद्धे भाव-धर्मो अस्ति व्यभिचार्य्-उभय-आश्रयः / 09518 धर्मो विरुद्धो अभावस्य सा सत्ता साध्यते कथम् //191//
09519 सत्तायां हि साध्यायां / सर्वस् तद्-हेतुर् न त्रयीं दोष-जातिम् 09520 अतिपतति / असिद्धिं व्यभिचारं विरोधं च / तत्र यदि भाव- 09601 धर्मो हेतुर् उच्यते / स कथम् असिद्ध-सत्ताके स्यात् / यो हि 09602 भाव-धर्मं तत्र इच्छति / स कथं भावं न इच्छेत् / स्वभाव 09603 एव हि कयाचिद् अपेक्षया धर्म इति व्यतिरेकी इव धर्मिणो 09604 निर्दिश्यते / न हि धर्म-धर्मि-वाचिनोः शब्दयोर् वाच्ये कश्चिद् 09605 विशेषो अस्ति इत्य् उक्तम् एतत् / अथ पुनर् उभय-धर्मं ब्रूयात् / 09606 अनाश्रित-वस्तुनो अपर्युदासेन व्यतिरेक-मात्रस्य अभावे अप्य् अविरोधात् / 09607 यथा न भवति मूर्त इति अमूर्तत्वं निरुपाख्ये अपि 09608 स्यात् / निरुपाख्यस्य अभावाद् न प्रतिषेध-विषयता इति चेत् / तत् किम् 09609 इदानीं विधि-विषयो अस्तु / तद् अपि न इति चेत् / कथम् इदानीं न 09610 प्रतिषेध-विषयः / विधि-निवृत्ति-रूपत्वात् प्रतिषेधस्य / तद् 09611 एतद् व्यवच्छेद-मात्रं द्वयोर् अपि सम्भवद् विपक्ष-प्रचार- 09612 शङ्का-व्यवच्छेदेन लभ्यं गमकत्वं कथम् आत्मसात् 09613 कुर्यात् / स च स्वयं स्व-वाच-उभय-धर्मतां ब्रुवाणः सतो 09614 अन्यत्र अप्य् अस्य वृत्तिं भाषते सत्तायां च अव्यभिचारम् इति 09615 कथं न उन्मत्तः / अभाव-धर्मं तु भाव-मात्र-व्यापिनो 09616 अर्थस्य व्यवच्छेदं हेतुं सत्तायां वदतो अस्य विरुद्धो 09617 हेतुः स्यात् / तस्य भावे क्वचिद् असम्भवात् अभावे च भाव- 09618 व्यवच्छेदस्य भावात् / तद् अयं त्रिप्रकारो अपि धर्मः सत्ता- 09619 साधने न हेतु-लक्षण-भाक् न च अन्या गतिर् अस्ति / तस्मान् न 09620 सत्ता साध्यते /
साधनत्वे पुनर् अस्याः सामान्येन तन्-मात्र-व्यापिनि 09621 वस्तु-धर्मे सिद्ध-सत्ताके धर्मिणि न असिद्धिः / तेन च 09622 साध्य-धर्मेण व्याप्तिर् यदि कथंचिन् निश्चीयते न विरोध- 09623 व्यभिचाराव् इति न अयं प्रसङ्गः / अनिश्चितायां तु व्याप्तौ धर्मि- 09624 समाश्रये वा तत्-स्वभावतया गमको न कश्चिद् गमकः / 09625 अत एव स्व-धर्मेण व्याप्तः 09626 सिद्धः स्वभावो गमको / 09701 वाच्यः / न हि प्रकाशतया प्रकाशयन् प्रदीपस् तद्-रूप-अप्रतिपत्तौ 09702 स्वाम् अर्थक्रियां करोति / 09703 व्यापकस् तस्य निश्चितः / 09704 गम्यः स्वभावस् / 09705 तd-dharma-niश्चयाद् एव निश्चितो व्यापकत्वेन तस्य धर्मिणो 09706 धर्मो गम्यः / 09707 तस्य अयं निवृत्तौ वा निवर्तकः //192//
09708 तस्य व्याप्यस्य धर्मस्य अयं निवर्तको व्यापको धर्मः 09709 स्वयं निर्वर्तमानः / एवं ह्य् अयम् अस्य व्यापकः सिद्धो 09710 भवति यद्य् अस्य अभावे न भवेत् / तद् अनेन द्विविधस्य अपि 09711 साधन-प्रयोगस्य गमकता-लक्षणम् उक्तं वेदितव्यम् / द्विविधो 09712 हि प्रयोगः साधर्म्येण वैधर्म्येण च / यथा आहुर् 09713 एके अन्वयी व्यतिरेकी च इति / न अनयोर् वस्तुतः कश्चिद् भेदो अन्यत्र 09714 प्रयोग-भेदात् / साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य- 09715 गतिः असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात् / तथा 09716 वैधर्म्ये अप्य् अन्वय-गतिः असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य 09717 सन्देहाद् इति विस्तरेण वक्ष्यामः / 09718 अनित्यत्वे यथा कार्यम् अकार्यं वा अविनाशिनि / 09719 अनेन उदाहरणम् अनयोर् दर्शयति / तत्र अन्वयी यत् किंचित् कृतकं 09720 तत् सर्वम् अनित्यम् यथा घट-आदयः शब्दश् च कृतक 09721 इति कृतकत्वस्य अप्य् अनित्यत्वेन व्याप्तिं प्रदर्श्य शब्दस् य 09722 कृतकत्वे कथिते सामर्थ्याद् एव अनित्यः शब्द इति / तस्मान् 09723 न अवश्यम् इह पक्ष-निर्देश इति / अयम् अन्वयिनः प्रयोगः / 09724 व्यतिरेके अपि न अनित्यत्व-अभावे कृतकत्वं भवति शब्दश् च 09725 कृतक इति / सिद्ध-तत्-स्वभावतया तद्-अभावे न भवतः / 09726 कृतकत्वस्य शब्दे च भाव-ख्यातौ तदात्मनः सतो भाव इति 09727 सामर्थ्यात् सिद्धेः पूर्ववान् न प्रतिज्ञा-वचनम् / अन्वयस् त्व् 09801 अर्थापत्त्या सिद्धः / न ह्य् अतदात्म-नियतस्य तन्-निवृत्तौ 09802 निवृत्तिः / तस्मात् तन्-नियमं प्रसाध्य निवृत्तिर् वक्तव्या / 09803 सा चेत् सिध्यति तदात्म-नियमम् अर्थात् सूचयति इति सिद्धो अन्वयः / 09804 कथम् इदानीं कृतको अवश्यम् अनित्य इति प्रत्येतव्यो 09805 येन एवम् उच्यते / यस्मात् / 09806 अहेतुत्वाद् विनाशस्य स्वभावाद् अनुबन्धिता //193//
09807 न हि भावा विनश्यन्तस् तद्-भावे हेतुम् अपेक्षन्ते / स्व-हेतोर् 09808 एव विनश्वराणां भावात् / तस्माद् यः कश्चित् कृतकः स प्रकृत्या 09809 एव नश्वरः / तथा हि / 09810 सापेक्षाणां हि भावानां न अवश्यंभाविता ईक्ष्यते / 09811 निरपेक्षो भावो विनाशे / सापेक्षत्वे हि घट-आदीनां केषांचिन् 09812 नित्यता अपि स्यात् / येन 09813 बाहुल्ये अपि हि तद्-हेतोर् भवेत् क्वचिद् असम्भवः //194//
09814 यद्य् अपि बहुलं विनाश-कारणानि सन्ति तेषाम् अपि स्व-प्रत्यय- 09815 अधीन-संनिधित्वान् न अवश्यं संनिधानम् इति कश्चिन् न विनश्येद् 09816 अपि / न ह्य् अवश्यं हेतवः फलवन्तो वैकल्य-प्रतिबन्ध- 09817 सम्भवात् / 09818 एतेन व्यभिचारित्वम् उक्तं कार्य-अव्यवस्थितेः / 09819 सर्वेषां नाश-हेतूनां हेतुमन्-नाश-वादिनाम् //195//
09820 इत्य् अन्तरश्लोकः / तद् अयं भावो अनपेक्षस् तद्-भावं प्रति 09821 तद्-भाव-नियतो असम्भवत्-प्रतिबन्धा इव कारण-सामग्री सकला 09822 कार्य-उत्पादने / नन्व् अनपेक्षाणाम् अपि केषांचित् क्वचिन् न अवश्यं 09823 तद्-भावो भूमि-बीज-उदक-सामग्र्याम् अपि कदाचिद् अङ्कुर-अनुत्पत्तेः / 09824 न तत्र अपि सन्तानपरिणाम-अपेक्षत्वात् / न एवं भावस्य काचिद् 09825 अपेक्षा / तत्र अप्य् अन्त्या कारण-सामग्री या अव्यवहिता कार्य-उत्पत्तेः 09826 सा फलवत्य् एव / स एव च तत्र अङ्कुर-हेतुः / अन्यस् तु पूर्वः परिणामस् 09901 तद्-अर्थ एव / न च तां तत्र कश्चित् प्रतिबन्धुं समर्थः / 09902 एकत्र भावे विकार-अनुत्पत्तेः / उत्पत्तौ वा एकत्व-हानेः / 09903 तदात्मनश् च अप्रच्युतस्य तद्-उत्पादनं प्रति वैगुण्यं कारणस्य 09904 अकुर्वाणस्य प्रतिबन्ध-हेतोर् अप्रतिबन्धकत्वात् / ननु 09905 यव-बीज-आदयो अपि शाल्य्-अङ्कुरे जन्ये न सापेक्षाः / तदुत्पत्ति-प्रत्ययानां 09906 कदाचित् तत्र अपि संनिधानात् / कथं न सापेक्षाः / 09907 यावता स एव एषां स्वभावो न अस्ति यस् तद्-उत्पादनः शालि-बीजस्य 09908 इति तत्-स्वभाव-अपेक्षाः / एवं तर्हि कृतकानाम् अपि केषांचित् 09909 सतां वा स एव स्वभावो न अस्ति यो विनश्वरः / तस्मात् तत्-स्वभाव-अपेक्षत्वान् 09910 न विनश्वराः / शालि-बीज-आदीनाम् अपि स स्वभावः 09911 स्व-हेतोर् इति यो न तद्-हेतुः सो अतत्-स्वभावः स्यात् / नियत-शक्तिश् 09912 च स हेतुः स्वरूपेण प्रतीत एव / न च स्वभाव-नियमो 09913 अर्थानाम् आकस्मिको युक्तः /
अनपेक्षस्य देश-काल-द्रव्य-नियम- 09914 अयोगात् तथा अत्र अपि नियम-हेतुर् वक्तव्यो यत इमे केचिन् 09915 नश्वर-आत्मनो जाता न च अत्र कश्चिन् नियामकः स्वभावस्य अस्ति 09916 सर्व-जन्मिनां विनाश-सिद्धेः / जन्मि-स्वभावो नाशी इति चेत् / न वै 09917 जन्म नाशि-स्वभावस्य हेतुः न च अहेतोः स्वभाव-नियमः / 09918 तस्मान् न अत्र कश्चिद् हेतोः स्वभाव-प्रविभागः / तद्-अभावात् 09919 फलस्य अपि न अस्ति इत्य् असमानम् / सा इयं निरपेक्षता विनाशस्य 09920 क्वचित् कदाचिच् च भाव-विरोधिनी तद्-अभावं स्वभावेन 09921 साधयति / यो हि स्वभावो निरपेक्षः स यदि कदाचिद् 09922 भवेत् क्वचिद् वा तत्-काल-द्रव्य-अपेक्ष इति निरपेक्ष एव न 09923 स्याद् इत्य् उक्तम् / स तर्हि नश्वरः स्वभावो निरपेक्ष इति अहेतुकः 09924 स्यात् / न अहेतुकः सत्ता-हेतोर् एव भावात् तथा-उत्पत्तेः / सतो 09925 हि भवतस् तादृशस्य एव भावात् / न अवश्यं सतः कुतश्चिद् 09926 भाव इति चेत् / आकस्मिकी तर्हि सत्ता इति / न इयं कस्यचित् कदाचित् 09927 क्वचित् विरमेत् / तद् हि किंचिद् उपलीयेत न वा यस्य यत्र किंचित् 09928 प्रतिबद्धम् अप्रतिबद्धं वा / सा इयं सत्ता अप्रतिबन्धिनी चेत् / 10001 नियमवती न स्यात् / तस्मान् न इयम् आकस्मिकी क्वचित् / कथं 10002 तर्हि इदानीम् अहेतुको विनाश उक्तः / जातस्य तद्-भावे अन्य-अनपेक्षणात् / 10003 उक्तं च अत्र न विनाशो नाम अन्य एव कश्चिद् भावात् स्वभाव 10004 एव हि नाशः स एव ह्य् एक-क्षण-स्थायी जात इति /
तम् अस्य 10005 मन्दाः स्वभावम् ऊर्ध्वं व्यवस्यन्ति न प्राक् दर्शने अपि 10006 पाटव-अभावाद् इति तद्-वशेन पश्चाद् व्यवस्थाप्यते विकार-दर्शनेन 10007 इव विषम् अज्ञैः / तद् अयं सत्ता-व्यतिरेकेण न अन्यत् किंचिद् 10008 विनाशो अपेक्षत इति तद्-व्यापी / कथं पुनर् एतद् गम्यते 10009 निरपेक्षो विनाश इति / 10010 असामर्थ्याच् च तद्-हेतोर् / 10011 अभाव-कारिणः क्रिया-प्रतिषेधाच् च इति च-शब्दात् / कथम् असामर्थ्यम् / 10012 सिद्धे हि भावे कारको न तं करोति / न अप्य् अन्य-क्रियायां 10013 तस्य किंचिद् इति / तd-atad-rऊप-अकरणाच् च अकिंचित्करो न अपेक्ष्यत 10014 इति / कथं क्रिया-प्रतिषेधो विनाश इति हि ते भाव-अभावं मन्यन्ते / 10015 तद् अयं विनाश-हेतुर् अभावं करोति इति प्राप्तम् / तत्र 10016 यद्य् अभावो नाम कश्चित् कार्यः स्यात् स्वभावः स एव भाव इति 10017 न अभावः स्यात् / तस्माद् अभावं करोति इति भावं न करोति इति 10018 क्रिया-प्रतिषेधो अस्य कृतः स्यात् / तथा अप्य् अयम् अकिंचित्करः 10019 किम् इति अपेक्ष्यत इति सिद्धा विनाशं प्रत्य् अनपेक्षया भावस्य / 10020 तस्मात् 10021 भवत्य् एष स्वभावतः / 10022 यत्र नाम भवत्य् अस्माद् अन्यत्र अपि स्वभावतः //196//
10023 सो अयं क्वचिद् भवन् दृष्टो अनपेक्षत्वात् स्वभावत एव भवति / 10024 तथा अन्यत्र अपि स्वभाव-भावी विशेष-अभावाद् इति / 10025 या काचिद् भाव-विषया द्विधा एव अनुमितिस् ततः / 10026 स्व-साध्ये कार्य-भावाभ्यां सम्बन्ध-नियमात् तयोः //197//
10028 तस्मात् द्विप्रकारा एव वस्तु-विषय-अनुमितिः कार्य-लिङ्गा स्वभाव- 10101 लिङ्गा च / यथास्वं व्यापिनि साध्ये तयोर् एव प्रतिबन्धात् लिङ्गयोर् 10102 लिङ्गिनि / यथोक्तं प्राक् / 10103 प्रवृत्तेर् बुद्धि-पूर्वत्वात् तद्-भाव-अनुपलम्भने / 10104 प्रवर्तितव्यं न इत्य् उक्त-अनुपलब्धेः प्रमाणता //198//
10105 तृतीयस् तु हेतुर् अनुपलब्धिर् अविशेषेण क्वचिद् अर्थे गमक इत्य् 10106 उच्यते / सन्-निश्चय-शब्द-व्यवहार-प्रतिषेधे हि सर्वा एव अनुपलब्धिर् 10107 लिङ्गम् / सन्-निश्चयाद् हि शब्द-व्यवहाराः प्रवर्तन्ते / 10108 ते प्रवृत्तिर् इत्य् उक्ताः / तथा ह्य् अनुपलब्धिर् एव असत्त्वम् 10109 इत्य् उक्तम् प्राक् / तच् च प्रतिपत्तृ-वशान् न वस्तु-वशात् / तावद् हि 10110 स भावो अस्य न अस्ति यावद् अत्र अप्रतिपत्तिः / सता अपि ते न तd-artha-akaraणात् / 10111 वस्तुतस् त्व् अनुपलभ्यमानो न सन् न असन् / सताम् 10112 अपि स्वभाव-आदि-विप्रकर्षात् कदाचिद् अनुपलम्भात् तस्य असत्स्व् अपि 10113 तुल्यत्वात् / तद् एतत् प्रतिपत्तुः प्रमाण-अभावान् निवृत्तं सत्त्वम् 10114 अनुपलब्धि-लक्षणं स्व-निमित्तान् शब्द-व्यवहारान् निवर्तयति / 10115 तेन या अपि इयम् अनुपलब्धिर् उपलब्धि-लक्षण-प्राप्तानां 10116 वस्तुतो अप्य् असत्त्व-रूपा अप्रवृत्ति-योग्यत्वात् / तस्या अप्य् एतत् तुल्यं 10117 प्रामाण्यम् अत्र विषये / असन्-निश्चय-फला अपि सा / असत्तायाम् अपि इयं 10118 प्रमाणम् एव / न ह्य् अस्ति सम्भवो यद् उपलब्धि-योग्यः 10119 सकलेष्व् अन्येषु कारणेषु सन् न उपलभ्येत / न पुनः पूर्वा 10120 असत्ता-साधानी / यस्मात् 10121 शास्त्र-अधिकार-असम्बद्धा बहवो अर्था अतीन्द्रियाः / 10122 अलिङ्गाश् च कथं तेषाम् अभावो अनुपलब्धितः //199//
10123 सो अयम् असत्तां साधयन्न् अनुपलब्धि-मात्रेण सर्व-अर्थानां 10201 प्रमाण-त्रय-निवृत्त्या साधयेत् / तत्र न शास्त्र-निवृत्तिर् अभाव-साधनी / 10202 तस्य क्वचिद् अनधिकारे अप्रवृत्तेः / शास्त्रं हि प्रवर्तमानं 10203 कंचित् पुरुष-अर्थ-साधनम् उपायम् आश्रित्य प्रवर्तते / 10204 अन्यथा अबद्ध-प्रलापस्य अप्रामाण्यात् / तत्र च प्रकरणे 10205 बहवो अर्था न अवश्यं निर्देश्याः / यथा प्रत्यात्म-नियताः 10206 काश्चन पुरुषाणां चेतो-वृत्तयो अनियत-निमित्त-भाविन्यः देश- 10207 काल-व्यवहिता वा प्रकरण-अनुपयोगिनो द्रव्य-विशेषा न तान् 10208 शास्त्रं विषयीकरोति / न च तथा विप्रकृष्टेषु स्व-सामर्थ्य-उपधानाव् 10209 ज्ञान-उत्पादन-शक्तिर् अस्ति / न च अवश्यम् एषां कार्य-उपलम्भो 10210 येन अनुमीयेरन् / न च ते प्रमाण-त्रय-निवृत्ताव् अपि 10211 न सन्ति इति शक्यन्ते व्यवसातुम् / तस्मान् न सर्व-अनुपलब्धिः 10212 साधनी निवृत्ति-निश्चयस्य / तद् इयम् / 10213 सd-asan-niश्चय-फला न इति स्याद् वा अप्रमाणता / 10214 न एव वा इयम् अनुपलब्धिः प्रमाणं व्यवसाय-फलत्वात् प्रमाणानाम् / 10215 न हि प्रवृत्ति-निषेधे अपि इयं निःशङ्क-परिच्छेदं 10216 चेतः करोति / संशयाद् अपि क्वचिल् लोकस्य प्रवृत्तेः / तथात्वे 10217 तन् निरवद्यं यदि निश्चय-पूर्वं व्यवहरेद् इति सा इयम् अप्रवृत्ति- 10218 फला प्रोक्ता / 10219 प्रमाणम् अपि काचित् स्याल् लिङ्ग-अतिशय-भाविनी //200//
10220 अत्र न सर्व-अनुपलब्धिर् अप्रमाणम् / प्रमाणम् अपि काचिल् लिङ्ग- 10221 विशेष-भाविनी यथा-उदाहृता प्राक् / यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति 10223 स्वभाव-ज्ञापक-अज्ञानस्य अयं न्याय उदाहृतः / 10301 यस्य कस्यचित् स्वभावो न उपलभ्यते देश-आदि-विप्रकर्षात् न 10302 स तद्-अनुपलम्भ-मात्रेण असन् नाम यथोक्तं प्राक् / यो अपि 10303 ज्ञापकस्य लिङ्गस्य अभावाद् अतीन्द्रियः प्रतिक्षिप्यते अर्थः स्वभाव- 10304 विशेषो वा यथा न अस्ति विरक्तं चेतो देवता-विशेषो वा 10305 न अस्ति दान-हिंसा-विरति-चेतनानाम् अभ्युदय-हेतुता इति प्रत्यक्षे 10306 अप्य् अर्थे फलस्य आनन्तर्य-अभावाद् अतत्-फल-साधर्म्याद् विपर्यस्तो 10307 अपवदेत अपि न तावता तद्-अभाव एव व्यवहितानाम् 10308 अपि हेतोः फलानाम् उत्पत्ति-दर्शनात् मूषिक-अलर्क-विष-विकार-वत् / 10309 तद्-भावे विरोध-अभावाद् अत्र अनुपलब्धि-मात्रम् अप्रमाणम् / 10310 भावे किं प्रमाणम् इति चेत् / अत एव संशयो अस्तु भवेद् 10311 वा प्रमाणम् इत्य् अप्रतिक्षेपः / तद् अत्र केषांचिद् अर्थानां 10312 स्वभावानां वा दर्शन-पाटव-अभावात् कारणानां कार्य-उत्पादन- 10313 नियम-अभावाच् च भवेज् ज्ञापक-असिद्धिः / नेयता तद्-अभावः / 10314 पुनः पर्यायेण केषांचिद् अभिव्यक्तेः / 10315 कार्ये तु कारक-अज्ञानम् अभावस्य एव साधकम् //201//
10316 स्वभाव-अभावे साध्ये तद्-अनुपलम्भ एव अप्रमाणम् उच्यते / 10317 कारक-अनुपलम्भस् तु प्रमाणम् एव / न ह्य् अस्ति सम्भवो यद् 10318 असति कारणे कार्यं स्यात् / ननु कदाचित् कारण-नाशे अपि कार्य-स्थितिर् 10319 दृष्टा / न ब्रूमः कारण-स्थिति-काल-भावी कार्यम् इति / हेतु-रहिता 10320 तु भाव-उत्पत्तिर् न अस्ति इत्य् उच्यते / न च तथा स्थायी भावस् तद्-उपादानः / 10321 पारंपर्येण तु सन्तान-उपकारात् तत्-कार्य-व्यपदेशः / 10322 यद्य् अस्य कथंचिद् अभावः सिध्येत् तत्-फलं न अस्ति इति निश्चीयते / 10323 स्वभाव-अनुपलम्भश् च स्वभावे अर्थस्य लिङ्गिनि / 10324 स्वभाव-अभाव एव लिङ्गिनि स्वभाव-अनुपलम्भो अपि कश्चित् प्रमाणम् एव / 10325 एव यद्य् अनुपलभ्यमानो व्यापकः स्वभावो अस्य 10326 सिद्धिः स्यात् / यथा वृक्षत्वं शिंशपायाः / 10327 तद्-अभावः प्रतीयेत हेतुना यदि केनचित् //202//
10401 यद्य् अस्य कारणस्य स्वभावस्य व्यापकस्य वा अभावः कुतश्चिद् 10402 गमकाद् हेतोः सिध्येत् / सो अयं असन् एव स्व-कार्यं 10403 व्याप्यं वा निवर्तयति / तद्-अभाव-असिद्धौ निवर्त्ये अपि संशयात् / 10404 कथम् इदानीं भावस्य स्वयम् अनुपलब्धेर् अभाव- 10405 सिद्धिः / 10406 दृश्यस्य दर्शन-अभाव-कारण-असम्भवे सति / 10407 भावस्य अनुपलब्धस्य भाव-अभावः प्रतीयते //203//
10408 भावो हि यदि भवेद् यथास्वं ग्राहकेण करणेन उपलभ्य 10409 एव भवेत् / स दर्शन-प्रतिबन्धिषु व्यवधान-आदिष्व् असत्सु उपलभ्य 10410 एव / अनुपलब्धस् त्व् असन्न् इति निश्चीयते / तादृशः सत 10411 उपलम्भ-अव्यभिचारात् / अयम् एव हेतुर् हेतु-व्यापकयोर् अभावे 10412 अपि वेदितव्यः / 10413 विरुद्धस्य च भावस्य भावे तद्-भाव-बाधनात् / 10414 तd-viruddha-upalabdhऔ स्याद् असत्ताया विनिश्चयः //204//
10415 यो हि भावो येन सह न अवतिष्ठते तद्-उपादानयोर् अन्योन्य-वैगुण्य- 10416 आश्रयत्वेन आरम्भ-विरोधात् तयोर् विरुद्धयोर् एकस्य भावे 10417 अप्य् अन्य-अभाव-गतिर् भवति यथोक्तं प्राक् / इदम् अनुपलब्धेर् 10418 न पृथग् व्यवस्थाप्यते / तत एव विरोध-गतेर् विरोधाच् च अभाव- 10419 साधनात् / भवतु नाम एवंविधाया अनुपलब्धेर् अभाव- 10420 गतिः / सा पुनः कथम् अनुमानम् / कथं च न स्यात् / 10421 दृष्टान्त-अनपेक्षणात् / न ह्य् अस्यां कश्चिद् दृष्टान्तो अस्ति / किं 10422 न निरुपाख्यं व्योमकुसुम-आदि दृष्टान्तः / तद् असत् कथम् 10423 अवगन्तव्यं येन एवं स्यात् / अनुपलब्धेर् एव इति चेत् / तत्र 10424 कथम् अदृष्टान्तिका असत्ता-सिद्धिः सदृष्टान्तत्वे वा अनवस्था-प्रसङ्गः / 10425 तथा च अप्रतिपत्तिः / तस्मान् निरुपाख्य-अभाव-सिद्धि-वद् 10426 अन्यत्र अपि दृष्टान्त-अनपेक्षणाद् अननुमानम् / शृण्वन्न् अपि देवानांप्रियो 10427 न अवधारण-पटुः / निमित्तं ह्य् असच्-शब्द-व्यवहाराणाम् 10428 उपलभ्य-अनुपलब्धिः / सा स्व-संनिधानात् स्व-निमित्तान् 10429 एतान् साधयति इति स्व-निमित्त-सामग्री-योग्य-संनिधानः सर्वो अत्र 10501 दृष्टान्तः / असत्ता पुनर् अत्र अनुपलब्धिर् एव / अत एव इयं कारणात् 10502 कार्य-अनुमान-लक्षणत्वात् / स्वभाव-हेताव् अन्तर्भवति इति वक्ष्यामः / 10503 सच्-शब्द-व्यवहार-प्रतिषेधे अपि प्रमाण-निवृत्त्या 10504 निमित्त-वैकल्य-अभाविनो अङ्कुर-आदयो दृष्टान्तः न केवलं निरुपाख्यम् / 10505 निरुपाख्ये अपि इयम् एव प्रवृत्तिर् निषिध्यते / अनुपलब्धि- 10506 लक्षणा असत्ता सिद्धा एव /
सो अयं मूढो निमित्तं तद्-अभावं 10507 वा अभ्युपगम्य प्रवृत्ति-निवृत्ती विलोमयन् यथा अभ्युपगमं 10508 प्रतिपाद्यते निरुपाख्य-वद् अन्य-वद् वा इति / स एव तावद् 10509 उपलब्ध्य्-अभावः कथं सिद्ध इति चेत् / एतद् उत्तरत्र वक्ष्यामः / 10510 अन्यत्र अप्य् अनुमाने साध्य-धर्मेण व्याप्तं साधनम् 10511 इच्छन् किम् इति दृष्टान्तेन प्रत्याय्यो व्याप्य-निर्देशाद् एव 10512 व्याप्नुवतः सिद्धेः / निश्चित-अर्थस्य अपि स्मृत्य्-अर्थो दृष्टान्त इति 10513 चेत् / तद् इतरत्र अपि समानं / सो अयम् अन्यत्र अनुपलम्भ-मात्राद् 10514 असद्-व्यवहारं प्रतिपद्यमानो अपि इह व्यामूढ इति 10515 स्मार्यते / अथ यद् इदं न सन्ति प्रधान-आदयो अनुपलब्धेर् 10516 इति / तत्र कथम् असद्-व्यवहार-विधिः सद्-व्यवहार-निषेधो 10517 वा / कथं च न स्यात् / तd-artha-pratiषेधे धर्मि-वाचिनो अप्रयोगाद् 10518 अभिधानस्य निर्विषयस्य च प्रतिषेधस्य अयोगात् / न एष 10519 दोषः / यस्मात् / 10520 अनादि-वासना-उद्भूत-विकल्प-परिनिष्ठितः / 10521 शब्द-अर्थस् त्रिविधो धर्मो भाव-अभाव-उभय-आश्रयः //205 //
10522 तस्मिन् भाव-अनुपादाने साध्ये अस्य अनुपलम्भनम् / 10523 तथा हेतुर् न तस्य एव अभावः शब्द-प्रयोगतः //206//
10524 निवेदितम् एतत् यथा न एते शब्दाः स्वलक्षण-विषया अनादि- 10525 वासना-प्रभव-विकल्प-प्रतिभासिनम् अर्थं विषयत्वेन आत्मसात् 10526 कुर्वन्ति वक्तुः श्रोतुस् च तd-vikalpa-bhआजो यथाप्रतिभासि- 10527 वस्तु-प्रतिपादन-समीह-अप्रयोगात् तद्-आकार-विकल्प-जननाच् च / 10601 न च उपादान-कार्य-प्रत्यय-अप्रतिभासि रूपं शक्यं तद्-विषयत्वेन 10602 अध्यवसातुम् / स तु विकल्पः सd-asad-ubhaya-pratyaya-आहित- 10603 वासना-प्रभव इति तत्-प्रतिभास्य्-आकार-अध्यवसाय-वशेन 10604 च भाव-अभाव-उभय-धर्म इत्य् उच्यते / तद् अत्र धर्मिणि व्यवस्थिताः 10605 सदसत्त्वं चिन्तयन्ति किम् अयं प्रधान-शब्द-प्रतिभास्य् 10606 अर्थो भाव-उपादानो न वा इति / तस्य भाव-अनुपादानत्वे 10607 साध्ये स एव प्रत्यात्म-वेद्यत्वाद् अप्रतिक्षेप-अर्हो अर्थो धर्मी / 10608 न च स एव अर्थः स्वलक्षणम् इति शक्यं वक्तुम् / असम्प्राप्त-निरुद्धयोर् 10609 अप्य् अर्थयोस् तस्य अनपायात् / वस्तु-विपरीत-आकार-निवेशिष्व् 10610 अपि तीर्थ-अनन्तरीय-प्रत्ययेषु भावात् / 10611 परमार्थ-एक-तानत्वे शब्दानाम् अनिबन्धना / 10612 न स्यात् प्रवृत्तिर् अर्थेषु दर्शन-अन्तर-भेदिषु //207//
10613 अतीत-अजातयोर् वा अपि न च स्याद् अनृत-अर्थता / 10614 वाचः कस्याश्चिद् इत्य् एषा बौद्ध-अर्थ-विषया मता //208//
10615 इति संग्रहश्लोकौ / तस्य च यथा समीहित-रूप-अनुपादानत्वे 10616 साध्ये तथा अनुपलम्भो अस्य धर्मो अस्ति इति न साधन-धर्म-असिद्धिः / 10617 न पुनर् अत्र अयम् एव शब्द-विकल्प-प्रतिभास्य् अर्थो अपह्नूयते / 10618 तस्य बुद्धाव् उपस्थापनाय शब्द-प्रयोगात् / तद्-अभावे 10619 तद्-अयोगात् / अपि च / 10620 शब्द-अर्थ-अपह्नवे साध्ये धर्म-आधार-निराकृतेः / 10621 न साध्यः समुदायः स्यात् सिद्धो धर्मश् च केवलः //209//
10623 यदि हि शब्द-अर्थ एव अपोह्येत प्रधान-शब्द-वाच्यस्य धर्मिण 10624 एव निराकरणान् निराधारः साध्य-धर्मः स्यात् / तद् अयम् 10625 आधार-व्यवच्छेद-अनपेक्षो न विवाद-आश्रय इति न उपन्यसनीय 10626 एव स्यात् / किं च / 10627 सd-asat-pakष-भेदेन शब्द-अर्थ-अनपवादिभिः / 10628 वस्त्व् एव चिन्त्यते ह्य् अत्र प्रतिबद्धः फल-उदयः //210//
10629 अर्थक्रियासमर्थस्य विचारैः किं तद्-अर्थिनाम् / 10630 षण्ढस्य रूप-वैरूप्ये कामिन्याः किं परीक्षया //211//
10701 न हि शब्द-अर्थो असन् सन् वा कंचित् पुरुष-अर्थम् उपरुणद्धि 10702 समादधाति वा / यथा अभिनिवेशम् अतत्त्वात् / यथा अतत्त्वं च असमीहितत्वात् / 10703 तद् अयं प्रवर्तमानः सर्वदा सd-asac-cintआयाम् 10704 अवधीरित-विकल्प-प्रतिभासो वस्त्व् एव अधिष्ठानीकरोति यत्र अयं 10705 पुरुष-अर्थः प्रतिबद्धो यथा अग्नौ शीत-प्रतीकार-आदिः / न ह्य् 10706 अत्र शब्द-अर्थः समर्थस् तद्-अनुभव-आप्ताव् अपि तद्-अभावात् / 10707 तद् अयम् अर्थक्रिया-अर्थी तद्-असमर्थं प्रति दत्ता-अनुयोगो भवितुं 10708 न युक्तः / न हि वृषस्यन्ती षण्ढस्य रूप-वैरूप्य-परीक्षायाम् 10709 अवधत्ते / यत् पुनर् एतद् उक्तं कल्पितस्य अनुपलब्धिर् 10710 धर्म इति तस्य को अर्थः / 10711 शब्द-अर्थः कल्पना-ज्ञान-विषयत्वेन कल्पितः / 10712 धर्मो वस्त्व्-आश्रय-असिद्धिर् अस्य उक्तो न्यायवादिना //212//
10713 कल्पना-विषयत्वाच् शब्द-अर्थ एव कल्पितः / तस्य वस्त्व् -आश्रय-अनुपलम्भो 10714 धर्म इत्य् अभिप्रायः / यद् उक्तम् न प्रमाण- 10715 त्रय-निवृत्ताव् अपि भाव-अभाव-सिद्धिर् इति / तन् मा भूद् अन्य-प्रमाण- 10716 अनिवृत्तौ निवृत्तिः / तयोर् असकल-विषयत्वाद् आगमः पुनर् 10717 न किंचिन् न व्याप्नोति / तन्-निवृत्तिः कथं न गमिका इति / उक्तम् 10718 अत्र न आगमेषु सर्व-अर्था उपनिबध्यन्ते अप्रकरण-आपन्नत्वाद् 10719 इति / अपि च / 10720 नान्तरीयकता अभावाच् शब्दानां वस्तुभिः सह / 10721 न अर्थ-सिद्धिस् ततस् ते हि वक्तृ-अभिप्राय-सूचकाः //213//
10722 न हि शब्दा यथाभावं वर्तन्ते यतस् तेभ्यो अर्थ-प्रकृतिर् 10723 निश्चीयेत / ते हि वक्तुर् विवक्षा-वृत्तय इति तन्-नान्तरीयकास् 10724 ताम् एव गमयेयुः / न च पुरुष-इच्छाः सर्वा यथार्थ-भाविन्यः / 10725 न च तद्-अप्रतिबद्ध-स्वभावो भावो अन्यं गमयति / 10801 यत् तर्हि इदम् आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता इत्य् आगमस्य 10802 प्रामाण्यम् अनुमानत्वम् उक्तम् तत् कथं / न अयं पुरुषो अनाश्रित्य आगम- 10803 आसितुं समर्थः / अत्यक्ष-फलानां केषांचित् 10804 प्रवृत्ति-निवृत्त्योर् महा-अनुशंसा-पाप-श्रवणात् तद्-भावे विरोध- 10805 अदर्शनाच् च / तत् सति प्रवर्तितव्ये वरम् एवं प्रवृत्त 10806 इति परीक्षया प्रामाण्यम् आह / तच् च / 10807 सम्बद्ध-अनुगुण-उपायं पुरुष-अर्थ-अभिधायकम् / 10808 परीक्षा-अधिकृतं वाक्यम् अतो अनधिकृतं परम् //214//
10809 सम्बद्धो वाक्यानाम् एक-अर्थ-उपसंहार-उपकारः / न दश-दाडिम-आदि- 10810 वाक्यानाम् इव अनुपसंहार एव / अन्यथा वक्तुर् वैगुण्यम् 10811 उद्भावयेत् / अशक्य-उपाय-फलानि च शास्त्राणि फल-अर्थी न आद्रियेत 10812 विचारयितुम् अपुरुष-अर्थ-फलानि च / विष-शमनाय तक्षक- 10813 फण-रत्न-अलंकार-उपदेश-वत् काक-दन्त-परीक्षा-वच् च / तद् विपर्ययेण 10814 उपसंहार-वत् शक्य-उपायं पुरुष-अर्थ-अभिधायि च 10815 शास्त्रं परीक्ष्येत अन्यत्र अवधानस्य एव अयुक्तत्वात् / तद् यदि न 10816 परीक्षायां विसंवाद-भाक् प्रवर्तमानः शोभेत / कः पुनर् 10817 अस्य अविसंवादः / 10818 प्रत्यक्षेण अनुमानेन द्विविधेन अप्य् अबाधकम् / 10819 दृष्ट-अदृष्ट-अर्थयोर् अस्य अविसंवादस् तद्-अर्थयोः //215//
10820 प्रत्यक्षेण अबाधनं प्रत्यक्ष-अभिमतानाम् अर्थानां तथाभावः 10821 यथा नील-आdi-sukha-duःख-निमित्त-उपलक्षण-राग-आदि-बुद्धीनाम् / 10822 अतथा-अभिमतानां च अप्रत्यक्षता यथा शब्द-आदि-रूप- 10823 संनिवेशिनां सुख-आदीनां द्रव्य-कर्म-सामान्य-संयोग-आदीनां 10824 च / तथा अनागम-अपेक्ष-अनुमान-विषय-अभिमतानां तथाभावः 10825 यथा चतूर्णाम् आर्यसत्यानाम् / अननुमेयानां तथाभावो 10901 यथा आत्म-आदीनाम् / आगम-अपेक्ष-अनुमाने अपि यथा राग-आदि- 10902 रूपं तत्-प्रभवं च अधर्मम् अभ्युपगम्य तत्-प्रहाणाय 10903 स्नान-अग्निहोत्र-आदेर् अनुपदेशः / स इयं शक्य-परिच्छेद-अशेष-विषय- 10904 विशुद्धिर् अविसंवादः / 10905 आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता / 10906 बुद्धेर् अगत्या अभिहिता परोक्षे अप्य् अस्य गोचरे //216//
10907 तस्य च अस्य एवंभूतस्य आप्त-भूतस्य अविसंवाद-सामान्याद् अदृष्ट- 10908 व्यभिचारस्य प्रत्यक्ष-अनुमान-आगम्ये अप्य् अर्थे प्रतिपत्तेस् 10909 तद्-आश्रयत्वात् तd-anya-pratipatति-वद् अविसंवादो अनुमीयते / 10910 ततः शब्द-प्रभवा अपि सती न शाब्द-वद् अभिप्रायं निवेदयत्य् 10911 एव इत्य् अर्थ-अविसंवादाद् अनुमानम् अपि / अथवा अन्यथा आप्त-वादस्य 10912 अविसंवादाद् अनुमानत्वम् उच्यते / 10913 हेय-उपादेय-तत्त्वस्य स उपायस्य प्रसिद्धितः / 10914 प्रधान-अर्थ-अविसंवादाद् अनुमानं परत्र वा //217//
10915 हेय-उपादेय-तद्-उपायानां तद्-उपदिष्टानाम् अवैपरीत्यम् अविसंवादः / 10916 यथा चतूर्णाम् आर्यसत्यानां वक्ष्यमाणनीत्या / तस्य अस्य 10917 पुरुष-अर्थ-उपयोगिनो अभियोग-अर्थस्य अविसंवादाद् विषय-अन्तरे 10918 अपि तथात्व-उपगमो न विप्रलम्भाय अनुपरोधात् निष्प्रयोजन- 10919 वितथ-अभिधान-वैफल्याच् च वक्तुः / तद् एतद् अगत्या उभयथा 10920 अप्य् अनुमानत्वम् आगमस्य उपवर्णितम् / वरम् आगमात् 10921 प्रवृत्ताव् एवं प्रवृत्तिर् इति / न खल्व् एवम् अनुमानम् अनपायम् 10922 अनान्तरीयकत्वाद् अर्थेषु शब्दानाम् इति निवेदितम् एतत् / 10923 पुरुष-अतिशय-अपेक्षं यथार्थम् अपरे विदुः / 10924 यथार्थ-दर्शन-आदि-गुण-युक्तः पुरुष आप्तस् तत्-प्रणयनम् अविसंवाद 11001 इत्य् अन्ये / 11002 इष्टो अयम् अर्थः शक्येत ज्ञातुं सो अतिशयो यदि //218//
11003 सर्वे एव आगमम् अनागमं वा प्रवृत्ति-कामो अन्वेषते प्रेक्षा- 11004 पूर्व-कारी न व्यसनेन / अपि नाम अनुष्ठेयम् अतो ज्ञात्वा प्रवृत्तो 11005 अर्थवान् स्याम् इति / स शक्य-दर्शन-अविसंवाद-प्रत्ययेन अन्यत्र अपि 11006 प्रवर्तते / एवंप्रायत्वाल् लोक-व्यवहारस्य / पुरुष-परीक्षया 11007 तु प्रवृत्ताव् अप्रवृत्तिर् एव / तस्य तथाभूतस्य ज्ञातुम् 11008 अशक्यत्वात् न अनिष्टेः / तादृशाम् अवितथ-अभिधानात् / तथा हि / 11009 अयम् एवं न वा इत्य् अन्य-दोष-अनिर्दोषता अपि वा / 11010 दुर्लभत्वात् प्रमाणानां दुर्बोधा इत्य् अपरे विदुः //219//
11011 चैतस्येभ्यो हि गुण-दोषेभ्यः पुरुषाः सम्यङ्-मिथ्या-प्रवृत्तः 11012 ते च अतीन्द्रियाः स्व-प्रभव-काय-वाग्-व्यवहार-अनुमेयाः 11013 स्युः / व्यवहाराश् च प्रायशो बुद्धि-पूर्वम् अन्यथा अपि कर्तुं 11014 शक्यन्ते पुरुष-इच्छा-वृत्तित्वात् तेषां च चित्र-अभिसन्धित्वात् / 11015 तद् अयं लिङ्ग-संकरात् कथम् अनिश्चिन्वन् प्रतिपद्येत / अथ 11016 किं न एव स तादृशः पुरुषो अस्ति यो निर्दोषः / 11017 सर्वेषां सविपक्षत्वान् निर्ह्रास-अतिशय-श्रिताम् / 11018 स आत्मीभावात् तद्-अभ्यासाद् धीयेरन् आश्रवाः क्वचित् //220 //
11019 स तु प्रहीण-आश्रवो दुर्ज्ञानः / दोषा हि निर्ह्रास-अतिशय-धर्मणो 11020 विपक्ष-अभिभव-उत्कर्ष-अपकर्षं साधयन्ति ज्वाला-आदि-वत् / ते हि 11021 विकल्प-प्रभवाः सत्य् अप्य् उपादाने कस्यचिन् मनो-गुणस्य अभ्यासाद् 11022 अपकर्षिणः / तत्-पाटवे निरन्वय-विनाश-धर्माणः 11023 स्युः / ज्वाला-आदि-वद् एव / तेन स्याद् अपि निर्दोषः / कथं निर्दोषो 11024 नाम / यावता दोष-विपक्ष-सात्मत्वे अपि दोष-सात्मनो विपक्ष-उत्पत्ति-वद् 11025 यथा-प्रत्ययं दोष-उत्पत्तिर् अपि / न अयं दोषः / यस्मात् / 11027 निरुपद्रव-भूत-अर्थ-स्वभावस्य विपर्ययैः//
11028 न बाधा यत्नवत्त्वे अपि बुद्धेस् तत्-पक्ष-पाततः //221 / 11101 न हि स्वभावो अयत्नेन विनिवर्तयितुं शक्यः / श्रोत्रिय- 11102 कापालिक-घृणा-वत् / यत्नश् च प्राप्य-निवर्त्ययोः स्वभावयोर् 11103 गुण-दोष-दर्शनेन क्रियेत / तच् च विपक्ष-सात्मनः पुरुषस्य 11104 दोषेषु न सम्भवति / तस्य निरुपद्रवत्वात् / अशेष-दोष-हानेः 11105 पर्यवस्थान-जन्म-प्रतिबद्ध-दुःख-विवेकात् प्रशम-सुख- 11106 रसस्य अनुद्वेजनाच् च / अभूत-अर्थं खल्व् अप्य् उपादान- बल-भावि- 11107 सन्तानस्य विपर्यय-उपादानान् न स्यात् / न तु भूत-अर्थम् वस्तु- 11108 बल-उत्पत्तेः / अभूत-अर्थाश् च दोषा न प्रतिपक्ष-सात्म्य-बाधिनः / 11109 तस्मान् न पुनर् दोष-उत्पत्तिः / यत्ने अपि बुद्धेर् गुण-पक्ष- 11110 पातेन प्रतिपक्ष एव यत्न-आधानात् परीक्षावतो विशेषेण अदुष्ट- 11111 आत्मनः / कः पुनर् एषां दोषाणां प्रभवो यत्-प्रतिपक्ष- 11112 अभ्यासात् प्रहीयन्ते / 11113 सर्वासां दोष-जातीनां जातिः सत्कायदर्शनात्//
11114 सा अविद्या तत्र तत्-स्नेहस् तस्माद् द्वेष-आदि-सम्भवः //222 //
11115 न हि न अहं न मम इति पश्यतं परिग्रहम् अन्तरेण क्वचित् 11116 स्नेहः / न च अननुरागिणः क्वचिद् द्वेषः / आत्म-आत्मीय-अनुपरोधिन्य् 11117 उपरोध-प्रतिघातिनि च तद्-अभावात् / तस्मात् समान-जातीय-अभ्यासजम् 11118 आत्म-दर्शनम् आत्मीय-ग्रहं प्रसूते / तौ च तत्-स्नेहं 11119 स च द्वेष-आदीनि इति सत्कायदर्शनजाः सर्व-दोषाः / तद् एव च अज्ञानम् 11120 इत्य् उच्यते / 11121 मोहो निदानं दोषाणाम् अत एव अभिधीयते//
11122 सत्कायदृष्टिर् अन्यत्र तत्-प्रहाणे प्रहाणतः //223 //
11123 मोहं दोष-निदानम् आहुः अमूढस्य दोष-अनुत्पत्तेः पुनर् 11124 अन्यत्र सत्कायदृष्टिम् / तच् च एतत् प्रधान-निर्देशे सति स्याद् 11125 अनेक-जन्मनां दोषाणाम् एक-उत्पत्ति-विरोधात् / न च द्वयोः प्राधान्ये 11201 एकैक-निर्देशः पर-भाग-भाक् / उभयथा अप्य् एकस्य 11202 निर्देशे न विरोधः / प्राधान्यं पुनस् तद्-उपादानत्वेन / 11203 तत्-प्रहाणे दोषाणां प्रहाणात् / तस्मात् सम्भवति सत्कायदर्शन- 11204 जन्मनां दोषाणां तत्-प्रतिपक्ष-नैरात्म्य-दर्शन-अभ्यासात् 11205 प्रहाणम् / स तु क्षीण-दोषो दुरन्वयो यद्-उपदेशाद् अयं प्रतिपद्येत / 11206 मा भूत् पुरुष-आश्रयं वचनम् आगमः प्रणेतुर् 11207 दुरन्वयत्वात् / 11208 गिरां मिथ्यात्व-हेतूनां दोषाणां पुरुष-आश्रयात्//
11209 अपौरुषेयं सत्य-अर्थम् इति केचित् प्रचक्षते //224 //
11210 न खलु सर्व एव आगमः सम्भाव्य-विप्रलम्भः / विप्रलम्भ- 11211 हेतूनां दोषाणां पुरुष-आश्रयाद् अपौरुषेयं सत्य-अर्थम् इत्य् 11212 एके / कारण-अभावो हि कार्य-अभावं साधयति इति / य एवंवादिनस् 11213 तान् एव प्रति / 11214 गिरां सत्य-अर्थ-हेतूनां गुणानां पुरुष-आश्रयात्//
11215 अपौरुषेयं मिथ्या-अर्थं किं न इत्य् अन्ये प्रचक्षते //225 //
11216 यथा राग-आदि-परीतः पुरुषो मृषा-वादी दृष्टस् तथा दया-धर्मता- 11217 आदि-युक्तः सत्य-वाक् / तद् यथा वचनस्य पुरुष-आश्रयान् मिथ्या-अर्थता 11218 तथा सत्य-अर्थता अपि इति / स निवर्तमानस् ताम् अपि निवर्तयति 11219 इत्य् आनर्थक्यं स्याद् विपर्ययो वा / न हि शब्दाः प्रकृत्या अर्थवन्तः / 11220 समयात् ततो अर्थ-ख्यातेः काय-संज्ञा-आदि-वत् / अप्रातिकूल्यं 11221 तु योग्यता समये तद्-इच्छा-प्रणयनात् / निसर्ग-सिद्धेष्व् 11222 इच्छा-वशात् प्रतिपादन-अयोगात् / ते अनर्थकाः पुरुष-संस्काराद् 11223 अर्थवन्तः स्युः / तत्-संस्कार्यता एव च एषां पौरुषेयता युक्ता 11224 न उत्पत्तिः / तत एव अर्थ-विप्रलम्भात् / उत्पन्नो अप्य् अन्यथा समितो 11225 न उपरोधी तd-anya-puruष-धर्म-वत् / तद् अयं निवर्तमानः 11226 स्व-कृत-समय-सम्भवाम् अर्थ-प्रतिभां निवर्तयति / 11227 तत् कुतस् तन्-निवृत्त्या सत्य-अर्थता / अथ पुनर् उत्पत्तिर् एव पौरुषेयता / 11301 न समय-आख्यानम् / 11302 अर्थ-ज्ञापन-हेतुर् हि संकेतः पुरुष-आश्रयः//
11303 गिराम् अपौरुषेयत्वे अप्य् अतो मिथ्यात्व-सम्भवः //226 //
11304 किं ह्य् अस्य अपौरुषेयतया यतो हि समयाद् अर्थ-प्रतिपत्तिः 11305 स पौरुषेयो वितथो अपि स्यात् / शील-साधन-स्वर्ग-वचनं तद् अन्यथा 11306 समयेन विपर्यासयेत् / तेन अयथार्थम् अपि प्रकाशन-सम्भवात् 11307 स एव दोषः / 11308 सम्बन्ध-अपौरुषेयत्वे स्यात् प्रतीतिर् असंविदः//
11309 स्याद् एतद् अकार्य-सम्बन्धा एव शब्दाः / न ते अर्थेषु पुरुषैर् 11310 अन्यथा विपर्यस्यन्ते / तेन अदोष इति / किम् इदानीं संकेतेन / 11311 स हि सम्बन्धो यतो अर्थ-प्रतीतिः / स चेद् अपौरुषेयो न अयं 11312 समयम् अपेक्षेत / अप्रतीत्य्-आश्रयो वा कथं सम्बन्धः / 11313 संकेतात् तद्-अभिव्यक्ताव् असमर्थ-अन्य-कल्पना //227 //
11314 न वै सम्बन्धो विद्यमानो अप्य् अनभिव्यक्तः प्रतीति-हेतुः / 11315 संकेतस् त्व् एनम् अभिव्यनक्ति / स तर्हि सिद्ध-उपस्थायी किम् 11316 अकारणं पोष्यते / नन्व् इयान् सम्बन्धस्य व्यापारो यद् अर्थ- 11317 प्रतीति-जननम् / तत् समयेन एव कृतम् इति / न अयोग्ये समयः 11318 समर्थ इति योग्यता तत्-सम्बन्धश् चेत् / तत् किं वै शब्दः 11319 सम्बन्धो अस्तु / समर्थं हि रूपं शब्दस्य योग्यता कार्य- 11320 कारण-योग्यता-वत् / सा चेद् अर्थ-अन्तरं किं शब्दस्य इति सम्बन्धो 11321 वाच्यः / योग्यता-उपकार इति चेत् / न / नित्यायाः निरतिशयत्वात् / 11322 तत्र अप्य् अतिप्रसङ्गात् उपकार-असिद्धेः / योग्यतायां च स्वतो योग्यत्वे 11323 अर्थ एव किं न इष्यते / समयस् तर्हि कथं शब्द-अर्थ- 11324 सम्बन्धाः / पुरुषेषु वृत्तेः / न अमिश्राणां सिद्धानां कश्चित् 11325 सम्बन्धो अभेद-प्रसङ्गात् अनपेक्षणाच् च / अर्थ-विशेष-समीह- 11326 अप्रेरिता वाग् अत इदम् इति विदुषः स्व-निदान-आभासिनम् अर्थं 11327 सूचयति इति बुद्धि-रूप-वाग् विज्ञप्त्योर् जन्यजनकभावः सम्बन्धः 11401 ततः शब्दात् प्रतिपत्तिर् अविनाभावात् / तद्-आख्यानं 11402 समयः / ततः प्रत्यायक-सम्बन्ध-सिद्धेः सम्बन्ध-आख्यानात् / 11403 न तु स एव सम्बन्धः / अस्तु वा अन्य एव नित्यः सम्बन्धः / 11404 तेन 11405 गिराम् एक-अर्थ-नियमे न स्याद् अर्थ-अन्तरे गतिः//
11406 न हि तेन सम्बन्धेन असम्बद्धे अर्थे प्रतीतिर् युक्ता / तस्य 11407 वैफल्य-प्रसङ्गात् / दृष्टश् च इच्छा-वशात् कृत-समयः सर्वः 11408 सर्वस्य दीपकः / 11409 अनेक-अर्थ-अभिसम्बन्धे विरुद्ध-व्यक्ति-सम्भवः //228 //
11410 अथ मा भूद् दृष्ट-विरोध इति सर्वे सर्वस्य वाचकाः / तथा न 11411 सर्वः सर्व-साधनो असंकरात् कार्यकारणतायाः / तत्र प्रतिनियत- 11412 साधने अभिमते अर्थे सर्व-साध्य-साधन-साधारणस्य 11413 शब्दस्य-इष्ट-व्यक्तिम् एव समयकारः करोति इति कुत एतत् सो अनियतो 11414 नियमं पुरुषात् प्रतिपद्यते / तदा / 11415 अपौरुषेयतायाश् च व्यर्था स्यात् परिकल्पना//
11416 अपि नाम असंकीर्णम् अर्थं जानीयाम् इति संकर-हेतुः पुरुष-उपाकीर्णः / 11417 तत्र यादृशाः पुरुषैः क्वचित् प्रयुक्ताः संकीर्यन्ते 11418 तादृशा एव सर्व-साधारणाः सन्तः क्वचित् तैर् विनियमितास् 11419 तत्त्व-अपरिज्ञानात् / प्रकृत्या एव वैदिका नियता इति चेत् / न उपदेशम् 11420 अपेक्षेरन् न अन्यथा संकेतेन प्रकाशयेयुः व्याख्या-विकल्पश् 11421 च न स्यात् / उपदेशस्य च इष्ट-संवादः शक्य-विकल्पे न अस्ति इति 11422 व्यर्था एव अपौरुषेयता / 11423 वाच्यश् च हेतुर् भिन्नानां सम्बन्धस्य व्यवस्थितेः //229 //
11425 अर्था हि बाह्या न रूपं शब्दस्य न शब्दो अर्थानाम् / येन अभिन्न- 11426 आत्मतया व्यवस्था-भेदे अपि नान्तरीयकता स्यात् / कृतकत्व- 11427 अनित्यत्व-वत् / न अप्य् एते विवक्षा-जन्मानो ध्वनयो अजन्मानो 11428 वा विवक्षा-व्यङ्ग्याः न अर्थ-आयत्ताः / ततः कथम् इदानीं 11501 तत्-प्रतिनियम-संसाध्यं तद्-अन्वयं साधयेयुः / न ह्य् 11502 अप्रतिबद्धस् तत्-साधन इति / 11503 असंस्कार्यतया पुम्भिः सर्वथा स्यान् निरर्थता//
11504 संस्कार-उपगमे मुख्यं गज-स्नानम् इदं भवेत् //230//
11505 इति संग्रहश्लोकः / अपि च / शब्द-अर्थयोः सम्बन्धो नित्यो वा 11506 स्याद् अनित्यो वा / यद्य् अनित्यः पुरुष-इच्छा वृत्तिर् अवृत्तिर् वा / अपुरुष- 11507 अधीनत्वे पुरुषाणां यथा अभिप्रायं देश-आदि-परावृत्त्या तेन 11508 प्रतिपादनं न स्यात् / इच्छायाम् अप्य् अनायत्तस्य कदाचिद् अयोगात् / 11509 पर्वत-आदि-वत् / अयम् एव नित्यत्वे अपि दोषस् तस्य स्थिर-रूपस्य 11510 परावृत्त्य्-अयोगाद् इति समं सर्व-अवस्थाने अपि इष्ट-प्रतिनियम-अभावात् / 11511 ततो विशेष-प्रतिपत्तिर् न स्याद् इति पूर्ववत् प्रसङ्गः / 11512 इच्छा-वृत्तौ च पौरुषेयत्वम् इति विप्रलम्भ-आशङ्का / अपि च / 11513 सम्बन्धिनाम् अनित्यत्वान् न सम्बन्धे अस्ति नित्यता / 11514 पराश्रयो हि सम्बन्धो अप्रतिबन्धे तयोः सम्बन्धिता अयोगात् / 11515 स च आश्रयो अनित्यः / अपाये अस्य सम्बन्धस्य अप्य् अपायः अन्यथा अनाश्रितः 11516 स्यात् / ततो न नित्यः / तद्-आश्रय-अर्थश् च वक्तव्यः / 11517 नित्यस्य अनुपकार्यत्वात् / अनुपकुर्वाणश् च अनाश्रयः / जातेर् वाच्यत्वाद् 11518 अदोष इति चेत् / न / तद्-वचने प्रयोजन-अभावाद् इति निर्लोठितम् 11519 एतत् / सर्वत्र च जात्य्-असम्भवाद् अयोगो यादृच्छिकेषु व्यक्ति- 11520 वाचिषु सर्वदा जाति-चोदने विशेष-अन्तर-व्युदासेन प्रवृत्त्य्-अयोगाच् 11521 च / तस्माद् अन्वय-व्यतिरेकिणो भावस्य भाव-अभावौ सम्बन्धः / 11523 अर्थैर् अतः स शब्दानां संस्कार्यः पुरुषैर् धिया //231 / 11524 ताव् एव भाव-अभावाव् आश्रित्य-असंसृष्टाव् अपि संसृष्टाव् इव पुरुषस्य 11601 व्यवहार-भावनातः प्रतिभात इति पौरुषेयो भावानां 11602 संश्लेषः /
किं च आश्रय-विनाशान् नष्टे सम्बन्धे स शब्दः पुनर् 11603 असम्बन्धत्वान् न अपूर्वेण योज्येत / उत्पन्न-उत्पन्नाश् च भावाः 11604 स्थित-सम्बन्ध-अभावाद् असम्बन्धिनो अवाच्याः स्युः / तत्र 11605 अपि / 11606 अर्थैर् एव सह उत्पादे / 11607 कल्प्यमाने 11608 न स्वभाव-विपर्ययः / 11609 शब्देषु युक्तः / 11610 अथ मा भून् नष्ट-सम्बन्धस्य शब्दस्य अर्थ-अन्तरे वैगुण्यं 11611 अर्थानां च अवाच्यता इत्य् उत्पन्नो अर्थः सम्बन्धवान् यद्य् उत्पद्येत 11612 स सम्बन्ध उत्पन्नो अपि न शब्दे स्यात् / तस्य तेन असम्बन्धि- 11613 स्वभावस्य स्वभाव-विपर्ययम् अन्तरेण तद्-भाव-अयोगात् / 11614 अर्थेन सह उत्पन्नस्य अन्यतः सिद्धस्य अनुपकारिणि शब्दे 11615 असमाश्रयाच् च / तस्य अपि तदुत्पत्ति-सहकारित्वे समर्थस्य नित्य-उत्पादन- 11616 प्रसङ्गः / अनपेक्षत्वान् नित्यस्य अनुपकारात् / असामर्थ्ये 11617 अपि पश्चाद् अपि स्वभाव-अत्यागाद् अशक्तिः / 11618 सम्बन्धे न अयं दोषो विकल्पिते //232//
11619 न हि भाव-श्लेष-अपेक्षी पुरुष-भावना-प्रतिभासी तद्-अपेक्ष-अलक्षणः 11620 सम्बन्धः / सो अयम् नित्यानाम् अप्य् अपरावर्तयन् स्वभावं 11621 कुतश्चित् स्वयम् उत्प्रेक्ष्य घटयेद् इति ते अपि तथा 11622 स्युः / न च च्यवन-धर्माणः / यद् उक्तम् आश्रय-अपायेन आश्रित- 11623 सम्बन्ध-विनाशाद् अनित्यः स इति तत्र / 11624 नित्यत्वाद् आश्रय-अपाये अप्य् अनाशो यदि जाति-वत् / 11625 नित्येष्व् आश्रय-सामर्थ्यं किं येन इष्टः स आश्रयः //233//
11626 श्रूयत एतन् नित्या जातिर् आश्रयिता च न अप्य् आश्रयेण सह नश्यति इति / 11627 केवलं नित्येष्व् आश्रय-सामर्थ्यं न पश्यामः येन असाव् आश्रयः / 11628 कृतस्य करण-अभावाद् अकारकस्य च अनपेक्षत्वात् / व्यक्तिर् 11629 उपकारो जातेः सम्बन्धस्य च आश्रयात् तेन आश्रय इति चेत् 11701 ज्ञान-उत्पादन-हेतूनां सम्बन्धात् सहकारिणाम् / 11702 तद्-उत्पादन-योग्यत्वेन उत्पत्तिर् व्यक्तिर् इष्यते //234//
11703 घट-आदिष्व् अपि युक्ति-ज्ञैर् अविशेषे अविकारिणाम् / 11704 व्यञ्जकैः स्वैः कुतः को अर्थो व्यक्तास् तैस् ते यतो मताः //235 //
11706 सहकारिणः सकाशाद् उपादान-अपेक्षाद् ज्ञान-जनन-योग्य-क्षण-अन्तर- 11707 उत्पत्तिर् एव घट-आदीनाम् अभिव्यक्तिः / अन्यथा अनपेक्ष्य तद्-उपकारं 11708 ज्ञान-उत्पादन-प्रसङ्गात् / सामर्थ्य-कारिणश् च जनकत्वात् / 11709 तस्य च तदात्मकत्वात् / अर्थान्तरत्वे च भाव-अनुपकार- 11710 प्रसङ्गात् सामर्थ्याच् च ज्ञान-उत्पत्तेर् नित्यं घट-आदीनाम् 11711 अग्रहण-आपत्तेर् अनालोक-अपेक्ष-ग्रहण-प्रसङ्गाद् अनपेक्ष-आत्म-अनुपकारात् / 11712 तद् इमे स्व-विषय-ज्ञान-जनने परम् अपेक्षमाणास् 11713 ततः स्वभाव-अतिशयं स्वीकुर्वन्ति / तेन अस्य ते जन्याः / ज्ञेय- 11714 रूप-असाधनात् तु ज्ञान-वशेन कार्य-अतिशय-वाचिना शब्देन विशेष- 11715 ख्यात्य्-अर्थं व्यङ्ग्याः ख्याप्यन्ते / न एवं जाति-सम्बन्ध-आदयः 11716 कथंचिद् अप्य् अनुपकार्यत्वाद् अनुपकारिणा व्यक्ता युज्यते / 11717 सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धि-चित्रता / 11718 स च अयं सम्बन्धो वस्तु भवन् नियमेन शब्द-अर्थाभ्यां 11719 भेद-अभेदौ न अतिवर्तते / रूपं हि वस्तु / तस्य अतत्त्वम् एव अन्यत्त्वम् 11720 इत्य् उक्तम् / स च अयम् ऐन्द्रियः सन् स्व-बुद्धौ तd-anya-vivekina- 11721 अप्रतिभासमानो रूपेण कथं तथा स्यात् / दृश्य- अविवेक-अदर्शनयोर् 11722 विवेक-सत्ता-विपर्यय-आश्रयत्वात् / अन्यथा तत्-स्थितेर् 11723 अभाव-प्रसङ्गात् / अतीन्द्रियत्वाद् अप्रतिभासे अपि इन्द्रिय-आदिष्व् इव अदोष 11724 इति चेत् / न / ततो अप्रतिपत्ति-प्रसङ्गात् अप्रसिद्धस्य अज्ञापकत्वात् / 11725 संनिधि-मात्रेण ज्ञापने अव्युत्पन्नानाम् अपि स्यात् /
11726 न अनुमानात् प्रतिपत्तिर् लिङ्ग-अभावात् दृष्टान्त-असिद्धेश् च तत्र अप्य् 11801 अतीन्द्रियत्वेन साधन-अपेक्षणात् / तुल्यम् इन्द्रिय-आदिष्व् अपि इति चेत् / न / 11802 तेषाम् अन्यथा-अनुमानात् / ज्ञानं हि केषुचित् सत्सु व्यतिरेक-अन्वय-वत् 11803 तन्-मात्र-असम्भवं तद्-व्यतिरिक्त-अपेक्षां च साधयति / 11804 ततः कार्य-द्वारेण इन्द्रिय-सिद्धिः / न एवं सम्बन्धस्य / तस्य असिद्धौ 11805 तत्-कार्यस्य एव ज्ञानस्य अभावात् / न हि तत्र शब्द-रूपम् 11806 अर्थो वा लिङ्गं तयोः सर्वत्र योग्यत्वात् / विशेष-प्रतीति-समाश्रयस्य 11807 अप्रत्यायनाद् अप्रतीतिर् अस्य / न ह्य् असति सम्बन्ध-विशेषे 11808 सा युक्ता / तस्यां वा अनिमित्तायां तद्-विशेष-प्रतीत्i-niyama-vad 11809 अर्थ-प्रतिपादनम् अपि शब्दानाम् अनिमित्तं किं न इष्यते / तस्मात् 11810 तत् सदृशं लिङ्गं सर्व-सम्बन्धे ततो अविशेषेण गमयेत् / 11811 ततो अविशेषेण एव प्रतीतिः स्यात् सर्वस्य च / तस्मात् सम्बन्ध- 11812 सिद्ध्य्-अर्थ-प्रतीतेर् न कश्चित् सम्प्रदायम् अपेक्षेत / सम्प्रदाय- 11813 सहितस्य लिङ्गत्वम् इति चेत् / तत् किम् अनया परंपरया / 11814 स एव सम्प्रदाय-अपेक्षो अर्थ-ज्ञापनं किं न करोति / स च शब्दो 11815 यद् अभिप्रायैः प्रयुज्यमानो दृष्टो अन्यथा न दृष्टो दर्शन- 11816 अदर्शनाभ्यां धूम-आदि-वत् तत्-प्रतीतिं जनयति इति स एव 11817 सम्बन्धो अविनाभाव-आख्यः / न च अत्र अन्यस्य सामर्थ्यं पश्यामः / 11818 न अपि सिद्ध्य्-उपायम् / अथ पुनर् न शब्द-अर्थयोर् अन्य एव 11819 सम्बन्धः / 11820 ताभ्याम् अभेदे ताव् एव न अतो अन्या वस्तुनो गतिः //236//
11821 रूप-भेद-निबन्धनत्वाद् व्यवस्था-अन्तरस्य तद्-रूपं तद् एव 11822 स्यात् / धर्म-भेदस् तु स्यात् पूर्व-उक्त-क्रमेण / स च अविरुद्ध 11823 एव न वस्तु-भेदः / न च भेद-अभेदौ मुक्त्वा वस्तुनो अन्या 11824 गतिः / तस्य रूप-लक्षणत्वाद् / रूपस्य च एतd-vikalpa-anativऋत्तेः / 11825 अपि च / 11826 भिन्नत्वाद् वस्तु-रूपस्य सम्बन्धः कल्पना-कृतः / 11827 इत्य् उक्तं प्राक् / न हि श्लेष-लक्षणः सम्बन्धो अश्लिष्टेषु पदार्थेषु 11828 सम्भवति / न च अर्थ-अन्तरम् एषां सम्बन्धः / यस्मात् 11901 सद्-द्रव्यं स्यात् पर-अधीनं सम्बन्धो अन्यस्य वा कथम् //237 //
11903 न हि सिद्धं सत् परम् अपेक्षते / न अनपेक्षः स्वतन्त्रः सम्बन्धः / 11904 द्रव्यम् इति च स्वभाव उच्यते / स कथं परभावस्य 11905 श्लेषः स्यात् / न हि स्वभाव-अन्तर-सत्तया अन्यः श्लिष्टो नाम / 11906 मा भूद् अश्लिष्टेन श्लिष्टेन तु स्याद् इति चेत् / न / तस्य एव 11907 ताभ्यां श्लेष-असिद्धेः स एव असिद्धो यस् तौ श्लेषयेत् / तद् अयम् 11908 अतिप्रसङ्गो यद्य् अर्थाव् अर्थ-अन्तरेण श्लिष्यतो विशेष-अभावात् / किं 11909 च / 11910 वर्णा निरर्थकाः सन्तः पद-आदि परिकल्पितम् / 11911 अवस्तुनि कथं वृत्तिः सम्बन्धस्य अस्य वस्तुनः //238//
11912 वाचको हि वचन-अङ्गेन तद्वान् स्यात् / सन्तो अप्य् अवाचका वर्णाः / 11913 तन् न तेषु वाच्यवाचकसम्बन्धः / तद्-वृत्तौ स्वरूप-हानि- 11914 प्रसङ्गात् / क्रम-विशेषेण वाचका वर्णा इति चेत् / न / क्रमस्य अनर्थ- 11915 अन्तरत्वेन अभेदकत्वात् / तद्-रूपस्य क्रम-अन्तरे अप्य् अविशेषात् 11916 तुल्या स्यात् प्रतिपत्तिः / अर्थान्तरत्वम् अपि क्रमस्य निषेत्स्यामः / 11917 तद् असति वर्णानां वाचकत्वे पद-आदि वाचकं स्यात् / 11918 तच् च न किंचिद् व्यतिरेक-अव्यतिरेक-विरोधात् / तस्माद् इन्द्रिय- 11919 विज्ञान-विशेष-अनुबन्धी सभाग-वासना-उपादान -विकल्प-प्रतिभास-विभ्रमः 11920 पदम् / वाक्यं च एक-अवभासि मिथ्या एव / एक-अनेकत्व- 11921 अयोगात् / न ह्य् एकम् / अनेकया बुद्ध्या क्रमेण ग्रहण-अयोगात् / 11922 न च तद् एकया ग्राह्यं वर्ण-अनुक्रम-ग्रहणात् / एक-वर्ण- 11923 ग्रहण-काले च अनेक-बुद्धि-व्यतिक्रमात् / क्षणिकत्वात् बुद्धीनाम् / 11924 क्षणस्य एक-परमाणु-व्यतिक्रम-कालत्वात् / आधिक्ये विभागवतः 11925 पर्यवसान-अयोगात् / अनेक-अणु-व्यत्यय-निमेष-तुल्यकालत्वाद् 11926 अन्त्य-वर्ण-परिसमाप्तेः / यथा-अनुभवं स्मरणात् 11927 स्मृतिर् अपि तत्-काल एव / अनुभव-स्मरण-अनुक्रमयोर् विशेष-अनुपलक्षणत्वाच् 11928 च / न अप्य् अनेकं पद-आदि / अभेद-प्रतिभासनाद् बुद्धेस् 11929 तद्-अनेकत्वस्य निषेत्स्यमानत्वाच् च / तन् न वस्तु / तस्य 11930 एतd-vikalpa-anatikraमात् / वस्तु च सम्बन्धः / स कथं 12001 तद्-आश्रयः स्यात् / आश्रयनीय-अयोगात् / अनाश्रितो ह्य् एवं स्यात् / 12002 तथा च असम्बन्धः / तस्मान् न स्वाभाविकः शब्द-अर्थयोः 12003 सम्बन्धः / तद्-अभिप्रायस्य प्रयोगाद् उत्पन्नो अभिव्यक्तो 12004 वा शब्दो तद्-अव्यभिचारी इति तत्त्वम् अस्य सम्बन्धः / सा च उत्पत्तिर् 12005 अभिव्यक्तिर् वा अव्यभिचार-आश्रयः पौरुषेयी इति पौरुषेय एव 12006 सम्बन्धस् तद्-द्वारेण च अर्थ-प्रत्यायने अनियमः शब्दानाम् 12007 इत्य् अपौरुषेयत्वे अपि स एव विप्रलम्भः / 12008 अपौरुषेयता अपि इष्टा कर्तृऋणाम् अस्मृतेः किल / 12009 या अपि इयम् अपौरुषेयता वेद-वाक्यानां कर्तुर् अस्मरणाद् वर्ण्यते / 12011 सन्त्य् अस्य अप्य् अनुवक्तार इति धिग् व्यापकं तमः //239//
12012 तस्य एव तावद् ईदृशं प्रज्ञा-स्खलितं कथं वृत्तम् इति सविस्मय- 12013 अनुकम्पं नश् चेतः / तद् अपरे अप्य् अनुवदन्ति इति निर्दय- 12014 आक्रान्त-भुवनं धिग् व्यापकं तमः / कः प्राणिनो हित-ईप्सा- 12015 विप्रलब्धस्य अपराधः / तथा हि स्मरन्ति सौगता मन्त्राणां 12016 कर्तृऋन् अष्टक-आदीन् / हिरण्यगर्भं च काणादाः / तेषां 12017 स मिथ्या-वाद इति चेत् / क इदानीम् एवं पौरुषेयो अन्यो अपि / 12018 कुमारसम्भव-आदिष्व् आत्मानम् अन्यं वा प्रणेतारम् उपदिशन्तो 12019 यद् एवं प्रतिव्यूह्येरन् / तत्र प्रतिवहने अभ्युपेत- 12020 बाधा इति चेत् / नन्व् इदम् एव अभ्युपगम-अङ्गम् इति कस्य बाधा / 12021 तत् परस्य अपि तुल्यम् एव / तस्य इष्टत्वाद् अदोष इति चेत् / कुतो अस्य इयम् 12022 इष्टिर् अप्रमाणिका प्राग् आसीत् / अकस्माद् ग्राही च अयं किं पुनः 12023 क्वचित् साधनम् अपेक्षते / यत् पौरुषेय-अपौरुषेय-चिन्तया 12024 आत्मानम् आयासयति / तत एव इष्टेर् अनभ्युपेत-बाधायां तद्-अन्यस्य 12025 अपि तुल्यम् इत्य् अनुपालम्भः / अनतिशय-दर्शी च अयं 12026 वाक्येष्व् एवंप्रकाराणाम् अपौरुषेयत्व-साधनानां कार्य-धर्माणां 12101 वा क्वचिद् अतिशयम् अभ्युपेत इत्य् अप्रत्यय एव अस्य वृत्तिः / 12102 दृश्यन्ते च विच्छिन्न-क्रिया-सम्प्रदायाः कृतकाश् च / तान् यत्नवन्त 12103 उपलभन्त इति चेत् / न / नियम-अभावात् / अन्यत्र अनुपलम्भस्य 12104 उपलम्भस्य वा पर-उपदेशाद् अप्रत्ययाद् अनिश्चय-अर्थत्वात् / 12105 स्वयं-कृतानाम् अप्य् अपह्नोतृ-दर्शनात् / निष्ठा-गमनस्य 12106 अशक्यत्वात् / 12107 यथा अयम् अन्यतो अश्रुत्वा न इमं वर्ण-पद-क्रमम् / 12108 वक्तुं समर्थः पुरुषस् तथा अन्यो अपि इति कश्चन //240//
12109 तस्य अपि तद् एव उत्तरम् एवम् अपौरुषेयत्वे अपि किम् इदानीं पौरुषेयम् 12110 इत्य् आदि / तथा हि / 12111 अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः / 12112 दृष्टः को अभिहितो येन सो अप्य् एवं न अनुमीयते //241//
12113 न खलु किंचिद् अन्यद् अपौरुषेयत्व-आश्रयो अन्यत्र इदानीन्तनानाम् 12114 अनुपदेश-पाठ-अशक्तेः / सा च अन्यत्र अप्य् एकेन रचिते ग्रन्थे अन्यस्य 12115 तुल्या / तद्-अनुसारिणा सर्वस् तथा उन्नेयो न वा कश्चित् / तस्य 12116 तथा अनिष्टत्वाद् इत्य् आदाव् अप्य् उक्तम् इष्टेस् तद्-आश्रयत्वाद् इत्य् आदि / 12117 अपि च / 12118 यज्-जातीयो यतः सिद्धः स तस्माद् अग्नि-काष्ठ-वत् / 12119 अदृष्ट-हेतुर् अन्यो अप्य् अविशिष्टः सम्प्रतीयते //242//
12120 न अदर्शनाद् हेतुर् अहेतुको नाम / अदृष्ट-हेतवो अपि हि भावास् 12121 तद्-अन्यैः स्वभाव-अभेदम् अनुभवन्तस् तथाविधाः समुन्नीयन्ते / 12122 हेतु-रूप-निवृत्ताव् अपि तद्-रूपम् अनिवृत्तं कार्य-धर्म- 12123 व्यतिक्रमान् न ततः स्याद् इति न कश्चित् तथा वचनीयः / 12124 रूप-विशेषो वा तथा दर्शनीयो य एनं हेतुम् अनुविदध्यात् / येन इष्ट- 12125 अनिष्टयोर् इष्ट-विपर्ययो न स्यात् / स्वभाव-निवृत्तेश् च हेतोर् 12126 अभेदने भावानां भेदः स्याद् आकस्मिक इति न क्वचिद् विनिवर्तेत / 12127 तस्माद् यः स्वभावो यज्-जन्मा दृष्टः सो अन्यत्र अप्य् अविभज्यमानः 12128 स्वात्मना तत्-कार्य-धर्मतां न अतिवर्तते अग्न्i-indhana-vat / 12201 तत्र अप्रदर्श्य ये भेदं कार्य-सामान्य-दर्शनात् / 12202 हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः //243//
12203 यथा-अद्यो अपि पथिक-कृतो अग्निर् ज्वाला-अन्तर-पूर्वको न अरणि-निर्मथन- 12204 पूर्वकः / पथिक-अग्नित्वात् / अनन्तर-अग्नि-वद् इति / कथं 12205 पुनः पथिक-अग्नेर् व्यभिचारः / ज्वाला-उद्भव-सामर्थ्यं ह्य् 12206 आश्रित्य दहनस्य हेत्व्-अन्तरं प्रतिक्षिप्यते / यदि हि विना ज्वालया 12207 स्याद् अन्यत्र अपि स्याद् इति / तत्र ज्वाला-इतर-जन्मनोर् अबाध्यबाधकत्वे 12208 ज्वाला-अप्रभवत्वम् अन्यथा अपि स्याद् इति धर्मयोर् 12209 एकत्र अर्थे सम्भवात् स पथिक-अग्निर् अन्यो वा अर्थ एक-प्रतिनियतो 12210 न स्याद् इत्य् आशङ्क्यते व्यभिचारः / सो अप्य् अन्योन्य-व्यतिरेकी 12211 धर्म-द्वय-अवतारो वस्तु-सामान्ये अविरुद्ध इत्य् उच्यते न अवस्था- 12212 भेदिनि विशेषे / निष्कलस्य आत्मनस् तd-atattva-virodhआत् / न च 12213 ज्वाला-इतर-जन्मनोर् बाध्यबाधकता पथिक-अग्नौ / तस्य ज्वाला-प्रभव- 12214 व्यतिरेकेण असम्भव-अभावात् / एवंभूतः पथिक-अग्निर् 12215 ज्वाला-प्रभव इति स्यात् / न सर्वः / तत्र विशेष-प्रतिक्षेपस्य 12216 कर्तुम् अशक्यत्वात् / सम्भवद्-विशेषस्य च तादवस्थ्य-अनियमात् / 12217 यद् अपि विना ज्वालया स्याद् अन्यत्र अपि स्याद् इति / भवत्य् एव / 12218 यया सामग्र्या सम्भवति सा यदि स्यात् अस्याः सम्भवं प्रदर्श्य 12219 तद्-अभावं प्रदर्शयेत् तत्र वा ज्वालाम् स्याद् एतत् / 12220 तस्मान् न एकस्य पर-पूर्वकम् अध्ययनं सर्वस्य तथाभावं 12221 साधयति / तस्य अन्यथा असम्भव-अभावात् / तथाविधस्य 12222 तु तत्-क्रिया-प्रतिभा-रहितस्य तथा स्याद् इति / तथाभूतम् 12223 एवं वाच्यं स्यात् तद् अविशेषेण सम्भवद्-विशेषम् उच्यमानं 12224 छायां न पुष्णाति /
कथं विशेषस्य सम्भवो यावता 12225 तेषाम् अपि पुरुषाणाम् अशक्तिर् एव इदानीन्तन-पुरुष-वत् / अत्र अपि 12226 शक्ति-पुरुषयोर् न किंचिद् विरोध-दर्शनम् इति न अविरुद्ध-विधिर् 12227 अनुपलब्धि-प्रयोगो गमकः / न ह्य् अतीन्द्रियेषु विरोध-गतिर् 12228 अस्ति इत्य् उक्तम् / न च अयं पूर्व-प्रयोगाद् भिद्यते / यदि पुरुषाः 12229 शक्ताः स्युर् इदानीन्तना अपि इति / विशेष-असम्भव एतत् स्यात् / 12301 स च दुःसाधः / यत्र एकस्य अशक्तिस् तत्र सर्व-पुरुषाणाम् इत्य् अपि 12302 पूर्ववद् व्यभिचारि / भारत-आदिष्व् इदानीन्तनानाम् अशक्ताव् 12303 अपि कस्यचित् शक्ति-सिद्धेः / तस्मात् कारणानि विवेचयत अर्थेष्व् 12304 अपि तd-atat-pratibhaवेषु स्वभाव-भेदो दर्शनीयः / तद्-अभावे 12305 सर्वस् तदात्मा न वा कश्चित् / न च अत्र लौकिक-वैदिकयोः स्वभाव- 12306 भेदं पश्यामः / असति तस्मिंस् तयोः सामान्यस्य एव 12307 दृष्टेर् एकस्य कश्चिद् धर्मं विवेचयन् तत्-स्वभाव-सम्भविना 12308 तेन आशङ्क्य-व्यभिचार-वादः क्रियते / ननु वेद-अवेदयोस् 12309 तत्त्व-लक्षणो अस्त्य् एव विशेषः / सत्यम् अस्ति / न केवलं 12310 तयोर् एव / किं तर्हि / डिण्डिक-पुराण-इतरयोर् अपि / न च स्व-प्रक्रिया- 12311 भेद-दीपनो नाम-भेदः पुरुष-कृतिं बाधते / अन्यत्र 12312 अपि प्रसङ्गात् / यदि तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः 12313 कृतां वा अकृत-संकेतो विवेचयेत् व्यक्तम् अपौरुषेयो 12314 वेदः / ननु न शक्नुवन्त्य् एव पुरुषा मन्त्रान् कर्तुम् / एतद् 12315 उत्तरत्र विचारयिष्यामः / अपि च / न मन्त्रो नाम अन्यद् एव 12316 किंचित् / किं तर्हि / सत्य-तपः-प्रभाववतां समीहित-अर्थ-साधनं 12317 वचनम् /
तद् अद्यत्वे अपि पुरुषेषु दृश्यत एव / यथास्वं 12318 सत्य-अधिष्ठान-बला विष-दहन-आदि-स्तम्भन-दर्शनात् / 12319 शबराणां च केषांचिद् अद्य अपि मन्त्र-करणात् / अवैदिकानां 12320 च बौद्ध-आदीनां मन्त्र-कल्पानां दर्शनात् / तेषां च पुरुष- 12321 कृतेः / तत्र अप्य् अपौरुषेयत्वे कथम् इदानीम् अपौरुषेयम् 12322 अवितथम् / तथा हि बौद्ध-इतरयोर् मन्त्र-कल्पयोर् हिंसा- 12323 मैथुन-आत्म-दर्शन-आदयो अनभ्युदय-हेतवो अन्यथा च वर्ण्यते / 12324 तत् कथम् एकत्र विरुद्ध-अभिधायि द्वयम् सत्यं 12325 स्यात् / तत्र अर्थ-अन्तर-कल्पने तद् अन्यत्र अपि तुल्यम् इत्य् अर्थ-अनिर्णयात् 12326 क्वचिद् अप्रतिपत्तिः / तथा च सद् अप्य् अनुपयोगम् अपौरुषेयम् / 12327 बौद्ध-आदीनाम् अमन्त्रत्वे तद्-अन्यत्र अपि कोष-पानं 12328 स्यात् करणीयम् / विष-कर्म-अधिकृतो बौद्धा अपि दृश्यन्ते / तत्र अमन्त्रत्वम् 12401 अपि विप्रतिषिद्धम् / मुद्रा-मण्डल-ध्यानैर् अप्य् 12402 अनक्षरैः कर्माणि क्रियन्ते / न च तान्य् अपौरुषेयाणि नित्यानि 12403 युज्यते / तेषां क्रिया-सम्भवे अक्षर-रचनायां कः प्रतिघातः 12404 पुरुषाणाम् / तस्मान् न किंचिद् अशक्य-क्रियम् एषाम् / कथम् 12405 इदानीं सत्य-प्रभवौ मन्त्र-कल्पौ परस्पर-विरोधिनौ / न 12406 वै सर्वत्र तौ सत्य-प्रभवौ / प्रभाव-युक्त-पुरुष-प्रतिज्ञा- 12407 लक्षणाव् अपि तौ स्तः / स प्रभावो गत्i-siddhi-viशेषाभ्याम् अपि 12408 स्यात् / यदि पौरुषेया मन्त्राः किं न सर्वे पुरुषा मन्त्र-कारिणः / 12409 तत्-क्रिया-साधन-वैकल्यात् / यदि तादृशैः सत्य-तपः-प्रभृतिभिर् 12410 युक्ताः स्युः कुर्वन्त्य् एव /
अपि च काव्यानि पुरुषः करोति इति 12411 सर्वः पुरुषः काव्य-कृत् स्यात् / अकरणे वा न एव कश्चित् तद्वद् 12412 इत्य् अपूर्वा एषा वाचो-युक्तिः / सत्यं मन्त्र-क्रिया-साधन-विकला 12413 मन्त्रान् न कुर्वते / तत् तु कस्यचित् साकल्यं न पश्यामः / 12414 पुरुषाणां समान-धर्मत्वात् / उक्तम् अत्र न मन्त्रो नाम अन्यद् 12415 एव किंचित् सत्य-आदिमतां वचन-समयाद् इति / तानि च क्वचित् 12416 पुरुषेषु दृश्यन्ते / सर्व-पुरुषास् तद्-रहिता इत्य् अपि तत्-सम्भव- 12417 विरोध-अभावाद् अनिर्णयः / न च अत्यक्ष-स्वभावेष्व् अनुपलब्धिर् 12418 निश्चय-हेतुः / न च स्मृत्i-mati-prativedह-सत्य-शक्तयः 12419 सर्व-भाविन्यः / तत्-साधन-सम्प्रदाय-भेद-वद् गुण-अन्तर- 12420 साधनान्य् अपि स्युः / न अपि सन्न् अपि सर्वो द्रष्टुं शक्यः / अत 12421 एव अदृष्टस्य अनपह्नवः / न अपि पुरुषेषु उत्पित्सोः कस्यचिद् गुणस्य 12422 प्रतिरोद्धा / बाध्य-अदृष्टेर् बाध्यबाधकभाव-असिद्धेः / एतेन 12423 सर्व-ज्ञान-प्रतिषेध-आदयो अपि निर्वर्णित-उत्तराः / तत्र अप्य् एवंभूतो 12424 यादृशो अयम् असम्भवत्-तत्-साधन-सम्प्रदायो न इति न्यायः / 12425 न अदृष्ट-ज्ञापको अतत्-स्वभाव इत्य् अपि / सतां अपि कार्य-अनारम्भ- 12426 सम्भवात् / स्वभाव-विप्रकर्षेण द्रष्टुम् अशक्यत्वाच् च / 12427 तस्माद् अध्ययनम् अध्ययन-अन्तर-पूर्वकम् अध्ययनाद् इति 12428 भारत-अध्ययने अपि भावाद् व्यभिचारि / ननु वेदने विशेषणाद् 12429 अदोषः / कः पुनर् अतिशयो वेद-अध्ययनस्य यद् अन्यथा अध्येतुं 12430 न शक्यते / न हि विशेषणम् अविरुद्धं विपक्षेण अस्माद् 12431 हेतुं व्यावर्तयति / अविरुद्धयोर् एकत्र सम्भवात् /
इदानीन्तनानाम् 12501 अध्ययनाद् इति चेत् / उक्त-उत्तरम् एतत् / अदर्शनाद् 12502 इति चेत् / इदम् अपि प्रतिव्यूढम् / न अप्य् अदर्शन-मात्रम् अभावं 12503 गमयति इति व्यभिचार एव / तस्मान् न विशेषणम् अतिशय- 12504 भाग् इत्य् अनुपात्त-समम् / यत् किंचिद् वेद-अध्ययनं सर्वं 12505 तद्-अध्ययन-अन्तर-पूर्वकम् इत्य् अपि व्याप्तिर् न सिध्यति / 12506 सर्वस्य तथाभाव-असिद्धेः / यादृशं तु तन्-निमित्तं दृष्टं 12507 तत् तथा इति स्यात् / दृष्टे विशेषे तन्-निमित्ततया तत्-त्यागेन सामान्य- 12508 ग्रहणं व्यभिचार्य् एव / हुताशन-संसिद्धौ पाण्डु-द्रव्यत्व-वत् / 12509 एतेन वचन-आदयो राग-आदि-साधने प्रत्युक्ताः / अस्तु 12510 वेदम् अध्ययनम् अध्ययन-पूर्वता-साधनम् / 12511 सर्वथा अनादिता सिध्येद् एवं न अपुरुष-आश्रयः / 12512 तस्माद् अपौरुषेयत्वे स्याद् अन्यो अप्य् अनर-आश्रयः //244//
12513 पुरुष एव हि स्वयम् अभ्यूह्य परतो वा आधीयते / न एषाम् अव्यापृत- 12514 करणानां स्वयं शब्दा ध्वनन्ति येन अपौरुषेयाः स्युः / 12515 अपि स्युर् अपौरुषेया यदि पुरुषाणाम् आदिः स्यात् / तदा अप्य् अन्य- 12516 पूर्वकं न सिध्यति / अध्यापयितुर् अभावात् / तत् प्रथमो 12517 अध्येता कर्ता एव स्यात् / तद् अयम् अनादिः पूर्व-पूर्व-दर्शन- 12518 प्रवृत्तो डिम्भक-पांसु-क्रीडा-आदि-वत् पुरुष-व्यवहार इति स्यात् / 12519 न अपौरुषेय इति / अनादित्वाद् अपौरुषेयत्वे बहुतरम् इदानीम् 12520 अपौरुषेयम् / तथा हि / 12521 म्लेच्छ-आदि-व्यवहाराणां नास्तिक्य-वचसाम् अपि / 12522 अनादित्वात् तथाभावः पूर्व-संस्कार-सन्ततेः //245//
12523 म्लेच्छ-व्यवहारा अपि केचिन् मातृ-विवाह-आदयो मदन-उत्सव-आदयश् 12524 च अनादयः / नास्तिक्य-वचांसि च अपूर्व-परलोक-आद्य्-अपवादीनि / न 12525 हि तान्य् अनाहित-संस्काराः परैः प्रवर्तयन्ति / स्व- प्रतिभा-रचित- 12526 समयानाम् अपि यथा अश्रुत-अर्थ-विकल्प-संहारेण एव प्रवृत्तेः / 12527 तत् किंचित् कुतश्चिद् आगतम् इत्य् एकस्य उपदेष्टुः प्रबन्धेन अभावाद् 12528 अपर-पूर्वकम् इत्य् उच्यते / प्राग् एव यथा-दर्शन- 12529 प्रवृत्तयः सम्यङ्-मिथ्या-प्रवृत्तयो लोक-व्यवहाराः / नन्व् 12530 आदि-कल्पिकेष्व् अदृष्टा एव व्यवहाराः पश्चात् प्रवृत्ता इष्यन्ते / 12601 न / तेषाम् अप्य् अन्य-संस्कार-आहितानां यथा-प्रत्ययं प्रबोधात् / 12602 भवतु सर्वेषाम् अपौरुषेयत्वम् इति चेत् / 12603 तादृशे अपौरुषेयत्वे कः सिद्धे अपि गुणो भवेत् / 12604 कामम् अविसंवादकम् इत्य् अपौरुषेयत्वम् इष्टम् / तद् विसंवादकानाम् 12605 अपि केषांचिद् अनादित्वाद् अस्ति इति किम् अपौरुषेयत्वेन / 12606 सति वा वेद-वाक्यानाम् एव अपौरुषेयत्वे / 12607 अर्थ-संस्कार-भेदानां दर्शनात् संशयः पुनः //246//
12608 यदि अपौरुषेयत्वे अपि प्रतिनियताम् एव तd-artha-pratibhआं 12609 जनयेद् आश्वासनं स्यात् / यथेष्टं तु समारोप-अपवादाभ्यां 12610 नैरुक्त-मीमांसक-आदयो वेद-वाक्यानि विशसन्तो दृश्यन्ते / न 12611 च ते अर्थास् तेषां न संघटन्ते / समय-प्राधान्याद् अर्थ-निवेशस्य 12612 एकस्य अपि वाक्यस्य अनेक-विकल्प-सम्भवात् / प्रकृति-प्रत्ययानाम् 12613 अनेक-अर्थ-पाठात् / रूढेर् अप्य् एकान्तेन अननुमतेः / अरूढ- 12614 शब्द-बाहुल्यात् / तद्-अर्थस्य पुरुष-उपदेश-अपेक्षणात् / तद्-उपदेशस्य 12615 तद्-इच्छा-अनुवृत्तेर् अनिर्णय एव वेद-वाक्य-अर्थेषु / 12616 अपि च / अयम् अपौरुषेयत्वं साधयन् वर्णानां वा साधयेद् 12617 वाक्यस्य वा / तत्र / 12618 अन्य-अविशेषाद् वर्णानां साधने किं फलं भवेत् / 12619 न हि लोक-वेदयोर् नाना वर्णाः / भेदे अपि च प्रत्यभिज्ञान-अविशेषात् 12620 तत एकत्व-असिद्धि-प्रसङ्गाद् भेद-अनुपलक्षणाच् च वैदिक- 12621 वर्ण-असिद्धिः प्रत्यभिज्ञानाद् अप्रतिपत्ति-प्रसङ्गात् / अनभ्युपगमाच् 12622 च / तेषां च अपौरुषेयत्व-साधने ते तुल्याः सर्वत्र 12623 इति किम् अनेन परिशेषितम् / तथा च सर्वो व्यवहारो अपौरुषेयः / 12624 न च सर्वो अवितथ इति व्यर्थः परिश्रमः / अथ वाक्यम् 12625 अपौरुषेयम् इष्टम् / 12701 वाक्यं न भिन्नं वर्णेभ्यो विद्यते अनुपलम्भनात् //247//
12703 न हि वयं देवदत्त-आdi-pada-vआक्येषु दकार-आदि-प्रतिभासं मुक्त्वा 12704 अन्यं प्रतिभासं बुद्धेः पश्यामः / द्वितीय-वर्ण-प्रतिभास-वत् / 12705 न च अप्रतिभासमानं ग्रहणे ग्राह्यतया इष्टम् अस्त्य् 12706 अन्यद् वा इति शक्यम् अवसातुम् / आकार-अन्तर-वत् / अन्य-असम्भवि 12707 कार्यं गमकम् इति चेत् / स्याद् एतत् यदि तेषु वर्णेषु सत्सु अपि 12708 तत् कार्यं न स्यात् / न भवति तेषाम् अविशेषे अपि पद-वाक्य-अन्तरे 12709 अभावाद् इति चेत् / न / तेषाम् अविशेष-असिद्धेः / अविशेषः प्रत्यभिज्ञानात् 12710 सिद्ध इति चेत् / न / तस्य व्यभिचाराद् अनिदर्शनत्वाच् 12711 च / वर्ण-अविशेषे अपि वाक्य-भेदात् प्रतिपत्ति-भेदः कार्य-भेदः 12712 स्यात् / सा च वाक्यात् / तच् च अतीन्द्रियम् इति कुतः स्यात् / संनिधान- 12713 मात्रेण जनने अव्युत्पन्नस्य अपि स्यात् / तस्मान् न वाक्यं 12714 नाम किंचिद् अर्थ-अन्तरं वर्णेभ्यो यस्य अपौरुषेयत्वं साध्येत / 12715 तद्-अभावाद् वेद-अविशिष्ट-वर्ण-अपौरुषेयत्वम् अपि प्रथम- 12716 पक्षे प्रत्युक्तम् / अपि च अस्त्व् अर्थ-अन्तरं वाक्यम् / 12717 तद् अनेक-अवयव-आत्मकं वा स्याद् अनवयवं वा / 12718 अनेक-अवयव-आत्मत्वे पृथक् तेषां निरर्थता / 12719 ते अपि तस्य बहवो अवयवाः पृथक् प्रकृत्या यद्य् अनर्थकाः / 12720 अतद्-रूपे च ताद्रूप्यं कल्पितं सिंहता-आदि-वत् //248//
12721 अर्थवान् एव आत्मा वाक्यम् / ते च अवयवाः स्वयम् अनर्थकाः / 12722 तेषु स आत्मा कल्पना-समारोपितः स्यात् / सिंहता-आदि-वन् माणवक- 12723 आदिष्व् इति पौरुषेय एव / अथ मा भूद् एष दोष इति प्रत्येकं 12724 ते अवयवाः सा अर्थका इष्यन्ते / 12801 प्रत्येकं सा अर्थकत्वे अपि मिथ्या-अनेकत्व-कल्पना / 12802 एक-अवयव-गत्या च वाक्य-अर्थ-प्रतिपद् भवेत् //249//
12803 परिसमाप्त-अर्थं हि शब्द-रूपं वाक्यम् / ते च अवयवास् तथाविधाः 12804 पृथक् पृथग् इति प्रत्येकं ते वाक्यम् / तथा च न अनेक- 12805 अवयवं वाक्यम् / एक-अवयव-प्रतिपत्त्या च वाक्य-अर्थ-प्रतिपत्तेर् 12806 अवयव-अन्तर-अपेक्षा काल-क्षेपश् च न स्यात् / तस्य निष्कल- 12807 आत्मनः क्षणेन प्रतिपत्तेर् एक-ज्ञान-उत्पत्तौ निःशेष-अवगमात् / 12808 अन्यथा च एकत्व-विरोधात् / 12809 सकृच् श्रुतौ च सर्वेषां काल-भेदो न युज्यते / 12810 अथ मा भूद् अवयव-अन्तर-अप्रतीक्षणेन एकस्माद् एव अवयवाद् 12811 वाक्य-अर्थ-सिद्धेर् अनेक-अवयवत्व-हानिर् वाक्यस्य इति सकृत् सर्व- 12812 अवयवानां श्रवणम् इष्यते / तदा अपि काल-क्षेपो न युक्त एव / 12813 एक-अवयव-प्रतिपत्ति-काल एव सर्वेषां श्रवणात् / क्रम-श्रवणे 12814 च पृथग् अर्थवताम् एकस्माद् एव तd-artha-siddher अन्यस्य 12815 वैयर्थ्यात् / सकृच् श्रुतौ च पृथग् अर्थेष्व् अदृष्ट-सामर्थ्यानाम् 12816 अर्थवत्ता च न सिध्यति / सहितेष्व् अर्थ-दर्शनाद् अदोषः / 12817 न / पृथग् असतो रूपस्य संघाते अप्य् असम्भवात् / अर्थ-अन्तर-अनुत्पत्तेश् 12818 च / शब्द-उत्पाद-वादिनस् तावद् अयम् अदोष एव / पृथग् 12819 असमर्थानाम् अप्य् अवयवानाम् उपकार-विशेषाद् अतिशयवतां 12820 कार्य-विशेष-उपयोगात् / प्रत्येकं त्व् अवयवेषु समर्थेषु व्यर्था 12821 स्याद् अन्य-कल्पना / अथ पुनर् एकम् एव अनवयवं वाक्यम् / 12822 तत्र / 12823 एकत्वे अपि ह्य् अभिन्नस्य क्रमशो गत्य्-असम्भवात् //250//
12824 काल-भेद एव न युज्यते / न ह्य् एकस्य क्रमेण प्रतिपत्तिर् 12825 युक्ता / गृहीत-अगृहीतयोर् अभेदात् / क्रमेण च वाक्य-प्रतिपत्तिर् 12826 दृष्टा / सर्व-वाक्य-व्याहार-श्रवण-स्मरण-कालस्य अनेक-क्षण-निमेष- 12827 अनुक्रम-परिसमाप्तेः / वर्ण-रूप-असंस्पर्शिनश् च एक-बुद्धि-प्रतिभासिनः 12828 शब्द-आत्मनो अप्रतिभासनात् / वर्ण-अनुक्रम-प्रतीतेः / 12829 तद्-अविशेषे अप्य् अनुक्रम-कृतत्वाद् वाक्य-भेदस्य अनुक्रमवती 12901 वाक्य-प्रतीतिः / वर्ण-अनुक्रम-उपकार-अनपेक्षणे तैर् यथा कथंचित् 12902 प्रयुक्तैर् अपि यत् किंचिद् वाक्यं प्रतीयेत विना वा 12903 वर्णैः / तैर् अनुक्रमवद्भिर् अक्रमस्य उपकार-अयोगात् / अक्रमेण 12904 च व्याहर्तुम् अशक्यत्वात् / गत्य्-अन्तर-अभावाच् च / न एव 12905 वाक्ये वर्णाः सन्ति तद् एकम् एव शब्द-रूपं व्यञ्जक-अनुक्रम- 12906 वशाद् अनुक्रम-वद् वर्ण-विभाग-वच् च प्रतिभाति इति चेत् / 12907 अनुक्रमवता व्यञ्जकेन अक्रमस्य व्यक्तिः प्रत्युक्ता / व्यक्त- 12908 अव्यक्त-विरोधाद् अवर्ण-भागे च वाक्ये असकल-श्राविणो असकल-वाक्य- 12909 गतिर् न स्यात् एकस्य शकल-अभावात् सकल-श्रुतिर् न वा कस्यचित् / 12910 समस्त-वर्ण-संस्कारवत्या अन्त्यया बुद्ध्या वाक्य-अवधारणम् 12911 इत्य् अपि मिथ्या / तस्य अवर्ण-रूप-संस्पर्शिनः कस्यचित् कदाचिद् 12912 अप्रतिपत्तेः / वर्णानां च अक्रमेण अप्रतिपत्तेः कुतो अक्रमम् 12913 एक-बुद्धि-ग्राह्यं वाक्यं नाम / न च अन्त्य-वर्ण-प्रतिपत्तेर् 12914 ऊर्ध्वम् अन्यम् अशकलं शब्द-आत्मानम् उपलक्षयामः / न अपि 12915 स्वयम् अयं वक्ता विभावयति /
केवलम् एवं यदि स्यात् साधु 12916 मे स्याद् इति कल्याण-कामता-मूढ-मतिर् अन्त्यायां बुद्धौ समाप्त-कलः 12917 शब्दो भाति इति स्वप्नायते / न हि स्मर्यमाणायोर् 12918 अपि पद-वाक्ययोर् वर्णाः क्रम-विशेषम् अन्तरेण विभाव्यन्ते / 12919 अक्रमायां बुद्धौ पौर्वापर्य-अभावात् / तेषां तत्-कृतः पद- 12920 वाक्य-भेदानां भेदो न स्यात् / न अप्य् अवर्ण-क्रमम् अन्यच् 12921 शब्द-रूपं पश्याम इत्य् उक्तम् / सति वा तद् अनित्यं वा स्यान् 12922 नित्यं वा / यदि / 12923 अनित्यं यत्न-सम्भूतं पौरुषेयं कथं न तत् / 12924 अवश्यं ह्य् अनित्यम् उत्पत्तिमत् कुतश्चिद् भवति / तथा ह्य् आकस्मिकत्वे 12925 सत्त्वस्य देश-आदि-नियमो न स्याद् इत्य् उक्तम् / तच् च यत्न- 12926 प्रेरित-अविगुण-करणानां दृष्टम् अन्यथा न इति / कारण-धर्म- 13001 दर्शनात् पुरुष-व्यापार एव कारणम् / अतः पौरुषेयं स्यात् / 13002 नित्य-उपलब्धिर् नित्यत्वे अप्य् अनावरण-सम्भवात् //251//
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
