Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रमाणवार्त्तिस्ववृत्ति
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
04512 भेदस् ततो अयं बौद्धे अर्थे सामान्यं भेद इत्य् अपि / 04513 तस्य एव च अन्यव्यावृत्त्या धर्म-भेदः प्रकल्प्यते //88//
04514 साध्य-साधन-संकल्पे वस्तु-दर्शन-हानितः / 04515 भेदः सामान्य-संसृष्टो ग्राह्यो न अत्र स्वलक्षणम् //89//
04516 समान-भिन्न-आद्य्-आकारैर् न तद् ग्राह्यं कथंचन / 04517 भेदानां बहु-भेदानां तत्र एकस्मिन्न् अयोगतः //90//
04518 तद्-रूपं सर्वतो भिन्नं तथा तत्-प्रतिपादिका / 04519 न श्रुतिः कल्पना वा अस्ति सामान्येन एव वृत्तितः //91//
04520 इति संग्रहश्लोकाः / किं पुनः कारणं स्वलक्षणे शब्दा न 04521 प्रयुज्यन्ते / यस्मात् / 04522 शब्दाः संकेतितं प्राहुर् व्यवहाराय स स्मृतः / 04523 तदा स्वलक्षणं न अस्ति संकेतस् तेन तत्र न //92 //
04524 न हि शब्दा असंकेतितम् अर्थं प्रकाशयन्ति / संकेतश् च 04525 व्यवहार-अर्थं क्रियते अपि नाम इतः शब्दात् कृत-संकेताद् 04526 उत्तर-कालं इमम् अर्थं प्रतिपद्येत इति / न च प्राक्कृत-सम्बन्धस्य 04527 एकत्र स्वलक्षणे शब्दस्य पश्चाद् प्रयोगो युक्तः / 04528 तस्य देश-काल-व्यक्त्i-bheda-anआस्कन्धनात् / तस्मान् न स्वलक्षणे 04529 समयः / सामान्यं तर्हि व्यतिरिक्तम् अव्यतिरिक्तं वा व्यापि 04530 शब्दैर् अभिधीयते / तन् न व्यवहार-काल-अभाव-दोषः / न एतद् 04531 अस्ति / यस्मात् 04532 अपि प्रवर्तेत पुमान् विज्ञाय-अर्थक्रिया-क्षमान्//
04601 तत् साधनाय इत्य् अर्थेषु संयोज्यन्ते अभिधायकाः //93//
04602 न खलु वै व्यसनम् एव एतल् लोकस्य यद् अयम् असंकेतयन्न् 04603 अप्रयुञ्जानो वा शब्दान् दुःखम् आसीत / किं तर्हि सर्व एव अस्य अवधेय 04604 आरम्भः फल-अर्थः / निष्फल-आरम्भस्य उपेक्षनीयत्वात् / 04605 तद् अयं शब्दान् अपि क्वचिन् नियुञ्जानः फलम् एव किंचिद् 04606 ईहितुं युक्तः / तच् च सर्वं त्याग-आप्ति-लक्षणम् इष्ट-अनिष्टयोः / 04607 तेन अयम् इष्ट-अनिष्टयोः साधनम् असाधनं च ज्ञात्वा तत्र 04608 प्रवृत्ति-निवृत्ती कुर्यां कारयेयं वा इति शब्दान् नियुञ्जीत नियोगे 04609 वा आद्रियेत / अन्यथा अपेक्षणीयत्वात् / 04610 तत्र अनर्थक्रिया-योग्या जातिः / 04611 न हि जातिः क्वचिद् वाह-दोह-उपतिष्ठते / न च तादृशं प्रकरणम् 04612 अन्तरेण लोके शब्द-प्रयोगो व्यवहारेषु / व्यक्तेर् अशक्य- 04613 चोदनत्वाल् लक्षित-लक्षण-अर्थं जाति-चोदना इति चेत् / अशब्द-चोदिते 04614 सत्य् अपि सम्बन्धे कथं प्रवर्तेत / न हि कश्चिद् दण्डं 04615 छिन्धि इत्य् उक्ते दण्डिनं छिनत्ति / न अप्य् असम्भवाद् व्यक्तौ प्रवृत्तिः / 04616 एवं ह्य् असम्बद्ध-प्रलापी स्यात् / न ततो अन्यत्र प्रवृत्तिर् 04617 बलीवर्द-दोह-चोदना-वत् / न च अर्थ-अन्तर-चोदनेन अर्थ-अन्तरस्य लक्षणम् / 04618 न हि सम्बन्धे सत्य् अपि दण्ड-शब्दाद् दण्डिनि प्रतिपत्तिः / 04619 अनियत-सम्बन्धत्वात् तत्र न इति चेत् / तत् तुल्यं जाताव् 04620 अपि / व्यक्तीनाम् अपाये केवलाया जातेर् अवस्थानात् / भ्रातृ-आदि- 04621 शब्दास् तु सम्बन्धि-शब्दत्वाद् आक्षिपेयुः परम् / न तथा 04622 गोत्व-आदि-श्रुतयः सम्बन्धि-वाचिन्यः / अपेत-व्यक्तीनाम् अपि जातीनां 04623 तच्-श्रुतिभ्यो नित्यम् अनुगमन-प्रसङ्गात् /
सर्वदा तत्-सम्बन्ध- 04624 योग्यता-प्रतीतेर् इष्टम् एव इति चेत् / सर्वदा तर्हि गो-शब्दाद् 04625 अप्रवृत्तिः / सहित-असहित-अवस्थयोर् विशेषेण अनाक्षेपात् / व्यक्ति- 04626 सम्बन्धिन्या जातेश् चोदनाद् अदोष इति चेत् / सर्वदा तर्हि तद्-विशेषणत्वेन 04627 अवस्थिता व्यक्तिर् आक्षिप्ता एव इति तद्वान् अभिधेयः स्यात् / 04628 न च जाति-व्यक्त्योः कश्चित् सम्बन्धो अन्योन्यम् अजन्यजनकत्वेन 04629 अनुपकारात् / ततो लक्षणम् अप्य् अयुक्तम् / तस्मान् न जातौ 04630 शब्द-निवेशनं फल-अभावात् / एवं तर्हि / 04631 तद्वान् अलं 04701 अर्थक्रियास्व् इति तत्र शब्दो नियोज्यते / 04702 स च / 04703 साक्षान् न योज्यते कस्माद् / 04704 यदि व्यक्तौ शब्द-निवेशनं फल-वत् / स च शब्दः कस्मात् साक्षाद् 04705 व्यक्तिष्व् एव न नियुज्यते / किं तत्र अन्येन व्यवधिना / 04706 आनन्त्याच् चेद् इदं समम् //94//
04707 स्याद् एतद् आनन्त्याद् व्यक्तीनाम् अशक्यः शब्देन सम्बन्धः 04708 कर्तुम् / एवं सति इदम् आनन्त्यं तद्वत्य् अपि समानम् / जात्या अपि 04709 हि व्यक्तस्य एव वक्तव्या इत्य् अकृत-सम्बन्धस्य अनभिधानाद् 04710 अवश्यं तत्र सम्बन्धः करणीयः / स च न शक्यते / 04711 तत्-सम्बन्धिनि करणात् तत्र अपि कृत एव इति चेत् / उक्तम् 04712 अत्र सम्बन्धे अप्य् एकत्र कृताद् अन्यत्र अप्रतीतिः न च सम्बन्धो 04713 अस्ति इति / अपि च / 04714 तत्-कारिणाम् अतत्-कार्i-bheda-sआम्ये न किं कृतः / 04715 याम् अर्थक्रियाम् अधिकृत्य अयम् अर्थेषु शब्दान् नियुङ्क्ते तत्- 04716 कारिणाम् अर्थानाम् अन्येभ्यो भेदात् तत्र एव च एषाम् अभेदे किं 04717 न शब्दः प्रयुज्यते / 04718 तद्वद्-दोषस्य साम्याच् चेद् अस्तु जातिर् अलं परा //95//
04719 स्याद् एतत् अन्यव्यावृत्ते अपि शब्द-अर्थे व्यावृत्ति-विशिष्टस्य तद्वतो 04720 अभिधानान् न तद्वत्-पक्षाद् विशेषः / को ह्य् अत्र विशेषो व्यावृत्तिर् 04801 जातिर् व्यावृत्तिमान् जातिमान् इति / अस्तु नाम तद्वद्-दोषः / जातिर् 04802 अन्या मा भूत् / जातिम् अपि ह्य् अभ्युपगच्छता अवश्यं भावानां 04803 भेदो अभ्युपगन्तव्यः / तद्-अभावे तस्या अप्य् अभाव- 04804 प्रसङ्गात् स च एकस्माद् भेदस् तद्-अन्येषाम् अभेदस् तद्-विशिष्टेष्व् 04805 अर्थेषु प्रतिपत्तिर् अस्तु / सर्वथा दोष-परिहारस्य कर्तुम् 04806 अशक्यत्वात् / अर्थ-अन्तर-अभ्युपगमे प्रयोजन-अभावात् / तद्- 04807 अर्थस्य अन्येन साधनात् / तद्-अभ्युपगमस्य च अवश्यं भावित्वात् / 04808 अपि च / 04809 तd-anya-parihआरेण प्रवर्तेत इति च ध्वनिः / 04810 उच्यते तेन तेभ्यो अस्य अव्यवच्छेदे कथं च सः //96//
04811 शब्दं ह्य् एष प्रयुञ्जानो अर्थेष्व् अनिष्ट-परिहारेण प्रवर्तेत इति 04812 च प्रयुङ्क्ते / तत्र अन्यत्र च प्रवृत्त्य्-अनुज्ञायां तन्- नाम-ग्रहण- 04813 वैयर्थ्यात् प्रवृत्ति-निवृत्त्य्-अनुज्ञायां च एक-चोदना अनादराद् 04814 अवचनम् एव स्याद् अन्यव्यावृत्त्य्-अनभिधाने / तस्माद् अवश्यं 04815 शब्देन व्यवच्छेदश् चोदनीयः / स च अभिन्नस् तद्-अन्येष्व् 04816 इति जाति-धर्मो अप्य् अस्ति / तन् नियत-अभ्युपगमं नियत-चोदनं 04817 जात्य्-अर्थ-प्रसाधनं च परित्यज्य-अर्थ-अन्तर-कल्पनं केवलम् 04818 अनर्थ-निर्बन्ध एव / यथा-कल्पनम् अस्य अयोगात् / न वै व्यवच्छेदो 04819 न क्रियते / प्रवृत्ति-विषयं तु कथयद्भिर् जातिर् उक्ता / 04820 व्यवच्छेदो अस्ति चेद् अस्य नन्व् एतावत् प्रयोजनम् / 04821 शब्दानाम् इति किं तत्र सामान्येन अपरेण वः //97//
04822 ननु उक्तं प्रवृत्ति-विषयः प्रदर्श्यते इति / उक्तम् इदम् / अयुक्तं 04823 तु उक्तम् / तथा हि न सा प्रवृत्ति-योग्या इति निवेदितम् एतत् / 04824 तद्-द्वारेण अचोदिते प्रवृत्तिर् अपि प्रत्युक्ता / तद्वच्-चोदने च 04825 व्यवधानं / जाति-तद्वतोः प्रवृत्ति-विषयत्वे व्यावृत्ति-तद्वन्तौ 04826 किं न इष्येते / व्यावृत्तेर् अवस्तुत्वेन असाधनत्वाच् चेत् / तत् 04827 तुल्यं जातेः / तद्वतः साधनाद् अदोष इति चेत् / तुल्यं तद् व्यावृत्तिमतः / 04828 अवस्तु-ग्राही च व्यावृत्ति-वादिनां शाब्दः प्रत्ययः / 04901 स विभ्रम-वशाद् अकारके अपि कारक-अध्यवसायी प्रवर्तयति / 04902 वस्तु-संवादस् तु वस्तु-उत्पत्त्या तत्-प्रतिबन्धे सति भवति / 04903 अन्यथा न एव अस्ति / वस्तु-उत्पत्तेर् अभ्रान्तिर् इति चेत् / न / अतत्-प्रतिभासिनस् 04904 तद्-अध्यवसायात् / मणि-प्रभायां मणि-भ्रान्ति-दर्शनेन 04905 व्यभिचाराच् च / भ्रान्तेर् अवस्तु-संवाद इति चेत् / न / 04906 यथोक्तेन एव व्यभिचारात् / वितथ-प्रतिभासो हि भ्रान्ति- लक्षणम् / 04907 तन्-नान्तरीयकतया तु संवादो न प्रतिभास-अपेक्षी / वस्तुनि 04908 तु यथाभावम् अर्पित-चेतसः प्रवृत्तौ ग्राह्यस्य सामान्यस्य 04909 अनर्थक्रिया-योग्यत्वाद् अप्रवृत्तिः / अन्यत्र च प्रवृत्ताव् 04910 अतिप्रसङ्गः / तद्वद्-ग्रहणे च सामान्य-वैयर्थ्य-आदयः प्रोक्ताः / 04911 जाति-ग्रहणे अपि सम्बन्धाच् श्लिष्ट-आभासा बुद्धिः प्रवर्तयति 04912 इति चेत् / तदा न जातिर् न तद्वान् एकस्य अपि स्वभाव-स्थितेर् 04913 अग्रहणाद् इति पर-वाद एव आश्रितः स्यात् / एवं तर्ह्य् अन्वयिनः 04914 कस्यचिद् अर्थस्य अभावात् प्रकृति-भिन्नेष्व् अर्थेषु तद् एव इदम् इति 04915 प्रत्यभिज्ञानं न स्यात् / न एष दोषः / यस्मात् / 04916 ज्ञान-आद्य्-अर्थक्रियां तां तां दृष्ट्वा भेदे अपि कुर्वतः / 04917 अर्थांस् तd-anya-viश्लेष-विषयैर् ध्वनिभिः सह //98//
04918 संयोज्य प्रत्यभिज्ञानं कुर्याद् अप्य् अन्य-दर्शने / 04919 उक्तम् एतत् भेदे अपि भावास् तुल्य-अर्थक्रियाकारिणश् चक्षुर्-आदि-वद् 04920 इति / ताम् एकाम् ज्ञान-आदिकाम् अर्थक्रियां तेषु पश्यतो वस्तु-धर्मतया 04921 एव अन्येभ्यो भिद्यमाना भावास् तद्-व्यावृत्ति-विषय-ध्वनि- 04922 संसृष्टं तद् एव इदम् इति स्व-अनुभव-वासना-प्रबोधेन संसृष्ट- 04923 भेदं मिथ्या-प्रत्ययं जनयन्ति / अन्यथा न भेद- 04924 संसर्गवती बुद्धिः स्यात् / यथा दण्डिषु / न हि तत्र एक-दण्ड- 04925 योगे अप्य् अन्यत्र स एव अयम् इति भवति / किं तर्हि / तद् इह इति / 04926 न च एवं प्रत्यभिज्ञानम् / किं तर्हि / तद् एव इदम् इति / तन् न 04927 तद् एकं अनेकत्र पश्यतो अपि भेद-संसर्ग-वद् युक्तम् / विभ्रम- 05001 बलात् तु तथा ज्ञाने न विरोधः / निमित्त-अभावाद् विभ्रमो 05002 अयुक्त इति चेत् / त एव भावस् तd-eka-artha-kआरिणो अनुभव- द्वारेण 05003 प्रकृत्या विभ्रम-फलाया विकल्प-वासनाया हेतुत्वान् निमित्तम् / 05004 मरीचिक-आदिष्व् अपि हि जल-आदि-भ्रान्तेस् ताव् एक-अभिन्न -आकार-परामर्श- 05005 प्रत्यय-निमित्त-अनुभव-जननौ भावौ कारणं भिन्नाव् 05006 अपि / न हि तत्र अन्यद् एव किंचित् सामान्यम् अस्ति यत् तथा 05007 प्रतीयेत / सत्त्वे वा सd-artha-grआहिणी बुद्धिर् भ्रान्तिर् न स्यात् / 05008 अभूत-आकार-समारोपाद् भ्रान्तिर् इति चेत् / न तर्हि सा तत्-सामान्य- 05009 ग्राहिणी / यम् एव खल्व् आकारम् इयम् आरोपयति स एव अस्या 05010 विषय इति / अविषयीकृतस्य अशक्य-समारोपात् / आकार-अन्तर-वत् / स 05011 च तत्र न अस्ति इत्य् असामान्यं /
सति सामान्य-ग्रहणे तद्-आरोपो 05012 न अन्यथा अतिप्रसङ्गाद् इति चेत् / सत्य् एक-कार्य-कारि-ग्रहण इति 05013 किं न इष्यते / अवश्यं च इच्छता अपि सामान्यं व्यक्तीनाम् एक- 05014 कार्य-जनन-शक्तिर् एष्टव्या / ततस् त एव अन्येभ्यो भिद्यमानास् 05015 तादृशं प्रत्ययं जनयन्ति इति किम् अत्र सामान्येन / यथाभावम् 05016 एव असंसृष्ट-भेदं किं न प्रत्येति इति चेत् / अशक्तिर् एषा 05017 विकल्पानाम् अविद्या-प्रभवाद् / न वै बाह्य-अपेक्षा एव भ्रान्तयो 05018 भवन्ति / किं तु विप्लवाद् आन्तराद् अपि केश-आdi-vibhrama-vat / अविद्या- 05019 उद्भवाद् विप्लवत्वे चक्षुर्विज्ञान-आदिष्व् अपि प्रसङ्गः / न / 05020 तस्या विकल्प-लक्षणत्वात् / विकल्प एव ह्य् अविद्या / सा स्वभावेन 05101 एव विपर्यस्यति / न एवम् इन्द्रिय-ज्ञानानि विकल्पकानि / न 05102 वा तेष्व् अप्य् एष दोषो अद्वयानां द्वय-निर्भासाद् इति वक्ष्यामः / 05103 सर्वेषां विप्लवे अपि प्रमाण-तद्-आभास-व्यवस्था आ आश्रयपरावृत्तेर् 05104 अर्थक्रिया-योग्य-अभिमत-संवादनात् / मिथ्यात्वे अपि 05105 प्रशम-अनुकूलत्वान् मातृ-संज्ञा-आदि-वत् / मरीचिकायां जल-ज्ञानस्य अन्यस्य 05106 च भिन्न-भाव-उत्पत्तेर् विभ्रमस्य च अविशेषे अप्य् अभिमत- 05107 अर्थक्रिया-योग्य-अयोग्य-उत्पत्तेर् अर्थ-संवादा इतरौ / अयोग्यात् / 05108 कथम् उत्पत्तिर् इति चेत् / विकल्पानाम् अर्थ-प्रतिबन्ध-नियम-अभावात् / 05109 न हि विकल्पा यथार्थम् एव जायन्ते / सति मरीचिक-अदर्शने 05110 जल-भ्रान्तिर् इति तद्-उद्भवा इत्य् उच्यते न तु यथा-स्वभावम् 05111 अजल-विवेकिन-अर्थेन स्वभाव-अनुकार-प्रत्यर्पणेन जननात् /
05112 सा तु विशेष-लक्षण-अपाटवात् प्रत्यय-अपेक्षिणा स्व-वासना- 05113 प्रबोधेन जन्यते / तस्माद् भिन्न-भाव-जन्मनो / विकल्प-विभ्रमात् 05114 तद् एव इदम् इति प्रत्यभिज्ञानं न व्यतिरिक्तस्य सामान्यस्य 05115 दर्शनात् न अव्यतिरिक्तस्य व्यक्ति-वद् अनन्वयात् / अपि 05116 च / 05117 परस्य अपि न सा बुद्धिः सामान्याद् एव केवलात् //99//
05118 न हि परो अपि एनां बुद्धिं केवल-सामान्य-भाविनीं वक्तुम् 05119 अर्हति / 05120 नित्यं तन्-मात्र-विज्ञाने व्यक्त्य्-अज्ञान-प्रसङ्गतः / 05121 यदि हि नित्यम् अनया बुद्ध्या सामान्यम् एव गृह्येत अप्रतीता 05122 एव व्यक्तिः स्याद् अनेन ज्ञानेन / 05123 तदा कदाचित् सम्बद्धस्य अगृहीतस्य तद्वतः //100//
05124 तद्वत्ता अनिश्चयो न स्याद् व्यवहारस् ततः कथम् / 05125 यदा सामान्य-ग्राहिणो विज्ञानस्य न भेद आलम्बन-भावेन उपयुज्यते 05201 तदा न तौ कदाचिद् अपि श्लिष्टौ गृहीताव् इति इदम् अस्य 05202 सामान्यम् अयं वा तद्वान् इति न स्यात् / तथा च तत्-प्रतिपत्त्या 05203 तद्वति प्रतिपत्तिर् न स्याद् अर्थ-अन्तर-वत् / 05204 एक-वस्तु-सहायाश् चेद् व्यक्तयो ज्ञान-कारणम् //101//
05205 स्याद् एतद् भवन्ति व्यक्तयस् तस्य आलम्बन-भावेन कारणं न 05206 तु केवलाः / यदा पुनर् आसाम् एकं सहकार्य् अस्ति तदा तत्-सहिता 05207 गृह्यन्त इति / 05208 तद् एकं वस्तु किं तासां नानात्वं समपोहति / 05209 नानात्वाच् च एक-विज्ञान-हेतुता तासु न इष्यते //102//
05210 किं वै तेषां भेदानां तेन एकेन नानात्वं निराक्रियते / 05211 नानात्वं हि तेष्व् एक-विज्ञान-अकारणत्वे कारणम् उच्यते / 05212 अनेकम् अपि यद्य् एकम् अपेक्ष्य-अभिन्न-बुद्धि-कृत् / 05213 न ब्रूमो अनेकम् एकं प्रत्ययं न जनयति भेदाद् इति / 05214 न भेदो जनन-विरोधी / किं तर्हि / कैवल्यम् / तेन एकेन 05215 सहिता जनयन्त्य् एव / एवं तर्हि / 05216 ताभिर् विना अपि प्रत्येकं क्रियमाणां धियं प्रति //103//
05217 तेन एकेन अपि सामर्थ्यं तासां न इत्य् अग्रहो धिया / 05218 कथम् इदानीं व्यक्तीनां तत्र ज्ञाने सामर्थ्य-गतिः / प्रत्येकं 05219 तासाम् अभावे अपि तद्-भावात् / असति सामान्ये अभावाद् इतरथा 05220 च भावात् / न एष दोषः / यथा नील-आदिष्व् एक-अपाये अपि चक्षुर्विज्ञानं 05221 भवति इति / न समूहे अपि तेषाम् असामर्थ्यम् / 05222 तथा इह अपि प्रत्येकम् एक-अपाये अपि भवति इति न सर्वदा सामर्थ्यं / 05223 विषम उपन्यासः / तथा हि / 05301 नील-आदेर् नेत्र-विज्ञाने पृथक् सामर्थ्य-दर्शनात् //104//
05302 शक्ति-सिद्धिः समूहे अपि न एवं व्यक्तेः कथंचन / 05303 नील-आदीनां हि चक्षुर्विज्ञाने प्रत्येकम् अपि सामर्थ्यं दृष्टम् 05304 इति समूहे अपि शक्तिर् अविरुद्धा / तथा न कदाचिद् व्यक्तयः 05305 सामान्य-निरपेक्षा अन्वयि विज्ञानं जनयन्ति / तस्माद् असमर्था 05306 एव व्यक्तयस् तत्र इति न तेन गृह्येरन् / 05307 तासाम् अन्यतम-अपेक्षं तच् चेच् शक्तं न केवलम् //105//
05308 अथ अपि स्यात् न वेम-रहितः कुविन्दः पटं करोति प्रत्य् एकम् / 05309 वेम-अभावे अपि कुविन्दः करोति इति न तत एव पट-उत्पत्तिः / तथा 05310 न केवलम् एकैक-व्यक्त्य्-अपाये विज्ञान-उत्पत्ताव् अपि सामान्यं 05311 तद्-हेतुः / किं तर्हि / व्यक्तीनाम् एकां कांचिद् अपेक्ष्य विज्ञानम् 05312 उत्पादयति / एवं सति / 05313 तद् एकम् उपकुर्युस् ताः कथं एकां धियं च न / 05314 भिन्नानां ह्य् अर्थानाम् एक-अर्थ-उपक्रिया विरोधिनी इति सर्वो अयम् 05315 आरम्भः / ताश् चेद् व्यक्तयो भिन्ना अप्य् एकं सामान्यम् उपकुर्वन्ति 05316 कः पुनर् आसां विज्ञानेन अपराधः कृतो यत् तन् न उपकुर्वन्ति / 05317 किम् अन्तर्गडुना सामान्येन / यथा असम्भिन्नानाम् 05318 अप्य् एक-सामान्य-उपकरण-शक्तिः एवं तद् एव एकं विज्ञानं कुर्वन्तु / 05319 किं च / 05320 कार्यश् च तासां प्राप्तो असौ जननं यद् उपक्रिया //106//
05321 न ह्य् अनतिशयम् आत्मानम् अस्य पूर्ववद् बिभ्रतः कश्चिद् 05322 उपकारको नाम / अतिप्रसङ्गात् / अर्थ-अन्तर-जनने अपि तस्य 05323 किं तेन / तस्य तद्-आश्रयत्वे अनुपकारिणः को अयम् आश्रयाश्रयिभावः / 05324 अतिप्रसङ्गो वा / उपकारे अपि तत्र एव तत्-प्रतिबन्ध 05325 इति किम् अन्यस् तत्-करणात् तद्-उपकारी / तद्-अपेक्षस्य आश्रयस्य 05326 तद्-उपयोगे अनुपकार्यत्वे का इयम् अपेक्षा नाम / तदुत्पत्ति-धर्मा 05327 धर्मा भावः स्वभावप्रतिबन्धाद् अपेक्षते नाम अनाधेयातिशय- 05401 आत्मा परैर् अपेक्षते च इति व्याहतम् एतत् / तस्माद् यः 05402 कश्चित् कस्यचित् क्वचित् प्रतिबन्धः स सर्वो जन्यतायाम् एव अन्तर्भवति / 05403 परभाव-उत्पादने तद्-अनुपकारात् / अकिंचित्करस्य 05404 च अनुपकारात् / तस्माद् व्यक्त्य्-उपकृतस्य सामान्यस्य विज्ञान-जनने 05405 जनने व्यक्तम् अस्य तत्-कार्यता-अनुयुज्यते / केवलस्य सामर्थ्ये 05406 अपि व्यक्तीनां क्वचिद् अप्य् अत्र सामर्थ्य-असिद्धेः अग्राह्यत्वं / 05407 समर्था व्यक्तयो विज्ञाने प्रतिभासनाद् इति चेत् / 05408 कथम् असिद्ध-उपकाराणां प्रतिभास इति स एव सामान्य-अभ्युपगमे 05409 चिन्त्यते / यस्मान् न अनुपकारको विषयो अतिप्रसङ्गात् / 05410 न अविषयस्य विज्ञाने प्रतिभासः / अनुपकारकस्य अविषयत्वे 05411 अतीत-अनागत-आदीनाम् अविषयत्वम् असताम् उपकार-असामर्थ्याद् 05412 इति चेत् / भवन्तु नाम तद्-विषयाणि निर्विषयाणि / निर्विषयत्वे 05413 अपि तद्-अनुकारी प्रतिभासस् तद्-रूप-अनुभव-आहित-वासना-उत्पत्तेर् 05414 आत्मभूत एव विज्ञानस्य / भाव-अभाव-अनुविधानाच् च सामर्थ्यं 05415 न प्रतिभासनात् /
अप्रतिभासिनो अपि व्यक्ति-व्यतिरेकेण सामान्यस्य 05416 भावात् / प्रतिभासिनाम् अपि केश-आदि-विप्लवानाम् अभावात् / 05417 अभिन्न-प्रतिभासा धीर् न भिन्नेष्व् इति चेन् मतम् / 05418 न ब्रूमो अनेकम् एक-कार्य-कृन् न भवति इति / किं तर्हि / न 05419 भिन्नेष्व् अर्थेष्व् अर्पित-तद्-आकारा बुद्धिर् अभिन्न-प्रतिभासिनी 05420 स्यात् / न वै सामान्य-ग्राहिणीषु स्वलक्षण-प्रतिभासः तद्-अभावे 05421 अपि तासां भावात् आकार-अन्तरेण च स्व-ज्ञाने प्रतिभासनात् 05501 अनेक-आकार-अयोगाद् एकस्य अतिप्रसङ्गाच् च / तस्मान् न इयं भिन्न-अर्थ- 05502 ग्राहिण्य् अभिन्ना प्रतिभाति तद्-उद्भवा / अतत्-प्रतिभासिन्य् 05503 अप्य् अध्यवसाय-विभ्रमाद् व्यवहारयति लोकम् / स तु 05504 तस्यां प्रतिभासमान आकारो न अर्थेष्व् अस्ति / अन्यत्र भेदाद् अभेदिनः / 05505 स च अरूपः / तम् एव एषा गृह्णती तथा विप्लवत इत्य् 05506 उक्तं प्राक् / अपि च / वस्तु-सामान्य-वादिनो अपि हि भिन्ना एव व्यक्तयः / 05507 कथं तास्व् अभिन्न-आकारा बुद्धिर् इति तुल्यं चोद्यम् / 05508 न तुल्यं तत्र अभिन्नस्य सामान्यस्य सद्भावात् / ननु तत्र 05509 तस्य आभासः सतो अपि न लक्ष्यते / सा हि वर्ण-संस्थान-प्रतिभासवती 05510 विभाव्यते / न च ईदृशं सामान्यम् / न च ततो व्यतिरिक्तः 05511 कश्चिद् अभिन्न आकारो अस्ति / आकृति-सामान्य-वादिनो अपि विशेष-वत् 05512 तस्य अव्यतिरेकाद् अर्थ-अन्तरे अवृत्तिर् इति भेदान् न अभिन्न-प्रतिभासो 05513 युज्यते / अथवा अस्तु 05514 प्रतिभासो धियं भिन्नः समाना इति तद्-ग्रहात् //107//
05515 न एव तास्व् अभिन्नः प्रतिभासो अस्ति समाना इति ग्रहात् / न ह्य् 05516 एकस्मिन् प्रतिभासे समाना इति युक्तं / किं तर्हि / तद् एव इति / 05517 द्वयस्य ग्रहणाद् अदोष इति चेत् / तथा अपि तद् इह इति स्यात् / न समान 05518 इति / तद् एव तासां साम्यम् इति चेत् / कथम् अन्योन्यस्य 05519 साम्यम् / तत्-सम्बन्धाद् इति चेत् / न / प्रतिबद्धस्य सम्बन्ध- 05520 अयोगात् / अतिप्रसङ्गाच् च / 05521 कथं ता भिन्न-धी-ग्राह्याः समाश् चेद् / 05601 ननु समाना इति ग्रहणाद् एव आस्व् अभिन्न-प्रतिभासः / न वै 05602 तद्-दर्शने भिन्न-अभिन्नयोः प्रतिभासनात् समाना इति प्रतीतिः / 05603 किं तर्हि / 05604 एक-कार्यता / 05605 सादृश्यं / 05606 न हि वयम् अर्थ-ज्ञाने द्वाव् आकारौ पश्यामः / अपश्यन्तश् च 05607 कथम् अर्थ-द्वय-कल्पनेन आत्मानम् एव विप्रलभामहे / एक- 05608 कार्यास् तु व्यक्तयः कल्पना-विषयताम् उपयान्त्यस् तथा अनया 05609 विभ्रमान् मिश्रीक्रियन्त इत्य् अनवद्यम् एतत् / 05610 ननु धीः कार्यं तासां सा च विभिद्यते //108//
05611 प्रतिभावं / तद्वत् तत्-प्रतिभासिनो विज्ञानस्य अपि भेदात् / कथम् 05612 एक-कार्याः / तद् हि तासां कार्यं तच् च भिद्यते / यद् 05613 अप्य् उदक-आहरण-आदिकम् एकं घट-आदि-कार्यं तद् अपि प्रतिद्रव्यं 05614 भेदाद् भिद्यत एव इति न एकं भेदानां कार्यम् अस्ति / 05615 न एष दोषः / यस्मात् / 05616 एक-प्रत्यवमर्शस्य हेतुत्वाद् धीर् अभेदिनी / 05617 एक-धी-हेतु-भावेन व्यक्तीनाम् अप्य् अभिन्नता //109//
05618 निवेदितम् एतद् यथा न भावानां स्वभाव-संसर्गो अस्ति इति / 05619 तत्र संसृष्ट-आकारा बुद्धिर् भ्रान्तिर् एव / तां तु भेदिनः 05620 पदार्थाः क्रमेण विकल्प-हेतवो भवन्तो जनयन्ति स्वभावत 05621 इति च / स त्व् एषाम् अभिन्नो भेद इत्य् उच्यते ज्ञान-आदेः 05701 कस्यचिद् एकस्य करणात् अतत्-कारि-स्वभाव-विवेकः / तद् अपि 05702 प्रतिद्रव्यं भिद्यमानम् अपि प्रकृत्या एक-प्रत्यवमर्शस्य अभेद- 05703 अवस्कन्दिनो हेतुर् भवद् अभिन्नं ख्याति / तथाभूत-प्रत्यवमर्श-हेतोर् 05704 अभेद-अवभासिनो ज्ञान-आदेर् अर्थस्य हेतुत्वाद् 05705 व्यक्तयो अपि संसृष्ट-आकारं स्वभाव-भेद-परमार्थं स्वभावत 05706 एकं प्रत्ययं जनयन्ति इत्य् असकृद् उक्तम् एतत् / तस्माद् 05707 एक-कार्यता एव भावानाम् अभेदः / 05708 सा च अतत्-कार्य-विश्लेषस् / 05709 एव 05710 तद्-अन्यस्य अनुवर्तिनः / 05711 वस्तुनः 05712 अदृष्टेः प्रतिषेधाच् च / 05713 न हि दृश्यं विभागेन अप्रतिभासमानम् अस्ति इत्य् उक्तम् एतत् 05714 सति वा क्वचिद् अनाश्रितं कथं ज्ञान-हेतुर् इति / प्रतिषेधस्य 05715 च विधानात् तत्-कल्पना अयुक्ता इति / तस्मात् 05716 संकेतस् / 05717 अपि 05718 तd-vid-arthikaः //110//
05719 एव युक्तः / यो अयम् अन्योन्यं विवेको भावानां तत्-प्रतीतय 05720 एव संकेतो अपि क्रियमाणः शोभेत अतत्-कारि-विवेकेन प्रवृत्त्य्-अर्थतया / 05721 यदि हि न तत्-प्रतीत्य्-अर्थः संकेतस् तस्य व्यवहार- 05722 काले अप्य् असंस्पर्शान् न अन्य-परिहारेण प्रवर्तेत / न हि स 05723 तेषां तेभ्यो विवेकः शब्देन चोदित इति / सा च श्रुतिः / 05801 अकार्य-कृत्i-tat-kआर्i-tulya-rऊप-अवभासिनीम् / 05802 धियं वस्तु-पृथग्भाव-मात्र-बीजाम् अनर्थिकाम् //111//
05803 जनयन्त्य् अप्य् अतत्-कारि-परिहार-अङ्ग-भावतः / 05804 वस्तु-भेद-आश्रयाच् च अर्थे न विसंवादिका मता //112//
05805 ततो अन्यापोह-विषया तत्-कर्तृ-आश्रित-भावतः / 05806 एक-स्वभाव-रहितेष्व् अर्थेषु तम् अध्यारोप्य-उत्पद्यमानां मिथ्या- 05807 प्रतिभासित्वाद् अकार्य-कारिणम् अपि तत्-कार्य-कारिणम् इव अध्यवस्यन्तीं 05808 वस्तु-पृथग्भाव-मात्र-बीजां समान-अध्यवसायां 05809 मिथ्या-बुद्धिं श्रुतिर् जनयन्त्य् अपि तd-anya-parihआर-अङ्ग-अभावात् 05810 परमार्थतस् तद्-व्यतिरेकिषु पदार्थेषु न विसंवादिका इत्य् उच्यते / 05811 तथा हि स तेषु व्यतिरेको भूतः / सर्वथा अव्यतिक्रमणीयत्वात् / 05812 न एको व्यतिरिक्तो अव्यतिरिक्तो वा सर्वथा अयोगात् / तस्य 05813 समावेशने वस्तुनि दूर-उत्सृष्टम् एव वस्तु स्याच् शब्द-ज्ञानाभ्याम् / 05814 तद्-विषय-अभिमतस्य तस्य अभावात् / अन्यस्य च वस्तु- 05815 धर्मस्य कस्यचिद् असंस्पर्शात् / तत एव च सा श्रुतिर् अन्यापोह- 05816 विषयया इत्य् उच्यते / अन्यव्यावृत्तेष्व् अर्थेषु व्यावृत्ति-भेदम् 05817 उपादाय अविशेषेण निवेशनात् / व्यवहारे अप्य् अन्य-परिहारेण 05818 प्रवर्तनात् / 05819 अवृक्ष-व्यतिरेकेण वृक्ष-अर्थ-ग्रहणे द्वयम् //113//
05820 अन्योन्य-आश्रयम् इत्य् एक-ग्रह-अभावे द्वय-अग्रहः / 05821 संकेत-असम्भवस् तस्माद् इति केचित् प्रचक्षते //114//
05822 यद्य् अवृक्षेभ्यो भेदो वृक्षस् तस्य अवृक्ष-ग्रहणम् अन्तरेण 05823 तथा ग्रहीतुम् अशक्यत्वात् अविज्ञात-वृक्षेण अवृक्षस्य अपि तद्-व्यवच्छेद- 05824 रूपस्य अपरिज्ञानात् बुद्धाव् अनारूढे अर्थे न संकेतः 05825 शक्यत इत्य् एके / 05901 तेषाम् अवृक्षाः संकेते व्यवच्छिन्ना न वा / 05902 य एवम् एकं वस्तु-सामान्यम् अभ्युपगम्य इतरेतर-आश्रयम् 05903 अन्य-व्यवच्छेदेन संकेते चोदयन्ति / तेषां तत्र अपि संकेत- 05904 करणे अवृक्षा व्यवच्छिन्ना न वा 05905 यदि / 05906 व्यवच्छिन्नाः कथं ज्ञाताः प्राग् वृक्ष-ग्रहणाद् ऋते //115//
05907 न हि तदा प्रतिपत्ता वृक्षं वेत्ति न अवृक्षं तज्-ज्ञानाय एव 05908 तद्-अर्थितया उपगमात् / सो अजानानः कथम् अवृक्ष-व्यवच्छेदं 05909 प्रतिपद्येत संकेते / अप्रतिपत्तौ च अपरिहृत-तद्-अन्य- 05910 निवेशिनः शब्दाद् 05911 अनिराकरणे तेषां संकेते व्यवहारिणाम् / 05912 न स्यात् तत्-परिहारेण प्रवृत्तिर् वृक्ष-भेद-वत् //116//
05913 न हि संकेते पर-अव्यवच्छेदेन निवेशिताच् शब्दाद् व्यवहारे 05914 तत्-परिहारेण प्रवृत्तिर् युक्ता / शिंशपा-आdi-bheda-vat / अथ अपि स्यात् / 05915 अविधाय निषिध्य-अन्यत् प्रदर्श्य एकं पुरः स्थितम् / 05916 वृक्षो अयम् इति संकेतः क्रियते तत् प्रपद्यते //117//
05917 व्यवहारे अपि तेन अयम् अदोष इति चेत् / 05918 न वै वस्तु-सत् सामान्य-वादिना कस्यचिद् व्यवच्छेदेन किंचिद् 05919 विधीयते / किं तर्हि / एकम् अग्रतो व्यवस्थितं वस्तु सन्दर्श्य 05920 वृक्षो अयम् इति संकेतः क्रियते / संकेत-काले तथा-दृष्टम् 05921 एव अयम् अर्थं तत्-सम्बन्धिनं वा व्यवहारे अपि प्रतिपद्यत 06001 इति न समानः प्रसङ्गः / न समानः / यस्मात् तत्र अपि / 06002 तरुः / 06003 अयम् अप्य् अयम् एव इति प्रसङ्गो न निवर्तते //118//
06004 एकं प्रदर्श्य अयं वृक्ष इत्य् अपि ब्रुवाणो अयम् अप्य् अयम् एव इत्य् 06005 उभयीं गतिं न अतिवर्तते / तयोश् च स एव दोषः / न दोषः 06006 दृष्ट-विपरीतस्य सुज्ञानत्वात् / एकं हि किंचित् पश्यतो अन्यत्र 06007 तद्-आकार-विवेकिनीं बुद्धिम् अनुभवतस् ततो अन्यद् इति यथा-अनुभवं 06008 तद्-विवेचनो वैधर्म्य-निश्चय उत्पद्यते / स ह्य् 06009 अयम् एव वृक्ष इति प्रदर्श्य व्युत्पादितः / यत्र एव तं न 06010 पश्यति तम् एव अवृक्षं स्वयम् एव प्रतिपद्यते / न इदं व्यवच्छेद- 06011 वादिनः सम्भवति / एकत्र दृष्टस्य रूपस्य क्वचिद् 06012 अनन्वयाद् दर्शनेन प्रतिपत्तौ व्यक्त्य्-अन्तरे अपि न स्यात् तथा 06013 प्रतीतिः / एवं तर्हि तत्र अपि तुल्यम् एतत् / यस्मात् / 06014 एक-प्रत्यवमर्श-आख्ये ज्ञान एकत्र हि स्थितः / 06015 प्रपत्ता तd-atad-hetऊन् अर्थान् विभजते स्वयम् //119//
06016 निवेदितम् एतत् प्राग् यथा एते भावाः प्रकृति-भेदिनो अपि ज्ञान-आदिकम् 06017 एकं कार्यं केचित् कुर्वन्ति न अन्य इति / तान् अयं तत्र स्वयम् 06018 एव तद्-हेतून् अतद्-हेतूंश् च विभज्य प्रत्येति / तस्य / 06019 तd-buddhi-vartino भावान् भातो हेतुतया धियः / 06020 अहेतु-रूप-विकलान् एक-रूपान् इव स्वयम् //120//
06021 भेदेन प्रतिपद्येत इत्य् उक्तिर् भेदे नियुज्यते / 06022 तं तस्याः प्रतियती धीर् भ्रान्त्या एकं वस्त्व् इव ईक्ष्यते //121//
06023 तेषां प्रकृत्या एव प्रत्यय-वशात् तथाभूत-विकल्प-कारणानाम् 06024 अन्वयात् तद्-द्रष्टुर् बुद्धौ विपरिवर्तमानान् तज्-ज्ञान- 06025 हेतुतया तद्-अन्यव्यावृत्त्या च अतथाभूतान् अपि तथा-अध्यवसितान् 06026 अविभक्त-बाह्य-अध्यात्मिक-भेदान् प्रतिपत्ता प्रतिपत्तिम् अनुसृत्य 06027 एते वृक्षा इति स्व-पर-विकल्पेष्व् एक-प्रतिभासान् आदर्श्य विकल्प- 06028 विज्ञाने व्यवस्थितस् तद्-विज्ञान-हेतून् भेदेन प्रतिपद्येत 06101 इत्य् उक्तिम् अतद्-हेतुभ्यो भेदे नियुङ्क्ते / तं तस्याः प्रतिपद्यमाना 06102 बुद्धिर् विकल्पिका भ्रान्ति-वशाद् एव एक-वस्तु-ग्रहिणी इव 06103 प्रतिभाति / न पुनर् एकं वस्तु तत्र दृश्यम् अस्ति यस्य दर्शन- 06104 अदर्शनाभ्यां भिन्न-दर्शने अप्य् एष वृक्ष-अवृक्ष-विभागं 06105 कुर्वीत / तस्य शाखा-आदि-प्रतिभास-विभागेन दण्ड-वद् दण्डिन्य् 06106 अग्रहणात् / अगृहीतस्य च अपर-प्रविभागेन अनुपलक्षणात् / आकृतेर् 06107 अप्य् एकत्र दृष्टाया अन्यत्र द्रष्टुम् अशक्यत्वात् / तद्-अतद्वतोर् 06108 वृक्ष-अवृक्षत्वे व्यक्तिर् एक एव वृक्षः स्यात् / भवतु नाम घट-आदि- 06109 शब्देष्व् अर्थ-अन्तर-व्यवच्छेदः / अथ ज्ञेय-आदि-पदेषु कथम् / 06110 न ह्य् अज्ञेयं किंचिद् अस्ति यतो भेदः स्यात् / ततो भेदेन 06111 विषयीकरण एव तस्य ज्ञेयत्वात् / न एष दोषः / यस्मात् / 06112 क्वचिन् निवेशनाय अर्थे विनिवर्त्य कुतश्चन / 06113 बुद्धेः प्रयुज्यते शब्दस् तद्-अर्थस्य अवधारणात् //122//
06114 व्यर्थो अन्यथा प्रयोगः स्यात् तज् ज्ञेय-आदि-पदेष्व् अपि / 06115 व्यवहार-उपनीतेषु व्यवच्छेद्यो अस्ति कश्चन //123//
06116 शब्दं हि प्रयुञ्जानः सर्वो अन्वय-व्यतिरेकौ न अतिवर्तते / 06117 तस्य प्रवृत्ति-निवृत्त्य्-अर्थत्वात् / यदि ह्य् अयं न कस्यचित् कुतश्चिन् 06118 निवर्तयेत् प्रवर्तयेद् वा बुद्धिं यथाभूत-अनुज्ञानात् 06119 सर्व-व्यवहारेषु न किंचिद् व्याहरेत् / व्याहारस्य अवधारण- 06120 नान्तरीयकत्वात् / यथा घटेन उदकम् आनयेति / यदि घटेन अञ्जलिना 06121 वा उदक-आनयनं यथाकथंचिद् अभिमतं स्यात् उदकम् 06122 आनयेत्य् एव वक्तव्यं स्यात् / न घटेन इति / तथा पंशुना 06123 वा अनेन वा येन केनचिद् आनीतेन अर्थ आनयेत्य् एव स्याद् अनाक्षिप्त- 06124 करण-कर्मकम् / एवम् आनयनम् अन्यद् वा यत् किंचिद् 06125 अनुष्ठानं वा अभिमतं तदा आनयेत्य् अपि न 06126 ब्रूयात् / व्यर्थत्वाद् वचनस्य / तथा व्यवहार-उपनीतानां ज्ञेय-आदि- 06201 पदानाम् अपि केनचिद् व्यवच्छेद्येन भवितव्यम् / अनन्य-आशङ्कायां 06202 प्रयोग-अयोगात् तत्र हि यद् एव मूढ-मतेर् आशङ्का-स्थानं 06203 तद् एव निवर्त्यम् / अनाशङ्कमानो वा किं परस्माद् 06204 उपदेशम् अपेक्षते / अश्रोतृ-संस्कारं च ब्रुवाणः कथं 06205 न उन्मत्तः / तत्-संस्काराय एव शब्दानां कृत-संकेतत्वात् / अव्यवहार- 06206 उपनीतश् च न एव कश्चित् ज्ञेय-आदि-शब्दो अस्ति / वाक्य-गतस्य 06207 पदस्य अर्थ-चिन्तनात् / क्व पुनर् एते शब्दाः प्रयुज्यन्त इति 06208 प्रयोग-विषय-चिन्तायाम् अन्यापोह उच्यते / अनिर्दिष्ट-प्रयोगं तु 06209 ज्ञेय-शब्दस्य को अर्थ इति प्रश्ने न कश्चिद् अर्थः / ततः क्वचिद् 06210 अप्रतिपत्तेः / तथा घट-आदि-शब्दानाम् अपि / या अपि क्वचित् प्रकरणे 06211 केवल-शब्द-श्रवणात् प्रतिपत्तिर् दृष्ट-प्रयोग-अनुसारेण साकाङ्क्षत्वात् 06212 सा अपरिसमाप्त-तद्-विप्लव एव घट-आदि-शब्देषु / 06213 तादृशो ज्ञेय-आदि-शब्देष्व् अपि यथा-दर्शनम् अस्त्य् एव / तस्मात् 06214 सर्व एव शब्द-प्रयोगः कुतश्चिद् बुद्धिं निवर्त्य क्वचिन् निवेशन- 06215 अर्थः / तत्-साफल्यात् / 06216 निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् / 06217 तद्-भेदे भिद्यमानानां समान-आकार-भासिनि //124//
06218 स च अयम् अन्यव्यावृत्त्या गम्यते तस्य वस्तुनः / 06219 कश्चिद् भाग इति प्रोक्तो रूपं न अस्य अपि किंचन //125//
06220 तद्-गताव् एव शब्देभ्यो गम्यते अन्य-निवर्तनम् / 06221 न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः //126//
06222 न च अपि शब्दो द्वय-कृद् अन्योन्य-अभाव इत्य् असन् / 06223 अरूपो रूपवत्त्वेन दर्शनं बुद्धि-विप्लवः //127//
06224 निवेश्यमानो अप्य् एष शब्दो यस्माद् भिद्यते तं विनिवर्त्य 06225 भिद्यमानानां भेदे समान-रूप-प्रतिभासिन्य् आक्षिप्त-तद्-अन्यव्यावृत्तिर् 06226 निवेश्यत इति / स एव अयम् अर्थ-अन्तर-व्यावृत्त्या 06227 तस्य वस्तुनः कश्चिद् भागो गम्यते शब्दो अर्थ-अन्तर-निवृत्ति- 06301 विशिष्टान् एव भावान् आह इत्य् आदिना निर्दिष्टः / स हि तं भेदं 06302 कथयन्न् अर्थ-अन्तर-व्यवच्छेदम् आक्षिपन् एव वर्तते / 06303 एक-गत-भेद-चोदनायास् तद्-अन्यव्यावृत्त्य्-आक्षेप-नान्तरीयकत्वात् / 06304 स एव भेदस् तद्-व्यावृत्त्या गतो भागस् तद्-गतेस् तद्-उपाधित्वात् 06305 तद्-विशिष्टो गत इत्य् उच्यते / न पुनर् अर्थ-अन्तर-निवृत्तिर् विशेषण- 06306 भूता केषांचिद् अर्थानां यया विशिष्टाः शब्दैश् चोद्यन्ते / दण्डि-वत् / 06307 द्वयोर् हि भिद्यमानयोर् भेदस्य उभय-गतत्वाद् 06308 एक-भेद-अभिधाने अपि नान्तरीयकस् तद्-अन्य-आक्षेपो भवति इति तयोर् 06309 न विशेषणविशेष्यभावः / एक-भेद-अभिधाने अप्य् अन्यव्यावृत्ति- 06310 गतेर् अन्वय-व्यतिरेक-चोदनया व्यवहार-अङ्गतां शब्दानां 06311 दर्शयंस् तद्-व्यावृत्त्या गम्यते तद्-विशिष्टो वा इत्य् आह / अत 06312 एव च शब्दस्य न द्वौ व्यापारौ तद्-अन्यव्यावर्तनं स्वार्थ- 06313 अभिधानं च / स्वार्थ-अभिधानाद् एव तद्-अन्यव्यावृत्ति-गतेः / 06314 स्वार्थस्य भेद-रूपत्वात् / न ह्य् अन्वयो अव्यतिरेको अनन्वयो 06315 वा व्यतिरेकः / एक-अन्वयस्य परिहार्य-अभावे निष्फल-चोदनत्वात् 06316 तथा एक-परिहारस्य क्वचित् स्थित्य्-अभावे / स च अयं भेदो अरूपः / 06317 रूपवत्त्वेन त्व् अस्य दर्शनं केवलं बुद्धि-विप्लव 06318 एव / 06401 तेन एव अपरमार्थो असाव् अन्यथा न हि वस्तुनः / 06402 व्यावृत्तिर् वस्तु भवति भेदो अस्य अस्माद् इति ईरणात् //128//
06403 रूपं हि परमार्थः / भेदश् चेद् रूपं स्यात् / तद्-रूपं वा 06404 स्याद् अतद्-रूपं वा / ताद्रूप्ये तद् एव इति न अन्यस् ततो भिद्येत / 06405 न हि तस्य रूपम् अन्यस्य स्यात् / न तद् एव भेदस्य रूपं / 06406 रूपं च अन्यद् एव स्यात् / ततश् च भावस् तस्माद् व्यावर्तेत / 06407 ततो अस्मात् तस्य भेद इति न स्यात् / यत् खलु यद्-भेदाद् व्यावर्तते 06408 तद् एव तद् भवति इति सो अस्य भेद इति च न स्यात् / न 06409 ह्य् अन्योन्यस्य भेदो भवति / सम्बन्ध-अभावात् / सति वा स 06410 कार्यकारणभाव इति रूपं तज्-जनितं भेद इत्य् अविशेषात् / 06411 सर्व-कार्याणि स्व-कारणानां व्यावृत्तयः स्युः / रूप-अन्तरत्वे 06412 च भेदस्य ततो अप्य् अस्य भेद इति भेद-उपाधित्वात् द्रव्य-अन्तर-वन् 06413 न भेदः स्यात् / न हि भेद-उपाधिर् एव भेदो अयम् अत 06414 इति विशेष-निर्देशात् / ततश् च उपाध्य्-अभावे भेदस्य एव अभावः स्यात् / 06415 तस्मान् न व्यतिरिक्तः / तd-anya-gaty-abhआवाच् च वस्तुनो न परमार्थः / 06416 कथं तर्ह्य् अभिन्नस्य वस्तुनः शब्देन चोदने 06417 तस्य एव अन्यतो अपि भेदाद् अनंशय-एक-भेद-चोदने सर्व-भेद- 06418 गतेस् तत्र शब्द-प्रमाण-अन्तराणि व्यर्थानि न स्युः / यस्मात् / 06419 एक-अर्थ-श्लेष-विच्छेद एको व्याप्रियते ध्वनिः / 06420 लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किंचन //129//
06421 यस्य अभिधानतो वस्तु-सामर्थ्याद् अखिले गतिः / 06422 भवेन् नाना-फलः शब्द एक-आधारो भवत्य् अतः //130//
06423 उक्तं प्राग् यथा संसृष्ट-बाह्य-अध्यात्मिक-भेदा बुद्धिः स्वम् 06424 एव आभासं व्यवहार-विषयम् अर्थक्रिया-योग्यम् अध्यवसाय 06425 शब्द-अर्थम् उपनयति इति / तत्र एव च ते शब्दास् तैस् तैर् भ्रान्ति- 06426 कारणैः संसृष्ट-रूप इव आभाति यथा-संकेतं विच्छेदाय व्याप्रियन्ते/ 06427 न च एक-साध्यं व्यवच्छेदम् अन्यः करोति / संकेत- 06501 प्रतिनियमात् न च विच्छिन्नं किंचिद् वस्त्व् आक्षिप्यते 06502 यस्य अभिधानाद् वस्तु-बलेन अखिले गतिः स्यात् / शब्दानां बुद्धि- 06503 विप्लव-विषयत्वात् / तत्र च अवस्तुनि वस्तु-सामर्थ्य-अभावात् / तथाभूत- 06504 अर्थ-दर्शन-द्वारेण अयं नाना-एक-धर्म-भेद-अभेद-प्रतिभास- 06505 विप्लव-अनुसारी व्यवहार इति तस्य तत्-प्रतिबन्धे सति 06506 तद्-अव्यभिचारः / ततो वितथाद् अप्य् अन्ते तथाभूत एव वस्तुनि 06507 ज्ञान-संवादात् / न पुनर् भिन्न-आकार-ग्राहिणां ज्ञान-शब्दानां 06508 एक-वस्तु-विषयत्वात् नाना-फलः शब्द एक-आधारो व्याघातात् / यथा वर्णिते 06509 तु बुद्धि-प्रतिभास-आश्रये न दोष इति / 06510 विच्छेदं सूचयन् एकम् अप्रतिक्षिप्य वर्तते / 06511 यदा अन्यं तेन स व्याप्त एकत्वेन च भासते //131//
06512 सामानाधिकरण्यं स्यात् तदा बुद्ध्य्-अनुरोधतः / 06513 वस्तु-धर्मस्य संस्पर्शो विच्छेद-करणे ध्वनेः //132//
06514 स्यात् सत्यं स हि तत्र इति न एक-वस्त्व्-अभिधायिनि / 06515 बुद्धाव् अभासमानस्य दृश्यस्य अभाव-निश्चयात् //133//
06516 इत्य् अन्तरश्लोकाः / 06517 तेन अन्यापोह-विषयाः प्रोक्ताः सामान्य-गोचराः / 06518 शब्दाश् च बुद्धयश् च एव वस्तुन्य् एषाम् असम्भवात् //134//
06519 यदि हि विधि-रूपेण वस्त्व् एव शब्दैर् विकल्पैर् वा अपि विषयीक्रियेत 06520 सो अयं सर्व-अर्थ-सर्व-आकार-प्रतीति-प्रसङ्गो असामानाधिकरण्य- 06521 आदयश् च इति मन्यमानः प्रणेता न्याय-शास्त्रस्य अन्यापोह- 06522 विषयाव् एतौ प्राह / तथा हि / 06523 एकत्वाद् वस्तु-रूपस्य भिन्न-रूपा मतिः कुतः / 06524 अन्वय-व्यतिरेकौ वा न एकस्य एक-अर्थ-गोचरौ //135//
06525 तद् एकम् अनंशं वस्तु कथं भिन्न-आकाराभिर् बुद्धिभिर् 06526 विषयीक्रियते / आकार-भेद-आश्रयत्वाद् भेदस्य / तस्य च अभेदात् / 06527 तदात्मनो अपि सामान्यस्य तद्-एकयोगक्षेमत्वात् / तद् अयम् 06528 अन्योन्य-अर्थ-परिहारेण एक-विषययोर् वृत्त्य्-अभावात् सामानाधिकरण्य- 06601 आदिर् न च वस्त्व्-आत्मन एकस्य तत्र एव वृत्तिर् 06602 अवृत्तिश् च युक्ता व्याघातात् / न च अन्यत्र अवर्तमानं सामान्यं 06603 स्यात् / सामान्यस्य वृत्तिर् न विशेषस्य इति चेत् / न / भेद-अभावात् / तद् 06604 हि एक-रूपं सामान्यं वा भवेत् विशेषो वा / न ह्य् असति रूप-भेदे 06605 अयं प्रविभागो युक्तः सति वा अव्यतिरेको न स्याद् इत्य् उक्तम् / 06606 तद् अयम् अविभागो अन्वियाद् वा न वा / न पुनर् अनन्वयो अन्वयी 06607 च / यो अपि भिन्नम् एव सामान्यम् आह / तस्य अपि / 06608 अभेद-व्यवहाराश् च भेदे स्युर् अनिबन्धनाः / 06609 यथास्वं शब्दा भिन्नम् अर्थम् अभिदधानाः कथम् एक-अर्थ- 06610 बुद्ध्य्-आश्रयाः स्युः / अर्थ-अन्तर-अभिधायिनश् च अनाक्षेपकाः 06611 निराकाङ्क्षत्वात् कथं विशेषणविशेष्यभाव-आश्रयाः / 06612 सर्वत्र भावाद् व्यावृत्तेर् न एते दोषाः प्रसङ्गिनः //136//
06613 यथा ह्य् एकस् तस्माद् भिन्नस् तथा अन्यो अपि इति भेदस्य असामान्य- 06614 दोषो अपि न अस्ति / परिशिष्ट-अभावस् तु प्राग् एव उक्तः / अपि च / 06615 एक-कार्येषु भेदेषु तत्-कार्य-परिचोदने / 06616 गौरव-अशक्ति-वैफल्याद् भेद-आख्यायाः समा श्रुतिः //137//
06617 कृता वृद्धैर् अतत्-कार्य-व्यावृत्ति-विनिबन्धना / 06618 न भावे सर्व-भावानां स्वभावस्य व्यवस्थितेः //138//
06619 यद् रूपं शाबलेयस्य बाहुलेयस्य न अस्ति तत् / 06620 अतत्-कार्य-परावृत्तिर् द्वयोर् अपि च विद्यते //139//
06621 अर्थ-अभेदेन च विना शब्द-अभेदो न युज्यते / 06622 तस्मात् तत्-कार्यता अपि इष्टा अतत्-कार्याद् एव भिन्नता //140//
06623 चक्षुर्-आदौ यथा रूप-विज्ञान-एक-फले क्वचित्//
06624 अविशेषेण तत्-कार्य-चोदना-सम्भवे सति //141//
06625 सकृत् सर्व-प्रतीत्य्-अर्थं कश्चित् सांकेतिकीं श्रुतिम् / 06626 कुर्याद् ऋते अपि तद्-रूप-सामान्याद् व्यतिरेकिणः //142//
06701 यो अपि मन्यते कथम् अभिन्नम् अर्थम् अन्तरेण बहुष्व् एका 06702 श्रुतिः तेषाम् असाम्यात् एक-वृत्तेर् अन्यत्र प्रत्यय-अजननात् 06703 अप्रत्यासत्तिके च प्रत्यय-उत्पादे अतिप्रसङ्गात् तेषु च एक- 06704 शब्द-निवेशन-वैफल्याद् एक-अर्थ-नियोग-अभावात् भिन्न -स्वभावानां 06705 पृथङ् नियोगे च तथा-चोदितानां विभाग-अपरिज्ञानाद् 06706 इति / तस्य अप्य् एकम् अस्ति इत्य् एव लोकेन शब्दो निवेशनीयः तद् 06707 वा एकम् एनां श्रुतिं वस्तु-शक्त्या एव ध्वनयति इति / न अस्त्य् एतत् / 06708 किं तर्हि केनचित् प्रयोजनेन केचिच् शब्दाः क्वचिन् निवेश्यन्ते / 06709 तत्र यद्य् अनेकम् एकत्र उपयुज्येत तद् अवश्यं तत्र चोदनीयं / 06710 तस्य पृथक् पृथक् चोदने अतिगौरवं स्यात् / न च अस्य अनन्य- 06711 साधारणं रूपं शक्यं चोदयितुम् / न अप्य् अस्य आयास अस्य 06712 किंचित् साफल्यं / केवलम् अनेन तत्र योग्यास् ते अर्थाश् चोदनीयाः / 06713 त एकेन वा शब्देन चोद्येरन् बहुभिर् वा इति स्वातन्त्र्यम् 06714 अत्र वक्तुः / तद् इयम् एका श्रुतिर् बहुषु वक्तृ-अभिप्राय- 06715 वशात् प्रवर्तमाना न उपालम्भम् अर्हति / न च इयम् अशक्य- 06716 प्रवर्तना / इच्छा-अधीनत्वात् / यदि हि न प्रयोक्तुर् इच्छा कथम् 06717 इयम् एकत्र अपि प्रवर्तेत / इच्छायां वा क एनां बहुष्व् अपि 06718 प्रतिबन्धुं समर्थः / प्रयोजन-अभावाद् / एव अप्रवर्तनम् इति 06719 चेत् / उक्तं प्रयोजनम् / भिन्नेष्व् एकस्मात् प्रतीतिर् अतत्-प्रयोजन- 06720 भेदेन इत्य् उक्तम् / न पुनः स्वभावस्य एकत्वात् / यथास्वं 06721 व्यवस्थित-स्वभावानाम् अन्योन्य-रूप-अश्लेषात् कथम् एक-स्वभाव-निमित्तः 06722 शब्दो भिन्नेषु भवेद् इत्य् उक्तं प्राक् /
अतत्-प्रयोजन-व्यावृत्तिस् 06723 तु भिन्नानाम् अविरुद्धा इति स एव अर्थ-अभेदः शब्द-अभेदस्य 06724 कारणं भवतु / तेन इमे तत्-प्रयोजना इत्य् अतत्-प्रयोजनेभ्यो 06725 भिन्ना एव उक्ताः / न पुनर् एषाम् अन्या तत्-कार्यता अन्यत्र अन्यतो 06726 भेदात् / यथा चक्षू-रूप-आलोक-मनस्कारेस्व् आत्म-इन्द्रिय-मनो अर्थ- 06801 तत्-संनिकर्षेषु वा रूप-विज्ञान-एक-कार्येषु तत्- कार्य-सामान्य-चोदना- 06802 सम्भवे कुतो रूप-विज्ञानम् इति व्यवहार-लाघव-अर्थं कश्चित् 06803 सांकेतिकीं श्रुतिं निवेशयेत् यरो रूप-विज्ञान-हेतुः शसो 06804 वा इति / अपि नाम सर्वेषां तद्-हेतूनां सकृत् प्रतीतिर् यथा स्याद् 06805 इति / न च अत्र अनुगामि किंचिद् रूपम् अस्ति / केवलं तद्-अर्थतया 06806 ते भावा अतद्-अर्थेभ्यो भिन्ना इति भेद एव एषाम् अभेदः / एवंजातीयाश् 06807 च सर्वे समूह-सन्तान-अवस्था-विशेष-शब्दा ये समस्ताः 06808 किंचिद् एकं कार्यं कुर्वन्ति तेषां तत्र विशेष-अभावाद् अपार्थिका 06809 विशेष-चोदना इति सकृत् सर्वेषां नियोजन-अर्थम् एकम् अयं 06810 लोकः शब्दं तेषु नियुङ्क्ते घट इति / ते अपि सजातीयाद् अन्यतश् च 06811 भेद-अविशेषे अपि तत्-प्रयोजन-अङ्गतया तद्-अन्येभ्यो भिद्यन्त 06812 इत्य् अभेदात् ततो अविशेषेण प्रतीयन्ते / तत्र घटस्य रूप-आदयो 06813 इत्य् अपि घट-स्वभावा रूप-आदय उदक-धारण-विशेष-आदि-कार्य-समर्था 06814 इति यावत् / सामान्य-कार्य-साधन-प्रसिद्धेन आत्मना रूप- 06815 आदि-शब्दैः प्रसिद्धा विशिष्ट-कार्य-साधन-आख्येन विशेषेण विशिष्टास् 06816 त एवम् उच्यन्ते /
न पुनर् अत्र अन्यत् किंचिद् यथा-वर्णित-लक्षणं 06817 द्रव्यम् अस्ति तस्य तादृशस्य अनुपलम्भात् / एक-वचनम् 06818 अपि तद्-एक-शक्ति-सूचन-अर्थं संकेत-परतन्त्रं वा / तथा 06819 ये हेतु-फल-विशेष-भूताः किंचिद् एकं साधयन्ति साध्यन्ते 06820 वा ते अपि सकृत् प्रत्यय-अर्थं व्रीह्य्-आदि-शब्दैः कृत-संकेताः 06821 कथ्यन्त इति पूर्ववद् वाच्यम् / ये अपि पृथक् समस्ता वा क्वचिद् 06822 उपयुज्यन्ते त अवस्था-विशेष-वाचिभिः सकृद् एव शब्दैः प्रत्यय- 06823 अर्थं ख्याप्यन्ते सनिदर्शनाः सप्रतिघा वा इति तद्-अन्येभ्यो 06824 भेद-सामान्येन / यथा एक-कार्यास् तत्-कार्य-चोदनायां 06825 तd-anya-bhedena घट-आदि-शब्दैः कृत-समयाः / तथा कारण-अपेक्षया 06901 अप्य् अनेक एकेन व्यवहार-अर्थम् एव / यथा शाबलेयो 06902 बाहुलेयः प्रयत्नानन्तरीयकः शब्दः कृतको वा इति / तथा 06903 तत्-कार्य-प्रतिषेधेन अप्य् अचाक्षुषः शब्दो अनित्यो अनात्म इति / 06904 तत्-कारण-प्रतिषेधेन अप्य् अस्वामिकः शून्य इति / एवं यथायोगम् 06905 अन्यद् अपि वाच्यम् / शून्य-अनित्य-आदि-शब्देषु यथा-कल्पनं समीहित- 06906 आकारं बुद्धाव् आरोप्य तद्-व्यवच्छेदेन व्यपदेशः क्रियते / 06907 बुद्धि-समीहा सन्दर्शित-विभागत्वात् सर्वस्य शब्द-अर्थस्य / 06908 अप्रतिपक्ष-दोष-उपक्षेप-आदयो दुर्मति-विस्पन्दितानि इत्य् उपेक्षनीयाः / 06909 अथ 06910 एक-वृत्तेर् अनेको अपि यद्य् एक-श्रुतिमान् भवेत् / 06911 न केवलम् एक-कार्यास् तd-anya-bheda-aviशेषाद् एक-शब्देन उच्यन्ते 06912 अपि त्व् एक-वृत्त्या अप्य् अनेक एक-शब्देन उच्येत / को विरोधः स्यात् / 06913 उक्तम् अत्र /
तस्य उपलभ्य-अभिमतस्य अनुपलब्धेर् अभावात् 06914 अनुपलभ्यतायां वा तद्-दर्शन-आश्रया व्यपदेश- प्रत्यभिज्ञान- 06915 आदयो न भवेयुर् इत्य् आदि / अपि च / 06916 वृत्तिर् आधेयता व्यक्तिर् इति तस्मिन् न युज्यते //143//
06917 यद् एतद् एकम् अनेकत्र वर्तमानम् एकां श्रुतिं वर्तयति 06918 तस्य का इयं वृत्तिः / आधेयता वा स्यात् / यथा कुण्डे बदराणि 06919 वर्तन्त इति / व्यक्तिर् वा तैर् अभिव्यक्तेर् / यद्य् आधेयता / 06920 नित्यस्य अनुपकार्यत्वान् न आधारः / 06921 नित्यं हि सामान्यम् इष्यते / अनित्यत्वे अपरापर-उत्पत्तेर् अनेकत्वाद् 06922 भेद-वद् एक-प्रत्यय-अयोगात् / नित्यस्य च किं कुर्वाण 06923 आधारः स्यात् / तस्य तत्र समवायाद् आधार इति चेत् को 07001 अयं समवायो नाम / अपृथक्-सिद्धानाम् आश्रयाश्रयिभावः / 07002 तद् एव इदम् अनुपकारकस्य आश्रयत्वं न सम्भावयामः / 07003 अतिप्रसङ्ग-भयात् / तस्मात् समवाय-संयोगाव् एक-अर्थ-समवाय- 07004 आदयो अपि वस्तु-सम्बन्धाः कार्यकारणभावान् न व्यतिरिच्यन्ते / 07005 परस्परम् अन्यतो वा अनुपकारिणाम् अप्रतिबन्धात् / अप्रतिबद्धस्य 07006 च असम्बन्धात् / यद्य् अप्य् एक-अर्थ-समवायिनां परस्परम् 07007 अनुपकारः / तत एकस्माद् उपकारेण भाव्यम् / अभावे 07008 यथोक्त-दोष-प्रसङ्गात् / अतः स्व-उपकार-द्वारेण एव परम् अपि 07009 बुद्ध्या संघटय्य ख्याप्यते / तस्मात् तत्र अपि कार्यकारणभाव- 07010 कृत एव प्रतिबन्धः / तद् अयम् आश्रयः सामान्यस्य 07011 स्वात्मन्य् अनुपकुर्वाणो अनपेक्षस्य आधार इति याचितक-मण्डनम् 07012 एतत् / कथं तर्हि इदानीम् अजनकं कुण्डं बदराणाम् 07013 आधारः / 07014 प्रविसर्पतः / 07015 शक्तिस् तद्-देश-जननं कुण्ड-आदेर् बदर-आदिषु //144//
07016 प्रकृत्या एव गुरुणो द्रव्यस्य असमान-देश-कार्य-उत्पादन धर्मणः 07017 समान-देश-कार्य-उत्पादन-भाव आधार-कृतः / तस्मात् तत्-पूर्व- 07018 क्षण-सहकारि कुण्डं तत्र एव बदर-कार्यं जनयद् आधार 07019 इत्य् उच्यते / अन्यथा इह कुण्डे बदराणि इत्य् अपि न स्यात् / न वै 07020 तद्-उपकार-कृतो अयं व्यपदेशः / किं तर्हि / संयोग-कृतः / 07021 किं पुनः स तयोर् एव संयोगः / ताभ्यां जननात् समवायाद् 07022 वा / स किम् एकत्र एव न समवैति जन्यते वा / तस्य असामर्थ्यात् / 07023 तद् असमर्थं पृथक् तत् सहितम् अपि तादृशम् एव इत्य् अनुपकारकत्वान् 07024 न संयोगेन तद्वत् स्यात् / सहितस्य तd-anya-upakआराद् 07025 विशेष-उत्पत्तेः सामर्थ्यम् / को अयम् अजन्यजनकभूतानाम् 07026 उपकारः / स्वरूपस्य सिद्धेर् अकार्यत्वात् पररूप-क्रियायाम् 07101 अपि तत्र अनुपकारात् / उभयथा कारकस्य अकिंचित्करत्वेन 07102 अनुपकारकत्वाद् इत्य् उक्त-प्रायम् / तस्मात् सर्व एव वस्तु- 07103 सम्बन्धा जनकस्य एव उपयोग-विशेष-वशात् प्रविभागेन कार्यकारणभावाद् 07104 व्यवस्थाप्यन्ते / तद् अयं कुण्ड-आदीनाम् अप्य् 07105 आधार-भावो बदर-आदिषु जनन-शक्तिर् एव 07106 न सम्भवति सा अप्य् अत्र / 07107 न ह्य् अयं जनन-विशेष-लक्षण आधार-भावः सामान्ये सामान्य- 07108 आश्रयस्य सम्भवति / तस्य अजन्यत्वात् 07109 तद्-अभावे अप्य् अवस्थितेः / 07110 न स्थितिः / 07111 अथ अपि स्यात् स्थापक आश्रयः सामान्यस्य ततः स्थिति-हेतुत्वाद् 07112 आधारो न जननाद् इति / तद् अयुक्तम् / तस्य तद्-अभावे अपि स्थानात् /
07113 पतन-धर्माणां हि भावानां पात-प्रतिबन्धाद् अजनको अपि 07114 स्थापको भवेत् / अत्र अपि यदि कश्चित् प्रतिबन्धं न पर्यनुयुञ्जीत / 07115 स हि पात-प्रतिबन्धो न अर्थ-अन्तरम् एव यः स्थापयित्रा 07116 क्रियेत / अर्थ-अन्तरत्वे तत्र एव अस्य उपयोग इति कः पततः प्रतिबन्धः / 07117 प्रतिबन्धाद् अपाते अपि तुल्यः पर्यनुयोगो अनवस्था 07118 वा / तस्मात् पात-अभावः पात-प्रतिबन्धः स कथं केनचित् 07119 क्रियते / अभावं करोति इति हि न अभावो नाम कश्चित् कार्यः / तस्य 07120 कथंचित् कार्य-रूपत्वे अभाव-अयोगात् / तस्माद् भाव- क्रिया-प्रतिषेध- 07121 निर्देश एष भावं न करोति इति यावत् / तथा च अयं न 07122 किंचित् करोति इत्य् अकिंचित्करश् च कः कस्य स्थापको नाम / तेन 07123 अयं केनचिद् अप्रतिबद्ध इति न कदाचित् तिष्ठेत् / तस्मात् पात- 07124 प्रतिबन्ध इत्य् अपि क्षणिकानां भावानाम् उपादान-समान- 07125 देश-उत्पादनम् उच्यते / अस्तु नाम अजननं पातिनां तत्-प्रतिबद्धः / 07126 तत्-करणाद् गतिमतो द्रव्यस्य कश्चित् स्थापको अप्य् अस्तु / 07127 सामान्यस्य अक्रियस्य किं-लक्षणां स्थितिं कुर्वाणः स्थापकः 07128 स्यात् / स्थितिर् हि तस्य स्वरूप-अप्रच्युतिर् एव / सा च न आश्रय-आयत्ता 07129 नित्यत्वात् / 07130 सा अप्य् अयुक्ता एव भेद-अभेद-विवेचने //145//
07201 अस्तु नाम आश्रय-हेतुका स्थितिः सामान्यस्य / सा सामान्याद् अन्या 07202 वा स्याद् अनन्या वा / सा अन्या चेत् ताम् एव स आश्रयः करोति / सा 07203 च अप्रतिबद्धा सामान्य इति किम् सामान्यस्य आश्रयेण / प्रतिबद्धे 07204 वा कः प्रतिबन्ध इति वाच्यम् / स्थिति-करणं चेत् तत्र अपि तुल्यः 07205 प्रसङ्गो अनवस्था च / तत उपकार-अनवधारणाद् अस्य इयं 07206 स्थितिर् इत्य् अप्रतीतिः / जननं चेत् किम् आश्रयेण अपेक्षितेन अनुपकारिणा / 07207 अपेक्षा इति हि तत्-प्रतिबन्धः स च अनाधेयविशेषस्य सामान्यस्य 07208 अयुक्त इति / केवलं जनयेद् इति / न अस्त्य् अन्यः स्थिति-हेतुः / 07209 अभेदे वा स्थितेः सामान्यात् स्वरूपम् एव तत् तस्य / तच् च 07210 नित्यम् अस्ति इति / न स्थितिर् अस्य केनचित् क्रियते / तस्मान् न सामान्यस्य 07211 आधारो अस्ति / तन् न आधेयता अस्य वृत्तिः / अथ पुनः सतो अपि 07212 सामान्यस्य अव्यक्तस्य व्यक्त्या ज्ञान-कारणत्वात् तद्-व्यक्तिस् तत्र 07213 वृत्तिः स्यात् / न युक्तम् एवं भवितुम् / यस्मात् / 07214 विज्ञान-उत्पत्ति-योग्यत्वाय आत्मन्य् अन्य-अनुरोधि यत् / 07215 तद् व्यङ्ग्यं योग्यतायाश् च कारणम् कारकं मतम् //146//
07217 प्राग् एव अस्य च योग्यत्वे तद्-अपेक्षा न युज्यते / 07218 सामान्यस्य अविकार्यस्य तत् सामान्यवतः कुतः //147//
07219 न खलु वै कारकाद् व्यञ्जकस्य कश्चिद् भेदः / स्व-विषय-विज्ञान- 07220 उत्पादन-समर्थम् अपरं सजातीय-उपादान-अपेक्षम् अनपेक्षं 07221 वा जनयन् भावम् एव व्यञ्जक उच्यते / परत्र तु ज्ञान- 07222 जनन-शक्तिर् अनाक्षिप्ता जन्यस्य इति जनन-मात्रेण कारकत्वम् / 07223 यो हि यतो विज्ञान-उत्पादन-योग्यतां प्रतिलभते स चेन् 07224 न तस्य जन्यः स्यात् / सा अस्य स्वभाव-भूता योग्यता प्राग् एव अस्ति 07225 इति न विज्ञान-जनने तम् अपेक्षेत / पर-भूतायां च अस्यां 07226 स एव ततो भवति इति स्थिति-वत् प्रसङ्गः / तस्माद् व्यञ्जको न 07227 तं करोति न अप्य् अन्यम् इत्य् अकिंचित्करश् च अपेक्ष्यत इति व्याहतम् 07301 एतत् / नन्व् अजनका अपि कार्यत्वाद् धूम-आदयो व्यञ्जकाः / 07302 सत्यं व्यञ्जका न तु धूमम् अपेक्ष्य अग्निर् आत्मनि ज्ञानं 07303 जनयति / तथाभूतस्य अग्नेः साक्षाद् अजनकत्वात् / केवलम् 07304 उपादान-बलेन एव तत्र ज्ञानम् उत्पद्यते न विषय-बलेन असत्य् 07305 अपि तस्मिन् भावात् परंपरया लिङ्ग-अनुसारेण / न अपि सामान्यलक्षण- 07306 अवभासिनां प्रत्ययानां संनिहित-विषयता विषय- 07307 बलेन उत्पत्तिर् वा इति निवेदितम् एतत् / निवेदयिष्यते च / तस्माद् ये 07308 विषयाः साक्षाद् उपयोगेन विज्ञानं जनयन्तस् तत्र परम् 07309 अपेक्षन्ते ते अवश्यं तत आत्मानं प्रतिलभन्ते / न च अयम् 07310 आत्म-प्रतिलम्भः सामान्यस्य नित्यस्य कुतश्चित् सम्भवति / 07311 तस्मान् न तत् केनचित् व्यङ्ग्यम् / न वै योग्यता-प्रतिलम्भं 07312 सामान्यस्य व्यक्तिं ब्रूमः / किं तर्हि / स्वाश्रय-समवायम् / 07313 स्वाश्रय-समवेतं हि तद् आत्मन्य् अन्यत्र वा विज्ञान-हेतुर् इति /
07314 उक्तम् अत्र अजन्य-जनकयोः को अयम् आश्रयाश्रयिभाव-लक्षणः 07315 समवाय इति / स्वाश्रय-समवाय-अपेक्षो विज्ञान-हेतुस् तेन जन्य 07316 एव स्यात् / तद्-हेतोः स्वभावस्य प्राग्-अभावात् पश्चाच् च ततो 07317 भावात् / नित्यं तत्-स्वभाव-सद्भावे प्राग् अपि समवायाद् विज्ञान- 07318 उदय-प्रसङ्गात् / न वै व्यक्तिः सामान्यस्य संस्काराद् 07319 व्यञ्जिका / किं तर्हि / तद्-ग्राहिण इन्द्रियस्य / सो अपि / 07320 अञ्जन-आदेर् इव व्यक्तेः संस्कारो न इन्द्रियस्य च / 07321 प्रतिपत्तेर् अभिन्नत्वात् तद्-भाव-अभाव-कालयोः //148//
07322 संस्कृतम् अञ्जन-आदिभिर् इन्द्रियं प्रतिपत्तौ किंचिद् अतिशयम् 07323 आसादयति / स्पष्ट-अस्पष्ट-भेदात् / अतत्-कारिणश् च अतत्-संस्कारकत्वात् / 07324 न एवं व्यक्तेर् इन्द्रियस्य कश्चित् संस्कारस् तद्-भाव-अभाव- 07401 कालयोः प्रतिपत्तिं प्रत्य् अविशेषात् / विषय-संस्कारस् त्व् इन्द्रिय- 07402 अविशेषे अपि तद्-विशेष-आधानाद् उपकारी स्यात् / न इन्द्रिय-संस्कारः / 07403 प्राग् अदृश्ये दर्शन-शक्त्य्-आधानाद् उपकारक इति चेत् / सो अतीन्द्रियम् 07404 अर्थं दर्शयन् कथं न प्रतिपत्तेर् भेदकः / एक-प्रतिनियमे 07405 च सामान्य-अन्तरस्य दर्शको न स्यात् / व्यक्त्या च इन्द्रिय- 07406 संस्कारात् तद्-दर्शने तद्-व्यङ्ग्येषु सामान्येषु कदाचित् अनिश्चयो 07407 न स्याद् एक-निश्चयो वा / तस्या अविभागायास् तेषु विशेष-अभावात् / 07408 व्यक्तेर् यदि इन्द्रिय-संस्कारो यदि न इन्द्रिय-संस्कारः सामान्यस्य 07409 विज्ञान-जनन-स्वभाव इति स्वभावाद् अप्रच्युतेर् अनपेक्ष्य एव 07410 इन्द्रिय-संस्कारं विज्ञानं जनयेत् / संस्कृत-इन्द्रिय-सहकारित्वात् 07411 केवलम् असमर्थम् इति चेत् / को अयम् अनाधेयातिशयस्य 07412 सहकार-अर्थः / अनित्या हि भावाः सहकारिणो विशिष्ट-आत्म-लाभात् 07413 तम् अपेक्षेरन् / यो ह्य् एषां जनक आत्मा स तदा एव ततो भवति 07414 इति जन्यता एव एषां परस्परतो अपेक्षा / सामान्यं पुनर् अनासाद्य 07415 परं नित्यं तत्-स्वभावं किम् इति इन्द्रियम् अपेक्षते / 07416 हि तस्य केवलस्य यो न तत्-स्वभावः स पुनः कथंचिद् 07417 भावी व्यक्तेर् इन्द्रिय-संस्कारः / तत्-सहकारि सामान्यं विज्ञान- 07418 हेतुर् इत्य् अपि पारंपर्येण व्यक्तेः कार्यम् एव सामान्यम् 07419 उक्तं स्यात् / अपि च / 07420 व्यञ्जकस्य च जातीनां जातिमत्ता यदि इष्यते / 07421 प्राप्तो गोत्व-आदिना तद्वान् प्रदीप-आदिः प्रकाशकः //149//
07422 यो हि यद्-विषय-विज्ञान-हेतुः स तस्य व्यञ्जकः / विज्ञान-हेतुत्वं 07423 गोत्व-आदिषु प्रदीप-आदेर् अप्य् अस्ति / तेजः-संस्कार-अपेक्षिणः 07424 चक्षुषो अर्थ-प्रतिपत्तेः / ततः प्रदीप-आदयो गोत्व-आदिना तद्वन्तः 07501 स्युः / न हि व्यक्तेर् अपि ज्ञान-हेतुतां मुक्त्वा अन्या काचिद् अस्त्य् 07502 अभिव्यक्तिः सामान्यस्य स्वभाव-अतिशयस्य आधातुम् अशक्यत्वात् / 07503 समवायो अभिव्यक्तिर् इति चेत् / उक्ता उत्तरम् एतत् / तस्य समवाय-अयोगाद् 07504 इति / समवाय-मात्रं हि व्यक्त्या सह अस्य जातं न अन्यः 07505 कश्चिद् विशेष इति / पूर्ववत् पश्चाद् अपि न ज्ञान-हेतुः स्यात् / 07506 समवायाद् एव ज्ञान-हेतुत्वे स्वाश्रय-समवायिनाम् अन्येषाम् अपि 07507 दृश्यता-आपत्तिः / तस्माज् ज्ञान-हेतुता एव व्यञ्जकत्वं / तच् च 07508 तुल्यं प्रदीप-आदाव् इति स एव प्रसङ्गः / तन् न आधेयता न व्यक्तिर् 07509 वृत्तिः सामान्यस्य इति / अवृत्तेर् न अनेकत्र ज्ञान-हेतुः / अत एव / 07510 व्यक्तेर् अन्या अथवा अनन्या येषां जातिस् तु विद्यते / 07511 तेषां व्यक्तिष्व् अपूर्वासु कथं सामान्य-बुद्धयः //150//
07512 विद्यत एव इत्य् अवधारण-अर्थस् तु-शब्दः / विद्यमानो हि पदार्थः 07513 स्व-सामर्थ्येन अन्यत्र बुद्धिं जनयन् स्वरूप-अनुकारिणीं 07514 तत्-सम्बन्धम् अपेक्षते / अन्यथा अतिप्रसङ्गात् / स च सामान्यस्य 07515 सतस् तत्त्वान्यत्त्व-पक्षयोर् न सम्भवति / 07516 एकत्र दृष्टस्य अन्यत्र दर्शन-असम्भवात् / 07517 सा हि बुद्धिर् एक-भाविनी व्यक्त्य्-अन्तरम् एवम् आस्कन्देद् भूत- 07518 ग्राहिणी यदि तत्र दृष्टं किंचिद् अन्यत्र पश्येत् / तच् च 07519 सतः / 07520 अनन्यत्वे अन्वय-अभावाद् अन्यत्वे अप्य् अनपाश्रयात् //151//
07521 न सम्भवति / स्वभावो हि स्वभावान् न तत्त्वम् अन्यत्वं 07522 वा लङ्घयति / रूपस्य अतद्भूतस्य अन्यत्व-अव्यतिक्रमात् / इदम् 07523 एव खलु रूपस्य अन्यत्वं यन् न तद् आकार-अन्तर-वद् अविशेषात् / 07524 तच् चेत् सामान्यस्य रूपम् अनन्यत् तद् एव तद् भवति / अतत्त्वे 07525 वस्त्v-antara-vad अन्यत्व-प्रसङ्गात् / न च एक-व्यक्त्य्-आत्मनो व्यक्त्य्- 07526 अन्तर-अन्वावेशो अव्यक्त्य्-अन्तरत्व-प्रसङ्गात् / ततो न अव्यतिरेकिणः 07527 सामान्याद् अन्वयिनी बुद्धिः स्यात् / न अपि व्यतिरेकिणस् तस्य 07601 क्वचिद् अनाश्रयाद् अन्यस्य अपि व्यङ्ग्यव्यञ्जकभाव-आदेः सम्बन्धस्य 07602 केनचिद् अनुपकार्यस्य अप्रतिबन्धेन अभावात् / असम्बन्धाच् 07603 च ज्ञान-उत्पत्ताव् अपि प्रसङ्गात् / तद् अयम् एक-वस्तु- 07604 दर्शनेन एक-वृत्तेः प्रत्ययस्य अन्यत्र वृत्तिम् इच्छंस् तत्त्वान्यत्त्वे 07605 न अतिक्रामति इत्य् अयुक्तम् एतत् / तस्माद् इयम् अर्थेष्व् एक-रूपा 07606 प्रतीतिर् विकल्प-वासना-समुत्थिता भ्रान्तिर् एव / भाव-भेदो वासना- 07607 प्रकृतिश् च तस्य आश्रय इति निर्लोठितम् एतत् / कथं तर्हि इदानीं 07608 प्रधान-ईश्वर-आदि-कार्य-शब्दा भावेष्व् अतद्-भूत-भेदेष्व् 07609 अभेदेन वर्तन्ते / ते अपि यथा-संकेत-आहित-वासना-उपस्कृतत्वाद् 07610 विज्ञान-सन्ततेः सर्व-अर्थ-दर्शनेष्व् अनपेक्ष्य अपि तद्-भेदं तथा 07611 अध्यवसायाद् अतथाभूत-कल्पित-व्यवच्छेदेन विकल्प-विज्ञान- 07612 प्रतिभासिन्य् अर्थ उपादान-बल-प्रभव-विकल्प-समुत्थिताः 07613 प्रवर्तन्ते / न हि तेष्व् अतथाभूतेषु किंचिद् व्यतिरिक्तम् अव्यतिरिक्तं 07614 वा सामान्यम् अस्ति /
तथाभाव-कल्पनया तु तद्-अन्य- 07615 भेदः प्रतिपत्तृ-अभिप्राय-वशात् स्यात् / तद्-अभिप्रायाद् एव सामान्यं 07616 किं न इति चेत् / तेन अवश्यं हि तत्र भेदो नान्तरीयकत्वाद् 07617 एष्टव्यः / स एव सामान्य-कार्ये पर्याप्त इति निःप्रयोजना 07618 सामान्य-कल्पना / यदि सत्स्व् असत्सु वा भावेषु सामान्य-बुद्धिर् 07619 न इयम् अर्थवती केवलं विप्लव एव इति न अस्माकम् अस्या विषय- 07620 निरूपणं प्रति कश्चिद् आदरः क्वचिद् अविसंवादो अस्या वस्तुनि 07621 कार्यकारणभाव-प्रतिबन्धान् न तथाभूत-ग्राह्य-समावेशात् 07622 प्रत्यक्ष-वद् अतथाभावे अपि भावाद् इति निवेदयिष्यामो निवेदितं 07623 च / भेद-विषयत्वं पुनर् अस्या बहुलं भिन्न-पदार्थ- 07624 दर्शन-बलेन तेषु भाव-अध्यवसायात् / तथा भाव-कल्पनायाम् 07625 एव अपरत्र भावात् / अपि च अयं सामान्यम् अर्थ-अन्तरं कल्पयन् 07701 स्वाश्रय-मात्र-गतं वा कल्पयेत् सर्व-गतं वा आकाश-आदि-वत् / 07702 तत्र यदि स्वाश्रय-मात्र-गतं घटत्व-आदि-शून्येषु प्रदेशेषु 07703 घट-आद्य्-उत्पत्तौ कथं तेषु भिन्न-देश-द्रव्य-वर्तिनः सामान्यस्य 07704 सम्भवः / यस्मात् तत् पूर्व-द्रव्याद् उत्पित्सु द्रव्यं 07705 न याति / 07706 निष्क्रियत्व-उपगमात् / न ह्य् अन्य-द्रव्य-वृत्तेर् भावस्य ततो अविचलतो 07707 भिन्न-देशेन भावेन तd-ubhaya-antarआल-अव्यापिनो योगो 07708 युक्तः / प्राक् स 07709 न च तत्र आसीत् अस्ति पश्चान् / 07710 न च तत्र उत्पन्नो न कुतश्चिद् आयात इति क इमं व्याघात-भारम् 07711 उद्वोढुं समर्थो अन्यत्र जाड्यात् / अपि च 07712 न च अंश-वत् / 07713 जहाति पूर्वं न आधारम् / 07714 उत्पित्सु-देशाद् भिन्न-देशम् /
तयोश् च वर्तत इति / 07715 अहो व्यसन-सन्ततिः //152//
07716 भिन्न-देशयोर् हि भावयोः सम्बन्धो द्विधा भवेत् / नाना-अवयव- 07717 आत्मतया अन्योन्याभ्याम् अवयवाभ्यां तत्-सम्बन्धाद् आलोक- 07718 रज्जु-वंश-दण्ड-आदि-वत् / न हि स अवयवत्वम् अन्तरेण भिन्न- 07719 देशाभ्यां युगपत् कस्यचिद् योगो युक्तः / तस्य द्वितीय- आत्म-अभावात् / 07720 एकात्मनश् च तत्-प्रदेश-वर्ति-सम्बन्धि-रूपत्वात् / अन्यथा 07721 तत्-सम्बन्ध-अयोगात् / एकस्य आधेयस्य तत्र स्थानं तदा एव 07722 तत्र तेन एव आत्मना अस्थानम् इति तत्-स्थित-अस्थित-आत्मनोर् एकस्य 07801 विरोधाद् अयुक्तम् एतत् / सर्वत्र सर्वदा सर्व-आकार-स्थित-आत्मा इति 07802 चेत् / तत्-स्वभाव-दर्शन-आश्रयः प्रत्ययः सर्वत्र सर्व-आकारः 07803 स्यात् / तथा च गाम् अप्य् अश्व इति प्रतीयात् / अश्व-स्थित-आत्मना द्रव्यत्वेन 07804 सम्बन्धात् तत्-स्वभाव-प्रतिपत्त्या च तथा निश्चयात् 07805 तस्य च एकस्य अदृष्ट-आकार-अन्तर-अभावात् / तस्मान् न अनवयवम् अनेक- 07806 देशे युगपद् आधीयते / पूर्व-आधार-त्यागे तु भिन्न-देशे अपि 07807 वर्तेत / स च न अभिमतः / 07808 अन्यत्र वर्तमानस्य ततो अन्य-स्थान-जन्मनि / 07809 स्वस्माद् अचलतः स्थानाद् वृत्तिर् इत्य् अतियुक्तिमत् //153//
07810 यत्र असौ वर्तते भावस् तेन सम्बध्यते अपि न / 07811 तद्-देशिनं च व्याप्नोति किम् अप्य् एतन् महाद्भुतम् //154//
07812 इत्य् अन्तरश्लोकौ / यस्य तु सर्व-गतं सामान्यं तस्य अपि 07813 व्यक्ता एव एकत्र सा व्यक्त्या अभेदात् सर्वत्रगा यदि / 07814 जातिर् दृश्येत सर्वत्र / 07815 न जातेर् नित्यायाः काचिद् व्यक्तिर् इति निषिद्धम् एतत् / तस्मान् नित्यम् 07816 अनपेक्षित-पर-उपस्कारा दृश्येत वा न वा कदाचित् तस्मिन् स्वभावे 07817 व्यवस्थानात् / स्वभाव-अन्तरस्य कुतश्चिद् अनुत्पत्तेः / अभ्युपगम्य 07818 अपि व्यक्तिं व्यापिन्य् एकत्र व्यक्त्या भेद-अभावाद् व्यक्ता 07819 एव सर्वत्र इति व्यक्ति-शून्येष्व् अपि प्रदेशेषु दृश्येत / 07820 न च सा व्यक्त्य्-अपेक्षिणी //155//
07821 यदि हि व्यक्त्य्-अपेक्षिणी स्यात् / 07822 व्यञ्जक-अप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते / 07823 विपर्ययः पुनः कस्माद् इष्टः सामान्य-तद्वतोः //156//
07824 यो अपि हि स्वाश्रय-इन्द्रिय-संयोग-अपेक्ष-प्रतिपत्तिकं सामान्यम् 07825 आश्रय-शून्येषु प्रदेशेषु न दृश्यत इति प्रतिसमादधीत तस्य अप्य् 07826 अस्त्य् एव आश्रय-इन्द्रिय-संयोग उपकारक इति ततस् तद्-दर्शी यथा- 07827 स्थितां पश्येत् / न हि तस्यां दृश्यमानायाम् अदृष्टं तदीयं 07901 युक्तम् / व्यक्ति-व्यङ्ग्यत्वात् सामान्यस्य व्यञ्जक-रहितेषु 07902 प्रदेशेष्व् अदर्शनम् इत्य् अपि मिथ्या / तथाभूतस्य व्यङ्ग्यव्यञ्जकभावस्य 07903 तत्र अभावात् / स्व-प्रतिपत्त्या अपर-प्रतिपत्ति-हेतुर् 07904 हि व्यञ्जकः प्रदीप-आदिः स्वरूप-शून्ये देशे स्व-व्यङ्ग्यं न 07905 दर्शयत् / न एवं व्यक्तिर् विपर्ययात् / कथं हि सा व्यञ्जिका 07906 च स्यात् सामान्यस्य / तत्-प्रतिपत्ति-द्वारेण च दृश्या स्यात् / व्यङ्ग्या 07907 च सा एव प्रसज्यते प्रदीप-घट-वत् / कथंचित् तत्-प्रतिपत्तिम् 07908 अन्तरेण अदृश्य-रूपत्वात् / अपि च अनेन किम् असम्भवद् अभिसमीक्ष्य 07909 एवं बह्व्-आयासः सामान्य-वाद आश्रितः / परस्परतो भेदाद् 07910 व्यतिरेकिणीषु व्यक्तिष्व् अन्वयिनः प्रत्ययस्य अयोगात् / कथम् 07911 इदानीम् 07912 पाचक-आदिष्व् अभिन्नेन विना अप्य् अर्थेन वाचकः / 07913 पाचक-पाठक-आदिष्व् अन्योन्यम् अनन्वयिष्व् अपि शब्द-प्रत्यय-अनुवृत्तिर् 07914 अस्ति / पाचकः पाठक इति / न हि तेष्व् अन्यद् एकम् अभिन्नम् 07915 अस्ति येन भिन्नास् तथा प्रतीयेरन् / कर्म अस्ति चेत् / व्यक्तिभ्य 07916 एव तर्हि स प्रत्ययो अस्तु / किम् इदानीं कर्मणा अन्येन वा / भिन्नम् 07917 अभिन्न-प्रत्यय-हेतुर् न भवति इत्य् एकं सामान्यम् इष्टम् / 07918 तद् यदि भिन्नम् अपि कर्म-अभिन्नम् प्रत्ययं जनयेत् / व्यक्तिभिः 07919 को अपराधः कृतो येन तास् तथा न इष्यन्ते / तासाम् एक-रूपत्वात् / 07920 अस्य इदम् इति व्यतिरेक-प्रतीतिर् अतद्-आकार-विशेषवती च न 07921 स्याद् इति चेत् / उक्तम् अत्र यथा व्यतिरेको विशेष-प्रत्ययाश् च 07922 यथास्वम् अर्थ-अन्तर-विवेकाद् इति / तस्माद् व्यक्ति-वत् 07923 भेदान् न हेतुः कर्म अस्य / 07924 पाचक-आद्य्-अभेद-प्रत्ययस्य / तत्-कर्म जातिर् अभेदाद् हेतुर् 07925 इति चेत् / 07926 न जातिः कर्म-संश्रयात् //157//
08001 न ह्य् अर्थ-अन्तर-सम्बन्धिनी जातिर् अर्थ-अन्तरे प्रत्यय-हेतुर् 08002 गोत्वम् इव कर्क-आदिषु / पाचक-कर्मसु च कर्म-जातिर् न च तानि 08003 कर्माणि पाचक-शब्देन अभिधीयन्ते / किं तर्हि / तत्-कर्म-आश्रयो 08004 द्रव्यम् / तस्य कर्म-सामान्यस्य 08005 श्रुत्य्-अन्तर-निमित्तत्वात् / 08006 च पाकः पाक इति हि ततः स्यान् न पुनः पाचक इति / तस्य कर्म- 08007 निमित्तत्वे प्रोक्तम् / किं च 08008 स्थित्य्-अभावाच् च कर्मणः / 08009 न ह्य् अनित्यं कर्म सर्वदा अस्ति / तस्य च प्रत्ययस्य कर्म-निमित्तत्वे 08010 निरुद्धे कर्मणि न पाचक इत्य् उच्येत / पचत एव कर्म- 08011 सद्भावात् / तत एव 08012 असम्बन्धान् न सामान्यं न अयुक्तम् शब्द-कारणम् //158//
08013 अतिप्रसङ्गात् / 08014 विनष्टे हि कर्मणि तत् सामान्यं न कर्मणि न कर्तरि इति सम्बद्ध- 08015 सम्बन्धे अप्य् अस्य न अस्ति इत्य् असम्बन्धान् न शब्द-ज्ञान- 08016 हेतुः / अन्यथा ह्य् अतिप्रसङ्गः स्यात् / अतीतम् अनागतं वा 08017 निमित्तीकृत्य तयोः प्रवृत्तिर् इति चेत् / 08018 कर्म अपि न असज्-ज्ञान-अभिधानयोः / 08019 निमित्तम् / तयोः 08020 अनैमित्तिकता-आपत्तेः / 08021 असद् हि निरुपाख्यं कथं निमित्तं स्यात् / कार्य-करण- 08101 लक्षणत्वाद् वस्तुत्वस्य / तत् प्रच्युत-असम्प्राप्त-रूपम् अतीत-अनागतं 08102 कर्म-निमित्तम् / अन्यच् च व्यक्त्य्-आदिकं न इष्टम् इत्य् 08103 अनिमित्ते ते स्याताम् / तथा च न जाति-सिद्धिस् तस्या ज्ञान-अभिधानयोः / 08104 निमित्तत्वे न इष्टत्वात् / शक्तिः पाचक-आदि-शब्द-निमित्तं 08105 न कर्म न सामान्यम् इति चेत् 08106 न च शक्तिर् अनन्वयात् //159//
08107 न हि शक्तिर् नाम किंचिद् अन्यद् एव पाचक-आदीनाम् / तस्या एव 08108 पाचक-आद्य्-अर्थक्रिया-उपयोगेन द्रव्यस्य अनुपयोगित्व-प्रसङ्गात् / तस्यां 08109 तस्य उपयोग इति चेत् किम् इदानीं शक्त्या / शक्त्य्-उपयोगाय 08110 शक्त्य्-अन्तरस्य व्यतिरेकिणो अभ्युपगमे अतिप्रसङ्गाद् द्रव्यम् 08111 एव उपयुज्यत इति वाच्यम् / तस्य उपयोगे शक्ताव् अर्थक्रियायाम् 08112 एव उपयुज्यत इति किं न इष्यत इति किम् अन्तराले अनर्थिकया शक्त्या / 08113 तस्माच् शक्तिर् इति द्रव्यम् एव तत्-कार्यं तच् च न अन्वेति इति / ततो 08114 अन्वयी शब्दो न स्यात् / 08115 सामान्यं पाचकत्व-आदि यदि प्राग् एव तद् भवेत् / 08116 व्यक्तं सत्ता-आदि-वन् नो चेन् न पश्चाद् अविशेषतः //160//
08117 अथ अपि पाचकत्वम् इति सामान्यम् एव किंचिद् भवेत् / सत्य् अर्थे 08118 तत्-समवायस्य अकादाचित्कत्वात् सत्ता-आदि-वत् / प्राग् एव व्यक्तं 08119 स्यात् / यावन्ति हि सामान्यान्य् अर्थे समवाय-धर्माणि तानि सह 08120 उत्पादेन अस्य समवयन्ति इति समयः / तद्-व्यतिक्रमे तस्य 08121 पश्चाद् अप्य् अविशेषान् न तत्-समवायः स्यात् / तत्-सम्बन्धि-स्वभाव- 08122 वैगुण्याद् हि स तस्य प्राङ् न आसीत् तत्र एव च अस्य स्वभावे 08123 स्थितस्य पश्चाद् भवति इति दुरन्वयम् एतत् / 08124 क्रिया-उपकार-अपेक्षस्य व्यञ्जकत्वे अविकारिणः / 08125 न अपेक्ष-अतिशये अप्य् अस्य क्षणिकत्वात् क्रिया कुतः //161//
08126 कर्म-उपकारम् अपेक्ष्य पाचकत्वं द्रव्येण व्यज्यत इति चेत् / 08201 स्थिर-स्वभावस्य अनतिशयाद् अविशेष-आधायिनि का अपेक्षा / अतिशये 08202 वा क्षणिकत्वात् कर्मणः प्रतिक्षणं स्वभाव-भूतस्य अन्यान्यस्य 08203 अतिशयस्य उत्पत्तेस् तद् अपि क्षणिकं स्यात् / ततः स्व-उत्पत्ति-स्थान-विनाशिनः 08204 क्रिया कुतः यद्-अपेक्षं व्यञ्जकं स्यात् / कथं 08205 तर्हि इदानीम् अस्त्य् अभिन्ने वस्तुनि ज्ञान-शब्दयोर् अन्वयिनोर् वृत्तिः / 08206 यथा पाचक-आदिषु / ननु तद् एव इदं चिन्त्यते कथं तेष्व् 08207 अपि इति / चिन्तितम् एतद् यथा न तेषु सम्भवति / तत् किम् इदानीम् 08208 अनिमित्ते ते स्याताम् / न अनिमित्ते / किं तर्हि / न बाह्य-तत्त्व-निमित्ते / 08209 यथास्वं वासना-प्रबोधाद् विकल्प-उत्पत्तिः / ततः शब्दाः / 08210 न पुनर् विकल्प-अभिधानयोर् वस्तु-सत्ता समाश्रय इत्य् उक्त-प्रायम् 08211 एतत् / यथास्वं समय-वासना-वशाद् विरोधि-रूप-समावेशेन 08212 अपरापर-दर्शने अप्य् अन्वयिनोस् तयोर् दर्शनात् / न च तत्र 08213 तन्-निबन्धनः कश्चित् स्वभावो अस्ति परस्पर-विरोधिनोर् युगपद् 08214 एकत्र समावेश-अयोगात् / अनियमेन तर्हि स्यात् / न ह्य् अनिमित्तं 08215 भवत् क्वचिद् भवति क्वचिन् न भवति इति नियमम् 08216 अर्हति / न खलु वै तद् अनिमित्तं वासना-विशेष-निमित्तत्वात् / 08217 बाह्यं तु तथाभूतं दृश्यं न अस्ति इति ब्रूमः / न च असति तस्मिन् 08218 न भवितव्यम् / सुप्त-तैमिरिक-उपलब्धेष्व् अर्थेष्व् अभावेषु 08219 समय-वासना-आरोपित-रूप-विशेषेषु च तथा विकल्प-उत्पत्तेः / न 08220 च ते असत्सु उत्पद्यन्त इति सर्वत्र सर्व-आकारः / विभागे न एव तथा-उपलब्धानां 08221 विकल्पनात् / उक्तं च अत्र किंचिद् अस्माभिः प्रकृत्या 08222 अपि केचिद् एक-ज्ञान-कार्याः स्वभाव-भेदाद् इति / अपि च / 08223 तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति / 08224 क्वचिन् न अन्यत्र स एव अस्तु शब्द-ज्ञान-निबन्धनम् //162//
08225 इत्य् अन्तरश्लोकः / 08226 न निवृत्तिं विहाय अस्ति यदि भाव-अन्वयो अपरः / 08227 एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्त-भेदतः //163//
08228 यद्य् एते भावा व्यावृत्तिं मुक्त्वा स्वभावेन केनचिद् अन्वयिना 08301 शून्याः / न एषां बहूनाम् एकं कार्यं स्यात् / यो हि तस्य स्वभावो 08302 जनकः / न हि सो अन्यस्य अस्ति / यो अस्ति स न जनको व्यतिरेकस् य 08303 निःस्वभावत्वात् / यज्-जनकं तद् एव वस्तु तज्-जनकं 08304 च अपरत्र न अस्ति इति न अपरं जनयेत् / स हि तस्य स्वभावो यो जनकः 08305 सो अन्यस्य अपि यदि स्यात् / स तेन स्वभावेन ततो अभिन्नः 08306 स्याद् इति अस्ति स्वभाव-अन्वयः / 08307 यद्य् एकात्मतया अनेकः कार्यस्य एकस्य कारकः / 08308 आत्मा एकत्र अपि सो अस्ति इति व्यर्थाः स्युः सहकारिणः //164//
08309 यद्य् एक-स्वभावत्वाद् अनेक एकस्य कारकः स तेषाम् अभिन्नः 08310 स्वभावः / एक-संनिधाने अप्य् अस्ति इति / अवैकल्यात् कारणस्य एको 08311 अपि जनकः स्यात् / यस्मात् / 08312 न अपैत्य् अभिन्नं तद्-रूपं विशेषाः खल्व् अपायिनः / 08313 न हि तस्य अभिन्न-स्वभावस्य अर्थ-अन्तरे विशेषो अस्ति / विशेषो अभेद- 08314 हानेः / स च तत्र अप्य् अस्ति इति न एक-स्थिताव् अपि तस्य अपायो अस्ति / ये 08315 विशेषास् तेषां सह-स्थित्i-niyama-abhआवात् स्याद् अपायः / न च ते 08316 जनका इष्टाः / सहकारिणाम् एक-स्वभावतया जनकत्व-अभ्युपगमात् / 08317 ततो जनकस्य स्थानात् / अस्थायिनश् च अजनकत्वाद् 08318 एक-स्थिताव् अपि कार्य-उत्पत्तिः स्यात् / न च भवति / अतः 08319 एक-अपाये फल-अभावाद् विशेषेभ्यस् तद्-उद्भवः //165//
08320 तत्-कार्यम् अनेक-सहकारि-साधारणम् एक-विशेष-अपाये अपि न भवति / 08321 पुनर् अप्य् अविकलेषु सर्वेषु विशेषेषु भवति / न त्व् अविकले 08322 अप्य् अभिन्ने रूपे / कार्यं हि कुतश्चिद् भाव-धर्मि यन् न भवति 08323 तत् तस्य एव वैकल्यात् / न च अभिन्नस्य रूपस्य एक-स्थिताव् 08324 अपि वैकल्यम् अस्ति / अविकले अपि तस्मिन्न् अभवत् तस्य अजनक-आत्मतां 08325 सूचयति / यत्-साकल्य-वैकल्याभ्यां च कार्यं भाव-अभाव-वत् 08401 तत एव उत्पत्तिः / तस्मिन् सति नियमेन भवतस् तद्-अन्यस्माद् उत्पत्ति- 08402 कल्पनायाम् अतिप्रसङ्गात् / तस्माद् विशेषा एव जनका न 08403 सामान्यं / ततस् त एव वस्तु / यस्मात् / 08404 स पारमार्थिको भावो य एव अर्थक्रिया-क्षमः / 08405 इदम् एव हि वस्त्व्-अवस्तुनोर् लक्षणं यद् अर्थक्रिया-योग्यता अयोग्यता 08406 च इति वक्ष्यामः / 08407 स च / 08408 अर्थक्रिया-योग्यो अर्थः 08409 न अन्वेति यो अन्वेति न तस्मात् कार्य-सम्भवः //166//
08410 तस्मात् सर्वं सामान्यम् अनर्थक्रिया-योग्यत्वाद् अवस्तु / वस्तु 08411 तु विशेष एव तत एव तन्-निष्पत्तेः / स्वभाव-अनन्वयात् तर्ह्य् 08412 एकस्य जनकं रूपम् अन्यस्य न अस्ति इत्य् अजनकः स्यात् / जनकत्वे 08413 वा भेद-अविशेषात् सर्वो जनकः स्यात् / न एतद् अस्ति / यस्मात् / 08414 तेन आत्मना हि भेदे अपि हेतुः कश्चिन् न च अपरः / 08415 स्वभावो अयम् / 08416 एकस्य जनकाद् आत्मनो भिद्यमानाः सर्वे समं जनका न वा 08417 अविशेषे कश्चिद् इति स्याद् एतद् यद्य् एषां न विशेषः सम्भवेत् / ततो भेद- 08418 अपि कुतश्चिद् आत्म-अतिशयात् कश्चिज् जनको न अपरः / स हि 08419 तस्य स्वभावो न अपरस्य / न हि स्वभावा भावानां पर्यनुयोगम् 08420 अर्हन्ति किम् अग्निर् दहत्य् उष्णो वा न उदकम् इति / एतावत् तु 08421 स्यात् कुतो अयं स्वभाव इति / निर्हेतुकत्वे अनपेक्षिणो नियम-अभावेन 08422 अतिप्रसङ्गात् / तस्मात् स्वभावो अस्य स्व-हेतोर् इत्य् उच्यते / 08423 तस्य अपि तज्-जनन-आत्मता तद्-अन्यस्माद् इत्य् अनादिर् हेतु-परंपरा 08501 भिन्नानां हि कश्चिद् हेतुर् न अन्यः स्वभावाद् इत्य् अत्र न किंचिद् 08502 बाधकम् / 08503 अभेदे तु स्यातां नाश-उद्भवौ सकृत् //167//
08504 अभेदात् / स्वभावेन एव विश्वस्य स्वात्म-वद् विभाग-उत्पत्ति-स्थिति- 08505 निरोध-आदयो न स्युः तथा उपलक्षणाद् अभेदस्य / इदम् एव हि 08506 भेद-अभेद-लक्षणम् एक-आकारस्य अपि व्यतिरेको अव्यतिरेकश् च / 08507 विरोधिनोर् एकात्मन्य् असम्भवात् / 08508 भेदो अपि तेन न एवं चेद् / 08509 न वै सर्व-आकार-अव्यतिरेकं ब्रूमो येन एवं स्यात् / कश्चिद् अस्य आत्मा 08510 भिन्नो न अन्य इति भेदान् न सहोत्पत्त्य्-आदयः / एवं तर्हि 08511 य एकस्मिन् विनश्यति / 08512 तिष्ठत्य् आत्मा न तस्य / 08513 भेदः / स्थान-अस्थानयोर् एकात्म-आश्रयत्वे को अन्यो धर्मो भेदक 08514 इति नानात्वम् एव क्वचिन् न स्यात् / सर्व-आकार-विवेक अविवेकिनोर् वा अर्थयोर् 08515 अभ्युपगमान् नाम केवलं न इष्टं स्यान् न वस्त्व् 08516 इत्य् उक्तम् / तद् इमे न एकयोगक्षेमा भावाः भिन्ना एव 08517 अतो न स्यात् सामान्य-भेद-धीः //168//
08518 तद् इदम् अर्थ-अन्तरम् अनायत्तम् अजन्यत्वाद् अस्य इदं सामान्यं 08519 भेदो वा इति व्यपदेशं न अर्हति / अन्यापोहे अप्य् एष तुल्यः प्रसङ्ग 08520 इति चेत् / न तुल्यः / यतः / 08521 निवृत्तेर् निःस्वभावत्वान् न स्थान-अस्थान-कल्पना / 08522 न ह्य् अन्यापोहो नाम किंचित् तस्य च स्वभाव-अनुषङ्गिण्यः 08523 स्वभाव-स्थित्i-pracyuti-kalpanआ न कल्पन्ते / 08524 उपप्लवश् च सामान्य-धियस् तेन अप्य् अदूषणा //169//
08525 निर्विषयम् एव खल्व् इदं मिथ्या-ज्ञानं यद् अनेकत्र एक-आकारम् 08601 इति न तद्-विषयस्य अभावात् स्थितिर् अस्थितिर् वा / यत् पुनर् एतद् उक्तं 08602 तज्-जनको हि स तस्य स्वभावः 08603 यत् तस्य जनकं रूपं ततो अन्यो जनकः कथम् / 08604 तत्र न ब्रूमो अन्यस्य तज्-जनकं रूपं न अस्ति इति / किं तर्हि / 08605 यद् एकस्य तज्-जनकं तद् अन्यस्य न इत्य् अन्यो अपि स्वरूपेण एव 08606 जनको न पररूपेण अतत्त्वात् / ते यथास्वं भिन्नाश् च तज्-जनकाश् 08607 च स्वभावेन इति को अत्र विरोधः / एक-रूप-विकलस् तद्-रूपो 08608 न स्यात् न अतत्-कार्यः / तेन एव च तत्-कार्यं कर्तव्यम् इति को 08609 अत्र न्यायः / अपि च / 08610 भिन्ना विशेषा जनका / 08611 इत्य् उक्तम् / न च ते विशेषास् तेन आत्मना परस्परम् अनुयन्ति / 08612 यद् एकस्य जनकं रूपम् अन्यस्य तन् न अस्ति / न च तावता 08613 अजनकाः / 08614 अप्य् अभेदो अपि तेषु चेत् //170//
08615 स्याद् एतत् सत्यं विशेषा जनकाः न पुनस् तेषां विशिष्टम् एव 08616 रूपं किं त्व् अभिन्नम् अपि तद्-एक-शक्ति-योगाज् जनकाः / 08617 तेन ते अजनकाः प्रोक्ताः / 08618 सत्य् अपि सामान्ये रूपे न तेन ते जनकास् तस्य अनपायाद् एक-स्थिताव् 08619 अपि कार्य-उत्पत्ति-प्रसङ्गाद् इत्य् उक्तं प्राक् / किं च / 08620 प्रतिभासो अपि भेदकः / 08621 अनन्य-भाक् / 08622 उत्पत्त्i-sthiti-vinआश-आदि-भेदश् न इत्य् अपि-शब्दात् / यो अयम् अभिन्नान् 08623 सर्व-अर्थान् मन्यते तस्य अयम् अर्थेषु बुद्धि-प्रतिभास-भेदो 08624 विरुद्ध-धर्म-अध्यासश् च न स्यात् / सति वा तस्मिन्न् अभेदे अपि 08625 न कश्चिद् भेदः स्यात् / तथा च अयं प्रविभागो न स्याद् एकात्म-वत् / 08626 तस्माद् अयं भिन्न-प्रतिभास-आदिर् विशेष एव / न च अत्र अपरम् 08627 अभिन्नं प्रतिभासं पश्यामो यद्-बलेन अभेद-प्रतीतिः 08628 स्यात् / अतो विशेष एव / 08701 स एव अर्थस् तस्य व्यावृत्तयो अपरे //170//
08702 तत्-कार्यं कारणं च उक्तं तत् स्वलक्षणम् इष्यते / 08703 तत्-त्याग-आप्ति-फलाः सर्वाः पुरुषाणां प्रवृत्तयः //172//
08704 यद् अर्थक्रियाकारि तद् एव वस्त्व् इत्य् उक्तम् / स च विशेष एव / 08705 यत् पुनर् एतत् सामान्यं नाम तत् तस्य एव अपरस्माद् भेदः / 08706 न हि तस्य अर्थत्वे दृश्यस्य रूप-अनुपलक्षणं युक्तम् / तद्- 08707 उपलक्षण-कृतत्वाद् भेदेष्व् अभिन्न-प्रत्ययस्य / अपि च / 08708 यथा अभेद-अविशेषे अपि न सर्वं सर्व-साधनम् / 08709 तथा भेद-अविशेषे अपि न सर्वं सर्व-साधनम् //173//
08710 यद् उक्तम् / कथं तज्-जनक-स्वभावाद् भिन्नो अस्य जनकः 08711 स्यात् / जनकत्वे वा अविशेषात् सर्वो जनकः स्याद् इति / उक्तम् 08712 अत्र / यद्य् अविशेषः स्यात् स्याद् एतद् इति / यथा च अस्य स्वयम् 08713 अभेद-वादिनो अभेद-अविशेषे अपि न सर्वः सर्वस्य जनक इति तथा 08714 भेद-अविशेषे अपि भविष्यति / अथवा / 08715 भेदे हि कारकं किंचिद् वस्तु-धर्मतया भवेत् / 08716 अभेदे तु विरुध्येते तस्य एकस्य क्रिया-अक्रिये //174//
08717 भेद-मात्र-अविशेषे अपि स्व-हेतु-प्रत्यय-नियमित-स्वभावत्वात् केचिद् 08718 एव कारकाः स्युः न अन्ये अतत्-स्वभावत्वाद् इत्य् अत्र न एव किंचिद् 08719 विरुद्धम् अस्ति / एकत्वे तु तस्य तत्र एव तथा कारकत्वम् अकारकत्वं 08720 च इति व्याहतम् एतत् / 08721 भेदो अप्य् अस्त्य् अक्रियातश् चेन् न कुर्युः सहकारिणः / 08722 न वै सर्व-आकार-अविवेकं ब्रूमो भेदस्य अपि भावात् / तस्मात् 08723 कश्चिद् अकारको अपि इति / तथा अपि कथंचिद् भेदात् सहकारिणो 08724 अकारकाः स्युः / 08725 पर्यायेण अथ कर्तृत्वं स किं तस्य एव वस्तुनः //175//
08726 अथ अपि स्यान् न एव कश्चिद् अकारको अस्ति / सर्वेषां सर्वत्र पर्यायेण 08727 उपयोगात् / शक्तेर् वा विपरिणतायास् तन्-निवेशिन्या रूप-अन्तरेण 08728 उपयोगात् / स एव खल्व् अयं पर्यायो भेद-आश्रय एकस्य कथम् / 08801 परिणामो वा अव्यतिरेकिण्याः / विशेषे वा कथंचिद् एकत्व- 08802 हानिर् इति यत् किंचिद् एतत् / किं च / 08803 अत्यन्त-भेद-अभेदौ च स्यातां तद्वति वस्तुनि / 08804 अन्योन्यं वा तयोर् भेदः सदृश-असदृश-आत्मनोः //176//
08805 भावाश् चेद् अभिन्नेन आत्मना स्वात्मभूतेन भेदिनस् तद्वन्तः 08806 स्युः तd-abhinna-svabhआव-आत्मत्वाद् भेदस्य अपि कुतः परस्परं 08807 भेदः / अथ न स तस्य समान आत्मा / तथा सति तदात्मना 08808 तेन अपि न युक्तं तथा भवितुम् / तथा अभावे ह्य् अतद्- 08809 धर्मा स्यात् / न ह्य् अयं प्रवृत्ति-निवृत्तिमान् स्वभाव एको युक्तः / 08810 न सर्वात्मना अभेद एव / 08811 तयोर् अपि भवेद् भेदो यदि / 08812 न हि क्वचिद् अस्य एकान्तिको भेदो अभेदो वा विवेकेन व्यवस्थापनात् / 08813 सामान्यं विशेष इति / 08814 येन आत्मना तयोः / 08815 भेदः सामान्यम् इत्य् एतद् यदि भेदस् तदात्मना //177//
08816 भेद एव / 08817 यदि सामान्य-विशेषयोर् यम् आत्मानम् आश्रित्य सामान्यं विशेष 08818 इति स्थितिस् तेन आत्मना भेदस् तदा भेद एव / यस्मात् तौ हि 08819 तयोः स्वात्मानौ तौ चेद् व्यतिरेकिणौ व्यतिरेक एव सामान्य- 08820 विशेषयोः स्वभाव-भेदात् / स्वभावो हि भाव इति / 08821 तथा च स्यान् निःसामान्यविशेषता / 08822 भेद-सामान्ययोर् यद्वद् घट-आदीनां परस्परम् //178//
08823 व्यतिरेके च भेद-सामान्ययोर् न भेदः सामान्यान् न सामान्यं 08824 भेद-वत् सम्बन्ध-अभावात् परस्परं घट-आदि-वद् 08825 इत्य् उक्तम् / अपि च / 08826 यम् आत्मानं पुरस्कृत्य पुरुषो अयं प्रवर्तते / 08827 तत्-साध्य-फल-वाञ्छावान् भेद-अभेदौ तद्-आश्रयौ //179//
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
