Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
कार्य स्वभावहेतुभ्यामनधिगतस्येति शेषह् । यदोपलब्धिलक्षणप्राप्तं यदि स्याद्, अवश्यमुपलभ्येत इति व्यतिरेक उच्यते, तदोपलभ्दिलक्षणप्राप्तस्यानुपलम्भे सामर्थ्यात्रास्तीति प्रतीतिजयिते । तस्मादन्वयसिद्धिराक्षिप्त एव । एवमन्वयाक्षेप उक्तः । अनुपलब्धौ व्यतिरेकाक्षेपस्तु स्वयं द्रष्टव्य इति ॥ 33 ॥
साधर्म्यवति वैधर्म्यवति चानुमाने उभयत्राइ पक्षनिर्देशो नास्ति । एवं च पक्षानिर्धेशाभाव एव कल्प्यत इति चेत्? तत्राह- द्वयोरपीति । अवश्यमेव पक्षो निदेह्स्यः इति यो नियमः, स तु नास्ति ॥ 34 ॥ अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः कि शब्दप्रयोगेण । एकमेवान्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥ 32 ॥
अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः । यत् सद् उपलब्धिलक्षणप्राप्तमिति । साध्यस्य असद्वयवहारयोग्यत्वस्य निवृत्ति दृश्यसत्त्वरूपामाह । तदुपलभ्यत एवेति । अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्या व्याप्ता दर्शिता । यदि च साधनसम्भवे ऽपि साध्यनिवृत्तिर्भवेत् न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्तिं प्रतिपद्यमानेन साधनसम्भवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह- अनुपलभ्यमानं तादृशमिति । दृशयम् । असदिति प्रतीतेः सम्प्रत्यात् अन्वयसिद्धिरिति ॥ 33 ॥
यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्य तदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात् पक्षो ऽवश्यमेव न निर्धेश्यः । यत् साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात् साध्यप्रतीतिः । अतो न किञ्चित् साध्यनिर्दशनेति ॥ 34 ॥
35 यस्मात् साधर्म्यवत्प्रयोगे ऽपि यदुपलब्धिलक्षणप्राप्तं तन्नोपलभ्यते सो ऽसद्वयवहारविषयः । नोपलभ्यते चात्रापि उपलब्धिलक्षणप्राप्तो घट इति सामर्थ्यादेव इह घटो नास्तीति भवति ॥
36 तथा वैधर्म्यवत्प्रयोगे ऽपि यः सद्वयवहारविषय उपलब्धिलक्साणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति ॥
उपलब्धिलक्षणर्पाप्तो यावान्नोपलभ्यते स सर्वो ऽसद्वयवहारविषय इति निखिलपदार्थोसंहारेण अन्वयः कार्य इति । निखिलपदार्थोपसंहारेणान्वयो यत्र च पक्षधर्मः इत्येतयोनिर्देश तच्च साध्यं तत्र सामर्थ्येन सिद्धयतीति पक्षनिर्देशस्य किं प्रओजनम्? ॥ 35 ॥
निखिलपदार्थोपसंहारेण यो व्यतिरेकनिर्देशः पक्षधर्मश्चेति तदुभयसामर्थ्येन प्रतिज्ञाप्रतीतेनं प्रतिज्ञानिर्देशः । अन्यथा यन्न प्रतीयते तन्निदिश्येत । यदा सामर्थ्येन प्रतिज्ञार्थप्रतीतिर्जायते तदा प्रतिज्ञावचनश्रवणे उपरोधेनापि क आग्रही स्यात् । एवं च यदा सामर्थ्येन वितर्कविषयार्थविनिश्चयः, पक्षधर्मव्याप्तिनिर्देशबलाच्च प्रतिज्ञार्थावगमस्तत्र पक्षनिर्देशेन किम्? एतच्च विनिश्चयवचनाभिधाने द्रष्टव्यम् । प्रपञ्चा एनमेवार्थमनुपलब्धिप्रयोगे दर्शयति यस्मादिति । साधर्म्यवति प्रयोगे ऽपि सामर्थ्यादेव नेह प्रदेशे घटः इति भवति ।
कि पुनस्तत्सामर्थ्यम्? इत्याह- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति अनुपलम्भानुवादः सो ऽसद्वयवहारविषय इति । असद्वयवहरयोग्यत्वविधिः ।तथा च सति दृश्यानुपलम्भो ऽसद्वयवहारयोग्यत्वेन व्याप्तो दर्शितह् । नोपलभ्यते च इत्यादिना साध्यधर्मिणि सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत्, साधनधर्मो ऽपि न भवेत् । साध्यनियतत्वात् तस्य साधनधर्मस्येति सामर्थ्यम् ॥ 35 ॥
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगे ऽपि नेह सद्वयवहारविषयो ऽस्ति घट इति भवति ।
सामर्थ्य दर्शयितुमाह- यः सद्वयवहारविषय इति । विदयमानः । उपलब्धिलक्षणप्राप्त इति । दृश्य इत्येषा साध्यनिवृत्तिः । स उपलभ्यत एवेति । साध्यनिवृत्तिरिति । अनेन च साध्यनिवृतिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथान्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति । दृश्यो घटः । उपलभ्यते इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती साध्यधर्मिणि दर्शिता । यदि च साध्यधर्मः साध्यधर्मिणि न स्यात् साधन
37 कीदृशा पुनः पक्ष इति निर्देश्यः ॥
38 स्वरूपेणैव स्वयमिष्टो ऽनिराकृतो निर्देश्यः पक्ष इति ॥
39 स्वरूपेणेति साध्यत्वेनेष्ट इति ॥
40 स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि ॥
भिधानार्थे पक्षनिर्देशे च दोषः को ऽपि नास्ति । अत एव नियमो नेत्युक्तम् । यदि पुनः सर्वथा पक्षनिर्देशप्रतिषेध एवाभिर्पेतः स्यात्, तर्हि वचनमेतदवश्यं नोपदिश्येत इत्युक्तं भवतीति ॥ 36 ॥
यदि विनिश्चयवचनाभिधाने च पक्षनिर्देश इति उच्यते, यत्र प्रपञ्चाभिधानं तत्र निर्देशः, तर्हि कीदृग्लक्षणविशिष्टः पक्षत्वेनाभिधेय इति चेद्? आह- कीदृश इति ।
यश्चार्थो वादयभिमतेन विषयीकृतः साध्यरूपेणैव निर्दिश्यते, तथा प्रत्यक्षादिना च न निराक्रियते तादृशो ऽर्थः पक्ष इति अभिधेयः । एव समासार्थः ॥ 38 ॥
अवयवार्थस्तु- स्वरूपेणेति । साध्यरूपेण विना अन्यरूपेण न युज्यते इति स्वरूपेणोक्तमेव साध्यत्वेनावगन्तव्यमिति ॥ 39 ॥ अनयोक्त्या केवलसाध्यरूपेण निर्देश्यस्यैव पक्षत्वेनाभिधानम् । अन्यरूपेण निर्देश्यस्य तु नेति ॥ 40 ॥
धर्मो ऽपि न भवेत् । अस्ति च साधनधर्म इति सामर्थ्यम् । अतः सामर्थ्यात् नास्त्यत्र घट इति प्रतीतेन पक्षनिर्देशः । एवं कार्य स्वभावहेत्वोरपि समर्थ्यात् सम्प्रत्यय इति न पक्षनिर्देशः ॥ 36 ॥
कीदृशः पुनरर्थः पक्ष इति । अनेन शब्देन निर्देश्यो वक्तव्यः?: इति ॥ 37 ॥
आप-स्वरूपेणैवेति । साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति । नोक्त एव, अपि त्विष्टो ऽपीत्यर्थः । एवम्भूतः सन् प्रत्यक्षादिभिः अनिराकृतो यो ऽर्थः स पक्ष इत्युच्यते ।
अथ यदि पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम्? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तम्, अपि त्वसाध्ये केचित् साध्यम्, साध्यं चा साध्यमिति । केचित् प्रतिपन्नाः, तत्साध्यासाध्यप्रतिपत्तिनिराकरणार्थ पक्षलक्षणमुक्तम् ॥ 38 ॥
स्वरूपेणेष्ट इत्यस्य विवरणम्- स्वरूपेणेति । साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वान्नापरमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ॥ 39 ॥
एवशब्दं विवरीतुमाह- स्वरूपेणैवेति । ननु चैवशब्दः केवल एव
41 यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे ऽसिद्धत्वात् साध्यं भवतीति न पुअन्रत्र साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् ॥
42 स्वयमिति वादिना ॥
43 यस्तदा साधनमाह ॥
साध्यरूपान्यरूपविशिष्टस्य निर्देशः कीदृशः? इति चेदाह-यथेति ।
यः शब्दः सो ऽनित्यः इत्युच्यमाने तच्च चाक्षुषत्वं शब्दे ऽसिद्धमिति साध्यं भवति । तस्मात् स्वरूपेणैवेति निर्देशाभावे चाक्षुषत्त्वनिर्देशस्यापि पक्षत्वप्रसङ्गः ।
यदि तस्मिन् साध्यरूपमस्त्येव, कस्मान्न पक्ष इति चेद्? आह- अत्रेति ।
चाक्षुषत्वे साध्यरूपता अस्त्येव । तथापि हेतुत्वेन निर्देशान्न केवलं साध्यस्वरूपत्वमेव । साधनरूपताप्यस्ति । तस्मात् साध्यत्वे ऽपि अतिरिक्तसाधनरूपसत्त्वादधिकवचनस्य पक्षत्वं निरस्तम् ॥ 41 ॥ साधनं कथयता स्वयं निर्देश्यो यो ऽर्थः स एव पक्षः, शास्त्रकारेण निर्देश्यस्तु नेति शेषः ॥ 42 ॥ प्रत्यवम्रष्टव्यः, तत् किमर्थ स्वरूपशब्देन सह प्रत्यवमुष्टः? उच्यतेः एवशब्दो निपातो दयोतकः । पदान्तराभिहितस्यर्थस्य विशेष दयोतयति- इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्धिष्टं तत् साधनत्वेनेष्टम् । असिद्धत्वाच्च साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थम् एवशब्दः ॥ 40 ॥
तदुदाहरति- यथेति । शब्दयानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्दे ऽसिद्धत्वात् साध्यम् इत्यनेन साध्यत्वेनेष्टिमाह । तद् इति चक्षुषत्वम् । इहेति शब्दे । साध्यत्वेनैवेष्टमिति । साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्टम्, न साध्यत्वेनैवेति ॥ 41 ॥
स्वयमित्यनेन स्वयं शब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह- स्वयमिति । स्वयंशब्दो निपातः आत्मनः इति षष्ठयन्तस्य आत्मना इति च तृतीयान्तस्यार्थे वर्तते । तदिह स्वात्मशब्दस्यार्थे वृत्तः स्वयं शब्दः । आत्म शब्दश्च सम्बन्धिशब्दः । वादी च प्रत्यासन्नः । ततो यस्य वादिन आत्मा तृतीयार्थ युक्तः, स एव तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । न तु स्वयंशब्दस्य वादिना इत्येष पर्यायः ॥ 42 ॥
कः पुनरसौ वादी? इत्याह- यस्तदेति । वादकाले, साधनमाह । अनेक
44 एतेन यदयपि क्वचित् शास्त्रे स्थितः साधनमह, तच्चास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमे ऽपीति यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति ॥
45 इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्चता सो ऽनुक्तो पि वचनेन साध्यो भवति ॥ तेनेति वादिना निर्देश्य एव पक्ष उच्यते ॥ 43 ॥ कश्चित् क्वचित् शास्त्रे स्थितः पक्षे कृतनिश्चय एव । अस्तु तादृशो निश्चयः, तथापि यदि शास्त्रादुद्धृत्य प्रमाणिक्रियते इति शेषः ।
वादी यस्मिन् शास्त्रे साधनं कथयति तच्चास्त्रकारेण वितर्कविषयधर्मिणि यदि बहवो धर्मा अङ्गीक्रियन्ते, तथापि च । वादिनैव यो धर्म साधयितुमिष्टः स एव साध्यः । शास्त्रकारेरोष्टस्तु न यस्माद् वादिना निर्देश्यस्य पक्षत्वमङ्गीक्रियते तस्माद् वादिना शास्त्राङ्गीकारद्वारेणोपकारको यो धर्मः परिष्कर्तुमिष्यते स एव साध्यः, शास्त्रकारेणाङ्गीकृतस्तु न- इत्यनेन वचनेनोक्तं भवति ॥ 44 ॥
वादिसम्भवे ऽपि स्वयं शब्दवाच्यस्य, वादिनो विशेषणमेतत् । यदयवम्, वादिनः इष्टः साध्यः इत्युक्तम्, एतेन च किमुक्तेन? अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः, स एव साध्यः, नेतरो धर्मः- इत्युक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् ॥ 43 ॥
अथ कस्मिन् सति अन्यधर्मसाध्यत्वस्य सम्भवः, यन्निवृत्तयर्थ तद् वक्तव्यम्? इत्याह- तच्चास्त्रकारेणेति । यच्चास्त्रं तेन वादिनाभ्युपगतं तच्चास्त्रकारेण तस्मिन् साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वसम्भवः । तथा हि- शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः, अनेनापास्यते । अनेकधर्माभ्युपगमे ऽपि सति स एव साध्यो यो वादिना इष्टः, नान्य इति । ननु च शास्त्रानपेक्षं वस्तुवलप्रवृतं लिङ्गम्, अतो ऽनपेक्षणीयत्वान्न शास्त्र स्थित्वा वादः कर्तव्यः? सत्यम्ः आहोपुरुषिकया तु यदयपि क्वचिच्चास्त्रे स्थित इति किञ्चिच्चास्त्रमभ्युपगतः साधनमाह, तथापि य एव तस्येष्टः स एव साध्यः इति ज्ञापनायेदमुक्तम् ॥ 44 ॥ इष्टशब्दमुक्षिप्य व्याचष्टे- इष्ट इति । यत्रार्थ आत्मनि विरुद्धो
46 तदधिकरणत्वाद् विवादस्येति ॥
47 यथा परार्थाश्चक्षुरादयः सङ्घातत्वात् शयनासनादयङ्गवदिति ।
अत्र आत्मार्था इत्यनुक्ते ऽपि आत्मार्थतैव साध्यं भवतीति । तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति ॥
इष्टशब्दार्थ आख्यायते । यस्मिन् वस्तुनि विवाद उत्पन्नः, विवादाधिकरणं तद् वस्तु साधयितुमिच्चता साध्यत्वेनोपन्यस्तो ऽर्थ एवेष्ट इति । यदि वितर्कविषयार्थो ऽसो वचनेन नाभिधीयते, तथापि स एव साध्यो भवति ॥ 45 ॥ तच्च कस्माद् इति चेद्? आह- तदधिकरणत्वादिति । तत एव यस्माद् विवादः कथमसौ विवाद एव साध्यो न स्यात् ॥ 46 ॥ यच्च विवादाधिकरणं तद् वचनेनानुक्तमपि साध्यमेवेष्यत इति कथम् इति चेद्? तथाह- यथेति ।
वादः प्रक्रान्तः- नास्ति आत्मा इत्यात्मप्रतिषेधवादः आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तन्, तस्यात्मार्थस्य सिद्धि निश्चयम् इच्चता वादिना सो ऽर्थः साध्य इत्युक्तं भवति- इष्टशब्देन । यत् तद् इत्युक्त भवति इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं समापयितव्यम् । यद्यपि परार्थानुमाने उक्त एव साध्यो युक्तः, अनुक्तो ऽपि तु वचनेन साध्यः, सामर्थ्योक्तत्वात् तस्य ॥ 45 ॥ कुत एतद्? इत्याह- तदिति । सो ऽर्थः अधिकरणम्= आश्रयो यस्य स तदधिकरणो विवादः, तस्य भावस्तत्त्वम्, तस्मादिति ।
एतदुक्तं भवति- यस्माद् विवादं निराकर्तुमिच्चता वादिना साधनमुपन्यस्तम्, तस्माद् यद् अधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुक्पन्यस्तं तच्चेत् न साध्यम्, किमिदानीं जातिनियतं किञ्चित् साध्यं स्यादिति ॥ 46 ॥
अनुक्तमपि परार्थानुमाने साध्यमिष्टम्, तदुदाहरति- परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्मायिमे परार्था इति साध्यं पारार्थ्यम् । सङ्घातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं च शयनासदाद्यङ्गवदिति । शयनम् आसनं च ते आदौ यस्य तच्चयनासनादि पुरुषोपभोगाङ्गं सङ्घातरूपम् । तद्वदत्र प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता । अनुक्तावप्यात्मार्थता साध्या ।
48 अनिराकृत इति- एतल्लक्षणयोगे ऽपि यः साधयितुमिष्टो ऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्वचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् ॥
49 तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्दः इति ॥ यथा शयनासनादीन्यङ्गानि सङ्घातरूपत्वात् परार्थानि दृष्टानि, तथा चक्षुरादयो ऽपि सङ्घातरूपत्वात् परार्था एवेति प्रयोगार्थः ॥ 47 ॥ अस्मिन् प्रयोगे यदयपि चक्षुरादय आत्मार्था इति नोक्तम्, तथापि आत्मार्थतैव साध्यते । अन्यथा परार्थत्वमात्रे साध्ये सिद्धसाधनं स्यात् । आत्मनि (आत्मार्थतायाम्) विप्रतिपत्त्या साध्यत्वेन उपस्थाप्यते । तस्मात् तदेव साध्यं भवति ।
यस्मादेवमनुयुक्तमपीष्टत्वेन विषयीकरणात् साध्यत्वेनैवष्टम्, तस्मात् केवलमुक्तमेव न साध्यं भवति । कथमिति चेत्? यस्मादिष्टत्वेन विषयीकृतमपि साध्यमेव ॥ 48 ॥
तथा हि साङ्खयनोक्तम्- अस्ति आत्मा, तद्विरुद्धं बौद्धेनोक्तम्- नास्त्यात्मा इति, ततः साङ्खयेन स्ववादविरुद्धं बौद्धवादं हेतूकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतो ऽनुक्तावप्यात्मार्थता साध्या, तदशिकरणत्वाद् विवादस्य । शयनासनादिषु हि पुरुषोपभोगाङ्गेषु आत्मार्थत्वेनाव्वयो न प्रसिद्धः । सङ्घातत्वस्य पारार्थ्यमात्रेण तु सिद्धः । ततः परार्था इत्युक्तम् ।
चक्षुरादय इति । अत्रादिग्रहणाद् विज्ञानमपि परार्थ साधयितुमिष्टम् । विज्ञानाच्च परआत्मैव स्यात् ।
परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यात् आत्मार्थत्वं सिध्यति चक्षुरादीनाम्- इति मत्वा परार्थग्रहणं कृतम् । तेन इष्टसाध्यत्ववचनेन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद् वादिनः साधयितुमिष्टम् उक्तमनुक्तं वा प्रकरणगम्यं साध्यम्- इत्युक्तं भवति ॥ 47 ॥
अनिराकृत इति । व्याख्येयम् । एतदिति । अनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तम्- साध्यत्वेनेष्टः इत्यादि, एतल्लक्षणेन योगे ऽप्यर्थो न पक्ष इति प्रदर्शनार्थम् प्रतिपादनाय अनिराकृतग्रहणं कृतम् । कीदृशो ऽर्थो न पक्षः साधयितुमिष्टो ऽपि? इत्याह- यः साधयितुमिष्टो ऽर्थः प्रत्यक्षं च अनुमानं च प्रतीनिश्च स्ववचनं च- एतैर्निराक्रियते विपरीतः साध्यते, न स पक्ष इति ॥ 48 ॥ तत्रेति । तेषु चतुर्षु प्रत्यक्षादिनिराकृतेषु प्रत्यक्षनिराकृतः कीदृशः? यथिति । यथायं निराकृतस्तथान्ये ऽपि द्रष्टव्या इति यथाशब्दस्यार्थः ।
50 अनुमाननिराकृतो यथा- नित्यः शब्द इति ॥
51 प्रतीतिनिराकृतो यथा- अचन्द्रः शशी इति ॥ यथोक्तलक्षणयुक्तो ऽप्यर्थो यदि साधनदशायां प्रत्यक्षानुमानप्रसिद्धिस्ववचनैर्निराक्रियते, तदा सो ऽर्थः पक्षो न भवतीति प्रदर्शनार्थमनिराकृत इत्युक्तम् ॥ 48 ॥ अत्र श्रवणम्= आकर्णनम् । कर्णविज्ञानमिति शेषः । श्रावणप्रतीर्तिर्वा । श्रवणेन ग्राह्यः श्रावणः । न श्रावणः अश्रावणः । कर्णविज्ञानेन अप्रतीत इति शेषः । तथा चात्र शब्दो धर्मी । अश्रावणत्वै साध्यधर्मः । अश्रावणः शब्दः इति पर्तिज्ञा तु प्रत्यक्षेण निराक्रियते। तथा हि- कर्णविज्ञानस्य शब्दप्रकाशकत्वं प्राणीभिः सर्वैः स्वयमवगम्यते । तेन शब्दे श्रावणत्वस्य स्वकीयज्ञानेन प्रतीतेरश्रावणत्वं निराक्रियते ॥ 49 ॥
अत्र- घटस्य नित्यत्वं प्रतिज्ञातं कृताद्यनुमानेन निराक्रियते । तथा हि कृतकमनित्यं दृष्टम्, घटो ऽपि कृतक इति, तेन कुतो नित्यत्वम् ॥ 50 ॥
यदि केनचित् शशी न चन्द्रशब्दभिधेयः इति प्रतिज्ञा क्रियते, स तु शशी चन्द्रशब्दाभिधेय एव इति प्रसिद्धया निराक्रियते । अपि च सर्वेष्वर्थेषु सर्वस्य शब्दस्य वाच्यतयापि निराक्रियते । शब्दार्थसम्बन्धस्य सङ्केतसूचितत्वात् । यथा घटस्थापि चन्द्रशब्दाभिधानयोग्यता ॥ 51 ॥
श्रवणेन ग्राहयः श्रावणः, न श्रावणो ऽश्रावणः । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थेः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन श्रोत्रग्राह्यत्वेन बाध्यते ॥ 49 ॥
अनुमाननिराकृतो यथा- नित्यः शब्द इति । शब्दस्य प्रतिज्ञातं नित्यत्वम् अनित्यत्वेनानुमानसिद्धेन निराक्रियते ॥ 50 ॥
प्रतीत्या निराकृतः अचन्द्र इति चन्द्रशब्दवाच्यो न भवति । शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतो ऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः = प्रतीतत्वम्, विकल्पविज्ञानविषयत्वमेच्यते । तेन विकल्पज्ञानेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथाहि-
यद्विकल्पविज्ञानग्राह्यं तत् शब्दाकारसंसर्गयोग्यम् । यच्चब्दाकारसंसर्गयोग्यं तत् साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वम्, अचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद् विकल्पविषयत्वमात्रानुबन्धनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वम् अवाच्यत्वस्य बाधकं द्रष्टव्यम् ॥ 51 ॥
52 स्ववचननिराकृतो यथा- नानुमानं प्रमाणम् इति ॥
केनचिद् अनुमानं प्रमाणं न भवति इत्युच्यमाने तत् स्ववचनेन विरुद्धम् । अनुमानं प्रमाणमेव यदि न स्यात्, एतत् वचनमपि न वक्तव्यम् । तथा हि वाक्यमपि अनुमानन्तभूर्तमेव । अनुमानं च यदि प्रमाणं न स्यात् वाक्यं तावत् कुतः प्रमाणम् । तद् वाक्यमप्रमाणं चेत्, कस्मादुच्यते इति स्ववचनेन विरुद्धम् ॥ 52 ॥
स्ववचनं प्रतिज्ञार्थस्यात्मौयो वाचकः शब्दः, तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा नानुमानं प्रमाणमिति । अत्र अनुमानस्य प्रामाण्यनिषेधः पर्तिज्ञार्थः । स नानुमानं प्रमाणम् इत्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत् प्रयुज्यमानं वक्तुः शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथा हि- मद्वाक्याद् यो ऽर्थसम्प्रत्ययस्तवोत्पद्यते सो ऽसत्यार्थः इति दर्शयन् वाक्यमेव नोच्चारयेद् वक्ता, वचनार्थश्चेदसत्यः परेण ज्ञातव्यः, ववनमपार्थकम् । यो ऽपि हि सर्व मिथ्या ब्रवीमि इति वक्ति, सो ऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यदि एतद् वाक्यं सत्यार्थत्वमादर्शितम्, एवं वाक्यान्तराण्यात्मायान्यसत्यार्थानि दर्शितानि भवन्ति । एतदेव तु यद्यसत्यार्थम्, अन्यान्यसत्यार्थानि न दर्शतानि भवन्ति । ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद् वाक्यप्रभववाक्यार्थालम्बनं विज्ञानं सत्यार्थ दर्शयन्नेव् वक्ता वाक्यमुच्चारयति । तथा च सति वाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्यार्थकार्याच्चब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।
तस्मात् नानुमानं प्रमाणम् इति ब्रुवता शाब्दस्य प्रत्ययस्यासत्रार्थो ग्राह्य उक्तः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्च अथाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नर्थो दर्शितः । ततः कल्पितादर्शकार्याच्चचब्दाच्चाब्दप्रत्ययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानमसत्त्वं प्रतिबध्नाति ।
तदेवं स्ववच्नानुमितेन सत्त्वेनासत्त्वं बाध्यमानं स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः । अन्ये त्वाहुः- अभिप्रायकार्याच्चब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्चतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यते इति ।
तदयुक्तम्ः यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्य
53 इति चत्वारा पक्षाभासा निराकृता भ्वन्तीति ॥
54 एवं सिद्धस्य, असिद्धस्यापि साधनत्वेनाभिमतस्य, तदा स्वयं वादिना साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्ययेण साध्य इति । तेनैव स्वरूपेण वादिन इष्टो ऽनिराकृतः पक्ष इति पक्षलक्षणमन वदयं दर्शितं भवति ॥
अत्रागमविरुद्ध स्ववचनविरुद्धे ऽन्तभूत इति सर्वे पक्षाभासाश्चत्वार इत्युक्तम् । किञ्च- आगमस्य वस्तुबलप्रवृत्ते ऽनुमाने ऽनाश्रयणीयतयाविरोधादपि उक्तम् । इति इति । उक्तप्रकारेण ॥ 53 ॥
अत्र विपरीतम् इति प्रत्येकं योजनीयम् । एतेन सिद्धस्य विपरीतम् असिद्धस्यापि विपरीतम्, साधनत्वेनाभिमतस्य विपरीतम्, तदा वादिना स्वयं साधयितुमनिष्टस्य विपरीतम्, उक्तमात्रस्य विपरीतम्, निराकृतमात्रस्य च विपरीतं पक्षत्वेन द्रष्टव्यमित्ययमर्थ उक्तो भवति । तथा च वैपरीत्यमुखेन पक्षलक्षणकथनमेतत् ।
हेतुत्वं कल्पितमिष्टम्, न वास्तवम् । अभिप्राकार्यत्वं च वास्तवमेव शब्दस्य ततस्तदिह न गृह्यते ।
किञ्चि- यथा अनुमानमिचन्, वह्नयव्यभिचारित्वं धूमस्य प्रत्येति, तथा शब्दस्याप्यभिप्रायाव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तत्र शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु बाह्यसत्त्वप्रतिपादनाय । तस्माद् बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रत्योगः । ततः पूर्वकमेव व्याख्यातमनवद्यम् ॥ 52 ॥ एवं च सति अनिराकृतग्रहणेन अनन्तरोक्ताश्चत्वारः पक्षवदवभासन्त इति पक्षाभासा निरस्ता भवन्ति ॥ 53 ॥ सम्प्रति पक्षलक्षणपदानि येषां व्यवच्चेदकानि तेषां व्यवच्चेदेन यादृशः पक्षार्थो लभ्यते, तं दर्शयितुं व्यवच्चेदयान संक्षिप्य दर्शयति- एवमिति । अनन्तरोक्तक्रमेण । सिद्धस्य विपर्ययेण विपरीत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादर्थात् सिद्धो ऽर्थो विपरीतः स साध्य इत्यर्थः । सिद्धश्च विपरीतो ऽसिद्धस्य । यस्मादसिद्धः साध्यः । असिद्धो ऽपि न सर्वः, अपि तु साधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण । स्वयं वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । तथा उक्तमात्रस्य असिद्धस्यापि विपर्ययेण । तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः ।
55 त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः ॥
56 उक्तावप्यसिद्धौ सन्देहे वा प्रतिपादयप्रतिपादकयोः ॥
तेनैव रूपेणेति । साध्यत्वेनैवेति शेषः । वादिना इष्ट इति । शास्त्रकारस्पेष्टो निरस्तः । इष्ट इति उक्तमात्रेमेव नेति प्रदर्शनार्थम् । अनिराकृत इति अपरिहारणीय इति शेषः । पक्ष इति । साध्य इति शेषः । इति पक्षलक्षणमनवदयं दर्शितं भवतीति । एव पक्षस्य लक्षणं दोषरहितमभितमिति । तदेवं यथार्थलक्षणकमनुमानं कृतव्याख्यानम् ॥ 54 ॥ अनुमानभासाभिधानानुज्ञार्थमाह- उक्तमिति ।
उक्त्वा हेत्वाभासासस्य सम्बन्ध उच्यते । तदा न्यूनमिति साधनदोषो भवति ॥ 55 ॥
त्रयाणां रूपाणां योग्यमेकमपि यदयुक्तमै वादिप्रतिवादिनोरसिद्धं सन्दिग्धं वा स्यत्, तदापि साधनाभासः, स्यात् । तदेवं साधनाभासयोगो दर्शितः ॥ 56 ॥
यश्चायं पञ्चभिर्व्यव्च्चेदयै रहितो ऽर्थोसिद्धो ऽसाधनं वादिनः स्वयं साधयितुमिष्ट उक्तो ऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासो स्वरूपेणैव स्वयमिष्टो ऽनिराकृत एतैः पदैरुक्त इत्यर्थः । यश्चायं साधय्ः स पक्ष इति उच्यते । इतिशब्द एवमर्थे । एवं पक्षलक्षणमनवदयमिति । अविद्यमानमवदयम्= दोषो यस्य तद् अनवदयम् । दर्शितं कथितम् ॥ 54 ॥
त्रिरूपलिङ्गाख्यानं परिसमापय्य, प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान् वक्तुकामस्तेषां प्रस्तावं रचयति- त्रिरूपेत्यादिना ।
एतदुक्तं भवति- त्रिरूपलिङ्गं वक्तुकामेन स्फुटं तद् वक्तव्यम् । एवं च तत् स्फुटमुक्तं भवति यदि तच्च, तत्प्रतिरूपकं चोच्यते । हेयज्ञाने हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थमौमानम् इति प्रागुक्तम् ।
तत्रेति । तस्मिन् सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः । त्रयाणां रूपाणां मध्ये एकस्याप्यनुक्तौ । अपिशब्दाद् द्वयोरपि । साधनस्य आभासः सदृशं साधनस्य, न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥ 55 ॥
न केवलमनुक्तावुक्तावप्यसिद्धौ सन्देहे वा । कस्य? इत्याह- प्रतिपावयस्य प्रतिवादिनः प्रतिपादकस्य च वादिनो हेत्वाभासः ॥ 56 ॥
57 एकस्य स्वरूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे वासिद्धो हेत्वाभासः ॥
58 यथा- अनित्यः शब्दः इति साध्ये चाक्षुषत्वमुभयासिद्धम् ॥
59 चेतनास्तरवः इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवादयसिद्धम् । विज्ञानेन्द्रियायुनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात् । तस्य च तरुष्वसम्भवात् ॥
विशेषकथनार्थमाह- एकस्येति ।
धर्मिणा सम्बन्धो धर्मिसम्बन्धः । पक्षधर्म इत्यर्थह् । तस्यासिद्धौ सन्देहे चासिद्धो नाम हेत्वाभासो भवति ॥ 57 ॥
दृष्टान्तनिर्देशर्थमाह- यथेति ॥ शब्दस्य चाक्षुषत्वं हि वादि- प्रतिवादिनोरुभयोरप्यननुमतम् ॥ 58 ॥ यदि दिगम्बरैरुक्तम्-वृक्षाः चेतनाः सर्वत्वगपहरणै मरणात् इति बौद्धैः प्रयोगते, तर्हि वृक्षाणां सर्वत्वगपहरणे मरणं बौद्धानामसिद्धम् । कस्मादसिद्धमिति चेद्? आह- विज्ञानेत्यादि ।
अथ कस्यैकस्य रूपस्यासिद्धौ सन्देहे वा किसंज्ञको हेत्वभासः?
इत्याह- एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः धर्मिसम्बन्धः । धर्मिणि सत्त्वं हेतोः तस्य असिद्धौ सन्देहे वा असिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुः, अपि त्वप्रतिपत्तिहेतुः । न कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थो ऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ॥ 57 ॥
उदाहरणमाह-यथेत्यादि । अनित्यः शब्द इत्यनित्यत्वविशिष्टे शब्दे साव्ये चाक्षुषत्वं चक्षुर्ग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोर सिद्धम् ॥ 58 ॥
चेतनास्तरव इति । तरूणां चैतन्ये साध्ये । सर्वा त्वक् सर्वत्वक् तस्या अपहरणे सति मरणं दिगम्बरैरूपन्यस्तं प्रतिवादिनो बौद्धस्य असिद्धम् ।
कस्मादसिद्ध? इत्याह- विज्ञानमित्यादि । विज्ञानं चेन्द्रियं चायुश्चेति द्वन्द्वः तत्र विज्ञानं चक्षुरादिजनितम् । रूपादिविज्ञानोत्पत्त्या यदनुमितं कार्यान्तर्भूतं चक्षुर्गोलकादिस्थितं रूपं तद् इन्द्रियम् । आयुरिति लोके प्राणा उच्यते । न चागमसिद्धिरिह युज्यते वक्तुम् । अतः प्राणस्वभावमायुरिह । तेषां निरोधो निवृत्तिः । स लक्षणं तत्त्वं यस्य तत् तथोक्तम्ः तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् ।
60 अचेतनाः सुखादयः इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा साङ्खयस्य स्वयं वादिनो ऽसिद्धम् ॥
विज्ञानं च इन्द्रियाणि च आयुश्चेति विग्रहः । तेषां विरोधो विज्ञानेन्द्रियायु निरोधः । स एव लक्षणं यस्य मरणस्य तद् विज्ञानेन्द्रियायुनिरोधलक्षणं मरणम् । बौद्धानां तु तथाविधं मरणमनुमतम् । न तु शोषमात्रम् । तादृशं हि मरणं वृक्षेषु न सम्भवतीति ॥ 59 ॥ यदा साङ्ख्यैरुक्तम्- सुखादयो ऽचेतनाः, उत्पत्तिमत्त्वादनित्यत्वात् इति बौद्धैः प्रमीयते, तदा सुखादिषूत्पत्तिरनित्यत्वं वा साङ्खयानां स्वयमेवासिद्धम्ः तस्य हि किमपि नोत्पद्यते, किमपि वा न विनश्यति ॥ 60 ॥ यदि नामैवम्, तथापि कथमसिद्धम्? इत्याह- तस्य च विज्ञानादिनिरोधात्मकस्य तरुष्वसम्भवात् । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्चेत्, स कथं विज्ञानं नेच्चेत् । तस्माद् विज्ञानानिष्टेर्निरोधो ऽपि नेष्टस्तरुषु ।
ननु च शोषो ऽपि मरणमुच्यते, स च तरुषु सिद्धः? सत्यम्ः केवलं विज्ञानसत्तया व्याप्तं यत् मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो यन्मरणं हेतुस्तत् तरुष्वसिद्धम् । यत्तु सिद्धं शोषात्मकं तदहेतुः ।
दिगम्बरस्तु साध्येन व्याप्तव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात् सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् प्रतिवादिनस्तु ज्ञातम्, अतो ऽसिद्धम् । यदा तु वादिनो ऽपि ज्ञातम्, तदा वादिनो ऽप्यसिद्धं स्यादिति न्यायः ॥ 59 ॥
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखादयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं वा लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तो ऽनित्या वा ते न चेतनाः, यथा रूपादयः । तथा च- उत्पत्ति मन्तो ऽनित्या वा सुखादयः तस्मादचेतनाः । चैतन्यं तु पुरुषस्य स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुः न युगपत् । तच्च द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पतिमत्त्वम्, सतश्च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् । तादृशं सांख्यस्यासिद्धम् । इहापि अनित्यत्वोत्पत्ति-
61 तथा स्वयं तदाश्रयणस्य वा सन्देहे ऽसिद्धिः ॥
62 यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातो ऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः ॥
63 यथा- इह निकुञ्जे मयूरः,केकायितादिति ॥ यदा हेतोरात्मनस्तदधिकरणस्य वास् अन्देहः, तदा असिद्धएत्वाभासो भवति ॥ 61 ॥ तत्र दृष्टान्तः- यथेति ।
वाष्प आदिर्यस्य स वाष्पादिः, तेषां भावो वाष्पादिभावः । वाष्पादिस्वरूपमिति शेष । भूतानां सङ्घातो भूअसङ्घातः । अग्निसिद्धौ हेतुः क्रियते चेद्? असौ वाष्पो वा धूलिर्वा कुहेलिका वा? इति वाष्पादिभावेन सन्दिह्यमानः असिद्धहेत्वाभासो भवति ॥ 62 ॥
तदाश्रय- सन्देहनिर्देशार्थमाह- यथेति ॥
मयूरध्वनिप्रवाहः= केकायितमिति । निकुञ्चः= पर्वतप्रदेशविशेषः । यदि केनचित् इह निकुञ्जे मयुरो ऽस्ति, केकायितादु इति प्रमीयते, तदा मयूरध्वनिस्तत्र तदभिमतानिकुञ्जे सन्दिग्ध एव ॥ 63 ॥
मत्त्वसाधनाज्ञानाद् वादिनो ऽसिद्धम् । यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रामाण्यं वादिना ज्ञातं स्यात्, तदा वादिनो ऽपि सिद्धं स्यात् । ततः प्रमाणाप्रैज्ञानादिदं वादिनो ऽसिद्धम् ॥ 60 ॥
सन्दिग्धासिद्धं दर्शयितुमाह- तथेति । स्वयमिति हेतोरात्मनः सन्देहे ऽसिद्धह् । तदाश्रयणस्य वेति । तस्य हेतोराश्रयणम् । आश्रीयते ऽस्मिन् हेतुरित्याश्रयणम्, हेतोर्व्यतिरिक्त आश्रयभूतः सध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते तस्यश्रयणस्य सन्देहे सन्दिग्धः ॥ 61 ॥
आत्मना सन्दिह्यमानमुदाहर्तुमाह- यथेति । वाष्प आदिर्यस्य स वाष्पादिः, तद्भावेन वाष्पादित्वेन सन्दिह्यमानो भूतसङ्घात इति । भूतानां पृथिव्यादीनां संघातः समूहः । अग्निसिद्धौ अग्निसिद्धयर्थमुपादीयमानो ऽसिद्धः ।
एतदुक्तं भवति- यदा धूमो ऽपि वाष्पादित्वेन सन्दिग्धो भवति, तदासिद्धः, गमकरूपानिश्चयात् । धुमतया निश्चितो वह्निजन्यत्वाद् गमकः । यदातु सन्दिग्धः, तदा न गमकः- इत्यसिद्धताख्यो दोषः ॥ 62 ॥
आश्रयणासिद्धमुदाहरति- यथेति । इह निकुञ्ज इति धर्मी । पर्वतो परिभागेन तिर्यङ्निर्गतेन प्रच्चादितो भूभागो निकुञ्जः । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितम्= मयूरध्वनि ।63 ॥
64 तदापातदेशविभ्रमे ॥
65 धम्यंसिद्धावप्यसिद्धः- यथा सर्वगत आत्मा इति सध्ये सर्वत्रो पलभ्यमानगुणत्वम् ॥
कथं सन्दिग्ध इति चेत्? आह- तदेति ।
मयूरध्वन्यापातदेशः सन्दिग्ध एव । स हि मयूरध्वनिः कस्मान्निकुञ्जप्रदेशान्निः सरतीत्यत्र संशय एव । 64 ॥
सर्वगतः निखिलव्यापी । विभुरिति शेषः । सर्वत्रोपलभमाना गुणा यस्येति विग्रहः । तस्य भावः सर्वत्रोपलभ्यमानगुणत्वम् । कश्चित् सर्वत्रोपलभ्यमानगुणत्वेन सर्वगतत्वमात्मनः साधयति । तत्राश्रयसिद्धो हेतुः । तथाहि- सर्वत्रोपलभ्यमानगुणत्वं यस्य धर्म उक्तः स आत्मैव नास्ति ।
अयं तु परसंवादः । सुखादय आत्मगुणा इति प्रसिद्धम् । ते च सर्वदेशस्य एव देवदत्त उपलभ्यन्ते । क्रियाभावादात्मनि गमनागमने न स्तः । यस्मात्तस्य गुणाः सर्वत्रोपलभ्यन्ते, तस्मात् नूनमात्मा सर्वत्र स्थित इति ॥ 65 ॥
कथमयमाश्रयणासिद्धः? इत्याह तदापात इति । तस्य केकायितस्य आपात आगमनम्, तस्य देशः स उच्यते यस्माद् देशादागच्चति केकायितम् । तस्य विभ्रमे व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे विभ्रमः- किमस्मान्निकुञ्जात् केकायितमागतम्? आहोस्विद् अन्यस्मादिति? तदायमाश्रयणासिद्ध इति ॥ 64 ॥
धर्म्मिण्ऽसिधावप्यसिद्धत्वमुदाहरति- यथेति । सर्वस्मिन् गतः स्थितः सर्वगतः । व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्व लिङ्गम् । सर्वत्र देशे उपलभ्यमानाः सुखदुःखेच्चारागद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते, गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्, कथं दर्क्षिणापथे उपलब्धः दुखादयो मध्यदेशे उपलभ्येरन् तस्मात् सर्वगत आत्मा ।
तदिह बौद्धस्य आत्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्य इत्यसिद्धौ हेत्वाभासः पूर्वमाश्रयणसन्देहेन धर्मिणि सन्देह उक्तः । सम्प्रति त्वसिद्धो धर्म्युक्त इत्यनयोर्विशेषः । तदेवमेकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धावसिद्धो हेत्वाभासः ॥ 65 ॥ 66 तथैकस्य रूपस्यासपक्षे सत्वस्यासिद्धावनैकान्तिको हेत्वाभासः ॥
67 यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः ॥ व्यतिरेकासिद्धौ अनैकान्तिको हेत्वाभासो प्रष्टव्यह् ॥ 66 ॥ दृष्टान्तनिर्देशार्थमाह- यथेति ॥
नित्यत्वमादिर्यस्य धर्मस्य स नित्य्त्वादिकः । तथा प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । शब्दो ऽनित्यः प्रमेयत्वात् इति साध्ये प्रमेयत्वं सपक्षविपक्षयोः सर्वत्रास्ति । शब्दो न प्रयत्नान्तरीयकः अनित्यत्वात् इति साध्ये, अनित्यत्यत्वं सपक्षस्य एकदेशे विपक्षस्य च सर्वत्रैवास्ति । शब्दः प्रयत्नान्तरीयकः, अनित्यत्वात् इति
तथा अपरस्यैकस्य रूपस्य असपक्षे ऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वाभासः ॥
एको ऽन्त एकान्तः= निश्चयः, स प्रयोजनमस्येति ऐकान्तिकः, नैकान्तिको ऽनैकान्तिकः । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयः, अपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयेहेतुरनकान्तिक उक्तः ॥ 66 ॥
तमुदाहरति- यथेत्यादिना । अनित्यत्वमादिर्यस्यामी अनित्यत्वादिको धर्मः । आदि शब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं च परिगृह्यते । प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदि शब्दादनित्यत्वम्, पुनरनित्यत्वम्, अमूर्तत्वं च गृह्यते । शब्दस्य धर्मिणो ऽनित्यत्वादिके धर्मे साध्ये प्रमेत्वादिको धर्मो ऽनैकान्तिकः । चतुर्णामपि हि विपक्षे ऽसत्त्वमसिद्धम् ।
तथा हि- अनित्यः शब्दः, प्रमेयत्वात्, घटवत् आकाशवत्- इति प्रमेयत्वं सपक्षविपक्षव्यपि ।
अप्रयत्नानन्तरीयकः शब्दः, अनित्यवाद विद्युदाकाशवद् घटवच्च इत्यनित्यत्वं सपक्षैकदेशवृत्ति विद्युदादावस्ति, नाकाशादौः विपक्षव्यापि प्रयत्नानतरीयके सर्वत्र भावात् ।
अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दः घटवत्, विद्युदाकाशवच्च इत्यनित्यत्वं विपक्षैकदेशवृत्ति । विद्युदादावस्ति, नाकाशादौः, सपक्षव्यापि सर्वत्र प्रयत्नान्तरीयके भावात् ।
नित्यः शब्दः अमूर्तत्वाद्, आकाशपरमाणुवत्, कर्मघटवच्चं- इत्यमूर्तत्वमुभयैकदेशवृत्ति, उभयोरेकदेशे आकाशे कर्मणि च वर्ततेः परमाणौ तु
68 तथा अस्यैव रूपस्य सन्देहे ऽप्यनैकान्तिक एव ।
69 यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षवावृत्तिकः ॥
साध्ये, अनित्यत्वं उपक्षस्य सर्वत्र विपक्षस्य चैकदेशे ऽस्ति । शब्दो नित्यः, अस्पर्शात् इति साध्ये, स्पर्शाभावः सपक्षविपक्षयोरुभयोकदेशे ऽस्ति । एतेन साधारणानैकान्तिकश्चतुर्विध उक्तः ॥ 67 ॥ विपक्षे ऽसत्त्वमेव यदा सन्दिग्धस्तदापि अनैकान्तिक एव ॥ 68 ॥ दृष्टान्तनिदर्शनार्थमाह- यथेति ।
केनचिद् विवक्षितः- कश्चित् पुरुषो न सर्वज्ञो वक्तृत्वात् तथा रागादिमान् वा वक्तृत्वादेव इति उच्यमाने तस्य वक्तृत्वादिधर्मो ऽनैकान्तिक एव ।
स चानैकान्तिकः किन्नामक इति चेत्? आह- सन्दिग्धेत्यादि । विपक्षाद् व्यावृत्तिः सन्दिग्धा अस्येति स सन्दिग्धविपक्षव्यावृत्तिकः । सन्दिग्धव्यतिरेक इति शेषः । सर्वज्ञः कश्चिद् वक्ता न दृश्यते इति अदर्शने ऽपि व्यतिरेक सिद्धिर्न भवति ॥ 69 ॥
सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्ततेः, मूर्तत्वाद् घटपरमाणुप्रभतीनाम् ।
नित्यास्तु परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः । अस्य चतुर्विधस्य पक्षधर्मस्यसत्त्वमसिद्धं विपक्षे । ततो ऽनैकान्ति कता ॥ 67 ॥ यथा चास्य रूपस्यासिद्धवनैकान्तिकः, तथा अस्यैव विपक्षे ऽसत्त्वाख्यस्य रूपस्य सन्देहे ऽनैकान्तिकः ॥ 68 ॥ तमुदाहरति- यथेति । असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । कश्चिद् विवक्षित इति । वक्तुरभिप्रेतः । पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः, स यस्यास्ति स रागादिमान् इति द्वितीयं साध्यम् । वा ग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततो ऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तृत्वम्= वचनशक्तिः, तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मो ऽनैकान्तिकः ।
सन्दिग्धाविपक्षाद् व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायतेकि वक्ता सर्वज्ञः? उत असर्वज्ञः?- इत्यनैकान्तिकं वक्तृत्वम् ॥ 69 ॥
70 सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्यानु पलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततो ऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृतिः सन्दिग्धा ।
71 वक्तृत्वसर्वज्ञत्वयोविरोधाभावाच्च यः सर्वज्ञःस वक्ता न भवतीत्य दर्शने ऽपि व्यतिरेको न सिद्धयति, सन्देहात् ॥
कथमयमनैकान्तिक इति चेत्? तत्राह- एवमिति ।
सर्वज्ञस वक्तुर्दर्शने ऽपि, अदृश्यात्मविषयेयमनुपलब्धिरिति अदृश्यात्मविषयत्वात् सन्देहेतुरेव भवति । व्यतिरेकसिद्धि नाभिधत्ते । अदृश्यविषयानुपलम्भः संशयस्यैव हेतुरिति असर्वज्ञपर्ययात् सर्वज्ञात् वक्तृत्वलक्षणहेतोर्निवृत्तिः सन्दिग्धैव ॥ 70 ॥ अनुपलब्धिरदृश्यात्मविषयत्वाद् व्यतिरेकं मा साधयतु, स्वभावविरोधोपलब्ध्या सिद्धिः, स्यादिति चेत्? तत्राह- वक्तृत्वेति ।
वक्तृत्व- सर्वज्ञयोस्तु विरोधो नास्ति । तस्मात्- सर्वज्ञस्य वक्तुरदर्शने ऽपि वक्तृत्वसर्वज्ञत्वयोविरोधाभावाद् वक्तृत्वस्य सर्वज्ञत्वाद् व्यावृत्तिरिति न सिध्यति सन्देहसत्त्वात् ॥ 71 ॥
ननु च सर्वज्ञो वक्ता नोपलभ्यते, तत् कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव सर्वज्ञो वक्ता नोपलभ्यते इत्येवम्प्रकारस्य एवञ्जातीयस्य अनुपलम्भस्य सन्देहहेतुत्वात् । कुतः? इत्याह- अदृश्य आत्भा विषयो यस्य तस्य भावो ऽदृश्यात्मविषयत्वम् । तेन सन्देहहेतुत्वम् । यतो ऽदृश्यविषयो ऽनुपलम्भः सन्देहहेतुः न निश्चयहेतुः, ततो ऽसर्वज्ञविपक्षात् सर्वज्ञाद् वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा ॥ 70 ॥
नानुपलम्भात् सर्वज्ञे वक्तृत्वमसद् ब्रूमः, अपितु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न । सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणात् व्यतिरेको न सिध्यति- इति सम्बन्धः ।
व्याप्तिमन्तं व्यतिरेकं दर्शयति- यः सर्वज्ञ इति । सध्याभावरूपं सर्वज्ञत्वमनूद्य स वक्ता न भवति इति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् साधनाभावेन व्याप्त उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः, तस्मान्न सिध्यति । कुतः? इत्यह- सन्देहाद् । यतो विरोधह्बावः, तस्मात् सन्देहः । सन्देहाद् व्यतिरेकासिद्धिः ॥ 71 ॥
72 द्विविधो हि पदार्थानां विरोधः ॥
73 अविकलकारणस्य भवतो ऽन्यभावे ऽभवाद् विरोधगतिः ॥
कथं तयोर्विरोधाभाव इति चेत्? तत्राह= द्विविध इति ।
यत्र यः को ऽपि विरोध उपलभ्यते स सर्व एव प्रकारद्वये ऽन्तर्भवति । एको वास्तवविरोधः, द्वितीयो लाक्षणिकविरोधः ॥ 72 ॥
वास्तवविरोधकथनार्थमाह- अविकलेति ।
यदा भावस्य कारणसमूहानामवैकल्ये कारणनिवर्त्यस्याभिर्भावः । अन्यभावपरिनिष्पत्तौ च निवृत्तिस्तदा विरोधप्रतीतिः ॥ 73 ॥
कथं विरोधाभावः? द्विविध इति । हीति । यस्माद् द्विविध एव विरोधः, नान्यः, तस्मान्न वक्तृत्वसर्वज्ञत्वयोविरोधः ॥ 72 ॥
कः पुनरसौ द्विविधो विरोधः? इत्याह- अविकलकारणस्येति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावः, न तस्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणम् ।
ननु च यस्यापि कारणसाकल्पम्, तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम्, तत् कुतो विरोधगतिः? एवं तर्हि अविकलकरणस्यापि यत्कृतात् कारणवैकल्यादभावस्तेन विरोधगतिः ।
तथा च सति, यो यस्य विरुद्धः स तस्य किञ्चित्कर । एव तथाहि- शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्ति प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एव निवत्वस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहृतव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्तह्योरेव निवर्त्यनिवर्तकभावः ।
तस्माद् यो यस्य निवर्तकः स तं यदि परं तृतीयक्षणे निवर्तयति, प्रथमे क्षणे सन्निपतन्नसमर्थवस्थाधनयोग्यो भवति, द्वितीये विरुद्धमसमर्थ करोति, तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति ।
तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामन् यदान्धकारनिरन्तरमालोकक्षणं जनयति, तदालोकसमीपवर्तिनमन्धकारमसमर्थ जनय्ति । ततो ऽसामर्थ्य तस्य यस्य समीपवर्त्त्यालोकः । असमर्थे निवृत्ते तद्देशे जायत आलोक इत्येवं क्रमेणालोकेनान्धकारो ऽपनेयः । तथोष्णः स्पर्शेन शीतस्पर्शो निवर्तनीयः ।
यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते, तदा यतः क्षणादन्धकारदेशस्या लोकस्य जनकः क्षण उतप्दयते, तत एवान्धकारो ऽन्धकारान्तरजननासमर्थ
74 शीतोष्णस्पर्शवत् ॥
75 परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ॥
यथा शीतोष्णस्पर्शयोः शीतस्याविकलकारणस्य सतो यदा उष्णत्वापरिनिष्पत्तिस्तद शीतत्वनिवृत्तिः । तयोश्च लोके विरोधप्रतीतिः ॥ 74 ॥
परस्परपरिहारेण स्थितं लक्षणं येषां तानि परस्परपरिहारस्थितलक्षाणानि, तेषां भावः परस्परिहारशितलक्षणता, तया विरोधः । यथा भावाभावयोः भावो ऽभावपरिहारेण व्यवस्थितः, अभावश्च भवप्रिहारेण व्यवस्थितः ॥ 75 ॥
उत्पन्नः । ततो ऽसमर्थवस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकः, ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्तते ।
जन्यजनकभावाच्च सन्तानयोविरोधः, न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु, तथापि सन्तानिनो वस्तुभूताः । ततो ऽयं परमार्थः न क्षणयोविरोधः, अपितु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर्निवर्त्यनिवर्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्तनात् तेषाम् । गतिधर्मा चालोको यां दिशमाक्रामति, तद्दिग्वर्तिनो विरोधिसनानान् निवर्तयति । ततो ऽपवरकैकदेशस्था प्रदीपप्रभान्धकारनिकटवर्तिन्यपि नान्धकारं निवर्तयतिः अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तरजननासामर्थ्यत् । कारणसामर्थ्यहेतुत्वकृतं सन्ताननिष्ठमेव विरोधं दर्शयता भवता इति कृतम् । भवतः प्रबन्धेन प्रवर्तमानस्य शीतस्पर्शसन्तानस्याभावो ऽन्यस्योष्णसन्तानस्य भावे सतीति ।
ये त्वाहुः- न विरोधो वास्तवः इति, त इदं तक्तव्याः- यथा न निष्पन्ने कार्ये कश्चिज्जन्य जनकभावो नाम द्विष्ठो ऽस्ति, कारणपूर्विका तु कार्यवृत्तिः । अतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिद् द्विष्ठो नाम विरोधो ऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरजननासामर्थ्यम् । अतो विरोधो ऽपि वास्तव एव । ॥ 73 ॥
उदाहरणभाह- शीतेति । शीतश्चोष्णश्च तावेव शीतस्पर्शौ, तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद् विरोधो योजनीयः ॥ 74 ॥
द्वितीयमपि विरोधं दर्शयितुमाह- परस्परेत्यादि । परस्परस्य परिहारः= परित्यागः, तेन स्थितं लक्षणम्= रूपं ययोःव् तद्भावः परस्परपरिहारस्थितलक्षणता, तया ।
76 स च द्विविधो ऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति ॥
स चोभयविधो ऽपि विरोधो वक्तृसर्वज्ञयोर्न सम्भवति । वक्तृत्वस्य हि इह यस्मिन् परिच्चिद्यमाने यद् व्यवच्चिद्यते, तत् परिच्चिद्यमानमविच्चद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्चेद्यमाने ताद्रूप्यप्रच्युतिरवच्चिद्यते, तदव्यवच्चेदे नीलापरिच्चेदप्रसङ्गात् । तस्माद् वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ । नीलात्तु यदन्यद्रूपं तन्नीलाभावा व्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमाने ऽनुपलम्भादभावनिश्चयात् । यथा च नीलं स्वभावं परिहरति, तद्वद् अभावाव्यभिचारि पीतादिकमपीति । तथा च भावाभवयोः साक्षाद् विरोधः, वस्तुनोस्त्वन्योन्या भावाव्यभिचारित्वाद् विरोधः ।
कस्य चान्यत्राभावावसायः? यो नियताकारो ऽर्थः, तस्य । न त्वनियताकारः । क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् यतः क्षणिकत्वपरिहारेण न किञ्चिद् दृश्यते ।
यद्यवम्, अभावो ऽपि न नियताकारः । कथमनियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः । ततो दृस्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते, नानियतम् । एवं नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मत्वविरोधस्चायम् । ययोर्हि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः ।
अत एव लाक्षणिको ऽयं विरोध उच्यते । लक्षणं रूपम्, वस्तूनां प्रयोजनमस्येति कृत्वा । विरोधेन ह्यनेन वस्तुत्वं विभक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते, तद् दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि- अभावो ऽपि पिशाचो ऽपि यदा पीते निषेद्भूमिष्यते, तदा दृश्यात्मतय निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति रूपे परिच्चिद्यमान एकस्मिस्तदभावो दृश्यो व्यवच्चिद्यते । यच्च तदभाववन्नि यताकारं रूपम्, तदपि दृश्यं व्यवच्चिद्यते । ततः द्वप्रच्युतिवत् प्रच्युतिमन्तो ऽपि व्यवच्चिन्ना इति ये परस्परपरिहारस्थितरूपाः सर्वे ते ऽनेन निषिद्धकत्वादिति । सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपि ।
ततो भिन्नव्यापारो विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन सहावस्थानम्, भिन्नविषायौ च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानविरोधः । तस्माद् भिन्नव्यापरो । भिन्नविषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति ॥ 75 ॥
स चायं द्विविधो ऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न सम्भवति ।
77 न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥
78 रागादीनां वचनादेश्च कार्यकारणभावसिद्धेः ॥
79 अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेनिर्वृत्तिः ॥
अविकलकारणस्य सतः सर्वज्ञत्वपरिनिष्पत्तावपि निवृत्तिनं इष्टा । वक्तृत्वपरिहारेणापि सर्वज्ञत्वस्य न व्यवस्थितिः, नापि वा सर्वज्ञत्वपरिहारेण वक्तृत्वस्य व्यवस्थितिः ॥ 76 ॥
विरोधाभावे च अविरुद्धवद्वक्तृत्वं सर्वज्ञत्वावविपर्ययेणोपलभ्यत इति चेत्? तत्राह- नचेति ।
यत्र विरुद्धत्वेन नाभिधानं तत्र वस्तुनोरनुपलब्धावपि नाभावनिश्चयः सम्भवति । असर्वज्ञत्वे साध्ये वक्तृत्वस्य व्यतिरेकस्तथैव सन्दिग्धः ॥ 77 ॥
रागादिमत्त्वेन निर्देशे ऽपि व्यतिरेकसन्देहकथनार्थमाह- रागादीनामिति । रागादिर्वचनस्य हेतुरित्येतदसिद्धम् ॥ 78 ॥ अस्तु रागादिवचनयोः कार्यकारणभावो ऽसिद्धः, ततः किमिति चेत्? आह-
न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो नावसीयतेः, ततो नानेन विरोधगतिर्भवति ।
न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि वक्तृत्वपरिहृताः, तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम्ः काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद् वक्तृत्वविधेर्न सर्वज्ञत्वनिषेधः ॥ 76 ॥
स्यादेतत्- यदि नास्त्येव विरोधो घटपटयोरिव, स्यादपि तयोः सहावस्थितिदर्शनम् । सहावस्थित्यदर्शनात्तु विरोधगतिः, विरोधाच्चाभावगतिः? इयाशङ्कयाह- न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धविधिः । यदयपि सहावस्थानानुपलम्भस्तथापि न तयोविरोधः । यस्मान्न सहानुपलम्भमात्राद् विरोधः, अपि तु द्वयोरुपलभ्यमानयोनिवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविधेविरुद्धविधिः । अतो ऽस्मान्नान्यस्याभावगतिः ॥ 77 ॥
तथा न वक्तृत्वाद् रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्य स्याद्, वचनादेः रागादिगतिः स्यात् । रागादिनिवृत्तो वचनादिनिवृत्तिः स्यात्, न च कार्यम् । कुतः? रागादीनां वचनादेश्च कार्यकारणभावसासिद्धेः । कारणान्न कार्यम् । अतो ऽस्मान्न गतिः ॥ 78 ॥
मा भूद् रागादिकार्यम्, वचनं सहचारि तु भवति । ततो रागादौ
80 इति सन्दिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ॥
81 द्वयो रूपयोर्विपर्यसिद्धौ विरुद्धः ॥
82 कयोर्द्वयोः?
83 सपक्षे सत्त्वस्य, असपक्षे वासत्त्वस्य । यथा कृतकत्वं प्रयत्नानन्तरोयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः ॥
अर्थान्तरस्येति । अर्थान्तरम् रागादिकम् । अकारणस्य तस्य निवृत्तौ कथं वचनादेर्निवृत्तिः स्यात्? ॥ 79 ॥
तथाहि यस्माद् वक्तृत्वसर्वज्ञत्वयोः को ऽपि विरोधो नास्ति । रागादिवचनयोर्वा न कार्यकारणभावः । तत्मात् असर्वज्ञनिवृत्त्या रागादिनिवृत्त्या वा वचननिवृत्तिः सन्दिग्धा । तस्मात्, सन्दिग्धव्यतिरेको नामानैकान्तिकः ॥ 80 ॥ यदि द्वयो रूपयोर्विपर्ययसिद्धिस्तदा विरुद्धहेत्वाभासः स्यात् ॥ 81 ॥कयोर्द्वयो रूपयोर्विपर्यप्रतीतौ विरुद्धहेत्वाभास उच्यते? ॥ 82 ॥ अन्वय व्यतिरेकाविति शेषः । एवं विरुद्धस्य सामान्यं लक्षणमुक्तम् ।
विशेषेण कथनार्थमाह- कृतकत्वमित्यादि ।
सहचारिणि निवृत्ते निवर्तते वचनम्? इत्याशङ्कयाह- अर्थान्तरस्य चाकरणस्य निवृतौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेनिवृत्तिः । अतो वक्तृत्वं भवेद् रागादिविरहश्च ॥ 79 ॥
इतिशब्दस्तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद् विपक्षात् सर्वज्ञत्वाद् रागादिमत्त्वविपर्ययादरागादिमत्त्वात् सन्दिग्धो व्यतिरेको वचनादे । अतो ऽनैकान्तिको वचनादिः ॥ 80 ॥
एवमेकैकरूपादिसिद्धिसन्देहे हेतुदोषान् आख्याय, द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे हेतुदोषान् वक्तुकाम आह- द्वयोर्द्वयोरिति । द्वयो रूपयोविपर्ययसिद्धौ सत्यां विरुद्धह् ॥ 81 ॥ त्रीणि च रूपाणि सन्ति, ततो विशेषज्ञापनार्थमाह- कयोद्वयोरिति ॥ 82 ॥ विशिष्टे रूपे दर्शयति- सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । विअप्र्ययसिद्धाविति सम्बन्धः । कृतकत्वमिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वं हि कार्यहेतुः । प्रयत्नान्तरीयकशब्देन हि प्रयत्नानन्तरं जन्मज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म= जायमानस्य स्वभावः । ज्ञानम् = ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः ।
84 अनयोः सपक्षे ऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्यसिद्धिः ॥
85 एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ ।
86 ननु च तृट्यो ऽपीष्ट्
87 यथा परार्थाचक्षु रादयः संघातत्वाच्चयनासनाद्यङ्गवदिति ॥ यदि कृतकत्वेन प्रयत्नान्तरीयक्त्वेन वा नित्यत्वं साध्यते, तर्हि विरुद्धो हेत्वाभासः स्यात् ॥ 83 ॥ कथमिह विपर्ययासिद्धिरिति चेद्? आह- अनयोरिति ।
वित्यत्वे साध्ये सपक्ष आकाशादिः, तत्र कृतकत्वप्रयत्नान्तरीकत्वयोरुभयोरेवासम्भवः । विपक्षश्चानित्या घटादिः । तत्र तयोरुभयोरेव सत्त्वम्, तथा च तयोविपर्ययसिद्धिः ॥ 84 ॥
यस्माद् द्वयो रूपयोर्विपर्ययसिद्धिः, तस्मात् साध्यविर्ययसिद्द्धिः । साध्यविपर्ययसाधनाच्च विरुद्धो हेत्वाभासः ॥ 85 ॥
इष्टसय् विघातः क्रियते ऽनेनेति इष्टविघातकृत् । तृतीयो हि विरुद्धः शास्त्रकारैरुक्तः ॥ 86 ॥
दृष्टान्तकथनम्- अय्थेति । तस्यार्थस्तु व्याख्यात एव ॥ 87 ॥ एतौ हेतू नित्यत्वे साध्ये हेत्वाभासौ ॥ 83 ॥ कस्मात् पुनरेतौ विरुद्धौ? इत्याह- अनयोरिति । सपक्षे हि नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ॥ 84 ॥
कस्मात् पुनर्विपर्यसिद्धवप्येतौ विरुद्धौ? इत्याह- एतौ च साध्यस्य नित्यत्वस्य विपर्ययम् अनित्यत्वं साधय्तः । ततः साध्यविपर्ययसाधनाद् विरुद्धौ ॥ 85 ॥
यदि साध्यविपर्ययसाधनाद् विरुद्धवेतो, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्, इष्टं चानुक्तम्, अतो ऽन्य इष्टविघातकृदाभ्यामिति दर्शन्नाह- ननौ च तृतीयो ऽपि विरुद्ध उक्तः । उक्तविपर्ययसाधनौ द्वौ । तृतीयो ऽयमिष्टस्य शब्देनानुपात्तस्य विघातं करोति विपर्ययसाधनादिति इष्टविघातकृत् ॥ 86 ॥
तमुदाहरति- यथेति । चक्षुरादय इति धर्मी । परो ऽर्थः प्रयोजनं परार्थः प्रयोजकः संस्कार्य उपकर्तव्यो येषां ते परार्था इति साध्यम् । सङ्घातत्वात् सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसञ्चितिरूपाः । ततः सङ्घातरूपा उच्यन्ते । शयनम्, आसनं चादिर्यस्य तत् शयनासनादि । तदेव अङ्गम् पुरुषोपभोगाङ्गत्वत् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि
88 तदिष्टासंहतपारार्थ्यविपर्यसाधनाद् विरुद्धः ॥
89 स इह कस्मान्नोक्तः?
90 अनयोरेवान्तर्भावात् ॥
91 न ह्यमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ॥
विरुद्धश्चार्य कथमिति चेद्? आह- तदिष्टेति । परेभ्यो ऽयमिति परार्थः, तस्य भावः पारार्थ्यम् । असंहृतस्य पारार्थ्यमिति असंहृतपारार्थ्यम् । इष्टं च तस्य तद् असंहृतपारार्थ्य चेति विग्रहः, तद्विपर्ययः असंहृतपारार्थ्यविषयः । तस्य साधन इत्यर्थः । तस्मात् तदिष्टासहृतपारार्यविपर्ययसाधनादसौ विरुद्ध एव द्रष्टव्यः ॥ 88 ॥ शास्त्रकारेणानुमतस्तथा विरुद्धलक्षणयुक्तो ऽपीति भावः ॥ 89 ॥यच्च विरुद्धद्वयमुक्तं तयोरेवान्तर्भावेण पृथ्ग्नाभिधानम् ॥ 90 ॥ अन्तर्भावस्यैव प्रदर्शनार्थमाह- न हीति ।
कृतकत्वप्रयत्नान्तरीयकवलक्षणं हेतुनित्यत्वे साध्ये साध्यविपर्ययसाधनाद् विरुद्ध इत्युक्तम् । अयमपि साध्यविपर्ययसाधनात् ताभ्यां समान एव विरुद्धह् ॥ 91 ॥
पारार्थ्येनं संहतत्वं व्याप्तम् । यतः शयनासनादयः सङ्घातरूपाः पुरुषस्य भोगिनो भवन्ति उपकारका इति परार्था उच्यन्ते ॥ 87 ॥
कथमयमिष्टविघातकृत्? इत्याह- तदिष्टासंहृतपारार्थ्यविपर्ययसाधनादिति । असंहृते विषये पारार्थ्यमसंहृतपारार्थ्यम् । तस्य साङ्खयस्य वादिनः इष्टमसंहृतपारार्थ्य तदिष्टासंहृतपारार्थ्यम् । तस्य विपर्ययः संहृतपारार्थ्य नाम । तस्य साधनाद् विरुद्धह् ।
आत्मा अस्ति इति ब्रुवाणः साङ्ख्यः कुत एतद् इति पर्यनुयुक्तो बौद्धेन, इदमात्मनः सङ्ख्ये प्रमाणमाह । तस्माद् असंहृतस्यात्मनः उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्माद् यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत् क्रमेण वा भवति संहृतः, तस्मात् परार्थाश्चक्षुरादयः संहृतपरार्था इति सिद्धम् ॥ 88 ॥ अयं च विरुद्ध आचार्यदिङ्नागेनोक्तः, स कस्माद् वात्तिककारेण सता त्वया नोक्तः ॥ 89 ॥इतर आह- अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ॥ 90 ॥ ननु च उक्तविपर्ययं न साधयति, तत् कथमुक्तविपर्यसधनयोरेवान्तभव्तिः? इत्याह- न ह्यमिति । हीति यस्मादर्थे । यस्माद् अयम् इष्टविघातकृद् आभ्यां हेतुभ्यां साध्यविपर्यस्य साधनत्वेन न भिद्यते । यथा तो साध्यविपर्ययसधनी, तथायमपीति । उक्तविपर्ययं तु साधयतु वा मा वा, किमुक्तविपर्ययसाधनेन तस्मादनयोरेघान्तर्भावः ॥ 91 ॥
92 न हीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥
93 द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहे ऽनैकान्तिकः ॥
94 यथा वीतरागः कश्चित् सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेको ऽत्रासिद्धः । सन्दिग्धो ऽन्वयः ॥
95 सर्वज्ञवीतरागयोर्विप्रकर्षाद् वचनादेस्तत्र सत्त्वमसत्त्वं व संदिग्धम् ॥
पूर्वं शब्देनोक्तस्यैव साध्यस्य विपर्ययसिद्धिः । तत्र च नेष्टार्थविपर्ययसिद्धिः । तस्मात् कथमयं ताभ्यां समान इति चेत्? तत्राह- न हीति । यच्चेष्टं यच्चोक्तं तद्द्वयोः साध्यत्वे विशेषः को ऽपि नास्तीत्येतदुक्तमेव ॥ 92 ॥अन्वयव्यतिरेकयोरेवैकस्यासिद्धौ अपरस्य च सन्देहे हेतोरनैकान्तिकत्वम् ॥ 93 ॥ दृष्टान्तकथनम्- यथेति । तस्याथं उक्त एव ।
अत्रेति । अस्मिन् प्रयोगे । व्यतिरेको नास्ति । अन्वयस्तु सन्दिग्धः । तथा हि सर्वज्ञत्वे साध्ये असर्वज्ञो विपक्षः । असर्वज्ञेभ्यश्च वचनं च व्यावृत्तम् ॥ 94 ॥
अन्वयसन्देहकथनार्थमाह- सर्वज्ञेति ।
यस्मात् सर्वज्ञत्वं वीतरागत्वं चेन्द्रियस्याविषयस्यैव, तस्मात् तयोः कुत्रापि वचनमस्ति नास्ति वेति सन्दिग्धमेव । तथहि- दृष्टान्तत्वेन यः पुरुष उक्तः स कि सर्वज्ञ सन् वक्ता, किमुत असर्वज्ञः सन् वक्ता? इत्यत्र निश्चयो नास्ति ॥ 95 ॥
ननु च उक्तमेव साध्यम्, तत् कथं साध्यविपर्ययसाधनेत्वेनाभेदः? इत्याह- न हीति । यस्मादिष्टोक्तयोः परस्परस्मात् साध्यत्वेन न कश्चिद् विशेषो भेद इति । तस्मादनयोरेव अन्तर्भाव इत्युपसंहार ।
प्रतिवादिनो हि यज्जिज्ञासितं तत् प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत् साधनेच्चया विषयीकृते साध्यमिष्टमुक्तम्, अनुक्तं वा, न तूक्तमात्रेमेव साध्यम् । तेनाविशेष इति ॥ 92 ॥
द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः उक्तः । तयोस्तु द्वयोर्मध्ये । एकस्यासिद्धौ, अपरस्य च संदेहे चानैकान्तिकः ॥ 93 ॥
कीदृशो ऽसौ? इत्याह- यथेति । विगतो रागो यस्य स वीतराग इत्यकं साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वादिति हेतुः । व्यतिरेको ऽत्रासिद्धैति । स्वात्मन्येव सरागे च असर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतो ऽसिद्धोव्यतिरेकः सन्दिग्धो ऽन्वयः ॥ 94 ॥
कुतः? इत्याह- सपक्षभूतयोः सर्वज्ञवीतरागयोः । विप्रकर्षादिति अतीन्द्रियत्वाद् । वचनादेरतीन्द्रियगम्यस्यापि तत्र अतीन्द्रिययोः सर्वज्ञवीतरागयोः सत्त्वमसत्त्वं व सन्दिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वात् सर्वज्ञः? उत न- इत्यनैकान्तिक इति ॥ 95 ॥
96 अनयोरेव द्वयो रूपयोः सन्देहे ऽनिकान्तिकः ॥
97 यथा सात्मकं जीवच्चरीरं प्राणादिमत्त्वादिति ॥
98 न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत ॥ यद्यन्वयो व्यतिरेकश्च द्वावेव सन्दिग्धौ, तदापि अनैकान्तिकहेत्वाभासः ॥ 96 ॥ दृष्टान्तकथनार्थयाह- यथेति । प्राण आदिर्यस्य स प्राणादिः । प्राणशब्देन उन्मेषनिमेषप्रसारणसङ्कोचादीनां परिग्रहः । सात्मकमिति । आत्मनो भोगायतनभूतम् । जीवच्चरीरमिति । अनेन मृतशरीरस्य निरासः ॥ 97 ॥
तत्र च व्यतिरेकसन्देहकथनार्थमाह- नहीति ।
द्विविधो हि राशिः- सात्मकः, निरात्मकश्च । तत्रान्तर्भूतो ऽपरो नास्ति । प्राणादिमत्त्वस्य वस्तुधर्मत्वे तच्च सात्मकनिरात्मकाभ्यां निवृतम् ॥ 98 ॥ सम्प्रति द्वयोरेव सन्देहे ऽनैकान्तिकं वक्तुमाह- अनयोरेव अन्वयव्यतिरेकयोः । सन्देहात् संशयहेतुः ॥ 96 ॥
उदाहरणम्- यथेति । सह आत्मना वर्तते सात्मकमिति साध्यम् । शरीरमिति धर्मी । जीवद्ग्रहणं धर्मिवेशेषणम् । मृते ह्यात्मानं नेच्चति । प्राणाः= श्वासादय आदिर्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स प्राणादिः, स यस्यास्ति तत् प्राणादिमत् जीवच्चरीरम्, तस्य भावस्तत्त्वम्, तस्मादित्येष हेतुः ॥ 97 ॥ अयमसाधारणः संशहेतुरुपपादयितव्यः । पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ, ताभ्यां सर्वस्य वस्तुनह् संग्रहात् । तयोश्च व्यापकयोराकारयोरकत्रापि वृत्त्यनिश्चयात् । याभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोराकारयोर्न संशयह् । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात्, अतो न संशयहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेतुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तो ऽप्रतिपत्तिहेतुः । नियतं तु भावं दर्शयन् सम्यग् हेतुविरुद्धो वा स्यात् । तस्माद् यभ्यां सर्व वस्तु संगृह्यते, तयोः संशयहेतुः, यदि यतोरेकत्रापि सद्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो हेतुरिवुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः, सन्दिग्धविपक्षव्यवृत्तिकः, संदिग्धान्वयो ऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति । ततो ऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्श-
99 आत्मनो वृत्तिव्यवच्चेदाभ्यां सर्वसंग्रहात् ॥
100 नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥
101 सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्रमाणादेरसिद्धेः ॥
तिष्ठत्वन्यत्र कुत्रापि, कथं तृतीयराश्यसम्भव इति चेद्? आह- आत्मन इति । वृतिश्च व्यवचेदश्च वृत्तिव्यवच्चेदौ । वृत्तिः= सद्भावः । व्यवच्चेदः= अभावः । आत्मनो वृत्तिव्यवच्चेदौ आत्मवृत्तिव्यवच्चेदौ । ताभ्यां हि सकलवस्तुसंग्रहः । तथा हि- यस्मिन् आत्मनो वृत्तिस्तत् सात्मकम् । तत्रानन्तभूतमन्यत् सर्व निरात्मकम् । तस्मात् कुतस्तृतीयरशिसम्भवः । एवं हि प्राणादिमत्त्वस्य सात्मकनिरात्मकाभ्यां व्यतिरेको ऽसिद्धः ॥ 99 ॥
यद्यपि ताभ्यां व्यतिरेको ऽसिद्धः तथापि तत्रान्वय एवास्त्विति चेद्? तत्राह-नापीति । प्राणादिमत्त्वस्य सात्मके निरात्मके वा सत्त्वमिति निश्चयो न शक्यते कर्तुम् ॥ 100 ॥
तच्च कस्मादिति चेद्? आह- सात्मकत्वेनेति । सात्मकत्वेन निश्चेति वस्तुनि, निरात्मकत्वेन वा निश्चिते वस्तुनि प्राणादिमत्त्वमदृष्टम्, तस्मात् कुतो वृत्तिनिश्चयः? ॥ 101 ॥ यितुमाह- न हीति । सहात्मना वर्तते सात्मकः । निष्क्रान्तः आत्मा यस्मात् स निरात्मकः । ताभ्यां यस्मान्नान्यो राशिअर्स्ति । किम्भूतः? यत्रायं वस्तुधर्मः प्राणादिर्वर्तेतः । तस्माययं यतोर्भवति संशयहेतुः ॥ 98 ॥
कस्मादन्यराश्यभावः? इत्याह- आत्मनो वृत्तिः= सद्भावः, व्यवच्चेदः= अभावः, ताभ्यां सवस्य वस्तुनः संग्रहात् क्रोडीकरणात् । यत्र ह्यात्मा अस्ति तत् सात्सकम्, अन्यन्निरात्मकम् । ततो नान्यो रशिरस्तोति संशयहेतुत्वकारणम् ॥ 99 ॥
प्रकाराभ्यां सर्ववस्तुसंग्रहं प्रतिपाद्य द्वितीयमाह- नाप्यनयोः सात्मकानात्मकयोर्मध्य एकत्र सात्मके ऽसात्मके वा वृत्ते सद्भावस्य निश्चयो ऽस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः वस्तुधर्मत्वात् । ततश्चानयोरेव वर्तते इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्यमर्थः ॥ 100 ॥
तदाह- सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि प्राणादेर्धर्मस्य सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्य असिद्धे रनैकान्तिकः, अनिश्चितत्वात् । तदेवमसाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् ॥ 101 ॥ 102 तस्माज्जीवच्चरीरसम्बन्धी घ्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् व्यावृत्तत्वेनासिधेस्ताभ्यां न व्यतिरिच्यते ॥
103 न तत्रान्वेति ॥
104 एकात्मन्यप्यसिद्धेः ॥
105 नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥
उपसंहारे पक्षधर्मो निर्दिश्यते । जीवच्चरीरेण सम्बन्ध इति विग्रहः । स यस्यास्ति स जीवशरीरसम्बन्धी । पक्षधर्म इति शेषः । अनेनोपसंहारेण व्यतिरेकाभावो दर्शितः ॥ 102 ॥ अनेनोपसंहारेणान्वयाभावो दर्शितः ॥ 103 ॥एवं चान्वयव्यतिरेकयोर्द्वयोः सत्त्वमसिद्धम् ॥ 104 ॥ ननु तयोस्तत्राभावनिश्चय एव स्यादिति चेत्? तत्राह- नापीति ।
यथा सात्मके ऽन्वयव्यतिरेकयोः सत्त्वमनिश्चियम्, तथैवासत्त्वमपि अनिश्चितम् । एवमेव निरात्मकस्यापि वक्तव्यम् ॥ 105 ॥ पक्षधर्मश्च भवन् सर्वः साधारणो ऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति- तस्मादित्यादिना । जीवच्चरीरस्य संबन्धी पक्षधर्म इत्यर्थः । यस्मात् तयोरेकत्रापि न निवृत्तिनिश्चयः तस्मात् ताभ्यां न व्यतिरिच्यते ।
वस्तुधर्मे हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्रनियतसद्भावो निश्चितः प्रकारान्तरान्निवर्तेत । अत एवाह- सात्मकादनात्मकत्वाच्च सर्वस्माद् वस्तुनो व्यवृत्तत्वेनासिद्धरिति । प्राणादिस्तावत् कुतश्चित् घटादेर्निवृत्त एव । तत एतावदवसातुं शक्यम्- सात्मकादनात्मकाद् वा कियतो निवृत्तः । सर्वस्मात् तु निवृत्तो नावसीयते । ततो न कुतश्चिद् व्यतिरेकः ॥ 102 ॥ यदयेवम्, अन्वयो ऽस्तु तयोर्निश्चितः? इत्याह- न तत्र सात्मके ऽनात्मके वार्थे ऽन्वेति अन्वयवान् प्राणादिः ॥ 103 ॥ कुतः? इत्याह- एकात्मन्यपीति । एकात्मनि सात्मके ऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया तयोर्द्वयोरेकत्र वा वर्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्तत इति कुतो ऽन्वयनिश्चयः ॥ 104 ॥
ननु च प्रतिवादिनो न किञ्चित् सात्मकमस्ति, ततो ऽस्य हेतोर्न सात्मके ऽन्वयो न व्यतिरेक इत्यन्वयव्यतिरेकयोरभवनिश्चयः सात्मके, न तु सद्भाव-
106 एकाभावनिश्चयस्यपरभावनिश्चयनान्तरीयकत्वात् ॥
107 अन्वय व्यतिरेकयोरन्योन्यव्यवच्चेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ॥
सत्त्वनिश्चयाभावे ऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्राह- अन्वय इति ।
अन्योन्यवच्चेदरूपेण तौ स्थितावित्युच्यते, ततश्च किमिति चेत्? आह- एकेति ।
यदि तयोः परस्पराभावरूपेण स्थितिस्तदा यत्रान्वयाभावनिश्चयस्तत्र व्यतिरेकसत्त्वनिश्चयो ऽवश्यम्भवी । तथा व्यतिरेकाभवनिश्चये ऽपि अन्वतसत्त्वनिश्चयो ऽवश्यम्भावी । एवं यत्र प्राणादिमत्त्वस्य सत्त्वंनेति निश्चयस्तत्राभावनिश्चयः । यत्र च तदसत्त्वं नेति निश्चयस्तत्र भावनिश्चयः । यस्मादेवमन्वयव्यतिरेकयोरेकस्याभाव- निश्चय एव, अपरस्य सत्त्वनिश्चयो ऽवश्यम्भावी, तस्मात् सात्मक- निरात्मकयोः प्राणादिमत्त्वाभावनिश्चयो ऽपि नास्त्येव ॥ 106 ॥
सत्त्वनिश्चयाभावे ऽपि असत्त्वनिश्चयः कथं न स्यादिति चेत्? तत्रा- अन्वयेति । अन्वयव्यतिरेको हि परस्पराभाअरूपेणावस्थितौ । तथा हि यत्रान्वयाभावस्तत्र व्यतिरेकसत्त्वम्, यत्र वा व्यतिरेकाभावस्तत्रान्वयसत्त्वम् ।
संशयः? इत्याशङ्कयाह- नापीति । नापि सात्मकाद् वस्तुनः तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥ 105 ॥
कथमन्वयव्यतिरेकयोर्नाभावनिश्चयः? इत्याह- एकेति । एकस्य अन्वयस्य व्यतिरेकस्य वा यो ऽभावनिश्चयः सो ऽपरस्य द्वितीयस्य भावनिश्चयनान्तरीयकः भावनिश्चयस्याव्यभिवारी, तस्य भावस्तत्वं तस्मात् । यत एकाभावनिश्चयो ऽपरभावनिश्चयनान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः ॥ 106 ॥
कस्मात् पुनरेकस्याभावनिश्चयो ऽपरसद्भावनिश्चयाव्यभिचारी? इत्याह- अन्वयव्यतिरेकयोरन्योन्यव्यवचेदरूपत्वादिति । अन्योन्ययस्य व्यवच्चेदः अभावः, स एव रूपं ययोस्तयोर्भावस्तत्त्वम्, तस्मात् कारणात् ।
अन्वयव्यतिरेकौ भावाभावौ । भवाभावौ च परस्परव्यवच्चेदरूपौ । यस्य व्यवच्चेदेन यत् परिच्चेदयते तत् तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्चेदेन च भावः परिच्चेदयते ।
तस्मात् स्वभावव्यवच्चेदेन भवो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्च्दय रूपमाकारवत्
108 साध्येतरयोरतो निश्चयाभावत् ॥
109 एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥ तस्मादन्वयव्यतिरेकयोः सन्देहादसौ अनैकान्तिक एव ॥ 107 ॥ अन्वय व्यतिरेकयोः सन्देहे सत्यपि कस्मादनैकान्तिकत्वमेव स्यादिति चेत्?
तत्राह- साध्येत्यादि । यस्मात् साध्य साध्यविपक्षयोः प्राणादिमत्त्वनिश्चयो नास्ति, तस्मादनैकान्तिकः ॥ 108 ॥
एवमिति । उक्तप्रकारेण । त्रयाणां रूपाणमिति । पक्षधर्मः, अन्वयः, व्यतिरेकश्चेति । एकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे चेति । क्वचिदेकस्य रूपस्या-
परिच्चिदयते । तथा च सत्यन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।
ततो ऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चिते ऽन्वयो निश्चितो भवति । तस्माद् यदि नाम सात्मकमवस्तु, निरात्मकं च वस्तुः तथापि तयोर्न प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । एकत्र वस्तुनि एकस्य वस्तुनो युगपद् भावाभवविरोधात् तयोरभावनिश्चयायोगात् ।
न च प्रतिवादयनुरोधात् सात्मकानात्मके वस्तुनी सदसती, किन्तु प्रमाणानुरोधात् । इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ॥
यत एव क्वचिदन्वयव्यतिरेकयोर्न भावनिश्चयः, नाप्यभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः ।
यदि तु क्वचिदप्यन्वयव्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य । भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च न क्वचिद् भावाभावनिश्चयः, तत एवान्वयव्यतिरेकयोः सन्देहः । सन्देहाच्चातैकान्तिकः ॥ 107 ॥
कस्मादनैकान्तिकः? इत्याह- साध्येति । साध्यस्य इतरस्य च विरुद्धस्य, अतः सन्दिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्सयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां परः प्रकारः सम्भवति । ततः प्राणादिमत्त्वाद् धर्मिणी जीवच्चरीरे संशय आत्मभावाभावयोः- इत्यनैकान्तिकः प्राणादिरिति ॥ 108 ॥
त्रयाणां रूपाणामसिद्धौ सन्देहे च हेतुदोषानुपपाद्योपसंहरन्नाह- एव-
110 विरुद्धव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः?
111 अनुमानविषये ऽसम्भवात् ॥
112 न हि सम्भवो ऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायः ॥
सिद्धिः सन्देहो वा, क्वचितु द्वयो रूपयोः । यथायोगमिति प्रयोगानुरूपम् । अमिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासा इति । असिद्धश्च विरुद्धश्च अनैकान्तिकश्चेति विग्रहः ॥ 109 ॥
विरुद्धेनाव्यभिचारो विरुद्धाव्यभिचारः । सो ऽत्रस्तीति विरुद्धाव्यभिचारी । यदा- विरुद्धश्चसौ न व्यभिचरितुं शीलं चास्येति विरुद्धाव्यभिचारी । स च शास्त्रकारेणानैकान्तिक उक्तः । स इहेति । स्वयं न निर्दिष्ट इत्यर्थः ॥ 110 ॥
तच्च कस्मादिति चेत्? आह- अनुमान इति । तथा हि- वस्तुवलप्रवृत्ते तस्यासम्भवः ॥ 111 ॥ कथमसम्भव इति चेत्? आह- न हीति ।
कारणसत्त्वे कार्यसत्त्वमेव कार्यहेतोर्लक्षणम् । तन्मात्रानुबन्धिहेतुत्वमेव स्वभाव मिति अनन्तरोक्तेन क्रमेण । एषां मध्य एकैकं रूपं यदा असिद्धं सन्दिग्धं वा भवति, द्वे द्वौ वासिद्धे सन्दिग्धे वा भवतः, तदासिद्धश्च विरुद्धश्च अनैकान्तिकश्च ते हेत्वाभासाः । यथायोगमिति । यस्यासिद्धौ सन्देहे वा यो हेत्वाभासो युज्यते स तस्यासिद्धेः सन्देहाच्च व्यवस्थाप्यत इति यस्य यस्य येन येन योगो यथायोगमिति ॥ । 109 ॥
ननु च आचार्येण विरुद्धाव्यभिचार्यपि सम्शयहेतुरुक्तः । हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्यव्यभिचाराद् विरुद्धव्यभिचारी? ॥ 110 ॥
सत्यम्, उक्त आचर्येण, मया तु नोक्तः । कस्मात्? इत्याह- अनुमानेति । अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः, सो ऽनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः । तस्मात् तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रमाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् । अतो न सम्भवः । ततो ऽसम्भवान्नोक्तः ॥ 111 ॥
कस्मादसम्भवः? इत्याह- नहीति । यस्मान्न सम्भवो ऽस्ति विरुद्धतायाः । कार्य च स्वभावश्च तयोरुक्तलक्साणयोरिति ।
113 न चान्यो ऽन्यभिचारी ।
114 तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ॥
हेतोर्लक्षणम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरनुपलब्धेर्लक्षणम् । विरुद्धश्र्चोक्तलक्षणविशिष्टेषु न सम्भवति । तथा हि शिशपया वृक्षसंसिद्धौ विजातीयवृक्षसाधनं यथोक्तलक्षणस्य द्वितीयस्यसम्भवः ॥ 112 ॥
यद्युक्तलक्षणेषु त्रिषु असम्भवः, अस्तु तर्हि अपरत्र सम्भव इति चेत्? तत्राह- न चेति । त्रिषु हेतुषु अनन्तभूतमव्यभिचारिहेत्वन्तरं नास्ति यस्मिन् विरुद्धाव्यभिचारिसम्भवः ॥ 113 ॥
कस्मात्त्रिषु असम्भव इति चेद्? आह- तस्मादिति ।
यत्र अतिबद्धेन प्रमाणेन न निर्णयस्तद् अवस्तुदर्शनबलप्रवृत्तमिति । आगमाश्रयमनुमानमश्रित्येति । आगम आश्रयो ऽस्येति आगमाश्रयम् । यत्र आगमद्वारेण धर्मिपक्षधर्मादिकमुपस्थाप्यते तद् आगमाश्रयमनुमानमिति । तदर्थविचारेष्विति ।
कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्य यश्च स्वभावः, स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेद्, येन विरुद्धह् स्यात् । अनुपलम्भस्य च उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः ॥ 112 ॥
स्यादेतत्, एतेभ्यो ऽन्यो भविष्यति? इत्याह- न चान्य एतेभ्यो ऽव्यभिचारी त्रिभ्यः । अत एवैष्वेव हेतुत्वम् ॥ 113 ॥
क्व तर्ह्याचार्यदिङ्नगेनायं हेतुदोष उक्तः? इत्याह- तस्मादिति । यस्माद् वस्तुबलप्रवृत्ते ऽनुमाने न सम्भवति तस्माद् आगमाश्रयानुमानमाश्रित्य विरुद्धाव्यभिचायुक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्यागम आश्रयः ।
ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धः? इत्याह- अवस्तुदर्शनबलप्रवृत्तमिति । अवस्तुनो दर्शनं विकल्पमात्रम्, तस्य बलं सामर्थ्यम्, ततः प्रवृत्तम् अप्रमाणाद् विकल्पमात्राद् व्यवस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य, न तु प्रमाणात् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
