Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दु
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — D. MALVANIA, acarya-Dharmakirti-krta-Nyayabindor acarya-Dharmottara-krta-tikaya anutikaruupah pandita-Durvekamisra-krto Dharmottarapradipah. Patna (2)1971.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
धर्मकीर्ति: न्यायबिन्दु
explanatory remarks
a number of five figures at the left side indicates the location of the key word in the basic texts. in the case of the sv, the hb and the vn, the first three figures indicate the page number, and the last two indicate the line number (for example, sv16026=sv 160,26; hb02314=hb 23,14; vn06110=vn 61,10). in the case of the pv and the nb, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, pv02232=pv, the pramanasiddhi-chapter v.232; nb03015=nb, the pararthanumana-chapter sutra 15. in the case of the sp, the last two figures indicate the karika number (for example, sp00015=sp, v.15).
3. in this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions:
3.1. the prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words.
3.2. suffixes making an adverb, for example -vat, -vasa, are divided. but suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided.
3.3. compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. for example: karyakaranabhava/-bhuta/-ta.
3.4. compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. for example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava.
3.5. some compound words which are regarded as terminology remain also undivided. for example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha.
4. those terms whose wordhead is subject to the sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an kwic index.
1. औगुस्त्. 1997 / त्सुकुब मोतोइ ओनो
note: this database is quite a tentative one, and i must admit that there are a lot of errors and defects in this version. i would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future.
ए-मैल्: ओनो@लोगोस्.त्सुकुब.अच्.ज्प्
01001 सम्यग्-ज्ञान-पूर्विका सर्व-पुरुष-अर्थ-सिद्धिर् इति तद् व्युत्पाद्यते. 01002 द्विविधं सम्यग्-ज्ञानम्. 01003 प्रत्यक्षम् अनुमानं च इति. 01004 तत्र प्रत्यक्षं कल्पना अपोढम् अभ्रान्तम्. 01005 अभिलाप-संसर्ग-योग्य-प्रतिभासा प्रतीतिः कल्पना. 01006 तया रहितं तिमिर-आशुभ्रमण-नौयान-संक्षोभ-आद्य्-अनाहित-विभ्रमं ज्ञानं प्रत्यक्षम्. 01007 तत् चतुर्विधम्. 01008 इन्द्रिय-ज्ञानम्. 01009 स्व-विषय-अनन्तर-विषय-सहकारिणा इन्द्रिय-ज्ञानेन समनन्तरप्रत्ययेन जनितं तन् मनोविज्ञानम्. 01010 सर्व-चित्त-चैत्तानाम् आत्म-संवेदनम्. 01011 भूत-अर्थ-भावना-प्रकर्ष-पर्यन्तजं योगिज्ञानं च इति. 01012 तस्य विषयः स्वलक्षणम्. 01013 यस्य अर्थस्य संनिधान-असंनिधानाभ्यां ज्ञान-प्रतिभास-भेदस् तत् स्वलक्षणम्. 01014 तद् एव परमार्थसत्. 01015 अर्थक्रियासामर्थ्य-लक्षणत्वाद् वस्तुनः. 01016 अन्यत् सामान्यलक्षणम्. 01017 सो अनुमानस्य विषयः. 01018 तद् एव च प्रत्यक्षं ज्ञानं प्रमाण-फलम्. 01019 अर्थ-प्रतीति-रूपत्वात्. 01020 अर्थ-सारूप्यम् अस्य प्रमाणम्. 01021 तद्-वशाद् अर्थ-प्रतीति-सिद्धेर् इति. 02001 अनुमानं द्विविधा. 02002 स्वार्थं परार्थं च. 02003 तत्र स्वार्थं त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्. 02004 प्रमाण-फल-व्यवस्था अत्र अपि प्रत्यक्ष-वत्. 02005 त्रैरूप्यं पुनर् लिङ्गस्य अनुमेये सत्त्वम् एव, सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वम् एव निश्चितम्. 02006 अनुमेयो अत्र जिज्ञाषित-विशेषो धर्मी. 02007 साध्य-धर्म-सामान्येन समानो अर्थः सपक्षः. 02008 न सपक्षो असपक्षः. 02009 ततो अन्यस् तद्-विरुद्धस् तद्-अभावश् च इति.
02010 त्रिरूपाणि च त्रीण्य् एव लिङ्गानि. 02011 अनुपलब्धिः स्वभावः कार्यं च इति. 02012 तत्र अनुपलब्धिर् यथा, न प्रदेश-विशेषे क्वचिद् घटः, उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धेर् इति 02013 उपलब्धि-लक्षण-प्राप्तिर् उपलम्भ-प्रत्यय-अन्तर-साकल्यं स्वभाव-विशेषश् च. 02014 यः स्वभावः सत्स्व् अन्येषु उपलम्भ-प्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव-विशेषः. 02015 स्वभावः स्व-सत्ता-मात्र-भाविनि साध्य-धर्मे हेतुः. 02016 यथा वृक्षो अयं शिंशपात्वाद् इति. 02017 कार्यं यथा वह्निर् अत्र धूमाद् इति. 02018 अत्र द्वौ वस्तु-साधनौ. एकः प्रतिषेध-हेतुः 02019 स्वभावप्रतिबन्धे हि सत्य् अर्थो अर्थं गमयेत्. 02020 तद्-अप्रतिबद्धस्य तद्-अव्यभिचार-नियम-अभावात्. 02021 स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य. 02022 वस्तुतस् तादात्म्यात् तदुत्पत्तेश् च. 02023 अतद्-स्वभावस्य अतदुत्पत्तेश् च तत्र अप्रतिबद्ध-स्वभावत्वात्. 02024 ते च तादात्म्य-तदुपत्ती स्वभाव-कार्ययोर् एव इति ताभ्याम् एव वस्तु-सिद्धिः. 02025 प्रतिषेध-सिद्धिर् अपि यथोक्ताया एव अनुपलब्धेः. 02026 सति वस्तुनि तस्या असम्भवात्. 02027 अन्यथा च अनुपलब्धि-लक्षण-प्राप्तेषु देश-काल-स्वभाव-विप्रकृष्टेष्व् अर्थेष्व् आत्म-प्रत्यक्ष-निवृत्तेर् अभाव-निश्चय-अभावात्. 02028 अमूढ-स्मृति-संस्कारस्य अतीतस्य वर्तमानस्य च प्रतिपत्तृ-प्रत्यक्षस्य निवृत्तिर् अभाव-व्यवहार-प्रवर्तनी. 02029 तस्या एव अभाव-निश्चयात्. 02030 सा च प्रयोग-भेदाद् एकदश-प्रकारा. 02031 स्वभाव-अनुपलब्धिर् यथा, न अत्र धूम उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् इति.
02032 कार्य-अनुपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि धूम-कारणानि सन्ति धूम-अभावाद् इति. 02033 व्यापक-अनुपलब्धिर् यथा, न अत्र शिंशपा, वृक्ष-अभावाद् इति. 02034 स्वभाव-विरुद्ध-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो वह्नेर् इति. 02035 विरुद्ध-कार्य-उपलब्धिर् यथा, न अत्र शीत-स्पर्शो धूमाद् इति. 02036 विरुद्ध-व्याप्त-उपलब्धिर् यथा, न धूम-भावी भूतस्य अपि भावस्य विनाशः, हेत्v-antara-apekषणाद् इति. 02037 कार्य-विरुद्ध-उपलब्धिर् यथा, न इह अप्रतिबद्ध-सामर्थ्यानि शीत-कारणानि सन्ति, वह्नेर् इति. 02038 व्यापक-विरुद्ध-उपलब्धिर् यथा, न अत्र तुषार-स्पर्शो वह्नेर् इति. 02039 कारण-अनुपलब्धिर् यथा, न अत्र धूमो वह्न्य्-अभावाद् इति. 02040 कारण-विरुद्ध-उपलब्धिर् यथा, न अस्य रोम-हर्ष-आदि-विशेषाः, संनिहित-दहन-विशेषत्वाद् इति. 02041 कारण-विरुद्ध-कार्य-उपलब्धिर् यथा, न रोम-हर्ष-आदि-विशेष-युक्त-पुरुषवान् अयं प्रदेशः, धूमाद् इति. 02042 इमे सर्वे कार्य-अनुपलब्ध्य्-आदयो दश-अनुपलब्धि-प्रयोगाः स्वभाव-अनुपलब्धौ संग्रहम् उपयान्ति. 02043 पारंपर्येण अर्थान्तर-विधि-प्रतिषेधायां प्रयोग-भेदे अपि. 02044 प्रयोग-दर्शन-अभ्यासात् स्वयम् अप्य् एवं व्यवच्छेद-प्रतीतिर् भवति इति स्वार्थे अप्य् अनुमाने अस्याः प्रयोग-निर्देशः. 02045 सर्वत्र च अस्याम् अभाव-व्यवहार-साधन्याम् अनुपलब्धौ येषां स्वभाव-विरुद्ध-आदीनाम् उपलब्ध्या कारण-आदीनाम् अनुपलब्ध्या च प्रतिषेध उक्तस् तेषाम् उपलब्धि-लक्षण-प्राप्तानाम्. 02045 एव उपलब्धिर् अनुपलब्धिश् च वेदितव्या. 02046 अन्येषां विरोध-कार्यकारणभाव-सिद्धेः.
02047 प्रमाण-निवृत्तव् अप्य् अर्थ-अभाव-असिद्धेर् इति. 03001 त्रिरूप-लिङ्ग-आख्यानं परार्थम् अनुमानम्. 03002 कारणे कार्य-उपचारात्. 03003 तद् द्विविधम्. 03004 प्रयोग-भेदात्. 03005 साधर्म्य-वैधर्म्य-वचन इति. 03006 न अनयोर् अर्थतः कश्चिद् भेदः. 03007 अन्यत्र प्रयोग-भेदात्. 03008 तत्र साधर्म्यवत् प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन्न् न उपलभ्यते सो असद्-व्यवहार-विषयः सिद्धः, यथा अन्यः कश्चिद् दृष्टः शश-विषाण-आदिः. न उपलभ्यते च कश्चित् प्रदेश-विशेष उपलब्धि-लक्षण-प्राप्तो घट इत्य् अनुपलब्धि-प्रयोगः. 03009 तथा स्वभावहेतोः प्रयोगः: यत् सत् तत् सर्वम् अनित्यम्, यथा घट-आदिर् इति शुद्धस्य स्वभावहेतोः प्रयोगः. 03010 यद् उत्पत्तिमत् तद् अनित्यम् इति स्वभावभूत-धर्म-भेदेन स्वभावस्य प्रयोगः. 03011 यत् कृतकं तद् अनित्यम् इत्य् उपाधि-भेदेन. 03012 अपेक्षित-पर-व्यापारो हि भावः स्वभाव-निष्पत्तौ कृतक इति. 03013 एवं प्रत्यय-भेदभेदित्व-आदयो अपि द्रष्टव्याः. 03014 सन्न् उत्पत्तिमान् कृतको वा शब्द इति पक्ष-धर्म-उपदर्शनम्. 03015 सर्व एते साधन-धर्मा यथास्वं प्रमाणैः. सिद्ध-साधन-धर्म-मात्र-अनुबन्ध एव साध्य-धर्मो अवगन्तव्याः. 03016 तस्य एव तत्. 03017 स्वभावस्य च हेतुत्वात्. 03018 वस्तुतस् तयोस् तादात्म्यम्. 03019 तन्-निष्पत्ताव् अनिष्पन्नस्य तत्-स्वभावत्व-अभावात्. 03020 व्यभिचार-सम्भवाच् च. 03021 कार्यहेतोः प्रयोगः: यत्र धूमस् तत्र अग्निः, यथा महानस-आदौ. अस्ति च इह धूम इति. 03022 इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर् वक्तव्यः.
03023 वैधर्म्यवतः प्रयोगः: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव, यथा नील-आदि-विशेषः. न च एवम् इह उपलब्धि-लक्षण-प्राप्तस्य सत उपलब्धिर् घटस्य इत्य् अनुपलब्धि-प्रयोगः. 03024 असत्य् अनित्यत्वे न अस्त्य् एव सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा. संश् च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः. 03025 असत्य् अग्नौ न भवत्य् एव धूमः. अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः. 03026 साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य-गतिर् इति. 03027 असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात्. 03028 तथा वैधर्म्येण अप्य् अन्वय-गतिः. 03029 असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य असिद्धेः. 03030 न हि स्वभावप्रतिबन्धे असत्य् एकस्य निवृत्तव् अपरस्य नियमेन निवृत्तिः. 03031 स च द्विप्रकारः सर्वस्य. तादात्म्य-लक्षणस् तदुत्पत्ति-लक्षणश् च इत्य् उक्तम्. 03032 तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः. तस्मात् निवृत्ति-वचनम् आक्षिप्त-प्रतिबन्ध-उपदर्शनम् एव भवति. यच् च प्रतिबन्ध-उपदर्शनं तद् एव अन्वय-वचनम् इत्य् एकेन अपि वाक्येन अन्वय-मुखेन व्यतिरेक-मुखेन वा प्रयुक्तेन सपक्ष-असपक्षयोर् लिङ्गस्य सदसत्त्व-ख्यापनं कृतं भवति इति न अवश्यं वाक्य-द्वय-प्रयोगः. 03033 अनुपलब्धाव् अपि: यत् सद् उपलब्धि-लक्षण-प्राप्तं तद् उपलभ्यत एव इत्य् उक्ते, अनुपलभ्यमानं तादृशम् असद् इति प्रतीतेर् अन्वय-सिद्धेः. 03034 द्वयोर् अप्य् अनयोः प्रयोगयोर् न अवश्यं पक्ष-निर्देशः.
03035 यस्मात् साधर्म्यवत्-प्रयोगे अपि यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते सो असद्-व्यवहार-विषयः. न उपलभ्यते च अत्र उपलब्धि-लक्षण-प्राप्तो घट इत्य् उक्ते सामर्थ्याद् एव न इह घट इति भवति. 03036 तथा वैधर्म्यवत्-प्रयोगे अपि: यः सद्-व्यवहार-विषय उपलब्धि-लक्षण-प्राप्तः, स उपलभ्यत एव. न तथा अत्र तादृशो घट उपलभ्यत इत्य् उक्ते सामर्थ्याद् एव न इह सद्-व्यवहार-विषय इति भवति. 03037 कीदृशः पुनः पक्ष इति निर्देश्यः. 03038 स्वरूपेण एव स्वयम् इष्टो अनिराकृतः पक्ष इति. 03039 स्वरूपेण इति साध्यत्वेन इष्टः. 03040 स्वरूपेण एव इति साध्यत्वेन एव इष्टो न साधनत्वेन अपि. 03041 यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात् साध्यम्. न पुनस् तद् इह साध्यत्वेन एव इष्टम्, साधनत्वेन अभिधानात्. 03042 स्वयम् इति वादिना. 03043 यस् तदा साधनम् आह. 03044 एतेन यद्य् अपि क्वचिच् शास्त्रे स्थितः साधनम् आह: तच् शास्त्रकारेण तस्मिन् धर्मिण्य् अनेक-धर्म-अभ्युपगमे अपि यस् तदा तेन वादिना धर्मः स्वयं साधयितुम् इष्टः, स एव साध्यो न इतर इत्य् उक्तं भवति. 03045 इष्ट इति यत्र अर्थे विवादेन साधनम् उपन्यस्तं तस्य सिद्धिम् इच्छता सो अनुक्तो अपि वचनेन साध्यः. 03046 तद् अधिकरणत्वाद् विवादस्य. 03047 यथा परार्थश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. अत्र आत्म-अर्था इत्य् अनुक्ताव् अप्य् आत्म-अर्थता साध्या. तेन न उक्त-मात्रम् एव साध्यम् इत्य् उक्तं भवति.
03048 अनिराकृत इति, एतल्-लक्षण-योगे अपि यः साधयितुम् इष्टो अप्य् अर्थः प्रत्यक्ष-अनुमान-प्रतीत्i-sva-vacanair निराक्रियते, न स पक्ष इति प्रदर्शन-अर्थम्. 03049 तत्र प्रत्यक्ष-निराकृतो यथा, अश्रावणः शब्द इति. 03050 अनुमान-निराकृतो यथा, नित्यः शब्द इति. 03051 प्रतीति-निराकृतो यथा, अचन्द्रः शशी इति. 03052 स्व-वचन-निराकृतो यथा, न अनुमानं प्रमाणम्. 03053 इति चत्वारः पक्षाभासा निराकृता भवन्ति. 03054 एवं सिद्धस्य, असिद्धस्य अपि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुम् अनिष्टस्य, उक्त-मात्रस्य च विपर्ययेण साध्यः. तेन एव स्वरूपेण अभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्ष-लक्षणम् अनवद्यं दर्शितं भवति. 03055 त्रिरूपलिङ्ग-आख्यानं परार्थ-अनुमानम् इत्य् उक्तम्. तत्र त्रयाणां रूपाणाम् एकस्य अपि रूपस्य अनुक्तौ साधनाभासः. 03056 उक्ताव् अप्य् असिद्धौ सन्देहे वा प्रतिपाद्य-प्रतिपादकयोः. 03057 एकस्य रूपस्य धर्मि-सम्बन्धस्य असिद्धौ सन्देहे वा असिद्धो हेत्वाभासाः. 03058 यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभय-असिद्धम्. 03059 चेतनास् तरव इति साध्ये सर्व-त्वग्-अपहरणे मरणं प्रतिवाद्य्-असिद्धम्, विज्ञान-इन्द्रिय-आयुर् निरोध-लक्षणस्य मरणस्य अनेन अभ्युपगमात्, तस्य च तरुष्व् असम्भवात्. 03060 अचेतनाः सुख-आदय इति साध्ये उत्पत्तिमत्वं वा सांख्यस्य स्वयं वादिनो असिद्धम्. 03061 तथा स्वयं तद्-आश्रयणस्य वा सन्देहे असिद्धः. 03062 यथा बाष्प-आदि-भावेन सन्दिह्यमानो भूत-संघातो अग्नि-सिद्धाव् उपदिश्यमानः सन्दिग्ध-असिद्धः. 03063 यथा इह निकुञ्जे मयूरः केकायिताद् इति.
03064 तद्-आपात-देश-विभ्रमे. 03065 धर्म्य्-असिद्धाव् अप्य् असिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्र उपलम्भमान-गुणत्वम्. 03066 तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धाव् अनैकान्तिको हेत्वाभासः. 03067 यथा शब्दस्य अनित्यत्व-आदिके धर्मे साध्ये प्रमेयत्व-आदिको धर्मः सपक्ष-विपक्षयोः सर्वत्र एकदेशे वा वर्तमानः. 03068 तथा, अस्य एव रूपस्य सन्देहे अप्य् अनैकान्तिक एव. 03069 यथा असर्वज्ञः कश्चिद् विवक्षितः पुरुषो राग-आदिमान् वा साध्ये वक्तृत्व-आदिको धर्मः सन्दिग्ध-विपक्ष-व्यावृत्तिकः. 03070 सर्वज्ञो वक्ता न उपलभ्यते इत्य् एवंप्रकारस्य अनुपलम्भस्य अदृश्य-आत्म-विषयत्वेन सन्देह-हेतुत्वात्. ततो असर्वज्ञ-विपर्ययाद् वक्तृत्व-आदेर् व्यावृत्तिः सन्दिग्धा. 03071 वक्तृत्व-सर्वज्ञत्वयोर् विरोध-अभावाच् च यः सर्वज्ञः स वक्ता न भवति इत्य् अदर्शने अपि व्यतिरेको न सिध्यति सन्देहात्. 03072 द्विविधो हि पदार्थानां विरोधः. 03073 अविकल-कारणस्य भवतो अन्यभावे अभावाद् विरोध-गतिः. 03074 शीत-उष्ण-स्पर्श-वत्. 03075 परस्पर-परिहार-स्थित-लक्षणतया वा भाव-अभाव-वत्. 03076 स च द्विविधो अपि विरोधो वक्तृत्व-सर्वज्ञत्वयोर् न सम्भवति. 03077 न च अविरुद्ध-विधेर् अनुपलब्धाव् अप्य् अभाव-गतिः. 03078 राग-आदीनां वचन-आदेश् च कार्यकारणभाव-असिद्धेः. 03079 अर्थान्तरस्य च अकारणस्य निवृत्तौ न वचन-आदेर् निवृत्तिः. 03080 इति सन्दिग्ध-व्यतिरेको अनैकान्तिको वचन-आदिः. 03081 द्वयो रूपयोर् विपर्यय-सिद्धौ विरुद्धः. 03082 कयोर् द्वयोः.
03083 सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः. 03084 अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वम् इति विपर्यय-सिद्धिः. 03085 एतौ च साध्य-विपर्यय-साधनाद् विरुद्धौ. 03086 ननु च तृतीयो अपि इष्ट-विघात-कृद् विरुद्धः. 03087 यथा परार्थाश् चक्षुर्-आदयः संघातत्वाच् शयन-आसन-आद्य्-अङ्ग-वद् इति. 03088 तद् इष्ट-संहत-पारार्थ्य-विपर्यय-साधनाद् विरुद्धः. 03089 स इह कस्मान् न उक्तः. 03090 अनयोर् अन्तर्भावात्. 03091 न ह्य् अयम् आभ्यां साध्य-विपर्यय-साधनत्वेन भिद्यते. 03092 न हि इष्ट-उक्तयोः साध्यत्वेन कश्चिद् विशेष इति. 03093 द्वयो रूपयोर् एकस्य असिद्धाव् अपरस्य च सन्देहे अनैकान्तिकः. 03094 यथा वीत-रागः कश्चित् सर्वज्ञो वा, वक्तृत्वाद् इति. व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः. 03095 सर्वज्ञ-वीत-रागयोर् विप्रकर्षाद् वचन-आदेस् तत्र सत्त्वम् असत्त्वं वा सन्दिग्धम्. 03096 अनयोर् एव द्वयो रूपयोः सन्देहे अनैकान्तिकः. 03097 यथा सात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति. 03098 न हि सात्मक-निरात्मकाभ्याम् अन्यो राशिर् अस्ति यत्र अयं प्राण-आदिर् वर्तते. 03099 आत्मनो वृत्ति-व्यवच्छेदाभ्यां सर्व-संग्रहाद्. 03100 न अप्य् अनयोर् एकत्र वृत्ति-निश्चयः. 03101 सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राण-आदेर् असिद्धेः. 03102 तस्माज् जीवच्छरीर-सम्बन्धी प्राण-आदिः सात्मकाद् अनात्मकाच् च सर्वस्माद् व्यावृत्तत्वेन असिद्धेस् ताभ्यां न व्यतिरिच्यते. 03103 न तत्र अन्वेति. 03104 एकात्मन्य् अप्य् असिद्धेः.
03105 न अपि सात्मकाद् अनात्मकाच् च तस्य अन्वय-व्यतिरेकयोर् अभाव-निश्चयः. 03106 एक-अभाव-निश्चयस्य अपर-भाव-निश्चय-नान्तरीयकत्वात्. 03107 अन्वय-व्यतिरेकयोर् अन्योन्य-व्यवच्छेद-रूपत्वात्. तत एव अन्वय-व्यतिरेकयोः सन्देहाद् अनैकान्तिकाः. 03108 साध्य-इतरयोर् अतो निश्चय-अभावात्. 03109 एवम् एषां त्रयाणां रूपाणाम् एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ सन्देहे वा यथायोगम् असिद्ध-विरुद्ध-अनैकान्तिकास् त्रयो हेत्वाभासाः. 03110 विरुद्धाव्यभिचार्य् अपि संशय-हेतुर् उक्तः. स इह कस्मान् न उक्तः. 03111 अनुमान-विषये असम्भवात्. 03112 न हि सम्भवो अस्ति कार्य-स्वभावयोर् उक्त-लक्षणयोर् अनुपलम्भस्य च विरुद्धतायाः. 03113 न च अन्यो अव्यभिचारी. 03114 तस्माद् अवस्तु-दर्शन-बल-प्रवृत्तम् आगम-आश्रयम् अनुमानम् आश्रित्य तd-artha-vicआरेषु विरुद्धाव्यभिचारी साधन-दोष उक्तः. 03115 शास्त्रकाराणाम् अर्थेषु भ्रान्त्या विपरीत-स्वभाव-उपसंहार-सम्भवात्. 03116 न ह्य् अस्य सम्भवो यथावस्थित-वस्तु-स्थितिष्व् आत्म-कार्य-अनुपलम्भेषु. 03117 तत्र उदाहरणम्: यत् सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपद् अभिसम्बध्यते तत् सर्वगतम्, यथा आकाशम्. अभिसम्बध्यते च सर्व-देश-अवस्थितैः स्व-सम्बन्धिभिर् युगपत् सामान्यम् इति. 03118 तत्-सम्बन्धि-स्वभाव-मात्र-अनुबन्धिनी तद्-देश-संनिहित-स्वभावता. 03119 न हि यो यत्र न अस्ति तद्-देशम् आत्मना व्याप्नोति इति स्वभावहेतु-प्रयोगः.
03120 द्वितीयो अपि प्रयोगः: यद् उपलब्धि-लक्षण-प्राप्तं सन् न उपलभ्यते न तत् तत्र अस्ति. तद् यथा, क्वचिद् अविद्यमानो घटः. न उपलभ्यते च उपलब्धि-लक्षण-प्राप्तं सामान्यं व्यक्त्य्-अन्तरालेष्व् इति. अयम् अनुपलम्भः स्वभावश् च परस्पर-विरुद्ध-अर्थ-साधनाद् एकत्र संशयं जनयतः. 03121 त्रिरूपो हेतुर् उक्तः. तावता च अर्थ-प्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधन-अवयवः कश्चिद्. तेन न अस्य लक्षणं पृथग् उच्यते गत-अर्थत्वात्. 03122 हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती रूपम् उक्तम् अभेदेन. पुनर् विशेषेण कार्य-स्वभावयोर् उक्त-लक्षणयोर् जन्म-तन्-मात्र-अनुबन्धौ दर्शनीय-अवक्तौ. तच् च दर्शयता, यत्र धूमस् तत्र अग्निः, असत्य् अग्नौ न क्वचिद् धूमो यथा महानस-इतरयोः, यत्र कृतकत्वं तत्र अनित्यत्वम्, अनित्यत्व-अभावो कृतकत्व-असम्भवो यथा घट-आकाशयोः, इति दर्शनीयम्. न ह्य् अन्यथा सपक्ष-विपक्षयोः सदसत्त्वे यथोक्त-प्रकारे शक्ये दर्शयितुम्. तत् कार्यता-नियमः कार्य-लिङ्गस्य स्वभाव-लिङ्गस्य च स्वभावेन व्याप्तिः. अस्मिंश् च अर्थे दर्शिते दर्शित एव दृष्टान्तो भवति. एतावान् मात्र-रूपत्वात् तस्य इति. 03123 एतेन एव दृष्टान्त-दोषा अपि निरस्ता भवन्ति. 03124 यथा नित्यः शब्दो अमूर्तत्वात्. कर्म-वत् परमाणु-वद् घट-वद् इति. एते दृष्टान्ताभासाः साध्य-साधन-धर्म-उभय-विकलाः. 03125 तथा सन्दिग्ध-साध्य-धर्म-आदयश् च, यथा राग-आदिमान् अयं वचनाद् रथ्या-पुरुष-वत्. मरण-धर्मो अयं पुरुषो राग-आदिमत्त्वाद् रथ्या-पुरुष-वत्. असर्वज्ञो अयं राग-आदिमत्वाद् रथ्या-पुरुष-वद् इति.
03126 तथा अनन्वयो अप्रदर्शित-अन्वयश् च, यथा यो उक्ता स राग-आदिमान्, इष्ट-पुरुष-वत्. अनित्यः शब्दः कृतकत्वाद् घट-वद् इति. 03127 तथा विपरीत-अन्वयः, यद् अनित्यं तत् कृतकम् इति. 03128 साधर्म्येण दृष्टान्त-दोषाः. 03129 वैधर्म्येण अपि, परमाणु-वत् कर्म-वत् आकाश-वद् इति साध्य-आद्य्-अव्यतिरेकिणः. 03130 तथा सन्दिग्ध-साध्य-व्यतिरेक-आदयः, यथा असर्वज्ञाः कपिल-आदयो अनाप्ता वा अविद्यमान-सर्वज्ञता-आप्तता-लिङ्गभूत-प्रमाण-अतिशय-शासनत्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, यः सर्वज्ञ आप्तो वा स ज्योतिर्-ज्ञान-आदिकम् उपदिष्टवान्, यथा ऋषभ-वर्धमान-आदिर् इति. तत्र असर्वज्ञता अनाप्तयोः साध्य-धर्मयोः सन्दिग्धो व्यतिरेकः. 03131 सन्दिग्ध-साधन-व्यतिरेको यथा, न त्रयीविदा ब्राह्मणेन ग्राह्य-वचनः कश्चिद् विवक्षितः पुरुषो राग-आदिमत्त्वाद् इति. अत्र वैधर्म्य-उदाहरणम्, ये ग्राह्य-वचना न ते राग-आदिमन्तः. तद् यथा गौतम-आदयो धर्म-शास्त्राणां प्रणेतार इति. गौतम-आदिभ्यो राग-आदिमत्त्वस्य साधन-धर्मस्य व्यावृत्तिः सन्दिग्धा. 03132 सन्दिग्ध-उभय-व्यतिरेको यथा, अवीत-रागाः कपिल-आदयः, परिग्रह-आग्रह-योगाद् इति. अत्र वैधर्म्येण उदाहरणम्, यो वीत-रागो न तस्य परिग्रह-आग्रहः, यथा ऋषभ-आदेर् इति. ऋषभ-आदेर् अवीत-रागत्व-परिग्रह-आग्रह-योगयोः साध्य-साधन-धर्मयोः सन्दिग्धो व्यतिरेकः.
03133 अव्यतिरेको यथा, अवीत-रागो अयं वक्तृत्वात्. वैधर्म्येण उदाहरणम्, यत्र अवीत-रागत्वं न अस्ति न स वक्ता, यथा उपल-खण्ड इति. यद्य् अप्य् उपल-खण्डाद् उभयं व्यावृत्तं तथा अपि सर्वो वीत-रागो न वक्ता इति व्याप्त्या व्यतिरेक-असिद्धेर् अव्यतिरेकः. 03134 अप्रदर्शित-व्यतिरेको यथा, अनित्यः शब्दः, कृतकत्वाद् आकाश-वद् इति वैधर्म्येण. 03135 विपरीत-व्यतिरेको यथा, यद् अकृतकं तन् नित्यं भवति इति. 03136 न ह्य् एभिर् दृष्टान्ताभासाइर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेष-लक्षणं वा. तद् अर्थापत्त्या एषां निरासो द्रष्टव्यः. 03137 दूषणा न्यूनता-आद्य्-उक्तिः. 03138 ये पूर्वं न्यूनता-आदयः साधन-दोषा उक्तास् तेषाम् उद्भावनं दूषणम्. तेन पर-इष्ट-अर्थ-सिद्धि-प्रतिबन्धात्. 03139 दूषणाभासास् तु जातयः. 03140 अभूत-दोष-उद्भावनानि जात्य्-उत्तराणि इति.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
