Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दु (bản Steinkellner)

Tác giả
धर्मकीर्ति
Thông tin
GRETIL — E. STEINKELLNER, Dharmakirti's Hetubinduh. Teil I. Tibetischer Text und rekonstruierter Sanskrit-Text. Wien 1967.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

धर्मकीर्ति: हेतुबिन्दु

explanatory remarks

a number of five figures at the left side indicates the location of the key word in the basic texts. in the case of the sv, the hb and the vn, the first three figures indicate the page number, and the last two indicate the line number (for example, sv16026=sv 160,26; hb02314=hb 23,14; vn06110=vn 61,10). in the case of the pv and the nb, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, pv02232=pv, the pramanasiddhi-chapter v.232; nb03015=nb, the pararthanumana-chapter sutra 15. in the case of the sp, the last two figures indicate the karika number (for example, sp00015=sp, v.15).

3. in this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions:

3.1. the prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words.

3.2. suffixes making an adverb, for example -vat, -vasa, are divided. but suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided.

3.3. compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. for example: karyakaranabhava/-bhuta/-ta.

3.4. compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. for example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava.

3.5. some compound words which are regarded as terminology remain also undivided. for example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha.

4. those terms whose wordhead is subject to the sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an kwic index.

1. औगुस्त्. 1997 / त्सुकुब मोतोइ ओनो

note: this database is quite a tentative one, and i must admit that there are a lot of errors and defects in this version. i would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future.

ए-मैल्: ओनो@लोगोस्.त्सुकुब.अच्.ज्प्

00104 नमो बुद्धाय. 00105 परोक्ष-अर्थ-प्रतिपत्तेर् अनुमान-आश्रयत्वात् तद्-व्युत्पादन- 00106 अर्थं संक्षेपत इदम् आरभ्यते. 00108 पक्ष-धर्मस् तद्-अंशेन व्याप्तो हेतुस् त्रिधा एव सः / 00109 अविनाभाव-नियमाद् हेत्वाभासास् ततो अपरे //

00110 पक्षो धर्मी, अवयवे समुदाय-उपचारात्. प्रयोजन-अभावाद् 00111 अनुपचार इति चेत्, न, सर्व-धर्mi-dharma-pratiषेध-अर्थत्वाद् 00112 उपचारस्य. एवं हि चाक्षुषत्व-आदि-परिहृतं भवति. 00113 धर्म-वचनेन अपि धर्मस्य पराश्रयत्वाद् धर्म्य्-आश्रय- 00114 सिद्धौ धर्मि-ग्रहणात् प्रत्यासत्तेः साध्य-धर्मि-सिद्धिर् इति 00115 चेत्, न, दृष्टान्त-धर्मिणो अपि प्रत्यासत्तेः. तद्-अंश-व्याप्त्या 00116 दृष्टान्त-धर्मिणि सत्त्व-सिद्धेर् धर्मि-वचनात् साध्य-धर्मि- 00117 परिग्रहः. सिद्धे अपि पुनर्-वचनं नियम-अर्थम् आशङ्क्येत. 00118 सजातीय एव सत्त्वम् इति सिद्धे अपि तद्-अभावे व्यतिरेके 00119 साध्य-अभावे असत्त्व-वचन-वत् तद्-अंश-व्याप्ति-वचनात् सिद्धे 00120 अपि दृष्टान्त-धर्मिणि सत्त्वे धर्मि-वचनं तत्र एव भाव- 00121 नियम-अर्थम् आशङ्क्येत. तस्मात् सामर्थ्याद् अर्थ-गताव् अप्य् 00201 उपचार-मात्रात् समान-निर्देशात् प्रतिपत्ति-गौरवं च परिहृतं 00202 भवति. पक्षस्य धर्मत्वे तद्-विशेषण-अपेक्षस्य अन्यत्र अननुवृत्तेर् 00203 असाधारणता इति चेत्, न, अयोगव्यवच्छेदेन विशेषणाद् 00204 यथा चैत्रो धनुर्धर इति न अन्ययोगव्यवच्छेदेन यथा 00205 पार्थो धनुर्धर इति. 00206 तद्-अंशस् तद्-धर्मः. 00207 व्याप्तिर् व्यापकस्य तत्र भाव एव व्याप्यस्य वा 00208 तत्र एव भावः. 00209 एतेन अन्वयो व्यतिरेको वा पक्ष-धर्मश् च यथास्वं 00210 प्रमाणेन निश्चित उक्तः, सर्वत्र हेतौ साध्य-धर्म-अभावे 00211 व्याप्त्य्-असिद्धेर् व्यापक-निवृत्तौ वा व्यतिरेक-अभावात् अन्वय-व्यतिरेकाभ्यां 00212 निश्चिताभ्यां तद्-अंश-व्याप्तिर् निश्चिता.

00213 तत्र पक्ष-धर्मस्य साध्य-धर्मिणि प्रत्यक्षतो अनुमानतो 00214 वा प्रसिद्धिर् निश्चयः, यथा प्रदेशे धूमस्य शब्दे 00215 वा कृतकत्वस्य. सधूमं हि प्रदेशम् अर्थान्तर-विविक्त-रूपम् 00216 असाधारण-आत्मना दृष्टवतः प्रत्यक्षेण यथा-दृष्ट-भेद-विषयं 00217 स्मार्तं लिङ्ग-विज्ञानम् उत्पद्यते. 00218 तत्र यद् आद्यम् असाधारण-विषयं दर्शनं तद् 00219 एव प्रमाणम्. 00220 तस्मिन् तथाभूते दृष्टे सति स येन येन असाधारणस् 00221 तद्-असाधारणतां ततो भेदम् अभिलपन्त्य् अतद्-व्यावृत्ति-विषया 00222 स्मृतिर् उत्पन्ना प्रत्यक्ष-बलेन यथादृष्ट-आकार-ग्रहणान् न 00223 प्रमाणम्, प्राग् असाधारणं दृष्ट्वा असाधारण इत्य् अभिलपतो 00224 अपूर्व-अर्थ-अधिगम-अभावाद् अर्थक्रिया-साधनस्य दर्शनाद् 00225 अदृष्टस्य पुनस् तत्-साधन-स्वभावस्य विकल्पेन अप्रतिपत्तेश् 00301 च अनुमान-वत्. अर्थक्रिया-अर्थी हि सर्वः प्रमाणम् अप्रमाणं 00302 वा अन्वेषते प्रेक्षावान्, न च सामान्यं कांचिद् अर्थक्रियाम् 00303 उपकल्पयति स्वलक्षण-प्रतिपत्तेर् ऊर्ध्वं तत्-सामर्थ्य-उत्पन्न- 00304 विकल्प-विज्ञान-ग्राह्यं यथा नीलं दृष्ट्वा नीलम् इति 00305 ज्ञाने. तद् एव हि नील-स्वलक्षणं तथाविध-साध्य-अर्थक्रियाकारि, 00306 तच् च तेन आत्मना दृष्टम् एव प्रत्यक्षेण. न च 00307 तत्-स्वलक्षण-ग्रहण-उत्तरकालभावि-नील-विकल्पस्य विषयेण नील- 00308 अर्थ-साध्य-अर्थक्रिया क्रियते. तस्माद् अनधिगत-अर्थ-विषयं 00309 प्रमाणम् इत्य् अप्य् अनधिगते स्वलक्षण इति विशेषनीयम्. 00310 अधिगते तु स्वलक्षणे तत्-सामर्थ्य-जन्मा विकल्पस् तद्-अनुकारी

00311 कार्यतस् तद्-विषयत्वात् स्मृतिर् एव न प्रमाणम्, अनधिगत- 00312 वस्तु-रूप-अनधिगतेः, वस्त्व्-अधिष्ठानत्वात् प्रमाण-व्यवस्थायाः, 00313 अर्थक्रिया-योग्य-विषयत्वात् तद्-अर्थिनां प्रवृत्तेः, 00314 अर्थक्रिया-योग्य-लक्षणं हि वस्तु; ततो अपि विकल्पाद् वस्तुन्य् 00315 एव तद्-अध्यवसायेन प्रवृत्तेः, प्रवृत्तौ विकल्पस्य प्रत्यक्षेण 00316 अभिन्न-योगक्षेमत्वात्. 00317 पूर्व-प्रत्यक्ष-क्षणेन उपयोग-अभेदाद् उत्तरेषु कस्यचिद् 00318 अप्रामाण्य-प्रसङ्ग इति चेत्, न, क्षण-विशेष-साध्य-अर्थ-वाञ्छायां 00319 नाना-योगक्षेमत्वात्. साधारणे हि कार्ये न तेषां सामर्थ्य-भेदः, 00320 अपरापर-धूम-प्रमित-संनिकृष्ट-अग्निष्व् इव अग्नि-मात्र-साध्ये 00401 अर्थे. एतेन धर्म-धर्मि-लिङ्ग-आदि-विकल्पस्य प्रमाण-पृष्ठ- 00402 भाविनः प्रामाण्यं प्रत्युक्तम्. 00403 अन्वय-निश्चयो अपि स्वभावहेतौ साध्य-धर्मस्य वस्तुतस् 00404 तद्-भावतया साधन-धर्म-भाव-मात्र-अनुबन्ध- 00405 सिद्धिः. सा साध्य-विपर्यये हेतोर् बाधक-प्रमाण-वृत्तिः. 00406 यथा यत् सत् तत् क्षणिकम् एव, अक्षणिकत्वे अर्थक्रिया-विरोधात् 00407 तल्-लक्षणं वस्तुत्वं हीयते. कार्यहेतौ कार्यकारणभाव- 00408 सिद्धिः, यथा इदम् अस्य उपलम्भ उपलब्धि-लक्षण-प्राप्तं 00409 प्राग् अनुपलब्धम् उपलभ्यते, सत्स्व् अप्य् अन्येषु हेतुष्व् 00410 अस्य अभावे न भवति इति यस् तद्-भावे भावस् तद्-अभावे 00411 अभावश् च प्रत्यक्ष-अनुपलम्भ-साधनः कार्यकारणभावस् 00412 तस्य सिद्धिः. कार्यकारणभाव एव ह्य् अर्थान्तरस्य एवं 00413 स्यात् यत्र धूमस् तत्र अवश्यम् अग्निः, अग्नेर् भाव

00414 एव हि भावो धूमस्य तत्-कार्यत्वम्. अनुपलब्धाव् अप्य् 00415 अन्वय-निश्चयो असद्-व्यवहारस्य उपलब्धि-लक्षण-प्राप्त-अनुपलब्धि- 00416 मात्रे वृत्ति-साधनं निमित्त-अन्तर-अभाव-उपदर्शनात्. 00417 व्यतिरेक-निश्चयो अपि कार्य-स्वभावहेतोः कार्यकारण- 00418 व्याप्यव्यापकभाव-सिद्धौ दृश्य-विषयाभ्यां कारण-व्यापक- 00419 अनुपलब्धिभ्यां साध्य-अभावे हेत्व्-अभाव-सिद्धिर् उद्दिष्ट- 00420 विषयस्य अभावस्य उपदर्शने, अन्यथा अनुपलब्धि-लक्षण-प्राप्तस्य 00421 क्वचिद् अभाव-असिद्धेः. अनुद्दिष्ट-विषयं साध्य-अभावे 00422 अभाव-ख्यापनं अप्रतिबन्ध-मात्र-सिद्धौ सिध्यति इति न तत्र 00501 व्यतिरेक-साधने अनुपलब्ध्योर् दृश्य-विषयता अपेक्ष्यते. व्यतिरेक- 00502 निश्चयो अनुपलब्धाव् उपलब्धि-लक्षण-प्राप्तात् सतो अनुपलम्भ- 00503 अभाव-दर्शनम्. 00504 एतल्-लक्षणस् त्रिधा एव सो हेतुस् त्रिप्रकार एव, स्वभावः 00505 कार्यम् अनुपलब्धिश् च इति यथा अनित्ये कस्मिंश्चित् साध्ये सत्त्वम् 00506 अग्निमति प्रदेशे धूमो अभावे च उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् 00507 इत्य् अत्र एव त्रिविधे अविनाभाव-नियमात्. पक्ष-धर्मस्य 00508 यथोक्ता व्याप्तिर् अविनाभावः; स त्रिविधाद् हेतोर् 00509 अन्यत्र न अस्ति इत्य् अत्र एव नियत उच्यते. 00510 तत्र साधन-धर्म-भाव-मात्र-अन्वयिनि साध्य-धर्मे 00511 स्वभावो हेतुः. अपरापर-व्यावृत्ति-भेदेन धर्म-भेदे अपि 00512 वस्तुतो लिङ्गि-स्वभाव एव हेतु-स्वभावे अन्वय-व्यभिचार-अभावाल् 00513 लक्षणे तन्-मात्र-अन्वयेन विशेषणं पर-मत-अपेक्षम्. 00514 परे ह्य् अर्थान्तर-निमित्तम् अतद्-भाव-मात्र-अन्वयिनम् अपि

00515 धर्मं स्वभावम् इच्छन्ति. विशेषणेन तथाविधस्य अतत्- 00516 स्वभावतां तस्मिन् साध्ये हेतोर् व्यभिचारं च आह, यथा 00517 हेतुमति विनाशे कृतकत्वस्य. 00518 तस्य द्विधा प्रयोगः; साधर्म्येण वैधर्म्येण च, 00519 यथा यत् सत् तत् सर्वं क्षणिकं यथा घट-आदयः संश् 00520 च शब्द इति, तथा क्षणिकत्व-अभावे सत्त्व-अभावः, संश् च 00521 शब्द इत्य् अन्वय-व्यतिरेकाभ्यां सर्व-उपसंहारेण व्याप्ति-प्रदर्शन 00522 लक्षणौ साधर्म्य-वैधर्म्य-प्रयोगौ. 00523 अत्र सामर्थ्याद् एव प्रतिज्ञा-अर्थस्य प्रतीतेर् न प्रतिज्ञायाः 00524 प्रयोगः. अप्रदर्शिते प्रमेये अर्थे कथं तत्-प्रतीतिर् इति चेत्. 00601 स्वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता. प्रदेश-स्थं 00602 धूमम् उपलब्धवतस् तस्य अग्निना व्याप्तेः स्मरणे तत्-सामर्थ्याद् 00603 एव अग्निर् अत्र इति प्रतीतिर् भवति. न च तत्र कश्चिद् 00604 अग्निर् अत्र इत्य् अस्मै निवेदयति. न अपि प्राग् एव प्रतिपद्यते 00605 किंचित्, प्रमाणम् अन्तरेण एवं प्रतीतेर् निमित्त-अभावात्. 00606 प्रतीतौ लिङ्गस्य वैयर्थ्यं. स्वयम् एव अकस्माद् 00607 अग्निर् अत्र इति प्रमेयं व्यवस्थाप्य पश्चात् तत्-प्रतिपत्तये 00608 लिङ्गम् अनुसरति इति को अयं प्रतिपत्तेः क्रमः. परेण अपि 00609 तद् उच्यमानं प्लवत एव, उपयोग-अभावात्. विषय-उपदर्शनम् 00610 उपयोग इति चेत्, तेन एव तावद् दर्शितेन को अर्थः. यदि 00611 प्रतीतिर् अन्यथा न स्यात्, सर्वं शोभेत. तस्माद् एषः स्वयं 00612 प्रतीतौ विना अपि केनचिद् विषय-उपस्थापकेन प्रतियन् अस्मान् 00613 कार्यिणो दृष्ट्वा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते.

00614 अस्मद्-वचनाद् अपि स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य 00615 प्रत्येति इति को अनयोर् अवस्थयोर् विशेषः. दृष्टा च पक्ष-धर्म- 00616 सम्बन्ध-वचन-मात्राद् प्रतिज्ञा-वचनम् अन्तरेण अपि प्रतीतिर् 00617 इति कस् तस्य उपयोगः. स्व-निश्चय-वद् अन्येषाम् अपि निश्चय-उत्पादनाय 00618 च साधनम् उच्यते, तत्र स्वयम् अयं प्रमेयस्य उपदर्शनम् 00619 अन्तरेण अपि प्रतिपद्य परं प्रतिपादयन् अपूर्वम् 00620 अर्थ-क्रमम् आश्रयत इति किम् अत्र कारणम्. तस्मान् न प्रमेय- 00621 वचनेन किंचित् प्रयोजनम्, अन्यथा अपि प्रतिपत्तेर् 00622 उत्पत्तेः. 00623 एतेन उपनय-निगमन-आदिकम् अपि प्रत्युक्तम्, एतावता एव 00624 साध्य-प्रतीतेर् भावात्. डिण्डिक-रागं परित्यज्य-आक्षिणी- 00625 निमील्य चिन्तय तावत् किम् इयता प्रतीतिः स्यान् न वा. भावे 00701 किं प्रपञ्च-मालया, इति इयान् एव साधन-वाक्ये प्रयोगो 00702 ज्यायान्. 00703 अत्र पक्ष-धर्म-सम्बन्ध-वचनयोः क्रम-नियमो अपि न 00704 कश्चित्, सर्वथा गमकत्वात्. 00705 सम्बन्ध-वचने अपि केवलः प्रयोगो भिन्नः, उभयथा अपि 00706 धर्म-भेदे तथा अपि तद्-भावस्य एव ख्यापनात्. न ह्य् 00707 अतत्-स्वभावस्य भाव एकान्तेन अन्यभावः कृतकत्वस्य भावे 00708 प्रयत्नानन्तरीयकत्व-वत्, न अप्य् अतत्-स्वभावस्य निवृत्ताव् अकार्यस्य 00709 तस्य निवृत्तिर् यथा अनयोर् एव धर्मयोर् निवृत्तिः. तस्माद् 00710 अन्वय-व्यतिरेकयोर् यथा-लक्षणम् एको अपि प्रयुक्तो द्वितीयम् 00711 आक्षिपति इति न एकत्र साधन-वाक्ये द्वयोः प्रयोग इष्यते, 00712 वैयर्थ्यात्, तत्-स्वभावतया अन्वय-सिद्धौ तद्-अभावे अभाव-सिद्धेः,

00713 तद्-अभावे अभाव-सिद्धौ च अन्वयस्य अपि सिद्धेः. 00714 तद्-अभाव एव अभाव-ख्यातिर् यथा स्यान् न अन्यत्र विरुद्धे 00715 वा इति नियम-ख्यापन-अर्थो अपि व्यतिरेक-प्रयोगो न युक्तः, 00716 अन्य-विरुद्धयोर् अपि विपक्षत्वात्. 00717 कथम् इदम् अवगम्यते सद् अवश्यं नश्वर-स्वभावम् इति 00718 येन अन्वय-व्यतिरेक-सम्भव इति चेत्, विनाश-हेत्व्-अयोगात्. स्वभावत 00719 एव नश्वरा भावाः; न एषां निष्पन्नानाम् अन्यतो 00720 विनाश-उत्पत्तिः, तस्य असामर्थ्यात्; न हि विनाश-हेतुर् भाव-स्वभावम् 00721 एव करोति, तस्य निवृत्तेः. न अपि भाव-अन्तरम् एव, 00722 भाव-अन्तर-करणे भावे तद्-अवस्थे न किंचित् करोति इति तथा-उपलब्ध्य्- 00801 आदि-प्रसङ्गः. न अपि भाव-अन्तरम् अस्य आवरणम्, तद्-अवस्थे 00802 तस्मिन्न् आवरणस्य अप्य् अयोगात्. न अपि विनाश-हेतुना भाव-अभावः 00803 क्रियते, अभावस्य विधिना उपगमे व्यतिरेक-अव्यतिरेक- 00804 विकल्प-अनतिक्रमात्. भाव-प्रतिषेध-एकरूपत्वे भावं न 00805 करोति इति स्यात्, एवं च अकर्तुर् अहेतुत्वम् इति न विनाश-हेतुः 00806 कश्चित्. 00807 वैयर्थ्याच् च. यदि स्वभावतो नश्वरः स्वात्मन्य् अनवस्थायी- 00808 भावः, तस्य न किंचिन् नाश-कारणैः, तत्-स्वभावतया 00809 एव स्वयं नाशात्. यो हि यत् स्वभावः स स्व-हेतोर् 00810 एव उत्पद्यमानस् तादृशो भवति, न पुनस् तद्-भावे हेत्व्-अन्तरम् 00811 अपेक्षते, प्रकाश-द्रव-उष्ण-कठिन-आdi-dravya-vat. न हि प्रकाश-आदयस् 00812 तद्-आत्मान उत्पन्ना पुनः प्रकाश-आदि-भावे हेत्व्-अन्तरम् 00813 अपेक्षन्ते, तद्-आत्मनस् तादात्म्य-अभावे नैरात्म्य-प्रासङ्गात्.

00814 तद्वद् अस्थिति-धर्मा चेत् स्वभावतो निष्पन्नो न पुनस् 00815 तद्-आत्मतायां हेत्व्-अन्तरम् अपेक्षते. 00816 बीज-आदि-वद् अनेकान्त इति चेत्, स्याद् एतत्: बीज-आदीनाम् अङ्कुर-आदि- 00817 जनन-स्वभावानाम् अपि सलिल-आdi-hetv-antara-apekषणात् केवला न 00818 जनयन्ति, तद्वद् भावो अपि विनाशे स्याद् इति. न तत्-स्वभावस्य 00819 जननाद् अजनकस्य च अतत्-स्वभावत्वात्. अत एव 00820 तयोर् अवस्थयोर् वस्तु-भेदो निश्चेयः, भावानां स्वभाव 00821 अन्यथात्व-अभावात् तत्-स्वभावस्य पश्चाद् इव प्राग् अपि 00822 जनन-प्रसङ्गात्. तस्माद् यो अन्त्यो अवस्था-विशेषः स एव अङ्कुर-आदि- 00901 जनन-स्वभावः. पूर्व-भाविनस् त्व् अवस्था-विशेषाः कारणस्य 00902 कारणानि इति न अनेकान्तः, क्षणिकेषु भावेष्व् अपरापर-उत्पत्तेर् 00903 ऐक्य-अभावात्. 00904 ते अन्त्याः समर्थाः किं न जनयन्ति इति, जनयन्त्य् 00905 एव, न अत्र अन्यथाभावः स्वभावस्य अवैपरीत्यात्. तेषु सर्वेषु 00906 सहकारिषु समर्थ-स्वभावेषु को अपरस्य उपयोग इति चेत्, न वै 00907 भावानां काचित् प्रेक्षा-पूर्व-कारिता यतो अयम् एको अपि समर्थः 00908 किम् अस्माभिर् इत्य् अपरे निवर्तेरन्. निरभिप्राय-व्यापारा 00909 हि स्व-हेतु-परिणाम-उपनिधि-धर्मास् तत्-प्रकृतेस् तथाभवन्तो 00910 न उपालम्भम् अर्हन्ति. समर्थाः किं न अपरापरं जनयन्ति 00911 इति चेत्, न, तत्र एव सामर्थ्यात्. तस्य एव एकस्य जनने 00912 समर्था न अन्यस्य इति न अपरापर-जननम्. 00913 भिन्न-स्वभावेभ्यश् चक्षुर्-आदिभ्यः सहकारिभ्य एक- 00914 कार्य-उत्पत्तौ न कारण-भेदात् कार्य-भेदः स्याद् इति चेत्,

00915 न, यथास्वं स्वभाव-भेदेन तद्-विशेष-उपयोगतस् तद्-उपयोग- 00916 कार्य-स्वभाव-विशेष-असङ्करात्, यथा मृत्-पिण्ड-कुलाल 00917 सूत्र-आदिभ्यो भवतो घटस्य मृत्-पिण्डाद् अमृत्-स्वभावेभ्यो 00918 वृक्ष-आदिभ्यो भिन्नः स्वभावः कुलालात् तस्य एव मृद्-आत्मनः 00919 सतः संस्थान-विशेष-आत्मतया तद्-अन्येभ्यो भिन्नः सूत्रात् 00920 तस्य एव मृत्-संस्थान-विशेष-आत्मनश् चक्र-आदेर् विभक्तः स्वभावो 00921 भवति; तद् एवं न कुलालान् मृत्-स्वभावता, न 01001 मृदः संस्थान-विशेषः; न च तयोः शक्ति-विशेष-विषय- 01002 भेदो अपि तज्-जनित-विशेष-भेदस्य कार्यस्य स्वभाव-भेदः, 01003 मृत्-संस्थानयोर् अपरस्पर-आत्मतया संस्थान-मृद्-रूपाभ्यां 01004 तयोर् अप्रतिभासन-प्रसङ्गात्. 01005 अन्यद् एव संस्थानं गुणो मृद्-द्रव्यात्, तेन भिन्न- 01006 स्वभावः कुलाल-मृत्-पिण्डयोर् उपयोग-विषय इति चेत्, उक्तम् 01007 अत्र. अपि च यदि संस्थानं भिन्नं मृदः, कुलालः किं 01008 न पृथक् करोति. गुणस्य द्रव्य-परतन्त्रत्वम् इति न पृथक् 01009 करोति. तत्-संस्थान-आधार-आत्मकं यदि स्वभावेन तद् द्रव्यं 01010 तत्-संस्थानं वा तद्-आधेय-आत्मकम्, किं कुलाल-अपेक्षया इति चेत्, 01011 न, ततः परस्पर-सम्बन्ध-योग्यता-प्रतिलम्भात्; अन्यथा 01012 वस्तुन एव योग्यता धर्मता इति प्राग् अपि मृत्-पिण्डस्य संस्थान- 01013 विशेष-सम्बन्ध-योग्यत्वे सति संस्थान-विशेषेण सम्बन्ध- 01014 प्रसङ्गः. एवं तर्हि सा योग्यता मृद्-द्रव्यस्य कुलालाद् 01015 भवति इति न अनयोः स्वभाव-भेदः, भेदे हि प्राग्-वत् प्रसज्येत.

01016 अस्ति तावद् एक-स्वभावत्वे अपि कस्यचिद् अनेक-प्रत्यय-उपधेय- 01017 विशेषता इति न मृत्-संस्थानयोर् एक-स्वभावत्व-साधनाय 01018 निर्बन्धः. 01019 तेन सहकारिणः प्रत्यया न एक-उपयोग-विषयाः कार्य- 01020 स्वभावस्य एकत्वे अपि वस्तुत इति यथा इह कारण-भेदो भिन्न- 01021 विशेष-उपयोगान् न एक-कार्यस् तथा चक्षुर्-आदिभ्यो विज्ञान-उत्पत्ताव् 01022 उन्नेयः. तथा हि समनन्तरप्रत्ययाद् विज्ञानाच् 01101 चक्षुर्विज्ञानस्य उपलम्भ-आत्मता तस्य एव उपलम्भ-आत्मनः 01102 सतश् चक्षुर्-इन्द्रियाद् रूप-ग्रहण-योग्यता-प्रतिनियमो विषयात् 01103 तत् तुल्य-रूपता इत्य् अभिन्नत्वे अपि वस्तुतः कार्यस्य कारणानां 01104 भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति इति न 01105 कारण-भेदे अप्य् अभेदस् तत्-कार्य-विशेषस्य. त एव एते कारण- 01106 शक्ति-भेदा यथास्वं प्रतिविशिष्ट-कार्य-जनने अव्यवधेय- 01107 शक्तितया प्रत्युपस्थिताः क्षणिकत्वात् सामग्री-कार्यस्य स्वभाव- 01108 स्थित्य्-आश्रय इत्य् उच्यन्ते. तथा हि तत् तेभ्यः समस्तेभ्य 01109 उपलम्भ-आत्मकं रूप-ग्रहण-प्रतिनियतं विषय- 01110 रूपं च इति प्रतिविशिष्ट-स्वभावम् एकं जातम्. 01111 अप्रतिरोध-शक्तिकेष्व् अनन्तर-कार्येष्व् अनाधेयविशेषेषु क्षणिकेषु 01112 प्रत्ययेषु परस्परं कः सहकार-अर्थ इति चेत्, न वै 01113 सर्वत्र अतिशय-उत्पादनं सहक्रिया. किं तर्हि. बहूनां यद् 01114 एक-अर्थ-करणम् अपि, यथा अन्त्यस्य कारण-कलापस्य. तद् 01115 एव मुख्यं सहकारित्वं सहकारीणाम्, तस्य एव अन्त्यस्य 01116 कारणत्वात् तत्र च क्षण एकस्य स्वभावस्य अविवेकाद् विशेषस्य

01117 कर्तुम् अशक्यत्वात्, स्वभाव-अन्तर-उत्पत्ति-लक्षणत्वाद् विशेष- 01118 उत्पत्तेः. भाव-अन्तर-उत्पत्ताव् अन्त्यं न स्यात्, ततश् च न 01119 साक्षात् कारणं स्यात्. तस्मान् न कारणस्य सहकारिभ्यो विशेष- 01120 उत्पत्तिः. ते समर्थाः स्वभावतो अन्त्याः प्रत्ययाः 01121 सह जायन्ते क्षणिका येषां प्राग्-पश्चात्-पृथग्-भावो न अस्ति 01122 येभ्यश् च अनन्तरं कार्यम् उत्पद्यते, तत्र एक-अर्थक्रिया 01123 एव सहकारित्वम्. 01201 समर्थः कुतो जायत इति चेत्, स्व-कारणेभ्यः. 01202 तान्य् एनम् अपर-प्रत्यय-संनिधान किं जनयन्ति, 01203 कदाचिद् अन्यथा अपि स्युः, ततश् च एको अपि क्वचिद् जनयेद् इति 01204 चेत्, अपरापर-प्रत्यय-योगेन प्रतिक्षणं भिन्न-शक्तयः 01205 संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः 01206 प्रतीयन्ते, तथा अपि भिन्न एव एषां स्वभावः; तेन किंचिद् 01207 एव कस्यचित् कारणम्. 01208 तत्र यो अव्यवधान-आदि-देशो रूप-इन्द्रिय-आदि-कलापः स विज्ञान- 01209 जनने समर्थो हेतुः. यस् तेषां परस्पर-उपसर्पण- 01210 आद्य्-आश्रयः प्रत्यय-विशेषः स तd-hetu-janane समर्थः. 01211 तेषां च न पूर्वं न पश्चान् न पृथग् भाव इति समर्थान् 01212 अपि पूर्व-अपर-पृथग्-भाव-भाविनो दोषा न उपलीयन्ते. तेन यस् 01213 तेषां परस्पर-उपसर्पण-आदि-हेतुः स समर्थस्य हेतुर् इति तत्र 01214 न कदाचिद् अन्यथाभावः. अनेन न्यायेन सर्वत्र हेतु-फल- 01215 भाव-प्रतिनियमो बोद्धव्यः प्रतिक्षणम् अन्यान्य-स्वभाव- 01216 भेद-अन्वयिनीषु भाव-शक्तिषु, न तु स्थिर-एक-स्वभावेषु भावेषु,

01217 स्वभावस्य अन्यथात्व-असम्भवात् समर्थ-असमर्थ-स्वभावानां 01218 क्रिया-अक्रिया-अनुपपत्तेः. 01219 अन्य-सहितः करोति न केवल इति चेत्, किं केवलस्य कार्य- 01220 जनने समर्थः स्वभावो असमर्थो वा समर्थ इति चेत्, किं 01221 न करोति, अकुर्वन् कथं समर्थः. कुविन्द-आदयः पट-आदि- 01222 क्रियायां समर्था अपि न सर्वदा कुर्वन्ति इति चेत्, क्रीडन-शीलो 01301 देवानांप्रियो 01301 मूर्खः सुखैधितः कृतम् अपि पुनः पुनः 01302 कारयति, तथा ह्य् एतद् बीज-आद्य्-उपन्यासे निर्लोठितम्. तस्मात् 01303 स्वभावस्य अन्यथात्व-असम्भवात् तद्-धर्मणस् तथाभावो 01304 अन्त्य-अवस्था-वद् अनिवार्यः. 01305 अन्त्य-अवस्थायां प्राग् असमर्थस्य सामर्थ्य-उत्पत्तौ 01306 सामर्थ्यस्य तत्-स्वभावत्वे अपूर्व-उत्पत्तिर् एव सा, अतत्-स्वभावत्वे 01307 सो अकारक एव, सामर्थ्य-आख्याद् भावात् कार्य-उत्पत्तेः. 01308 अपि च स एव तावत् सकल-सहकारि-सहितः कार्यं कस्मात् 01309 करोति कुर्वन् दृष्टः, तेन करोति इति ब्रूमः. अहो महा-सामर्थ्यं 01310 महा-प्रभावस्य दर्शनम् अतत्-स्वभावान् अपि भावान् 01311 स्वभाव-मात्रेण नाना-व्यापारेषु नियुञ्जनम्. यदि नाम 01312 कदाचित् किंचित् कथंचित् अत्र-भवन्तो दर्शन-पथम् अतिक्रामेत्, 01313 हन्त-अप्रसव-धर्मकम् अपेत-सन्तानं स्याद् इति इयं 01314 चिन्ता चित्तं दुनोति. न वै वयम् अतत्-स्वभावानाम् अस्मद्-दर्शन- 01315 वशात् कार्य-क्रियां ब्रूमः. किं तर्हि. स्वभावेन एव ते 01316 तत्-करण-धर्माः, तान् पश्यन्तः केवलं जानीमहे त एते 01317 कारका इति. सत्यम्, इदम् अप्य् अस्ति, स्वभावस् तेषां कार्य-क्रिया-

01318 धर्मा, तेन समस्त-प्रत्ययवताम् अकृत्वा न उपेक्षा आपत्तिर् इति. 01319 सो अक्षेप-क्रिया-धर्मा स्वभावः किं तेषां तदा एव अन्त्य- 01320 अवस्थायाम् उत्पन्न आहोस्वित् प्राग् अप्य् आसीत्. आसीत्, अप्रच्युत-उत्पन्न- 01321 स्थिर-एक-स्वभावानां कदाचन कस्यचित् स्वभावस्य अभाव- 01401 विरोधात्. तत् किम् इदानीं माता च वन्ध्या च; को वा अस्य 01402 भाषितस्य अर्थो अक्षेप-क्रिया-धर्मा च स्वभावो न च करोति इति. 01403 सहितस् तत्-स्वभावो न केवल इति चेत्, अन्यस् तर्हि केवलो 01404 अन्यश् च सहितस्, स्वभाव-भेदो हि भाव-भेदस्य लक्षणम्. 01405 न हि स साहित्ये अपि पररूपेण कर्ता; स्वरूपं च अस्य प्राग् 01406 अपि तद् एव इति कथं कदाचित् क्रिया-विरामः. यस्य अपि भावः 01407 क्षणिकस् तस्य अपि कस्मात् केवलो न करोति, यदि भवेत्, कुर्याद् एव. 01408 कथं न भवति. क्षणिकत्वात्. उक्तं यादृशस्य क्रिया. स कथम् 01409 एक-क्षण-भाव्य् अन्यथा भवेत्. यश् च भवति, स एव न 01410 भवति इति न अयं प्रसङ्गः, कारक-अकारकयोः स्वभाव-तद्- 01411 हेतोर् विरोधात्. 01412 यो अपि मन्यते अक्षेप-क्रिया-धर्मा एव स तस्य स्वभावः, 01413 न स साहित्यम् अपेक्षते, कार्यं तु प्रत्यय-अन्तर-अपेक्षम् 01414 इति सहितेभ्य एव जायते न केवलेभ्य इति, तस्य अपि 01415 कथं स केवलो अपि करोत्य् एव कार्यं च तस्मान् न उत्पद्यते 01416 इति तद्-अवस्थो विरोधः. न केवलः करोत्य् एव इति चेत्, कथम् 01417 इदानीम् अक्षेप-क्रिया-स्वभावः. नन्व् एतद् एव परिदीपितं 01418 भवति करोत्य् एव इति; कार्यं च अयं केवलो अपि समर्थः

01419 सन् परम् अपेक्षमानं कथम् उपेक्षेत. परम् अनादृत्य एतद् 01420 प्रसह्य कुर्यात्, एवं ह्य् अनेन आत्मनः सामर्थ्यं दर्शितं 01421 भवति. कार्यं परम् अपेक्षत इति ततः केवलाद् अनुत्पत्तिर् 01501 उक्ता भवति, स केवलो अपि समर्थ-स्वभाव इति तत उत्पत्तिं 01502 ब्रूषे, एते च एकत्र कथं स्याताम्. तद् अयम् ईर्श्या-शल्य-वितुद्यमान- 01503 मर्मा विक्लवं विक्रोशति इत्य् उपेक्षाम् अर्हति. 01504 तस्माद् इदम् एक-अर्थक्रिया-लक्षणं सहकारित्वं क्षणिकानां 01505 एव भावानाम्, न त्व् अक्षणिकानां पृथग्भाव-सम्भवानाम्, 01506 पृथक्-क्रिया-सम्भवेन सहकारित्व-नियम-अयोगात्. 01507 यत्र तु सन्तान-उपकारेण भावा हेतुतां प्रतिपद्यन्ते 01508 यथा तण्डुल-बीज-आदिभ्य ओदन-अङ्कुर-आदि-जन्मनि दहन-उदक- 01509 पृथिव्य्-आदयः, तत्र सन्तान-आश्रयेण विशेष-उत्पादनं प्रत्ययानां 01510 सहक्रिया उच्यते, न द्रव्य-आश्रयेण, क्षणिके द्रव्ये विशेष- 01511 अनुत्पत्तेः; न हि तण्डुल-आदीनां दहन-आदौ क्रमेण स्वभाव- 01512 अतिशय-अनुत्पत्ताव् ओदन-आदि-सिद्धिः प्रभास्वराद् वा अपवरक- 01513 प्रविष्ट-इन्द्रियस्य स्व-उपकारिभ्यः सन्तान-विशेष-अनुत्पत्ताव् अर्थ- 01514 प्रतिपत्ति-जन्म. 01515 अक्षेप-कारिषु त्व् इन्द्रिय-आदिषु न विशेष-उत्पत्तिः परस्परतः. 01516 तत्र यथास्वं प्रत्ययैः परस्पर-उपसर्पण-आद्य्-आश्रयैर् ये 01517 योग्य-देश-आद्य्-अवस्था जाताः, ते सह स्वभाव-निष्पत्त्या ज्ञान- 01518 हेतुतां प्रतिपद्यन्त इति तत्र एक-अर्थक्रिया एव सहकारित्वम्. 01519 यत्र विशेष-उत्पादनेन सहकारिणः प्रत्ययास् तत्र हेतु-

01520 सन्तानः प्रत्ययान् अपेक्षत इति ततः स्वभाव-अन्तर-प्रतिलम्भ- 01521 उच्यते. तत्र स्व-रसतो हेतु-प्रत्ययानां पूर्व-क्षण-निवृत्तौ 01522 तेभ्य एव विशिष्ट-क्षण-उत्पादात् क्रमेण यावद् अतिशयवतो 01523 अन्त्य-कारण-कलापात् कार्यस्य उत्पत्तिः. 01601 सहकारिणः समुत्पन्न-विशेषात् कारणात् कार्य-उत्पत्तौ विशेषस्य 01602 एव उत्पत्तिर् न युक्ता. अविशिष्टाद् विशेष-उत्पत्तौ कार्यस्य अपि 01603 स्यात्; परस्पर-विशेष-उत्पादान् अपेक्षिणो अपि सहकारिणः कार्यं 01604 कुर्वीरन्. तेन अक्षणिकानाम् अपि सहकार्य्-अनपेक्षाणां कारणता 01605 स्यात्, अपेक्षणीयेभ्यः स्वभाव-अतिशय-उत्पत्तिश् च न स्यात्. अथ 01606 सहकारिणा कृत-विशेष एव विशेष-उत्पादाव् अप्य् उपतिष्ठेत; एवम् 01607 अनवस्था स्यात्. न च सहकारिणः परस्पर-कार्य-उत्पाद-अनुगुण 01608 विशेष-उत्पादने नित्यं योग्य-अवस्था येन एषां परस्पर- 01609 कृत-विशेषो नित्य-अनुषक्तः स्यात्, तद्-उपाय-अपाययोः कार्य-व्यक्ति- 01610 विरह-दर्शनात्. तेन आद्यो विशेषः सहकारिभ्यो निरुपकारस्य 01611 न उत्पद्यत इति चेत्, न अस्माकं पुनः पुनर् वचने कश्चिद् 01612 उद्वेगो भवति; यद्य् एवम् अपि लोकस्य न्याय-प्रतीतिर् भवति, 01613 हन्त तर्ह्य् उच्यताम्. न विशेष-उत्पादनाद् एव सहकारिणां 01614 सहकारित्वां यतस् तद्-अभावाद् विशेष-जनने सहकारिणो न 01615 स्युः. किं तर्हि. एक-अर्थक्रियाया अपि. स अपि भवेत् परस्परतो 01616 विशेष-रहितानाम्. अथ भवेत्, पृथग् अपि भवेत्; तथा च तद् 01617 विशेष-भावि कार्यम् अपि केवलाद् भवेत् इति चेत्, प्रतिक्षणम् 01618 अपरापरैः प्रत्ययैर् यथा भाव-सन्ताने विशेष-उत्पत्तिर् योग्य-

01619 देशता-आद्य्-अवस्था-विशेषाणां च कार्य-करणं तेषां च यत 01620 उत्पत्तिः प्रत्येकं च सामर्थ्ये अपि यथा केवलानाम् अक्रिया- 01701 कर्तृ-विशेषस्य पृथग्भाव-अभावात् कार्य-द्वैविध्यं च सहकारि- 01702 सञ्जनित-विशेष-परंपर-उत्पत्ति-धर्मकम् अन्यच् च अङ्कुर-आदि- 01703 वद् अक्षेप-कार्i-indriya-vijञान-वच् च कार्य-कारणयोः स्वभाव- 01704 भेदाद् इति सर्वम् उक्तम्. तत्र सहकारिभ्यः सन्तान-उपकार- 01705 अपेक्ष-कार्य-कारण-जन्मनि सहकारिणाम् आद्यो विशेषः सहकारि- 01706 कृत-विशेष-जन्मा न भवति अनन्तर-कार्य-वत्, तत्-प्रभृति ये 01707 विशेषास् ते तज्-जन्मानः, तस्य तेषां च तत्-प्रकृतित्वाद् इति 01708 न अनवस्था. तथा यद्य् अक्षणिको अपि भाव आद्य-विशेष-कारण-वद् 01709 अजनित-अतिशयः कार्यं कुर्यात्, करोतु नाम; सो अस्य स्वभावो 01710 यद्य् अक्षेप-कर्तृ-धर्मा, पृथग्भावस्य सम्भवात् केवलो 01711 अपि तथा स्याद् इत्य् उक्तम् अतत्-स्वभावस् तु तदा अप्य् अकारक एव. 01712 तस्माद् अक्षणिकानां कारणानां न एक-अर्थक्रियया कश्चित् 01713 सहकारित्व-नियमो न अपि सन्तान-उपकारेण इति न तस्य कश्चित् सहकारी; 01714 तस्मात् केवलो अपि कुर्यात्. प्रायस् तु संघात-स्थायी भाव- 01715 सन्तानः सहकारि-प्रत्ययैर् उपजनित-विशेषः स्व-कार्यं कुर्वन् 01716 दृष्टः, बीज-आदि-वत्. स्थिरहेतुवादिनो प्रत्यय-अपेक्षायां कारकस्य 01717 स्वभाव-अन्तरस्य उत्पत्तिर् इति व्यक्तम्; कार्यस्य अपेक्षा इत्य् 01718 उच्यते. कारकस्य स्वभावस्य प्राग् अपि भावो अक्रिया न युज्यते. 01801 तस्माद् यो यद्-आत्मा स सत्ता-मात्रेण तादृशो भवति;

01802 न भूत्वा तद्-भावे पर-अभिसंस्कारम् अपेक्षते. स्वभावतो 01803 अस्थिति-धर्मणो भावस्य न किंचिन् नाश-कारणैः; स्थिति-धर्मणो 01804 अपि भावस्य नाश-कारणैः किम्, स्वभावस्य केनचिद् अन्यथा 01805 कर्तुम् अशक्यत्वात्. अन्यथात्व-प्रतिपत्तौ वा तत्-स्वभाव एव 01806 न स्याद् इति पूर्व एव विकल्पः, तत्र च उक्तम्. यश् च परस्माद् 01807 अन्यथाभावः सो अपरः स्वभावः यश् च अपरः स कथं 01808 तस्य, स्वभाव-भेद-लक्षणत्वाद् भाव-भेदस्य. तथा च पूर्वको 01809 भावो अच्युति-धर्मे स्थित इति न तस्य अन्यथाभावः. 01810 एतेन कठिन-आदीनां ताम्र-आदीनाम् अग्न्य्-आदिभ्यो द्रव-आदि- 01811 स्वभाव-अन्तर-उत्पत्तिः प्रत्युक्ता. तत्र अपि पूर्वकस्य स्व-रस-निरोधित्वाद् 01812 विनाशे अग्न्य्-आदेर् उपादानाच् च अपर एव द्रव-आदि-स्वभाव- 01813 उत्पन्नः. 01814 स स्वयं स्थिति-धर्मा एव, विनाश-हेत्व्-असम्भवे अवस्थानात्. 01815 तस्य परस्माद् विनाशः, न च विनाशो नाम अपरः स्वभावः, 01816 भाव-च्युतिर् एव विनाश इति चेत्, न इदम् उत्तरं विकल्प- 01817 द्वयम् अतिक्रामति. किं नित्यो भावः स्वभावेन आहोस्विद् अनित्यो इति 01818 विकल्पे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो भवति इति ब्रुवाणः 01819 प्राक्तनस्य नित्य-अभिमतस्य सर्वदा नित्य-अनित्य-स्वभाव-भेदं 01820 भाव-द्वयं च स्वयं च नाशम् अनाशं च प्राह इति 01821 पूर्वस्मिन् विनाश-हेतुर् असमर्थः. न प्राङ् नित्यो भूत्वा पश्चाद् 01822 अनित्यो भवति. किं तर्हि. पश्चाद् अपि नित्यो एव, एक-स्वभावत्वात्. 01823 स तर्हि भावः स्वभावेन नाशम् अनाविशन् कथं नष्टो 01901 नाम, तत्-स्वभाव-विनाशयोर् अपरस्पर-रूपत्वात्.

01902 तस्मात् सत्य् अस्य विनाशे विनाश-स्वभावेन अनेन भवितव्यम्. 01903 तथा अपि व्यर्थो विनाश-हेतुर् इत्य् उक्तम्. तेन स्वभावतो 01904 नश्वरे अनश्वरे वा भावे न विनाश-हेतोर् उपयोगः. 01905 तस्माद् विनाशे अनपेक्षो भावस् तद्-भाव-नियत इति यः 01906 सन् स विनाशी, नाश्वरताया निवृत्तौ च सत्त्व-निवृत्तिर् इत्य् 01907 अन्वय-व्यतिरेक-सिद्धिः. 01908 स्वभावतो नश्वरत्वे अपि कश्चिद् अतत्-स्वभावो अपि स्यात्, न 01909 हि सर्वः सर्वस्य स्वभाव इति न अन्वय-व्यतिरेक-सिद्धिर् इति चेत्, 01910 न, अक्षणिकत्वे अवस्तुत्व-प्रसङ्गात्. शक्तिर् हि भाव-लक्षणम्, 01911 सर्व-शक्ति-विरहो अभाव-लक्षणम्. न च अक्षण्य क्वचित् काचिच् 01912 शक्तिः, क्रमयौगपद्याभ्याम् अर्थक्रिया-विरहात्. तस्माद् यत् 01913 सत् तत् क्षणिकम् एव इति व्याप्ति-सिद्धिः. 01914 अर्थान्तरे गम्ये कार्ये कार्यं हेतुः, अव्यभिचारात्. 01915 कार्यकारणभावेन यदि लिङ्गस्य गमकत्वम्, सर्वथा 01916 गम्यगमकभावः. सर्वथा जन्यजनकभावाद् इति चेत्, 01917 न, तद्-अभावे भवतः तदुपत्त्i-niyama-abhआवात्. तस्मात् 01918 कार्यं स्वभावैर् यावद्भिर् अविनाभावि कारणे, तेषां 01919 हेतुः, तत्-कार्यत्व-नियमात्, तैर् एव च धर्मैर् ये तैर् 01920 विना न भवन्ति. अंशेन जन्यजनकत्व-प्रसङ्ग इति चेत्, न, 01921 तज्-जन्य-विशेष-ग्रहणे अभिमतत्वाल् लिङ्ग-विशेष-उपाधीनां च सामान्यानाम्. 02001 अविशिष्ट-सामान्य-विवक्षायां व्यभिचारान् न इष्यते. 02002 कस्यचित् कदाचित् कुतश्चित् भावे अपि सर्वस् तादृशस् तथाविध- 02003 जन्मा इति कुतो अवसितम्. तथा च न अन्वय-व्यतिरेकाव् इति चेत्,

02004 न, अतद्-भाविनस् तस्य सकृद् अपि ततो अभावात्. परस्पर-अपेक्षया 02005 जन्य-जनक-स्वभाव-लक्षणे कार्य-कारणे. तत्र यदि 02006 धूमो अग्न्य्-आदि-सामग्र्या अन्यतो अपि भवेत्, तस्य तज्-जन्यः 02007 स्वभावो न भवति इति सकृद् अपि ततो न भवेद् अर्थान्तर-वत्, 02008 न अपि सामग्री तं जनयेत्, अतज्-जनन-स्वभावत्वात् सामग्र्य्-अन्तर- 02009 वत्. न च धूमस्य तd-ataj-janya-svabhआवो युक्तः, 02010 एक-स्वभावत्वात्. धूम-अधूम-जनन-स्वभावाद् भवतो धूम- 02011 अधूम-स्वभावः स्यात्, कार्य-स्वभावानां कारण-स्वभाव-कृतत्वाद् 02012 अकारण-अपेक्षणे च अहेतुत्व-प्रसङ्गात्. तस्माद् यो 02013 धूम-जननः, सो अग्न्य्-आदि-सामग्री-विशेषः यो अग्न्य्-आद्य्-सामग्री- 02014 विशेष-जनितः सो धूम इति कार्य-कारणयोर् एवं स्वभाव-नियमात् 02015 तद् विजातीयाद् उत्पत्तिर् न भवति. तत् कार्यं कारणं 02016 न व्यभिचरति. तेन सिद्धे कार्यकारणभावे कार्यस्य 02017 कारणेन व्याप्तिः सिद्धा भवति. 02018 ननु विजातीयाद् अपि किंचिद् भवद् दृष्टम्, तद् यथा 02019 गोमय-आदेः शालूक-आदिः. न विजातीयाद् उत्पत्तिः. तथाविधम् 02020 एव हि तादृशाम् आदि-निमित्तम् इति न कारण-भेदः. प्रबन्धेन 02101 वृत्तौ तु शराद् भवति. अस्ति च गोमय-इतर-जन्मन्-स्वभाव- 02102 भेदो रूपस्य अभेदे अपि, न ह्य् आकार-तुल्यता एव भावानां 02103 तत्त्वे निमित्तम्, अभिन्न-आकाराणाम् अपि केषांचिद् अन्यतो विशेषाज् 02104 जात्i-bheda-darशनात्. अन्यथा हि विलक्षणाया अपि सामग्र्या 02105 अविलक्षण-कार्य-उत्पत्तौ च कारण-भेद-अभेदाभ्यां कार्य-भेद- 02106 अभेदाव् इत्य् अहेतुकौ विश्वस्य भेद-अभेदौ स्याताम्. तथा

02107 हि न भेदाद् भेद इत्य् अभेदाद् अपि न अभेदः, तद्-व्यतिरिक्तश् 02108 च न कश्चिद् भाव-स्वभाव इत्य् अहेतुकत्वाद् भावानां नित्यं 02109 सत्त्वम् असत्त्वं वा स्यात्, अपेक्ष्यस्य अभावात्. अपेक्षया हि 02110 भावाः कादाचित्का भवन्ति व्यवस्थावांश् च साध्येषु 02111 साधन-नियोगो न स्यात्. कारण-शक्ति-प्रतिनियमे हि किंचिद् एव 02112 कस्यचित् साधनाय उपादीयेत, न अपरम्, तस्य एव तत्र शक्तेर् 02113 अन्यस्य च अशक्तेः, तयोस् तज्-जनन-इतर-स्वभावत्वेन भेदात्. 02114 तज्-जनन-स्वभाव-विलक्षणाद् अपि तस्य उत्पत्तौ न तज्-जनन- 02115 शक्ति-नियमे इति यत्-यतः-कुतश्चित् स्यात्, तज्-जनन- 02116 शक्ति-साम्ये तु तद् एव इति न कार्यं दृष्टं कारणं व्यभिचरति. 02118 उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् अभाव-हेतुर् अभाव- 02119 व्यवहार-हेतुर् वा. 02120 अत्र उपलब्धेर् उपलभमान-धर्मत्वे तज्-ज्ञानम् उपलब्धिः. 02121 तस्माद् अन्य-उपलब्धिर् अनुपलब्धिः, विवक्षित-उपलब्धेर् 02122 अन्यत्वाद् अभक्ष्य-अस्पर्शनीय-वत् पर्युदास-वृत्त्या. उपलभ्यमान- 02123 धर्मत्वे स्व-विषय-विज्ञान-जनन-योग्यता-लक्षणो विषय- 02201 स्वभाव उपलब्धिः, योग्यताया भाव-रूपत्वात्. तस्माद् अन्य-उपलब्धि- 02202 योग्यता एव अनुपलब्धिः पूर्ववत्. यत्र यस्मिन्न् उपलभ्यमाने 02203 नियमेन यस्य उपलब्धिर् भवति योग्यताया अविशेषात्, 02204 स तत्-संसृष्टः, एक-ज्ञान-संसर्गात्. तयोः सतोर् न एक-रूप- 02205 नियता प्रतिपत्तिः, असम्भवात्. तस्माद् अविशिष्ट-योग्यता-रूपयोर् 02206 एक-ज्ञान-संसर्गिणोः परस्पर-अपेक्षम् एव अन्यत्वम् इह अभिप्रेतम्,

02207 प्रत्यासत्तेर् आश्रयणात्. स केवलः तद्-अपेक्षया 02208 तद्-अन्य इति तज्-ज्ञानं तत्-स्वभावो वा ज्ञातृ-ज्ञेय-धर्म- 02209 लक्षण-अनुपलब्धिः. सा अभावं प्रतियोगिनो अभाव-व्यवहारं 02210 वा साधयति. 02211 कथम् अन्यभावस् तद्-अभावः, येन अभाव-रूप-अनुपलब्धिर् 02212 अभाव-व्यवहारं साधयेद् इति चेत्, उक्तम् अत्र यथा पर्युदास- 02213 वृत्त्या अपेक्षातो अभावो अनुपलब्धिश् च अनुपलब्धिः. न प्रतिषेध- 02214 मात्रम्, तस्य साधन-असिद्धेर् अभाव-व्यवहार-असिद्धि- 02215 प्रसङ्गात्. तस्य असंसृष्ट-रूपस्य भाव-सिद्धिर् एव अपरस्य अभाव- 02216 सिद्धिर् इत्य् अन्यभावो अपि तद्-अभाव इति व्यपदेश्यते. 02217 अन्यभाव-लक्षणो भावः स्वयं प्रमाण-सिद्धस् तद्-अभाव- 02218 व्यवहारं साधयेत् तत्-सिद्धि-सिद्धो वा तद्-अभाव इति 02219 न कश्चिद् विशेषः, येन अनुपलब्ध्या अभाव-व्यवहार-सिद्धेर् विरोधः 02301 स्यात्. स एव अन्यभावस् तद्-विषया च उपलब्धिस् तद्-अभावस्य 02302 किं न साधनम्, किं पुनर् अन्यभावस्य सिद्धिर् एव 02303 तद्-अभाव-सिद्धिर् इति चेत्, अपृथक्-सिद्धिः सम्बन्ध-अभावाच् च. 02304 अन्यभावस् तावन् न साधनम्. 02305 यत्-सिद्धौ यस्य न सिद्धिः, तत् तस्य लिङ्गं भवति, धूम- 02306 अग्नि-वत्. अन्यभाव-सिद्ध्या एव तद्-अभावः प्रसिध्यति, तस्य 02307 तd-anya-asaंसृष्ट-रूपस्य तत्त्व-व्यवस्थापकेन प्रमाणेन एव अन्य- 02308 व्यवच्छेद-सिद्धेः. 02309 सम्बन्ध-अभावाच् च. तच् च तस्य लिङ्गं यदि स्यात्, तस्य 02310 तेन कश्चित् सम्बन्धो भवेत्, यथा कृतकत्व-अनित्यत्वयोर् एक-अर्थ-

02311 समवायो धूमस्य लिङ्गिनश् च एक-अर्थ-समवायो वा आधाराधेयभावो 02312 वा जन्यजनकभावो वा. न एवं कश्चिद् भाव-अभावयोः 02313 सम्बन्धः, येन अस्य साधनं स्यात्. 02314 अस्ति विषयविषयिभावः शब्द-अर्थ-सम्बन्ध-वद् इति चेत्, शब्द- 02315 अर्थयोस् तत्-प्रतिपादन-अभिप्राये सति तत्-प्रयोगात् तेन सह 02316 कार्य-कारण-लक्षणो अविनाभाव-लक्षणो वा सम्बन्धः स्यात्. 02317 अयं च अत्र न सम्भवति इति कथं विषयविषयिभावः स्यात्. 02318 सिद्धे हि तयोः साध्यसाधनभावे तन्-मुखेन विषयविषयिभावः 02319 स्यात्; स एव असति सम्बन्धे न सिध्यति; तद्-असिद्धौ 02320 विषयविषयिभावो अपि न. अन्यथा इतरेतर-आश्रयम् इदं स्यात्. 02321 अन्यभावाच् च अभाव-सिद्धाव् असमुदायश् च साध्यः 02322 स्यात्. तथा च घट-अभावस् तद्-अन्यभावाद् इति घटस्य सर्वत्र 02323 सर्वदा च अभावः स्यात्. न, प्रदेश-आdi-dharmy-abhआव-साधनाद् इति 02401 चेत्; प्रदेश-आdi-dharmi-viशेषण-भूतो अभावः साध्यते, न तु 02402 केवलः; ततो न असमुदायस्य साध्यता. न च लिङ्ग-लिङ्गिनोर् 02403 असम्बन्धो अन्यभावस्य प्रदेश-आदिना धर्मिणा सम्बन्धाद् 02404 इति मन्यते. न, प्रदेश-आदेर् एव अन्यभावत्वात्. यत्र एव हि 02405 प्रदेशे यन् न अस्ति इत्य् उच्यते स एव तेन असंसृष्टो अन्यभावः. 02406 तद्-दर्शनाद् एव अस्य घटो न अस्ति इति विकल्प इति कथं तस्य एव 02407 लिङ्गलिङ्गिभावः. 02408 न च अत्र सामान्य-विशेष-भाव-कल्पना सम्भवति, येन 02409 सामान्यं हेतुर् भवेत् विशेषो धर्मी इति, तद्-विशेष-प्रतिपत्तेर् एव

02410 तद्-अभावस्य प्रतीतेस् तस्य च अन्यत्र अन्य-अभावात्. प्रतिज्ञार्थैकदेशत्वाच् 02411 च न हेतुत्वम्. न च यत्र प्रदेश-मात्रं 02412 तत्र घट-अभावः. तादृशे केवले प्रदेशे अभाव एव इति चेत्, 02413 ननु तस्य एव केवल इति घट-विरह इति. स च लिङ्गभूत- 02414 प्रदेश-प्रतिपत्ताव् एव सिद्धः. कस्य इदानीं तल् लिङ्गम्. अन्वयस्य 02415 अनुगमनं च निरर्थकम्. तस्माद् अन्यभावो न साधनम् 02416 अभावस्य. 02417 अस्ति विरोधः सम्बन्धः, ततो अन्यभावाद् अभावस्य 02418 सिद्धिर् इति चेत्, केन कस्य विरोधः. अन्यभावेन प्रतियोगिनः. 02419 किं नु वै प्रतियोगी प्रमातुम् इष्टो, येन लिङ्ग-लिङ्गिनोर् विरोधः 02420 सम्बन्धः स्यात्. अभावस् तु प्रतियोगिनो घटस्य अन्यभावेन अविरुद्धः, 02421 सह-अवस्थानात्. तस्मिन् प्रमेये लिङ्ग-लिङ्गिनोः कथं 02422 विरोधः. तस्मात् सम्बन्ध-अभावः. अत्र अप्य् असमुदाय-साध्यत्वं 02423 तद्-अवस्थम्. 02424 नन्व् अन्यभाव-तद्भावयोर् असति सम्बन्धे अन्यभाव- 02425 गत्या अपि तद्-अभाव-गतिर् न स्याद् इति चेत्, न वै कुतश्चित् सम्बन्धाद् 02501 अन्यभावस् तद्-अभाव-गमक इष्टः, किं त्व् अन्यभाव- 02502 एव तद्-अभावः, यथोक्तं प्राक्. तस्य अन्य-असंसृष्ट-रूपस्य केवलस्य 02503 एकात्म-व्यवस्थितस्य तदात्मना परिच्छेदस्य एव अन्य-व्यवच्छेदत्वात् 02504 तस्य कैवल्यम् अपरस्य वैकल्यम् इति तद्-अन्यभाव 02505 एव तद्-अभावः, तd-anya-pratipatतिर् एव च तद्-अप्रतिपत्तिर् 02506 इति. अन्यथा तस्य परिच्छेदेन ततो अन्यस्य अव्यवच्छेदे 02507 तत्-परिच्छेद एव न स्यात्, तद्-अतद्रूपयोर् अविवेकात्. य एष

02508 व्यवहारः कस्यचिद् दर्शनात् क्वचित् प्राप्ति-परिहार-अर्थः, स 02509 न स्यात्. न ह्य् अयम् अनलं पश्यन्न् अपि केवलम् अनलम् 02510 एव पश्यति, येन सलिल-अर्थी न प्रवर्तेत. 02511 अनुपलम्भेन सलिल-अभावः प्रतीयत इति चेत्, को अयम् अनुपलम्भो 02512 नाम. यदि सलिल-उपलम्भ-अभाव इति, कथं सो अभावः 02513 कस्यचित् प्रतिपत्तिः प्रतिपत्ति-हेतुर् वा; तस्य अपि कथं 02514 प्रतिपत्तिः. तस्य ततो वा अन्यस्य कस्यचिद् अप्य् अप्रतिपत्ताव् 02515 अप्य् अभाव-प्रतिपत्तौ सत्यां स्वाप-मद-मूर्छा-व्यवधान- 02516 पृष्ठीभव-आद्य्-अवस्थास्व् अप्य् अभावः किं न प्रतीयते. भूयो अपि 02517 विचारितं प्रमाणविनिश्चये. तस्माद् अयम् अनलं पश्यन्न् अप्य् 02518 अनलो अयं न सलिलम् इत्य् अनध्यवस्यन् न तिष्ठेन् न अपि 02519 प्रतिष्ठेत इति दुस्तरं व्यसनं प्रतिपन्नः स्यात्. 02520 तत एव एकस्य दर्शनाद् अन्य-अभाव-गतिर् भवति इति चेत्, 02521 कथम् एकं दृष्टम् अन्यन् न अस्ति इति प्रत्याययति. केवलस्य 02601 दर्शनाद् इति चेत्, इदम् एव अस्माभिर् अभिहितम्, कस्मात् तव अत्र 02602 परुषम् इव आभाति. तस्मात् तीर-अदर्शिना एव शकुनिना पर्यटा 02603 अपि प्रत्यागन्तव्यम् इत्य् अलम् अविद्यमान-प्रतिष्ठानया दिशः 02604 प्रतिपत्त्या. 02605 यद्य् एक-परिच्छेदाद् एव अन्य-व्यवच्छेदः सिध्यति, सर्वस्य 02606 अन्यस्य अविशेषेण तत्र अभाव-सिद्धिर् भवेत्, न तुल्य-योग्य-अवस्थस्य 02607 एव; उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् अभाव-साधनी 02608 इति विशेषणं च न वक्तव्यम्, अनुपलब्धि-लक्षण-प्राप्तानाम् 02609 अपि तत्र व्यवच्छेदात्. एकात्म-परिच्छेदात् तद्-अन्य-आत्म-

02610 व्यवच्छेदः, तद्-आत्म-नियत-प्रतिभास-ज्ञानात् न हि तदात्मा 02611 तद्-अन्यस्य आत्मा भवति. अन्य-आत्मनो अव्यवच्छेदे प्रवृत्ति- 02612 निवृत्त्योर् अभाव इति पूर्वः प्रसङ्गः. तं च देश-काल-स्वभाव- 02613 अवस्था-नियतं तदात्मना उपलम्भमाना बुद्धिस् तथात्व- 02614 प्रच्युतिम् अस्य व्यवच्छिनत्ति. एवं हि स तया परिच्छिन्नो 02615 यद्य् अन्यथाभावो व्यवच्छिन्नो भवति तथात्वं च 02616 तस्य एव भवति न अन्यस्य इत्य् अन्यथाभूताद् व्यवच्छिन्दत्य् 02617 एव तत् परिच्छिनत्ति. एवम् एकस्य प्रमाणस्य वृत्तिः सर्व- 02618 भावान् द्वैराश्ये व्यवस्थापयति, तस्य अन्वय-व्यतिरेक-बुद्धि- 02619 हेतुत्वेन एव साफल्यात्. 02620 तद्-व्यतिरिक्तस्य अशेषस्य व्यवच्छेदेन व्याप्ति-साधनाद् एव 02621 प्रकार-अन्तर-अभावः सिध्यति, तस्य तद्-अन्यतया व्याप्त्य्-अभावे 02622 तेन तd-artha-avyavaccहेदात् पुनर् भावस्य अपरिच्छेद-प्रसङ्गात्. 02623 तस्मात् क्वचित् प्रमाणं प्रवृत्तं तत् परिच्छिनत्ति 02624 तद्-अन्यद् व्यवच्छिनत्ति तृतीय-प्रकार-अन्तर-अभावं च 02701 सूचयति इति एक-प्रमाण-व्यापार एषः. तथा हि क्वचित् प्रमाणं 02702 प्रवृत्तं तद् एव तद्-अन्यस्माद् व्यवच्छिनत्ति, 02703 तस्य एव परिच्छेदात्, तद्-अन्यद् एव च तस्माद् व्यवच्छिनत्ति, 02704 तत्र अपरिच्छेदात्. अतस् तद् एव प्रमाणं प्रकार-अन्तर-अभावं 02705 साधयति, तस्मिन् दृश्यमाने अदृष्टस्य तद्-अन्यत्वेन सर्वस्य 02706 व्यवस्थापनाद् अतद्-अन्यस्य एव च तत्त्वेन व्यवस्थापनात्. 02707 एतेन क्रम-अक्रम-आदयो अप्य् अन्योन्य-व्यवच्छेद-रूपा व्याख्याताः. 02709 तद् एवं एकस्य उपलम्भात् तस्य तद्-अन्य-आत्मनो व्यवच्छेदः,

02710 न तद्-देश-कालयोः सर्वस्य अन्यस्य भावस्य व्यवच्छेदः. 02711 तस्माद् अतदात्मा च स्यात् तद्-देश-कालश् च, रस-रूप-आदि- 02712 वत्. तस्माद् यथोक्ताद् एव अनुपलम्भात् क्वचित् कदाचित् 02713 कस्यचिद् अभाव-सिद्धिः. 02714 अन्यभाव-विषय-उपलब्धिर् अपि तद्-अभावस्य साधिका इष्टा एव, 02715 न तु लिङ्गत्वेन, तत्र अप्य् अभावस्य पृथक् साध्यत्वे 02716 सम्बन्ध-अभावस्य तुल्यत्वात्. लिङ्ग-आविर्भाव-काल एव तद्-अभाव- 02717 सिद्धेः. न ह्य् अन्यभावं प्रतिपद्य तत्-प्रतिपत्तेर् अन्वय- 02718 व्यतिरेकौ प्रसाध्य तद्-अभावं प्रतिपद्यते. किं तर्हि. 02719 तद्-अन्यं प्रतिपद्यमान एव तद्-अभावं प्रतिपद्यते, 02720 दर्शन-अनन्तरं व्यवधानेन विना इदम् अस्ति इदं तु न अस्ति इति 02721 व्यवस्थापनात्, दृष्टान्त-असिद्धेः. तच् च तस्य लिङ्गं यद् 02722 यस्य अन्वयि व्यतिरेकि च. न ह्य् एवं शक्यं दर्शयितुं यत्र अन्य- 02723 भाव-उपलब्धिस् तत्र तद्-अभाव इति, तd-eka-upalabdhएः क्वचिद् अप्य् 02724 अभावात्. सामान्येन प्रदर्शने दृष्टान्ते अपि प्रमाण-अन्तर-अभावात् 02725 सा एव तद्-अन्यभाव-उपलब्धिः साध्य-धर्मस्य साधिका इति 02726 दृष्टान्त-अनवस्थित्वाद् अप्रतिपत्तिः. 02801 तस्मान् न कुतश्चिल् लिङ्गाद् अभाव-सिद्धिः. सो अन्यभावः 02802 प्रत्यक्ष-लक्षणेन अनुपलम्भेन सिद्धो मूढ-प्रतिपत्ताव् 02803 अभाव-व्यवहारं साधयेद् इत्य् अलं प्रसङ्गेन. 02804 सा इयं त्रिधा अनुपलब्धिः. सिद्धे कार्यकारणभावे 02805 भावस्य कारणस्य अनुपलब्धिर् व्याप्यव्यापकभाव-सिद्धौ 02806 सिद्ध-अभावस्य व्यापकस्य अनुपलब्धिः स्वभाव-अनुपलब्धिश् च.

02807 तत्र कारण-व्यापकयोर् अपि स्वभावस्य असद्-व्यवहार-सिद्धिर् 02808 अन्यभाव-सिद्धेर् एव. स तत्र असिद्धः कार्य-व्याप्ययोर् अभावम् 02809 अभाव-व्यवहारं वा साधयति. स्वभाव-अनुपलब्धौ त्व् अनुपलब्ध्या 02810 लिङ्गभूतया अभाव-व्यवहार एव साध्यते. 02811 यदि कारण-व्यापकौ तद्-अन्यभाव-सिद्धि-रूपया अनुपलब्ध्या 02812 सिद्ध-असद्-व्यवहाराव् अन्यस्य अभावम् अभाव-व्यवहारं 02813 च साधयतः सा च अनुपलब्धिस् तयोर् उपलब्धि-लक्षण- 02814 प्राप्ताव् एव असद्-व्यवहारस्य साधिका, कथं तयोः परोक्षे 02815 अर्थे प्रयोगः. न एव प्रयोगः प्रमाणतया, लिङ्गस्य अनिश्चयात्. 02816 केवलं कारण-व्यापकयोः सिद्ध-सम्बन्धयोर् यद्य् अभावः 02817 परस्य अवश्यम् अभाव-निश्चय इति दर्शन-अर्थम् एते प्रयुज्येते. 02818 इत्य् एष पक्ष-धर्मो अन्वय-व्यतिरेकवान् इति तद्-अंशेन 02819 व्याप्तस् त्रि-लक्षणस् त्रिरूप एव हेतुर् गमकः, स्व-साध्य- 02820 धर्म-अव्यभिचारात्. 02821 षड्-लक्षणो हेतुर् इत्य् अपरे. त्रीणि च एतान्य् अबाधित-विषयत्वम् 02901 विवक्षित-एक-संख्यत्वं ज्ञातत्वं च इति. 02902 तत्र अबाधित-विषयत्वं तावत् पृथग् लक्षणं न भवति, 02903 बाध-अविनाभावयोर् विरोधात्. अविनाभावो हि सत्य् एव साध्य- 02904 धर्मे भावो हेतोः. स हेतुस् तल्-लक्षणो धर्मिणि स्यात्, अत्र 02905 च साध्य-धर्मः कथं न भवेत्. प्रत्यक्ष-अनुमाने हि 02906 साध्य-धर्मः बाधमाने तं धर्मिणो निष्कासयतः, 02907 तस्मिन् सत्य् एव हेतुर् भवंस् तं तत्र एव धर्मिण्य् अवस्थापयति 02908 इति परं बत भावानाम् अस्वास्थ्यम्. अन्यत्र

02909 साध्य-धर्मेण अविनाभावी हेतुर् न धर्मिण्य् एव इति चेत्, तत् 02910 किम् अयं तपस्वी षण्ढम् उद्वाह्य पुत्रं मृग्यते. यस्य 02911 धर्मिण्य् असत्य् अपि साध्य-धर्मे भावस् तम् उपदर्श्य 02912 कथं स धर्मी साध्य-धर्मवान् इत्य् उच्यते. अत एव बाधा 02913 भाव उक्तः; स्याद् एतत्: यत एव हेतुर् अन्यथा अपि भवेत्, अत 02914 एव प्रमाणाभ्याम् अबाधित-धर्मा धर्मी इत्य् उच्यते इति तत् 02915 किम् इदानीं हेतोः सामर्थ्यम् अबाधया एव साध्य-सिद्धेः. 02916 यदि साध्य-अभावो बाधक-प्रमाण-वृत्तौ नियतः. अबाधायां 02917 साध्य-सिद्धिर् इति व्यर्थो हेतुः; बाधायाम् अपि, साधन-सामर्थ्य 02918 अभावात्. अनियमे न च बाधकं प्रमाणं स्यात् साध्य-अभावस्य 02919 च सम्भव इति न सामर्थ्यम् अबाधायाः. 02920 न बाधाया अभावो अबाधा. किं तर्हि. बाधाया अनुपलब्धिः. 02921 सा च पुरुषस्य क्वचिद् बाध-असम्भवे अपि स्याद् इति स 02922 हेतु-प्रयोगस्य विषयः. किं नु वै हेतुर् बाध-उपलब्धेर् अपि 02923 बिभेति, न पुनर् बाधायाः, येन बाधाम् अनादृत्य अप्य् अनुपलब्धौ 02924 प्रयोक्तव्य इष्टः. स तर्हि हेतुः परमार्थेन 03001 बाधा किम् अस्ति न अस्ति इत्य् अनपेक्ष्य बाधा-अनुपलब्धौ प्रयोक्तव्यः 03002 किम् अर्थं प्रयुज्यते. साध्य-सिद्ध्य्-अर्थम्. स किं 03003 क्वचित् सत्याम् अपि बाधायां साध्यं साधयेत्, येन अस्या अभाव 03004 निश्चयं प्रति यत्नो न क्रियते हेतुश् च प्रयुज्यते. तथा 03005 च अबाधित-विषयत्वं हेतु-लक्षणं न भवति, बाधायाम् 03006 अपि सत्याम् अस्य सामर्थ्यात्; तथा च अनभ्युपगम्ये संशयितस्य 03007 प्रवृत्त्य्-अयोगाद् यथा अनुपलब्धौ बाधा-सद्भाव-सम्भवे

03008 अप्य् अभ्युपगम्य प्रयुज्यते, तथा बाध-उपलब्धाव् अपि 03009 प्रयुज्यताम्, अभ्युपगमे विशेष-अभावात्. 03010 न बाधायां सत्यां सामर्थ्यम् इति चेत्, यद्य् एवं 03011 प्रयुक्तस्य अप्य् असामर्थ्य-प्राप्तिर् इत्य् अनिर्णीत-बाधा-सम्भवः 03012 प्रयोगं न अर्हति. बाधा-अनुपलम्भे सामर्थ्यम् इति चेत्, किम् 03013 उपलम्भो बाधां व्याप्नोति, यत एवं हेतोर् बाधा-सम्भव- 03014 कृतम् असामर्थ्यं न सम्भवेत्. अथ तन्-निवृत्तौ बाधा 03015 निवर्तते, तथा अपि बाधा-अनुपलम्भाद् एव साध्य-सिद्धेर् व्यर्थो 03016 हेतुः, अनुपलम्भे बाधाया असम्भवात्. उपलम्भस्य निवृत्ताव् 03017 अपि बाधाया अनिवृत्तौ तद्-अवस्थं हेतोर् असामर्थ्यम् 03018 इत्य् अप्रयोगः. तस्मात् स्व-साध्य-भाव-अभावाभ्याम् अन्यथा अपि 03019 भवन् हेतुर् धर्मिणि किंचिन् न भावयति न विभावयति इत्य् 03020 उपक्षेपो न समर्थः. तन् न बाधा-अविनाभावौ सहावस्थितौ; 03021 तेन अबाधा रूप-अन्तरं न भवति. 03022 तन् नाम तस्माद् विशेषण-अन्तरं लक्षण-अन्तर-उपादान-अर्थं 03023 वा भवेत्, यस्य भावे अपि यस्य अन्यस्य अभावः. तद् यथा 03024 पक्षधर्मत्वं सपक्षे च भाव इति. न च एतद् बाधाया अविनाभावे 03101 सति सम्भवति इति न साध्य-विपर्यय-अविभाविनोर् हेतु-विरुद्धयोर् 03102 विषये बाधा सम्भवति इति न तद्-अभावः पृथग् 03103 अनयोर् लक्षण-अन्तरत्वेन वाच्यः. तस्माद् हेतोः प्रयोगे 03104 प्रतिज्ञाया दोषाणां सम्भवो न अस्ति. न अपि केवला प्रतिज्ञा 03105 प्रयुज्यत इति न प्रतिज्ञा-दोषा वाच्याः. 03106 एतेन एक-संख्या-विवक्षा अपि प्रत्युक्ता. कथम्. एको हि स्व-

03107 साध्य-भाव एव भावात् तद्-अव्यभिचारी. तत्र एव तस्माद् अन्यस् 03108 तद्-बाधकस्य एव भावात् तद्-विरुद्ध इत्य् अत्र बाधया 03109 समानम्. 03110 अपि च किं वस्तुतो असम्भवत्-प्रतिहेतुः स सम्यग्-ज्ञान- 03111 विपर्यय-हेतुर् आहोस्विद् अप्रदर्शित-प्रतिहेतुः किं च अतः. 03112 यद्य् असम्भवत्-प्रतिहेतुः, अशक्य-निश्चयत्वाद् अलक्षणम् 03113 एतत्. हेत्व्-अभावो वा. न ह्य् अनिश्चित-आत्मनः प्रतिपादक-धर्मस्य 03114 तल्-लक्षणत्वं भवति यथा सन्दिग्ध-पक्षधर्मत्वस्य, 03115 न अपि सन्दिग्ध-लक्षणो हेतुर् भवति इति न कश्चिद् हेतुर् 03116 भवेत्. तुल्य-लक्षणे हि दृष्टः प्रतियोगि-सम्भवो अदृष्ट- 03117 प्रतियोगिष्व् अपि शङ्काम् उत्पादयति, विशेष-अभावात्; सति वा 03118 विशेषे हेतोर् लक्षणम्; ततो हि हेतुर् एकान्तेन निरस्त-प्रतिपक्षः 03119 स्व-साध्यं निश्चाययति इत्य् अतल्-लक्षणो न हेतुः स्यात्. तथा च 03120 व्यर्थ-एक-संख्या-विवक्षा. अतो विरुद्धाव्यभिचारिणो लक्षणं 03121 हीयेत स्वलक्षण-युक्तयोर् हेत्वोर् एकत्र धर्मिणि विरोधेन उपनिपाते 03122 विरुद्धाव्यभिचारी इति. न च तस्य विशेषस्य स्वरूपं 03123 निर्दिश्यते, यत् प्रतीत्य प्रतियोगिनः सम्भव-असम्भवाव् 03124 उत्पश्यामः. तस्मान् न अस्त्य् एव विशेष इति सर्वत्र शङ्कया 03201 भवितव्यम्; दृष्ट-प्रतिहेतोर् अपि हेतोः प्राग् इतरेण न कश्चिद् 03202 विशेषो लक्ष्यते. न च सम्भवत्-प्रतिहेतूनाम् अपि सर्वदा 03203 तस्य उपलब्धिः; अतिशयवती तु प्रज्ञा-उत्प्रेक्षिणी दृष्टा. तेन अनिश्चयः 03204 सम्भव-असम्भवयोर् इति लक्षणस्य अनिश्चितत्वान् न 03205 कश्चिद् हेतुः स्यात्.

03206 अथ अप्रदर्शित-प्रतिहेतुः, यथा आह: यदा तर्हि शब्दत्वं 03207 नित्यम् अभ्युपगच्छति, तदा अयं हेतुर् एव स्यात्, यद्य् अत्र अनित्यत्व 03208 हेतुं कृतकत्व-आदि कश्चिन् न दर्शयेद् इति. इदम् अप्रकाश्यम् 03209 अप्य् असंवरणीयम् अपि इति कष्ठतरं व्यसनम् आयातं 03210 कथं निर्वोढुं शक्येत. स तावद् अयं हेतुर् वस्तूनि 03211 स्व-साध्य-तत्त्व-प्रकृतीनि कृत्वा तत्-प्रमाणकान् पुरुषान् अभ्युदय 03212 निःश्रेयसाभ्यां संयोजयित्वा पुनः प्रतिभावता 03213 पुरुषेण हेत्v-antara-nidarशनेन उत्कीलित-साधन-सामर्थ्यस् तानि 03214 वस्तूनि तांश् च पुरुषान् तद्भाव-सम्पदः प्रच्याव्य- 03215 भ्रष्ट-राज्य इव राजा तपोवनं गच्छति इति किं अत्र ब्रूमः. 03216 पुरुष-प्रतिभाकृतं च साधनत्वम्. तत् किं वस्तुतः 03217 साधनम् असाधनं वा. स च हेतुः स्वभावतस् तd-dharma-bhआवी 03218 यदि कथम् अन्यथा क्रियेत, वस्तूनां स्वभाव-अन्यथाभावस्य 03219 उभयोश् च विरुद्ध-स्वभावयोर् अभावात्. अतd-dharma-bhआवी 03220 च कथम् अन्यदा अपि साधनं कस्यचित्. 03221 तस्मात् स्वभावतः स्व-साध्य-अविनाभाविनोर् उक्त-लक्षणयोः 03222 कार्य-स्वभावयोस् तल्-लक्षणस्य प्रतिहेतोर् असम्भवाद् अलक्षणम् 03301 एक-संख्या-विवक्षा, व्यवच्छेद्य-अभावात्. 03302 ज्ञानं पुनर् अलिङ्ग-धर्मत्वे कथं लिङ्ग-लक्षणं 03303 भविष्यति. किं-रूपाल् लिङ्गाद् अर्थो ज्ञातव्य इति चिन्तायां प्रतिपत्तुर् 03304 अविसंवादकस्य रूपम् अभिधीयते, यस्य दर्शनाद् 03305 अयं साधन-असाधने प्रविभज्य तस्य इष्ट-अर्थ-संनिधान 03306 प्रत्ययात् प्रवृत्तिम् अवलम्बते. तथा यद् अस्य आत्म-रूपं तल्

03307 लक्षणम्, न तु पररूपम्. प्रतिपत्ति-जन्मन्य् उपयोग-मात्रात् 03308 तल्-लक्षणत्वे अतिप्रसङ्गः. एवं प्रमेय-पुरुष-आदीनाम् अपि 03309 तल्-लक्षणत्वं भवेत्, न हि तेष्व् असत्सु लिङ्गिनि ज्ञानं भवति. 03310 निश्चित-ग्रहणं तर्हि न कर्तव्यम्. न न कर्तव्यम्, 03311 तस्य अन्य-अर्थत्वात्. सपक्ष-विपक्षयोर् दर्शन-अदर्शनाभ्यां गमकं 03312 हेतुम् इच्छतां न एव समर्थो हेतुर् भवति, सतोर् अपि 03313 दर्शन-अदर्शनयोर् अगमकत्व-दर्शनात्. तेन भाव-अभावाभ्यां 03314 गमक इति ज्ञापन-अर्थं निश्चित-ग्रहणम्. तेन पररूपं 03315 लक्षणं न भवति, तेन लिङ्गस्य रूप-विशेष-अनभिधानात्, तौ 03316 हि भाव-अभावौ तद्-भाव-साधक-वृत्त्या बोद्धव्यौ, उपाय-अन्तर- 03317 अभावात्. तेन, यद्य् अपि भाव-अभाव-वचन-मात्रेण तत्-साधन- 03318 प्रमाणम् आक्षिप्यते, तयोः प्रतिपादनाय निश्चित-शब्दः 03319 प्रयुक्तो लक्षणे, अन्यथा ज्ञान-सत्ता-निबन्धनत्वाज् ज्ञेय- 03320 सत्ता-व्यवस्थायास् तयोर् एव सत्ता-प्रसिद्धेर् इति सर्वत्र 03401 सत्ता-व्यवस्था एव तत्-साधनं प्रमाणम् आकर्षति. परार्थत्वाच् 03402 च शास्त्र-प्रणयनस्य. त्रिरूपं लिङ्गं संवादकम् 03403 अर्थस्य इति तद् रूपं ये न विदन्ति, न तेषां ततः प्रवृत्तिर् इति 03404 पर-उपलक्षणत्वाद् यद्य् अपि ज्ञानं सिद्धम्, तथा अपि ताव् एव 03405 भाव-अभावौ केचिद् दर्शन-अदर्शन-मात्रेण व्यवस्थापयन्ति इति 03406 तन्-निषेध-अर्थो निश्चित-शब्द उक्तः, सतोर् अपि भाव-अभावयोर् 03407 अन्वय-व्यतिरेकयोः सत्तायां संशयात्. तस्माद् यतः सत्ता- 03408 प्रसाधक-प्रमाणाद् अनयोर् निश्चयस् तद्-अधीना इति ज्ञापन-अर्थम्

03409 अस्माभिर् ग्रहणं कृतम्. 03410 यतो अपि भाव-अभाव-वचन-मात्रेण तत्-साधन-प्रमाण-आक्षेप-सिद्धिः, 03411 पृथग् अतो ज्ञानं लक्षणं न भवति, तेन एव अर्थस्य अवगतत्वाद् 03412 उपनय-अर्थ-वत् पक्षधर्मत्वात्. अन्वय-व्यतिरेकयोर् 03413 अपि तर्हि न पृथक्त्वम्, एकस्य प्रयोगाद् उभय-गतेर् 03414 इति चेत्, न, हेतोः सपक्ष-असपक्षयोर् भाव-अभावयोर् अपरस्पर- 03415 आक्षेपात्; एकं वाक्यम् उभयं गमयति इत्य् उच्यते, 03416 न एको अर्थो द्वितीयस्य. ननु तत्र एव भावो तद्-अभावे 03417 च अभाव इति वाक्ये परस्पर-आक्षेप इति चेत्, वचनम् एतद् एकस्य 03418 अपि नियम-ख्यापकस्य द्वितीय-आक्षेप-नान्तरीयकत्वात् सामर्थ्याद् 03419 उभयम् आक्षिपति न पुनः केवलौ भाव-अभावाव् आक्षिपतः; 03420 नियमवन्तौ च न केवलौ, नियमस्य उभय-रूपत्वात्. 03421 तस्मात् तत्र एव भाव इति न भाव एव उच्यते, इतरेण अपि न अभाव 03501 एव, येन भावो अभावो वा द्वितीयम् आक्षिपेत्. न एवं ज्ञानं 03502 पर-उपलक्षणात् त्रैलक्षण्याद् व्यतिरेकितम् इति न लक्षण-अन्तरम्. 03503 तस्मान् न हेतुः षड्-लक्षणः. 03504 हेतुबिन्दुर् आचार्य-धर्मकीर्ति-कृतः समाप्तः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.