Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
धर्मकीर्ति: न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
{...} = अक्षर उन्च्लेअर्
प्रथमः प्रत्यक्षपरिच्छेदः
आर्यविनीतदेवकृतिः न्यायबिन्दुविस्तरटीका (शिष्यहिता)
यस्य कुलप्रभावेण विशुद्धन्यायवर्त्मनि । सिद्धि प्राहुःपरां, तस्मै प्रवाचे मुनये नमः ॥
आचार्येधर्मोत्तरकृता
न्यायबिन्दुटीका
जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः । रागादयरतेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ॥
आचार्यधर्मोत्तरकृताया न्यायबिन्दुटीकायाः आज्ञातकर्तुः टिप्पणी
सर्व एव हि विशिष्टो जनः शास्त्रारम्भे स्वेष्ठदेवतास्तुतिं कृतवान् । तथायमपि आर्यधर्मोत्तरः सदाचारानुवृत्तिमात्मनः ख्यापयन्, स्वेष्टदेवतास्तुतेश्च पुण्योपचयम्, ततश्च शास्त्रस्याबिध्नेन परिसमाप्तिं व्याख्यायाः, श्रोतृणां स्तुतिपुरःसरया प्रवृत्त्या पुण्यातिशयोत्पादनात् पारार्थ्य चालोच्य बुद्धस्य भगवतः स्तुतिमारब्धवान्- जयन्तीत्यादि । अनेन श्लोकेन बुद्धस्य भगवत एव पूजा स्तोत्रतः, नान्येपाम् निर्दिष्टगुणोद्भवात् ।
स्तोत्रमपि स्व- परार्थसम्पत्त्यै सम्भाव्तीति पूर्व स्वार्थसम्पद भगवती दर्सह्यति जयन्ति जातिव्यसनेत्यादिना सुगतपर्यन्तेनः मनस्तमस्तानबेत्यादिना परार्थसम्पदम् । जयन्ति =जयं कुर्वन्ति । वाच इति सम्बन्धः । कस्य वाचः? इत्याह- सुगतस्ये ति । सुशब्दो ऽत्र शोभने, अतिशये, अपुनरावृतौ च वर्ततेः अनेकार्थत्वात् निपातानाम् । तदवमयंः-शोभनं गतः सुगतः सुचरितवत् । अतिशयेन गतः सुगतः सुपरिपूर्ण
1 सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पादयते ॥
[न्या] अथ न्यायबिन्दुः प्रतिपदं विभज्यते- सम्यगिति ।
ऽसम्यग्ज्ञानपूर्विका सर्वप्रुषार्थसिद्धिरिति तद्वयुत्पादयतेऽ इति प्रथमवाक्येनास्य प्रकरणस्य सम्बन्ध-प्रयोजन-अभिवेयानि, तथा प्रयोजनस्य प्रयोजनमप्युपदिश्यन्ते । तथा हि सम्बन्ध प्रयोजन अभिधेयानामभावे प्रकरणशास्त्रर्मदं प्रेक्षापूर्व[ध] सम्यग्ज्ञानपूर्विकेत्यादिना अस्य प्रकरणस्याभिधेय- प्रयोजनमुच्यते ।
[टि] घटवत् । अपुनरावृत्त्या गत सुगतः, प्रदीपवत् । किविशिष्टस्य तस्य? इत्याह- रागादयरातेरिति । रागशक्तिरादौ । स आदिर्येषां द्वेषादीनां ते रागादयो भवन्ति क्लेशाः । तेषामरातिः = शत्रुः । यतो भगवता सर्वक्लेशाः निःशेष निर्दग्धाः, यत एव रागादयरातिर्भगवान्, अत एव जगतस्त्रैधातुकजीवलोकस्य विजेता । अनेन स्वार्थसम्पत् सोपाया दर्शिता ।
किंविशिष्टस्य जगतो विजेतुः? इत्याह- जातिव्यसनेत्यादि । व्यसनम्= अनर्थसजननम् । जातौ व्यसनमिति "सप्तमीऽ (पा सू 2 1 40) इति योगविभागात् समासः । तत्राभिलाष इति यावत् । ऽदेवाहं स्याम्ऽ, ऽमनुष्यो ऽहं स्याम्ऽ इत्यभिलाषः । यद्वा- विविधमनेकप्रकारेणास्यते क्सिप्यते इति व्यसनम् । सामान्यन कमसाधनम् । पश्चाज्जातिशब्दस्य विशेषणसमासः- जातिरेव व्यसनम् । जात्या व्यसनं विशिष्यते । तेन जातिशब्दस्य विशेषणत्वात् पूर्वनिपातः । जातिव्यसनस्य प्रबन्धः=प्रवाहः, तस्य प्रसूतिः= प्रसवः, उत्पत्तिः । तस्या हेतुः= कारणम्, जगत् तस्य जगतो विजेतुरिति । तत्रायं समुदायार्थः- यस्माच्चोभनादिना गतो भगवान्, अतएव रागादयरातिः, यत एव निर्दग्धक्लेशो ऽतो जगतो विजेतेति ।
किंविशिष्टा वाचो जयन्ति? इत्याह- मनस्तम इत्याद् । मनसः= विकल्पविज्ञानस्य । तृष्णा अविदया तम एव । तम इति कृत्वा न गमतया तमो ऽन्धकारी धटादिप्रतिबन्धं करोति । तनोर्भवस्तानवम् । "इगन्ताच्च लघुपूर्वात्" (पा सू 5 1 131) इत्यण् । मनस्तमसि तानवम्, षष्ठी- समासो वा वचन प्रमाथो द्रष्टव्यः । मनस्तमस्तानवमादधानाः=तनुत्वं कुर्वाणाः सकलजनस्य श्रुतिचिन्ताभावनाक्रमेण सुगतस्य वाचः सुत्र अभिधर्म विनयस्वभावाः जयन्ति । जयः पुनस्तासा तीर्थिकशास्त्राभिभवलक्षणः । यस्माद् भगवत्प्रवचने प्रमाणपरिचिन्न उपायो विमुक्ति लक्षणश्च उपायो निर्दिश्यते, तेषां चागम उपायोपेययोः प्रमाणरहितत्वात् ततो भगवत एव वाचो जयन्ति, नान्येषामिति भगवतः स्तुतिः ।
सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्या दूषयति । यतो ऽभिधेयस्यैव प्रयोजनम्, [न्या] गामिनामनुमर्त न स्यात् । ततश्च किमिह व्याख्येयम्?- इत्याशङ्कानिरासार्थम् अभिधेयमुक्तम् फलाभावशङ्कानिराकरणार्थ प्रयोजनमुक्तम् । उपायाभावशङ्कानिराकरणार्थ सम्बन्ध उक्तः । तेन श्रोत्रुत्साहविवर्धनार्थ सम्बन्धादिकमुक्तमिति ।
तत्र तद् व्युत्पादयते इत्यनेन अभिधेयं प्रयोजनं च साक्षादुक्ते । सम्बन्दस्तु सामर्थ्यात् प्रतिपादयते । एतच्च तत्र सामर्थ्यम्- सम्यग्ज्ञानप्रतिपादनार्थ प्रकरणारम्भाद् अर्थाद् प्रकरणमुपाय एवेति दर्शितम् अन्यथा यदि उपायो न स्यात्, किमर्थमारभ्येत । तस्मात् सम्बन्धो ऽर्थात् प्रतिपादयते ।
अत्र सम्यग्ज्ञानमित्येतदभिधेयम् । सम्यग्ज्ञानव्युत्पत्तिस्तु प्रयोजनम् । तच्च व्युत्पत्तयात्मकं सम्यग्ज्ञानप्रतिपादनमनेन क्रियत इति प्रकरणमिदं तस्यार्थस्य साधनं भवति । तेन प्रकरन प्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धः । तथा च- एतत्प्रकरणश्रवणात् । सम्यग्ज्ञानस्वरूपमभ्रान्ततया ज्ञायते । तेन प्रकरणं साधनम्, सम्यग्ज्ञान परिज्ञानं च उपायसाध्यमिति स्थितिः । स च साध्य साधनलक्षणः सम्बन्धः कार्यकारणलक्षण एव । तथा च प्रकरणं साधनं, फलं च साध्यम्ः प्रकाणं कारणम्, फलं च कार्यमिति । तस्मात् सम्यग्ज्ञानपरिज्ञानहेतोरेतत्प्रकरणारम्भ इति स्थितिः ॥
अथैवं स्थिते ऽपि, यदि कश्चित् पृच्छति- को ऽर्थः सम्यग्ज्ञानब्युत्पादने? तदेव तावन्निष्प्रयोजनमिति । एतत् काकदन्ताप्रीक्षाकल्पम् ।
मा भूदुपदेशः, किमर्थमयं श्रम इति? तस्मादाह- सम्यग्ज्ञानपूर्विकां सर्वपुरुषार्थसिद्धिरिति । तेन प्रयोजनस्य प्रयोजनमुक्तम् । तत्रायं वाक्यार्थः- यस्मात् सर्वपुरुषार्थ द्विविधं हि प्रकरणशरीरम्- शब्दः अर्थश्च ।
तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम्, नान्यत् । अतस्तन्न निरूप्यते ।
न सम्यग्ज्ञानव्युत्पत्तेः शास्त्रप्रयोजनस्य प्रयोजनम् । सर्वपुरुषार्थसिद्धिर्ब्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानस्यैव प्रयोजनम् । सर्वपुरुषार्थसिद्धिः प्रयोजनं येन स्यात् प्रयोजन प्रयोजनम्, तेन च प्रयोजन प्रयोजनमाख्यातमिति दूषितम् सामर्थ्यात् ।
अथ कस्मात् प्रकरणस्याभिधेयप्रयोजनमित्युक्तम्, न पुनः प्रकरणस्य शरीर प्रयोजनम्? इत्याह- द्विविधं हीत्यादि । यतो द्विविधं प्रकरणस्य शरीरं प्रकरणस्य स्वभावः । तस्मात् अभिधेयेति विशेषणं कृतम् ।
ननु यथाभिधेयस्य प्रयोजनं चिन्त्यते, तथा शब्दस्यापि किमिति न चिन्त्यते? इत्याह- तत्रेत्यादि ।
तत्प्रतिपत्तय इति । अभिधेयप्रतिपत्तये । सब्दर्भो रचनाविशेषः । अपिशब्दादर्थसम्बन्धो ऽपि गृह्यते । [न्या] सिद्धौ सम्यग्ज्ञानमावश्यकम्, तस्मादनुबद्धं पुरुषार्थसिद्धया । तच्च व्युत्पाद्दम् । तद्धि व्युत्पादनं प्रकरणाद् भवति । तेन आवश्यकसम्यग्ज्ञानव्युत्पत्तिहेतोः प्रकरणमिदमारब्धमिति । एष समासार्थः ॥
अवयवार्थस्तु- समय्ग्ज्ञानपूर्विका इति । अत्र अविसंवादकं ज्ञानं अस्म्यग्ज्ञानम् । अर्थक्रियायां यदविसंवादकं तदभ्रान्तम्, तदेव च सम्यग्ज्ञानम् । अन्यथा प्रकरणेन योगाचारनयनिरासः स्यात् । इष्टश्च प्रकरणारम्भः सौत्रान्तिकः योगाचारोभयनयानु अभिधेयं तु यदि निप्प्रयोजनं स्यात्, तदा तत्प्रतिपत्तये शब्दसन्दर्भो ऽपि नारम्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता ।
तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात् सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्प्रतिपत्तये इदमारभयते- इत्ययमत्र वाक्यार्थः ।
अत्र च प्रकरणाभिधेयस्य समय्ग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।
अस्मिंमश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति ।
तथा हि- ऽपुरुषार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरणेनऽ इति ब्रुवता सम्यग्ज्ञानमरय शब्दसन्दर्भस्य अभिधेयम्, तद्वयुत्पादनं प्रयोजनम्, प्रकरणं चेदमुपायो व्युत्पादनस्य- इत्युक्त भवति ।
तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात् सम्बन्धादीनि उक्तानि भवन्ति । न त्विदमेकं वाकयं सम्बन्धम्, अभिधेयं, प्रयोजनं च वक्तुं साक्षात् समर्थम् । एकं तु वदत् त्रयं साक्षात् सामर्थ्याद् दर्शयति ।
परीक्षेति । परीक्ष्यते ऽनयेति परीक्षा, शास्त्रमुच्यते । अनेनेति । आदिवाक्येन । यस्मादित्यादिना समुदायार्थ दर्शयति । अत्रेति । आदिवाक्ये ।
ननु च यत्राभिधेयप्रयोजनं प्रेक्षावतां प्रवृत्तावङ्ग तथा सम्वन्धादीन्यपि, अतस्तानि किमिति न कथ्यन्ते? इत्याह- अस्मिन्निति । अस्मिन्नभिधेयप्रयोजने कथिते तान्यपि सामर्थ्यात् कथितानि भवन्तीत्यर्ह्तः । अभिधेय एव भागः= अंशः, सम्बन्धादिराशेः । तस्य प्रयोजनं कथयतीत्यर्थः । तद् दर्शयति । अभिधेयप्रयोजनमेव सक्षाद् वाच्यतया निर्दिश्यते, अभिधेयादीनि तु तद्विशेषणतया । चोदकेन प्रधानवाच्यतयाभिधेयादीन्यपश्यता चोदितम् । सामर्थ्यापाततया परिहृतं सिद्धान्तवादिना ।
न चैकेन वाक्येनार्थत्रयं साक्षाछक्यते दर्शयितुमिति दर्शयति- न त्विदमित्यादि ।
एकं त्वित्त्यादिवाक्यं प्राधान्येनैकं वददभिधेयव्युत्पत्तिप्रयोजनसम्बन्धार्थत्रयं प्रतिपदयति तत्र तदित्यादिना । अपोद्धारेणावयवार्थ दर्शयति तत्रेत्यादिवाक्ये । ननु च तद्धाअव्नार्थम् । तस्मादुभयनयसंग्रहादविसंवादक ज्ञानमेव सम्यग्ज्ञानमिति बोध्यम् ।
सम्यग्ज्ञानं पूर्व यस्याः सा सम्यग्ज्ञानपूर्विका । पूर्वशब्दो ऽयं कारणपरः । यस्मात् कारणं पूर्व कार्यस्य, तस्मात् तत् पूर्वमित्युच्यते । सम्यग्ज्ञानक्रणिकेति शेषः ।
सर्वपुरुषार्थसिद्धिरिति । पुरुषस्यार्थः पुरुषार्थः । अर्थशब्देन प्रयोजनमुक्यते । पुरुषप्रयोजनमिति शेषः । सर्वश्चासौ पुरुषार्थश्चेति सर्वप्रुषार्थः । सर्व इति सन्निकृष्टविप्रकृष्ट लौकिक लोकोत्तर हेयोपादेयोपेक्षणीयाः । तत्र समीपदेशवर्ती सन्निकृष्टः । दूरदेशवर्ती विप्रकृष्टः । लौकिकः संसारमध्यपर्यापन्नः । लोकोत्तरस्तु दुःखातीतः । हेयः अनिष्टः, अहि कण्टक विष शूलादिलक्षणः । उपादेय इष्टः, स्त्रक् चन्दन वसनाशन तत्र तद् इत्याभिधेयम्, व्युत्पाद्यते इति प्रयोजनपदम् । प्रयोजने चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।
तथा हि- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश्चाचार्येण प्रकरणे किमर्थ कृतम्, श्रोतृभिश्च किमर्थ श्रूयते?- इति संशये व्युत्पादनं प्रयोजनमभिधौयते । सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्तु प्रकरणमिदं कृतम् । शिष्यैश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिमिच्चद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरण श्रवणयो प्रयोजनं व्युत्पादनम् ।
सम्बन्धप्रदर्शनपदं तु न बिद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः ।
व्युत्पत्तिः क्रियत इत्येवं युज्यते वक्तुम् किमिति अत्द्वयुत्पाद्यते इति णिचा निर्देश इति । तत्फलमाह- प्रयोजनं चात्रेत्यादि । अत्रेति प्रकरणे । वक्तुरिति शास्त्रकर्तु श्रोतुश्च प्रकरणकरणश्रवणव्यापारस्य प्रयोजनं विन्त्यते ।
यस्माद् द्वयोरपि वक्तृश्रोत्रोस्तत्र प्रकरणे प्रकरणकरणश्रवणास्यो व्यापारौ स्तः, किमिति पुनस्तयोः करणश्रवणयोः प्रयोजनं चिन्त्यते? इत्याह- तथा हीत्यादि । तत आचार्येणेत्यादिना द्वयोर्व्यापारस्य प्रयोजनं दर्शयति । यस्मादनेन सम्यग्ज्ञानं व्युत्पादयते इत्यत्र वाक्ये व्युत्पत्तिक्रियानिष्पत्तौ करणश्रवणक्रियाद्वयकर्तव्यतया प्रविष्टम् । तच्च व्युत्पत्तिकरण शास्त्रकारस्यैव नान्यस्येति णिचा निदर्शितम् । यस्मात् सम्यग्ज्ञानं व्युत्पाद्यमानान् शिष्यान् प्रेरयति- व्युत्पादितं सम्यग्ज्ञानं व्युत्पद्यध्वम् इति । आत्मानं व्युत्पादकं कर्तुमारब्धं प्रकरणम् । तस्माद् वक्तुरेव करणव्यापारस्य प्रयोजन व्युत्पादनम्, न भाजनादीनाम् । यद्यपि तैर्विना व्युत्पादनं न बवति, तथापि न तानि व्युत्पादकानिः तेषां शिष्यविषये प्रेरकत्वाभावात् । शिष्यैश्चेत्यादि । यस्माछिष्या आचार्यप्रयुक्तां व्युत्पत्तिमात्मनः सम्बन्धिनी कर्तुमिछन्ति यतस्ते प्रचिद्याः । तस्मात् तत् प्रकरणं तैः श्रूयते इति श्रवणस्य प्रयोजनं व्युत्पादनम् । एतच्चार्थद्वयंणिचा प्रतिपादितम् । अन्यथा असाधारणव्यापारो वक्तुर्व्युत्पत्तौ न दर्शितः स्यात्, शिष्याणां श्रवणव्यापारश्च । यस्मात् सर्व एव प्रयोजकपरतन्त्रो पान शय्यासनलक्षणः । इष्टानिष्टयोरो विपरीतः स उपेक्षणौयः । सरस्यैतस्य उरुषार्थस्य कारणं सम्यग्ज्ञानम् । तथाहि- प्रत्यक्षादिज्ञानेन विर्धार्य शूल विष कण्ठ कादिकं परिहरति पुष्पमाल्यादिकमादत्ते, तद्भिन्नानन्याश्चोपेक्षते ।
प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेविपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
ननु च प्रकरणश्रवणात् प्रागुक्तान्यपि अभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर्न गृह्यन्ते, तत् किमेतैरारम्भप्रदेश उक्तैः?
सत्यम् अश्रुते प्रकरणे कथितान्यपि न निश्चौयन्ते । उक्तेषु त्वप्रमाणकेष्वपि अभिधेयादिषु संशय उत्पद्यते, संशयाच्च प्रवर्तन्ते । अर्थसंशयो ऽपि हि प्रवृत्यङ्ग प्रेक्षावताम् । अनर्थसंशयो ऽपि निवृत्त्यङ्गम् । अतएव शास्त्रकारेणव सम्बन्धादीनि युज्यन्ते वक्तुम् ।
भवति, असतिणिचि शिय्या अप्रयोज्याः । ये चाप्रयोज्यास्ते स्वतन्त्राः । स्वतन्त्राणां चाचार्यप्रयुक्त व्युत्पत्तिमनिच्चतां श्रवणाभावात् कथं श्रवणव्यापारस्य प्रयोजनं चिन्त्यते?- इति स्यितम् । ननु च यथाभिधेयव्युत्पादनप्रयोजनयोरपोद्धारेण प्रतिपादकपदं कथं सम्बन्धस्यापि किमीत् न कथितम्? इत्याह- सम्बन्धप्रदर्शनपदं त्वित्यादि । अयमेव प्रकरणविशेषो लघूपायतया वक्ष्यमाणय नीत्योपायः व्युत्पादनम्= उपेयम् । उपायोपेयसम्बन्धश्च कार्यकारणसम्बन्ध एव, स च प्रतीयत इति न पदान्तरेण कथितः । तथा चोक्तम्-
"शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयादुभौ । तदुक्त्यन्तर्गतस्तेन भिन्नो नोक्तः प्रयोजनात्" इति ।
एवमादिवाक्येनाभिधेयप्रयोजनादौ कथिते सति प्रामाणिकानां प्रबृत्तौ तदसङ्गत एम्वेति मन्यमानश्चोदयति- नन्वित्यादिना । एवं मन्यते- यो हि प्रामाणिकः, स प्रमाणे प्रवर्तते । न चादिवाक्ये प्रयोजनादिना कथितेन शास्त्रश्रवणात् प्राग्वर्तते शास्त्रम्, आदिवाक्यस्याप्रामाण्यात् । अप्रामाण्यं चार्थेन सहासम्बन्धाच्चब्दस्य । एतैरिति । अभिधेयादिभिः । आरम्भप्रदेशोक्तैरिति प्रकरणस्यै कदेशोक्तैः, आदावुक्तै रित्यर्थः ।
उक्तेष्वित्यादि । एवं मन्यते- यद्यप्यस्याप्रमाणं प्रयोजनप्रतिपादकमादिवचनम्, तथापि शास्त्रादौ प्रतिपादनीयम् अर्थसंशयजननार्थम् । यो हि समय्ग्ज्ञानार्थी स तथाभुतं शास्त्रकर्तु रादिवाक्यं श्रुत्वातत्र संशेते, संशयाच्च प्रवर्तत इति तात्पर्यम् । अत एवेति । यत एवादिवाक्ये नार्थसंशयः, संशयाच्च प्रवृतिः, अतएव शास्त्रकारेणैव सर्वपुरुषार्थसिद्धिरिति सर्वपुरुषार्थसाधकम् । सिद्धिशब्देनात्र साधकमुच्यते । तेन सर्वपुरुषार्थसिद्धौ निश्चितमेव सम्यग्ज्ञानं कारणं भवतीति प्रदर्शितम् । इतिशब्दः व्याख्यातणां हि वचन क्रीडाद्यर्थमन्यथापि सम्भाव्यते । शस्त्रकृतां तु प्रकरणप्रारम्भे न विपरीतभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामः, नापि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं सम्भाव्येतास्य प्रकरणस्य, काकदन्तपरीक्षाया इव । अशक्यानुष्ठानं वा, ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत् । अनभिमतं वा प्रयोजनम्ः मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणाल्लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत ।
एतासु चानर्थसम्भावनासु एकस्यामप्यनर्थसम्भवनायाम् न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिषु तूक्तेष्वथसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते, तथा प्रेक्षावन्तः प्रवर्तन्ते । इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तु सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।
युज्यते वक्तुम्, नाख्यानकर्त्रेति । तेन यदुक्तं केनचिद्- ऽव्याख्यानकारा एव प्रयोजनादीनि प्रतिपादयैसय्न्तिऽ इति, तत् प्रत्युक्तम् ।
उत्पश्याम इत्यादिनैतद् दर्शयति- यद्यपि प्रमाणं नास्ति, महता प्रबन्धेन शास्त्रकरणात् सम्भाव्यत इत्यर्थः । ननु च वाधकसाधकप्रमाणाभावात् सम्यग्ज्ञानव्युत्पत्त्यर्थी विनापि आविदचनेन संशयानस्तत्र प्रवर्तते- इति किमादिवाक्येन तत्रोक्तेन? इत्याह- अनुक्तेष्वित्यादि । एवं मन्यते- यो ह्यमूढः, तं प्रति न कर्तव्यमेव । यो हि काकदन्तपरीक्षादिशास्त्रं दृष्ट्वा प्रयोजनादिरहितम्, अत्राप्यप्रयोजना दीन् सम्भावयन्ननर्थ संशेते, अनर्थसंशयाच्च प्रवर्त्तते, तं प्रत्येतत् कथनस्य प्रयोजनम् । कथिते च वचने शास्त्रकारेण तदनुरोधाद् वचनादर्थसंशयो जायते, ततः प्रवर्तत इत्यर्थः ।
अनर्थसंशयो यैः कारणैर्भवति तन्निदर्शयति- निष्प्रयोजननित्यादिना । अतो वा प्रकरणादन्यस्य प्रकरणस्य लघुतरोपायतां सम्भाव्यास्य प्रकरणस्यसारतया अनुपायता स्यादित्यर्थः ।
एवं समुदायेन वाक्यस्य तात्पर्य व्याख्यायावयवार्थ दर्शयितुमाह- अविसंवादकमित्यादि । ऽअविसंवादकं ज्ञानं सम्यग्ज्ञानंऽ इति ब्रुवता टीकाकृता अर्थावबोधकं ज्ञानं मीमांसकपरिकल्पितम्, अर्थदर्शनं च चार्वाकोपकल्पितम्, अथापि विपरीतं ज्ञानं कैश्चित् परिकल्पितं सम्यक्त्वेन, तन्निरस्तं सर्वम्, एतेषां सम्यग्ज्ञानलक्षणाभावात् । यथा न च तानि सम्यग्ज्ञानानि, तथा स्वयं टीकायामपहस्तितानि ।
तस्मादित्यर्थे । यत्तदो नित्यसंबन्धौ । तेन यस्मात् सर्वपुरुषार्थसिद्धौ सम्यग्ज्ञानं पूर्वभावि, तस्मादेव तद् व्युत्पाद्यत इत्युक्त भवति ।
अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।
लोके च पूर्वमुपदर्शितमर्थ प्रापयत् संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकम्, नान्यत् । तथा हि- न ज्ञानं जनयद् अर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ।
अत एव चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः, प्रापितश्चर्थः । तथा च सति अर्थाधिगमात् समाप्तः प्रमाणव्यापारः । अत एव च अनधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतो ऽर्थः, तेनैव प्रवर्तित प्रुरुषः, प्रापितश्चार्थः । तत्रेव च अर्थे किमन्येन ज्ञानेनाधिकं कार्यम् । अतो ऽधिगतविषयमप्रमाणम् ।
तत्र यो ऽर्थो दृष्टत्वेन ज्ञात्तः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः । यस्माद् यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते, तस्य एकस्मिन्नेवार्थे त्रयाणां ज्ञानातां प्रदर्शक प्रवर्तक प्रापकभेदेन प्रामाण्यमिष्टं परेण, तन्निराकर्तु माह, प्रदर्शिते चार्थ इत्यादि । प्रदर्शिते चार्थे प्रथमेन दर्शकेन ज्ञानेन यद् द्वितीयं ज्ञानं तत्रैवार्थे पुरुषस्य प्रवर्त्तकम्, तृतीयमपि तत्रैवर्थे प्रापकम्, ततो नाद्यादधिकं प्रापणयोग्यीकरणेनेति तदेव प्रमाणम् । अमुमेवार्थ समर्थयति तथा ही त्यादिना । न जनयन् नोत्पादयदर्थम्ः स्वहेतोरेवार्थस्योत्पन्नत्वात् । अनेन प्रवर्तकात् प्रापकस्याभेदो दर्शितः । प्रवर्तकस्यापि प्रदर्शकादभेदं दर्शयितुमाह-3 प्रवृत्तीत्यादि । यत् प्रदर्शकमादावुत्पन्नमर्थे ज्ञानं तदेव प्रवृत्तिविषयं करोति, प्रवृत्तिविषययोग्यी करोतीत्यर्थः, न तु द्वितीयं ज्ञानम्, आदयेनैव प्रवृत्तिविषययोग्यीकृतत्वात् । अपिशब्दः पूर्वपेक्षः ।
अत एवेत्यादिना आचार्यग्रन्थे स्वमतं संवादयति । कुतो ऽयं लभ्यते यदा प्रथमं दर्शयत्येव, न प्रवर्तयति न प्रापयति, द्वितीयमपि प्रवर्त्तयत्येव, न प्रापयति । एवं सत्यन्यत् प्रदर्शकप्रमाणम्ः अन्यत् प्रवर्तनादिकफलम्? न चैवम्, तस्माद् युक्तमुक्तम् ।
ननु च यद्यप्यर्थाधिगतिरेव प्रमाणफलं तथापि यावदुत्तरे प्रवर्तक-प्रापकज्ञने न भवतः, तत्रार्थे तावन्न प्रमाणव्यापारपरिसमाप्तिरित्याह- अधिगत इत्यादि । एवं मन्यते- अधिगते चार्थे समाप्तः प्रमाणव्यापार इति तयोः प्रामाण्ये कर्त्तव्ये ऽनुपयोगित्वम्, अतो ऽप्रमाणे ते ।
कथं समाप्तः प्रमाणव्यापारः को वासौ? इत्याह- अत एवेति । स्वव्यापारः स्वविषयनिश्चयजनकर्त्व नाम । स च निश्चयः प्रथमया चार्थाधिगत्या कृत इति समाप्तो तद्वयुत्पाद्यत इति । अत्र तदिति सम्यग्ज्ञानं योजनीयम् नपुसंकलिङ्गेन स्वरुपनिर्देशात् । नतु अव्यवहिता सर्वपुरुषार्थसिद्धिः, अप्राधान्यात् ॥ 1 ॥
प्रदर्शकं प्रत्यक्षम् तस्माद् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनान्निश्चिन्वत् प्रवृत्तिदिषयं दर्शयति ।
तथा च प्रत्यक्षं पर्तिभासमानं नियतमर्थदर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाए, नान्यद् विज्ञानम् ।
प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् । प्रापकत्वाच्च प्रमाणम् ।
आभ्यां प्रमाणाभ्यामन्येन च ज्ञानेन दर्शितो ऽर्थः कश्चिद् अत्यन्त विपर्त्यस्तः, यथा- मरीचिकासु जलम्ः स चासत्वात् प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः, यथा- संशयार्थः । न च भावाभावाभ्यां युक्तो ऽर्थो जगत्यस्तिः ततः प्राप्तुमशक्यस्तादृशः ।
व्यापारः तवतैव पुरुषस्य प्रवृत्तेः । अतो द्वितीयादीनामत्रैवार्थे ऽधिको व्यापारो नास्तीति । अधिगतगन्तृत्वादप्रामाण्यमित्यर्थः । प्रवर्तितः पुरुष इति । प्रवर्तनयोग्यत्वात् प्रवर्तित इत्युच्यते । प्रापणयोग्यत्वात् प्रापितः । एवम् सामान्येन संवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण च प्रत्यक्षानुमाने स्वव्यापारं कुर्वती सम्यग्ज्ञाने भवत इति दर्शयन्नाह- तत्र यो ऽर्थ इत्यादिना । तत्र तयोर्मध्ये प्रत्यक्षस्य व्यापारं दर्शयति । दृष्टत्वेन ज्ञातो दृष्टत्वेन निश्चितः । विकल्पेनानुगम्यत इति । तत्पृष्ठभाविना विकल्पे नावसीयते । एतदुक्तं भवति- प्रतिभासमानार्थव्यवसायं कुर्वत् प्रत्यक्षं प्रमाणं सम्वादकनित्यर्थः । अनुमानं त्वित्यादिना अनुमानस्य प्रवृत्तिविषयं दर्शयति । लिङ्गदर्शनम्=लिङ्गज्ञानम् । तच्च वह्नयव्यभिवारिधूमनिश्चयनं सामान्येन साध्याबिनाभावि च स्मरणज्ञानम् । यथा धूमंप्रत्यक्षेण गृहीत्वा सर्वत्र अयं वह्निजः इति स्मरणम् । तस्माल्लिङ्गज्ञानान्निश्चिन्वत् प्रवृत्तिविषयं दर्शयति । तदनुमानं विशिष्टसम्बन्धेन यदुदेति ज्ञानम्, यथा अत्रत्यो धूमो वह्निजः इति जानम् । एतदुक्तं भवति- प्रत्यक्षस्यस्वविषयनिश्चयजननव्यापारो ऽभिन्नः, अनुमानस्य तुलिङ्गदर्शनात् स्वविषये निश्चयात्मनोत्पत्तिरेव निश्चयव्यापार इति ।
तथा चे यादिना अनयोर्दशितं व्यापारं स्पष्टयति । अत एते प्रमाणे नान्यद्विज्ञानम् इत्येवं ब्रुवता एते एव सम्यग्ज्ञाने नान्यानि शब्दादीनि । तेषां नियतार्थानुपदर्शकत्वा दिति सम्यग्ज्ञानस्य प्रवृत्तिर्दशिता । यथैते प्रमाणे, सशयादिज्ञानं न तथा प्रमाणम् ।
प्राप्तु शक्यम्त्यादिना दर्शयति । एतदुक्तं भवति- यथा प्रत्यक्षानुमाने स्वेनस्वेन प्रमाणेनोपदर्शितार्थस्य प्रापके, न तथा संशयविपर्ययज्ञानेः तथभूतस्यार्थस्या भावादिति । सर्वेण चालिङ्गजेन विकल्पेन विन्यामकमदृष्ट्वा प्रवृत्तेन भवाभावयो रनियत एवार्थो दर्शयितव्यः । स च प्राप्तुमशक्यः ।
तस्मादशक्यप्रापणम्- अत्यन्तविपरीतम्, भावाभावानियतं चार्थ दर्श यत् अप्रमाणम् अन्यद् विज्ञानम् ।
अर्थक्रियार्थिभिश्च अर्थक्रियासमर्थवस्तुप्राप्तिनिमित्तं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव शास्त्रे विचार्यते । ततो ऽर्थक्रियावस्तुप्रदर्शकं सम्यग्ज्ञानम् ।
यच्च तेन प्रदर्शितं यदेव प्रापणीयम् । अर्थाधिगमात्मकं हि प्रापकम्- इत्युक्तम् । तत्र प्रदर्शितादन्यद् वस्तु भिन्नाकारम्, भिन्नकालम्, भिन्नदेशं च । विरुद्धधर्मसंसर्गाद्धि अन्यद् वस्तु । देशकालाकारभेदस्च विरुद्धधर्मसंसर्गः ।
यस्मादन्याकारवद्वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् यथा प्रीतशङ्खग्राहि शुक्ले शङ्ख । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् यथा- कुञ्चिकाविवरदिशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्ये मणौ । कालान्तरय्युक्तग्राहि च न कालान्तरवर्ति वस्तुनि प्रमाणम् यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं अर्धरात्रकाले वस्तुनि प्रमाणम् ।
ननु च मा भूत् संशर्यावपर्यज्ञनयोः प्रामाण्यम्, तथाभूतस्यार्थस्यासत्त्वादितिः यत् पुनः इह कूपे जलम् इति ज्ञानं तत् प्रमाणान्तरं किमिति न भवति? न तावत् प्रत्यक्षम्, तत्र जलस्य परोक्षत्वात् नाप्यनुमानम्, लिङ्गाभावात् नापि संशयरूपम्, उभयांशाभावात् नापि विपरीतम्, विपरीतार्थाभावात्? इत्याशङ्कयाह- सर्वेण चालिङ्गजेनेत्यादि ।
एवं मन्यते- यदयपि साक्षात् संशयज्ञानं न प्रतीयते, यस्तु संशयविकल्पकस्य ज्ञानस्य इह कूपे जलम् इत्येवञ्जातीयस्यः तथापि नियामकं लिङ्गमन्तरेण तदप्रमाणम्, नियतार्थापरिच्चेदात् । ततश्चायमर्थः- स्यात् कदाचित् कूपे जलम् इति तच्चैवं स्वरूपम्, तत् संशयज्ञानमेवेत्यप्रमाणम् । यत् पुनस्तत्र प्रवृत्तेन कदाचिज्जलं लभयते तज्ज्ञानान्तरादिति विनिश्चयटीकायां प्रतिपादितम् ।
ननु च यदयपि संशयादीनामुपदर्शितस्यार्थस्य प्रापकत्वं नास्ति, किं तानि न व्युत्पादयन्ते? इत्याह- अर्थक्रियार्थिभिश्चेत्यादि । पुरुषार्थसिद्धावनुपयोगगादित्यभिप्रायः ।
ननु च यदप्युपदर्शितार्थप्रापणात् प्रमाणं सम्यग्ज्ञानम्, शुक्लशङ्खे पीतज्ञानम्, कुञ्चिकाविवरे मणिप्रभायां मणिज्ञानम्, अर्धरत्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं
ननु च देशनियतम्, आकारनियतं च प्रापयितु शक्यम् यत्कालं तु परिच्चिन्नं तत्कालं न शक्यं प्रापयितुम्? नोच्यते- यस्मिन्नेव काले परिच्चिदयते तस्मिन्नेव काले प्रापयितव्यमिति, अयो हि दर्शनकालः, अन्यश्च प्राप्तिकालः, किन्तु यत्कालं परिच्चिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसयाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।
समयग्ज्ञानं पूर्व कारणं यस्याःसा यथोक्ता । कार्यात् पूर्व भवत् कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु प्रुषार्थसिद्धः साक्षात् कारणं गम्येत । पूर्वशब्दे पूर्वमात्रम् ।
द्विविधं च सम्यग्ज्ञानम्, अर्थक्रियानिर्भासम्, अर्थक्रियाअस्मर्थे च प्रवर्तकम् । तयोर्मध्ये यत् प्रवर्तकं तदिह परिक्षयते । तच्च पूर्वमात्रम्, न तु साक्षात् कारणम् । सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणादभिलाषः अभिलाषात् प्रवृत्तिः, प्रवत्तेश्च प्राप्तिः । ततो न साक्षाद् हेतुः ।
च प्रमाणं प्राप्नोतीत्येभिरुपदशितस्यार्थमात्रस्य प्राप्तेः, ततश्च सम्यग्ज्ञानमित्याशङ्कयाह- अर्थाधिगमात्मकं हीत्यादि । एवं मन्यते- एभिरुपदर्शितस्यार्थस्य पीताकारस्य कुञ्जिकाविवरस्थस्य मणैर्नियतदेशस्य, नियतकालस्य चर्धरात्रे ऽप्रापणात्, देशकालव्यतिरिक्तस्यावयवादेरभावात् । अत एव तान्यप्रमाणान्येव, न सम्यग्ज्ञानानीति । यदयप्येतान्यभ्रान्तग्रहणस्य व्यावर्त्त्यानि तत्रैवाभ्रान्तग्रहणप्रस्तावे दर्शयितव्यानि, तथापीह सम्यज्ञानव्यावर्त्यप्रस्तावात् कथितानीत्यदोषः ।
ननु चेत्यादि । एवं मन्यते चोदकः- देशाक्राभ्यां नियतस्य प्राप्तुं शक्यत्वाद भवत्वन्याकारस्यान्यदेशस्य च प्राप्तावप्रमाणम्, न त्वन्यकालस्य, नियत कालस्य चाप्राप्तेः क्षणिकत्वाद भगवानाम् । ततश्च यथा सत्यनीले नीलज्ञानस्यान्यो ग्राह्यकालो ऽन्यश्च प्राप्यकालः, अथ च कालभेदे ऽपि प्रामाण्यम्, तथा स्वपनज्ञानस्यार्थरात्रोपदर्शितं मध्याह्नकालपुत्रप्रापणस्य प्रामाण्यं भविष्यतीति ।
नोच्यते इत्यादिना सिद्धान्तवादी त्वेवं मन्यते- सत्यं क्षणभेदेन वस्तुनो भेदो ऽस्त्येवः किन्तु क्षणापेक्षया न प्रामान्यलक्षणमुच्यते, अपि तु सन्तानापेक्षया । ततश्च नीलादो य एव सन्तानः परिच्चिन्नो नीलज्ञानेन, स एव तेन प्रापितः । तेन प्रमाणं नीलज्ञानम् । न तथा स्थूलकालभेदेन प्रदर्शितस्य पुत्रस्य स्वप्त्नज्ञानम् । न प्राप्तिकालभेदेनः, सन्तानैकाध्यवसायायोगात् । सन्तानगतमेकत्वं द्रष्टव्यमित्यनेन निश्चयप्रवृत्त्योर्हेतुहेतुमद्भावं दर्शयति । स च हेतुहेतुसद्भावः कथं भवति, यदि सन्तानापेक्षया प्रामाण्यमवतिष्ठते, न अल्क्षणापेक्षयेति
सम्यग्ज्ञानं पूर्वं कारणं यस्या इति । कथं पूर्वशब्दः कारणे वर्तते? इत्याह- कार्यादित्यादि । कारणशब्द एव कस्मान्नकृतः? इत्याह- कारणशब्द इत्यादि । किम अर्थक्रियानिर्भासं तु यद्यपि साक्षात्प्राप्तिः तथापि तन्न परीक्ष्यम् । यत्रैव हि प्रेक्षावन्तो ऽर्थिनः साशङ्काः, यत् परीक्ष्यते । अर्थक्रियानिर्भासे च ज्ञाते सति सिद्धः पुरुषार्थः, तेन तत्र न साशङ्का अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात् परीक्षार्हमसाक्षात् कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् ।
पुरुषस्यार्थः पुरुषार्थः । अर्थ्यते इति अर्थः, काम्यते इति यावत् । हेयो ऽर्थः, उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयो ऽपि उपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति । उपेक्षणीयो ह्यनुपादेयत्वाद् हेय नन्तकारणं ज्ञानं भवति, यदपेक्षया व्यवहितस्य ग्रहणार्थ पूर्वशब्दग्रहण कृतम्? इत्याह- द्विविधानित्यादि ।
ननु किमुच्यते अर्थक्रियानिर्भासं ज्ञानमनन्तरं कारणम्, नहि तत् कारणज्ञानम्, एवंम् तुयुज्यते वक्तुम्- यत् साधननिर्भास्यनन्तरं ज्ञानमर्थक्रियानिर्भासज्ञानमुपजनयति, तत् साधनज्ञानमनन्तरकारणमित्युच्यते, तदेवात्राभिप्रेतमर्थक्रियानिर्भासशब्देन । कथम्? अर्थक्रियाया निर्भासः= प्रतिबिम्बनम्, तदाकारज्ञानोत्पत्तिर्यस्मादनन्तरज्ञानात् तत् साधनज्ञानम्, तदर्थक्रियानिर्भासं साधनज्ञानम् । एवमत्रापि समासः कर्तव्यः । अथवा- अर्थक्रियाज्ञानमेवानन्तरकारणम्, तत् प्रापितहेयोपादयानुष्ठाअन् व्यव्हारापेक्षया प्रवर्तकमिति व्यवहितं साधननिर्भासज्ञानम् ।
यद्येवम, अनन्तरमेव किमिति न परीक्षयते? इत्याह- अय्त्रैव हीत्यादि । यत्रैव ज्ञाने ऽर्थक्रियासमर्थवस्तुप्रवर्तक पुरुषस्य सन्देहः, तदेव परीक्ष्यते । न चानन्तरसाधनज्ञाने सन्देहः तदनन्तरं सुखःदुखप्रतिभासज्ञानोदयात् । तयोरनुभवे सति साधनज्ञानात् प्रवतितुं वा युज्यत इति न प्रैक्षार्हम् । यद्वा- अर्थक्रियानिर्भासस्यानया युक्त्या न परीक्षार्हत्वमिति ।
अर्थ्यत इत्यादि । अर्थ याच्ञायाम् इत्यस्य कर्मणि घञ् । अर्यते इत्यपि द्रष्टव्यम् । उपलक्षणत्वादस्यार्तेरौणादिकः स्थन्प्रत्ययः ।
हेयो ऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । तेन ह्य वं व्याकयातम् अर्थशब्देन प्रयोजनमुच्यते,पुरुषस्य प्रयोजनं दारुपाकादि, तस्य सिद्धिर्निष्पत्तिः इति । तच्चायुक्तम् यस्मादर्थस्य दारुपाकादेर्न सम्यग्ज्ञानान्निष्पत्तिः, किं तर्हि? स्वहेतोरेव वह्नयादेः धर्मोत्तरव्याख्याने तु हेयोपादेयार्थविषया या सिद्धिः= अनुष्ठितिः, सा सम्यग्ज्ञानपूर्विकेति न दोषः । अमुमेवार्थ दर्शयिष्यति हेयस्य च हानमनुष्थानम् इति ।
ननु च हेयोपादेयाग्भ्यामन्यो ऽप्युपेक्षणीऽस्ति, तस्य किमिति न कथनम्? एव । तस्य् असिद्धिः- हानम्, उपादानं च । हेतुनिबन्धना हि सिद्धिउत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्थानम् । हेयस्य च हानमनुष्ठानम्, उपादेयस्य चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिरुच्यते ।
सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकात्स्न्र्ये । ततो नायमर्थः- द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति । अपि त्वयमर्थः- या काचित् सिद्धिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेति । मिथ्याज्ञानाद्धि काकतालीयापि नार्स्त्यर्थसिद्धिः । तथा हि यदि प्रदर्शितमर्थ प्रापयति, एवं ततो भवत्यर्थसिद्धिः । प्रदर्शितं च प्रापयत् सम्यग्ज्ञानमेव । प्रदर्शितं चाप्रापयत् मिएथ्यज्ञानम् अप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात् तस्माद् यन्मिथ्याज्ञानं न ततो ऽर्थसिद्धिः । यतस्च्चार्थसिद्धिस्तत् सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम् ।
ततो यावदू ब्रूयात-या काचित् पुरुषार्थसिद्धिः सा सम्यग्ज्ञाननिबन्धनैवेति, तावदुक्तम्- सर्वा सा सम्यग्ज्ञानपूर्विकेति । इतिशब्दः तस्मादित्यस्मिन्नर्थ यत्तदोश्च नित्यमभिसम्बन्धः । तदयमर्थः- यस्मात् सम्यगित्याह- न च हेयेत्यादि । एवं मन्यते- सत्यमस्ति, किन्तु तस्यानुपादेयत्वाद् हेयत्वमेवेति न पृथक्कथनम् । तेन यदुक्तं कैश्चित्- हेयोपादेययोः पुरुषार्थोपयोगित्वात् कथनम्, उपेक्षणीयस्य तद्विपर्यमान्न कथनम् इति, तत् प्रत्युक्तम् । अम्य्मेवार्थ व्याचष्टे उत्तरेण ग्रन्थेन ।
सर्वशब्द इत्यादिना टीकाकृतां व्याख्यां दूषयति । विनीतदेव शान्तभद्राभ्यामेवमाशङ्कय व्याख्यातम् । कथमाशङ्कितम्? नतु सर्वा हानोपादानार्थसिद्धिः सम्यग्, ज्ञानादेव, अपि तु मिथ्याज्ञानादपिव् काकतालीयेत्याशङ्कय परिहुतम् । सत्यमस्ति किन्त्वेवं व्याख्यायते- सर्वशब्धो ऽयं प्रकारवाची । तेनायमर्थः- सर्वपुरुषार्थसिद्धिः द्विप्रकारा हानोपादानार्थसिद्धिलक्षणा, लौकिकलोकोत्तरार्थसिद्धिलक्षणा सम्यग्ज्ञाननिबन्धना बाहुल्येनेति । तद् दूषितम् यस्मात् सर्वशब्दो ऽत्र द्रष्टव्यः, कात्स्न्र्ये वरत्ते, सर्व ब्रह्मणा सृष्टम् इति, तेनायमर्थः- यवत्ती कृत्स्नार्थसिद्धिर्हानोपादानलक्षणा, सर्वा सम्यग्ज्ञानादेव, न मिथ्याज्ञानादप्रार्थप्त्यसिद्धेरिति ।
अमुमेवार्थमनन्तरेण ग्रन्थेन दर्शयति । द्विप्रकारापीत्यादिना परव्याख्यां दर्शयति । अपि त्वयमर्थ इत्यादिनात्मीयां व्याख्याम् ।
ततो यावद् ब्रूयादित्यादिनोपसंहारव्याजेनेवशब्देन प्रयुक्तेनावधारणार्थवाचिना यावानर्थस्तावानेव सर्वशब्देन प्रयुक्तेन कृत्स्नार्थवाचिना भवतीति दर्शयति ।
2 द्विविधं सम्यग्ज्ञानम् ॥ तच्च सम्यग्ज्ञानं विप्रतिपत्तिचतुष्टयनिराकरणेन यथार्थतो ज्ञायते । विप्रतिपत्तिचतुष्टयं तु- 1 संख्याविप्रतिपत्तिः, 2 स्वरूपविप्रतिपत्तिः, 3 विषयविप्रतिपत्तिः, 4 फलविप्रतिपत्तिश्चेति । तत्र संख्याविप्रतिपत्तिः- केषाञ्चिदेकमिति, यथा बार्हस्पत्यानाम् । केषाञ्चित् त्रीणोति, यथा साङ्खयानाम् । नैयायिकानां चत्वारि । मीमांसकानां च षडिति ।
ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः तस्मात् तत् सम्यग्ज्ञानं व्युपादयते ।
यदयपि च समासे गुणीभूतं सम्यग्ज्ञानम्, तथापीह प्रकरणे व्युत्पादयितव्यत्वात् प्रधानम्, ततस्तस्यैव तच्चब्देन सम्बन्धः ।
व्युत्पादयते इति । विप्रतिपत्तिनिराकरणेन प्रतिपादयते ॥ 1 ॥
चतुर्विधा चात्र विप्रतिपत्तिः संख्या लक्षण गोचर फलविषया । तत्र संख्याविप्रतिपत्ति निराकर्तुमाह- द्विविधमिति । द्वौ विधौ= प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति ।
नन् बहुब्रीहिणा पुरुषार्थसिद्धिरुच्यते, तस्याः प्राधान्यात् तच्चब्देन सम्बन्धो युक्तो न सम्यग्ज्ञनस्य? इत्याह- यदयपीत्यादि । एवं मन्यते- शब्दार्थी हि द्विविधः शाब्दः, प्रतिपादयश्च । शब्दापेक्षया चोदयं प्रतिपादयापेक्षया परिहृतम्, स्म्यग्ज्ञानस्यैव व्युत्पादयतया प्रस्तुतत्वादितरस्याः सिद्धस्तद्विपर्ययादिति । ननु च किमिदं ज्ञानस्य व्युत्पादनम्? कि ज्ञानस्योत्पादनम्, उतदोषापनयनम्, अथ स्वरूपकथनमिति? न तावदुत्पाद्नमनेन प्रकरणेन क्रियते, स्वहेतोरेवोत्पत्तेः । नापि दोषापनयनम्, न हयनेन प्रकरणेन दोषो ऽपनेतु शक्यते, अकारकत्वादस्य । नापि ज्ञापयितुम्, अविदयमानत्वाद दोषास्य । नापि स्वरूपकथनं युज्यते, निष्प्रयोजनत्वात् प्रकरणस्य? इत्याशङ्कयाह- व्युत्पादयत इति विप्रतिपत्तिनिराकरणेनेति । एवं मन्यते- विप्रतिपत्तिनिराकरणद्वारेण सम्यग्ज्ञानस्वरूपं ज्ञाप्यते ऽनेन प्रकरणेनेति ॥ 1 ॥ वक्ष्यमाणलक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तम् इति स्वरूपकथनम् । तामेव विप्रतिपत्ति क्रमेण दर्शयति- चतुर्विधेति । चतुःप्रकारा संख्यालक्षणेत्यदिना । तत्रेत्यादिना संख्याप्रतिपत्त्तिनिराकरणं दर्शयति । अनेकप्रकारा पुनः सम्यग्ज्ञानस्य विप्रतिपत्तिः ।
तथाहि- मीमासकाः प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावलक्षणं पदव्याख्यायुक्तं सम्यग्ज्ञानं मन्यन्ते । नैयायिकाश्चतुःसंख्यायुक्तं प्रत्यक्षानुमानशब्दोपमानलक्षणं मन्यन्ते । चार्वाकास्तु केचित् प्रत्यक्षमेवैकमिति । तन्निरासेन दर्शयति- द्विविधमिति ।
स्वरूपविप्रतिपत्तिर्यथा- केषाञ्चित् प्रत्यक्षं सविकल्पकम् । केषाञ्चित् निर्विकल्पकमीति ।
विषायविप्रतिपत्तिर्यथा- केचिदाहुः- प्रत्यक्षस्य विषयः स्वलक्षणमेव, अनुमानस्य विषयः सामान्यलक्षणमेवेति । अन्यैस्तु अन्ये उक्ताः ।
फलविप्रतिपत्तिर्यथा- केचित् प्रमाणपहल्योभेदभ्युपगच्चन्ति, केचित् पुनरभेदमभ्युपगच्चन्तीति । तस्मात् तादृशविप्रतिपत्तिचतुष्ठयनिराकरणेन स्र्वथा अभान्ततया सम्यग्ज्ञनस्वरूपं प्रतिपादितं भवति ।
तत्र च प्रथममेव सङ्खयाविप्रतिपत्तिनिराकरणार्थमुक्तम्- द्विविधं सम्यग्ज्ञानमिति । द्वे विधे अस्य इति द्विविधम् । सङ्खयाशब्दकथनं तु द्विविधमेवेति स्पष्टप्रतिपाद्नार्थम् । तेन त्रिविधत्वैकविधतादीनं निरासः । सङ्खयाया द्वैविध्यमात्रं प्रतिपादितम् ॥ 2 ॥ ।
द्वे एव सम्यग्ज्ञानव्यक्ती इति । व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् । ततो लक्षणकथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याहेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् ॥ 2 ॥
किं पुनस्तद् द्वैविध्यम्? इत्याह- प्रत्यक्षमिति । प्रतिगतमाश्चितम् अक्षम् । " अत्याद्यः क्रान्ताद्यर्थे द्वितीयया" इति समासः । प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः ।
ननु च सम्यग्ज्ञानस्य लक्षणे कथिते सति पश्चात् तद्भेदः प्रदर्शयितु युज्यते- इत्यम्भुतलक्षणं सम्यग्ज्ञानं द्विविधमिति, तत् किमित्यादावेव प्रदर्शितम्? इत्याह व्यक्तिभेदे चेत्यादि । एवं मन्यते- सत्यमेवमेव, किन्त्वत्र संख्याभेदे ऽकथिते सम्यग्ज्ञानस्य लक्षणमेव न शक्यते कथयितुम्, अतः प्रत्यक्षस्यान्यल्लक्षणं प्रतिनियतं शक्यते कथयितुमित्यतो लक्षणाङ्गमेवादौ संख्याभेदकथनमिति । ननु च प्रत्यक्षमनुमानं च इति निर्देशाद् द्विविधमिति लब्धम्, किमर्थ द्विविधग्रहणम्? उच्यते द्विविधमेव सम्यग्ज्ञानम् इत्यवधारणार्थम्, तेनैकत्रिचतुरा संख्या निरस्ता स्यात् । असति द्वित्वकथने प्रत्यक्षानुमाने तावत् सम्भवतिऽन्यान्यपि प्रमाणानि भविष्यन्तीति स्यादाशङ्का ॥ 2 ॥ प्रतिगतमक्षमित्यादिना गतिसमासं दर्शयति । अक्षमक्षं प्रति प्रत्यक्षमित्यव्ययीभावसमासः, कस्मान्न प्रदर्श्यते ऽयं समासः? यतो ऽव्ययोभावश्चेन्नपुसकलिंगता स्यात्
3 प्रत्यक्षम, अनुमानं चेति ॥
कोदृशं च द्वैविव्यम्? कथं न वा चतुर्विधं ज्ञानमिति? अतः विशेषेणोक्तम् प्रत्यक्षम् अनुमानं चेति । अक्षेषु आश्रितं प्रत्यक्षम् । निपातो ऽयं ज्ञानविषयस्य प्रत्यक्षकारकत्वं सूचयित । यथा- गमनेन गौरिति । तत्र गमनं गोत्वस्योपलक्षणम्, तस्माद् गोत्वाश्चयपिण्डो गोशब्दाभिवेय इत्युपार्श्यते । तथात्रापि इन्द्रियाश्रितत्वेन ज्ञानविषयस्य प्रत्यक्षकारकत्वसूचनात् प्रत्यक्षचतुष्ठयमेव प्रत्यक्षत्वेनाश्रीयते ।
मोयते ऽनेनेति मानम् । परिच्चेदकमिति शेषः । अनुशब्दं आनन्तर्यबोधकः । अप्श्चान्मानम् अनुमानम् । पक्षधर्मग्रनप्रतिबन्धस्मरणपूर्वकं प्रवर्तमानमिति शेषः ।
अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् ततश्चयत्किञ्चिदर्शस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते ।
यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यात्, इन्द्रियविज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि । यथा गच्चतोति गौः इति गमनक्रियायां व्युत्पादितो ऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वंप्रवृत्तिनिमित्ती करोति । यथा च गच्चत्यगच्चति च गवि गोशब्दः सिद्धो भवति ।
मीयते ऽनेनेति मानम् । करणसाधनेन मान शब्देन सारूप्यलक्षणं प्रमाणमभिदीयते । लिङ्गग्रहणसम्बन्धस्य्मरणस्य पश्चात् मानम् अनुमानम् । गृहोते पक्षधर्म, स्मृते च साध्यसाधनसम्बन्धे ऽनुमानं प्रवर्तते इति पश्चात्कालभावि उच्यते ।
प्रत्यक्षस्य्, ततश्व प्रत्यक्षा बुद्धिः, प्रत्यक्षो घटैति न स्यात्ः इदमेव स्यात्प्रत्यक्षाज्ञानम्, प्रत्यक्षं कुण्डं चेति । गतिसमासे तु सर्वलिगता भवति । ननु च प्रतिगतमक्षमित्यस्यां व्युत्पत्तावक्षाश्रितस्यैविद्न्रियज्ञनस्य प्रत्यक्षशब्दवाच्यता स्यात्, न योनिज्ञानादः, तेषाभक्षानाश्रयात्? इत्याशङ्कयाह- अक्षाश्रितत्वं चेत्यादि । एकार्थसमवेतमित्येकस्मिन्निन्द्रियज्ञाने समवेतमक्षाश्रितत्वमर्थसाक्षात्कारित्वं च सम्बद्धमित्यथं ।
सारूप्यलक्षणमित्यनेनार्थसारूप्यलक्षितं ज्ञानमेवोच्यते, तन्न सारूप्यमात्रम्, अन्यथा विरूपाल्लिगादनुमेये ज्ञानमिति विरुद्धयेत । अपपि पश्चान्मानमनुमानमित्यव्ययीभावसमासे पूर्वच्चोदयमुद्भाव्य गतिसमास आश्रयितव्यः- अनुगतं मानमनुमानमिति । पश्चादित्यर्थकथनं कृतम्, न तस्मिन् वाक्ये समासः ।
प्रत्यक्षामनुमानं चेति विभक्तिभेदेन निर्विष्ठम् । अथदि विषयभेदो गम्यते । यथा तयोविभक्तिभेदः, तथा तयोर्विषयबेधो ऽपीति शेषः ।
च शब्दः समुच्चायार्थः । तेन प्रत्यक्सानुमानयोः समबलत्वसंग्रहः । यथा प्रत्यक्षामर्थेनोत्पन्नं सद् अभ्रान्तमिति प्रमाणं भवतिव् तथानुमानमपि तादात्म्यदुत्पत्तिभ्यामर्थप्रतिबन्धादभ्रान्तमिति तत् प्रमाणं भवति । एतेन यदुवत कैश्चित्- सर्वेषु प्रमाणेषु मुख्यं प्रत्यक्षम् इति तन्निरस्तम् ।
अभ्रान्तत्वमुभयोरपि समानमेव । प्रतिपादितं हि केनचित् प्रत्यक्षस्य मुख्यत्वम् ॥ 3 ॥
स्वरूपविप्रतिपत्तिनिराकरणार्थ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तमित्युक्तम् । तत्रेति शब्दः निर्धारणार्थः । सम्यग्ज्ञानस्य प्रत्यक्षमघोलक्षाणेन निर्धायते । प्रत्य्क्षमित्यनेन लक्ष्यमुक्तम् कल्पनापोढमभ्रान्तमित्यनेन लक्षणमुक्तम् । तेन कल्पनापोढमभ्रान्तं यद् भवति तदेव प्रत्यक्षं विदितव्यम् इत्यर्थ उक्तो भवति ।
चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थ प्रापयत् प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वाद अनुमानमपि परिच्चन्नमर्थ प्रापयत् प्रमाणमिति ॥ 3 ॥
तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततो ऽयं वाक्यार्थः- तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमिति एकदेशनिर्देशः । चकारः प्रत्यक्षानुमानयोस्तुल्यवलत्वं समुच्चिनोतीत्यादिना यदुवतं शबरस्वामिप्रभृतिभिः- प्रत्यक्षं श्रेष्ठं नानुमानम्, तथा चोक्तं मीसांसाभास्ये- प्रत्यक्षे वलीयसि कथमनुमानम् इति तत् प्रयुक्तम् यतो द्वयोरपि स्वव्यापारे तुल्यबलत्बम् । अमुमेवार्थ दर्शयति- यथार्थाविनाभावीत्यादिना । अनेन विनीतदेव शान्तभद्रयोव्याख्या च दूषिता । ताभ्यामेवं व्याख्यातम्- प्रत्यक्षमनुमानं च इति भिन्नविभक्तिनिर्देशो ऽर्थाद् विषयभेदं दर्शयति । यथानयोव्रिभक्तिभिन्ना, एवं विषयो ऽपि भिन्नः इति, एतच्चायुक्तम् यस्माद् एकविभक्तिनिर्देशे क्रियमाणे चकारेण तुल्यबलत्वं न प्रदर्शितं स्यादिति ॥ 3 ॥
प्रत्य्क्षत्वजात्येति । प्रत्यक्षाणां बहुत्वात् तज्जात्या निर्यायते ।
प्रत्यक्षमनूद्भयेति लक्षयनिर्देशः । कल्पनापोढत्वमभ्रान्तत्वं च विधीयत इति लक्षणनिर्देश । अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं संज्ञासंज्ञिसम्बन्धरूपं प्रत्युक्तम् । न हि संज्ञा यथार्थ सम्भवति । यथार्थकथनेन हि विप्रतिपत्तिनिराकृता स्यात् । यदयप्यन्वर्थसंज्ञया कल्पनापोढं यद्भ्रान्तं च तत्प्रत्यक्षमिति शक्यते यथार्थ कथयितुम्, तथापि न स्वरूपं प्रत्यक्षस्य कथितं स्यत्, यतो ऽन्यदपि प्रत्यक्षस्य स्वरूपमर्थ अवयवार्थस्तु- कल्पनाभ्य अपोढमिति कल्पनापोढम् । कल्पनावियुक्तमिति शेषः । यद्धा- कल्पनया अपोढं कल्पनापोढम् । कल्पनाविवर्जितमिति शेषः । न भ्रान्तमभ्रान्तम् । प्रापकविषये ऽविसंवादकमिति शेषः ।
कस्माद् विशेषणद्वयमुक्तमिति चेद्? उच्यते, तिमिरवतो भ्रान्तज्ञानव्यच्चेदार्थम् अभ्रान्तमित्युक्तम् । कल्पनापोढमिति चानुमानव्यवच्चेदार्थमुक्तम् । एवमभ्रान्तत्वे
तत्र समुदायात् प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । प्रत्यक्षमनूदय कल्पनापोढत्वम्, अश्रान्तत्वं विधीयते । यत् तद् भवताम् अस्माकं चार्थेषु साक्षात्कारि ज्ञानि प्रसिद्धम्, तत् कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।
न चैतन्मतव्यम्- कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत् प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनूद्येतेति, यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारि ज्ञानं प्रत्यक्षशब्द वाच्यं सर्वेषां प्रसिद्धम्, तदनुवादेन कल्पनापोढाभ्रान्तत्वविधिः ।
साक्षात्कारादिकमस्तीति । लक्ष्यलक्षणेतुकथिते यथार्थ कथितं भवति यत् किञ्चित् प्रत्यक्षं तत् कल्पनापोढाभ्रान्तमिति प्रतिपत्तव्यम् । अत एव लक्षणकरणं संज्ञाकरणं भवति, संज्ञाकरणत्वेनाप्रतीतेलक्षणकरणस्य । शब्दमनूदयानित्यत्वं लक्षणं विधीयते, न चानित्यत्वं संज्ञेति गम्यत इति संज्ञा लक्षणकरणयोर्भेदः ।
यस्त्वमयोः प्रदेशान्तरप्रदिस्शयोरनुवादं कृत्वा प्रत्यक्षत्वं विदधाति, तेनाप्यत्र लक्ष्यलक्षणभावो विपरीतमाख्यातं भङ्गयाः यतो लक्षणविधानकाले लक्ष्यमनूदय लक्षणविधीयते, न तु लक्षणमनूदय लक्ष्यं विधीयते । सिद्धे तु लक्ष्यलक्षणभावे सति लक्षणसनूदय लक्ष्यं विधीयते, अय्था- यः शिखावान् स परिव्राजकः इति । शिखालक्षणविधानकाले तु परिव्राजकानुवादेन शिखैव विधीयते । विपरीतविधानमित्यन्यदपि अस्मिन्मते दूषणं दत्त्वं विनिश्चयटीकाया टीकाकृत्तेति तत्रैव द्रष्टव्यम् ।
ननु च लक्षणविधिपक्षे प्रत्यक्षस्याद्याप्यसिद्धत्वादनूद्यं न सम्भवति, ततश्च कथं प्रत्यक्षलक्षणमनूद्य लक्षणं विज्ञाप्यते, अय्था- शिखया परिव्राजकः इत्यत्र शिखालक्षणमनूद्य कल्पनापोढादि विधीयते? इत्याशङ्क्याह- यत् तद् बवतामित्यादि । एवं मन्यते- यद्यपि कल्पनापोढत्वेन प्रत्यक्षं न सिद्धम्, तथापि अर्थसाक्षात्कारित्वेन सामान्यं प्रत्यक्षां प्रसिद्धम्, ततो ऽप्युच्यते- प्रत्यक्षमनूद्येति ।
ननु च तयोरप्रसिद्धत्वात् प्रत्यक्षस्याप्रसिद्धिरेव, प्रत्यस्य तत्स्वभावत्वात्? इत्याशङ्कयाह- न चैतन्मन्तव्यमित्यादि । सुबोधम् ।
प्रापकविषये उपादेयम्, न तु आलम्बनविषये । यद्यालम्बनविषये अभ्रान्तत्वमभ्युपगम्यते, तहयत्र योगाचारनयनिरासः स्यात् । योगाचारा हि सर्वमालम्बनज्ञानं भ्रान्तं कल्पनायाः अपोढम् अपेत कल्पनापोढम् । कल्पनास्वभावरहितमित्यर्थः । अभ्रान्तम् अर्थक्रियाक्षमे च वस्तुरूपे ऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्ताम् ।
एतच्च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्वनुमाननिवृत्त्यर्थम्ः यतः कल्पनापोढग्रहणेनैवानुमानं विवर्तितम् ।
तत्रासति अभ्रान्तग्रहणे गच्चद्वृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानम्, कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्यम् अभ्रान्तग्रहणम् ।
कल्पनास्वभावरहितमिति । भावप्रधानी निर्देशः । कल्पनात्वस्वभावरहितमिर्यर्थः । अभ्रान्तमर्थक्रियाक्षमे च वस्तुरूप इत्यादिनाविसंवादो ऽर्थो ऽभ्रान्तशब्दस्य न सम्भवतीति दर्शयति । अविसंवादार्थे ऽभ्रान्तशब्दे गृह्यमाण उतरत्र दूषण प्रतिपादयति । सन्निवेशोपाधिवर्णात्मकमित्यनेनैतद् दर्शयति- वर्णादन्यत् संस्यानादिकं परपरिकल्पितं नास्तीति ।
एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्यख्या पदद्वयव्यवचेदकथनरूपा दूषिता । तेन त्वेवं व्याख्यातम्- अभ्रान्तमिति यद् विसंवादि न भवति । एवं सत्यनुमास्यापि प्रत्यक्षलक्षणं प्राप्नोतीति कल्पनापोढग्रहणं तन्निवृत्त्यर्थम् । यद्येवं व्याख्यायते, आलम्बने यन्न भ्रान्तं तदभ्रान्तम् इत्येवमुच्यमाने सर्व प्रत्यक्षं ज्ञानमालम्बने भ्रान्तमिति न कस्यचित् प्रत्यक्षत्वं स्यात् ।
तथा चाह- सर्वमालम्बने भ्रान्तं मुक्त्वा तथागतज्ञानम्, इति योगाचारमतेनः तदप्यत्राचार्येण संगृहीतमिति तदयुक्तम्, यत आचार्येण विप्रतिपत्तिनिरासार्थ पदद्वयं कृतम्, न व्यवच्चेदार्थम् । अत एवाचार्यमनुमापयता धर्मोतत्रेण पदद्वयं व्याख्यामिति ।
ननु च भवतः पक्षे ऽपि किमिति व्यवच्चेदार्थ न भवति? इत्याह- एतच्चेत्यादि । एवं मन्यते- भ्रान्तशब्दो ऽयं नाविसंवादार्थो गृह्यते, अपि त्वर्थक्रियाक्षमे वस्तुरूप आलमबने यन्न भ्राम्यति तदभ्रान्तशब्देन गृह्यते । ननूक्रं योगाचारमतमसंगृहीतं स्यादिति? उच्यते बाह्यनयेन सौतान्त्रिकमतानुसारेणाचार्येण लक्षणं कृतमित्यदोषः । योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यम्ः संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् । अन्यव्यावर्त्यस्याभवात् । तस्मादभ्रान्तग्रहणेनानुमाने निरस्ते कल्पनापोढग्रहणमधिकं सिद्धिविप्रतिपत्ति निराकरोति । अत एवाह- न त्वनुमाननिवृत्त्यर्थमिति । अस्ति चात्र मन्यन्ते । ततश्च प्रकरणारम्भस्तन्नयनिराकरणार्थः स्यात् । इष्टश्च प्रकरणारम्भः सीत्रान्तिक- योगाचारोभयमतानुघावनार्थम् । प्रापकविषये ऽविसंवादकलक्षणम तद्दि भ्रान्तत्वान्न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्चद्{ब्रि}क्षदर्शनादि मिथ्याज्ञानम्- इत्युक्तं भवति । यदि मिथ्याज्ञानम्, कथं ततो वृक्षावाप्तिः? इति चेत्, न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षस्तेन परिच्चिन्नः । एकदेशनियतश्च वृक्षो ऽवाप्यते । ततो यद्देशो गच्चद् वृक्षो दृष्टः तद्देशो नावाप्यते । यद्देशश्चावाप्यते स न दृष्ट इति तस्मात् कश्चिदर्थो ऽवाप्यते । ज्ञानानन्तरादेव तु वृक्षादिरर्थो ऽवाप्यते । इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम् ।
विप्रतिपत्तिः । तथा हि मोमांसकादय एवमाहुः यथा निर्विकल्पकं ज्ञानं सम्यग्ज्ञानं तथा जात्यादियोजनाज्ञानमपि सम्यग्ज्ञानमिन्द्रियजम्ः उपदर्शितस्यार्थस्य प्रापणात् । तथा चाह-
ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया । बुद्धयावसीयते सापि प्रत्यक्षत्वेन सम्मता ।
तथा च वैयाकरणा आहुः-
वाग्रूपता चेदुत्कामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेन सा हि प्रत्यवमशिनी ॥
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमदृते । अनुबिद्धमिव ज्ञान सर्व शब्देन भासते ॥
तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराक्रियते । तथा कल्पनापोढग्रहणेन निर्विकल्पे सिद्धे ऽग्रहणमतिरिच्यमान द्विचन्द्रज्ञानादेःसम्यग्ज्ञानाधिकरण एव निरस्तत्वाद् विप्रतिपत्तिनिरासार्थत्वमेव भवति । तथाचार्यैकदेशीयाशुक्ले शंखे पीतज्ञानम्, गच्चद्वृक्षदर्शनज्ञानं चालातचक्रज्ञानमभ्रान्तमपि सम्यग्ज्ञानमिच्चन्तिः वस्तुनो ऽभ्रान्तत्वात् पीताकारादेश्च भ्रान्तत्वाद- इत्यस्ति विप्रतिपत्ति, तन्निराक्रियते ऽब्र्हान्तग्रहणेनेति स्थितं द्वयोरपि विप्रतिपत्तिनिरासार्थत्वमिति । तथा सति अभ्रान्तग्रहण इत्यादिनाभ्रान्तविषयस्य विप्रतिपत्तिविषयं दर्शयति । न ततो वृक्षावाप्तिरित्युपदर्शितस्य गच्चद्वृक्षस्याप्राप्तेरित्यनिप्रायः । ज्ञानान्तरादेव त्वति । प्रत्यक्षान्तरात् स्थिरवृक्षस्य प्राप्तेः ।
5 अभिलापसंसगयोग्यप्रतिभासप्रतीतिः कल्पना ॥
भ्रान्तत्वं चोभयातुमतमेव । एवमनुमानस्यापि प्रत्यक्षत्वप्रसङ्गः, तदपि हि अविसंवादकमभ्रान्तमेवेष्टम् । अतः एवानुमाननिरासार्थ कल्पनापोढमित्युक्तम् । तस्माद् विशेषणद्वयमुक्तप्रयोजनकम् ॥ 4 ॥
सिद्धान्ते प्रसिद्धकल्पना निरस्ता । लौकिककल्पनोपदेशार्थम् अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना इत्युक्तम् । अभिलप्यते ऽनेनेति अभिलापः=वाच्यः तथा अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिराकरणार्थम् । भ्रान्तं हि अनुमानं स्वप्रतिभासेअनर्थऽध्यवसायेन प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्य रूपे न विपर्यस्तम् ।
न त्वविसंवादकमभ्रान्तिमिह ग्रहीतव्यम् यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् । तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात्- प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न चनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद् ग्राह्यऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् । ॥ 4 ॥
कीदृशी पनः कल्पनेह गृह्यते? इत्याह- अभिलापेत्यादि । अभिलप्यते ऽनेनेति अभिलापः, वाचकः शब्दः । अभिलापेन संसर्गः अभिलापसंसर्गः= एकस्मिन् ज्ञाने ऽभिधेयाकारस्याभिधानाकारेण सह घ्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञाने ऽभिधेयाभिधानयोराकारौ सन्निविष्टौ भवतः तदा तथा भ्रान्तग्रहणेनेत्यादिना कल्पनापोढग्रहणद्य विप्रतिपत्तिनिरासार्थत्वं दर्शयति । विप्रतिपत्तिविषयश्च टीकाकृता न दर्शितः अतिप्रसिद्धत्वात् । यदुक्तं प्राक्नाविर्सवादार्थो ऽभ्रान्तार्थ इति । तस्यार्थस्म ग्रहणे दोषं दर्शयति- न त्वविसंवादकमित्यादिना ॥ 4 ॥
कीदृशी पुनः कल्पनेत्यादिना कल्पनाबहुत्वात् कस्याः कल्पनाया ग्रहणमिति कल्पनाविशेषमजानन् पृच्चति । तथा हि- वैभाषिका इन्द्रियविज्ञानं वितर्क विचार चैतसिकसम्प्रयुक्तं कल्पनामिच्चन्ति । योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्रह्यग्राहकत्वेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोज्ञानं कल्पनेत्यन्ये कथयन्ति । अभिलापेत्यादिना शब्दसंसृष्टस्य विकल्पस्य ग्रहणं नागमपरिपठितानामिति दर्शयति । तेषां ग्रहणे सतीन्द्रियविज्ञानस्य प्रत्यक्षत्वानुपपत्तेः । अभिलप्यते ऽनेनेति करणसाधनेन एतद् दर्शयति- वाचको ऽभिलापशब्देनेष्ठः, न तु वाच्यं शब्दसामान्यरूपः । अभिलापेन संसर्ग इति अभिलापसंसर्गः । संसर्गस्तु सम्बन्धः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । अर्थसामान्यम् । तदेव हि अन्वयव्यतिरेकवत्त्वाद् व्याप्तत्वाद् अभिलापयितुं शक्यम् । अर्थविशेषः स्वलक्षणरूपस्तु संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गस्य योग्यो ऽभिधेयाकाराभासो यस्यां प्रतीतौ सा तथोक्ता ।
तत्र काचित् प्रतीतिः अभिलापसंसृष्टाभासा भवति, यथा- व्युत्पन्न संकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावभासा भवति । काचित्तु अभिलापेनासंसृष्टापि अभिलापसंसर्गयोग्याभासा भवतिः यथा- बालकस्याव्युत्पन्नसंकेतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्युक्तावव्युत्पन्नसंकेतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सापि संगृह्यते, यदयपि अभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चाभिलापसंसृष्टा, सापि योग्या । तत उभयोरपि योग्यग्रहणेन संग्रहः ।
सामान्यदि तेन विनीतदेवव्याख्या दूषिता- अभिलप्यत इत्यभिलापः= वाच्यः सामान्यादिः इत्येवंरूपा । एवमेवात्राश्रयणीयम्, अन्यथा योग्यग्रहणेन शब्दसंसर्गयोग्यो न कथितः स्यादिति । यदयेवम्, धर्मोत्तरव्याख्याने जात्यादेर्वाचकस्य संसर्गभावो न प्रदर्शितः स्यात्? सत्यमनेन न प्रतिपादितः, विषयचिन्तायां सामान्यादेविषयभावकथनेन सामर्थ्यात् कथितं भवतीति निरोधः । एकस्मिन् ज्ञाने वाच्य वाचकाक्रतया संघटर्नामत्यर्थः । ननु च यदयपि तस्मिन् ज्ञाने आकारयोर्मीलनं तथपि शब्दार्थयोः संसर्गो नास्ति? इत्याह- ततो यदैकस्मिन्नित्यादि । शब्दार्थयोः ससर्गविज्ञाने ऽपि तयोराकारयोर्मीलनं न सम्भवतीत्यभिर्पायः ।
तत्र काचित् प्रतीतिरित्यादिना योग्यग्रहणस्य विषयं दर्शयति । व्युत्पन्नसंकेतापक्षयाकारद्वयप्रतिभासनम् । ननु चाव्युत्पन्नसंकेतस्य बालमूकादेरनुमतो विज्ञाने न शब्दसंसर्ग इति तदयोग्यत्वमपि नास्ति । कश्च संसर्गयोग्यप्रतिभासः? यः शब्दप्रतिभासः । मूकादिज्ञाने तु संकेताभावे सति शब्दरतिभासो ऽपि न सम्भवतीति ससर्गयोग्यत्वमपि नास्ति । किमिदं योग्यत्वं नाम? अभिधेयाकारस्य संकेतकरणयोग्यत्वम् । न चाभिघानोल्लेखाभावे सत्यभिधेयप्रतिभासम्, नापि योग्यत्वमिति । तथा च कुमारिलः प्राह-
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृश शुद्धवस्तुजम् ॥
अभिलापयितुं न शक्यतेः तद्वयाप्तत्वात् । ज्ञाने ऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलापसंसर्गयोग्यप्रतिभासः । अर्थसामान्यस्यार्थाकार इति शेषः ।
यद्वा- न अभिलप्यते इति अभिलापः= अभिधेर्य यदर्थसामान्यम् । अभिलापेन संसर्ग इति अभिलापसंसर्गः । अभिलापसंसर्गस्य योग्यमिति अभिलापसंसर्गयोग्यम् । शब्दसामान्यम् । अन्वयव्यतिरेकवशात् तेनार्थाभिधानं शक्यम् । शब्दविशेषेण तु न शक्यम्ः तस्यासामानत्वात् । ज्ञाने ऽभिलापसंसर्गयोग्यो यः प्रतिभासः स एवाभिलाप असत्यभिलापसंसर्गे कुतो योग्यतावसितिः? इति चेत्ः अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्रह्यो ह्यर्थो विज्ञानं जनयन् नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति, विकल्पविज्ञानं त्वर्थान्नोत्पदयते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतद्- विकल्पो ऽर्थान्नोत्पदयते इति? अर्थसन्निधिनिरपेक्षत्वात् । बालो ऽपि हि यावद् दृश्यमानं स्तनं स एवायम् इति पूर्वदुष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद विज्ञानमसन्निहितविषयम्, पूर्वदृष्टस्यासन्निहितत्वात् । असन्निनहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् ।
ततश्च व्याअवर्त्त्याभवाद योग्यग्रहणं न कर्तव्यमित्याशङ्कां परस्य दर्शयति असत्यभिलापेत्यादिना । अनियतप्रतिभासेत्यादिनोत्तरमाह । एवं मन्यते- शब्दसंसर्गित्वं किमुच्यते? विकल्पज्ञानस्यानियतभसत्वमेव । कुतस्तत् सिद्धम्? इत्याह- अनियतेत्यादि । अर्थादेव ह्युत्पदयमानं नियतप्रतिभासं भवति । तथा चक्षुर्विज्ञानमित्यभिप्रायः । ननु कल्पनाज्ञानमप्यर्थादुत्पदयमानं नियताकाअर्ं भविष्यति? इत्याह- विकल्पविज्ञानमित्यादि । अर्थसन्निधि विना विकल्पज्ञानस्योत्पत्तिरित्यभिप्रायः ।तेनेन्द्रियज्ञानमेव नियतप्रतिभासम्, विकल्पज्ञानं त्वनियतप्रतिभासमिति । तथा नियतप्रतिभासं विकल्पज्ञानं बालमूकादेरप्यस्तीति दर्शयति- बालो ऽपि हीत्यादिना । ननु च बालस्य ताल्वादिकरणपाटवाभावे सामान्यविशेषशब्दोच्चारणं नास्ति, तत् किमुच्यते- स एवायमिति? सत्यं नास्तिः किन्तु स एवायम् इत्येनेन विकल्पस्यावस्थोच्यते । स एवायम् इत्यनेन पूर्वदृष्टत्वमेवोच्यते । उपरतरुदितः= अपगतरुदितः । एतद् दर्शयति- बालस्यापि पूर्वपरपरामर्शरूपं विकल्पकं विज्ञानमस्ति, नियतविषये प्रवृत्तेः, यथा गृहीतसंकेतस्य पूर्वापरपरामशेन प्रवृतिरिति । यच्च पूर्वापरपरामर्श तदनियतप्रतिभासं पूर्वापरयोरा संसर्गयोग्यप्रतिभासः, शब्दसामान्याकार इति शेष इत्येतदुक्तं भवति ।
एवं श्लेषेण वाक्यस्य व्याख्यानेन उभयोरपि तद्विकल्पाकारः अभिलापसंसर्गयोग्यप्रतिभास इत्युक्तं वेदितव्यम् ।
इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् ।
अत एव स्वलक्षणस्याइ वाच्यवाचकभावमभ्युप्गम्य एतदविकल्पकत्वमुच्यते । यदयपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्, तथापि अभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् । न चेन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वात् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् ।
श्रोत्रविज्ञानं तर्हि शब्दस्वलक्षणग्राहि, शब्दस्वलक्षणं च किञ्चित् वाच्यं किञ्चिद् वाचकम्- इत्यभिलाकसंसर्गयोग्यप्रतिभासं स्यात्, तथा च सविकल्पकं स्यात्?
रोपितत्वादिति संसगंयोग्यं बालमूकादेर्विज्ञानमिति तन्निवृत्त्यर्थं योग्यग्रहणं कर्तव्यमिति स्थितम् ।
इन्द्रियविज्ञानमित्यादिना कुमरिलेन यदिन्द्रियविज्ञानस्यालोचनाख्यस्य बालमूकादिविज्ञानेन सादृश्यं प्रतिपादितम्, तद् दूषयितुमुकस्ंहारव्याजेन वैलक्षण्यं दर्शयति अत एवेत्वादि । यदिन्द्रियविज्ञानमर्थबलेनोत्पदयमानं नियतप्रतिभासं तन्निर्विकल्पसम् । अत एव स्वलक्षणस्यापि शब्दस्यार्थस्य च वाच्य वाचकत्वमम्युपगम्य निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साध्यते । विकल्पविज्ञानस्य तु स्वलक्षणवाच्य वाचकत्वं प्रतिभासिनो ऽपि सविकल्पकत्वमिति स्थितम् । यदयपीत्यनेन स्वलक्षणयोर्वाच्यवाचकभावाभ्युपगमं दर्शयति । परमार्थतः सामान्ययोरेव वाच्यवाचकत्वं नार्थशब्दविशेषस्येत्यादिना न्यानेन । अवश्यं च स्वलक्षणयोः वाच्यवाचकभवो ऽभ्युपगम्य । कुतः? सामान्ययोर्विषयचिन्तायामेव निरस्यमानत्वादिति निर्विकल्पकत्वकथनं व्यर्थ स्यादिह । तदपि हि विषयाविषयचिन्ताद्वारेण निर्विकल्पकविषयमेवेति । तेन यद् विनीतदेवेन सामान्ययोर्वाच्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रियाविज्ञानस्य प्रतिपादितम्, तद् दूषितं भङ्गया ।
श्रोत्रविज्ञानं तहींत्यादिना स्वलक्षणस्य वाच्यवाचकभावपक्षे ऽतिप्रसङ्गमापादयति परः । किञ्चिन्निर्विकल्पकत्वमिन्द्रियविज्ञानस्य साधनीयम् । न सामान्ययोर्वाच्य वाचकभावमभ्युपगम्य शब्दस्वलक्षणं वाच्यम् । यदा घटशब्दः । शब्दशब्दो वा शब्दं शब्देन प्रतिपदयते, तदा किञ्चिद् वाच्यं शब्दस्वलक्षणं किञ्चिद् वाचकं शब्दस्वलक्षण
6। तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ॥
प्रतीतिरिति संविदनम् । बुद्धरिति शेषः ॥ 5 ॥
तया रहितमिति कल्पनया रहितम् । कल्पनाकलुषेण रहितमिति शेषः । तेन एतदुक्त्या शब्दार्थसामान्याकाररहिताया प्रतीतिः सा एव प्रतीतिः, सा एव प्रत्यक्षप्रमाणमित्युक्तं भवति ।
तिमिराशुभ्रमण नौयान संक्षोभाद्यनाहितविभ्रममिति । अत्र तिमिरमिति अक्षिपीडा । आशुभ्र्रमणमिति अलातचक्रादि । नौयानमिति नावा यानम् । संक्षोम नैष दोषः, सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः संप्रत्यम्ति । यथा हि- संकेतकालभावि दर्शनमद्य निरुद्धम्, तद्वत् तद्विषयत्वमपि अर्थस्याद्य नास्ति । ततः पूर्वकालद्दष्टत्वमपश्यच्च्रोत्रज्ञानं च वाच्यवाचकभावग्राहि । अनेनैव न्यानेन योगिज्ञानमपि सकलशब्दार्थावभासित्वे ऽपि संकेतकालदृष्टत्वाग्रहणणान्निर्विकल्पकम् ॥ 5 ॥ तयेति । तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सह्ज्ञानं यदभ्रान्तं तत् प्रत्यक्षम् इति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे मिति । ततः शुद्धयोः श्रवणे सति शब्दविज्ञाने द्वयोरपि शब्दयोः प्रतिभासनाच्चोत्रेन्द्रियज्ञानमनियतप्रतिभासित्वात् सविकल्पकं स्यादित्याकूतम् ।
सत्यपीत्यादि । एवं मन्यते- यद्यपि स्वलक्षणयोर्वाच्यवाचकत्वम्, तथापि श्रोत्रविज्ञाने न वाच्यवाचकतया तयोः प्रतिभासनम्, अपि तु शुद्धयोरेव प्रतिभासनम्, यस्मात् शब्दसन्निधिबलेन श्रोत्रविज्ञानमुत्पद्यते । न च सन्निहितयोः शब्दयोर्वाच्य वाचकत्वमस्ति । यावत् संकेतकालभावि शब्दस्मरणं न भवति, तावत् कुतो वाच्यत्वं वाचकत्वं वा स्यात्, एतत्प्रत्यभिज्ञया स एवायं वाचको भविष्यतोत्याह न च संकेतकालेत्यादि । विषयभेदात् तयोः पूर्वोत्तरयोर्भेदः । कश्च संकेतविषयः शब्दः? यः संकेतकालभाविना ज्ञानेन विषयीकृतः । यश्च पूर्व ज्ञानेन विषयीकृतः स इदानी नास्ति, पूर्वज्ञानविनाशे पूर्वज्ञानविषयत्वस्याभावात् । अतः पूर्वकालविषयत्वमपश्यत् सन्निहिते श्रोत्रवलेनोत्पद्यमानां निर्विकल्पकमेव । योगिज्ञानेन यद्येकस्मिन् काले मनोविज्ञानेन च युगपच्चब्दाथौ गृह्यते, तथापि सन्निहितवस्तुतया तेन गृहीतव्याविति दर्शयति- योगिज्ञानमित्यादिना ॥ ।5 ॥ ननु कल्पनाज्ञानमपि परया कल्पनया शून्यम्, ततश्च तस्यापि निर्विकल्पकत्वं प्राप्नोति? इत्याशङ्कयाह- तथा कल्पनया कल्पनास्वभावेनेत्यादि । एवं इति वातपित्तकफप्रकोपेण धातुखेदः । तिमिरं च आशुभ्रमणं च नौयानं च संक्षोभश्चेति ते आदयो येषां ते तिमिराशुभ्रमणनौयानसंक्षोभादयः । आदिशब्देन नष्टदृष्टिपीतदृष्टयादीनां संग्रहः । आहितो विभ्रभो यस्मिंमस्तद् आहितविभ्रमम्, न आहितविभ्रममित्यनाहितविभ्रमम् । तिमिराशुभ्रमणनौयानसंक्षोभैरनाहितविभ्रममिति तिमिराशुभ्रमणनौयानसंक्षोभानाहितविभ्रमम् । तथा च तिमिररोगेण द्विचन्द्रदर्शनं भवति । नौयानगत्या तोरतरुश्चलन् दृश्यते । वातपित्तादिकोपेन वस्तु ज्वलितादिकं दृश्यते ।
प्रत्यक्षलक्षणम्, न प्रत्येकम्- इति दर्शयितुं तया रहितं यदभ्रान्तं तत् प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।
तिमिरम् {अस्णो}र्विप्लवः । इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्रम्यमाणे ऽलातादौ न् अचक्रभ्रान्तिरुत्पद्यते । तदर्थम् आशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्चन्त्यां नावि स्थितस्य गच्चद्वृक्षादिभ्रान्तिरुत्पद्यते इति यौनग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षाभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभङ्गतेषु ज्वलितस्तम्भाविभ्रान्तिरुत्पद्यते। एतच्चाध्यात्मगतं विभ्रमकारणम् ।
सर्वरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रिय- मन्यते-धर्मिणा कल्पनाज्ञानेन धर्मो ऽत्र कल्पनात्वं लक्ष्यते । यथा विषाणीत्यव विषाणित्वम्ः ततश्च कल्पनात्वेन रहितं यज्ज्ञानं तन्निर्विकल्पकम् । न च कल्पनाज्ञानं कल्पनात्वरहितमित्यदोषः ।
कल्पनापोढाभ्रान्तत्वयोलंक्षणयोः परस्परं विशेषणविशेष्यत्वम्, न स्वातन्त्र्येण पृथग्लक्षणत्वमिति दर्शयितुमन्ते प्रत्यक्षशब्दं गृहीत्वा तयोरपि सम्बध्नाति-तत्प्रत्यक्षमिति परेण सम्बन्ध इत्यनेन । इन्द्रियगतमिदं विभ्रमकारणमिति । इन्द्रियस्य तिमिरेणाक्रान्तत्वात् । आशुभ्रमणमिति । मन्दं भ्रम्यमाणः इति विशेषणस्य व्यावृत्तिः । विषयगतमिति । विषयस्यालातादेश्चक्राकारं प्रति निमित्तत्वात् । नौयानमिति । समुदायप्रश्नः । गच्चत्यां नावीत्यादिना । प्रयोजनं दर्शयति बाह्याश्रयस्थितमिति । बाह्या नौः सैवाश्रयस्तत्र स्थितस्याश्रयद्वारको विभ्रम उच्चते । संक्षोभो वातादीनां विकारापत्तिराध्यात्मिकविभ्रमकारणम् ।
ननु चेन्द्रियगतमेव विभ्रमकारणम् प्रत्युच्यतेः नान्यैरिन्द्रियगतैरिन्द्रियं बिक्रियां गतम्? इत्याह- सर्वैरेवेत्यादि । तिमिरस्य साक्षादलातादेः पारम्पर्येणेति । इतच्च विनिश्चयटीकायां विस्तरेण प्र्तिपादितमिति । संक्षोभपदेन सह द्वन्द्वं कृत्वा बहुव्रीहि-
7 तच्चतुर्विधम् ॥
ज्ञानं प्रयक्षमिति । सूत्रे ज्ञानं नोक्तम् । कथं तल्लम्यते इति चेद्? कल्पना ज्ञानेनैव प्रतिबद्धा, भ्रान्तिरपि ज्ञानधर्म इति दृष्टम् । तस्मात् कल्पनारहितमभ्रान्तं ज्ञाममेवेति । यथा अवत्सा गौरानीयताम् इत्यनेन काचित् अश्वा नानीयते घेनुरेवा नोयते तस्या एव वत्सम्बन्धदर्शनात् । तथा अवापि भ्रान्तिकल्पनयोर्ज्ञानेनैव सम्बन्धो दृष्टः, नान्येनेति ज्ञानमेव प्रत्यक्षतयेष्यते ॥ 6 ॥
तच्चतुर्विधमिति । प्रत्यक्षमिति यदुक्तं तत्- 1 इन्द्रियजन्यम्, 2 मानसम्, 3 आत्मसंवेदनम्, 4 योगिज्ञानं चेति चतुर्विधं ज्ञेयम् । प्रविभागो ऽयं विप्रति- मेव विकर्तव्यम् अविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते स्ंक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते, आशुनयनानयनादयो विषयस्थाः । आशुनयनायने हि कार्यमाणे ऽलाते ऽग्निवर्णदण्डाभाक्सा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था व्हिभ्रमहेतवो गृह्यन्ते । तैरनाहितो विभ्रभो यस्मिस्तत् तथाविधं ज्ञानं प्रत्यक्षम् ॥ 6 ॥ तदेवं लक्षणमाख्याय यैरिन्द्रयमेव द्रष्ट कल्पिअत्म्, मानसप्रत्यक्षरिति दर्शयति । विनिश्चरो तु संक्षोभशब्देन षष्ठीसमासं कृत्वादिशब्देन बहुब्रीहिसमासं दर्शयतः को ऽभिर्पायष्ठीकाकृत इति । व्युत्पत्तिभेदकथनमेव, नार्थभेद इति । यदा संक्षोभशब्देन षष्ठीसमासस्तदाश्रयगतस्य विभ्रमकारणस्य उपलक्षणत्वाद् वातपित्तादेर्ग्रहणं भवतीति नार्थभेदः । अथ किमर्थमाशुभ्रमणग्रहणादेरुपादानम्, तिमिरादीत्येव क्रियताम्, आदिग्रहणेन सर्वेषां संग्रहो भविष्यति? उच्यतेः, असत्याशुभ्रमणादिग्रहणे इन्द्रियगतमेवादिशब्देन काचकामलादि गृह्यत इत्याशंक्येत । तस्मादाशुभ्रमणादिरुपादीयते । तेषामुपादाने, यद्यादिग्रहणं न क्रियेत, तदा तेषां स्वरूपग्रहणमेव स्यात्, न प्रकारोपलक्षणमित्यादिग्रहणम् । तत उभयोपादाने सति तिमिरादीम्य्भयकात्स्न्र्य लभ्यत इति स्थितम् । तत् तथाविधं ज्ञानमिति यदयपि सूत्रे ज्ञानग्रहणं नास्ति, तथापि भ्रान्ते ज्ञानधर्मत्वाद् तद्वयुदासेन ज्ञानमेव प्रत्यक्षं गृह्यत इत्यदोषः । विनीतदेवव्याख्यायां भवति तु प्रत्य्क्षसूत्रेस्यार्थकथनं ज्ञानं प्रत्य्क्षमिति, तस्मात् स्थितं निर्विकल्पकं ज्ञानं प्रत्यक्षमभ्रान्तमिति ॥ 6 ॥
यैरिन्द्रियमेव द्रष्ट परिकल्पतमिति । वैभाषिकैः- चक्षुः पश्यति रूपाणि इति अतिरिष्यते। मानसे च प्रत्यक्षे दोष उद्भावित इति । द्वाभ्यां, भिक्षवो, रूपं दृश्यते चक्षुर्विज्ञानेन तदाकृष्टेन मनोविज्ञानेन इति, तदाममसिद्धं मनो-
8 इन्द्रियजन्यम् ॥ (1)
पत्तिनिरासार्थम्पदिश्यते । केषाञ्चित् इन्द्रियमेव दर्ह्सकर्तुं इष्टम्, तन्निरासार्थ प्रथमम् । इन्द्रियजन्यं ज्ञान्ं हि प्रत्यक्षम्, न त्विन्द्रियमिति । कैश्चित् मानसप्रत्यक्षे दोष उद्भावितः, तद्दोपपरिहारथ द्वितीयम् । केचित् चित्तचैतानामात्मसंवेदनं नाङ्गोकुर्वन्ति तन्निरासार्थ तृतीयम् । केचिद् योगिप्रत्यक्षं नानुमन्यन्ते, तन्निरासार्थ चतुर्थ प्रत्यक्षमुक्तम् ॥ 7 ॥
इन्द्रियजन्यमिति । चक्षुरादीनि पञ्चेन्द्रियाण्येव इन्द्रियत्वेनेष्यन्ते । मनस्तु इन्द्रियं नः मानसप्रत्यक्षस्य पृथङ् निर्देशात् । तस्मात् चक्षुरादीन्द्रियेषु आश्रितं ज्ञानमेव इन्द्रियजन्य प्रत्यक्षम् ॥ 8 ॥ लक्षणे च दोष उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च, तेषां विप्रतिपत्तिनिराकरणार्थ प्रत्यक्षस्य प्रकारभेदं दर्शयन्नाह- तच्चतुर्विधमिति ॥ 7 ॥ इन्द्रियज्ञानमिति । इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्दिर्याश्रितं यत् ज्ञानं तत् प्रत्यक्षम् ॥ 8 ॥
विज्ञानमाचार्यदिङ्नागेन प्रत्यक्षं दशितम् । तत् परैः कुमारिलोआदिभिलंक्षणमजानद्भिर्दूषितम् । तन्मनोज्ञानं यदीन्द्रियविज्ञानविषये प्रवतते तदा गृहीतग्राहितया प्रमाणम् अथान्यविषय प्रवर्तते, व्यवहिते प्रत्यक्षं भवत् कि तन्मनोविज्ञानमिन्द्रियसव्यपेक्षं स्यात्? निरपेक्ष वा? इन्द्रियसव्यपेक्षत्वे सतीन्द्रियविज्ञानमेव, निरपेक्षत्वे वानिन्द्रिस्यापि मनोविज्ञानं प्रत्यक्षं स्यादित्यन्धवधिराद्यभावचोदयं कृतम् ।
स्वसंवेदनं च नाभ्युपगतमिति । मीमांसकैः परीक्षं विज्ञानमर्थापतिगम्यं प्रत्यक्षो ऽयं इप्यते, नैयायिकादिभिस्तु ज्ञानान्तरगम्यं ज्ञानमिष्यते, न स्वसंवेदनंसिद्धम् स्वात्मनि कारित्वविरोधात् । योगिज्ञानं च नाभ्युपगतमिति सम्बन्धः । मीमांसकादय एवमाहुः- योगिन एव न सन्ति सम्प्रति प्रमाणाभावात्, कि पुनस्तेषां ज्ञानमिति ॥ 7 ॥
इन्द्रियाश्रितमिति । चक्षुरादीन्द्रियचतुष्टयं गृह्यते, न मनैन्द्रियम्, तस्य स्वसंवेदनप्रत्यक्षे प्रतिपादयमानत्वात् । इन्द्रियाश्रितं विज्ञानं प्रत्यक्षम् इति ब्रुवता वार्त्तिककृता न चक्षुः प्रमाणम् इति कथितं भवति यस्माज्ज्ञानस्यैवान्वयव्यतिरेकानुविधानाद् रूपादिदर्शने सामर्थ्यम्, न चक्षुषः । यत्तूक्तम्- ज्ञानं चेत् पश्यति, व्यवहितमपि कि न पश्यति? अमूर्तस्यावाचकाभावात् इति, तदयुक्तम् यतो योग्यदेशेनैवार्थेन तज्ज्ञानं जन्यते, न व्यवहितेन विज्ञानादर्शनात् ॥ 8 ॥
9 स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ॥
svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyena janitaṃ manovijñānamiti | tatra svasya viṣaya iti svaviṣayaḥ | svakauyamālambanamiti śeṣaḥ | svaviṣayeṇānantaraḥ svaviṣayānantaraḥ | dvitīyakṣaṇabhavī sarūpaścānantaraśabdenocyate| svaviṣayānantaraścāsau viṣayaśceti svavisayānantaraviṣayaḥ, sa sahakāriī yasya indriyajñānasya taqt svaviṣayānantaraviṣayasahakāri indriyajñānam | samanantarapratyayabhūtena indriyajñānena janitaṃ yat tadeva manomātrāśrayatvānmānasaṃ pratyakṣamiti |
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
