Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
मानसप्रत्यक्षे परैर्योदोष उद्भावितः, तं निराकर्तु मानसप्रत्य्क्षलक्षणमाह- स्वविषयेत्यादि । स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्य अनन्तरः । न विद्यते ऽन्तरमस्येति अनन्तरः । अनन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभव्युपदेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसन्तानान्तर्भूतो गृहीतः । स सहकारी यस्य इन्द्रियज्ञानस्य तत्तथोक्तम् ।
द्विविधश्च सहकारी- परस्परोपकारी, एककार्यकारी च । इह च क्षणिके वस्तुनि अतिशयाधानायोगादेककायकारित्वेन सहकारी गृह्यते । विषयविआनाभ्यां हि मनोविज्ञानमेकं क्रियते यतः, तदनयोः परस्पर सहकरित्वम् ।
स्वशब्दस्य विवरणम्- आत्मीय इति । इन्द्रियविज्ञानस्यात्मीयो विषयक्षणः । तस्यनन्तर इत्यस्य विवरणम्- न विदयत इत्यादि । अन्तरशब्दस्य विवरणं व्यवधानमित्यादि । समानजातीय उपादेयक्षण इन्द्रियविज्ञानविषयस्याव्यवहितः समनजातीयक्षण उच्यते । स विपादेयक्षणो विषयः । विषयग्रहणेनालोकस्यान्तरस्य निरासः । स तथाभूतः सहकारी यस्येति सम्बन्धः ।
ननु च कथं विषयक्षणस्य सहकारित्वम्, एकस्मिन् क्षणे उपकार्योपकारकभवाभावात्? इत्याह- द्विविधेश्चेत्यादि । एवं मन्यते- नात्रोपकारक्त्वात् सहकारित्वम्, अपि तु एककार्यकारित्वादिति । तदेव दर्शयति- विषयेत्यादिना । ईदृशेनेति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन । आलम्बनप्रत्ययभूतेनेन्ति । यदा योगिज्ञानं परस्यैर्वविधज्ञानमालम्बते, तदालम्बनभूतेन योगिज्ञानं जन्यत इति । समश्चासाविति । अनन्तरक्षणस्यापि ज्ञानत्वात् । स्मन्तर इति च भवति शकन्ऽवादिषु पाठात् षररूपत्वम्, यतः स चेति इह स्वविषयानन्तरविषय इत् कथनं गृहीतग्रहणादवबोधकं न भवतीति दोषम्, तथा असमानजातीयविषयग्रहणदोषं च परिहतु बोध्यम् । तथा हि मानस प्रत्यक्षमिन्द्रियविज्ञानविषयानन्तरद्वितीयक्षणोत्पत्तिकं यत् तद्विषयकमिष्टम् । तस्मात् कुतो गृहीतग्रहणम् ।
ईदृशेनेन्द्रियविज्ञानेन आलम्बनभूतेनापि योगिज्ञानं जन्यते, तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासो ज्ञानत्वेन, अनन्तरश्चासौ अव्यवहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् ।
तदनेनैकसन्तानान्तर्भूतयोरेव इन्द्रियज्ञान मनोविज्ञानयोजन्यजनकभावे मनोविज्ञानं प्रत्यक्षमिति उक्तं भवति । ततो योगिज्ञानं परसन्तानवर्ति निरस्तम् ।
यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य, तदा गृहीतग्रहणादासञ्जितो ऽप्रामाण्यदोषो निरस्तः ।
समनन्तरः । हेतुत्वादिति । प्रत्ययार्थकथनमेतत् । तेन जनितमित्यादिनेतत् कथयति- इन्द्रियविज्ञानेन स्वविषयान्तरविषयसहकारिणोपादानभूतेन यज्जनितं तदेव मनोविज्ञानं प्रत्यक्षम् । न आलम्बनभूतेन जनितमित्यर्था ।
यदा चेत्यादिना द्वयोरेकं विषयं गृहीत्वा यच्चोदितं परेण तत् परिहृतम् । पूर्वक्षणे इन्द्रियविज्ञानस्य विषयो द्वितीयक्षणे मनोविज्ञानस्य विषय इत्यगृहीतग्राहि मनोविज्ञानम् ।
यदा चित्यादिना यच्चोदयं कृतम्- यदि मनोविज्ञानमिन्द्रियसव्यपेक्षम्, न स्यान्मनोविज्ञानस्येन्द्रियविज्ञानविषयादन्यो विषायः, तदान्धबधिरादयभावः । व्यवहितस्य नीलादेर्ग्रहणै भवतु इति, तत् परिहृतम् । यस्मादिन्द्रियविज्ञानविषयस्य द्वितीयोपादेयभूतविषयक्षणो गृहीतो मनोविज्ञानविषयः, तस्माद् व्यवहितक्षणो विषयो न भवत्यस्यान्धवधिरादेश्चातीन्द्रियविज्ञानम् । विज्ञानविषयानन्तरविषयसहकारिविदयते । तेन तेषां न मनोविज्ञानं भवतीति परिहृतम् ।
स्वविषयानन्तरविषयसहकारिणेत्युच्यमाने शब्दविषयं मानसं न प्राप्नोतिः, श्रोत्रविज्ञानविषयाच्चव्दादपरस्योपादेयक्षणस्यानुत्पत्तेः, शब्दस्योच्चेदित्वात् । अपरस्य शब्दस्य शब्दादनुत्पत्तेरित्यवश्यं मानसं प्रत्यक्षशब्दविषयमेष्टव्यम्, अन्यथा पञ्च बाह्या विज्ञेयाः इत्यस्य व्यघातः स्यात् । स्वविषयानन्तरविषयशब्देन श्रोत्रविज्ञानविषयानन्तरयोग्यविषयो गृह्यते, नोपादेयक्षण एवः तेन विज्ञानविषयदेशे ऽपरश्ब्दो यदोत्पद्यते तदा मानसं प्रत्य्क्षं स्वविषयानन्तरविषयसहकारिणा जनितं भवतीत्यदोषः ।
अनन्तरशब्दश्च समानजातीयपर तेन असमानजातीयविषयग्रहणप्रसङ्गो वा । कुतः? इन्द्रियविज्ञानेन समनन्तरप्रत्ययेन जनितमित्युक्तेरन्धवधिरादयभवयदा चिद्न्रियविज्ञानविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धवधिरादयभावदोषप्रसङ्गो निरस्तः ।
एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते । च्यपारवति तु चक्षुषि यद् रूपज्ञानं तत् सर्व चक्षुरश्रितमेवः इतरथा चक्षुराश्रितत्वानु पपत्तिः कस्यचिदपि विज्ञानस्य ।
एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम्, न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवञ्जातीयकं तद् यदि स्यात् न कश्चिद् दोषः स्याद्- इति वक्तुं लक्षणमाख्यातमस्येति ॥ 9 ॥
एतच्चेत्यादिना मनोविज्ञनस्योत्पत्तिविषयं दर्शयति । उपरुते चक्षुषौति । यदा चक्षुविषयमालोच्योपरतं भवति तदालोचनाविषये चक्षुर्विज्ञानमुत्पन्नं सत् पुनद्वितीये क्षण आत्मीयविषयानन्तरविषये नोत्पदयतेः इन्द्रियाणां तत्र व्यापाराभावात् । ततश्च तेनेन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणा प्रत्यक्षमुत्पदयते इति स्थितम् । नन्वेकस्मिन् क्षणे तस्योत्पदके सति न तत्र काचिदर्थक्रियावाप्यते- इति पुरुषार्थानुपयोगित्वात् प्रामाण्यं प्राप्नोति? उच्यतेः न मानसप्रत्यक्षेणास्मद्विघानामर्थक्रियावाप्तिर्भवति, अपि तु योगिनो वीतरागादेः । ते च तस्मिन् क्षणे मानसे चोपदर्शितं विषयं प्रतिपदय धर्मदेशनादिकमर्थक्रियामासादयन्तीत्यनवदयम् ।
अथ व्यापारवति चक्षुषि किमिति मानसोत्पत्तिलुप्यते? इत्याह- व्यापारवतीत्यादि । सर्वेन्द्रियाश्रितं ज्ञानं चक्षुर्विज्ञानमेव, न मानसस्योपत्तिरस्तीत्यभिप्रायः । ननु व्यापारवति चक्षुषि प्रथमे क्षण इन्द्रियविज्ञानं भवति, द्वितीये क्षणे मानसं भवति, यदयपि समानजातीययोर्युगपदुत्पत्तिर्नास्ति? इत्याह- इतरथेत्यादि । एवं मन्यते- व्याआरवति चक्षुषि किमितीन्द्रियविज्ञानं नोत्पदयते, द्वितीये क्षणे योग्यकरणे सति समानरूपम्, तेन तयोः कथमिन्द्रियविज्ञानव्यप्देशो न स्यादिति । ननु च यदि मानसं प्रत्यक्षमिन्द्रियविज्ञानाद् भित्रे प्रत्यक्षादिप्रमाणसिद्धं भवेत्, तदा तस्य लक्षणं यावता प्रमाणसिद्धमेव नास्ति? इत्यह- एतच्चे त्यादि । एवञ्जातीयकमिति । इन्द्रियविज्ञानसदृशम् । तदेतद् धर्मोत्तरेणागमसिद्धं दर्शयतामाचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत् प्रमाणमुपन्यस्तम् विकल्पोदयात् इति, तद् भङ्गयावधारणादेव दूषितम् ।
तेरेवं व्यख्यातम्- व्यापारवति चक्षुषि इन्द्रियज्ञानम्त्पदयते, मानसं च, न शक्यते
10 सर्वचित्तचैत्तानामात्मसंवेदनन् ॥ (3)
प्रसङ्गदोषो निरस्तः । अन्धवधिरयोमनोविज्ञाने समनन्तरप्रत्यय इन्द्रियविज्ञानं नास्ति । तेन यदाहुः केचित्- मनोविज्ञानेन बाह्याविषयप्रत्यक्षमङ्गीक्रियते, एवमन्धबबिरादयभावप्रसङ्ग इति, तद्वचनमपास्तं वेदितव्यम् ॥ 9 ॥
सर्वचित्तचैतानामात्मसंवेदनमिति । सर्वे च ते चित्तचैताश्चेति सर्वचितचैत्ताः । स्वसंवेदनमाख्यातुमाह- सर्वचित्तेत्यादि । चित्तम् अर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्त्चैत्ताश्च सर्वचित्त वक्तुम्- द्वयोयुगपदुत्पत्तिर्नास्तीतिः यतः समानेन्द्रिययोर्नास्ति, न भिन्नेन्द्रिययोः, षण्णा युगपदुत्पत्तिः इति वचनात् । ततश्च द्वयोर्भिन्नेन्द्रिययोयुगपदुत्पत्तिः । न च तत्र भेदेनानुपलभ्यमानं मानस नास्तीति शक्यते वक्तुम्ः समानजातीयनीलविकल्पीदयात् । यदि च तन्न मानसं स्यात्, तत्पृष्ठभावी नीलविकल्पो न स्यादेव । समानाद्धि मानसात्मनो विकल्पस्योत्पत्तिर्भवति, न विजातीयादिन्द्रियविज्ञानादिति । यथा- देवदत्तेन नीले गृहीते न यज्ञदत्तस्य नीलनिश्चयो भवति, तथेन्द्रियविज्ञानसन्तनयो भिन्नत्वात् । न था मानसमनोविकल्पसन्तानयोर्भिन्नसन्तानत्वम् द्वयोरप्यनिन्द्रियत्वात्, मनोव्यपदेशाच्च इति ।
अत्रोच्यते- यदुक्तं तावत् समानजातीयविकल्पोदयात् इति, तत्सद्धौ यत् साधनं तदनेकान्तिकम्ः विजातीयादप्युत्पत्तिदर्शनादन्वयव्यतिरेकाभ्याम् । न च व्यापारवति चक्षुषि मानसस्योत्पत्तिरस्ति । न च द्वयोनीलविज्ञानयोरुत्पत्तिनिर्विकल्पकयोर्दृश्यते, अनुपलभ्यमानत्वात् तयोः । तेनेन्द्रियविज्ञानादेव विजातीयाद् विकल्पकस्योत्पत्तेनं दिकल्पस्योदयादिति मानससिद्धौ हेतुः । न च देवदत्तयज्ञदत्तयोरिव भिन्नसन्तानवर्तित्वं सविकल्पकनिर्विकल्पकयोः, येन भिन्नसन्तानान्निर्विकल्पकादुत्पत्तिनं स्याद्, एकसन्तानपातित्वात् तयोः । अवश्यं चाङ्गीकर्तव्या विकल्पस्योत्पत्तिः, येन वार्त्तिककार एवमाह-
तद् दृष्टावेव दृष्टेषु संवित् सामर्थ्यभाविनः ।
स्वव्यापारत्वकरणात् स्मरणात् ॥ () इत्यादि ।
सविच्चब्देन इन्द्रियविज्ञानमेवोच्यते, न मानसम् । ततश्च तत्सामर्थ्यभवि कथं विकल्पविज्ञानं स्मरणम्? विजातीयत्वात् । न च तत्र मानसं संविदुच्यते इन्द्रियविज्ञानस्य व्यवहारेण, प्रामाण्यस्य चिन्त्यत्वात् किञ्च इन्द्रियविज्ञानस्य कथं प्रामान्यम्, यदि स्वव्यापारं करोति? स्वव्यापारस्तु स्वविषये विकल्पजनकत्वं नाम, ततश्च विजातीयादपि विकल्पस्योदयादिति यत् किञ्चिदेतत् ॥ 9 ॥
ननु चित्तचैता इति वक्तव्ये सर्वग्रहणस्य व्यावर्त्याभावादपार्थकं तद्ग्रहणम्? सर्वेत्युक्त्या भ्रमज्ञानान्यपि परिगृह्यन्ते । तेषा च यत् स्वरूपप्रकाशनं तदात्मसंवेदनम् ।
सर्वे हि चित्तचैत्ताः प्रतीतिस्वभावत्वात् स्वरूपज्ञापका भवन्ति । यथा प्रदीपः प्रकाशस्वभावत्वाद् आत्मनो ऽपि प्रकाशको भवति, स्वरूपप्रकाशे च प्रदीपान्तरं नापेक्षतेः चैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, नान्या चित्तायस्था- इत्पेतदाशङ्कानिवृत्त्यर्थ सर्वग्रहणं कृत्तम् । नास्ति सा काचित् चित्तावस्था, यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् ।
येन हि रूपेणात्मा वेदयते तद्रूपमात्मसवेदनं प्रत्यक्षम् ।
इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखादयाकारस्तुल्यकालं संवेदयते । न च गृहयमाणाकारो नीलादिः सातरूपो वेदयते- इति वक्तुं शक्यम्ः यतो नीलादिः सातरूपेणानुभूयते इति च निश्चीयते ।
यदि हि सातरूपो ऽयं नीलादिरनुभूयते इति निश्चीयेत, स्यात् तदा तस्य सातादिरुपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत् प्रत्य्क्षम् ।
इत्याह- सुखादय एवेत्यादि । न केवलं प्रसिद्धाः सुखः दयश्चित्तर्चत्ताः स्वसंवेदना गृह्यन्तेः अन्ये ऽपि स्वसंवेदना इति तात्पर्यम् । अमुमेवार्थ दर्शयति- नास्तीत्यादिना । शुद्धस्य चित्तावस्थारूपस्यासंवेदितस्याभावमाहेति भावः । एवं ब्रुबता टीकाकृतानेन निरोधसमापत्त्यस्थायां शुद्धचित्ताभाव एवेत्यभिप्रायः प्रदर्शितः । तस्यामवस्थायां न काचित् चित्तावस्था संवेदयते यतः ।
ननु चित्तचैत्तानामात्मसंवेदर्न नास्ति, स्वात्मनि कारित्वविरोधादित्युक्तम्? इत्याह- येन हीत्यादि । यस्मादनेन बोधस्वरूपेणात्मस्वरूपं वेदयते, तत् प्रत्यक्षमात्मसंवेदनमुच्यते । एवं मन्यते- यथा प्रदीपः प्रकाशतया स्वरूपं निवेदयन्नात्मप्रकाशने न प्रदीपान्तमपेक्षते, तथा चित्तादिकमपि संविद्रूपतया स्वरूपं निवेदयदात्मसंवेदने न ज्ञानान्तरमपेक्षते । न च स्वात्मनि कारित्वविरोधः, यतो वास्तवकारकत्वाभावः । अत्रापि कल्पनया प्रकाश्च्यप्रकाशकत्वेन कर्मकर्तृभावः । तत्रापि नीलाकारोत्पत्तिरेव प्रकाशकत्वं ज्ञानस्य प्रदीपस्यापि प्राग्भावित्वमेव । प्रकाशत्वं कल्पनापरो व्यापारः । बोधस्य तु बोधरूपतयोत्पत्तिरेव स्वप्रकाशकत्वम् । ततश्च विज्ञानं बोधरूपतया प्रत्यक्षेणानुभूयमानं कथमपह्नुयते भवता परोक्षं विज्ञानमिति । एवं तावत् मौसांसकादीन् प्रति विज्ञानं संवेदनप्रत्यक्षनिर्दिष्टम् ।
यस्तु सांख्यो ऽपि बाह्यारूपाः सुखादयः इति मन्यते, तं प्रत्याह- इह च
11 मूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ (4)
तथा चित्तचैता अपि स्वरूपावबोधे ज्ञानान्तरं नापेक्षन्ते । ततश्च स्वसिद्धभावाः स्वयं प्रत्यक्षप्रमाणं भवन्ति ॥ 10 ॥
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानमिति । भूतः= अविपरीतः अर्थ इति भूतार्थः । यथा चत्वारि आर्यसत्यानि । तस्य भावना भूतार्थभावना । भावना इति न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलादयर्थादन्यदेव सातमनुभृयते नीलानुभवकाले । तच्च ज्ञानमेव । ततो ऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपदेवदनमात्मनः साक्षात्कारि निर्विकल्पकम्, अभ्रान्तं च । ततः प्रत्यक्षम् ॥ 10 ॥
योगिप्रत्क्षं व्याख्यातुकाम आह- भतार्थेत्यादि । भूतः सद्भूतो ऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा- चत्वार्यायसत्यानि ।
भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनाया प्रकर्षः भाव्यमानार्थभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्ण भवति । यावद्धि स्फुटाभत्वपरिपूर्ण तावत् तस्य प्रकर्षगमनम् ।
रूपादौ दृश्यमान इत्यादि । एवं मन्यते- नीलरूपात् सातादिकमन्तरं संवेदनं प्रत्यक्षेणानुभूयमानं न बाहयेनाभिन्नरूपं जडरूपं च शक्यते व्क्तुमिति ।
अमुम्वार्थ न च गृह्यमाणाकार इत्यादिना दर्शयति ।
साक्षात्कारित्वव्यापार इति । प्रत्यक्षस्य व्यापारः । विकल्पः तत्पृष्ठभावी ।
न च नीलस्य सातरूपत्वमनुगम्यत इति । तत्पृष्ठभाविना विकल्पेन सातरूपो नीलादिनानुगम्यत इत्यर्थः । तेन नीलादिः सातस्वभावो न प्रत्यक्षसिद्धः इति साङ्खयं निराकुर्वता ग्राह्याग्राहकं सातादिरूपं भिन्नं प्रत्यक्षं प्रदर्शितम् । तेन युक्तमुक्तं कैश्चित्- ग्राहयाद् भिन्नं ग्राहकं न प्रत्यक्षेणानुभूयते इति । तेन किञ्चिन्नाम नापह्वु तं भवतीत्युक्तम् । तस्मात् सर्वाण्येतानि चित्तचैतानि स्वसंवेदनप्रत्यक्षाणीति ।
तेषां लक्षणं योजयति- तच्चेत्यादिना । तत्प्रत्यक्षं स्वसंवेदनरूपं निर्विकल्पकम् तत्र शब्दादियोजनाभावात् । कुतः? शब्देन संकेताभावात् । अभ्रान्तं च तद्विज्ञानं स्वरूपे ऽविपर्यस्तत्वात्, बाधकाभावाच्चेति ॥ 10 ॥
भाव्यमानार्थाभासस्येति । क्षणिकत्वादिग्राहिणः । स्फुटाभत्वारम्भ इत्यादयतिशयस्योपक्रमात् । ततः परेणातिशयाभावाद् ज्ञानस्य । ततश्च क्षणिकत्वादिग्राहि मनोविज्ञानं भाव्यमानमीषदसम्पूर्णमन्तक्षणः प्रकर्षपर्यन्त उच्यते । तदेव दर्शयति अभ्यासः । तस्याह् प्रकर्षो भूतार्थभावनाप्रकर्षः । स्मृत्युपस्थानोष्मगतमूर्धक्षान्तयः । तस्य पर्यन्तो भूतार्थभावनाप्रकर्षपर्यन्तः । पर्यन्तस्तु अग्रधमाः । तस्माज्जायत इति भूतार्थभावनाप्रकर्षपर्यन्तजम् । योगः= समाधिः, स येषामस्ति ते योगिनः । तेषां ज्ञान योगिज्ञानम् ।
तथा हि समाधिवलप्रभवं भूत-भावि-वर्तमानानां यथायर्थ प्रकाशकं ज्योतिः अविभ्रममाविर्भवति । यथा देवाद्यष्ठानप्रभावेण सत्यानि स्वप्नज्ञानानि भूत-भावि- सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तनी अवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्तात् यज्जातं भाव्यमानस्याथस्य सन्निहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।
तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यामानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवत् भाव्यमानस्यार्थस्य यद् दर्शन तद् योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।
यदा स्फुटाभत्वमित्यादिना । तदिह स्फुटाभत्वारम्भेत्यादिना उपसंहारच्यजेन योगिनो मनोविज्ञानस्यावस्थात्रयं दर्शयति- भावनाप्रकर्षावस्थैका, प्रकर्षपर्यन्तावस्था द्वितीया, भाव्यमानस्य करतलामलकवद् दर्शनं योगिनस्तृतीयावस्थेति । तदिह स्फुटाभमित्यादिना योगिनो मनोविज्ञानमपि स्फुटाभत्वादेवेन्द्रियविज्ञानवन्निविकल्पकं दर्शयति ।
निर्विकल्पानुबद्धस्य स्पष्टार्थः प्रतिभासते ।
इति न्यायाद् यदयपि मनोविज्ञानेन भावनाप्रकर्षपर्यन्तेन शब्दार्थो युगपद गृह्यते तथापि द्वयोः स्वरूपस्य सन्निहिततया गृह्यमाणत्वात् तद्ग्राहि विज्ञानं निर्विकल्पकमिति ।
ननु च मनोविज्ञानं भाव्यमानं वाच्यवाचकसंसृष्टं प्रतिभासते यथा, तथैव भाव्यमानं प्रकर्षपर्यन्तर्ज मनोविज्ञानं वाच्यवाचकप्रतिर्भासि स्फुटाभं भवति । तदा स्फुटाभत्वान्निर्विकलको ऽयमित्यनैकन्तिको हेतुरिति यच्चोदितं परेण, तत् परिहतु मुपक्रमते- विकल्पविज्ञानं हीत्यादिना । एव मन्यते- अय्द्यपि मनोविज्ञानं वाच्य वाचकसंसृष्टिप्रतिभासि, तथापि स्फुटाभत्वावस्थायां तदलीकाकारं वाच्यवाचकरूपमपैति । वित्तिरूपं तु तस्य निजम् । अतस्तदेव चिद्रूपं ज्ञानं स्फुटं भवति, न वाच्य वाचकाकारतयाः तयोरारपितरूपत्वात् । आरोपितरूपग्रहणस्फुटत्वमेव न स्यादिति नानेकान्तिकत्वं हेतोः, स्फुटाभत्वादित्यस्य । यदा तु विकल्पविज्ञानं शब्दसंसर्गयोग्यवस्तु गृह्णति, तदा संकेतकालदृष्टत्वेन तद्वस्तु गृह्णाति । तदसन्निहितम् तदा विविधवस्तुविषयाणि अविभ्रमाण्युत्पद्यन्ते, तथैव योगबलेन ध्येयानां ज्ञानमतीतानागत दूर सान्तर अणुभूतविषयाणा प्रकाशकं ज्योतीरूपमुत्पद्यते । तस्मात् प्रत्यक्षप्रमाणत्वमिषय्ते ।
अत्र प्रयोगः- योगीश्वराणामेकाग्रचित्तानां ज्ञानं भूत भावि वस्तुविषयकं प्रमाणम् अमेयभूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतुत्वाद्, भूतग्रहविशेषाविष्टुज्ञानवत् । यन्न प्रामाणिकं तन्न अमेयभूतभावि वस्तुजातस्याभ्रान्तोपदर्शनहेतु, यथाउन्मत्तज्ञानम् । अप्रापकस्यापि अमेय भूत भाविवस्तुजातस्य अभ्रान्तोपदर्शनहेतवे ऽयोग्यमपकारकमपि प्रमाणं ष्यात् । दम्भमात्रेणामेयस्य पदार्थस्य अभ्रान्तोपदर्शनं हि न सम्भवति ।
तस्य व्याख्यानम्- यथा ग्रहविशेषावेशे भूत भाविवस्तुसमूहानुशासनम्, तथा योगिष्वपि भूतभावि वस्तु अनुशासनमभ्रान्तमुपलभ्यते । यथा हरीतक्यादि भाविरोगनिर्{आअ}रणसमर्थमिति चरकादिमिनीनामभ्रान्तमनुशासनमुपलभ्यते । यथा वा भगवत शाक्यमुनेरुपदेशे भाविदेशनिमित्त सत्योपलब्धि मातृचेट कालक्षय राजाशोकादि आशावन कश्मीरादेशागमा अविपरीता उपलभ्यन्ते ॥ 11 ॥
स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रति असत्, तद्वत् पूर्वविनष्टज्ञानमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णद्, असन्निहितार्थग्राहित्वाद् अस्फुटाभं विकल्पकम् । ततः स्फुटाभत्वान्नि विकल्पकम् ।
प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम्, इतरप्रत्यक्षवत् ।
योगः= समाधिः, स यस्यास्तीति योगी, तस्य ज्ञानं प्रत्यक्षम् । इति शब्दः परिसमाप्तिवचनः । इयदेव प्रत्यक्षमिति ॥ 11 ॥
तस्य संकेताभावात् । तच्च पूर्वदृष्टं पूर्वविज्ञानस्य विषयः । तच्च पूर्वविज्ञानं संप्रति शब्दसंसर्गयोग्यवस्तुग्रहणकाले नास्ति, क्षणिकत्वाज्ज्ञानस्य । तद्वत् पूर्वविज्ञानविषय त्वमपि सम्प्रतिनास्ति, विषयिणो ज्ञानस्याभावे विषयस्याप्यर्थस्य संकेतकालभावि नो ऽभाव इत्यसन्निहितं संकेतकालभावि तद् वस्त्वारोप्य गृह्णद् विकल्पविज्ञानमस्फुटं भवतीति । स्फुटत्वं ततो निवृत्तं निर्विकल्पे ऽवत्तिष्ठते इति व्याप्तिः सिध्यति । ततः स्फुटत्वान्निर्विकल्पकं योगिज्ञानमभ्रान्तं च प्रमाणेन शुद्धार्थग्राहित्वात् संवादकम् ।
इयदेवेति । इन्द्रियविज्ञानादारभ्य योगिज्ञानपर्यन्तं नैकमेवेन्द्रियप्रत्यक्षमित्यर्थः । नाप्यधिकम्ः अधिकस्यानुपलभ्यात् ॥ 11 ॥
12 तस्य विषयः स्वलक्षणम् ॥
विषयविप्रतिपत्तिनिरासार्थमाह- तस्य विषयः स्वलक्षणमिति । प्रत्यक्षं प्रमाणं यदुक्तम्- तस्य विषयः स्वलक्षणमेव इति द्रष्टव्यम्, न तु सामान्यलक्षणम् सामान्यस्यावस्तुत्वात्, प्रत्यक्षेण च वस्तुस्वरूपोपलम्भात् ॥ 12 ॥
तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपादय विषयविप्रतिपत्ति निराकतुकाम आह- तस्येत्यादि ।
तस्य चतुविधस्य प्रत्यक्षस्य विषयो बोद्धव्यः स्वलक्षणम् । स्वम्= असाधारणं लक्षणं तत्त्वं स्वलक्षणम् । वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च । तत्र यदसाधारणं तत् प्रत्यक्षस्य ग्राह्यम् ।
द्विविधो हि विषयः प्रमाणस्य- ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यः, अन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेनन् निश्चयेन सन्तान एव ।
सन्तान एव च प्रत्यक्षस्य प्रापणीयः, क्षणस्य प्रापयितुमशक्यत्वात् ।
तथानुमानमपि स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।
प्रकारभेदमिति । प्रत्यक्षं सामान्यं निर्विकल्पकमभ्रान्ताम् । तस्य प्रकारभेद इन्द्रियज्ञानादिः । तं प्रतिपाद्येत्यर्थः । विषयविप्रतिपत्तिमिति । इह कैश्चिन्मीमांसकाबिधिः प्रत्यक्षस्य सामान्यविशेषो द्वावपि विषयकल्पितौ । अनुमानस्य सामान्यमेव विषयः, न विशेषः । साङ्खयेन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात् । वेदान्तवादिना च सामान्यमेव विषयो द्वयोः, आत्मार्द्वततया सर्वस्यैकत्वाद विशेषे भ्रान्तत्वाद द्वयोरिति विप्रतिपत्तिः प्रत्यक्षादिविषये ।
स्वलक्षणमिति । अनेनेष्टं विषायं दर्शयति । तत्त्वमिति । अर्थक्रियाकारि । अनेन लक्षणशब्दो विवृतः । लक्ष्यते दाहाद्यर्थक्रिया येन तत्लक्षणम् । एतद् दर्शयति असाधरणमेव तत्त्वं वस्तुनो रूपम् । साधारणं तु तत्त्वमारोपितं रूपम् पूर्वापरक्षणा नामभेदाव्यवसायात् । अतो वस्तुनो रूपद्वयम्- असाधारणं, सामान्यं च । तत्रा साधारणतत्त्वं प्रत्यक्षस्य ग्राहविषय इति दर्शयति- यदसाधारणमित्यादिना । ननु किमुच्यते ग्राह्यविषय इति, यावता किमन्यो विषयो ऽस्ति प्रत्यक्षस्य? अस्तीत्याह- द्विविध इत्यादि । य्मध्यवस्यतीति । यं सन्तानरूपेण स्थितमर्थ तत् पृष्ठ भाविन विकल्पेन विन्श्चिनोति । ननु च कथं प्रत्यक्षस्य सन्तानो विषयः, यतो विकल्पस्यासौ विषयः? उच्यते उपचारात् । प्रत्यक्षव्यापारेण विकल्पेनाध्यवसेयतया विषयीकृतत्वात् प्रत्यक्षविषय इत्युच्यते उपचारादित्यदोषः । द्वैविध्यमेव स्फुटयतिअन्यो हीत्यादिना ।
13 यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् ॥
स्वलक्षणं च कीदृशमवगन्तव्यमिति चेत्? तत्राह- यस्येति ।
सन्निधानम्= योग्यदेशे स्थितिः । असनिधानम्= अयोग्यदेशे स्थितिः, सर्वथा सर्वत्राभावश्च । सन्निधानं च असन्निधानं चेति सन्निधानासन्निधाने, ताभ्यां हि ज्ञाने विस्फुटत्वास्फुटत्वविशेषः क्रियते । सन्निधाने स्फुटप्रतिभासं ज्ञानमुत्पद्यते । असन्निधाने स पुनरारोपितो ऽर्थो गृह्यमाणः स्वलक्षणेत्वेनावसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयो ऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्य विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ॥ 12 ॥
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्यः? इत्याहयस्यार्थस्येत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । सन्निधानम् निकटदेशावस्थानम्, असन्निधानम् दूरदेशावस्थानम्, तस्मात् सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य ग्राह्यकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् ।
तथानुमानमित्यादिना प्रसंगेनानुमानस्यापि विषयद्वैविध्य दर्शयति ।
स्वलक्षणत्वेनावसीयत इति । दाहाद्यर्थक्रियासमर्थत्वेनावसीयत इत्यर्थः । तदनेत्यादिना प्रमाणचिन्तायां ग्राह्याविषयदर्शनो ऽयम्, न प्राप्यं विषयमिति दर्शयति, ग्राह्य एव विषये सर्वेषां विप्रतिपत्तेः ॥ 12 ॥
कः पुनरसौ विषय इत्यादि । एवं मन्यते- ननु प्रत्यक्षस्य स्वलक्षणं विषयः इत्युक्ते सामान्यमपि तस्य विषय इति तदप् स्वलक्षणं प्राप्नोतीति प्रश्नः । असन्निधानं दूरदेशावस्थानमिति ब्रुवता विनीतदेव स्य व्याख्या दूषिता । तेन ह्येवैव्याख्यातम्- सर्वेण रूपेण वस्तुनो ऽभावो ऽसन्निधानम् इति । एतदसङ्गतम् यस्माद् वस्तुनस्तत्राभावे ज्ञानमेव ह भवति । ततश्च ज्ञानप्रतिभासभेद इति न घटते ।
यो हीत्यादिनेतद् दर्शयति । अर्थक्रियासमर्थस्यैव सन्निधानासन्निधानाभ्यां स्फुटास्फुटप्रतिभासभेदः, न सामान्यस्येति । न सामान्यं स्वलक्षणम् आरोपितरूपस्य दूरासन्नाभ्यां सर्वदवाद्फुटत्वादिति । ननु सामान्यमेव दूरे गृह्यमाणमस्फुटप्रतिभासं न स्वलक्षणम्? इत्याह- सर्वाण्येवेत्याहि । सामान्यस्याविद्यमानत्वादिति प्रश्नः । अतस्तान्येव स्वलक्षणानि स्फुटास्फुटप्रतिभासीनि,न सामान्यम् ।
ननु यदि दूरासन्नाभ्यां स्वलक्षणं स्पष्टास्पष्टप्रतिभासं रूपद्वयं तस्य स्यात्, ततश्च निकटस्थितस्य प्रतिभासद्वयं स्यात् न च नियमः- दूरे ऽस्पष्टम्, निकटे स्पष्टमिति? उच्यते न हि नोलं वस्तु स्पष्टरूपमस्पष्टं च, अपितु नीलं साध्यार्थक्रियासमर्थ
14 तदेव परमार्थसत् ॥
च अस्फुटं ज्ञानमुत्पद्यते । ज्ञाने यो ऽर्थः प्रतिभासवैलक्षण्यं करोति स एव स्वलक्षणम् ॥ 13 ॥
अस्तु परमार्थदेव वस्तु प्रत्यक्षस्य विषयः, कस्मात् स्वलक्षणं विषय इति चेत्? तत्राह- तदेवेति ।
परमश्चासावर्थश्चेति परमार्थः । परम इति अकृत्रिमः । आरोपशून्य इति शेषः । परमार्थः सदिति परमार्थसत् । स्वलक्षणमेव हि परमार्थसत् । तेन न यथोक्तदोषः ॥ 14 ॥
यो हि ज्ञानविषयः सन्निहितः सन् स्फुटाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्यदेशस्थ एवास्फुटं करोति, तत् स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरास्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि ॥ 13 ॥
कस्मात् पुनः प्रत्यक्षविषय एव स्वलक्षणम्, तथाहि विकल्पविषयो ऽपि वह्निर्दृश्यात्मक एवावसीयते? इत्याह- तदेव परमार्थसदिति । परमो ऽर्थः अकृत्रिममनारोपितं रूपम्, तेनास्तीति परमार्थसत् । य एवार्थः सन्निघानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात् तदेव स्वलक्षणम् ॥ 14 ॥
नीलपरमाणुद्वयम् । स्पष्टास्पष्टाकारौ चोपाधिकृतौ । यदा दूरे नीलं पश्यति तदालोकपरमाणूनां च रजःपरमाणुभिरभिभूतत्वात् स्पष्टप्रतिभासं ज्ञान भवति । निकटे तु आलोकपरमाणूनां बहुत्वान्न ते रजःपरमाणुभिरभिभूता इति स्पष्टप्रतिभासं ज्ञानं जायते । ज्ञानस्य स्पष्टाद्वारेणार्थस्य स्पष्टास्पष्टरूपे भवतः, न परमार्थत इति । सामान्यस्य तु ज्ञानद्वारेण न स्पष्टास्पष्टरूपे, तेन न तत् स्वलक्षणम् ॥ 13 ॥
ननु तस्य विषयः स्वलक्षणम् इत्युक्तम्, तत्र यदि प्रत्यक्षस्यैव विषयो भवति स्वलक्षणम्, नान्यस्येति, तदानुमानादेनं स्वलक्षणविषयः, किन्तु प्रत्यक्षस्यान्यो विषयस्यात् । अथ प्रत्यक्षस्य स्वलक्षणं विषयो नान्यः, तदानुमानस्य स्वलक्षणं विषयो न विषिद्ध इति स्वलक्षणविषयमनुमानं स्यादिति मन्यमानः पृच्छति- कस्मात् पुनरित्यादिना । नानुमानस्य । विकल्पस्य विषयो वास्तवो न भवति । कथं स्वलक्षणं भवति? इत्याह- तथा हीत्यादि । यद्यपि विकल्पस्य विषयो वस्तु न भवति, तथापि स एव स्वलक्षणम्, दाहाद्यर्थक्रियारूपेण व्यवसायादित्यभिप्रायः ।
तदेव परमार्थसदिति । एवं मन्यते- न ह्यारोपबलादवस्तु वस्तु भवति,
15 अर्थक्रियः सामर्थ्यलक्षणत्वाद् वस्तुनः ॥
16 अन्यत् सामान्यलक्षणम् ॥
कस्मात् स्वलक्षणमेव परमार्थसदिति चेत्? तत्राह अर्थेति ।
अर्थः= प्रयोजनम् । क्रिया= निष्पत्तिः । अर्थस्य क्रिया अर्थक्रिया । प्रयोजन निष्पत्तिरिति शेषः । तस्यां सामर्थ्यम् अर्थक्रियासामर्थ्यम् । अर्थक्रियासामर्थ्य लक्षणं= स्वभावो यस्य वस्तुनस्तद् अर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः अर्थक्रियासामर्थ्य लक्षणत्वम्, तस्मात् अर्थक्रियासामर्थ्यलक्षणत्वात् ।
एवं यदर्थक्रियासमर्थ तदेव वस्तु इति स्वलक्षणेनैवार्थक्रिया- इत्युपदर्शितं भवति । तस्मात् स्वलक्षणमेव परमार्थसत् ॥ 15 ॥
कस्मात् पुनस्तदेव परमार्थसत्? इत्याह- अर्थेत्यादि । अर्थ्यत इति अर्थः हेय उपादेयश्च । हेयो हि हातुमिष्यते, उपादेयश्चोपादातुम् । अर्थस्य प्रत्योजनस्य, क्रिया निष्पत्तिः, तस्यां सामर्थ्य शक्तिः, तदेव लक्षणं रूपं यस्य वस्तुनः, तद् अर्थक्रियासामर्थ्यलक्षणम्, तस्य भावस्तस्मात् ।
वस्तुशब्दः परमार्थपर्यायः । तदयमर्थः- यस्मादर्थक्रियासमर्थः परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदको ऽर्थो ऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसत् । तत एव हि प्रत्यक्षविषयादर्थ क्रिया प्राप्यते, न विकल्पविषयात् । अत एव यदयपि विकल्पविषयो दृश्य इवावसीयते, तथापि न स दृश्य एव ततो ऽर्तह्क्रियाया अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणम्, न विकल्पविषयः ॥ 15 ॥
अन्यदित्यादि । एतस्मात् स्वलक्षणात् यदन्यत्-स्वलक्षणं यो न सर्वस्य शशविषाणादेर्वस्तुत्वप्रसङ्गात् । वस्तु तदवानुपचरितस्वरूपम्, अतस्तदेव वलक्षणम् ॥ 14 ॥
ननु विकल्पविषयो ऽप्यर्थः परमार्थसन्नेव । इदमेव परमार्थसत्त्वं यदुत ज्ञाने प्रतिभासनम् । सामान्यपि ज्ञाने प्रतिभासते, तदपि परमार्थसदिति मःयमानः पृच्चति- कस्मात् पुनस्तदेव परमार्थसदिति । अर्थ्यत इत्यादिना अर्थक्रियासामर्थ्य लक्षणत्वपदस्यार्थ विवृणोति । तदयमथ इत्यादिना समुदायस्य पदानां तात्पर्य दर्शयति । एवं मन्यते- यस्मादर्शक्रियासमर्थ परमार्थसत्, तस्मान्न सामान्यं परमार्थसत्, दाहादयर्थक्रियायामनुपयोगात् । न च प्रतिभासवलात् तत्त्वम् असद्रूपस्या प्यविदयाबलप्रतिभासनात् । न च ज्ञानजनकत्वेनार्थक्रियाकारित्वम्, तस्य ज्ञानस्य विनापि सामान्येन वासनाबलात् सामान्यैषयोत्पत्तेरिति ॥ 15 ॥
एतस्मादित्यादिना अनुमानविषयं दर्शयति । तथा हीत्यादिना प्रत्यक्षविषक्येण
17 सो ऽनुमानस्य विषयः ॥
अन्यत् सामान्यलक्षणमिति । उक्तस्वलक्षणस्वभावाद् यदन्यत् प्रमेयं तदेव सामान्यलक्षणम् । यस्यार्यस्य सन्निधाने ऽपि च ज्ञानमेकरूअमेव भवति इति ॥ 16 ॥
सो ऽनुमानस्य विषय इति । सामान्यलक्षणमनुमन्नस्यैव विषयः, अन्वयव्यतिरेकवत्त्वेन व्याप्तत्वात् ।
अन्नानवसरे ऽपि वचनबाहुल्यं स्यात्? इत्यासह्ङ्कया सामान्यलक्षणमुक्तम् । तथा हि- अन्न स्वलक्षणाभिधानावसरे अवतरणेन तद्विपरीतलक्षणस्य ज्ञानं सुकरमिति सामान्यलक्षणमुक्तम् ।
भवति ज्ञानविषयः, तत् सामान्यलक्षणम् । विकल्पज्ञानेनावसीयमानो सन्निधानासन्निधाभ्यां ज्ञानप्रतिभासमात्रं न भिनत्ति । तथाहि- आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन, अस्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपमित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः सामान्यलक्षणम् ॥ 16 ॥
तच्चानुमानस्य ग्राह्यं दर्शयितुमाह- सो ऽनुमानस्येत्यादि । सो ऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नो ऽभिधेयवत् लिङ्गपरिग्रहः ।
सामान्यलक्षणमनुमानस्य विषयं व्यख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थः आवतनीयः स्यात् । ततो लाघवार्थ प्रत्यक्षपरिच्चेद एवानुमानविषय उक्तः ॥ 17 ॥
सह विकल्पविषयस्य सामान्यस्य विसदृशत्वं दर्शयति । कथं पुनर्विकल्पस्य विषयो भवति सामान्यम्? इत्याह- समारोप्यमाणमिति । सकलवह्निसाधारणतया सामान्याकारस्य संवेदयत्वादित्यभिर्पायः ॥ 16 ॥
सो ऽनुमानस्य विषयो ग्राह्यरूप इति । ग्राह्यं रूपमस्येति बहुवीहिः । अत्रापि ग्राह्यापेक्षया विषयो व्यवस्थापितः, न प्राप्यापेक्षया तत्राविप्रत्तिपत्तेः । ननु सामान्यमिति न्पुंसकलिङ्गं प्रस्तुत्य स इत्यनेन पुंल्लिगे परामर्शः कथम्? इत्याह- सर्वनाम्न इत्यादि ।
कस्मात् पुनः प्रत्यक्षपरिच्चेद अनुमानस्य विषयविप्रतिपत्तिनिराकृता वार्तिककारेण, नानुमानपरिच्चेदे? इत्याह- सामान्यलक्षणमित्यादि । एवं मन्यते-
18 तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥
सो ऽनुमानस्य विषय इति हि स्वल्पवचनेनोपन्यासः । अन्यथा अनुमानविषय प्रदर्शनार्थ सर्वस्याप्येतद्वचनस्योच्चारणमावश्यकं स्यात् ॥ 17 ॥
फलविप्रतिपत्तिनिरासार्थमाह- तदेव चेति ।
अयं चास्य सम्बन्धः- यदि प्रत्यक्षस्य प्रमाणत्वमिष्टं तर्हि रूपादिप्रमेयपरीक्षणलक्षणेन प्रमाणफलेन भवितव्यम् । यथा कुठारिकया वृक्षादिचेदने द्विखण्डीकरणं फलं दृश्यते, इत्यत आह- तदेव प्रत्यक्षज्ञानं प्रमाणफलमिति । तदेव प्रत्यक्षज्ञानं प्रमाणफलम्, प्रत्यक्षात् प्रत्यक्षज्ञानादतिरिकतं फलं नास्तीति ॥ 18 ॥
विषयविप्रतिपत्ति निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह- तदेवेति । यदेवानन्तरमुक्तं प्रत्यक्षं ज्ञानं तदेव प्रमाणस्य फलम् ॥ 18 ॥
यदयनुमानपरिच्चेदे ऽनुमानस्य विषयो व्यवस्थाप्येत तदा तत्रैवं ग्रन्थः कर्तव्यः स्यात् । को ऽसावनुमानस्य विषयः? प्रत्यक्षविषयादन्यः । प्रत्यक्षस्यैव को ऽसौ विषयः? यदतेक्षयायमन्यः । पुनर्वक्तव्यं स्वलक्षणमित्येवमावत्त्यमाने गौरवं स्यात् । ततो लाघवार्थमत्रैव कथितमिति ॥ 17 ॥
फलविप्रतिपत्ति निराकर्तुमाहेति । कथं प्रमाणस्य फले विप्रतिपत्तिः । तथा हि- प्रमाणं कारणं प्रमितिक्रियां विना न भवति, यथा- चित्तिं विना न परशुः । ततश्च प्रमाणात् कारणात् पृथक फलेनार्थसम्प्रवृत्तिलक्षणेन भवितव्यम् स्वात्मनि क्रियाकरणत्वविरोधात् । न हि परशुरेव चित्तिरिति । अतो मीमांसकेन इन्द्रियं प्रमाणमिन्द्रियार्थसन्निकर्षः, मन इन्द्रियसन्निकर्षः, आत्मन सन्निकर्षश्चेष्टः । सर्वे सन्निकर्षाश्चेति । तदुक्तम्-
यद्वेन्द्रियं प्रमाणं स्यात् तस्य चार्थेन सङ्गतिः । मनसो विन्द्रियैर्योग आत्मना सर्व एव वा ॥
इत्यर्थावबोधः फलम्, तत्र व्यापाराच्च प्रमाणतेति । तदा ज्ञान फलं तत्र व्यापाराच्च प्रमाणता । व्यापारो न यदा तेषां तदा नोत्पदयते फलम् ॥
था पूर्व पूर्व प्रमाणम्, उत्तरमुत्तरं फलमिति चोक्तम् । तत्रापि बुद्धिजन्म प्रमाणम्, प्रवृत्यादिकं फलमिति ॥
तथा नैयायिकादयो प्येवभूतमेव प्रमाणफलभिच्चन्ति, इदं त्वधिकम्- विशेषण
19 अर्थप्रतीतिरूपत्व त् ॥
प्रत्यक्षस्यैव फलरूपत्वं कस्मात्? इत्याशङ्कायामाह- अर्थप्रतीतिरूपत्वादिति । प्रतीतिः=निश्चयः । रूपम्=स्वभावः । तदस्ति यस्य प्रत्यक्षस्य तदेव अर्थप्रतीतिरूपम्, तस्य भावः अर्थप्रतीतिरूपत्वम्, तस्मात् अर्थप्रतीतिरूपत्वात् ।
कथं प्रमाणफलम्? इत्याह- अर्थप्रतीतीत्यादि । अर्थस्य प्रतीतिः अवगमः, सैव रूप यस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम्, तस्य भावस्तस्मात् ।
एतदुक्तं भवति- प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवला दर्थाविनाभावित्वाद् भवतिः बीजादयविनाभाविनो ऽप्यंकुराद्रप्रापकत्वात् ।
तस्मात् प्राप्यादर्थाद् उत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारो येन कृतेनार्थः प्रापितो भवति ।
स एव च प्रमाणफलम् यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्- प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य व्यापारो नाम ।
ज्ञानं प्रमाणम्, विशेष्यज्ञानं फलमिति । यथोक्तं कुमारिलेन-
प्रमाणफलते बुद्धयोर्विशेषणविशेष्ययोः । यदा तदापि पूर्विक्ता भिन्नार्थत्वनिवारणा ॥ इति ॥ तदेवा विप्रतिपत्तिः, तां निराकर्तुमाह- तदेवेति ॥ 18 ॥ कथं पुनरर्थपरिचित्तिरूपं प्रमाणस्य फलम्, नार्थप्रवर्तकादि विज्ञानम्? इत्याह- अर्थस्येत्यादि । एवं मन्यते- येन फलेन निष्पन्नेनानन्तरेण प्रमाणस्य करणत्वव्यपदेशो भवति तदेव फलम्, नान्यत् । अर्थपरिच्चेदकत्वेन विज्ञान उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तो ज्ञानस्य पर्माणव्यापार इति । अर्थपरिच्चित्तिरेव फलम्, न प्रवर्तकादिकम् । अमुमेवार्थ दर्शयति- एतदुक्तमित्यादिना ।
प्रमाणादर्शपरिच्चित्तिरूपस्य फलस्य भिन्नत्वं दर्शयितुं प्रमाणज्ञानस्य स्वरूपं प्राग्दशितमपि पुनरपि दर्शयति- प्रापकं ज्ञानमित्यादिना । एवं मन्यते- यस्मात् प्रापकं विज्ञानं प्रमाणमिष्टमस्माभिः, तस्मात् सा च प्रापणशक्तिरर्थपरिच्चित्तिरेव, नार्थादुत्पत्त्यादिकमिति । एतदेव दर्शयति- प्रापणशक्तिरित्यादिना । कस्मादर्थाविनाभावित्वमेव प्रापणशक्तिर्न भवति? इत्याह- बीजादित्यादि । यतो बीजादेः सकाशादकुरस्यार्थावभासित्वोत्पत्तिरस्ति, न च बीजादिकं प्रापयति, खलबिलान्तर्गतस्यापि बीज्स्यांकुरोत्पादक्त्वादित्यभिप्रायः । तस्मादित्यादिना ज्ञानस्यार्थावसायात् प्राप्यादुत्पत्तावित्युक्तम् ।
20 अर्थसारूप्यमस्य प्रमाणम् ॥
21 तद्वशादर्शप्रतीतिसिद्धेरिति ॥
तदेवं प्रमाणप्रमेयव्यवहारारोपे ऽर्थनिश्चयलक्षणं फलं भवति । ज्ञानमर्थविनिश्चयनस्वभावम् । प्रत्यक्षमेव फलस्वभावमिष्टम् । तस्मात् प्रत्यक्षस्यार्थनिश्चयस्वभवत्वात् प्रत्यक्षमेव फलस्वभावं स्यादिति वेदितव्यमित्युक्तं भवति ॥ 19 ॥
यदि प्रत्यक्षमेव फलस्वभावम्, तर्हि प्रमाणं नाम किं वेदितव्यम्? इत्याशङ्कायामाह- अर्थेत्यादि ।
सारूप्यम्= सादृश्यम् । अस्येति प्रत्यक्षस्य । अर्थाकारं यत् प्रत्यक्षं तदेव प्रमाणमिति शेषः ॥ 20 ॥
अर्थसारूप्यमेव कथं प्रमाणम्? इत्याशङ्कयाह- तद्वशादर्तप्रतीतिसिद्धेरिति ।
तदेव च प्रत्यक्षम् अर्थप्रतीतिरूपम् अर्थप्रदर्शनरूपम् । अतरतदेव प्रमाणफलम् ॥ 19 ॥
यदि तर्हि ज्ञानं प्रमितिरूपत्वात् प्रमाणफलम्, कि तर्हि प्रमाणफलम्? इत्याह- अर्थेत्यादि । अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद् विषयात् विषयात् विज्ञानमुदेति तद्विषयसदृशं तद् भवति यथा- नीलादुत्पदयमानं नीलसदृशम् । तच्च सारूप्यम्= सादृश्यम्, आकार इति, आभास इत्यपि व्यपदिश्यते ॥ 20 ॥
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम्, तथा च सति तदेव ज्ञानं प्रमाणं स एवेति । प्रमाणव्यापारः । यद्येवम् प्रापणशक्तिः फलम्, तर्हि नार्थपरिच्चित्तिरूपं फलम्, प्रापकत्वाद्, अर्थपरिच्चित्तेरन्यत्वादित्याह- उक्तं च पुरस्तादियादि । यदेव प्रापकं ज्ञानं तदेव प्रवर्तकम्, अर्थप्रदर्शकं च तदेवेति पुरस्तात् संवर्णितं प्रमाणस्वरूपचिन्तायाम् । ततश्च अर्थप्रदशेकमेव प्रापकम्, तस्य च प्रापणशक्तिरर्थपरिच्चित्तिरेव तावता परिसमाप्तत्वात् प्रमाणव्यापारस्येति स्थितम् । प्रमाणस्य फलमर्थपरिच्चित्तिरूपमेव, नान्यदिति ॥ 19 ॥
यदि ज्ञानस्य प्रमितिरूपं फलम्, ज्ञानात् तर्हि प्रमाणेन भिन्नेन भवितव्यमिति मन्यमानः पृच्चति- यदि तर्हीत्यादिना । अर्थसारूप्यमस्य प्रमाणमिति । एतस्य विवरणम्- अर्थेन यत् सारूप्यमित्यादि । एवं मन्यते- अर्थसारूप्यं विज्ञानस्य प्रमाणम्, नैन्द्रियादिकमिति । विषयादुत्पद्यमानं विषयसदृशं भवतीति तदेव सारूप्यं सादृश्यमुक्तमिति दर्शयति- इह यस्मादित्यादिना ॥ 20 ॥
ननु चेत्यादि । एवं मन्यते परः- इन्द्रियादिकं प्रमाणमुक्तमस्माभिः, तदेव किं यस्मादर्थमारूप्यवशाद् निश्चयः, तस्मात् तत् सारूप्यमेव प्रमाणम् । एवं हि नीलस्य प्रतीतिरियम् न पातस्य इति व्यवस्थाप्यते । तत्र च यो हेतुः स एव प्रमाणत्वेनेष्ठः ।
इन्द्रियस्य त्वेतद्वयवस्थितिकरणे नास्ति सामर्थ्यम् । तथा हि तच्चेन्द्रियं सर्वस्यैव ज्ञानस्य साधारणं कारणमिति प्रत्येकनिश्चयव्यवस्थितौ कथं समर्थ स्यात् । यदि तदेव च प्रमाणफलम्, न चैकं वस्तु साध्यं साधनं चोपपद्यते, तत् कथं सारूप्यं प्रमाणम्? इत्याह- तद्वशादिति । तदिति सारूप्यम्, तस्य वसात् सारूप्य समर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः, तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात् सिध्यति, प्रतीतं भवती त्यर्थः । नीलानिर्भासं हि विज्ञानं यतः तस्मात् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नौलस्य संवेदनं शक्यते ऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते ।
न चात्र जन्यजनकभावनिबन्धनह् साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपितु व्यवस्थप्य-व्यवस्थापकभावेन । तत एकस्य वस्तुनः बौद्धेनापि नेष्यते, येनार्थसारूप्यं प्रमाणमितिप्यते । किञ्चि- अर्थसारूप्ये प्रमाणे ऽङ्गी क्रियमाणे प्रमाणफलयोरैक्यान्नैकं कर्म करणं भवतीति यच्चोदितं तत् तदवस्थमेवेति । तद्वशादित्यादि । एवं मन्यते- प्रमाणं करणं च साधकतमं कारकाणाम् । प्रकृष्टोपकारकं ज्ञानस्य सारूप्यमेव तद्वशादर्थाधिगतिसिद्धेः, नेन्द्रियादिकम्, अर्थसारूप्याभावे ऽर्थप्रतीतेरभावादिति । अमुमेवार्थ दर्शयति- अर्थस्य प्रतीतिरवबोध इत्यादिना । नीलनिर्भासं हीत्यादिना । नीलाकारं नीलविज्ञानस्य नीलावगमव्यवस्थाया निमित्तं दर्शयति । यस्मान्नीलाकारे विज्ञानस्यावगते नीलप्रतीतिअर्वगम्यते, तस्मादर्थाकारः प्रमाणम् करणधर्मत्वादस्येति । ननु च चक्षुरादिभ्यो विज्ञानमुत्पद्यते विशिष्टार्थ मवगच्चत्येव तत् कथमर्थाकारस्य प्रकृष्टोपकारकत्वम्? इत्याह- येभ्यो हीत्यादि । तत् कथयति- चक्षुरादीनामपि विज्ञानोत्पत्तौ निमित्ताभावो ऽस्ति, किन्तु तेषां सर्वज्ञानोत्पत्ति प्रति निमित्तत्वान्न प्रतिनियतार्थव्यवस्थापनस्य निमित्तत्वम् । अर्थाकारस्य त्वसाधारणत्वात् प्रतिनियतार्थव्यवस्थापनं प्रति निमित्तत्वमिति तदेव प्रमाणम् ।
यत् तत् परेण चोदितम्- प्रमाणफलयोरैक्यात्र चैकं साध्यं साधन वा स्यादिति?तत् परिहरति- न चात्र जन्यजनकेत्यादिना । द्यादयमेकस्य विरोधो यद्ययं जन्यजनकभावः प्रमाणफलयोः साध्यसाधनभावः, कि तर्हि? व्यवस्थाप्यव्यवस्थापकभावः । कुतः? ज्ञानाधिकारात् ।यस्माज्ज्ञाने विशिष्ट उत्पन्ने प्रतिपत्त्रा विशिष्ठो ऽर्थो ज्ञापय्ते,
अत्दिन्द्रियं नीलज्ञानस्यैव जनकं स्यात्, पीतादिज्ञानं च न जनयेत् तदैव व्यवस्थाय समर्थ स्यात् । सन्निधानमपि साधारणत्वादिन्द्रियवन्न व्यवस्थितिहेतुः ।
किञ्चिद् रूपं प्रमानम्, किञ्चित् प्रमणफलं न विरुध्यते ।
व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनम् ।
व्यवस्थाप्य- व्यवस्थापकभावो ऽपि कथमेकस्य ज्ञानस्य इति चेत्? उच्यते नीलसदृशमनुभूय तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चय प्रत्ययेन, तस्मात् सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यवव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधवृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् ।
व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पकत्वात् प्रत्यक्समेव नीलवोधरूपत्वेनात्मानमवस्थपयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद् भवति ।
तस्मादश्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्था न त्वर्थ उत्पाद्यते । तथाहि- नीलाकारे विज्ञान उत्पन्न विशिष्टज्ञानं व्यवस्थापयति, नीलज्ञानमनुभूतमिति न ज्ञानमुत्पादयति । किञ्चिदित्यादिनैकस्यैव विज्ञानस्यांशाशितया व्यवस्थाप्यव्यवस्थापकत्वं दशयति ।
ननु च निर्विकल्पकं ज्ञानं विशिष्टाकारमुत्पन्नं कथं तस्य समानकाल एवांशांशितया व्यवस्थाप्य व्यवस्थापकभावो भवतीति मन्यमानः पृच्चति- व्यवस्थाप्यव्यवस्थापकेत्यादिना । सदृशमिति । एवं मन्यते- न विज्ञानमेव निर्विकल्पकमात्मानं व्यवस्थापयति, किन्तु प्रत्यक्षपृष्ठभाविना निश्चयप्रत्ययेन व्यवस्थाप्यते । तत्र चार्थाकारस्य व्यवस्थापनहेतुत्वमसारूप्यव्यावृत्तिभेदेनार्थबोधतया व्यवस्थाप्यस्योत्पादेन वेदनस्य तु व्यवस्थाप्यत्वम् निश्चयप्रत्ययतु व्यवस्थापक इति । अमुमेवार्थ दर्शयति- तस्मादि त्यादिना । ननु नीलज्ञानम्त्पन्न स्वसंवेदनप्रत्यक्षसिद्धं यदि निश्चयवशात् प्रमाणव्यवस्था लभ्यते, तदा युप्यते वक्तुम्- निश्चयप्रत्ययेन व्यवस्थाप्यते इति, यावता निश्चयप्रत्ययं विनापिप्रमाणं भवत्येव? इत्याह- निश्चयप्रत्यसेनाव्यवस्थापितमित्यादि सारूप्यं तु असाधारणत्वात् प्रत्येकनिश्चयव्यवस्थितिहेतुर्भवति । तथाहि नीलविज्ञानस्य यो नीलाकारः स पीतादिज्ञाने नास्तीति व्यवस्था स्यात् । यस्माद् नीलाकारत्वाद् अयं नीलः इत्ययेव प्रतीतिः न तु पीतः इति बुद्धिः, तस्माद् अर्थसारूपमेव प्रमाणमिति ॥ 21 ॥
इति न्यायबिन्दुविस्तरटीकायां शिष्यहितायां प्रथमः प्रत्यक्षपरिच्छेदः ॥
धिगमरूपमनिष्पन्नम् । अतः साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् ।
हनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यव्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ।
यद्यवम्, अध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात्, न केवलम्- इति चेत्? नैतदेवम् यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यसायेन दृश्यत्वेनार्थो ऽवसीयते, न उत्परेक्षितत्वेन । दर्शनं च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः । तथाहि- परोक्षमर्थ विकल्पयन्त उत्प्रेक्षामहे, न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादू अध्यवस्यन्ति । तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति- यत्रार्थ प्रत्यक्षपूर्वको ऽध्यवसायः, तत्र प्रत्यक्षं केवलमेव प्रमाणमिति ॥ 21 ॥
आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः ॥
दर्शयति । यावत् प्रत्यक्षं स्वविषये स्वात्मनि निश्चयं नित्पादयति, न तावत् प्रमाणं भवति आत्मव्यापारानिर्वर्तनात् । ततश्चाध्यवसायं कुर्वदेव प्रमाणमिति निश्चयमप्र्क्षते । ननु यदि निश्चयं विना प्रमाणमेव न भवति प्रत्यक्षं विकल्पसहितम्, तर्हि प्रत्यक्षं प्रमाणं स्यात्, न केवलं तदन्वयव्यतिरेकादिति मन्यमानश्चोदयति- यदयेवमित्यादिना । नैतदेवम्..............
द्वितीयः स्वार्थानुमानपरिच्छेदः
1 अनुमानं द्विधा ॥
2 स्वार्थ परार्थ च ॥
3 तत्र स्वार्थ त्रिरूपात् लिङ्गाद् यदनुमये ज्ञानं तदनुमानम् ॥
प्रत्यक्षानुमानभेदेन सम्यग्ज्ञानं द्विविधमुक्तम् । तत्र प्रत्यक्षं सप्रपञ्चं कृतव्याख्यानम् । अनुमानकथनानुज्ञार्थमाह- अनुमानं द्विधेति । अनुमानस्य प्रकारौ द्वौ वेदितव्यौ । ज्ञानाभिधानात्मकयोः स्वपरार्थानुमानयोः सामान्यलक्षणं किमपि नास्ति, कथं तावत् पूर्वं न लक्षणमभिदीयेत? विभागेन च प्रतिनियतं लक्षणं सुखेन वक्तु शक्यम् । तस्मात् पूर्वं विभाग उक्तः ॥ 1 ॥
स्वार्थमिति । स्वार्थ परार्तह् चेति विशेषेण द्वैविध्यमेवोपदर्श्यते । अत्र अर्थ इति प्रयोहनम् । स्वप्रयोजनं परप्रयोजनं चेति शेषः । येनात्मनः प्रतीतिस्तत् स्वार्थम्, येन चापरस्य प्रतिपत्तिस्तत् परार्थमवगन्तव्यमिति ॥ 2 ॥
एवं प्रत्यक्षं व्याख्याय, अनुमानं व्याख्यातुकाम आह- अनु मानमिति ॥ अनुमानं द्विधा द्विप्रकारम् । अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेद कथ्यते? उच्यते परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम्, तयोरत्यन्तभेदात् नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातु प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः, व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् नान्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक् प्रकारभेदः कथ्यते इति ॥ 1 ॥
किं पुनस्तद् द्वैविध्यम्? इत्याह- स्वार्थमिति । स्वस्मायिदं स्वर्थम् । येन स्वयं प्रतिपदयते तत् स्वार्थम् । परस्मायिदं परमार्थम् । येन परं प्रतिपादयति तत् परार्थम् ॥ 2 ॥
तत्रेति । तत्र तयोः स्वार्थ- परार्थानुमानयोर्मध्ये स्वार्थ ज्ञानं किंविष्टम्? इत्याह- त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत् त्रिरूपम् । लिङ्गयते= गम्यते ऽनेनार्थ इति लिङ्गम् । तस्मात् त्रिरूपाल्लिङ्गात्
4 प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ॥
5 त्रैरूप्यं पुनलिंगस्य अनुमेये सत्त्वमेव, सपक्षे एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् ॥
तत्रेति । त्रीणि रूपाण्यस्य सन्तीति त्रिरूपम् । अर्थोलिङ्गयते ऽनेनेति लिङ्गम् । अनुमीयते इति अनुमेयः । त्रिलक्षणाद् हेतोरनुमेये यज्ज्ञानमुत्पदयते तदेव द्वार्थानुमानमिति । लिङ्गाभासाद् यज्ज्ञानमुत्पदयते तदप्यनुमानं स्यादिति तन्निरासार्थमनुमेय इत्युक्तम् । ज्ञानमिति कथनं तु लिङ्गमेव वस्तुतो ऽनुमानं स्यादिति तन्निरासार्थम् ॥ 3 ॥
यदयनुमेयविषयज्ञानमेव प्रमाणमिष्ठम्, तर्हि फलं नाम किं स्यात्? इत्याशङ्कायामाह- प्रमाणेत्यादि ।
यथा प्रत्यक्षे तज्जन्यमेव प्रमाणफलमभिहितम्, तथात्राप्यनुमितिरेव प्रमाणफलं स्यात् अर्थविनिश्चयनस्वभावात् । यथा प्रत्यक्षस्यार्थसारूप्यं प्रमाणम्, तथानुमानस्यापि अर्थसारूप्यमेव प्रमाणम् तद्वशाद् अर्थविनिश्चयसिद्धेरिति ॥ 4 ॥
त्रिरूपाल्लिङ्गात्, इत्युक्तम् । कानि च तानि त्रीणि रूपाणि?- इत्याशङ्कायामाह- त्रैरूप्यमिति ।
यत् जातं ज्ञानमिति । एतद् हेतुद्वारेण विशेषणम् । तत् त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पदयत इति विशिनष्टि- अनुमेय इत् । एतच्च विषयद्वारेण विशेषणम् । त्रिरूपाल्लिङ्गाद् यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् स्वार्थमनुमानमिति ॥ 3 ॥ लक्षणविप्रतिपत्ति निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- प्रमाणत्यादि । प्रमाणास्य यत् फलं तस्य या व्यवस्था सा अत्र अनुमाने ऽपि प्रत्यक्ष इव प्रत्यक्षवत् वेदितव्या ।
यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् । तद्वत् अनुमानं नीलाकारमुत्पदयमानं नीलबोधरूपमत्वस्थाप्यते, तेन नीलसारूप्यमस्य प्रमाणम्, नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति नान्यथेति ॥ 4 ॥
एवमिह संख्या लक्षण फलविप्रतिपत्तयः, प्रत्यक्षपरिच्चेदे तु गोचर विप्रतिपत्तिनिराकृता । लक्षणनिरेशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम्, तदेवत्रिरूपस्य भावस्त्रैरूप्यम् । 1 अनुमेये सत्त्वमेवेति । अधोनिर्दिष्ठानुमेयलक्षणे सत्त्वमेव प्रथमं रूपम् । तत्र सत्त्वमिति उक्त्वा चाक्षुषत्वादित्यादिकं निरस्तम् । एवेत्यधिककथनेन पाक्षिकदेशासिद्धयादिकं निरस्तम् ।
2 सपक्षे एव सत्त्वमिति । समजातीये सत्त्वमेव द्वितीयं रूपम् । अत्र सत्त्वम् इत्युक्त्वा असाधारणानैकान्तिको निरस्तः । एवेत्यधिककथनेन साधारणानैकान्तिको निरस्तः । उभयकथनेन विरुद्धो निरस्तः ।
3 असपक्षे चासत्त्वमेवेति । असमजातीये क्वचिदपि असत्त्वं तृतीयं रूपम् । अत्र असत्त्वम् इत्युक्त्वा साधारणानैकान्तिको निरस्तौ । एवेत्यधिककथनेन विपर्क्षकदेशावृत्तेः परिहारः ।
व्याख्यातुमाह- त्रैरूप्यमित्यादि । लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि । तदिदमुच्यत इति शेषः । किं पुनस्तत् त्रैरूप्यम्? इत्याह-अनुमेय इति ।
1 अनुमेयं वक्ष्यमाणलक्षणम्, तस्मिन् लिङ्गस्य सत्त्वमेव निश्चितम्-एकं रूपम् । यदयपि चात्र निश्चितग्रहणं न कृतम्, तथापि अन्ते कृतं प्रक्रान्तयोर्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम्; यथा- बीजमंकुरस्य; अदृष्टाद् धूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम्, यथा- प्रदीपो घटादेः, दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीय कतया निश्चियनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः, नापरः कश्चित् । अतो ऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणियम् ।
तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तः । यथा चितनास्तरवः, स्वापाद इति पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । नहि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः, किन्तु केचिदेव । सत्त्ववचनस्य पश्चात्कृतेनैव कारणेनासाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वम् इति कुर्यात्, श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः ।
2 सपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे । एवकारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते, किन्तूभय-
6 अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी ॥
अन्ते निश्चितम् इत्युक्तेस्त्रिष्वेव निश्चितमिति वेदितव्यम् । तानि च त्रीणि रूपाणि स्वयं यथायथं प्रमाणैर्निश्चतान्येव ग्राहयाणी अन्यथानुमेये प्रत्यायनमशक्यमेवेति ॥ 5 ॥
कश्चानुमेय? इत्याशङ्कायामाह- अनुमेय इति ।
त्रापि । सत्त्वग्रहणात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि प्रयत्नान्तरौयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात् सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्वयो ऽनैकान्तिको निरस्तः, यथा- सर्वज्ञः कश्चित्, वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् ।
3 असपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नसत्त्वमेव निश्चितम्- तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि स विपक्षे ऽस्ति । एवकारेण साधारणाय विपक्षैकदेशवृत्तेर्निरासः ।
प्रयत्नान्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ नास्ति । ततो नियमेनास्य निरासः । असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणे ऽयमर्थः स्यात्-विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरोयकत्वं सपक्षे ऽपि सर्वत्र नास्ति, ततो न हेतुः स्यात् । अतः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः ।
ननु च सपक्ष एव सत्त्वम् इत्युक्ते, विपक्षे ऽसत्त्वमेव इति गम्यत एव, तत् किमर्थ पुनरुभयोरुपादानं कृतम्? उच्यते अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथा ति दर्शयितु द्वयोरप्युपादानं कृतम् । अनियते हि द्वयोरपि प्रयोगे ऽयमर्थः स्यात्- सपक्षे यो ऽस्ति, विपक्षे च यो नास्ति च हेतुरिति । तथा च सति स श्यामः तत्पुत्रत्वात्, दृश्यमान पुत्रवत् इति तत्पुत्रत्वे हेतुः स्यात् । तस्मात् नियमवतोरेवान्यव्यतिरेकयोः प्रयोगः कर्तव्यः, येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगे ऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वय व्यतिरेको वा प्रयोक्तव्यः इति शिक्षणार्थ द्वयोरूपादानमिति ॥ 5 ॥
त्ररूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः, तेषां लक्षणं वक्तव्यम्, तत्र को ऽनुमेयः? इत्याह- अनुमेयो ऽत्रेत्यादि । अत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायो ऽनुमेयः, व्याप्तिनिश्चयकाले
7 साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः ॥
8 न सपक्षो ऽसपक्षः ॥
9 ततो ऽन्यस्तद्विरुद्धस्तदभावश्चेति ॥
अत्रेति । हेतुलक्षणे । जिज्ञासितः प्रत्येतुमिष्टः । विशेष इति । विलक्षणो धर्मः । जिज्ञासितो विशेषो यस्मिन् स जिज्ञासितविशेषः । धर्माः सन्ति यस्मिन् स धर्मी । तेन यस्य धर्मिणः कश्चिद् विशेषः प्रत्येनुमिष्टः सो ऽनुमेय इत्यर्थः । स च हेतुलक्षणावसरे एव बोध्य इत्युक्तं भवति । अन्यत्र तु धर्मविशिष्टधर्मी अनुमेय इति ॥ 6 ॥
कस्तावत् सपक्षः? इत्याशङ्कायामाह- साध्येत्यादि ।
समानं मानमस्येति समानः । समानज्ञानपरिच्चेद्यः । सदृश इति शेषः । यश्च सदृशो ऽर्थः स सपक्षः ।
कथम्प्रकारं सामान्यमिति चेत्? तत्रैवमाह- साध्यर्मसामान्येनेति । साध्यश्चासौ धर्मश्चेति साधयधर्मः । तस्य सामान्यं साध्यधर्मसामान्यम् । साध्यधर्मस्य हि विशेषो भवति, प्रत्यर्थनियमात् । तेन च समानत्वाद् विरोधः स्यादितिं साध्यधर्म सामान्येन इत्युक्तमिति ॥ 7 ॥ ।
कश्च असपक्षः? इत्याशङ्कायामाह- न सपक्ष इति । यश्च सपक्षो न भवति स सर्व एवासपक्ष इति ॥ 8 ॥
ततो ऽन्य इति । सपक्षविरुद्धः । यथा- उष्णस्पर्शे साध्ये ऽनुष्णाशीतं द्रव्यम् । तु धर्मो ऽनुमेयः- इति दर्शयितुम् अत्र ग्रहणम् । जिज्ञासितो ज्ञातुमिष्टो विशषो धर्मो यस्य धर्मिणः स यथोक्तः ॥ 6 ॥
कः सपक्षः? इत्याह- साध्यधर्मेत्यादि । समानो ऽर्थः सपक्षः । समानः सदृशो यो ऽर्थः पक्षेण स सपक्ष उक्तः, उपचारात् । समानशब्देन विशेष्यते । समानः पक्षः= सपक्षः, समानस्य च स शब्दादेशः ।
स्यादेतत् । किं तत् पक्षसपक्षयोः सामान्यम्, येन समानः सपक्षः पक्षेण? इत्याह- साध्यदह्र्मसामान्येनेति । साध्यश्चासौ असिद्धत्वात् धर्मश्च पराश्रितत्वात् साध्यधर्मः । न च विशेषः साध्यः, अपितु सामान्यम् । अत इह सामान्य साध्यमुक्तम् । साध्यदह्र्मश्चासौ सामान्यं चेति साध्यधर्म सामान्येन समानः पक्षेण सपक्ष इत्यर्थः ॥ 7 ॥
को ऽसपक्षः? इत्याह- न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सो ऽसपक्षः ॥ 8 ॥
कश्च सपक्षो न भवति? इत्याह- तत इति । ततः सपक्षाद् अन्यः, तेन
10 त्रिऊपाणि च त्रीण्येव लिङ्गानि ॥
11 अनुपलब्धिः स्वभावः कार्य चेति ॥
12 तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षण प्राप्तस्यानुपलब्धेरिति ॥
तद्दिरुद्ध इति । सपक्षविरुद्धः । यथा- उष्णस्पर्श एव साध्ये शीतं द्रव्यम् । तद्भाव इति । सपक्षाभावः । यथा- सौवान्तिकस्य अनित्यत्वे साध्ये अनित्यत्वाभाव एवासपक्षः, तन्नये आकाशादिष्वपि नित्यत्वाङ्गीकारात् ।
त्रिविध एवार्थे न सपक्षः असपक्षः इति बोध्यम् । अभावस्तु वस्तुत एव न सपक्षः । अन्यविरोधी च अप्रम्परया न सपक्षाविति ॥ 9 ॥
यथोक्तहेतुफलणयुक्तो हेतुः कतिविधः? इत्याशङ्कायामाह- त्रिरूपाणीति । यथोक्तं रूपत्रयं त्रिष्वेव सम्भवति, नाधिक इत्यधिकारार्थ एवकारार्थः । त्रयाणां लिङ्गानां प्रत्येकमपि त्रिरूपमेव द्रष्टव्यम्, एकरूपं द्विरूपं वा नैवेति ॥ 10 ॥
कानि च त्रीणि लिङ्गानि? इत्याशङ्कायामाह- अनुपलब्धिरिति । इह स्वनाम्ना त्रीणि लिङ्गानि निर्दिश्यन्ते ॥ 11 ॥ तत्रानुपलब्धिरिति । अनुपलब्धिस्वरूपमुच्यते । यथेति । उपप्रदर्शनशब्दः । प्रदेशविशेषे क्वचिद् घटो नेति सन्निहितदेशवचनम् । सम्बन्धस्तु एवम्- प्रदेशविशेष
च विरुद्धः । तस्य च सपक्षस्य अभावः । सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत् प्रत्येतुं शक्यम्, यावत् सपक्षस्वभावाभावो न विज्ञातः । तस्मादन्यत्व विरुद्धत्वप्रतीतिसामर्थ्यात् सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ ।
ततो ऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ सामर्थ्यादभावरूपी प्रतीयेते । ततस्त्रयाणामपि असपक्षत्वम् ॥ 9 ॥
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति । चकारी वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टम्, त्रिरूपानि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम्, त्रिरूपाणि चोच्यन्ते- त्रीण्येव त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रित्ररूपलिङ्गप्रकारा इत्यर्थः ॥ 10 ॥
कानि पुनस्तानि? इत्याह- अनुपलब्धिरित्यादि । प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । बिधेयस्य साध्यस्य स्वभावश्च त्रिरूपः कार्य च ॥ 11 ॥
अनुपलब्धिमुदाहर्तुमाह- तत्रेत्यादि । यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि । न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । इशिष्यत
13 उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्पं स्वभावविशेषश्च ॥
क्वचिद् घटो नेति क्वचिदित्यनेन धर्मी निर्दिश्यते । प्रदेशविशेष इति तस्यैव विशेषः क्रियते । वाद्यभिमतदेशे घटो नित्यर्थः । देश इत्युक्ते सर्वस्य पक्षत्वे घटाभावसिद्धिरेव न स्यात् । स च योग्यो ऽपि न भवति ।
उपलब्धिलक्षणप्राप्तस्येति । अनेन हेतुर्विशेषणमुक्तम् । उपलब्धिरिति ज्ञानमुच्यते । लक्ष्यते इति लक्षणम् । विषय इति शेषः । उपलब्धेर्लक्षणमिति उपलब्धिलक्षणम्, तं प्राप्त इति उपलब्धिलक्षणप्राप्तः । योग्योपलब्धिविषय इति शेषः ।
अनुपलब्धेरिति । अदर्शनादित्यर्थः । अयमर्थः- प्रदेशादौ दृश्यघटाद्यदर्शनात् । घटशून्यदेशदर्शनादिति शेष इति ॥ 12 ॥
ननु का सा उपलब्धिलक्षणप्राप्तिः? इत्याशङ्कायामाह- उपलब्धीत्यादि ।
इति विशेषः प्रतिपत्तुप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह- क्वचिदिति । प्रतिपत्तृप्रत्यक्षेः क्वचिदेव प्रदेशे इति धर्मी । न घट इति साध्यम् । उपलब्धिर्ज्ञानम् । तस्या लक्षणं जनिका सामग्री । तया हि उपलब्धिर्लक्षयते । तत्प्राप्तो ऽर्थो जनकत्वेन सामग्रयन्तर्भावात् । उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तस्य अन पलब्धेः- इत्ययं हेतुः ।
अथ यो यत्र नास्ति स कथं तत्र दृश्यः? दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते । यश्चैवं सम्भाव्यते- यद्यसावन्न भवेद् दृश्य एव भवेदिति । स तत्र अविध्यमानो ऽपि दृश्यः समारोप्यः । कश्चैवं सम्भाव्यः? यस्य समग्राणि स्वावलम्बनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यन्ते? यदा एकज्ञानवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोर्हि सतोर्नैक नियमता भवति प्रतिपत्तिः, योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिन् इतरत् समग्रदर्शनसामग्रीकं यदि भवेद्, दृश्यमेव भवेदिति सम्भावितं दृश्यत्वमारोप्यते । तस्यानुपलम्भो दृश्यानुपलम्भः । तस्मात् स एव घटविविक्तर्पदेशः, तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद् दृश्यानुपलम्भ उच्यते ।
यावद्धि एकज्ञानसंसर्गि वस्तु न निश्चितम्, तज्ज्ञाअन्ं च न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते, तज्ज्ञानं च । दर्शननिवृत्तिमात्रं स्वयमनिश्चितत्वादगमकम् । ततो दृश्यघटरहितः प्रदेशः, तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ॥ 12 ॥
का पुनरूपलब्धिलक्षणप्राप्तिः? इत्याह- उपलब्धीत्यादि । उपलब्धि-
14 यः स्वभाव सत्स्वप्यन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव विशेषः ॥
15 स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥
उपलम्भ इति । ज्ञानम् । तस्य प्रत्ययान्तराणि उपलम्भप्रत्ययान्तराणि । उपलम्भप्रत्ययस्तत्र घट एव । ततो ऽन्यानि अनन्तरप्रत्ययादीनि । तेषां साकल्यम् उपलम्भप्रत्ययान्तरसाकल्यम् । साकल्यशब्देन समावेश उच्यते । स्वभावश्च विशेषश्च इति स्वभावविशेषः । तद् द्वयम् उपलब्धिलक्षणप्राप्तिशब्देनोच्यते इति ॥ 13 ॥
ननु को ऽयं स्वभावविशेषः? इत्याकाङ्क्षायामाह- सत्स्विति ।
यः स्वभावः सन् चक्षुरादिसन्निधाने विप्रकर्षप्रकारत्रयेण अविप्रकृष्टः शक्यदर्शनः, स एवात्र द्वभावविशेष उच्यते । तेन चक्षुरादिसन्निधाने ऽपि प्रत्यक्षयोग्यघटानुपलब्धेः अत्र घटो नास्ति इत्ययमर्थ उक्त इति ॥ 14 ॥
स्वभावहेतुलक्षणनिर्देशार्थमाह- स्वभाव इति ।
लक्षणप्राप्तिः उलब्धिलक्षणप्राप्तत्वम्, घटस्य उपलम्भप्रत्ययान्तरसाकल्पमिति । ज्ञानस्य घटो ऽपि जनकः, अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि, तेषां {साअ}ल्यं सन्निधिः । स्वभाव एव विशिष्यते तदन्यस्मादीत् विशेषो विशिष्ट इत्यर्थः । तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्पं च- एतद् द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् ॥ 13 ॥
कीदृशः स्वभावविशेषः? इत्याह- यः स्वभाव इत्यादि ।
सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ।
तदयमत्रार्थः- एकप्रतिपत्त्रपेक्षमिदं प्रत्ययलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्द्दशयमान उभयवान् भावः । अदृश्यमानास्तु देशकाल स्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययसाकल्पवन्तस्तु । यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता यद् द्रष्टुं प्रवृत्तः सः । द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्पवन्तः स्वभावविशेषयुक्तास्तु । दूरकेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः, अन्ये तूभयविकला इति ॥ 14 ॥
अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह- स्वभाव इत्यादि । स्वभावो
16 यथा- वृक्षो ऽयम्, शिशपात्वात् इति ॥
17 कार्य यथा- वह्निरत्र धूमात् इति ॥
18 अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेहहेतुरिति ॥
सत्तामात्रमिति । साधनसत्तामात्रम् । सत्तामात्रे भवितुं शीलं यस्य स सत्तामात्रभावी, तस्मिन् सत्तामात्रभविनि साध्यधर्मे स्वभावहेतुर्बोध्यः ॥ 15 ॥
यथा वृक्ष इति । अत्र वृक्षस्य शिशपामात्रेण सम्बन्धः । तस्मात् तेन साध्यते ॥ 16 ॥
कार्यहेतुरुदाह्रियते । अग्निनिर्भरोत्पत्तिकत्वाद् यत्र धूमस्तत्र वह्निः इत्यवगम्यते ॥ 17 ॥
अथ कस्मात् लिगं त्रिविधम् इति व्यवस्थितिः? इत्याशङ्कायामाह- अत्र द्वाविति ।
यस्मादनुमेयो भावाभावरूपो द्विविधः, तस्माद् हेतुरपि 1 । भावसाधनः, 2 अभावसाधनश्च द्विविध एव । अनुमेयो ऽपि भावरूपो द्विविधः- 1 भिन्नः, 2 अभिन्नश्च ।
हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभावः? इत्याह- स्वस्य आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम् । तस्मिन् सति भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसताया व्यतिरिक्तं कञ्चिद् हेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन् साध्ये यो हेतुः स स्वभावस्तस्य साध्यस्य, नान्यः ॥ 15 ॥
उदाहरणम्- यथेति । अयमिति धर्मी । वृक्ष इति साध्यम् । शिशपात्वादिति हेतुः । तदयमर्थः- वृक्षव्यवहारयोग्यो ऽयम्, शिशपाव्यवहारयोग्यत्वादिति । तत्र प्रचुरशिशपे देशे ऽविदितशिशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्श्योच्यते- अयं वृक्ष इति, तदा असौ जाडयाच्चिशपाया उच्चत्वमपि वृक्षव्यवहारस्य निमित्तमवस्यति । स मूढः शिशपात्वमात्र निमित्ते वृक्षव्यवहारे प्रवर्त्यते, निच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य, अपितु शिशपात्वमात्रं निमित्तम् । शिशपागतशाखादिमत्वं निमित्तमित्यर्थः ॥ 16 ॥ ।
कार्यमुदाहर्तुमाह- कार्यमित्यादि । वह्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ॥ 17 ॥
ननु त्रिरूपत्वादेकमेव लिङ्ग युक्तम्, अत्र प्रकारभेद भेदः, एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तम्? इत्याह- अत्र द्वाविति ।
19 स्वभावप्रतिबन्धे हि सत्यर्थो ऽर्थ गमयेत् ।
20 तदपर्तिबद्धस्य तदव्यभिचारनियमाभावात् ॥
अनुमेयस्य भावरूपस्य द्वैविध्येन भावसाधनो ऽपि द्विविधो भवति । तथा हि- 1 साध्यहेत्वोः स्वरूपभेदे अभिन्नं साध्यं साधयितुं न शक्नोति । 2 साध्यहेत्वोः स्वरूपाभेदे च भिन्नं साध्यं साधयितुं न शक्नोति ।
तत्र साध्यसाधनयोरभेदे स्वभावहेतुः । साध्यसाधर्मयोर्भेदे च कार्यहेतुः । अनुपलब्धिस्तु अभावहेतुः । एतेन यस्माद् द्वाभ्यां भावसाधनम्, एकेन च प्रतिपेधसाधनम्, तस्मात् लिङ्गं त्रिविधम्- द्वे भावसाधने, एकं च प्रतिषेधकारणमीत् दर्शितमिति ॥ 18 ॥
अथ कस्माद् द्वावेव वस्तुसाधनो इति चेत्? तत्राह स्वभाव इति । स्वभावेन= स्वरूपेण प्रतिबन्धः स्वभावप्रतिबन्ध । तत्सत्त्वे एव लिङ्गलक्षणार्थेन साध्यलक्षणार्थस्य प्रत्यायनमिति शेषः ॥ 19 ॥
कस्मात् स्वभावप्रतिबन्धसत्त्व एव अर्थो ऽर्थ गमयोदिति चेत्? तत्राह- तदप्रतीत्यादि ।
अत्रेति । एषु त्रिषु हेतुषु मध्येद्वौ हेतू वस्तुसाधनौ विधेः साधनौ गमकौ । एकः प्रतिषेधस्य हेतुर्गमकः । प्रतिषेध इति चाभावो ऽभावव्यवहारश्चोक्तो द्रष्टव्यः ।
तदयमर्थः- हेतुः साध्यसिद्धाय्र्थत्वात् साध्याङ्गम्, साध्यां प्रधानम् । अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदाद् भेदः, न स्वरूपभेदात् । साध्यश्च कश्चिद् विधिः, कश्चित् प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणानवस्थानात् तयोर्हेतूभिन्नौ । विधिरपि कश्चिद्धेतीर्भिन्नः, कश्चिदभिन्नः । भेदाधेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्नाः, न तु स्वत एवेति ॥ 18 ॥
कस्मात् पुनस्त्रयाणां हेतुत्वम्, कस्माच्चान्येषामहेतुत्वम्?- इत्याशङ्कय यथा त्रयाणामेव हेतुत्वम्, अन्येषां चाहेतुत्वम्, तदुभयं दर्शयितुमाह- स्वभावप्रतिबन्ध इति । स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः । साधने कृता इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यं गमयेत्, तस्मात् त्रयाणां गमकत्वम्, अन्येषामगमकत्वम् ॥ 19 ॥
कस्मात् पुनः स्वभावप्रतिबन्ध एव सति गम्यगमकभावः, नान्यथा?
21 स च प्रतिबन्ध साध्ये ऽर्थे लिङ्गस्य ॥ यतो यन्न प्रतिबद्धम्, तत्रार्थनिश्चयाव्यभिचारि, तस्मात् प्रतिबन्धे सत्येव गम्यगमकभावो वेदितव्यः, नान्यथेति ॥ 20 ॥ स च तावत् कस्य प्रतिबन्धः, केन रूपेण व प्रतिबन्धः? इत् प्रदर्शनार्थमाह- स चेति । यस्मात् परमार्थतो लिगं क्वचित् साध्यार्थस्वभावमेव, तस्मात् तत् तेन प्रतिबद्धम् ॥ 21 ॥ इत्याह- तदपतिबद्धस्येति । तदिति स्वभावः उक्तः । तेन स्वभवेनाप्रति बद्धः तदप्रतिबद्धः । यो यत्र स्वभवेन प्रतिबद्धः तस्य तदप्रतिबद्धस्य । तदव्यभिचारनियमाभावात् । तस्याप्रतिबन्धविषयस्याव्यभिवारः तदव्यभिचारः,तस्य नियम तदव्यभिचारनियमः, तस्याभावात् ।
तदयमर्थः- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तमप्रतिबन्धविषय मवश्यमेव न व्यभिचारतीति नास्ति तयोरव्यभिचारनियमः= अविनाभावनियमः । अव्यभिचारनियमाच्च गम्य-गमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम्, अपि तु अब्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावित्वनिश्चयः, ततो गम्य-गमकभावः । तस्मात् स्वभावप्रतिबन्धे सत्यर्थो ऽर्थ गमयेत्, नान्यथेति श्थितम् ॥ ॥ 20 ॥
ननु च परायत्तस्य प्रतिबन्धो ऽपरायत्ते, तदिह साध्यसाधनयोः कस्य क्व प्रतिबन्धः? इत्याह- स चेति । स च स्वभावप्रतिबन्धो लिङ्गस्य साध्ये ऽर्थे । लिङ्ग परायत्तत्वात् प्रतिबद्धम् । साध्यस्त्वर्थो ऽपरायत्तत्वात् प्रतिबन्धविषयः, न तु प्रतिबद्ध इत्यर्थः । तत्रायमर्थः- तादात्म्यविशेषे ऽपि यत् प्रतिबद्धं तद् गमकम् । यत् प्रतिबन्धविषयस्तद् गम्यम् । यस्य च धर्मस्य यो नियत स्वभावः स तत्प्रतिवद्धः । यथा प्रयत्नानन्तरीयकत्वाख्यो ऽनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगम्यकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं निश्चितम् । अतस्तदेवानित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव गम्यगम्यकभावः, नान्यथेति ॥ 21 ॥
22 साध्यार्थतादात्म्यात् साध्यार्थादुत्पत्तेश्च ॥
23 अतत्स्वभावस्यातदुत्पत्ते श्च तत्राप्रतिबद्धस्वभावत्वात् ॥
साध्यार्थतादात्म्यादिति । यस्मात् लिङ्गं क्वचित् साध्यार्थादेवोत्पदयते, तस्मात् तत् तेन प्रतिबद्धमिति ॥ 22 ॥
अथ कथमुच्यते- साध्यार्थतादात्म्यात् साध्यार्थादुत्पत्तेश्चैव लिङ्गस्य प्रतिबन्ध इति चेत्? तत्राह- अतत्स्वभावस्येति ।
यच्च न साध्यैकस्वभावम्, यदपि च नोत्पदयते साध्यार्थात् तस्य तेन प्रतिबन्ध । केन प्रकारेणाभिधीयेत अप्रतिबद्धं च न लिङ्गम्, अतिप्रसङ्गात् । तस्मात् तादात्म्य तदुत्पत्तिभ्यामेव प्रतिबन्धो वक्तव्यः, नान्यथेति ॥ 23 ॥
भवतु तावत् तथिव, ततश्च किमायातमिति चेत्? आह- ते चेति ।
कस्मात् पुनः स्वभावप्रतिबन्धो लिङ्गस्य? इत्याह- वस्तुत इत्यादि । स साध्यो ऽर्थ आत्मा स्वभावो यस्य तत् तदात्मा, तस्य भावस्तादात्म्यम्, तस्माद्धेतोः । यतः साध्यस्वभावं साधनं तस्मात् । तत्र स्वभावप्रतिबन्ध इत्यर्थः ।
यदि साध्यस्वभावं साधनम्, साध्यसाधनयोरभेदात् प्रतिज्ञार्थैकदेशो हेतुः स्यात्? इत्याह- वस्तुत इति । परमार्थसत्तारूपेणाभेदस्तयोः । विकल्पविषयस्तु यत् समारोपित रूपम्, तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः, वास्तवस्त्वभेद इति । न केवलात तादात्म्याद्, अपि तु ततः तदुत्पत्तश्च साध्ये ऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ॥ 22 ॥
कस्मान्निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य, नान्यस्मात्? इत्याह- अतत्स्वभावस्येत्यादि । स स्वभावो ऽस्य सो ऽयं तत्स्वभावः । न तत्स्वभावो ऽतत्स्वभावः । तस्मादुत्पतिरस्य सो ऽयं तदुत्पत्तिः, न तथातदुत्पत्तिः । यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्य अतत्स्वभावस्य अतदुपत्तेश्च । अत्र अतत्स्वभावे अनुत्पादके चाप्रतिबद्धः स्बभावो ऽस्येति सो ऽयमप्रतिबद्धस्वभावः, तस्य भावो ऽप्रतिबद्धस्वभावत्वम्, तस्माद् अप्रतिबद्धस्वभावत्वात् ।
यदयतत्स्वभावे ऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेदन्यतो ऽपि निमित्तात् स्वभावप्रतिबन्धः । प्रतिबधस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिदायत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ॥ 23 ॥
भवतु नाम तादात्म्यदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः, कार्यस्वभाव
24 ते च तादात्म्यतदुत्पत्तौ स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ॥
25 प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ॥
26 सति वस्तुनि तस्या असम्भवात् ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
