Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तादात्म्यं स्वभावहेतोः प्रतिबन्धः । तदुत्पत्तिः कार्यहेतोः प्रतिबन्धः । अत एव ताभ्यामेव वस्तुसिद्धिरित्युक्तम् । यस्मात् तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेव, तस्मात् ताभ्यामेव वस्तुसिधिः शक्या, न त्वन्येन अप्रतिबद्धेन । ततश्च वस्तुसिद्धिर्द्वाभ्यामेवेति स्थितम् ॥ 24 ॥
एकश्च प्रतिषेधहेतुः इत्युक्तम्, को नामासौ? इत्याह- प्रतिषेधेत्यादि । उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः इति यदुक्तं प्राक्, तद् द्वयमेव प्रतिषेधहेतुः ॥ 25 ॥ कथमिति चेत्? आह- सति वस्तुनीति । तथा हि- वस्तुनि विदयमाने सा न सम्भवति ॥ 26 ॥ यथोक्ता अनुपलब्धिरेव वस्त्वभावव्यवहारसाधिका इति, एतच्च कस्मादिति चेत्? आह- अन्यथेति ।
योरेव तु गमकत्वं कथम्? इत्याह- ते चेति । इतिः तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते, तन्निबन्धनश्च गम्यगमकभावः, तस्मात् ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः सिद्धिः ॥ 24 ॥
अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टा? इत्याह- प्रतिषेधेत्यादि । प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मादन्यतो नोक्ता ॥ 25 ॥
ततस्तावत् कस्माद् भवति? इत्याह- सतीत्यादि । सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद् दृश्यानुपलब्धिर्न सम्भवति तस्माद् असम्भवात् ततः प्रतिषेधसिद्धिः ॥ 26 ॥
अथ तत एव कस्माद्? इत्याह- अन्यथा चेति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवाद्- त्यन्यथाशब्दस्यार्थः । एतस्मात् नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ।
कुत एतत्- सत्यपि वस्तुनि तस्याः सम्भवः? इप्याह- अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्चो
27 अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देश काल स्वभावविप्रकृष्टेष्वर्थेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् ॥
28 अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनो ॥
यदि यथोक्तो विशेषो नाश्रीयते, तदा देश कालस्वभावैर्विप्रकृष्टा व्यवहिता ये ऽर्था नोपलब्धिलक्षणप्राप्ताः तेषु च या प्रतिपत्तुप्रत्यक्षनिवृत्तिः, तया अभावनिश्चयो न शक्यते । च इति । यस्मादित्यर्थे बोध्यम् । देशश्च कालश्च स्वभावश्चेति देशकालस्वभावाव् तैविप्रकृष्टेष्वित्यर्थः । तत्रापरिमेयदेशेन व्यवहिता देशविप्रकृष्टाः, अनेक कल्पने व्यवहिताः कालविप्रकृष्टाः, अतीतिन्द्रियाश्च भावाः स्वभाविप्रकृष्टा वेदितव्याः ।
तस्मादिह अनुपलब्धिलक्षणप्राप्ता इत्यनेनोपलब्धिप्रत्ययसाकल्याभाव उक्तः । देशकालस्वभावविप्रकृष्टाः इत्यनेन स्वभावविशेषेण अभाव उपदर्शितः । तस्मात् यथोक्ता अनुपलब्धिरेव प्रतिषेधसाधिका इति स्थितम् । एवं क्वचित् कालविशेषे ऽग्रहे ऽपि यथोक्ता अनुपलब्धिरेव प्रतिषेशसाधिका भवतीत्युच्यते ॥ 27 ॥
इदानीमुक्तकालविशेषेण सिद्धिनिर्देशार्थमाह- अमूढेत्यादि ।
स्मृतिजनकः संस्कारः स्मृतिसंस्कारः । स्मृतिबीजंमिति शेषः । अमूढः स्मृति पलब्धिलक्षणप्राप्तो ऽर्थ उक्तः । द्वयोरेकैकस्याप्यभावे ऽनुपलब्धिलक्षणप्राप्तो ऽर्थ उच्यते ।
तदिह अनुपलब्धिलक्षणप्राप्तेषु इति प्रत्ययान्तरवैकल्यवन्तः उक्ताः । देशकालस्वभावविप्रकृष्टेषु इति स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति बिग्रहः । तेष्वभावनिश्चयस्याभावात् सत्यपि वस्तुनि तस्याभाव इष्टः ।
कस्मान्निश्चयाभावः? इत्याह- तेषु प्रतिपत्तु रात्मनो यत् प्रत्यक्षं तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्मादनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात् सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ॥ 27 ॥
अथेयं दृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्? किंस्वभावा? किंव्यापारा च? इत्याह- अमूढेत्यादि । प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः, तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः, सिद्धत्वात् । अविध्यमानो ऽपि च घटादिरेकज्ञानसंसर्गिणि संस्कारो यस्मिन् घटादौ स तथोकः । अतीतस्य वर्तमानस्य च प्रतिपतृप्रत्यक्षस्य निवृत्तिरिति । अतीतवर्तमानकालयोर्यः शून्यप्रदेशादिरुपलब्धः तत्प्रदेशादिसमानयोग्यो यो घटादिः स एवातीतवर्तमानत्वेनोच्यते । अन्यथा प्रदेशादौ घटाद्यभावे चातीतत्वं वर्तमानत्वं च कुतः स्यात् ।
प्रतिपत्ता च देवदत्तादिः । तस्य प्रत्यक्षेण परिच्चेद्यत्वाद् घटादिः प्रत्यक्षः । अत्रापि प्रत्यक्षापरिच्चेद्यप्रदेशादिसमानयोग्यरूपत्वाद् घटादिः प्रत्यक्ष इत्युच्यते । परमार्थतस्तत्र घटाद्यभावे कथं प्रत्यक्षत्वं स्यात् । एवमुक्तप्रकारेण प्रतिपत्तु प्रत्यक्षस्यातीतस्य वर्तमानस्य च निवृत्तिरभावाश्रितत्वादपरवस्तुलक्षणा । घटादिशून्यदेशविशेषस्वरूपा भवतीति शेषः ।
अभावव्यवहारस्तु इह घटो नास्ति इत्येवमाकारं विज्ञानम्, तदभिधानम्, निःशङ्क पर्देशादौ गमनलक्षण प्रवृत्तिश्च । ज्ञानाभिधानप्रवृत्तिलक्षणो व्यवहारः भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यतया सम्भावितत्वात् प्रत्यक्ष उक्तः । अत एवज्ञानसंसर्गी दृश्यमानो ऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात् तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः, निवृत्तिमात्राद् दृश्यनिवृत्य निश्चयात् ।
ननु च दृश्यनिवृत्तिरवसीयते, दृश्यानुपलम्भात्?3 सत्यमेवैतत् केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृशय् सम्भावितः । ततो दृश्यानुपलब्धिर्निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थया देव च दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद्, दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः सामर्थ्यादवसितः, न व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः ।
तस्मादर्थान्तरम्- एकज्ञानसंसर्गि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्ष निवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिरित्युक्तं द्रष्टव्यम् ।
यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतो ऽपि, तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते चामूढस्मृतिसंस्कारे, वर्तमाने च घटस्य तत्तद्रूपमारोपितमसत इति द्रष्टव्यम् । अनेन च दृश्यानुपलब्धिः प्रत्यक्ष घटनिवृत्तिस्वभावोक्ता, सा च सिद्धा । तेन न घटाभावः साध्यः, अपितु अभावव्यवहार इत्युक्तम् ।
साध्यते ऽनयेति अभावव्यवहारसाधनी । तदेवमतीत वर्तमानोत्पन्नविषया अनुपलब्धिरेव अभावव्यवहारसाधनी, भाविविषया तु नेत्युक्तं भवति । तथा हि भाविकालस्य प्रदेशादिधर्मी न प्रत्यक्ष ।शून्यप्रदेशोपलब्धिलक्षणा अनुपलब्धिरपि न सिध्यति । अतीतकालस्य तु धर्मी प्रत्यक्षः घटशून्यप्रदेशश्च स्मर्यते । तदुभयहेतोरमूढस्मृतिसंस्कार इत्युक्तम् । तस्माद् विगतादिदिवसीयघटादिशून्यप्रदेशादिस्मरणे अभावव्यवहारसिद्धिर्भवति । वर्तमानकालस्य च धर्मी घटादिशून्यप्रदेशादिरपि प्रत्यक्षसिद्धः । तस्मात् तत्राभावव्यवहारसम्बन्धः सुलभः ।
अमूढस्मृतिसंस्कार इत्युक्त्वा हेत्वसिद्धिनिरस्ता । अन्यथा शून्यप्रदेशाद्यस्मरणे ऽनुपलब्धिरेव न सिध्यति । अतीत वर्तमान इत्यनेनोक्तः कालविशेषो निर्दिष्ठः ।
अमूढो ऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटादौ स तथोक्तः । तस्यातीतस्य प्रतिपत्तप्रत्यक्षस्येति सम्बन्धः । वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । अमूढस्मृतिसंस्कारग्रहणं तु न वर्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे ऽमूढो भवति । वर्तमाने तु घटरहितप्रदेशदर्शने न स्मृति संस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे घटे मोहः । तस्मान्न वर्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम् । स्मृतिसंस्कारव्यभिचाराभावाद्वर्तमानस्यार्थस्य । अत एव वर्तमानस्य चेति । च शब्दः कृतो विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति ।
तदयमर्थः- अतीतो ऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं वर्तमानश्च । ततो नासीदिह घटो ऽनुपलब्धत्वान्नास्त्यनुपलभ्यमानत्वादिति शक्यं ज्ञातुम् । न तु न् अभविष्यत्यत्र घटो ऽनुपलप्स्यमानत्वादि शक्यं ज्ञातुम् । अनागताया अनुपलब्धेः सत्त्वसन्देहादिति कालविशेषो ऽनुपलब्धेर्व्याख्यातः ।
व्यापारं दर्शयति- अभावस्य व्यवहारः नास्ति इत्येवमाकारकं ज्ञानम्, शब्दश्चैवमाकारः, निश्शङ्क गमनागमनलक्षणा च प्रवृत्तिः कायिको ऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्क गन्तुमागन्तुं च प्रवर्तते ।
तदेतस्य त्रिविधस्यापि अभावव्यवहारस्य दृश्यानुपलब्धिः प्रवर्तनी साधनी प्रवर्तिका । यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति । अयमेव चाभावनिश्चयः, तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मात् इह घटो नास्ति इत्येव च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः, तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृत ।
29 तस्या एवाभावनिश्चयात् । ॥
30 सा च प्रयोगभेदादेकादशप्रकारा ॥
प्रतिपत्त प्रत्यक्ष इत्युक्त्वा च निखिलप्रतिपत्त प्रत्यक्षं निरस्तम् । निखिलप्रतिपत्तप्रत्यक्षोक्तो हि हेतुरसिद्ध एव स्यात् । सकलप्रतिपत्तप्रत्यक्षनिवृत्तिस्तु प्रतिवाद्यसिद्धा इति ॥ 28 ॥ ।
अनन्तरोक्ता अनुपलब्धिरेवाभावव्यवहारसाधनी इत्येतदेव कस्मात् इति चेत्? आह- तस्या इति । अनुपहतस्मृतिबीजस्य प्रतिपत्तप्रयक्षस्यातीतवर्तमानोत्पन्नविषयवस्तुनो या निवृत्तिस्तयैवाभावनिश्चयः शक्यते, अन्यया भाविविषयया तु न ॥ 29 ॥ तदेवं पूर्वोक्तहेतुना अनुपलब्धिस्वरूपं कालवेशेषश्चाभिहितः । तस्या प्रयोगभेदप्रदर्शनार्थमाह- सा चैति ।
प्रयोग इति त्रिलक्षणसाधनस्य शब्देनाभिधानम् । तद्भदादनुपलब्धिरेकादशप्रकारा भवति ॥ 30 ॥
किञ्च- दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्, सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् । अतो ऽनुपलम्भो ऽभावं व्यवहारयति- दृश्यो यतो ऽनुपलब्धः, तस्मान्नास्ति इति । अतो दृश्यानुपलम्भो ऽभावज्ञानं कृत प्रवर्तयति, न त्वकृतं करोति- इत्यभावनिश्चयो ऽनुपलम्भात् प्रवृत्तो ऽपि प्रत्यक्षेण कृतो ऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यवहारप्रवर्तन्यनुपलब्धिः ॥ 28 ॥
कस्मात् पुनरतीते, वर्तमाने चानुपलब्धिर्गमिका? इत्याह- तस्या एव यथोक्तकालाया अनुपलब्ध्रभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव सन्दिग्धस्वभावा । तस्या असिद्धाया नाभावनिश्चयः, अपि त्वतीतवर्तमानाया इति ॥ 29 ॥
सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह- सा चेत्यादि । सा च एषानुपलब्धिः एकादशप्रकारा एकादश प्रकारा अस्य इत्येकादशप्रकारा ।
कुतः प्रकारभेदः? प्रयोगभेदात् । प्रयोगः= प्रयुक्तिः, शब्दस्याभिधाव्यापार उच्यते । शब्दो हि साक्षात् क्वचिदर्थान्तराभिधायी, क्वचित् प्रतिषेधान्तराभिधायो। सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदः, न तु स्वरूपभेदादिति याअव्त् ॥ 30 ॥
31 स्वभावानुपलब्धिर्यथा- नात्र धूमः इति उपल्ब्धिलक्षणप्राप्तस्यानुपलब्धिरिति ॥ (1)
32 कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति ॥ (2)
प्रकारभेदनिर्देशार्थमाह- स्वभावानुपलब्धिरिति ।
स्वभावस्य वस्तुस्वरूपस्य अनुपलब्धिरित्यर्थः । दृष्टान्तप्रदर्शनार्थमाह- यथेति । दृष्टान्तशब्दः । इह सर्वत्र तथा द्रष्टव्यम् । अत्र इति । अनेन धर्मोउक्तः । धूमो न इति । अनेन साध्यधर्म उक्तः । उपलब्धिप्रत्ययान्तरसत्त्वे ऽपि योग्यस्वभावधूमानुपलब्धिरिति शेषः । ॥ 31 ॥ कार्यानुपलब्धिरिति । कार्यस्य अनुपलब्धिरिति । विग्रहः । दृष्टान्तमाह- यथा नात्र अप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्तीति । अप्रतिबद्धसामर्थ्यानि यानि प्रकारभेदात् आह- स्वभावेत्यादि । प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति । अत्रेति धर्मी । न धूमः इति साध्यम् । उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः । अयं च हेतुः पूर्ववद् व्याख्येयः ॥ 31 ॥
प्रतिषेध्यस्य यत् कार्यम्, तस्यानुपलब्धिरुदाह्रियते- कार्येत्यादि । यथेति । इहेति धर्मी । अप्रतिबद्धम्= अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि । न सन्तीति साध्यम् । धूमाभावादिति हेतुः । कारणानि च नावर्श्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षण भावीन्येव, अन्येषां पर्तिबन्धसम्भवात् ।
कार्यानुपलब्धिश्च यत्र कारणदृश्यं तत्र प्रयुज्यते । दश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका ।
तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसम चालोकसंज्ञकमाकाशदेशे धूमविविक्तं पश्यतिः, तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च वह्नरेप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्माद् तद्देशस्य वहनरभावः प्रतिपत्तव्यः । तद् गृहाङ्गणदेश भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्माद् दृश्यमानादृशय्मानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वह्नयभावप्रतीतिसामर्थ्यायातो धर्मी, न दुश्यमान एव । अत्र इति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्षः ।
33 व्यापकनुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति ॥ (3)
34 स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शः, अग्नेरिति ॥ (4) धूमकारणानि अनलेग्धनादीनि तानि तथोक्तानि । अत्र इत्यनेन धर्मी उक्तः । अप्रतिबद्धसामर्थ्यानि धूमकारणानि न सन्तीत्यनेन साध्यधर्म उक्तः । धुमाभावादिति । यस्मादत्र धूमस्यैभावः, तस्मादिति शेषः । यद्यत्राप्रतिबद्धसामर्थ्यानि धूमकारणानि स्युः, तर्हि धूमो ऽप्युत्पद्यमानः स्यादेव ॥ 32 ॥
व्यापकानुपलब्धिरिति । व्याप्नोतीति व्यापकम्, तस्यानुपलब्धिरित्यर्थः । यथा नात्र सिशपा वृक्ष्त्वादिति । अनेन दृष्टान्त उक्तः । वृक्षस्तु शिशपाया व्यापकः, तस्य निवृतौ सापि निवर्तिता भवति । अत्रेति । अनेन धर्मी उक्तः । वृक्षाभावादिति । अनेन हेतुरुक्तः । शिशपा न इति । अनेन साध्यधर्म उक्तः ॥ 33 ॥
स्वभावविरुद्धोपलब्धिरिति । स्वभावेन विरुद्धः स्वभावविरुद्धः, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र शीतस्पर्शः, अग्नेरिति । अत्रेत्यनेन धर्मी उक्तः । न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि तु अन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षः, अन्यस्तु परोक्षः । तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः, तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं पर्तिपत्तव्यः ॥ 32 ॥
प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मरतस्यानुपलब्धिरुदाह्रियते- व्यापवेत्यादि । यथेति । अत्रेति धर्मी । न शिशपेति । शिशपाभावः साध्यः । वृक्षस्य व्यापकस्य अभावादिति हेतुः । इयमप्यनुपलब्धिर्व्याप्यस्य शिशपात्वस्यदृशय्स्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपलिप्टौ समुन्नतौ देशौ भवतः, तयोरेकरतरुगहनोपेतः, अपरश्चैकशिलाघटितो निर्वृक्षकक्षकः । द्रष्टापि तत्स्थान् वृक्षान् पश्यन्नपि शिशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षम्, अप्रत्यक्षं तु शिशपात्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुअलम्भादवस्यति । शिशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषये ऽस्या अभावसाधनाय प्रयोगः ॥ 33 ॥
प्रतिषेध्यस्य स्वभावेन विरुद्धरयोपलब्धिरदाह्रियते- स्वभावेत्यादि । यथेति । अत्रति धर्मी । न शीतरपर्श इति शीतस्पर्शप्रतिषेधः साध्यः ।
35 विरुद्धकायपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति ॥ (5)
36 विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावो भूतस्यापि भावस्य विनाशो हेत्वन्तरापक्षणादिति ॥
अग्नेरित्यनेन हेतुरुक्तः । न शीतस्पर्श इत्यनेन साध्यधर्म उक्तः । तथा हि- अग्नेः शीतस्पर्शेन विरोधात् तत्सत्त्वे शीतस्पर्शो निवार्यते ॥ 34 ॥
विरुद्धकार्योपलब्धिरिति । विरुद्धस्य कार्य विरुद्धकार्यम्, तस्योपलब्धिरित्यर्थः । यथा नात्र शीतस्पर्शो धूमादिति । अनेन सा अभिधीयते । अत्रेति धर्मी । धूमादिति हेतुः । न शीतस्पर्श इति साध्यधर्मः । शीतस्पर्शविरुद्धो ऽग्निः, तस्य कार्य धूमः । तस्माद् यत्र धूमस्तत्राग्निरपि, तत्राग्निस्तत्र च कुतः शीतस्पर्शः ॥ 35 ॥
विरुद्धव्याप्तोपलब्धिरिति । विरुद्धेन व्याप्तं विरुद्धव्याप्तम् । तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा न ध्रुवभावो भूतस्यापि भावस्य विनाश इति । ध्रुवभावीति निश्चितभवनधर्मा इति शेषः । भूतस्यपि भावस्येति । जातस्य भावस्येति वह्नेरिति हेतुः । इयं चानुपलब्धिस्तत्र प्रयोक्तव्या यत्र शीतस्पर्शो ऽदृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् । तस्माद् यत्रे वर्णविशेषाद् वह्निर्द्दश्यः, शीतस्पर्शो दूरस्थत्वात् सन्नप्यदृश्यः, तत्र प्रयोगः ॥ 34 ॥ प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः स्यात्, तत्र दृश्यानुपलब्धिर्गमिका । यत्र वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते ।
तत्र समस्तपवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात् पश्यति, तदा विशिष्टाद् वह्नरनुमिताद् शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वो ऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात्पूर्ववद् द्रष्टव्य इति ॥ 35 ॥
प्रतिषेधस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या । यथेति । ध्रुवम्= अवश्यम् भवतीति ध्रुवभावो । नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । भूतस्यापि भवस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यम्भावी, किमुत अजातस्य इति अपिशब्दार्धः । जनकाद् हेतोरन्यो हेतुः हेत्वन्तरम् मुद्गरादि । तदपेक्षते
37 कार्यविरुधोअलब्धिर्यथा- नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति ॥
शेष । भूतस्यापि भाव्स्य विनाशः इत्यनेन धर्मी उक्तः । न ध्रुवभावी इत्यनेन साध्यधर्म उक्तः । तेन जातस्यैव भावस्य विनाशो न नित्य इत्यमर्थः पर्यवसितः ।
कथमेतदिति चेद्? आह- हेत्वन्तरापेक्षणादिति ।
एवं हि हेत्वन्तरापेक्षा अङ्गीक्रियते । येषां हेत्वन्तरापेक्षा, ते नावश्यम्भाविनः, यथा कार्षासे रक्तता । इहापि ध्रुवभावित्वमध्रुवभावित्वेन विरुद्धम् । तेन हेत्वन्तरापेक्षणं व्याप्तम् । तस्माद् यत्र हेत्वनन्तरापेक्षा तत्राध्रूवभावित्वम् । यत्राध्रुवभावित्वं तत्र ध्रुवभावित्वं कुतः ॥ 36 ॥
कार्यविरुद्धोपलब्धिरिति । कार्येण विरुद्धं कार्यविरुद्धम्, तस्योपलब्धिरिति शेषः । विनश्वरः । अपेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नाम अध्रुवभावित्वेन व्याप्तम् । यथा- वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमद्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश्च विनश्चरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनात् ध्रुवभावित्वनिषेधः ।
इह ध्रुवभावित्वं नित्यत्वम्, अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा च सति परस्परपरिहारवतोर्द्वयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यताभ्युपगतस्य सम्भवति । यत एवं तादात्म्यनिषेधः क्रियते- यदययं दृश्यमानो नित्यो भवेत्, नित्यरूपो दृश्येतः, न च नित्यरूपो दृश्यते, तस्मान्न नित्यः । एवं च प्रतिषेधस्य नित्यत्वस्य दृश्यमानात्मकत्वमभ्युपगम्य प्रतिषेदह्ः कृतो भवति । वस्तुनो ऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मकत्वनिषेधः क्रियते, दृश्यात्मकत्वमभ्युपगम्य कर्तव्यः । यदययं घटो दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत्, न च दृष्टः, तस्मान्न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनो ऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्यप्रतिषेधः । तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तद्वत् सरव्स्य परस्परपरिहारवतो ऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भदेव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥ 36 ॥
प्रतिषेध्यस्य यत् कार्य तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति ।
38 व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पर्शो वह्नरिति ॥
39 कारणानुपलब्धिर्यथा- नात्र धूमो ऽग्न्यभावादिति ॥
दृष्टान्तमाह- यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सत्यग्नेरिति । इहेति धर्मी । अग्नेरिति हेतुरुक्तः । नाप्रतिवद्धसामर्थ्यानि शीतकारणानि सन्तीति । साध्यधर्म उक्तः ।
अत्र शीतकारणानां कार्य शीतम् । शीतं चाग्निना विरुद्धम् । यत्राग्निस्तत्र कुतः शीतप्रवेशः । यत्र शीतस्पर्शस्तत्राप्रतिबद्धसामर्थ्यानि शीतकारणानि च कथमपि न । यदि स्युस्तादृशानि, तर्हि अवश्यं शीतस्पर्शो ऽपि स्यात् ॥ 37 ॥
व्यापकविरुद्धोपलब्धिरिति । व्यापकेन विरुद्धं व्यापकविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नात्र तुषारस्पर्शो ऽग्नेरिति । अत्रेति । अनेन धर्मी उक्तः । अग्नेरिति । अनेन हेतुरुक्तः । न तुषारस्पर्श इति । अनेन साध्यधर्म उक्तः । तुषारस्पर्शः= हिमस्पर्शः । तस्य व्यापकः शीतस्पर्श, तद्विरुद्धो ऽग्निः । तस्माद् यत्राग्निस्तत्र शीतस्पर्शः कुतः । यत्रा च शीतस्पर्शस्तत्र तुषारस्पर्शो ऽपि कथमपि न ॥ 38 ॥
कारणानुपलब्धिरिति । कारणस्यानुपलब्धिः कारणानुपलब्धिरिति विग्रहः । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यंयेषां शीतकारणानां शीतजननं प्रति, तानि न सन्ति- इति साध्यम् । वह्नरिति हेतुः ।
यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शो ऽप्यदृश्यः, तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः, दृश्यानुपलब्धर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्नुद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्, प्रतिपत्तु र्वह्निर्भास्वरवर्णत्वाद् दूरादपि दृश्य तत्रायं प्रयोग इति ॥ 37 ॥
प्रतिषेध्यस्य यद् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिरुदाहतव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नरिति हेतुः ।
यत्र व्याप्यस्तषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः, तत्रायं हेतुः । तयोदृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च सत्यभावसाधनीयम् । दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः । शीतमात्रं च परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थो ऽपि प्रत्यक्षः । ततो वह्नः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषये ऽस्याः प्रयोगः ॥ 38 ॥
प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणम्- यथेति । अत्रेति
40 कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषः, सन्निहितदहनविशेषात्वादिति ॥
दृष्टान्तमाह- यथा नात्र धूमो ऽग्न्यभावादिति । अत्रेति, अनेन धर्मी उक्तः । अग्न्यभावादित्यनेन च निर्दुष्टो हेतुः कीर्तितः । न धूम इति । अनेन साध्यधर्म उक्तः । इह चाग्नेः कार्य धूम इति । यत्राग्न्यभावस्तत्र धूमो ऽपि कथमपि न ॥ 39 ॥
कारणविरुद्धोपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्योपलब्धिरित्यर्थः । दृष्टान्तमाह- यथा नास्य रोमहर्षादिविशेषा इति । अस्यति । अनेन धर्मी उक्तः । न रोमहर्षादिविशेष इत् । अनेन साध्यधर्म उक्तः । रोमहर्षास्तु रोम्णामुद्भदेः । स आदिर्येषां ते रोमहर्षादयाः । आदिशब्देन दन्तसङ्घर्षण- शरीरकम्पादीनां परिग्रहः । ते च रोमहर्षादय एव विशेषा इति रोमहर्षादिविशेषाः । भय- प्रीत्यादिभिरपि रोमहर्षादिर्जायते । तस्य व्यवच्चेदार्थ विशेष इत्युक्तम् । इह च शीतवायुपीडितस्य ये रोमहर्षास्ते एव बोध्याः ।
सन्निहितदहनविशेषत्वादिति । अत्र दहनविशेषस्त्वग्निविशेषः । सन्निहित इति । समीपवर्ती । सन्निहितो दहनविशेषो यस्य स सन्निहितदहनविशेषः, तस्य भावस्तत्त्वम्, तस्मात् सन्निहितदहनविशेषत्वात् । यादृशो ऽग्निविशेषः शीतधर्मी । न धूम इति साध्यम् । वह्नयभावादिति हेतुः । यत्र कार्य सदपि अदृश्यं भवति, तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततो ऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते ह्नदे हेमन्तोचितबाष्पोद्गमे विरले सन्ध्यातमसि सति सन्नपि अत्त्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते । वह्निस्तु यदि तस्याम्भसः उपरि ष्लवमानो भवेत् प्रज्वलितः, रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणनिबन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य एव वह्निरिति तत्रास्य प्रयोग इति ॥ 39 ॥
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्योपलब्धेरुदाहरणम्- यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भदः, स आदिर्येषां दन्तवीणादीनां शीतकृतानाम् ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद् दहनाच्चीतनिवर्तनसामर्थ्यनेति दहनविशषः । कश्चिद् दहनह् सन्नपि न शीतनिवर्तनक्षमः, यथा प्रदीपः । तादृशनिवृतये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यः, रोम-
41 कारणविरुद्धकार्योपलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषवा यं प्रदेशः धूमादिति ॥
निराकरणसमर्थस्तादृशस्य सिद्धयर्थ विशेष इत्युक्तम् । तथाहि- अत्र रोमहर्षादि विशेषस्य हेतुः शीतस्पर्शः, तद्विरुद्धो ऽनिः । अग्नितापः शीतनिवारकः । शीतविवृतौ रोमहर्षादिविशेषाः कथमपि न स्युः ॥ 40 ॥
कारणविउर्द्धकार्योपलब्धिरिति । कारणेन विरुद्धं कारणविरुद्धम्, तस्य कार्य कारणविरुद्धकार्यम्, तस्योपलब्धिः । कारणविरुद्धकार्योपलब्धिः । दृष्टान्तमाह- यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति । अयं प्रदेश इत्यनेन धर्मी उक्तः । धूमादित्यनेन हेतुरुक्तः । न रोमहर्षादिविशेषयुक्तपुरुषवानित्यनेन साध्यधर्म उक्तः ।
रोमहर्षादिविशेषेण युक्तो रोमहर्षादिविशेषयुक्तः । रोमहर्षादिविशेषयुक्तश्चासौ पुरुषश्चेति रोमहर्षादिविशेषयुक्तपुरुषाः, स विदयते यस्मिन् प्रदेशे स रोम हर्षादिविशेषयुक्तपुरुषवान् ।
इह रोमहर्षादिविशेषस्य कारणं शीतस्पर्शः । तद्विरुद्धो ऽग्निः । अग्निकार्य धूमः ।
हर्षादिविशेषाश्चादृश्याःव् तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपल्ब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्माद्भवसाधनो ऽयम् । रूपविशेषाद्धिदूराद् दहनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याभावं प्रतिपद्यत इति तत्रास्य प्रयोग इति ॥ ।40 ॥
प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत् कार्यं तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं प्रदेश इति धर्मी । योगो युक्तम् । रोमहर्षादिविशेषाइयुक्तं रोमहर्षादिविशेषयुक्तम्, तस्य सम्बन्धी पुरुषो रोमहर्षादिविशेषयुक्तपुरुषः, तद्वान् न भवतीति साध्यम् । धूमादिति हेतुः ।
रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वहन्स्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्याः । त्रयाणामप्यदृस्यत्वे ऽयं प्रयोगः । तस्मादभावसाधनो ऽयम् । तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तो ऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत् प्रमाणम् । धूमस्तु यदुशस्तद्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्नरनुमापकः स इह ग्राह्यः ।
धूममात्रेण तु वह्निमात्रे ऽनुमिते ऽपि न शीतस्पर्शनिवृतिः, नापि रोम
42 इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धो संग्रहनुपयान्तीति ॥
43 पारम्पयेणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि ॥
तस्माद् यत्र धूमस्तत्राग्निः । यत्राग्निस्तत्र न शीतस्पर्शः । यत्र न शीतस्पर्शस्तत्र शीतकार्याणि रोमहर्षादिविशेषाः कथं स्युः ॥ 41 ॥
पूर्वमुपलब्धिक्षणप्राप्तस्यानुपलब्धिरेकः प्रतिषेधहेतुरुक्तः, अथ कथं कार्यानुपलब्ध्यादिभिः स्वभावविरुद्धोपलब्ध्यादिभिश्च प्रतिषेध इति चेत्? तत्राह-
इमे इति । अव्यवहितोक्ताः । सर्वे इति निखिला दशसङ्खयापरिच्चिन्नाः । अनुपलब्धिप्रयोगाश्च स्वभावानुपलब्धावन्तभवन्ति ॥ 42 ॥
स्वभावानुपलब्धिप्रयोगश्चान्यः, कार्यानुपलब्ध्यादिरप्यन्यः । तथा हि- कार्यानुपलब्ध्यादिषु अर्थान्तरप्रतिषधः, स्वभावविरुद्धोपलब्ध्यदिषु चार्थान्तरविधिः । कथं तर्हि तस्यामन्तर्भव इति चेत्? तत्राह- अर्थान्तरेत्यादि । हर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ 41 ॥ यदि एकः प्रतिषेधहेतुरुक्तः, कथमेकदशाभावहेतवः? इत्याह- इमे सर्वे इत्यादि । इमे अनुपल्ब्धिप्रयोगाः । इदमननरप्रक्रान्ता निर्दिष्टाः । तत्र कियतामपि ग्रहणे प्रसक्तः? आह- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यदीनामै त्रयाणां चतुर्णा वा गरहणे प्रसक्तः? आह- दशेति । तत्र दशानामप्युदाहरणमात्राणां ग्रहणप्रसङ्ग सत्याह- सर्व इति ।
एतदुक्तं भवति- अप्रयुक्ता अपि प्रयुक्तोदाहरणसदशाश्च । सर्व एवेति । दशग्रहणमन्तरेन सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकात्स्न्र्य रम्येत । दशग्रहणात् तु उदाहरणकात्स्न्र्ये ऽवगते सर्वग्रहनामतिरिच्यमानमुदाहृतसदृशकात्स्न्र्यावगतये जायते ।
ते स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्चन्ति । स्वभावानुपलब्धिस्वभावा इत्यर्थः ॥ 42 ॥
ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपल्ब्ध्यादयः, तत् कथमन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रयोगभेदे ऽपीति । प्रयोगस्य शब्दव्यापारस्य भेदे ऽप्यन्तर्भवन्ति । कथं प्रयोगभेदः? इत्याह- अर्थान्तरविधीति । प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धादयुपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन
44 प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्चेदप्रतीतिर्भवतीति स्वार्थे ऽप्यनुमाने ऽस्या प्रयोगनिर्देशः ॥
यह्यपर्थान्तरविधिप्रतिषेधाभ्या प्रयोगभेद एव, तथापि परम्परया तस्या मन्तर्भावो ऽभिप्रेतः, न तु वस्तुतः । तथाहि क्वचित् कार्यानुपल्ब्धी धूमाभावेन धूमहेतोरप्रतिबद्धसामर्थ्यस्य अभावे सिद्धे अभावप्रतीतिर्भवति । यत्र यत्र धूमाभावस्तत्र तत्रोपलब्धिलक्षणाप्राप्तस्यैव तद्धेतोरनुपलब्धिरिति स्वभावानुपलब्धावन्तर्भवति ।
प्रतिपत्तु णां चिन्ताभेदाद् भेदः- कस्यचित् कार्याभावद्वारेण हेत्वभावप्रतीतिः, कस्यचित्तु स्वभावद्वारेण । तथैव व्यापकानुपलब्धेः कारणानुपलब्धेश्च परम्परया अन्तर्भावो ऽवगन्तव्यः । स्वभावविरुद्धोपलब्धी चाग्निना शोताभावप्रतीतिः । यत्राग्निस्तत्रोपलब्धिलक्षणप्राप्तस्य शीतस्पर्शस्यैवानुपलब्धिरिति स्वभावानुपलब्धावन्तर्भावः ।
विरुद्धव्याप्तोपलब्धावपि हेत्वन्तरापेक्षया सर्ववर्णेषु प्रकाशस्वभावो ऽपि स्वभावानुपलब्धिवदेव । तथा कारणविरुद्धकार्योपलब्धावपि धूमेनाग्निसिद्धिः । शीतनिवृतौ च तत्र तद्विपरीतस्य रोमहर्षादिविशेषयुक्तपुरुषस्याभावसिद्धिः । सा च तत्रोपलब्धिलक्षणप्राप्तता{द्सि}हपुरुषस्यानुपलब्धिरिति स्वभावानुपलब्धावेवान्तर्भवति । ॥ 43 ॥
ये च कार्यकारणद्वयव्याप्त्यभेदैर्भेदाभवेनोपचारात् स्वभावानुपलब्धो अन्तर्भवन्ति इत्याहुः, तेषां तदुपचारेणन्तर्भावः, परमार्थतस्तु न प्रतिज्ञैकदेशस्यापि हेतुत्वे सति परम्परार्थो ऽपि न रम्यः ।
स्वभावविरुद्धोपलब्ध्यादिषु च विजातीयप्रमाणेन निवृत्याभिधानमिति किं केन समानं स्यात् । स्वार्थानुमाने प्रयोगे न सम्भवति । तत्रानुपलब्धिप्रयोगप्रकारविशेषा एकादश इति कुत इति चेत्? तस्मादाह- प्रयोगदर्शनेत्यादि ।
च प्रयोगाः भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ, कथं तर्हि अन्तर्भवन्ति? इत्याह- पारम्पर्येणेति । प्रणालिकयेत्यर्थः ।
एतदुक्तं भवति- न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलभ्द्यभिचारिणस्त्वर्थान्तरस्य विधि निषेधं वाभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ संग्रहः, न साक्षादिति ॥ 43 ॥
यदि प्रयोगभेदादेष भेदः, पराथानुमाने वक्तव्य एषः, शब्दभेदो हि प्रयोगभेदः, शब्दश्च परार्थानुमानम्? इत्याशङ्कयाह- प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रपरिपठिटानां दर्शनम्= उपलम्भः, तस्य अभ्यासः= पुनः पुनरावर्तनम्, तस्मान्निमित्तात् ।
स्वयमपीति । प्रतिपत्तुरात्मनो ऽपि । एवम् इत्यनन्तरोक्तेन कमेण । व्यवच्चेदस्य प्रतीतिर्भवतीति इतिशब्दस्तस्मादर्थे ।
45 सर्वत्र चास्यामभवव्यवह्रसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तः, तेषामुपलब्धिलक्षणप्राप्तानामेवो पलब्धिरनुपलब्धिश्च वेदितव्या ॥
प्रयोगाणां दर्शनम्= प्रतीतिः । तस्याः पौनःपुन्येनावर्तनम्= अभ्यासः । तस्मात् प्रयोगेष्वभ्यासातिशयात् स्वयमपि यदा कस्यचित् व्यवच्चेदप्रतीतिर्भवति, तदा प्रयोगरूपेणैव प्रतीतिर्भवति । अत एव स्वार्थानुमाने ऽपि अनुपलब्धिप्रयोगस्य विशेषनिर्देशः । व्यवच्चेदप्रतीतिः प्रतिषेधप्रत्यायनमिति शेषः । यद्वा- व्यवच्चेदप्रतीतिः विशेषप्रतिपत्तिरिति शेषः ॥ 44 ॥
स्वभावानुपलब्धेर्विशेष उक्तः । कार्यानुपलब्ध्यादौ तद्भावात् कथमव्यभिचारित्वमिति चेत्? तत्राह- अभावेति । अभावव्यवहारसाधन्यो बहुप्रकारा या अनुपलब्धयो ऽभिहिताः, ताः सर्वास्तद्विशेता एव द्रष्टव्याः । यदि कारणादेरुपलब्धि-
तदयमर्थः- यस्मात् स्वयमप्येवमनेनोपायेन प्रतिपद्यते, प्रयोगाभ्यासात्ः तस्मात् स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः । यत् पुनः परप्रतिपत्तावेवोयुज्यते, तत् परार्थानुमान एव वक्तव्यमिति ॥ 44 ॥
ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव निषेधः, दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात् तथा च सति न तेषां दृश्यानुपलब्धेनिषेधः, तत् कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः? इत्याह सर्वत्र चेत्यादि । अभवश्च तद्वयवहारश्च अभावव्यवहारौ । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति । च शब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव प्रतिषेधः । तस्माद् दृश्यानुपलब्धावन्तर्भवः ।
कुत एतद् दृश्यानामेव? इत्याह- स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात् स्वभावविरुद्ध आदिर्यषां तेसामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तः, तस्माद् दृश्यानामेव प्रतिषेध इत्यर्थः ।
यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तः, तथापि कथं दृश्यानामेव प्रतिषेधः? इत्याह- उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद् ये विरोधिनः व्याप्य- व्यापकभूताः कार्यकारणभूताश्च ज्ञाताः, तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धि-
46 अन्येषां विरोध कार्य कारणभावाभावासिद्धेः ॥ लक्षणप्राप्तस्यानुपलब्धिः स्यात्, तदा कार्यादेः प्रतिषेधसिद्धिः सम्भवति, नान्यत्र ॥ 45 ॥ स्वभावविरुद्धादिरपि यदि उपलब्धिलक्षणप्राप्त एव स्यात्, तदा विपरीतप्रतिषेधे समर्थः, नान्यथा । कथमिति चेत्? तत्राह- अन्येषामिति ।
विरोधश्च कार्यकारणभावश्च अभावश्च विरोधकार्यकारणभावाभावाः, तेषाममसिद्धिरित्युक्तम् । तदेवं ये नोपलब्धिलक्षणप्राप्तास्तेषां विरोधीऽसिद्धः, विरोधाभावो ऽप्यसिद्धः, कार्यकारणभावो ऽसिद्धः, कार्यकारणभावाभावो ऽप्यसिद्धः- इत्येतत् प्रदर्शितं भवति ।
वेदितव्या= ज्ञातव्या । उपलब्ध्यनुपलब्धी च द्वेयेषां स्तः, ते दृश्या एव । तस्मात् स्वभाप्रविरुद्धाद्यु पलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।
बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं च समाधानमस्ति, तस्माद् तत्तच्चोद्यमयुक्तमिति चकारार्थः ॥ 45 ॥
कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये? इत्याह- अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भयो ऽन्ये ऽनुपलब्धा एव ये तेषां विरोधश्च कार्यकारणभावश्च केनचित् सह अभावश्च व्याप्यस्य व्यापकस्याभावे न सिध्यति, यस्मात् ततो विरोधकार्यकारणभावाभावासिद्धे कारणाद् उपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः । उभयवत्नश्च दृश्या एव । तस्माद् दृश्यानामेव प्रतिषेधः ।
तदयमर्थः- विरोधश्च कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति । एकसन्निधावपराभावप्रतीतो ज्ञातो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्यये ऽवसितः कार्यकारणभावः । व्यापकाभिमताभावे च व्याप्याभिमताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र व्याप्यव्यापकभावप्रतीतेनिमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधम्, कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध कार्यकाअर्णभाव व्याप्यव्यापकभावविषयाभावप्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीना
47 विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ॥
तथाहि- उपलब्धिलक्षणप्राप्तस्य नियतानुषङ्गीणो ये दृष्टास्तत्सन्निधाने कस्यचित् तिरोभावे तेन सह विरोधस्य प्रत्यायनं शक्यम् । यच्च सन्निहितं तदपि तथैव विरुद्धम् । तदुपलब्धौ तु विरोधाभव इति निश्चीयते ।
एवमुपलब्धिलक्षणप्राप्तस्य यस्य सत्त्वे उपलब्धिलक्षणप्राप्तमदृष्टपूर्व यदुपलभ्यते, तदभावे नोपलभ्यते । तत्तस्मादुत्पदयते इति तद्द्वयोः कार्यकारणभावो निश्चीयते । यदभावे ऽपि यदुपलब्धिः, तद्द्वयोः कार्यकारणभावाभावो निश्चीयते । एवमपि अभावव्यवहारसिद्धिरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसमाश्रिता इत्युक्तं भवति ॥ 46 ॥
ननु तदन्येनापि क्वचित् सिद्धिरिति चेत्? उच्यते- विप्रकृष्टेत्यादि । विप्रकृष्टी यो विषयः प्रत्यक्षानुमाननिवृत्तिस्वभावः स संशयस्य हेतुः, न स्वभावव्यवहारहेतुः ॥ 47 ॥
मस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाववश्यस्मर्तव्यार्या तत एवाभावप्रतीतिः ।
तत्र यद्यपि सम्प्रतितनी नास्ति दृश्यानुपलब्धिः, विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः सम्प्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति दृश्यानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।
विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता, ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानाममनुपलब्धिप्रयोगाणां पारम्पर्येण दर्शित इत्यवसेयम् ॥ 46 ॥
उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारसाध्ये च प्रमाणम्, अदृश्यानुपलब्धिस्तु किंस्वभावा? किंव्यापारा? इत्याह- विप्रकृष्टेत्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभवविप्रकर्षैर्यस्या विषयः स विप्रकृष्टविषयेति संशयहेतुः । किस्वभावा सा? इत्याह- प्रत्यक्षानुमाननिवृत्तिर्लक्षाणं स्वभावो यस्याः सा प्रत्यक्षानुमाननिवृत्तिलक्षाणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥ 47 ॥
48 प्रमाणनिवृत्तावपि अर्थाभावसिद्धेरिति ॥
तदेव कस्मात्? इत्याह- प्रमानेत्यादि ।
प्रमाणनिवृत्तिलक्षणा विप्रकृष्टविषयानुपलब्धिः, प्रमाननिवृत्तिरपि अर्थाभावं न साध्यति । प्रमाणं तु अर्थकार्यमिति प्रमाणनिवृत्त्या कारणमात्रनिवृत्तिनं सिध्यतीति ॥ 48 ॥
इति न्यायविन्दुविस्तरटीकायां शिष्यहितायां द्वितीयः परिच्चेदः ॥
ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था, ततः प्रमाणाभावात् प्रमेयाभावप्रतिपत्तिर्युक्ता? इत्याह- प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमानं कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य करणम्, नापि व्यापकम् । अतः प्रमाणयोनिवृत्तवपि अर्थस्य प्रमेयस्य निवृत्तिनसिध्यति । ततो ऽसिद्धः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत् पुनह् प्रमाणसत्तया प्रमेयसत्ता सिध्यति, तद्युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति ॥ 48 ॥
आचार्यधर्मोत्तरकृतायां व्यायबिन्दुटीकायां स्वार्थानुमानं नाम द्वितीयः परिच्छेदः ॥
तृतीयः परार्थानुमानपरिच्छेदः
1 त्रिरूपलिङ्गाख्यानं अप्रार्थमनुमानम् ॥
2 कारणे कार्योपचारात् ॥
सम्यग्ज्ञाननिरूपणप्रसङ्गेन स्वार्थपरार्थभेदेन अनुमानं द्विविधमङ्गीकृतम् । तत्र स्वार्थ सप्रपञ्चं निरूपितम् । परार्थानुमानाभिधानार्थमेवमनुजानीते त्रिरूपेत्यादि ।
आख्यायते ऽनेनेति आख्यानम् । वचनमिति । त्रीणि रूपाणि सन्ति यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं चेति त्रिरूपलिङ्गम् । तस्य आख्यानमित्यर्थः ॥ 1 ॥
अनुमानं च सम्यग्ज्ञानमित्युक्तम्, कथमनुमानं वचनमिति चेत्? तत्राह- कारण इति ।
स्वार्थ- परार्थानुमानयोः स्वार्थ व्याख्याय, परार्थ व्याख्यातुकाम आहत्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि- अन्वय व्यतिरेक पक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् । आख्यायते= प्रकाश्यते ऽनेनेति त्रिरूपं लिङ्गमिति आख्यानम् । किं पुनस्तत्? वचनम् । वचनेन हि त्रिरूपं लिङ्गमाख्यायते । परस्मायिदं परार्थम् ॥ 1 ॥
ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम्, तत् किमर्थ सम्प्रति वचनात्मकमनुमानमुच्यते? इत्याह-कारणे कार्योपचारादिति । त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पदयते, स्मृतेश्वानुमानम् । तस्मादनुमानस्य परंपरया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् कारणे वचने कार्यस्यानुमानस्य उपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमानशब्दे नोच्यते । औपचारिकं वचनमनुमानम्, न मुख्यमित्यर्थआः । न यावत् किञ्चित् उपचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्व व्याख्येयम्, किन्त्वनुमानं व्याख्यातुकामेन अनुमानस्वरूपस्य व्याख्येयत्वान्निमितं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति । तस्माल्लिङ्गस्य स्वरूपं च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश्च शब्द
3 तद् द्विविधम् ।
4 प्रयोगभेदात् ॥
5 साधर्म्यवद् वैधर्म्यवच्च ॥
कारणं हि वचनम्, कार्य चानुमानमिति वचने तस्मिन्ननुमानारोपात् तद्वचनमेवानुमानमित्यभिधीयते । अनुमानकारणत्वात् अनुमानम् इत्युच्यते इति शेषः ॥ 2 ॥
तद्द्विविधमिति । अत्र तदिति परार्थानुमानम् । त्रिरूपलिङ्गाख्यानं तत् ॥ 3 ॥
कथं द्विविधमिति चेत्? आह- प्रयोगभेदादिति । प्रयोगस्तु शब्दत उपस्थानम् । तस्य भेदेन द्वैविध्यमिति ॥ 4 ॥
किं तत् प्रकारहेयमिति आह? आह- साधर्म्यवदिति । समानो धर्मो यस्य स सधर्मा, सधर्मणो भावः साधर्म्यम्, तदयस्यास्ति तत् साधर्म्यवत् । विसदृशो धर्मो यस्य स विधर्मा, विधर्मणो भावो वैधर्म्यम्, तदयस्यास्ति तद् वैधर्म्यवत् । अन्वयवत् व्यतिरेकवच्चेति शेषः ॥ 5 ॥
इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्देनोक्तवानाचार्य इति परमार्थः ॥ 2 ॥
परार्थानुमानस्य प्रकारभेदं दर्शयितुकाम आह- तद् द्विविधमिति । तदिति परार्थनुमानम् । द्वौ विधौ= प्रकारौ यस्य तद् द्विविधम् ॥ 3 ॥
कुतो द्विविधम्? इत्याह- प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः= प्रयोगः, अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदाद् द्विविधमनुमानम् ॥ 4 ॥
तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह- साधर्म्यवत् वैधर्म्यवच्चेति । समानो धर्मो ऽस्य सो ऽयं सधर्मा, तस्य भावः साधर्म्यम् । विसदृशो धर्मो ऽस्य विधर्मा, विधर्माणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत् साधर्म्यवत् । यथा यत् कृतकं तदनित्यम्, यथा घटः, तथा च कृतकः शब्दः इत्यत्र कृतकत्वकृतं दृष्टान्त साध्यधर्मिणोः सादुश्यभिधेयम् । यस्य तु वैधर्म्यमभिधेयं तद् वैधर्म्यवत् । यथा- यन्नित्यं तदकृतकं दृष्टम्, यथा आकाशम्, शब्दस्तु कृतकः इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्य दृष्टान्तधर्मोणोरसादृश्यमिहाभिधेयम् ॥ 5 ॥
6 नानयोरर्थतः कश्चिद् भेदः ॥
7 अन्यत्र प्रयोगभेदात् ॥
8 तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो ऽद्वयव हारविषयः सिद्धः, यथान्यो दृष्टः कश्चिद् शशविषाणादिः । नोपलभ्यते च क्वचित् प्रदेशविशषे उपलब्धिलक्षणप्राप्तो घटः- इत्यनुपलब्धिप्रयोगः ॥
यदि साधर्म्यप्रयोगो ऽन्वयवान्, वैधर्म्यप्रयोगश्च व्यतिरेकवान्, तर्हि अर्थतो ऽपि भेदः स्यात्, तत् कस्मात् प्रयोगभेदेन द्विविधमित्युच्यते इति चेत्? तत्राह नानयोरिति ।
साधर्म्यवानपि त्रिरूपापेक्षः, वैधर्म्यवानपि त्रिरूपापेक्षः । तस्मात् सर्वत्र त्रिरूपसत्त्वादर्थतो भेदलेशो ऽपि नास्ति ।6 ॥
अन्यत्र प्रयोगभेदादिति । इह प्रयोगस्यैव भेदः, न तु सर्वथापि । तथा हि- प्रथमे वस्तुतो ऽन्वयाभिधाने ऽपि व्यतिरेकः सामर्थ्यादवगम्यते । द्वितीये च वस्तुतो व्यतिरेका भिधाने ऽपि अन्वयो ऽर्थाज्ज्ञायते ॥ 7 ॥
तत्र साधर्म्यवतः प्रथममुपन्यासः । यदुपलब्धिलक्षणप्राप्त सन्नोपलभ्यते सो ऽसद्वयय्द्यनयोः प्रयोगयोरभिधेयं भिन्नम्, कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यम्? इत्याह- नानयोरर्थत इति । अर्थः प्रयोजनम् । यत् प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्यते, ततः प्रयोजनादनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्ग प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्ग प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् ॥ 6 ॥
अभिधेयभेदो ऽपि तर्हि न स्यात्? इत्याह- अन्यत्र प्रयोगभेदादिति । प्रयोगः अभिधानम्, वाचकत्वम् । वाचकत्वभेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः ।
एतदुक्तं भवति- अन्यदभिधेयमन्यत् प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भेद्यते, प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेदः, तत्र सामर्थ्यगम्यो ऽप्यर्थो भिद्यते । यस्मात् पीनो देवदत्तो दिवा न भुंक्ते पीनो देवदत्तो रात्रौ भुंक्ते इत्यनयोवक्यियोरभिधेयभेदे ऽपि गम्यमानमेकमेव, तद्वदिहाभिधेयभेदे ऽपि गमय्मानं वस्तु एकमेव ॥ 7 ॥
9 तथा स्वभावहेतोः प्रयोगः- यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ॥
वहारविषयः सिद्ध इति । अत्रानुपलब्धेरन्वय उक्तः । यथा दृष्टः कश्चित् शशविषाणादिरिति । असद्वयवहारस्य विषयो दृष्टः । तस्योदाहरणम्- शशविषाणादिः दृष्ट इति सिद्धः । परीक्षित इति शेषः । तेन दृष्टान्तकथनं नोपलभ्यते इति अनेन पक्षधर्म उक्तः ॥ 8 ॥
स्वभावहेतोः प्रयोग इति । द्वितीयस्य हेतोः साधर्म्यवान् प्रयोग उपदर्श्यते यत् तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यवत् तावदुदाहरन्ननुपलब्धिमाह- यदित्यादिना । यद् दृश्यम् । सन्नोपलभ्यते- इत्यनेन दृश्यानुपलम्भो ऽनुद्यते । सो ऽसद्वयवहारवीषयः सिद्धः । तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्वयवहारयोग्यत्वस्य विधिः कृतः । ततश्चास्द्वयवहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यमनुपलब्धमसद्वयवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्ये ऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम्- व्याप्तिर्व्यापकस्य तत्र भाव एव व्याप्यस्य वा तत्रैव भावः इति । व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह- यथान्य इति । साध्यधर्मिणो ऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति । प्रमाणेन निश्चितः । शशविसाणं हि न चक्षुषा विषयीकृतम् । अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्वयवहारयोग्यं विज्ञातम् । शशविषाणमादिर्यस्य असद्वयवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्रनिमित्तो ऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्ये नाभिधीयमाना व्याप्तिर्ज्ञातव्या ।
सम्प्रति व्याप्ति कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह नोपलभ्यते चेति । प्रदेशः= एकदेशः पृथिव्याः । स एव विशिष्य्ते ऽन्यस्मादिति विशेष एकः । प्रदेशविशष इति । एकस्मिन् प्रदेशे । क्वचिदिति । प्रतिपत्तः प्रत्यक्ष एको ऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तः प्रत्यक्षः, नान्यः । उपलब्धिलक्षणप्राप्त इति । दृश्यः । यथा चासतो ऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ॥ 8 ॥
स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह- तथेति । यथानुपलब्धेः, तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः । यत् सदिति सत्त्वमनूद्य तत् सर्वमनित्यमित्यनित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् ।
10 यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥
11 यत् कृतकं तद् अनित्यमित्युपाधिभेदेन ॥
सत् तत् सर्वमनित्यम्, यथा घटादिरिति । यदिति योग्यं वस्तुमात्रं सत्, तत् सर्वमखिलमनित्यम् । अनेन अन्वय एवोक्तः ।
शुद्धस्य स्वभावहेतोः प्रयोग इति । निर्विशेषणस्य स्वभावहेतोः प्रयोग इति शेषः ॥ 9 ॥
यदुतप्त्तिमत् तदनित्यमिति वचनं स्वभावहेतोद्वितीयस्यान्वयः ।
स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोग इति । आत्मभूतधर्मस्यैव भेदं कृत्वा स्वभावहेतोः प्रयोगः कृतः । तथा हि- उत्पत्तिर्वस्तुनो हन्मलाभः । अभेद एव उत्पत्तिर्यस्यास्ति तदुत्पत्तिमदिति भेदेनोक्तः ॥ 10 ॥
यत् कृतकं तदनित्यमिति । अनेन स्वभावहेतोस्तृतीयस्यान्वय उक्तः । उपाधि भेदेनेति । अत्र उपाधिः= विशेषणम् । अनभिव्यक्तविशेषणः स्वभावहेतुप्रयोग इति शेषः ॥ 11 ॥
सर्वमनित्यम् । न किञ्चिन्नानित्यम् । यत् सत् तदनित्यमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदं । यथा घटादिरिति । व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्येति । निर्विशेषणस्य स्वभावस्य प्रयोगः ॥ 9 ॥
सविशेषणं दर्शयितुमाह- यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्यास्ति तद् उत्पत्तिमत् । उत्पत्तिमत्त्वमनुद्य तदनित्यमित्यनित्यत्वविधिः । तथा च सति उत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।
स्वभावं भूतः तदात्मको धमः, तस्य भेदेन । भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नेभ्यो हि व्यावृतिमाश्रित्योत्पन्नो भाव इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिषय्ते, तदा व्यतिरेकिणीव निर्देश्यते- भावस्य उत्पत्तिरिति । तथा च व्यतिरिक्तमेवोत्पत्त्या विशिष्ट वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो विदितव्यः ॥ 10 ॥
यत् कृतकमिति । कृतकत्वमनूद्यानित्यत्वं विधीयते- इति अनित्यत्वे नियतं कृतकत्वमुक्तम् । अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति सम्बन्धः । उपाधिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।
12 अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ।
13 एवं प्रयत्नान्तरीयकप्रत्ययभेदभेदित्वादयो ऽपि द्रष्टव्याः ॥
कथमनभिव्यक्तविशेषाणं इति चेत्? तत्राह- अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पतौ कृतक इति । अपेक्षितः परस्य व्यापारो येनेति विग्रहः । यश्च भावः स्वभानिष्पत्तये हेतूनां व्यापारमपेक्षते इति । यथा कृतकमित्युक्तम्, तस्मात् अनभिव्यक्तविशेषणं स्वभावहेत्वन्तरमेतत् ॥ 12 ॥
एवमिति । एते ऽपि उपाधिभेदापेक्षिताः स्वभावहेत्व एव द्रष्टव्याः । तथा हि प्रयत्ने= हेतुव्यापारे सति यस्य सिद्धिः स प्रयत्नान्तरीयक इति । तेन अनित्यं प्रयत्नान्तरोयकत्वाद इत्ययनपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव । प्रत्ययस्य भेदः प्रत्ययभेदः । प्रत्ययभेदेन भेत्तुं शील यस्य स प्रत्ययभेदभेदी, तस्य भावः प्रत्ययभेदभेदित्वम् । कारणभेदानुकूलरूपवत्त्वमिति शेषः ।
तथा हि- स्वल्पकर्दमपिण्डाद् घटः क्षुद्रो भवति, महतस्तु महान् भव्वति । निपुणैह कदाचिच्चुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः, कदाचिद् व्यतिरिक्तेन । देवदत्तः इति शुद्धः, लम्बकर्णः इति अभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत् शुद्धम्, उत्पत्तिमत्वमव्यतिरिक्तविशेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम् ॥ 11 ॥
ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्वास्ति, कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगो ऽस्ति? इत्याशङ्कयाह- अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ निष्पत्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे । यस्मादपेक्षितपरव्यापारः कृतक उच्यते, तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तम्, तथापि कृतशब्देनैव व्यतिरिक्तं विशेषणपदमन्तर्भावितम् । अतएव संज्ञाप्रकारो ऽयं कृतकशब्दः, यस्मात् संज्ञायामयं कन् प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते, तत्र विशेषणाप्दं न प्रयुज्यते ।
क्वचित्तु प्र्तीयमानं विशेषणम्, यथा कृत इत्युक्ते हेतुबिरित्येतत् प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते ॥ 12 ॥
प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदशब्दः, यथा च कृतशब्दो भिन्नविशेसणस्वभवाभिधायो, एवं प्रत्ययभेदभेदित्वमादिर्येषां
14 सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् ॥
15 सर्वे एते साधनधर्माः यथास्वं प्रमाणैः सिद्ध साधन धर्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्याः ॥
कुम्भकारव्यापारे सति शोभनो भवति,अनिपुणकुम्भकारवापारे ऽशोभनो भवति । तस्माद् अनित्यं प्रत्ययभेदभेदित्वादित्ययमपि अनभिव्यक्तविशेषणः स्वभावहेतुरेव ॥ 13 ॥
पूर्व त्रयाणां स्वभावहेतूनामन्वयमात्रमुक्तम्, इदानी तेन कारणेन पक्षधर्मा उच्यन्ते । सन् शब्दः, उत्पत्तिमान् शब्दः, कृतकः शब्द इति प्रयोगभेददर्शनाथं वा इति ॥ 14 ॥
तन्मात्रानुबन्धिनि साध्यधर्मे स्वभावो हेतुः इति पूर्व स्वभावहेतुलक्षणं यदभिहितम्, तत्प्रयोगार्थमाह- सर्वे एते साधनधर्मा इति । पूर्व येषां त्रिविधानां स्वभावहेतूनां पक्षधर्मा उक्ताः, ते यथास्वं प्रमाणैरिति । यस्य यदात्मीयं प्रमाणं तैः स्वप्रमाणैः ।
प्रयत्नानन्तरीयकत्वादीनां ते ऽपि स्वभावहेतोः प्रयोगाः भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः ।
प्रत्ययानाम्= कारणानाम्, भेदः= विशेषः, तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदो शब्दः, तस्य भावः प्रत्ययभेदभेदित्वम् । ततः प्रत्ययभेदभेदित्वाच्चब्दस्य कृतत्वं साध्यते । प्रयत्नानन्तरीयकत्वानित्यत्वम् । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्द ।
तदेवं त्रिविधः स्वभवहेतुप्रयोगो दर्शितः- 1 शुद्धः, 2 अव्यतिरिक्तविशेषणः, 3 व्यतिरिक्तविशेषणश्च । एवमर्थ चैतदाख्यातम्- वाचकभेदान्मा भूत् कस्यचित् स्वभावहेतावपि प्रयुक्ते व्यामोह इति ॥ 13 ॥
अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्याः? आहोस्वित् असिद्धसम्बन्धे? इत् सर्धयितुमाह- सर्वे एते इति । गमकत्वात् साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव साधनधर्ममात्रम् । मत्र शब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्यानुबन्धः= अनुगमनम्, अन्वयः । सिद्धः साधनकर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्धः? इत्याह-
16 तस्यैव तत्स्वभावत्वात् ॥
सिद्धसाधनदह्र्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्या इति । साधनधर्मस्वरूपमेव साधनधर्ममात्रम् । साधनधर्ममात्रेण अनुबन्धः= साधनधर्ममात्रानुबन्धः । अनुबन्धः= सम्बन्धः । अन्वय इति शेष । सिद्धः साधनधर्मामात्रानुबन्धो यस्य साध्य धर्मस्य तस्मिन् । यथास्वं साध्यधर्मे साधनधर्ममात्रानुबन्धे साधिते एव ते पक्षधर्मा हेतुत्वेनाभिधेया इति ॥ 15 ॥ कस्माच्च साध्यधर्मे साधनदह्र्ममात्रानुबन्ध इति चेत्? तत्राह- तस्यैवेति । तथाहि- परमार्थतो ऽनित्यस्वभाव एव कृतकः । अन्यश्च कृतकः, अन्यश्च अनित्य इति तु न । कथमिति चेत्? हेतुप्रत्ययैर्यत् क्रियते तद् विनश्यत्स्वभावमेवेति ॥ 16 ॥
यथास्वं प्रमाणैरिति । यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेददत्वात् सम्बन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचन निर्देशः । गमयितव्यत्वात् साध्यः, पराश्रितत्वाच्च धर्मः साध्यधर्मः ।
तदयं परमार्थः- न हेतुः प्रदीपवत् योग्यतया गमकः, अपितु नान्तरीयकतया विनिश्चितः । साध्याविन्भावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारः, नान्यः कश्चित् ।
प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले साधनं साध्यनान्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्यस्वभावमिति सामान्येन स्मृतमर्य पुनर्विशेषे योजयति- इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति ।
तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकतवं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभाव हेतवः प्रयोक्तव्याः, नान्यत्रेत्युक्तम् ॥ 15 ॥
यद्येवं सम्बन्धो निश्चेतव्यः साश्यस्य साधनेन सह, साहनधर्ममात्रानुबन्धस्तु साधयस्य कस्मान्निश्चितो मृग्यते? इत्याह- तस्यैवेति । सिद्ध साधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावः, नान्यः ॥ 16 ॥
17 स्वभावस्य च हेतुत्वात् ॥
18 वस्तुतस्तयोस्तादात्म्यम् ॥
19 तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ॥
स्वभावस्येति । अत्र साध्यस्य स्वभव एव हेतुरुक्तः, कथं साध्याननुबन्धी स्यात् तथा हि तन्मात्रानुबन्धो स्वभाव एवेति ॥ 17 ॥
तच्च कस्मात् इति चेत्? तत्राह- तन्निष्पत्ताविति । यदि साधनधर्मस्य कृतकत्वादेः सिद्धौ साध्यो ऽनित्यत्वादिनं सिद्धयति, तदा कृतकत्वानित्यत्वे परमार्थत एकस्वभावे न स्याताम् ॥ 19 ॥ भवतु ईदृश एव स्वभावः, स्वभाव एव तु साध्ये कस्माद् हेतुप्रयोगः? स्वभावस्य च हेतुत्वादिति । स्वभाव एवेह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्योः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवाश्च स्वभावः, नान्यः ॥ 17 ॥
यदि साध्यधर्मः साधनस्य स्वभवः स्यात्, प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यात्? इत्याह- वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् । समारोपितस्तु साध्यसाधनभेदः । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरेतरव्यावृत्तिकेन भिन्नमिति अन्यत् साधनम्, अन्यत् साध्यम् । दूराद्धि शाखादिमानर्थो वृक्षः इति निश्चीयते न शिशपेति । अथ च स एव वृक्षः, सैव शिशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृतिभेदेन । तस्मात् निश्चयरूढरूपापेक्षया अन्यत् साधनम्, अन्यत् साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति ॥ 18 ॥
कस्मात् पुनः साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः? इत्याह- तन्निषप्त्ताविति । यो हि यत्रानुबध्नाति स तन्निष्पत्तावनिष्पन्नः, तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभवत्वमयुक्तम् । यतो निष्पत्त्यनिषप्त्ती भवाभावस्वरूपे । भावाभावौ च अप्रस्परपरिहारेण स्थितौ । यदि च पूर्व निष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदू, एकस्यैवार्थस्य भावाभावो स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यतेः, विरुद्धधर्मसंसर्गात्मक कत्वादेकत्वाभवस्य ।
किञ्च, पश्चादुत्पदयमानं पूर्वनिष्पन्नाद् भिन्नहेतुकम्, हेतुभेदपूर्वकश्च
20 व्यभिचारसम्भवाच्च ॥
21 कार्यहेतोः प्रयोगः- यत्र धूमस्तत्राग्निः, यथा महानसादौ । अस्ति चेह धूम इति ॥
22 इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ॥
यदि कृतत्वापरिनिष्पत्तावुत्तरकाले दण्डादिकारणान्तरेणानित्यत्वं क्रियते, तदा व्यभिचारः स्यत्, दण्डादेरपि स्वप्रत्ययसपेक्षतयोत्पन्नत्वात् । तदवश्यमेवानुत्पन्नस्य कस्यापि विनाशस्यापि न सम्भव इति ॥ 20 ॥
कार्यहेतोः प्रयोग इति । साध्र्म्यवदनुमानस्य कार्यहेतोः प्रयोग उपदर्श्यते । यत्र धुमस्तत्राग्निरिति । यत्रेति अस्मिन् पर्देशे धूमस्तत्र सर्वत्राग्निरित्यन्वय इति । यथा महानसादाविति । अनेन दृष्टान्तो दर्शितः । अस्ति च इह धूम इति । अभिमतदेशे च धूमो दृश्यत इति पक्षधर्मो दर्शितः ॥ 21 ॥
कार्यहेतावपि पूर्व कार्यकारणभावः साधनीयः अनन्तरं च कारणसाधनार्थ कार्यहेतुर्वक्तव्यः । तथा हि- स्वरूपेण निश्चितमेव लिङ्ग ज्ञेयम्, न तु अनिश्चितमेवेति ॥ 22 ॥
कार्यभेदः, ततो निष्पन्नानिष्पन्नयोविरुद्धर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावः, नान्यः ॥ 19 ॥
मा भूत् पश्चान्निष्पन्नः पूर्वजस्य स्वभावः, साध्यस्तु कस्मान्न भवति? इत्याह- व्यभिचरेत्यादि ॥ पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः= परित्यागो यस्तस्य सम्भवाच्च न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधन धर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्म मात्रनुबन्ध एव स्वभावे स्वभवहेतवः प्रयोक्तव्या इति स्थितम् ॥ 20 ॥
कार्यहेतोः प्रयोग इति । साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति धूममनूद्य तत्राग्निरिति अग्नेविधिः । तथ च नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभवनिमित्ता व्याप्तिदर्शिता ।
व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह- यथामहानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति चेहेति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥ 21 ॥
इहापीति । न केवलं स्वभावहेती, इहापि कार्यहेतौ । सिद्ध एवेति । निश्चिते कार्यकारणत्वे । कार्यकारणभावन्श्चयो ह्यवश्यं कर्तव्यः, यतो न योग्यतया हेतुर्गमको ऽपितु नान्तरीकत्वादित्युक्तम् ॥ 22 ॥
23 वैधर्म्यवतः प्रयोगः- यत् सद् उपलब्धिलक्साणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैव मिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिः र्घटस्येति अनुपलब्धिप्रयोगः ॥
24 असति अनित्यत्वे, नास्ति सत्त्वम् उत्पत्तिमत्त्वं कृतकत्वं वा । सन् च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ॥
वैधर्म्यत्यादि । यानि च वैधर्म्यवदनुमानानि, तानि वक्तव्यानि ।
यत् सद् उपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेति । सच्च वस्तु किमप्युपलब्धिलक्षणप्राप्तं यदि स्यात्, तदा अवश्यमुपलभ्येत । एतेन व्यतिरेक उक्तः । यथा नोलादिविशेष इति । वैधर्मदृष्टान्तः ।
न चैवमिहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिरिति । उपलब्धिरित्युपलब्धिलक्षणप्राप्तो यादृशो नीलादिविशेष उपलभ्यते, तादृशो घट इह नास्ति । इहेति अनेनाभिमतः प्रदेश उक्तः । अनुपलब्धिप्रयोग इति । अयमनुपलब्धेर्वैधर्म्यवान् ॥ 23 ॥
असति अनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं वेति । अनेन त्रयाणां स्वभावहेतूनां व्यतिरेक उपदिष्टः । सन् च शब्द उत्पत्तिमान्, कृतको वेति पक्षधर्मा उक्ताः । स्वभावहेतोः प्रयोग इति । एते च स्वभावहेतोर्वैधर्म्यवन्तः प्रयोगा इति ॥ 24 ॥
साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः, वैधर्म्यवन्तं दर्शयितुमाह- वैधर्म्यवत इति । यत् सद् उपलब्धिलक्षणप्राप्तमिति । यत् सद् दृश्यमित्यस्तित्वानुवादः । तदुपलभ्यत इति उपलम्भविधिः । तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृतिश्च । सत्त्वम्, अनुपलम्भनिवृतिश्च उपलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिविहिता । तथा च साध्यनिवृत्तिः साधननिवृत्ति नियतत्वात् साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मिणि साधयधर्मो न भवेद्, हेतुरपि न भवेत् । हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः । अतो व्यापकस्य साधनाभावस्याभावाद् व्याप्यस्य साध्याभावस्याभाव इति साध्यगतिर्भवति । ततो वैधर्म्यप्रयोगे साध्नाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः ॥ 23 ॥
स्वभावहेतोर्वैधर्म्यप्रयोगमाह- असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत उच्यते । तेन हेत्वभावेन साध्याभावो
25 असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः ॥
26 साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिरिति ॥
27 असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥
असत्यग्नौ न भवत्येव धूम इति । अनेन व्यतिरेक उक्तः अत्र च । अस्तीति अनेन पक्षधर्म उक्तः । कार्यहेतोः प्रयोग इति । कर्यहेतोर्वैधर्म्यवान्, प्रयोग उपदर्शित इति ॥ 25 ॥
साधर्म्यवदनुमाने चान्वयः, पक्षधर्मी व्यतिरेकश्चेति त्रीणि रूपाणि नाभिव्यक्तानि, कथं परार्थानुमानं तिरूपलिङ्गाख्यानमिति चेत्? तत्राह- साधर्म्येणेति । यस्मात् सामर्थ्यद्वारेण साधर्म्यवत्प्रयोगे ऽपि वैधर्म्यस्य प्रतीतिः, तस्मात् यथोक्तप्रसङ्गी नास्तीति ॥ 26 ॥
सामर्थ्य च कीदृशमीत् चेत्? आह- असतीति । यदि व्यतिरेको न स्यात्, तदा साध्येन हेतोरन्वयो ऽप्यसिध एव स्यादिति ॥ 27 ॥ व्याप्त उक्तस्त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान् कृतको वा शब्द इति । त्रयाणामपि पक्षधर्मत्वकथनम् । इह च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्यो ऽपि साध्याभावो निवर्तत इति साध्यगति ॥ 24 ॥
कार्यहेतोर्वैधर्म्यवत्प्रयोगमाह- असत्यग्नाविति । इहापि वह्नयभावो धूमाभावेन व्याप्त उक्तः । अस्ति चात्र धूम इति । व्यापकस्य धूमाभावस्य भाव उक्तः । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः ॥ 25 ॥
ननु च साधर्म्यवति व्यतिरेकोनोक्तः, वैधर्म्यवति चान्वयः, तत् कथमेतत् त्रिरूपालिङ्गाख्यानाम्? इत्याह- साधर्म्यैणेति । साधर्म्यैणाप्यभिधेयेन युक्ते प्रयोगे क्रियमाणे अर्थात् सामर्थ्यात् वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात् त्रिरूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेको ऽन्वयवता नोक्तः, तथापि अन्वयवाचकः सामर्थ्या देवावसीयते ॥ 26 ॥ कथम्? असति तस्मिन् व्यतिरेके बुद्धया व्यवसिते साध्येन हेतोरन्वयस्य बुद्धयाश्यवसितस्याभावात् । साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्ये ऽवसितो व्यतिरेकः ॥ 27 ॥
28 तथा वैधर्म्येणाप्यन्वयगतिः ॥
29 असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥
30 नहि स्वभावप्रतिबन्धे ऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः ॥
31 स च द्विप्रकारः सर्वस्य तादात्म्यलक्षणः, तदुत्पत्तिलक्षणश्चेत्युक्तम ॥ वैधर्म्यवत्प्रयोगे ऽपि सामर्थ्येनान्वयप्रतीतिर्भवतीति ॥ 28 ॥ अथ तच्च साधर्म्य कीदृशमिति चेत्? आह- असतीति । यदि साध्येन हेतोरन्वयो न स्यात् तदा साध्याभावे ऽपि हेतोरभावः कथम् स्यात् ॥ 29 ॥ अन्वयाभावे व्यतिरेको ऽसिद्ध इत्येतत् कस्मादिति चेत्? तत्राह- नहीत्यादि । यदि स्वभावप्रतिबन्ध आत्मा स्वरूपेण प्रतिबन्धो न स्यात् तदा एकनिवृत्तावपि अपरस्य निवृत्तिर्नियमेन न स्यात् । यथा क्वचिदश्वाभावे गवामप्यभावो नेति ॥ 30 ॥
सच सर्वस्य द्विप्रकार इति । सर्वस्यैव पदार्थस्य यः को ऽपि प्रतिबन्धो योग्यः समुपलभ्यते स सर्वः प्रकारद्वय एवान्तर्भवति । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्त-
तथेति । यथा अन्वयवाक्ये, तथा अर्थादेव वैधर्म्येण प्रयोगे ऽन्वयस्याभिधीयमानस्यापि गतिः ॥ 28 ॥
कथम्? असति तस्मिन् अन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धे रनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुः सम्भवे साध्याभावो नाशङ्कनीयः, इतरथा हेत्वभावे नियतो न स्यात् प्रतीतः । हेतुमत्त्वे च साध्यसत्त्वगतिरन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्यभिधानसामर्थ्याद् व्यतिरेकवाक्ये ऽन्वयगतिः ॥ 29 ॥
यदि नामाकाशादौ साध्याभावे साधनाभावः,तथापि किमीत् हेतुसम्भवे साध्यसम्भवः? इत्याह- नहीति । स्वभावेन प्रतिबन्धो यस्त्स्मिन्नसत्येकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः ॥ 30 ॥
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य प्रतिबद्धस्य । तादात्म्यं लक्षणं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिर्लक्षणं निमित्तं तस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयो ऽर्थः स्वभावः कारणं वास्यत् अन्यस्मिन् प्रसिद्धत्वानुपपत्तेः । तस्माद् द्विप्रकारः सः इत्युक्तम् । स च साध्ये ऽर्थे लिङ्गस्य इत्यत्रान्तरे ऽभिहितः ॥ 31 ॥
32 तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । यस्माद् निवृत्तिवचनमाक्षप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमियेकेनापि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ॥
मिति तस्य आत्मा तदात्मा, तदात्मनो भावस्तादात्म्यम्, तादात्म्यं लक्षणं यः स तादात्म्यलक्षणः । तस्मादुत्पत्तिस्तदुत्पत्तिः, तदुत्पत्तिर्लक्षणं यस्य स तदुत्पत्तिलक्षण इति विग्रहः । एतच्च पूर्वमुक्तमेव ॥ 31 ॥
यस्मात् प्रतिबन्धे सति एकनिवृत्त्या अपरनिवृत्तिर्भवति, अभावे न तेन हेतुना कस्यचिदेकस्य निवृत्या अपरनिवृत्तिरमिधीयते । एतेन निवर्त्त्यनिवर्तकयोः प्रतिबन्ध उक्त इति । निवृत्तिवचनेनैव प्रैबन्ध आक्षिप्यत इति ।
यदयवम् स्यादेव, ततश्च किमायातम्? इति चेदाह- यदेव प्रतिबन्धोपदर्शनं तदेवान्वय इति । तस्मादेकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुकेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृत भवतीति । यदयपि अन्वयमुखेन
हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावः, तेन साध्यस्य निवृत्तौ साधनस्य निवृत्ति कथयता प्रतिबन्धो निवर्त्त्य निवर्तकयोर्दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धम् भवेत्, एवं साध्यनिवृतौ तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः, तस्मात् साध्यनिवृतौ यत् साधन निवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् । यच्च तदाक्षिप्तं प्रतिबन्धोपदर्शन तदेवान्वयवचनम् । प्रतिबन्धश्चेदवश्यं दर्शयितव्यः, न वक्तव्यस्तर्हि अन्वयः । यस्मात् दृष्टान्ते प्रमाणेन प्रतिबन्धो दर्श्यमान एवान्वयः, नापरः कश्चित्, तस्मात् निवर्त्य निवर्तकयोः प्रतिबन्धो ज्ञातव्यः । तथा च अन्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वये ऽपि व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्मादेकेनापि सपक्षे चासपक्षे च सत्त्वासत्त्वयोः ख्यापनं कृतम् ।
अन्वयो मुखम्= उपायो ऽभिधेयत्वाद् यस्य तद् अन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इति हेतो । यस्मादेकेनापि वाक्येन द्वयगतिः, तस्माद् एकस्मिन् साधनवाक्ये द्वयोरन्वय व्यतिरेकयोरवश्यमेव प्रयोगौ न न कर्तव्याः ॥
33 अनुपलब्धावपि यत्सद् उपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्ते ऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयदिस्शिः ॥
34 द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः ॥
प्रयोगः क्रियते चेद् व्यतिरेकमुखेन करणमपि युक्तमेव, तथापि उक्तप्रकारेण सपक्षासपक्षयोः सत्त्वासत्त्वयोरभिधानमेव सत्त्वासत्त्वप्रदर्शनं भवतीति उभयेनापि लिङ्गेन प्रत्येकं क्रियते ।
इति नावश्यं वाक्यद्वयप्रयोग इति । तस्मादेकस्मिन्नेव प्रयोगे साधर्म्यवतो वैधर्म्यवतश्च वाक्यद्वयस्य प्रयोगो नावश्यं कार्यः ॥ 32 ॥
एवं कार्य स्वभावहेत्वोरन्वय व्यतिरेकयोः परस्पराक्षेपो ऽभिहितः । तृतीयहेतुनिर्देशार्थमाह- अनुपलब्धावपीति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
