Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
न्यायबिन्दुप्रकरण with विनीतदेव's न्यायबिन्दुविस्तरटीका (शिष्यहित) and धर्मोत्तर's न्यायबिन्दुटीका
- Tác giả
- धर्मकीर्ति
- Thông tin
- GRETIL — Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत् तहर्यनुमानमागमसिद्धत्रैरूप्यं क्वाधिकृतम्? इत्याह- तदर्थेति । तस्य आगमस्य यो ऽर्थो ऽतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सामान्या
115 शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहाअर्सम्भवात् ॥
116 न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु ॥
117 तत्रोदाहरणम्- यत् सर्वदेशस्थितः स्वसम्बन्धिभियुगपदभिसम्बध्यते तत् सर्वगतम् यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितः स्वसम्बन्धिभियु गपत् सामान्यमिति ॥
आगमार्थविचारेषु । विरुद्धाव्यभिचारी साधनदोष उक्त इति । सुगमम् ॥ 114 ॥
यद्ययमयोग्य एव, तर्हि आगमाश्रयानुमाने ऽपि तस्य कथं सम्भव इति चेद्? आह- शास्त्रेति ।
सर्वैश्च शास्त्रकारैस्तद्दर्शनानुत्पन्ना अपि केचन अर्थाः स्वभावविपर्ययेणाभिहिता बवन्ति । ततस्तया विरुद्धाव्यभिचारी भवति ॥ 115 ॥
यदि तस्यागमप्रतिबद्धानुमाने सत्त्वमेवेष्यते, तर्हि वस्तुबलेन प्रवृत्तिरपि कस्मान्नेष्यते इति चेत्/ तत्राह- न हीति ।
यथा वस्तुनो ऽवस्थितिस्तथैव स्थितिर्येषां ते यथावस्थितवस्तुस्थितयः । स्थितिः= व्यवस्था । आत्मा च कार्य चानुपलम्भश्चेति विग्रहः । आत्मा स्वभावो नाम । यथा सदर्थे वस्तुव्यवस्था, तथा स्वभाव- कार्य अनुपलम्भहेतवस्ते व्याव्स्थिता तेषु विरुद्धाव्यभिचारिणः कुतः सम्भवः ॥ 116 ॥
तत्रोदाहार्णमिति । आगमाश्रितप्रमाणोपदर्शनम् । यत् सर्वदेशावस्थितैः दिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्रयमनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्युक्त आचार्येणोति ॥ 114 ॥
कस्मात् पुनरागमाश्रये ऽप्यनुमाने सम्भवः? इत्याह- शास्त्रकाराणामीत् । शास्त्रकृताम् । विपरीतस्य वस्तुविरुद्धस्य स्वभावस उपसंहारो ढौकनमर्थेषु, तस्य सम्भवाद् विरुद्धाव्यभिचारिसम्भवः । भ्रान्त्येति । विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभावमारोपयन्तीति ॥ 115 ॥
यदि शास्त्रकृतो ऽपि भ्रान्ताः, पुनरन्येष्वपि पुरुषेषु क आश्वासः? इत्याह- न हीति । न हेतुषु कल्पनया हेतुत्वव्यवस्था, अपि तु वस्तुस्थित्या । ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो नास्ति ।
अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता वस्तुस्थितिः= व्यवस्था येषां ते यथावस्थिदवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः, न कल्पनया । ततस्तेषु न भ्रान्तेरवकाशो ऽस्ति, येन विरुद्धाव्यभिचारि सम्भवः स्यात् ॥ 116 ॥
118 तत्सम्बन्धस्वभवमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता ॥
स्वसम्बन्धिभिर्यु पगपदभिसम्बद्धयते तत् सर्वगतमिति । सर्वस्मिन् देशे ऽवस्थिताः सर्वदेशावस्थिताः । त एव स्वस्य च सम्बन्धिनः स्वसम्तन्धिनः । यदपि वस्तु सर्वदेशावस्थितस्वसम्बन्धिभियु गपदभिसम्बध्यते तत् सर्वगतमेव दृष्टम् । यथा आकाशमिति । आकाशं हि सर्वदेशावस्थितस्वसम्बन्धिभिर्यु गपदभिसम्बध्यते तच्च सर्वगतमेवेष्टम् । एतद्वचनेनान्वयो दर्शितः ।
सामान्यमपि सर्वदेशावस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बध्यते इति । सामान्यस्य सम्बन्धिनो हि व्यक्तिविशेषाः सर्वेषु विद्यमानाः । तैश्च सामान्यं युगपदभिसम्बद्धयते । अनेन पक्षधर्म उक्तः ॥ 117 ॥
स्वभावहेतुलणत्वं प्रयोगस्य दर्शयितुमाह- तत्सम्बन्धोति ।
तस्य सम्बन्धितः तत्सम्बन्धिनः । तत्सम्बन्धिनां स्वभावमात्रमनुबन्धु शीलं यस्या सा तत्सम्बन्धिस्वभवमात्रानुबन्धिनी । तेषां सम्बन्धिनां देशास्तद्देशाः । तत्देशे सन्निहितस्तद्देशसन्निहितः । तद्देशन्निहितः स्वभावो यस्य स तद्देशसन्नि हितस्वभावः । तस्य भावः तद्देशसन्निहितस्वभावता । सम्बन्धिदेशे उपस्थितिरिति शेष ॥ 118 ॥
तत्र विरुद्धाव्यभिचार्युदाहरणम्- यदिति । यत् सर्वस्मित् देशे ऽवस्थितैः स्वसम्बन्धिभिर्यु गपदभिसम्बद्धयते इति सर्वदेशावस्थितैरभिसम्बध्यमानत्वं सामान्यस्य अनूदय सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।
इह सामान्यं कणादमहर्षिणा निष्क्रियं दृश्यमेकं चोक्तम् । युगपच्च सर्वैः स्वैः सम्बन्धिभिः समवायेन सम्बद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्यं स्थितं साधयितुं प्रमाणमिदमुपन्यस्तम् । यथा आकाशमिति । व्याप्ति प्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैवृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं सर्वगतं च । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिरिति । हेतोः पक्षधर्मत्वप्रदर्शनम् ॥ 117 ॥
अस्य स्वभावहेतुत्वं योजयितुमाह- तत्सम्बन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां सम्बन्धी सामान्यस्य स्वभावः स एव तत्सम्बन्धिस्वभावमात्रम्, तदनुबध्नातीति तदनुबन्धिनी ।
कासौ? इत्याह- तद्दे शसन्निहितस्देभावता । तेषां सम्बन्धिनां देशः तद्देशः । तद्देशे सन्निहितः स्वभावो यस्य तत् तद्देशन्निहितस्व-
119 न हि यो यत्र नास्ति स तद्द्शमात्मना व्याप्नोतीति स्वभावहेतुप्रयोग इति ।
120 द्वितीयो ऽपि प्रयोगः- यदुपलब्धिलक्षप्राप्तं सन्निपलम्यते न तत् तन्नास्ति । तदयथा- क्वचिदविदयमानो घटः । नोपलभ्यते चोपलभिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भह् स्वभावश्च परस्परविरुद्धासाथनादे कत्र संशयं जनयतः ॥
सर्वगतत्वेनव हि सम्बन्धिनो व्याप्यन्ते इत्येतच्च कस्मादिति चेत्? आह- य इति ।
यश्च यत्र नास्ति तस्य तद्देशव्यापन्नं कथं शक्यम्? तद्देश इति । स देशो यस्य स तद्देश इति यस्मिन् देशे स नास्ति तद्देशसम्बन्धिनं स न सक्नोति व्यापयितुमीत् शेषः । स्वभावहेतुप्रयोग इति । सुगमम् ॥ 119 ॥
अथ काणादैः कैश्चित् सामान्यस्य सर्वगतत्वमुक्तम्, अपरैश्च काणादैः सामाभावम्, तस्य हि येषां सम्बन्धी स्वभावः, तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देशसन्निहिता सामान्यस्य ॥ 118 ॥
ननु च गवां सम्बन्धी स्वामी, न च गोदेशे सन्निहितस्वभावः, तत् कथं तत्सम्बन्धित्वात् तद्देशत्वम्? इत्याह- न हीति । यो यत्र देशे नास्ति स देशो यस्य स तद्देशः तं न व्याप्नोतीत्यात्मना स्वरूपेण । इह सामान्यस्य तद्वतां च समवायलक्षणः सम्बन्धह्, स चाभिन्नदेशयोरेव । तेन यत्र तय् समवेतं तत् तदात्मीयेन रूपेण क्रोडीकुर्वत् समवायिरूप देशे स्वात्मानं निवेशयति ।
तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः ।
तस्माद् यत् तत्र समवेतं तत् तद् द्रव्यं व्याप्नुवदात्मा तद्देशे सन्निहितं भवति ।
तदयमर्थह्- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताभावे तद्वयापनाभावात् व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । अतस्तद्देशे सन्निहितत्वमिति यदयं स्वभावहेतुः ॥ 119 ॥
पैठरप्रयोगं दर्शयन्नाह- द्वितीयऽपीति । यदुपलब्धेर्लक्षणतां विषयतां प्राप्तं दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूदय न तत् तत्रास्ति इत्यसद्वयवहार्यत्वं विहितम् । ततो व्याप्यदृश्यानुपलब्धेर्व्यापकमसद्वयवहार्यत्वं दर्शितम् । तदयथेति क्वचिदसन् घटो दृष्टान्तः ।
121 त्रिरूपी हेतुरुक्तः । तावता नार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते गतार्थत्वात् ।
न्यस्य केवलाश्रयसर्वगतत्वमेवाङ्गीकृतम्, तन्नयप्रदर्शनार्थमाह- द्वितीय इति । तच्च सुगमम् ।
यदुपलब्धीति । अत्रानुपलब्धेरन्वयः कथितः ।
व्यक्तेरन्तरालानि व्यक्त्यन्तरालानि व्यक्त्यन्तराणि । तेषु उपलब्धिलक्षण प्राप्तं सामान्यं नोपलभ्यते । अनेन पक्षधर्म उक्तः । तद्वादिना च केवलाश्रयसर्वगतत्वमुक्तम् ॥ 119 ॥
अव्यवहितोक्त्यानुपलब्ध्या सामान्यस्य केवलाश्रयसर्वगतत्वं साध्यते । प्राक्च स्वभावहेतुना सर्वसर्वगतत्वं साधितमिति द्वाभ्यां परस्परविरुद्धार्थसाधनात् किं व्यक्त्यन्तरालेषु सामान्यानुपलब्धेः केवलाश्रयसर्वगतत्वमेव सर्वदेशावस्थितस्वसम्बन्धिषु अनुबद्धत्वात् सर्वसर्वगतत्वमेव वेति अनुभवादेकस्मिन्नेव सामान्ये सन्देही जायते । एवमियता परार्थानुमानं तत्स्वरूपैर्दर्शितम् ॥ 120 ॥
ननुन् दृष्टान्तलक्षणं कस्मान्नोक्तमिति चेत्? तत्राह- त्रिरूप इति ।
पूर्व हेतोर्लक्षणत्रयं यदुक्तं तेनैव रूपत्रयेण साध्यार्थसिद्धिर्भवति । तेन दृष्टान्तो नाम पृथक् साधनावयवो नास्ति । ततश्च तल्लक्षणं पृथग्नोक्तम् ।
पक्षधर्मत्वं दर्शयितुमाह- नोपलभ्यते चेति । व्यक्त्यन्तरालं व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशम् । दृश्यमपि कस्याञ्चिद् व्यक्ती गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।
अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्य विरुद्धौ यवथौ तयोः साधनात् तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येको ऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । एकेन चात्र व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम् । अपरेण चानुपलम्भेन असत्त्वं साध्यते । न चैकस्यैकसैकत्र सत्त्वमसत्त्वं च युक्तम्ः तयोविरोधात् । तदागमसिद्धस्य सामान्यस्य सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतो विरुद्धाव्यभिचारिणी जातौ । यतः सामान्यस्यैकस्य युगपत् सर्वदेशावस्थितैरभिसम्बन्धित्वं चाभ्युपगतम्, दृश्यत्वं च ततः सर्वसम्बन्धित्वात् सर्वगतत्वम्, दृश्यत्वादन्तरालादनुपलम्भादसर्वगतत्वम् । ततः शास्त्रकार्रेणैव विरुद्धव्यप्तत्वमपश्यता विरुद्धव्याप्ती धर्मावुक्त्वा विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च वस्तुन्यस्य सम्बह्वः ॥ 120 ॥
इत्युक्ता हेत्वाभासाः ॥
ननु च साधनावयवत्वाद् यथा हेतव उक्ताः, तत्प्रसङ्गेन च हेत्वा-
122 हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभेदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धी दर्शनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमः, यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्, गतार्थत्वादिति हेत्वर्थेनैव दृष्टान्तार्थस्यावगमात् ॥ 121 ॥ कथमिति चेदाह- हेतोरिति ।
प्रयोगमात्र एतदेव हेतोर्लक्षणम्- सपक्ष एव सत्त्वम् इत्येवरूपम् । तथा सर्वस्माद् विपक्षाद् व्यावृतिः इत्येवंरूपम् च ।
विशेषेण च हेतोर्लक्षणम्- कार्यहेतोर्जन्म प्रदर्शनीयम् इत्युक्तम्, स्वभावहेतो स्तन्मात्रानुबन्धः कथनीय इत्युक्तम् ।
सामानय्लक्षणं विशेषलक्षणं च दर्शयतेति शेषः ।
कार्यहेतोर्हि स्वकीयक्षणं(विशेषलक्षणं) तथा सामानय्लक्षणं च योग्यम् । एवं च दर्शयता विशेषेण कथयता इत्यर्थः । तथाहि- अत्र सपक्षसत्त्वं प्रदर्शयता
भासाः, तथा साधनावयत्वाद् दृष्टान्ता वक्तव्याः तत्प्रसङ्गेन च दृष्टान्ता भाषाः तत् कथं नोक्ताः? इत्याह- त्रिरूपो हेतुरुक्तः, तत् कि दृष्टान्तैः?
स्यादेतत्, तावता नार्थप्रतीतिः? इत्याह- तावता चेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः, अतः स एव गमकः, ततस्तद्वचनमेव गमकम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चार्य नावयवः, तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात् पृथगुच्यते ।
कथं तर्हि हेतोर्व्याप्तिनिश्रयः, यद्यदृष्टान्तको हेतुरिति चेद्? नोच्यते हेतुरदृष्टान्तक एव, अपि तु न हेतोः पृथग्दृष्टान्तो नाम । हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तम्- नास्य पृथग् लक्षणमुच्यते इति । न त्वेवमुक्तम् नास्य लक्षणमुच्यते इति ।
यद्येवम्, हेतूपयोगिनो ऽपि लक्षणं वक्तव्यमेव? इत्याह- गतार्थत्वात् । गतो ऽर्थः प्रयोजनम्, अभिधेयं वा यस्य दृष्टान्तलक्षणस्य, तत् तथा । तस्य भावस्तत्वम्, तस्मात् । दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः, ततो दृष्टान्तलक्षणस्य यत् प्रयोजनं दृष्टान्तप्रतीतिः, तद् गतम्= निष्पन्नम् । अभिधेयं व गतम्= ज्ञातं दृष्टान्ताख्यम् ॥ 121 ॥
कथं गतार्थत्वम्? इत्याह- हेतोः रूपमुक्तमभेदेन । सामान्येन । साधारणं कार्य स्वभाव अनुपलम्भनामेतल्लक्षणमित्यर्थः । किं पुनस्तत्?
अनित्यत्वाभावे कृतकत्वासम्भवः, यथा घटाकाशयोरिति दर्शनीयम् ।
न ह्यन्यथा सपक्ष विपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् ।
तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन
अवश्यं यथा महानसः इत्यभिधेयम् । अन्यथा सपक्षसत्त्वमेव कथयितु न शक्यते । तथैव व्यावृत्ति कथयताप्यवश्यं यथा जलम् इत्याभिधेयम् । अन्यथा व्यावृत्तिरेव नोक्ता स्यात् ।
अनेन स्वभावहेतोः सामान्यलक्षणं विशेषलक्षणं च यथा वक्तव्यं तथा दर्श्यते । इह यदि यथा घटः इति नोच्यते तदा सपक्षसत्त्वमेव कथयितुं न शक्यते । यदि यथा आकाशम् इति नोच्यते, तदा व्यावृत्तिरपि कथयितुं न शक्यते । तन्मात्रानुबन्धो ऽपि तथैव दर्शयितुं न शक्यम् । तथाहि यदि यत्र यत्र कृतकत्वं तत्र तत्रावश्यं नित्यत्वम्, यथा घटे इति निर्दिश्यते, तदा तन्मात्रानुबन्ध एवोक्तो भवति । सपक्ष एव यत् सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्या- रूपद्वयमेतदभेदेनोक्तम् ।
नच सामान्यमुक्तमपि शक्यं ज्ञातुम्, अतस्तदेव विशेषनिष्ठं वक्तव्यम् ।
अतः पुनरपि विशेषेण विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मनि हि ज्ञाते कार्यस्य सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति । स्वभवस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । तदिति साधनम् । तदेव तन्मात्रम्= साधनमात्रम् । तस्यानुबन्धः= अनुगमनम् । साधनमात्रस्य भावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः- सपक्षे एव सत्त्वम्, विपक्षाच्च सर्वस्माद् व्यावृत्तिर्ज्ञाता भवति ।
तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यम्, नानय्था । ततो विशेषलक्साणमुक्तम् ।
किमतो यदि नामैवम्? इत्याह- तच्चेति । तच्च सामान्यलक्षणं दर्शयितुकामेन विशेषलक्षणं दर्शयता एव दर्शनीयम्- इति सम्बन्धः । यत्र धूमस्तत्राग्निरिति । कार्यहेतोर्व्याप्तिदर्शिता । व्याप्तिश्च कार्यकरणभावसाधनात् प्रमाणान्निश्चौयते । ततो यथा महानस इति दर्शनीयम्, असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः । वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्रेति दर्शनीया ।
व्याप्तिः । अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । एतावन्मात्ररूपत्वात् तस्येति ॥
सपक्षत्वं दर्शयता यदि यथा महानसः यथा घटः इति वा नोच्यते, तदा सपक्षसत्त्वमेवोक्त न स्यात् । यदि च विपक्षासत्त्वं दर्शयता यथा जलम् यथा आकाशम् इति वा निच्यते, तदा व्यावृत्तिरेव नोक्ता स्यात् ।
एवं सामान्यलक्षणमुक्त्वा अशक्यत्वमुक्तम् । विशेषलक्षणेन अशक्यत्वकथनानन्तरमाह- तत्कार्यतेत्यादि ।
तस्य कार्य तत्कार्यम्, तस्य भावस्तत्कार्यता, तस्या नियमः तत्कार्यतानियमः । कारणसत्त्वे कार्यस्यापि सत्त्वम् इत्येष नियम एव तत्कार्यतानियमः ।
स्वरूपेण व्याप्तिरेव स्वभावेन व्याप्तिः । तन्मात्रानुबन्ध इति शेषः । तदुभयमपि दृष्टान्तमनुक्त्वा वक्तुं न शक्यते । यदा यथोक्तन्यायेन क्वचिद् धर्मिणि हेतुः सामान्यलक्षणतो विशेषलक्षणतश्चोच्यते, तदा दृष्टान्तो ऽप्युक्त एव ।
तच्च कस्मादिति चेद्? आह- एतावदित्यादि ।
यत्र कृतकत्वं तत्र । नित्यत्वमिति स्वभावहेतोर्व्याप्तिदर्शिता । अनित्यत्वाभावे न भवत्येन कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्त्रेश्च साधकै प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धव्याप्तिकस्य च हेतोः साध्यनि वृत्तौ निवृत्तिर्नियता दर्शनीया । तदवश्यं यथा घटे, यथा आकाशे चेति दर्शनीयम् ।
कस्मादेवम्? इत्याह- न होति । यस्मादन्यथा सामान्य लक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे इति नियते- सपक्षे एव सत्त्वम्, विपक्षऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे सदसत्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं दर्शयितुम् ।
तस्य साध्यस्य कार्यधूमः, तस्य भावस्तत्कार्यता, सैव नियमो यतस्तत्कार्यताया धूमो दहने नियतः । सो ऽयं तत्कार्यतानियमो विशेषलक्षणरूपो ऽन्यथा दर्शयितुमशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्ति विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात् कार्यकारणभावस्तादात्म्यं च महानसे घटे च ज्ःआतव्यम्, तस्माद् व्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्यदृष्टान्तो दर्शनीयः वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यव्स्तुनि वा बवति । ततो वस्त्ववस्तु वा वैधर्म्य
123 एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥
124 यथा नित्यः शब्दो ऽमूर्तत्वात्, कर्मवत् परमाणुवद् घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः ।
तथाहि तस्य रूपमेतावन्मात्रेमेव । यत्र साध्येन हेतोरन्वयो दृश्यते, स साधर्म्यदृष्टान्तः । यत्र च साध्याभावे हेत्वभावो निर्दिश्यते स वैधर्म्यदृष्टान्तः ॥ 122 ॥ यस्माद् यदा हेतोः सामान्यविशेषलक्षणयोनिर्देशः क्रियते स निर्दुष्ठदृटान्त इत्युच्यते तस्माद् यत्र तल्लक्षणयोर्निर्देशो न सम्भवति स दृष्टान्ताभासो भवतीत्युक्तं भवति ॥ 123 ॥ उदाहार्णान्याह- यथेति । साध्य- साधनधर्मोभयविकला इति । शब्दो नित्यः, अमूर्तत्वत् कर्मवत् इति साधय्धर्मविकलः । परमाणुवत् इति साधनधर्मविकलः । घटवत् इत्युभयविकलः ॥ 124 ॥
दृष्टान्त इष्यते । तस्माद् दृष्टान्तमन्तरेण न हेतोरन्वयो व्यतिरेको वा शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्यदृष्टान्तः ।
प्रसिद्धव्याप्तिकस्य साध्याभवे हेत्वभावप्रदर्शनाद् वैधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति ।
अस्मिश्चार्थे दर्शिते एव दृष्टान्तो भवति । यो ऽयमर्थो व्याप्ति प्रसाधनप्रमाणप्रदर्शनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्च- इत्यस्मिन्नर्थे दर्शिते दर्शितो दृष्टान्त इत्याह । एताबन्धमात्रं रूपं यस्य, तस्य भावस्तत्त्वम्, तस्मादिति । एतावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमाणप्रदर्शकत्वं नाम साधर्म्यदृष्टान्तस्य, प्रसिद्धव्याप्तिकस्य च साध्यनिवृतौ साधननिवृत्तिप्रदर्शकत्वम्- इत्येतद् वैधर्म्यदृष्टान्तस्य । एतच्च हेतूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन ॥ 122 ॥
एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तदोषा दृष्टान्तभासाः कथिता भवन्ति । तथा हि- पूर्विक्तिसिद्धये य उपादीयमानो ऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति ॥ 123 ॥
दृष्टान्ताभासानुदाहरति- यथा नित्यः शब्द इति । शब्दस्य नित्यत्वे साध्ये अमूर्तत्वादिति हेतुः । साधर्म्येण कर्मवत्, परमाणुवत्, घटवदित्येते दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः । साध्यं च साधनं च
125 तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद् रथ्यापुरुषवत् । मरणधर्माय पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत् । असर्वज्ञो ऽयं (पुरुषो) रागादिमत्त्वाद् रथ्यापुरुषवदिति ।
126 तथानन्वयो ऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमान् इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।
सन्दिग्धः साध्यधर्मो ऽस्मिन्निति विग्रहः । साध्यधर्म आदिर्येषां ते तथोक्ताः ।
उदाहरणान्याह- रागादिमानिति । अयं सन्दिग्धसाध्यधर्मः । मरणधर्मेति । अयं सन्दिग्धसाधनधर्मः । असवज्ञ इति । अयं सन्धिग्धोभयधर्मः ॥ 125 ॥
अनन्वय इति । यत्रान्वयो नास्त्येव । अप्रदर्शितान्वय इति । यत्रान्वयो विद्यमानो ऽपि न प्रदर्शितः ।
उदाहरणमाह- यथेति । तत्रान्वयो नास्ति । तेन तत्र वचनरागादयोर्व्याप्यव्यपकभवः कार्य कारणभावो वा नैव विद्यते ।
अनित्य इति । इहान्वयो विद्यमानो ऽपि न प्रदर्शितः ॥ 126 ॥ उभयं चेति च तैर्विकलाः । 1 साध्यविकलं कर्म तस्यानियतत्वात् । 2 साधनविकलः परमाणुः, मूर्तत्वात् परमाणूनाम् । असर्वगताद्रव्यपरिमाणम् =मूर्तिः । असर्वगतश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः । 3 घटस्तूभयविकलः, अनित्यत्वात् मूर्तत्वाच्च घटस्येति ॥ 124 ॥
तथा सन्दिग्धः साध्यधर्मो यस्मिन् स सन्दिग्धसाध्यधर्मः । स आदिर्येषां ते तथोक्तः । सन्दिग्धसाध्यधर्मः, सन्दिग्धसाधनधर्मः, सन्दिग्धिभयः ।
उदाहरणम्- रागादिमनिति । रागादिमत्त्वं साध्यम् । वचनादिति हेतुः । रथ्यापुरुषवदिति दृष्टान्ते रागादिमत्तव्ं सन्दिग्धम् । मरणे धर्मो ऽस्येति मरणधर्मा, तस्य भावो मरणधर्मत्वं साध्यम् । अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुषे दृष्टान्ते सन्दिग्धम्- असर्वज्ञत्वं रागादिमत्वं चेति ॥ 125 ॥
तथानन्वय इति । यस्मिन् दृष्टान्ते साध्यसाधनयोरसम्भवमात्रे दृश्यते, नतु साध्येन व्याप्तो हेतुः सो ऽनन्वयः । अप्रदर्शितान्वयश्च यस्मिन् दृष्टान्ते विद्यमानो ऽप्यन्वयो न प्रदर्शितो वक्त्रा, सो ऽप्रदर्शितान्वयः ।
अनन्वयमुदाहरति- यथेति । यो वक्तेति । वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वे प्रतिनियमः ।
127 तथा विपरीतान्वयः- यदनित्यं तत् कृतकमिति ॥
विपरीतेति । अन्वयो विपरीतो यस्मिन् दृष्टान्ते इति विग्रहः ।
उदाहरणमाह यदनित्यमिति । इह यत् कृतकं तदनित्यम् इर्यामधेये यदनित्यं तत्कृतकम् इति विपरीताभिधानम् ॥ 127 ॥
तेन व्याप्तिरुक्ता । इष्टपुरुषवदिति । इष्टाग्रहणेन प्रतिवाधय्पि संगृह्यते, वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोस्सत्त्वमात्रेमिष्टे पुरुषे सिद्धम् । व्यप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति ।
अनित्यः शब्द इति । अनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घटवदिति दृष्टान्ते न प्रदर्शितो ऽन्वयः ।
इह यद्यपि कृतकत्वेन घटसदृशः शब्दः, तथापि नानित्यत्वेनापि सदृशः प्रत्येतु शक्यते, अतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यस्वभवं विज्ञातं भवति, एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्माद् यत् कृतकं तदनि त्यम् इति कृतकत्वमनित्यत्वे नियतमभिधाय नियमसधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईद्दशश्च साधर्म्यमाट्रेणैवोपयोगी, न च साधर्म्यात् साध्यसिद्धिरतो ऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग इति वक्तृदोसादयं दृष्टान्तदोषः । वक्ता हयत्र परःप्रतिपदयोतव्यः । ततो यदि नाम न दुष्टां वस्तु, तथापि वक्त्रा दुष्टां दर्शिततमिति दुष्टमेव ॥ 126 ॥
तथा विपरीतो ऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः । तमेवोदाहरति यदनित्य तत् कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् । एवं कृतकत्वादनित्यावर्गतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे नियत दर्शितम् । कृतकत्वं त्वनियतमेवानित्यत्वे । ततो यादृशमिह कृतकत्वमनियत मनित्यत्वे दर्शितम्, तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथाहि- यदनित्यमित्यनित्यत्वमनूदय तत् कृतकमिति कृतकत्वं विहितम् । अतो ऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथानित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वादनित्यत्वप्रतिपत्तिर्न स्यात्, अनित्यत्वे ऽनियतत्वात् कृतकत्वस्य ।
यद्यपि च कृतकत्वं वस्तुस्थित्यानित्यत्वे नियतम्, तथाप्यनियतं वक्त्र दर्शितम् । अतः स्वयमदुष्टमपि वक्तृदोषाद् दृष्टम् ।
तस्माद् विपरीतान्वयो ऽपि वस्तुरपराधात्, न वस्तुनः । परार्थानुमाने च वक्तुरपि दोषश्चिन्त्यते इति ॥ 127 ॥
128 साधर्म्येण दृष्टान्तदोषाः ॥
129 वैधर्म्येणापि- परमाणुवत् कर्मवद् आकशवदिति साध्यादयव्यतिरेकिणः ॥
130 तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा असर्वज्ञाः कपिलादयो ऽनाप्ता वा अविदयमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासन एते सर्वे साधर्म्यदृष्टान्ताभासाः ॥ 128 ॥ वैधर्म्यदृष्टान्ताभासा उच्यन्ते ।
साध्यमादिर्येषां तानि साध्यादीनि, तेषामव्यतिरेकः साध्याद्यव्यतिरेकः । ते च यत्र सन्ति ते साध्याद्यवय्तिरेकिणह् । तत्र परमाणुवदिति साध्याव्यतिरेकी । नित्यत्वात् परमाणूनां साध्याद्यव्यतिरेकः । कर्मवदिति साधनाव्यतिरेकी । अमूर्तत्वात् कर्मणां साधनाव्यतिरेकः । आकशवदिति उभयाव्यतिरेकी । आकाशस्य चोभयाव्यतिरेकः ॥ 129 ॥
सन्दिग्धेति । साध्यस्य व्यतिरेकः सन्दिग्धो यस्मिन्निति विग्रहः । सन्दिग्धसाध्यव्यतिरेक आदिर्येषामिति विग्रहः । उदाहरणान्याह- यथेति । प्रतिज्ञाद्वयमुपन्यस्तम् । साधर्म्येण नव दृष्टान्तदोषा उक्ताः ॥ 128 ॥ वैधर्म्येणापि दृष्टान्तदोषान् वक्तुमाह- वैधर्म्येणापीनि । नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे परमाणुवैधर्म्ये दृष्टान्तः साध्याव्यतिरेकी नित्यत्वात् परमाणूनाम् कर्म साधनाव्यतिरेकि । अमीष्र्तत्वात् कर्मणः । आकाशमुभयाव्यतिरेकि नित्यत्वाद्, अमीष्र्तत्वाच्च । साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको निवृत्यभअः । स येषामस्ति ते साध्यादयव्यतिरेकिणः । ते चोदाहुताः ॥ 129 ॥
अपरानुदाहर्तुमाह- तथेति । साध्यस्य व्यतिरेकः सध्यव्यतिरेकः । सन्दिग्धः साध्यव्यतिरेको यस्मिन् स सन्दिग्धसाध्यव्यतिरेकः, स आदिर्येषां ते तथोक्ताः ।
सन्दिग्दसाध्यव्यतिरेकमुदार्हर्तुमाह- यथेति । असर्वज्ञा इत्येकं साध्यम्, अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादिहेतुः । आप्तता च तयोर्लिङ्गभूतः प्रमाणतिशयो लिङ्गात्मकः प्रमाणविशेषो ऽविदयमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तथोक्तं शासनम् । तादृशं शासनं तेषां ते तथोक्ताः तेषां भावस्तत्त्वम् । तस्मात् प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि त्वादिति । अत्र वैधर्म्योदहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् । यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः । 131 सन्दिग्धसाधनव्यतिरेको यथा- न त्रयीविदा राम्हणेन ग्राह्यवचनः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वदिति । अत्र वैधर्म्योदाह-
सर्वज्ञत्व च वीतरागत्वं सर्वज्ञत्ववीतरागत्वे, तयोलिङ्गभूतं प्रमाणातिशयशासनमविध्यमानं येषु ते अविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनाः, तेषां भावस्तत्तवम्। तस्माद् अविद्यमानसर्वज्ञत्ववीतरागत्वलिङ्गभूतप्रमाणातिशयशासनत्वात् । परीक्ष्यते इत्युपरितः सम्बन्धः ।
ज्योतिर्ज्ञानम्= नक्षत्रविपरीक्षणमिति हेतुः । तच्च सर्वज्ञत्व वीतरागत्वलिङ्गभूतमृषभ- वर्धमानादिभिरनुशिष्टाम् । तस्मात् ते सर्वज्ञा वीतरागा वेति निश्चेतुं शक्यत इति । अत्र ऋषभमहावीरादिवैधर्म्यदृष्टान्त उक्त, तेषु च असर्वज्ञत्वावीतरागत्वयोर्व्यतिरेकनिश्चयो नास्ति ॥ 130 ॥ सन्दिग्धेत्यदि । तदर्थस्तु गत एव । उदाहरणम्- यथेति ।
हि कपिलादयः सर्वज्ञा आप्ता वा स्युः, तदा ज्योतिर्ज्ञानादिकं कस्मान्नो पदिष्टावन्तः? न चोपदिष्टावन्तः, तस्मान्न सर्वज्ञा आप्ता वा ।
अत्र प्रमाणे । वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततलिङ्गभूतमुपदिष्टावान् । यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ्वर्धमानादिर्दिगम्बराणां शास्ता सर्वज्ञश्च आप्तश्चेति । तदिह वैधर्म्योदाहरणम् ऋषभादेरसर्वज्ञत्वस्यनाप्ततयाश्च व्यतिरेको व्यावृत्तिः सन्दिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेत्, असर्वज्ञश्च भवेद् अनाप्ता वा । को ऽत्र विरोधः? नैमित्तिकमेतज्ज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ॥ 130 ॥
सन्दिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः? तमुदाहरति- यथेति । ऋक्सामयजूषि त्रीणि= त्रयी, तां वेत्तीति त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षितं इति । कपिलादिधर्मी । रागादिसत्त्वादिति हेतुः ।
अत्र प्रमाणे वैधर्म्योदाहरणम्- साध्याभावः साधनाभावेन यत्र व्याप्तो दर्श्यते तद् वैधर्योदहरणम् । ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूदय न ते रागादिमन्त इति साधनाभवो विहितः । गौरमरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तदयथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यवृत्तिः सन्दिग्धा ॥
132 सन्दिग्धोभयव्यतिरेको यथ- अवीतरागाः कपिलादयः, अप्रिग्रहाग्रहयोगादिति । अत्र वैधर्म्येणोदाहरणम्- यो वीतरागो न तस्य परिग्रहाग्रहः, यथर्षभादेरिति । ऋषभादेरवीरतागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः ।
ऋग्वेदः, यजुर्वेदः, सामवेदश्चेति त्रयो वेदाः । त एव त्रयी शब्देनोच्यन्ते । त्रयी वेत्तीति त्रयीवित् । ग्राह्यं वचनमस्येति ग्राह्यवचनः । प्रामाण्यवचन इति शेषः । तेनतदुक्त भवति- त्रयीविद् यो ब्राम्हणस्तदभिमतपुरुषवचनं नित्यप्रमाणं नास्तीति । अत्रेति । तदर्थस्तु गत एव । ये हि ग्राह्यवचना न ते रागादिमन्तः । तद्यथेति । गौतम व्यासमुनिप्रभृत्तिभिर्यानि धर्मशास्त्राणि प्रणीतानिव् तानि हि त्रयीविदां प्रामाण्यवचनानि । तेभ्यो हि रागादिमत्त्वस्य व्यवृत्तेनिश्चयो नास्ति ॥ 131 ॥ सन्दिग्ध उभयोर्व्यतिरेको यस्मिन्निति समासः । उदाहरणम्- यथेति ।
प्रैग्रहः= द्रव्यस्य स्वीकरणम् । आग्रहः= स्वीकारादूर्ध्वमासक्तिः । परिग्रहश्चाग्रहश्चेति प्रैत्ग्रहग्रहौ । ताभ्यां योग इत्यर्थः ।
आदिर्येषां ते तथोक्ता मन्बादयो धर्मशास्त्राणि= स्मृतयस्तेषां कर्तारः । त्रयीविदा हि ब्राम्हणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त ईतीह धर्मी व्यतिरेकविषयो गौतमादय इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदा, तथपि कि सरागा उत वीतरागाः? इति सन्देहः ॥ 131 ॥
सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति- तथेति । अवीतरागा इति । रागादिमत्त्वं साध्यम् । अकपिलदय इति धर्मी । परिग्रहो लभ्यमानस्य स्वीकार्ः प्रथमः । स्वीकारादूर्ध्व यद् गार्ध्य मात्सर्य स आग्रहः । परिग्रहश्च आग्रहश्च तभ्यां योगात् कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्ति- इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे वैधर्म्योदाहरणम्- यत्र साह्द्याभाव साधनाभवो दर्शयितव्यः । यो वीतराग इति । साध्याभावमनूदय न तस्य परिग्रहाग्रहाविति साधनाभवो विहितः । यथर्षभादेरिति दृष्टान्तः । एतस्माद् ऋषभादेदृष्टान्ताद् अवीतरागत्वस्य साध्यपरिग्रहाग्रहयोगस्य च साधनस्य निवृत्तिः सन्दिग्धा । ऋषभदीनां हि परि
133 अव्यतिरेको यथा- अवीतरागो ऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम्- यत्रावीतरागत्वं नास्ति, न स वक्ता ।यथा उपलखण्ड इति । यदयप्युपलखण्डादुभयं व्यावृतं तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥
134 अर्पदर्शितव्यतिरेको यथा- अनित्य शब्दः, कृतकत्वादाकाशवत् इति वैधर्म्येण ॥
ऋषभादयो हि स्वल्पमत्रमपि व्यञ्जनं न परिगृह्णन्ति । तस्मात् तेसां परिग्रहो नास्ति । परिग्रहाभवे चाग्रहाभावः, तेन च वीतरागाः ।
अवीतरागो रागादिमानित्यर्थः । परिग्रहश्च मनसा स्वीकरणम् । आग्रहश्च तृष्णा । ते च सर्वे मानसत्त्वात् इन्द्रियगोचरा न भवन्ति । तस्मात् ऋषभादिभ्यो व्यावृत्तिरेवेति निश्चेतुं न शक्यते ॥ 132 ॥
अव्यतिरेक इति । अविद्यमानो व्यतिरेको ऽस्मिन्निति विग्रहह् । यथेति । तदर्थस्तु गत एव । वैधर्म्येति । वैधर्म्ये दृष्टान्तो ऽयम् ।
यद्यपि उपलखण्डस्याचेतनत्वाद्रागादिमत्त्वं वक्तृत्वं वा नैव, तथापि सर्वो वीतरागो न वक्तेति व्याप्तिरसिद्धा । रागवत्त्ववक्तृत्वयोः सम्बन्धाभावाद् रागवत्त्वव्यावृतौ वक्तृत्वविनिवृत्तिनं भवति । तस्मादन्न वस्तुनो व्यतिरेको नास्ति ॥ 133 ॥
अप्रदर्शित इति । यत्र व्यतिरेको वर्तमानो ऽपि नोच्यते ।
ग्रहाग्रहयोगो ऽपि सन्दिग्धः वीतरागत्वं च । यदि नाम तत्सिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठयन्ते, तथापि सन्देह एव ॥ 132 ॥
अपरानपि त्रीनुदाहर्तुमाह- अव्यतिरेक इत् अविद्यमानो व्यतिरेको यस्मिन् सो ऽव्यतिरेकः । अवीतराग इति । रागादिमत्वं साध्यम् । वक्तृत्वादिति हेतुः । इति व्यतिरेकमाह- यत्रावीतरागत्वं नास्तीति । साध्याभवानुबादः । तत्र वक्रृत्वमपि नास्तीति साधनाभावविधिः । तेन सधनाभवेन साध्याभावो व्याप्त उक्तः । दृष्टान्तो यथोपलखण्ड इति । कथमयमव्यतिरेको यावतोपलखण्डाद् उभयं निवृतम्? किमतः? यद्यपि उपलखण्डादुभयं व्यवृत्तम्- सरागत्वं वीतरागत्वं च तथापि व्यप्त्या व्यतिरेको यस्तस्यसिद्धेः कारणादव्यतिरेको ऽयम् ।
कीदृशी पुनर्व्याप्तिः? इत्यह- सर्वो वीतराग इति । साध्याभावानुवादः ।
न वक्तेति साधनाभवविधिः । तेन साध्यभावः सधनाभवनियतः ख्यापितो भवति । ईदृशी व्याप्तिः । तया व्यतिरेको न सिद्धः । अस्य चार्थस्य प्रसिद्धगे दृष्टान्तः । तत् स्वीकार्याकरणाद् दुष्टः ॥ 133 ॥
135 विपरीतव्यतिरेको यथा- यदकृतकं तन्नित्यं भवतीति ।
उदाहरणमाह- शब्दो ऽनित्य इति ।
केनचिद् वैधर्म्यदृष्टान्तत्वेन शब्दो ऽनित्य कृतकत्वात्, आकाशवत् इत्युक्त, तत्र व्यतिरेको विद्यमानो ऽप्यनुक्त एव भवति । तथाहि यदि ये ये च अप्दार्था नित्याः ते सर्व एवाकृतकाः इत्युच्यते, तदा व्यतिरेको दर्शितो भवति । न तु दृष्टान्तमात्रेण ॥ 134 ॥
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इति । अनित्यत्वं साध्क्यम् । कृतकत्वादिति हेत् । आकशवदिति वैधर्म्येण दृष्टान्तः ।
इह पराथानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धो ऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद् यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । पर्काशितश्च हेतुः । अतो वक्तुरपराधादपि पराथानुमाने हेतुर्दृष्टान्तो वा दुष्टाः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिः, अपितु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन, व्यतिरेकवाक्येन वा वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्माद् दृष्टान्तो नामन्वयव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्यं प्रयुक्तम्, अतो वैधर्म्यदृष्टान्त इहासादृशय्मात्रेण साधक उपन्यस्तः । न च तथा साधकः । व्यतिरेकविषयत्वेन स साधकः न च तथोपन्यस्त इति अयमप्रदर्शितव्यतिरेको वक्तुरपराधाद् दुष्टाः ॥ 134 ॥
विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदाहरति- यथा यदकृतकमित्यादि । इह अन्वयव्यतिरेकाभ्यां साध्यनियतो हेतुर्दशयितव्यः, यदा च साध्यनियतो हेतुर्दर्ह्सयितव्यः, तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते, साधनसत्तायामपि साध्याभ्वः सम्भाव्येत । तथा च साधनं साध्यनियतं न प्रतीयेत । तस्मात् साध्याभावः साध्याभावे नियतो वक्तव्यः । विपरीतव्यतिरेके च साध्याभावः साध्याभावे नियत उच्यते, न साध्याभावः साधना भावे । तथा हि- यदकृतकमिति । साधनाभावमनूदय । तन्नित्यमिति साध्याभावविधिः ।
ततो ऽयमर्थः- अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तम्, न नित्यत्वं साधनाभावे । ततो न साध्यनियतं
136 न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः ॥
137 दूषणा न्यूनतादयुक्तिः ॥
विपरीतो व्यतिरेको ऽस्मिन्निति विग्रहः । उदाहरणमाह- यथेति । इह यन्नित्यं तदकृतकम् इत्यभिधेये तद्विपरीतमुक्तम् ॥ 135 ॥
तैश्च दृष्टान्ताभासैर्हेतोयच्च सामान्यलक्षणं तदपि विशेषलक्षणं तच्च न शक्यते दर्शयितुम् । तत एव ते दृष्टान्ताभासा इति दृष्टान्ताभासाः ।
यस्माद् द्विविधमपि हेतिर्लक्षणं दर्शयितुं न शक्यते, तस्मादर्थापत्त्या तेषां निरासो द्रष्टव्यः । इयता सम्यग्ज्ञानं तत्स्वरूपैर्व्याख्यातम् ॥ 136 ॥
इदानी तत्सहायकाभिधानमनुज्ञातुमाह-
न्यूनता आदिर्येषां ते न्यूनतादयः । तेषामुक्तिन्यूनताद्युक्तिः । ताश्च प्रत्येकं दूषणाः ॥ 137 ॥
अत्र आदि- इत्युक्तेरसिद्धविरुद्धानैकान्तिकदोषाणां परिग्रहः । उच्यते ऽनेति उक्तिः= वचनम्। येन वचनेन दोसा उद्ध्रियन्ते तद् दूषणमिति । हेतु व्यतिरेकवाक्यमाह । तथा च विपरीतव्यतिरेको ऽपि वक्तुरपराधाद् दुष्टः ॥ 135 ॥
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह- न हयेभिरिति । साध्यनियतप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत् सामान्यलक्षणं तत् निश्चयेन न शक्यं दर्शयितुम् ।
ननु च सामान्यलक्षणं विशेषनियतमेव प्रतिपत्तव्यम्, न स्वत एव? इत्याह- विशेषलक्षणं वा । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत, स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यमेभिः प्रतिपादयितुम् । तस्मादर्थापत्त्या सामर्थ्येन एषां निराकरणं द्रष्टव्यम् । साध्यनियतसाधनप्रतीतये उपाताः । तदसमर्था दुष्टाः, स्वकार्याकरणादिति असामर्थ्यम् ॥ 136 ॥
इयता साहनमुक्तम् ॥
दूषणं वक्तुमाह- दुषणेति । दूषणा का द्रष्टव्या? न्यूनतादोनामुक्तिः ।
उच्यते ऽनयेत्युक्तिः= वचनम् । न्यूनतादेर्वचनम् ॥ 137 ॥
138 ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् तेन परेष्टार्थसिद्धिप्रतिबन्धात् ॥
139 दूषणाभासास्तु जातयः ।
140 अभूतदोषोद्भावनानि जात्युत्तराणीति ॥
तच्च कस्मादिति चेत्? तत्राह- तेनेति ।
यस्मात्तेन वचनेन पूर्वपक्षिणा साधयितुमिष्टस्यार्थस्य सिद्धिः प्रतिबध्यते, तस्मात् तद् दूषणम् । तदेतानि अनुद्भूतदूषणाति ॥ 138 ॥ जातय एव दूषणाभासा विदितव्याः ॥ 139 ॥ काश्च पुनस्ता जातय इति? आह- अभूतेति ।
न भूतो ऽभूतः, अभूता दोषा अभूतदोषाः तेषामुद्भवनानि अभूतदोषोद्भावनानि । यैश्च वचनैः साधनदोषा अबिध्यमाना अपि उद्भाव्यन्ते तानि जातयो वेदितव्याः ।
सम्यग्ज्ञाननिरूपणावसरे कथं दूषण- तदाभासानामुपदर्शनमिति चेत्? उच्यते, दूषणानां तया दूषणाभासानां च निरूपणे सम्यग्ज्ञानमपि ससहायं निरूपितं भवतोति । तथा चैता ह्यत्र दूषणा इति तासां परिहरो विधेयः । यदा वा एते दूषणाभासाः, एतेभ्यः शङ्काभाव एव वेदितव्य इत्यभिधीयते, तदा सम्यग्ज्ञानमेव सर्वथा निरूपितं भवति । तस्माद् यथोक्तदोषप्रसङ्गो नास्ति ॥ 140 ॥
दूषणं विवरीतुमाह- ये पूर्व न्यूनतादयो ऽसिद्धविरुद्धानैकान्तिका उक्ताः, तेषामुद्भावकं यद् वचनं तद् दूषणम् ।
ननु च न्यूनतादयो न विपर्ययसाधनाः, तत् कथं दूषणम्? इत्याह- तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिः निश्चयः, तस्याः प्रतिबन्धात् । नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवत्, अपि तु परस्याभिप्रेतनिश्चयविबन्धान्निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव विपर्ययसिद्धिरिति ॥ 138 ॥
उक्ता दूषणा ॥
दूषणाभासा इति । दूषणवदाभासन्त इति दूषणाभाषा । के ते? जातय इति । जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि । उत्तरस्याप्रयुक्तत्वाद् उत्तरसदृशानि जात्युत्तराणि ॥ 139 ॥
तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह- अभूतेति । अभूतस्य असत्यस्य दोषस्य उद्भवनानि । उद्भाव्यत एतैरित्यौद्भावनानि = वचनानि । तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ॥ 140 ॥
पृथु यच्चाजितं पुण्यं न्यायबिदोः पदं पदम् । व्याख्यानेन मयाद्यैव ततो लब्ध्वामृतं ध्रुवम् ॥
प्राणिकुलमशेषं हि यातु भवपरिक्षयम् । यथोचित्तेन मार्गेण निर्देशेन नृपस्य च ॥
इयं विनीतदेवेन शिष्यकल्याणसिद्धये । विस्तरो नाम टीका हि न्यायबिन्दोर्विनिर्मित्ता ॥
न्यायबिन्दुविस्तरटीकायां शिष्यहितायां तृतीयः परिच्छेदः समाप्तः ॥
सहस्त्रमेकं श्लोकानां त्रिशच्श्लोकास्तथैव च । ग्रन्थे विस्तरटीकायामिनोक्तं परिपिण्डितम् ।
आचार्यविनीतदेवकृतिर्न्यायबिन्दुविस्तरटीका शिष्यहिता समाप्ता ॥
धर्मोत्तरटीका
कतिपयपदवस्तुव्याख्यया यन्मयाप्तम्, कुशलममलमिन्दोरंशुवन् न्यायबिन्दोः ॥
पदमजरमवाप्य ज्ञानधर्मोत्तरं यद्, जगदूपकृतिमात्रव्यापृतिः स्यामतो ऽहम् ॥
आचार्यधर्मोत्तरविरचित्तायां न्यायबिन्दुटीकायां तृतीयः परिच्चेदः समाप्तः ॥
समाप्तं च न्यायबिन्दुप्रकरणम् ॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो हयवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
