Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

दशभूमिकसूत्र

Thông tin
GRETIL — P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्रास्माभिस्तादृशं स्मृतिवैपुल्यमभिनिर्हर्तव्यं यथैकक्षणेन सर्वतथागतानां सकाशाद्धर्मावभासं प्रत्येषेमहि एकरुताव्यतिरेकात् / यावन्ति च तानि यथापरिकीर्तितानि पर्षन्मण्डलानि नानानिकायधर्मप्रवणैकपरिपूर्णानि, तत्रास्माभिस्तादृशं प्रज्ञावभासविनिश्चयप्रतिभानं परिशोध्यं यदेकक्षणेन सर्वसत्त्वान् परितोषयेत्, किं पुनरियत्सु लोकधातुषु सत्त्वानि //

स इमां साधुमतीं बोधिसत्त्वभूमिमनुप्राप्तो बोधिसत्त्वो भूयस्या मात्रया रात्रिंदिवमनन्यमनसिकारप्रयुक्तो भूत्वा बुद्धगोचरानुप्रविष्टस्तथागतसमवधानप्राप्तो गम्भीरबोधिसत्त्वविमोक्षानुप्राप्तो भवति / स एवंज्ञानानुगतो बोधिसत्त्वः समाहितस्तथागतदर्शनं न विजहाति / एकैकास्मिंश्च कल्पे ऽनेकान् बुद्धान्, अनेकानि बुद्धशतानि ... अनेकानि बुद्धकोटिनयुतशतसहस्राणि ... / दृष्ट्वा च सत्करोति गुरुकरोति मानयति पूजयति / औदारिकेन बुद्धदर्शनेन पूजोपस्थानं नोत्सृजति / तांश्च तथागतान् प्रश्नान् परिपृच्छति / स धर्मधरणीनिर्देशाभिनिर्जातो भवति / तस्य भूयस्या मात्रया तानि कुशलमूलान्युत्तप्ततमान्यसंहार्याणि भवन्ति / तद्यथापि नाम भो जिनपुत्रास्तदेव जातरूपमाभरणीकृतं सुपरिनिष्ठितं कुशलेन कर्मारेण राज्ञश्चक्रवर्तिन उत्तमाङ्गे कण्ठे वा आबद्धमसंहार्य भवति सर्वकोट्टराजानां चातुर्द्विपकानां च सत्त्वानामाभरणविकृतैः, एवमेव भो जिनपुत्रा बोधिसत्त्वस्य अस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलानि महाज्ञानालोकसुविभक्तान्युत्तप्यन्ते, (dbh 54) असंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैरधरभूमिस्थितैश्च बोधिसत्त्वैः / तस्य सा कुशलमूलाभा सत्त्वानां क्लेशचित्तगहनान्यवभास्य तत एव व्यावर्तते / तद्यथापि नाम भो जिनपुत्रा द्विसाहस्रिको महाब्रह्मा सर्वस्मिन् द्विसाहस्रिके लोकधातौ गहननिम्नोपचारानवभासयति, एवमेव भो जिनपुत्रा बोधिसत्त्वस्य अस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितस्य सा कुशलमूलाभा सत्त्वानां क्लेशचित्तगहनान्यवभास्य तत एव व्यावर्तते / तस्य दशभ्यः पारमिताभ्यो बलपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदाचरति यथाबलं यथाभजमानम् / इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य साधुमती नाम नवमी बोधिसत्त्वभूमिः ... महाब्रह्मा भवति महाबलस्थामप्राप्तो द्विसाहस्राधिपतिरभिभूः ... पारमितोपदेशेष्वसंहार्यः सत्त्वाशयपरिपृच्छानिर्देशैः / यच्च किंचित् ... //

साधुमती नाम नवमी भूमिः //

(dbh 55) 10 धर्ममेघा नाम दशमी भूमिः /

वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्व एवमप्रमाणज्ञेयविचारितया बुद्ध्या यावन्नवमी बोधिसत्त्वभूमिरिति सुविचितविचयः सुपरिपूर्णशुक्लधर्मः पर्यन्तसंभारोपचयोपचितः सुपरिगृहीतमहापुण्यज्ञानसंभारः महाकरुणावैपुल्याधिगतः लोकधातुविभक्तिवैमात्र्यकोविदः सत्त्वधातुप्रविष्टगहनोपचारः तथागतगोचरप्रवेशानुगतसंज्ञामनसिकारः बलवैशारद्यबुद्धधर्माध्यालम्बनानुगतः सर्वाकारसर्वज्ञज्ञानाभिषेकभूमिप्राप्त इत्युच्यते //

तस्य खलु पुनर्भवन्तो जिनपुत्रा एवंज्ञानानुगतस्य बोधिसत्त्वस्य अभिषेकभूमिसमापन्नस्य विमलो नाम समाधिरामुखीभवति / धर्मधातुविभक्तिप्रवेशश्च नाम / बोधिमण्डालंकारव्यूहश्च नाम / सर्वाकाररश्मिकुसुमश्च नाम / सागरगर्भश्च नाम / सागरसमृद्धिश्च नाम / आकाशधातुविपुलश्च नाम / सर्वधर्मस्वभावविचयश्च नाम / सर्वसत्त्वचित्तचरितानुगतश्च नाम / प्रत्युत्पन्नसर्वबुद्धसंमुखावस्थितश्च नाम बोधिसत्त्वसमाधिरामुखीभवति / तसैवंप्रमुखानि दश समाध्यसंख्येयशतसहस्राण्यामुखीभवन्ति / स तान् सर्वान् समाधीन् समापद्यते च व्युत्तिष्ठते च, समाधिकौशल्यानुगतश्च यावत्समाधिकार्यं तत्सर्वं प्रत्यनुभवति / तस्य यावद्दशसमाध्यसंख्येयशतसहस्राणां पर्यन्ते सर्वज्ञज्ञानविशेषाभिषेकवान्नाम बोधिसत्त्वसमाधिरामुखीभवति //

यस्मिन् समनन्तराभिमुखीभूते दशत्रिसाहस्रशतसहस्रापर्यन्तप्रमाणं महारत्नराजपद्मं प्रादुर्भवति सर्वाकारररत्नप्रत्यर्पितं सर्वलोकविषयसमतिक्रान्तं लोकोत्तरकुशलमूलसंभूतं मायास्वभावगोचरपरिनिष्पन्नं धर्मधातुसुव्यवस्थितावभासं दिव्यविषयसमतिक्रान्तं महावैडूर्यमणिरत्नदण्डमतुल्यचन्दनराजकर्णिकं महाश्मगर्भकेसरं जाम्बूनदसुवर्णावभासपत्रमपरिमितरश्मिसंकुसुमितशरीरं सर्वप्रवररत्नप्रत्युप्तगर्भमपर्यन्तमहारत्नजालसंछन्नं परिपूर्णदशत्रिसाहस्रशतसहस्रपरमाणुरजःसममहारत्नपद्मपरिवारम् / तदनुगतस्तदनुरूपश्च तस्य बोधिसत्त्वस्य कायः संतिष्ठते / स तस्य सर्वज्ञज्ञानविशेषाभिषेकवतः समाधेः सहप्रतिलम्भात्तस्मिन्महारत्नराजपद्मे निषण्णः संदृश्यते / समनन्तरनिषण्णश्च स बोधिसत्त्वस्तस्मिन् महारत्नराजपद्मे, अथ यावन्ति तस्य महारत्नराजपद्मस्य महापद्मानि परिवारः प्रादुर्भूतः, तावन्तो बोधिसत्त्वा दशदिग्लोकधातुसंनिपतितास्तं बोधिसत्त्वमनुपरिवार्य तेषु महारत्नपद्मेषु निषीदन्ति / एकैकश्च तेषां दश समाधिशतसहस्राणि समापद्यते तमेव बोधिसत्त्वं निरीक्षमाणः //

समनन्तरसमापन्ने च तस्मिन् बोधिसत्त्वे तेषु च बोधिसत्त्वेषु निरवशेषम्, अथ सर्वलोकधातुसंप्रकम्पनं भवति / सर्वापायप्रतिप्रस्रम्भणं च, सर्वधर्मधात्ववभासकरणं च, सर्वलोकधातुपरिशोधनं च, सर्वबुद्धक्षेत्रनामधेयरुताननुरवणं च, सर्वसभागचरितबोधिसत्त्वसंनिपातनं (dbh 56) च सर्वलोकधातुदेवमनुष्यतूर्यसंगीतिसंप्रवादनं च सर्वसत्त्वसुखसंजननं च सर्वसम्यक्संबुद्धाचिन्त्यपूजोपस्थानप्रवर्तनं च सर्वतथागतपर्षन्मण्डलविज्ञापनं च भवति / तत्कस्य हेतोः? तथा हि भो जिनपुत्रास्तस्य बोधिसत्त्वस्य समनन्तरनिषण्णस्य तस्मिन् महारत्नराजपद्मे अधस्ताच्चरणतलाभ्यां दशरश्म्यसंख्येयशतसहस्राणि निश्चरन्ति / निश्चर्य दशदिशमवीचिपर्यन्तान् महानिरयानवभासयन्ति / नैरयिकानां सत्त्वानां सर्वदुःखानि प्रतिप्रस्रम्भयति / जानुमण्डलाभ्यां दश ... दशदिशं सर्वतिर्यग्योनिभवनान्यवभासयन्ति, सर्वतिर्यग्योनिदुःखानि च प्रशमयन्ति / नाभिमण्डलाद् दश ... सर्वयमलोकभवनानि अवभासयन्ति, सर्वयमलौकिकानां सत्त्वानां दुःखानि च प्रशमयन्ति / वामदक्षिणाभ्यां पार्श्वाभ्यां ... मनुष्याश्रयान् ... मनुष्य ... / उभाभ्यां पाणिभ्यां देवासुरभवनानि ... देवासुर ... / अंसाभ्यां ... श्रावकयानीयाश्रयानवभासयन्ति, धर्मालोकमुखं चोपसंहरन्ति / पृष्ठतो ग्रीवायाश्च ... प्रत्येकबुद्धाश्रयानवभासयन्ति, शान्तिसमाधिमुखनयं चोपसंहरन्ति / मुखद्वाराद् ... प्रथमचित्तोपादमुपादाय यावन्नवमीं भूमिमनुप्राप्तान् बोधिसत्त्वानवभासयन्ति, प्रज्ञोपायकौशल्यनयं चोपसंहरन्ति /

ऊर्णाकोशाद्दशरश्म्यसंख्येयशतसहस्राणि निश्चरन्ति, निश्चर्य दशसु दिक्षु सर्वमारभवनान्यवभास्य ध्यामीकृत्य अभिषेकभूमिप्राप्तान् बोधिसत्त्वान् अवभास्य तत्कायेष्वेवास्तं गच्छन्ति / उपर्युत्तमाङ्गात् परिपूर्णदशत्रिसाहस्रासंख्येयशतसहस्रपरमाणुरजःसमा रश्मयो निश्चरन्ति, निश्चर्य दशसु दिक्षु धर्मधातुप्रमाणान्याकाशधातुपर्यवसानानि सर्वतथागतपर्षन्मण्डलान्यवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य उपरिखगपथे स्थित्वा महारश्मिजालमण्डलानि कृत्वा उत्तप्तप्रभासं नाम महत्तथागतपूजोपस्थानं सर्वतथागतानामनुप्रवर्तयन्ति / तस्य पूजोपस्थानस्य प्रथमचित्तोत्पादमुपादाय यावन्नवमीभूम्यनुप्रवर्तितम् तथागतपूजोपस्थानं ... / ततः खल्वपि महारश्मिजालमण्डलाद्यावती दशसु दिक्षु निरवशेषसर्वधर्मधात्वन्तर्गता पुष्पप्रज्ञप्तिर्वा गन्धधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावस्त्राभरणमणिरत्नप्रज्ञप्तिर्वा, ततो ऽतिरिक्ततराः सर्वलोकविषयसमतिक्रान्ता लोकोत्तरकुशलमूलसंभाराधिपत्याभिनिर्वृत्ताः सर्वाकारगुणसंपन्ना अचिन्त्यनिर्वाणाधिष्ठानाधिष्ठिता नानाव्यूहमहारत्नवर्षा इव एकैकतथागतपर्षन्मण्डले महामेघा इवाभिप्रवर्षन्ति स्म / तां च ये सत्त्वाः पूजां संजानन्ते, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ / एवंरूपं पूजोपस्थानं प्रवर्त्य ता रश्मयः पुनरेव सर्वावन्ति तथागतपर्षन्मण्डलान्यवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य तेषां तथागतानामर्हतां सम्यक्संबुद्धानामधस्तात्क्रमतलेषु अस्तं गच्छन्ति /

ततस्तेषां तथागतानां तेषां च बोधिसत्त्वानां विदितं भवति - अमुष्मिन् लोकधातुप्रसरे एवंचर्यानुगतो बोधिसत्त्वो ऽभिषेककालप्राप्त इति / तत्र भो जिनपुत्रा दशभ्यो दिग्भ्यो ऽपर्यन्तेभ्यो लोकधातुप्रसरेभ्यो ऽप्रमेयासंख्येयापर्यन्ता बोधिसत्त्वा यावन्नवमीबोधिसत्त्वभूमिप्रतिष्ठिता आगत्य तं बोधिसत्त्वमनुपरिवार्य महतीं पूजां कृत्वा तमेव बोधिसत्त्वं (dbh 57) निरीक्षमाणा दश समाधिशतसहस्राणि समापद्यन्ते / अभिषेकभूमिप्राप्तानां च बोधिसत्त्वानां कायेभ्यः श्रीवत्सालंकाराद्वज्रस्वस्तिकात् सर्वमारशत्रुविजयो नामैकैका महारश्मिर्दशरश्म्यसंख्येयशतसहस्रपरिवारा निश्चरति, निश्चर्य दशदिशो ऽवभास्य अपर्यन्तानि प्रातिहार्याणि संदर्श्य तस्य बोधिसत्त्वस्य श्रीवत्सालंकारे वज्रस्वस्तिक एवास्तं गच्छति / समनन्तरादस्तमितायाश्च तस्या रश्म्याः शतसहस्रगुणोत्तरा तस्य बोधिसत्त्वस्य बलस्थामाभिवृद्धिः प्रज्ञायते //

अथ खलु भो जिनपुत्राः सर्वज्ञताभिज्ञावत्यो नाम रश्मयस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामूर्णाकोशेभ्यो निश्चरन्त्यसंख्येयपरिवाराः / ताः सर्वासु दशसु दिक्षु अशेषतः सर्वलोकधातूनवभास्य दशाकारं लोकं प्रदक्षिणीकृत्य महान्ति तथागतविकुर्वितानि संदर्श्य बहूनि बोधिसत्त्वकोटिनियुतशतसहस्राणि संचोद्य सर्वबुद्धक्षेत्रप्रसरान् षड्विकारं संप्रकम्प्य सर्वापायच्युतिगत्युपपत्तीः प्रशम्य सर्वमारभवनानि ध्यामीकृत्य सर्वतथागताभिसंबोधिविबुद्धबुद्धासनान्युपसंदर्श्य सर्वबुद्धपर्षन्मण्डलव्यूहप्रभावं निदर्श्य धर्मधातुपरमानाकाशधातुपर्यवसानान् सर्वलोकधातूनवभास्य पुनरेवागत्य तं सर्वावन्तं बोधिसत्त्वपर्षत्संनिपातमुपर्युपरिप्रदक्षिणीकृत्य महाव्युहान्निदर्श्य ता रश्मयस्तस्य बोधिसत्त्वस्योत्तमाङ्गे ऽस्तं गच्छन्ति / तत्परिवाररश्मयश्च तथा संनिपतितानां तेषां बोधिसत्त्वानां शिरस्स्वन्तर्धीयन्ते स्म / समनन्तरसंनिपतिताभिश्च ताभी रश्मिभिस्ते बोधिसत्त्वा अप्रतिलब्धपूर्वाणि दश समाधिशतसहस्राणि प्रतिलभन्ते / ताश्च रश्मयस्तुल्यकालं तस्य बोधिसत्त्वस्योत्तमाङ्गे निपतिता भवन्ति / स च बोधिसत्त्वो ऽभिषिक्त इत्युच्यते सम्यक्संबुद्धविषये / दशबलपरिपूर्या तु सम्यक्संबुद्ध इति संख्यां गच्छति /

तद्यथापि नाम भो जिनपुत्रा यो राज्ञश्चक्रवर्तिनः पुत्रो ज्येष्ठः कुमारो ऽग्र्यमहिषीप्रसूतश्चक्रवर्तिराजलक्षणसमन्वागतो भवति, तं राजा चक्रवर्ती दिव्ये हस्तिसौवर्णे भद्रपीठे निषाद्य, चतुर्भ्यो महासमुद्रेभ्यो वार्यानीय, उपरिरत्नविमानेन धार्यमाणेन महता पुष्पधूपगन्धदीपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकातूर्यतालावचरसंगितिव्यूहेन सौवर्णं भृङ्गारं गृहीत्वा तेन वारिणा तं कुमारं मूर्धन्यभिषिञ्चति / समनन्तराभिषिक्तश्च राजा क्षत्रियो मूर्धभिषिक्त इति संख्यां गच्छति / दशकुशलकर्मपथपरिपूर्या तु चक्रवर्तीति संज्ञां प्रतिलभते / एवमेव भो जिनपुत्राः समनन्तराभिषिक्तो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिर्महाज्ञानाभिषेकाभिषिक्त इत्युच्यते / सम्यक्संबुद्धाभिषेकेण दशबलपरिपूर्या तु सम्यक्संबुद्ध इति संख्यां गच्छति / अयं भो जिनपुत्रा बोधिसत्त्वस्य महाज्ञानाभिषेको यस्यार्थे बोधिसत्त्वो ऽनेकानि दुष्करशतसहस्राण्यारभते / स एवमभिषिक्तो ऽप्रमेयगुणज्ञानविवर्धितो धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठित इत्युच्यते //

सो ऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वो धर्मधातुसमुदागमं च यथाभूतं प्रजानाति / कामधातुसमुदागमं च यथाभूतं प्रजानाति / रूपधातुसमुदागमं च यथाभूतं प्रजानाति / आरूप्यधातुसमुदागमं च यथाभूतं प्रजानाति / लोकधातुसमुदागमं च यथाभूतं प्रजानाति / सर्वसत्त्वधातुसमुदागमं च यथाभूतं प्रजानाति / विज्ञानधातुसमुदागमं (dbh 58) च यथाभूतं प्रजानाति / संस्कृतासंस्कृतधातुसमुदागमं च यथाभूतं प्रजानाति / आकाशधातुसमुदागमं च यथाभूतं प्रजानाति / भूताभूतदेशनां च यथाभूतं प्रजानाति / निर्वाणं च यथाभूतं प्रजानाति / दृष्टिक्लेशसमुदागमं च यथाभूतं प्रजानाति / लोकधातुप्रवृत्तिनिवृत्तिसमुदागमं च यथाभूतं प्रजानाति / श्रावकचर्यासमुदागमं च यथाभूतं प्रजानाति / प्रत्येकबुद्धचर्यासमुदागमं च यथाभूतं प्रजानाति / बोधिसत्त्वचर्यासमुदागमं च यथाभूतं प्रजानाति / तथागतबलवैशारद्यावेणिकबुद्धधर्मरूपकायधर्मकायसमुदागमं च यथाभूतं प्रजानाति / सर्वाकारसर्वज्ञज्ञानसमुदागमं च यथाभूतं प्रजानाति / अभिसंबोधिधर्मचक्रप्रवृत्तिसंदर्शनसमुदागमं च यथाभूतं प्रजानाति / समासतः सर्वधर्मप्रवेशविभक्तिनिष्तीर्णसमुदागमं च यथाभूतं प्रजानाति / स एवंज्ञानानुगतया बुद्ध्या उत्तरि सत्त्वकायनिर्माणं च यथाभूतं प्रजानाति / क्लेशकायनिर्माणं च यथाभूतं प्रजानाति /

दृष्टिकृतनिर्माणं च ... लोकधातुनिर्माणं च ... धर्मधातुनिर्माणं च ... श्रावकनिर्माणं च ... प्रत्येकबुद्धनिर्माणं च ... बोधिसत्त्वनिर्माणं च ... तथागतनिर्माणं च ... सर्वनिर्माणकल्पाकल्पतां च यथाभूतं प्रजानाति / सर्वबुद्धाधिष्ठानं च ... धर्माधिष्ठानं च ... संघाधिष्ठानं च ... कर्माधिष्ठानं च क्लेशाधिष्ठानं च ... कालाधिष्ठानं च ... प्रणिधानाधिष्ठानं च ... पूजाधिष्ठानं च ... चर्याधिष्ठानं च ... कल्पाधिष्ठानं च ... ज्ञानाधिष्ठानं च प्रजानाति / स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां सूक्ष्मप्रवेशज्ञानानि यदुत चर्यासूक्ष्मप्रवेशज्ञानं वा, च्युत्युपपत्तिसुक्ष्मप्रवेशज्ञानं वा, जन्मसूक्ष्मप्रवेशज्ञानं वा, अभिनिष्क्रमणसूक्ष्मप्रवेशज्ञानं वा, अभिसंबोधिसूक्ष्मप्रवेशज्ञानं वा, विकुर्वणसुक्ष्मप्रवेशज्ञानं वा, धर्मचक्रप्रवर्तनसूक्ष्मप्रवेशज्ञानं वा, धर्मदेशनासुक्ष्मप्रवेशज्ञान वा, धर्मविस्तरसूक्ष्मप्रवेशज्ञानं वा, आयुःप्रमाणाधिष्ठानज्ञानं वा, वर्णरूपकायसंदर्शनज्ञानं वा, सर्वसत्त्वविनयातिक्रमणज्ञानं वा, सर्वलोकधातुस्फरणज्ञानं वा, सर्वसत्त्वचित्तचरितव्यवलोकनज्ञानं वा, एकक्षणे त्र्यध्वव्यवलोकनज्ञानं वा, पूर्वान्तापरान्तनिरवशेषज्ञानं वा, सर्वसत्त्वचित्तचरितनानात्वसमन्तज्ञानं वा, तथागतबलवैशारद्यबुद्धधर्माचिन्त्यज्ञानं वा, तथागतपरिनिर्वाणज्ञानं वा, शासनाधिष्ठानसद्धर्मस्थितिज्ञानं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां सुक्ष्मप्रवेशज्ञानानि, तानि सर्वाणि यथाभूतं प्रजानाति /

स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां गुह्यस्थानानि यदुत कायगुह्यं वा वाग्गुह्यं वा चित्तगुह्यं वा कालाकालविचारणागुह्यं वा बोधिसत्त्वव्याकरणगुह्यं वा सत्त्वसंग्रहनिग्रहगुह्यं वा विनेयोत्सादनावसानगुह्यं वा यथाकालाववादानुशासनाध्युपेक्षणं वा याननानात्वव्यवस्थापनगुह्यं वा सत्त्वचर्येन्द्रियविभक्तिगुह्यं वा सत्त्वकर्मक्रियावतारगुह्यं वा बोधिसत्त्वचर्येन्द्रियविभक्तिगुह्यं वा चर्याभिसंबोधिस्वभावप्रभावानुबोधिगुह्यं वा स्वभावाभिसंबोध्यधिष्ठानगुह्यं वा अवतारोत्तारणगुह्यं वा आकर्षणसंप्रेषणगुह्यं वा स्थानचंक्रमणनिषद्याशय्यासनसंदर्शनगुह्यं वा आहारपरिभोगकायोपकरणप्रतिसेवनगुह्यं वा भाषिततूष्णींभावध्यानविमोक्षसमाधिसमापत्तिसंदर्शनगुह्यं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां (dbh 59) गुह्यस्थानानि, तानि सर्वाणि यथाभूतं प्रजानाति / स यानीमानि तथागतानां कल्पप्रवेशसमवसरणज्ञानानि यदुत एककल्पासंख्येयकल्पसमवसरणता / असंख्येयकल्पैककल्पसमवसरणता / संख्येयकल्पासंख्येयकल्पसमवसरणता / असंख्येयकल्पसंख्येयकल्पसमवसरणता / चित्तक्षणकल्पसमवसरणता / कल्पचित्तक्षणसमवसरणता / कल्पाकल्पसमवसरणता / अकल्पकल्पसमवसरणता / सबुद्धककल्पाबुद्धककल्पसमवसरणता / अबुद्धककल्पसबुद्धककल्पसमवसरणता / अतीतानागतकल्पप्रत्युत्पन्नकल्पसमवसरणता / प्रत्युत्पन्नकल्पातीतानागतकल्पसमवसरणता / अतीतकल्पानागतकल्पसमवसरणता / अनागतकल्पातीतकल्पसमवसरणता / दीर्घकल्पह्रस्वकल्पसमवसरणता /

ह्रस्वकल्पदीर्घकल्पसमवसरणता / सर्वकल्पेषु संज्ञाकृतसमवसरणता / सर्वसंज्ञाकृतेषु कल्पसमवसरणता / एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि कल्पप्रवेशसमवसरणानि, तानि सर्वानि यथाभूतं प्रजानाति / स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानामवतारज्ञानानि यदुत वालपथावतारज्ञानं वा परमाणुरजोवतारज्ञानं वा बुद्धक्षेत्रकायाभिसंबोध्यवतारज्ञानं वा सत्त्वकायचित्ताभिसंबोध्यवतारज्ञानं वा सर्वत्रानुगताभिसंबोध्यवतारज्ञानं वा व्यत्यस्तचरिसंदर्शनावतारज्ञानं वा अनुलोमचरिसंदर्शनावतारज्ञानं वा प्रतिलोमचरिसंदर्शनावतारज्ञानं चिन्त्याचिन्त्यलोकविज्ञेयविज्ञेयं चरिसंदर्शनावतारज्ञानं वा श्रावकविज्ञेयप्रत्येकबुद्धविज्ञेयबोधिसत्त्वविज्ञेयतथागतविज्ञेयचरिसंदर्शनावतारज्ञानं वा, तानि सर्वाणि यथाभूतं प्रजानाति / इति हि भो जिनपुत्रा अप्रमेयं बुद्धानां भगवतां ज्ञानवैपुल्यमप्रमाणमेवास्यां भूमौ स्थितस्य बोधिसत्त्वस्यावतारज्ञानम् //

स खलु पुनर्भो जिनपुत्रा बोधिसत्त्व एवमिमां बोधिसत्त्वभूमिमनुगतो ऽचिन्त्यं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते / अनावरणं च नाम विशुद्धिविचयं च नाम समन्तमुखावभासं च नाम तथागतकोशं च नाम अप्रतिहतचक्रानुगतं च नाम त्र्यध्वानुगतं च नाम धर्मधातुगर्भं च नाम विमुक्तिमण्डलप्रभासं च नाम अशेषविषयगमं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते / इति हि भो जिनपुत्रा इमान् दश बोधिसत्त्वविमोक्षान् प्रमुखान् कृत्वा अप्रमेयासंख्येयानि बोधिसत्त्वविमोक्षमुखशतसहस्राणि बोधिसत्त्वो ऽस्यां दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठितः प्रतिलभते / एवं यावत्समाधिशतसहस्राणि धारणीशतसहस्राणि अभिज्ञाभिनिर्हारशतसहस्राणि प्रतिलभते / ज्ञानालोकशतसहस्राणि विकुर्वणशतसहस्राणि प्रसंविन्निर्हारशतसहस्राणि उपायप्रज्ञाविक्रीडितशतसहस्राणि गम्भीरधर्मनयप्रवेशशतसहस्राणि महाकरुणावेगशतसहस्राणि बोधिसत्त्ववशिताप्रवेशशतसहस्राणि प्रतिलभते //

स एवंज्ञानानुगतया बुद्ध्या अप्रमाणानुगतेन स्मृतिकौशल्येन समन्वागतो भवति / स दशभ्यो दिग्भ्यो ऽप्रमेयाणां बुद्धानां भगवतां सकाशादेकक्षणलवमुहूर्तेना अप्रमाणान् महाधर्मावभासान् महाधर्मालोकान् महाधर्ममेघान् सहते संप्रतीच्छति स्वीकरोति (dbh 60) संघारयति / तद्यथापि नाम भो जिनपुत्राः सागरनागराजमेघविसृष्टो महानप्स्कन्धो न सुकरो ऽन्येन पृथिवीप्रदेशेन सोढुं वा संप्रत्येषितुं वा स्वीकर्तुं वा संधारयितुं वा अन्यत्र महासमुद्रात्, एवमेव भो जिनपुत्रा ये ते तथागतानां भगवतां गुह्यानुप्रवेशा यदुत महाधर्मावभासा महाधर्मालोका महाधर्मामेघाः, ते न सुकराः सर्वसत्त्वैः सर्वश्रावकप्रत्येकबुद्धैः प्रथमां भूमिमुपादाय यावन्नवमीभूमिप्रतिष्ठितैरपि बोधिसत्त्वैः, तान् बोधिसत्त्वो ऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ स्थितः सर्वान् सहते संप्रतीच्छति स्वीकरोति संधारयति / तद्यथापि नाम भो जिनपुत्रा महासमुद्र एकस्यापि महाभुजगेन्द्रस्य महामेघान् सहते ... द्वयोरपि त्रयाणामपि यावदपरिमानाणामपि भुजगेन्द्राणामेकक्षणलवमुहूर्तेनाप्रमेयान् महामेघान् सहते ... / तत्कस्य हेतोः? अप्रमाणविपुलविस्तीर्णत्वान्महासमुद्रस्य / एवमेव भो जिनपुत्रा अस्यां धर्ममेघायाम् बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व एकस्यापि तथागतस्य सकाशादेकक्षण ... द्वयोरपि त्रयानामपि यावदपरिमानाणामपि तथागतानां सकाशादेकक्षण ... / तत उच्यत इयं भूमिर्धर्ममेघेति //

विमुक्तिचन्द्रो बोधिसत्त्व आह - शक्यं पुनर्भो जिनपुत्र संख्यां कर्तुं कियतां तथागतानामन्तिकेभ्यो बोधिसत्त्वैकक्षण ...? वज्रगर्भो बोधिसत्त्व आह - न सुकरा भो जिनपुत्र संख्या कर्तु गणनानिर्देशेन - इयतां तथागतानामन्तिकेभ्यो बोधिसत्त्वैकक्षण ... / अपि तु खल्वौपम्यं करिष्यामि / तद्यथापि नाम भो जिनपुत्र दशसु दिक्षु दशबुद्धक्षेत्रानभिलाप्यकोटिनियुतशतसहस्रपरमाणुरजःसमासु लोकधातुषु यावत् सत्त्वधातुनिरवशेषयोगेन संविद्यते / तत एकः सत्त्वः श्रुतग्रहणधारणीप्रतिलब्धो भवेत्तथागतानामुपस्थायको महाश्रावको ऽग्र्यः श्रुतधराणाम् / तद्यथापि नाम भगवतो वज्रपद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य महाविजयो नाम भिक्षुरेवंरूपेण श्रुतकौशल्यबलाधानेन स एकः सत्त्वः समन्वागतो भवेत् / यथा च स एकः सत्त्वस्तथा निरवशेषासु सर्वासु लोकधातुषु ते सर्वे सत्त्वाः समन्वागता भवेयुः / यच्चैकेनोद्गृहीतं स्यान्न द्वितीयेन / तत्किं मन्यसे भो जिनपुत्र बहुतरं तेषामप्रमेयाप्रमाणं वा श्रुतकौशल्यं भवेत्? विमुक्तिचन्द्रो बोधिसत्त्व आह - बहु भो जिनपुत्र अप्रमाणं तत्तेषां सर्वसत्त्वानां श्रुतकौशल्यं भवेत् / वज्रगर्भो बोधिसत्त्व आह - आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि / यं धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व एकक्षणलवमुहूर्तेनैकस्यैव तावत्तथागतस्य सकाशाद्धर्मधातुत्र्यध्वकोशं नाम महाधर्मावभासालोकमेघं सहते ... / यस्य महाधर्मावभासालोकमेघसंधारणकौशल्यस्य तत् पूर्वकं श्रुतकौशल्यं ... क्षमते / यथा चैकस्य तथागतस्य सकाशात्तथा दशसु दिक्षु यावन्ति तासु पूर्विकासु लोकधातुषु परमाणुरजांसि संविद्यन्ते, तावतां सम्यक्संबुद्धानां ततो ऽपि भूय उत्तरि अप्रमेयाणां तथागतानां सकाशादेकक्षणलवमुहूर्तेन धर्मधातुत्र्यध्वकोशं नाम महाधर्मावभासालोकमेघं सहते ... / तत उच्यत इयं भूमिर्धर्ममेघेति //

पुनरपरं भो जिनपुत्र धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वः स्वप्रणिधानबलाधानतो महाकृपाकरुणामेघं समुत्थाप्य महाधर्मावभासगर्जनमभिज्ञाविद्यावैशारद्यविद्युद्विद्योतितं महारश्मिमारुतसमीरितं महापुण्यज्ञानघनाभ्रजालसंदर्शनं विविधकायघनावर्तसंदर्शनं महाधर्मनिर्नादनं नमुचिपर्षद्विद्रावणमेकक्षणलवमुहूर्तेन दशसु दिक्षु यावन्ति तासु लोकधातुषु तानि परमाणुरजांसि संविद्यन्ते तावन्ति लोकधातुकोटिनयुतशतसहस्राणि स्फरित्वा तेभ्यो ऽपि भूयो ऽप्रमेयाणि लोकधातुकोतिनयुतशतसहस्राणि स्फरित्वा महामृतकुशलधाराभिप्रवर्षणेन यथाशयतः सत्त्वानामज्ञानसमुत्थिताः सर्वक्लेशरजोज्वालाः प्रशमयति / तत उच्यत इयं भूमिर्धर्ममेघेति //

पुनरपरं भो जिनपुत्र धर्ममेघायां बोधिसत्त्व एकस्यामपि लोकधातौ तुषितवरभवनवासमुपादाय च्यवनाचंक्रमणगर्भस्थितिजन्माभिनिष्क्रमणाभिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणभूमिरिति सर्वतथागतकार्यमधितिष्ठति यथाशयेषु सत्त्वेषु यथावैनेयिकेषु, एवं द्वयोरपि यावद्यावन्ति तासु लोकधातुषु परमाणुरजांसि संविद्यन्ते, ततो ऽपि भूयो ऽप्रमेयेषु लोकधातुकोटिनियुतशतसहस्रेषु तानि परमाणु ... वैनेयिकेषु //

स एवंज्ञानवशिताप्राप्तः सुविनिश्चितमहाज्ञानाभिज्ञ आकाङ्क्षन् संक्लिष्टाया लोकधातोः परिशुद्धतामधितिष्ठति / परिशुद्धाया लोकधातोः संक्लिष्टतामधितिष्ठति / संक्षिप्ताया लोकधातोर्विस्तीर्णतामधितिष्ठति / विस्तीर्णायाः संक्षिप्ततामधितिष्ठति / एवं विपुलमहद्गताप्रमाणसूक्ष्मौदारिकव्यत्यस्तावमूर्धमतलादीनां सर्वलोकधातूनां वृषभतयानन्तमभिनिर्हारमधितिष्ठति / आकाङ्क्षन् एकस्मिन् परमाणुरजस्येकामपि लोकधातुं सर्वावतीं सचक्रवालपरिखामधितिष्ठति / तच्च परमाणुरजो न वर्धयति तां च क्रियामादर्शयति / द्वे ऽपि तिस्रो ऽपि चतस्रो ऽपि पञ्चापि यावदनभिलाप्यापि लोकधातुरेकस्मिन् परमाणुरजसि सर्वाः सचक्रवालपरिखा अधितिष्ठति / आकाङ्क्षन् एकस्यां लोकधातौ द्विलोकधातुव्यूहमादर्शयति / आकाङ्क्षन् यावदनभिलाप्यलोकधातुव्यूहमादर्शयति / आकाङ्क्षन् एकलोकधातुव्यूहं द्वयोर्लोकधात्वोरादर्शयति / यावदनभिलाप्यासु लोकधातुष्वादर्शयति / आकाङ्क्षन् यावदनभिलाप्यासु लोकधातुषु यः सत्त्वधातुस्तमेकस्यां लोकधातौ संदधाति, न च सत्त्वान् विहेठयति / आकाङ्क्षन् एकस्यां लोकधातौ यावान् सत्त्वधातुस्तमनभिलाप्यासु लोकधातुषु संदधाति ... / आकाङ्क्षन् अनभिलाप्यलोकधातुगतान् सत्त्वानेकवालपथे संदधाति ... / आकाङ्क्षन् एकवालपथे एकं सर्वबुद्धविषयव्यूहमादर्शयति / आकाङ्क्षन् यावदनभिलाप्यान् सर्वाकारबुद्धविषयव्यूहानादर्शयति / आकाङ्क्षन् यावन्त्यनभिलाप्यासु लोकधातुषु परमाणुरजांसि तावत आत्मभावानेकक्षणलवमुहूर्तेन निर्मिमीते / एकैकस्मिंश्च आत्मभावे तावत एव पाणीन् संदर्शयति /

तैश्च पाणिभिर्दशसु दिक्षु बुद्धपूजायां प्रयुज्यते / एकैकेन च पाणिना गङ्गानदीवालिकासमान् पुष्पपुटांस्तेषां बुद्धानां भगवतां क्षिपति / यथा पुष्पाणामेवं गन्धानां माल्यानां विलेपनानां चूर्णानां चीवराणां छत्राणां ध्वजानां पताकानामेवं सर्वव्यूहानाम् / एकैकस्मिंश्च काये तावन्त्येव शिरांसि अधितिष्ठति / एकैकस्मिंश्च शिरसि तावतीरेव जिह्वा अधितिष्ठति / ताभिस्तेषां (dbh 62) बुद्धानां भगवतां वर्णं भाषते / चित्तोत्पादे च दशदिक्फरणं गच्छाति / चित्तक्षणे चाप्रमाणा अभिसंबोधीर्यावन्महापरिनिर्वाणाव्यूहानधितिष्ठति / अप्रमाणकायतां च त्रयध्वतायामधितिष्ठति / स्वकाये चाप्रमाणानां बुद्धानां भगवतामप्रमेयान् बुद्धक्षेत्रगुणव्यूहानधितिष्ठति / सर्वलोकधातुसंवर्तविवर्तव्यूहांश्च स्वकाये ऽधितिष्ठति / सर्वा वातमण्डलीश्चैकरोमकूपादुत्सृजति / न च सत्त्वान् विहेठयति / आकाङ्क्षंश्चैकामप्स्कन्धपर्यन्तं लोकधातुमधितिष्ठति / तस्यां च महापद्ममधितिष्ठति / तस्य च महापद्मस्य प्रभावभासव्यूहेन अनन्ता लोकधातूः स्फरति / तत्र च महाबोधिवृक्षमादर्शयति / यावत्सर्वाकारवरोपेतं सर्वज्ञानत्वं संदर्शयति / स्वकाये दशदिङ्मणिविद्युच्चन्द्रसूर्यप्रभा यावत्सर्वावभासप्रभा अधितिष्ठति / एकमुखवातेन चैकैकस्या दिशः प्रतिदिशमनन्ता लोकधातूः कम्पयति, न च सत्त्वानुत्त्रासयति / दशदिशं च वातसंवर्तनीं तेजःसंवर्तनीमप्संवर्तनीमधितिष्ठति / सर्वसत्त्वांश्च आकाङ्क्षन् यथाभिप्रायं रूपाश्रयालंकृतानधितिष्ठति / स्वकाये च तथागतकायमधितिष्ठति / तथागतकाये च स्वकायमधितिष्ठति /

तथागतकाये स्वबुद्धक्षेत्रमधितिष्ठति / स्वबुद्धक्षेत्रे च तथागतकायमधितिष्ठति / इति हि भो जिनपुत्र धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व इमानि चान्यानि चाप्रमेयासंख्येयानि ऋद्धिविकुर्वणकोटिनयुतशतसहस्राण्यादर्शयति //

अथ खलु तस्याः पर्षदः केषांचिद्बोधिसत्त्वानां केषांचिद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमहेश्वरशुद्धावासानामेतदभवत् - यदि तावद्बोधिसत्त्वस्यैवमप्रमाण ऋद्ध्यभिसंस्कारगोचरः, तथागतानां पुनः किंरूपो भविष्यतीति? अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वस्तस्याः पर्षदश्चित्ताशयविचारमाज्ञाय वज्रगर्भं बोधिसत्त्वमेतदवोचत् - संशयिता बतेयं भो जिनपुत्र पर्षत् / साधु, अस्याः संशयच्छित्यर्थं किंचिन्मात्रं बोधिसत्त्वव्यूहप्रातिहार्यं संदर्शय / अथ खलु वज्रगर्भो बोधिसत्त्वस्तस्यां वेलायां सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनं नाम बोधिसत्त्वसमाधिं समापद्यते / समनन्तरसमापन्ने वज्रगर्भे बोधिसत्त्वे सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनं बोधिसत्त्वसमाधिम्, अथ तावदेव सा सर्वावती बोधिसत्त्वपर्षत् सा च देवनागयक्षशुद्धावासपर्षद् वज्रगर्भस्य बोधिसत्त्वस्य कायान्तरीभूतमात्मानं संजानीते स्म, तत्र च बुद्धक्षेत्रमभिनिर्वृतं संजानीते स्म / तस्मिंश्च बुद्धक्षेत्रे ये आकारव्यूहास्ते न सुकराः परिपूर्णयापि कल्पकोट्या प्रभावयितुम् / तत्र च बोधिवृक्षं दशत्रिसाहस्रशतसहस्रविष्कम्भस्कन्धं परिपूर्णत्रिसाहस्रकोटिविपुलाप्रमाणविटपोद्विद्धशिखरं तदनुरूपं च तस्मिन् बोधिमण्डे सिंहासनवैपुल्यं तत्र सर्वाभिज्ञामतिराजं नाम तथागतं बोधिमण्डवरगतं समपश्यत् / इति हि यावन्तस्तत्र व्यूहाः संदृश्यन्ते ते न सुकराः परिपूर्णयापि कल्पकोट्या प्रभावयितुम् /

स इदं महाप्रातिहार्यं संदर्श्य तां सर्वावतीं बोधिसत्त्वपर्षदं तां च देवनाग ... शुद्धावासपर्षदं पुनरेव यथास्थाने स्थापयामास / अथ खलु सा सर्वावती पर्षदाश्चर्यप्राप्ता तूष्णींभूता तमेव वज्रगर्भं बोधिसत्त्वं निध्यायन्ती स्थिताभूत् / अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - आश्चर्यमिदं भो जिनपुत्र, (dbh 63) अद्भुतं यावदचिन्त्योपमस्य समाधेर्निमेषव्यूहप्रभावः / तत्को नामायं भो जिनपुत्र समाधिः? वज्रगर्भो बोधिसत्त्व आह - सर्वबुद्धक्षेत्रकायस्वभावसंदर्शनो नामायं भो जिनपुत्र समाधिः / विमुक्तिचन्द्रो बोधिसत्त्व आह - कः पुनर्भो जिनपुत्र अस्य समाधेर्गोचरविषयव्यूहः? वज्रगर्भो बोधिसत्त्व आह - आकाङ्क्षन् भो जिनपुत्र बोधिसत्त्वो ऽस्य समाधेः सुपरिभावितत्वाद्गङ्गानदीवालिकासमलोकधातुपरमाणुरजःसमानि दश बुद्धक्षेत्राणि स्वकाये आदर्शयेत्, अतो वा भूय उत्तरि / ईदृशानां भो जिनपुत्र बोधिसत्त्वसमाधीनां धर्ममेघायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो बहूनि शतसहस्राणि प्रतिलभते / तेन तस्य बोधिसत्त्वस्य यावद् यौवराज्यप्राप्तैरपि बोधिसत्त्वैः साधुमतीबोधिसत्त्वभूमौ प्रतिष्ठितैर्न सुकरः कायः कायकर्म वा ज्ञातुम् / न सुकरा वाग्वाक्कर्म वा ज्ञातुम् / न सुकरं मनो मनस्कर्म वा ज्ञातुम् / न सुकरर्द्धिर्ज्ञातुम् / न सुकरं त्र्यध्वविलोकितं ज्ञातुम् / न सुकरः समाधिगोचरानुप्रवेशो ज्ञातुम् / न सुकरो ज्ञानविषयो ज्ञातुम् / न सुकरं विमोक्षविक्रीडितं ज्ञातुम् / न सुकरं निर्माणकर्म वा अधिष्ठानकर्म वा प्रभाकर्म वा प्रभाकर्म वा ज्ञातुम् /

न सुकरं यावत्समासतः क्रमोत्क्षेपनिक्षेपकर्मापि ज्ञातुम् / यावत् यौवराज्य ... / एवमप्रमाणा भो जिनपुत्र इयं धर्ममेघा बोधिसत्त्वभूमिः समासनिर्देशतः / विस्तरशः पुनरसंख्येयकल्पशतसहस्रनिर्देशापर्यन्ताकारतो द्रष्टव्या //

विमुक्तिचन्द्रो बोधिसत्त्व आह - किदृशो भो जिनपुत्र तथागतगोचरविषयप्रवेशो यत्रेदं बोधिसत्त्वानां चर्याविषयाधिष्ठानमेवमप्रमाणम्? वज्रगर्भो बोधिसत्त्व आह - तद्यथापि नाम स्याद्भो जिनपुत्र कश्चिदेव पुरुषश्चतुर्द्वीपिकाया लोकधातोर्द्वौ त्रीन् वा कोलास्थिमात्रान् पाषाणान् गृहित्वैवं वदेत् - कियती नु खलु सा पृथिवीधातुरपर्यन्तासु लोकधातुषु इतः पाषाणेभ्यो महद्गततया वा प्रमाणत्वेनेति? ईदृशमिदं मम त्वद्वचनं प्रतिभाति / यस्त्वमप्रमाणज्ञानिनां तथागतानामर्हतां सम्यक्संबुद्धानां धर्मतां बोधिसत्त्वधर्मतया तुलयसि / अपि तु खलु पुनर्भो जिनपुत्र यथा चातुर्द्वीपिकाया लोकधातोः परीत्ता पृथिवीधातुर्या उद्गृहीताप्रमाणावशिष्टा, एवमेव भो जिनपुत्र अस्या एव तावद्धर्ममेघाया बोधिसत्त्वभूमेरप्रमेयान् कल्पान्निर्दिश्यमानायाः प्रदेशमात्रं निर्दिष्टं स्यात्, कः पुनर्वादस्तथागतभूमेः / आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि / अयं मे तथागतः पुरतः स्थितः साक्षीभूतः / सचेद्भो जिनपुत्र दशसु दिक्षु एकैकस्यां दिशि अपर्यन्तलोकधातुपरमाणुरजःसमानि बुद्धक्षेत्राण्येवंभूमिप्राप्तैर्बोधिसत्त्वैः पूर्णानि भवेयुर्यथेक्षुवनं वा नडवनं वा वेणुवनं वा तिलवनं वा शालिवनं व, तेषामपर्यन्तकल्पाभिनिर्हृतो बोधिसत्त्वचर्याभिनिर्हारतथागतस्यैकक्षणज्ञानप्रसृतस्य तथागतविषयस्य ... / इति हि भो जिनपुत्र एवंज्ञानानुगतो बोधिसत्त्वस्तथागताद्वयकायवाक्चित्तो बोधिसत्त्वसमाधिबलं च नोत्सृजति बुद्धदर्शनपूजोपस्थानं च करोति / स एकैकस्मिन् कल्पे ऽपर्यन्तांस्तथागतान् सर्वाकाराभिनिर्हारपूजाभिः पूजयति /

औदारिकानुगतया पूजया (dbh 64) तेषां च बुद्धानां भगवतामधिष्ठानावभासं संप्रतीच्छति / स भूयस्या मात्रया असंहार्यो भवति धर्मधातुविभक्तिपरिपृच्छानिर्देशैः / अनेकान् कल्पाननेकानि कल्पशतानि ... अनेकानि कल्पकोटिनयुतशतसहस्राणि / तद्यथापि नाम भो जिनपुत्र दिव्यकर्मारकृतं महाभरणोपचारं महामणिरत्नप्रत्युप्तं वशवर्तिनो देवराजस्योत्तमाङ्गे कण्ठे वा आवद्धमसंहार्यं भवति तदन्यैर्दिव्यमानुष्यकैराभरणविभूषणोपचारैः, एवमेव भो जिनपुत्र बोधिसत्त्वस्येमां दशमीं धर्ममेघां भोधिसत्त्वभूमिमनुप्राप्तस्य ते बोधिसत्त्वज्ञनोपचारा असंहार्या भवन्ति सर्वसत्त्वैः सर्वश्रावकप्रत्येकबुद्धैः प्रथमां बोधिसत्त्वभूमिमुपादाय यावन्नवमीं बोधिसत्त्वभूमिमनुप्राप्तैर्बोधिसत्त्वैः / अस्यां च बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य ज्ञानवभासः सत्त्वानां यावत्सर्वज्ञज्ञानावताराय संवर्तते ऽसंहार्यस्तदन्यैर्ज्ञानावभासैः / तद्यथापि नाम भो जिनपुत्र महेश्वरस्य देवराजस्याभा अतिक्रान्ता भवति सर्वोपपत्त्यायतनानि, सत्त्वानां च कायाश्रयान् प्रह्लादयति, एवमेव भो जिनपुत्र बोधिसत्त्वस्य अस्यां दशभ्यां धर्ममेघायां बोधिसत्त्वभूमौ स्थितस्य ज्ञानाभा असंहार्या भवति सर्वश्रावकप्रत्येकबुद्धैः प्रथमां बोधिसत्त्वभूमिमुपादाय यावन्नवमीबोधिसत्त्वभूमिप्रतिष्ठितैर्बोधिसत्त्वैर्यावत्सर्वज्ञज्ञानधर्मतायां च सत्त्वान् प्रतिष्ठापयति / स खलु पुनर्भो जिनपुत्र बोधिसत्त्व एवंज्ञानानुगतो बुद्धैर्भगवद्भिस्त्र्यध्वज्ञानं च संश्राव्यते / धर्मधातुप्रभेदज्ञानं च सर्वलोकधातुस्फरणं च

सर्वलोकधात्ववभासाधिष्ठानं च सर्वसत्त्वक्षेत्रधर्मपरिज्ञानं च सर्वसत्त्वचित्तचरितानुप्रवेशज्ञानं च सर्वसत्त्वयथाकालपरिपाकज्ञानं च विनयानतिक्रमणं च सर्वधर्मप्रविचयविभक्तिज्ञानकौशल्यं च समासतो यावत्सर्वज्ञज्ञानाप्रमाणतां च संश्राव्यते / तस्य दशभ्यः पारमिताभ्यो ज्ञानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम् / इयं भो जिनपुत्र बोधिसत्त्वस्य धर्ममेघा नाम दशमी बोधिसत्त्वभूमिः समासनिर्देशतः / विस्तरशः पुनरसंख्येयापर्यन्तकल्पनिर्देशनिष्ठातो ऽनुगन्तव्या / यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन महेश्वरो भवति देवराजः कृती प्रभुः सत्त्वानां सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वपारमितोपदेशेष्वसंहार्यो धर्मधातुविभक्तिपरिपृच्छानिर्देशैः / यच्च किंचित् ... //

धर्ममेघा नाम बोधिसत्त्वभूमिर्दशमी //

11 परीन्दनापरिवर्तः /

इमास्ताः खलु पुनर्भो जिनपुत्रा दश बोधिसत्त्वभूमयः समासनिर्देशतो निर्दिष्टाः / विस्तरशः पुनरपर्यन्तकल्पनिर्देशनिष्ठातो ऽनुगतव्याः / या अतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, ताः खलु पुनर्भो जिनपुत्र, एता दश बोधिसत्त्वभूमयः सर्वाकारसर्वज्ञज्ञानानुगता द्रष्टव्या अनुपूर्वाभिमुखत्वात् / तद्यथापि नाम भो जिनपुत्र अनवतप्तह्रदप्रभवं प्रवहद्वारि चतुर्भिर्महानदीस्रोतोमुखैर्जम्बूद्वीपं संतर्प्य अक्षयं भूयो विवृद्धमप्रमेयाणां सत्त्वानामुपकारीभूतं यावन्महासमुद्रमर्पयति, तच्च वारि आदित एव महासागराभिमुखम्, एवमेव भो जिनपुत्र बोधिचित्तमहाह्रदप्रभवं प्रवहत् कुशलमूलवारि महाप्रणिधाननदीस्रोतोमुखैश्चतुर्भिः संग्रहवस्तुभिः सर्वसत्त्वधातु संतर्प्य अक्षयं भूय उत्तरि विवृद्धम् अप्रमेयाणां सत्त्वानामुपकारीभूतं यावत्सर्वाकारसर्वज्ञज्ञानमहासमुद्रमर्पयति / तच्च कुशलमूलवारि आदित एव सर्वज्ञतामहासागराभिमुखम् //

ताः खलु भो जिनपुत्र एता दश भूमयो बुद्धज्ञानं प्रतीत्य प्रज्ञायन्ते / तद्यथापि नाम भो जिनपुत्र महापृथिवीं प्रतीत्य दश महारत्नपर्वतराजाः प्रज्ञायन्ते / तद्यथा हिमवान् पर्वतराजो गन्धमादनो वैदल्य ऋषिगिरिर्युगंधरो ऽश्वकर्णगिरिर्निमिंधरश्चक्रवालः केतुमान् सुमेरुश्च महापर्वतराजः / तर भो जिनपुत्र तद्यथापि नाम हिमवान् पर्वतराज आकरः सर्वभैषज्यजातीनामपर्यन्तः सर्वभैषज्यजातिग्रहणतया, एवमेव भो जिनपुत्र प्रमुदितायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्व आकरो भवति सर्वलौकिककाव्यशास्त्रमन्त्रविद्यास्थानानामपर्यन्तः सर्वलौकिककाव्यशास्त्रमन्त्रविद्योपायेन / तद्यथापि नाम भो जिनपुत्र गन्धमादनो महापर्वतराज आकरः सर्वगन्धजातीनामपर्यन्तः सर्वगन्धजातिग्रहणेन, एवमेव भो जिनपुत्र विमलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्व आकरो भवति सर्वबोधिसत्त्वशीलसंवरचारित्रगन्धानामपर्यन्तः सर्वबोधिसत्त्वशीलसंवरचारित्रगन्धसंग्रहणेन / तद्यथापि नाम भो जिनपुत्र वैदल्यो महापर्वतराजः शुद्धो रत्नमय आकरः सर्वरत्नजातीनामपर्यन्तः सर्वलौकिकरत्नजातिग्रहणेन, एवमेव भो जिनपुत्र प्रभाकर्यां बुद्धभूमौ सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तीनाम्, अपर्यन्तः सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तीनाम्, अपर्यन्तः सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तिपरिपृच्छानिर्देशैः /

तद्यथापि नाम भो जिनपुत्र ऋषिगिरिर्महापर्वतराजः पञ्चाभिज्ञानामृषीणामपर्यन्तः पञ्चाभिज्ञर्षिगणनया, एवमेव भो जिनपुत्र अर्चिष्मत्यां बुद्धभूमौ सर्वमार्गामार्गान्तरावतारनिर्देशविशेषज्ञानानामपर्यन्तः सर्वमार्गामार्गान्तरविशेषज्ञानपरिपृच्छानिर्देशैः / तद्यथापि नाम भो जिनपुत्र युगंधरो महापर्वतराजः सर्वयक्षमहर्द्धिकानामपर्यन्तः सर्वयक्षमहर्द्धिकगणनया, एवमेव भो जिनपुत्र सुदुर्जयायां बुद्धभूमौ सर्वाभिज्ञर्द्धिविकुर्वणप्रातिहार्याणामपर्यन्तः सर्वाभिज्ञर्द्धिविकुर्वणप्रातिहार्यपरिपृच्छानिर्देशैः / तद्यथापि नाम भो अश्वकर्णगिरिर्महापर्वतराजः सर्वफलजातीनामपर्यन्तः सर्वफलजातिग्रहणेन, एवमेव भो जिनपुत्र अभिमुख्यां बुद्धभूमौ (dbh 66) प्रतीत्यसमुत्पादावतारनिर्देशानामपर्यन्तः श्रावकफलाभिसमयपरिपृच्छानिर्देशैः / तद्यथापि नाम भो जिनपुत्र निमिंधरो नाम महापर्वतराजः सर्वनागमहर्द्धिकानामपर्यन्तः सर्वनागमहर्द्धिगणनया, एवमेव भो जिनपुत्र दूरंगमायां बुद्धभूमौ उपायप्रज्ञानिर्देशानामपर्यन्तः प्रत्येकबुद्धफलाभिसमयपरिपृच्छानिर्देशैः / तद्यथापि नाम भो जिनपुत्र चक्रवालो नाम महापर्वतराजः वशीभूतानामपर्यन्तो वशीभूतगणनया, एवमेव भो जिनपुत्र अचलायां बुद्धभूमौ सर्वबोधिसत्त्ववशिताभिनिर्हाराणामपर्यन्तो लोकधातुविभक्तिपरिपृच्छानिर्देशैः /

तद्यथापि भो जिनपुत्र केतुमान् नाम महापर्वतराजः असुरमहर्द्धिकानामपर्यन्तो ऽसुरमहर्द्धिकगणनया, एवमेव भो जिनपुत्र साधुमत्यां बुद्धभूमौ सर्वसत्त्वप्रवृत्तिनिवृत्तिज्ञानोपचाराणामपर्यन्तः सर्वजगत्संभवविभवपरिपृच्छानिर्देशैः / तद्यथापि भो जिनपुत्र सुमेरुर्महापर्वतराजः सर्वदेवमहर्द्धिकानामपर्यन्तः सर्वदेवमहर्द्धिकगणनया, एवमेव भो जिनपुत्र धर्ममेघायां बुद्धभूमौ तथागतबलवैशरद्यावेणिकबुद्धधर्माणामपर्यन्तो बुद्धकायसंदर्शनपरिपृच्छानिर्देशैः / यथा खलु पुनरिमे भो जिनपुत्र दश महारत्नपर्वता महासमुद्रसंभूता महासमुद्रप्रभाविताः, एवमेव भो जिनपुत्र इमा अपि दश भूमयं सर्वज्ञतासंभूताः सर्वज्ञताप्रभाविताः //

तद्यथापि भो जिनपुत्र महासमुद्रो दशभिराकारैः संख्यां गच्छत्यसंहार्यतया / कतमैर्दशभिः? यदुत अनुपूर्वनिम्नतश्च मृतकुणपासंवासतश्च अन्यवारिसंख्यात्यजनतश्च एकरसतश्च बहुरत्नतश्च गम्भीरदुरवगाहतश्च विपुलाप्रमाणतश्च महाभूतावासतश्च स्थितवेलानतिक्रमणतश्च सर्वमेघवारिसंप्रत्येषणातृप्तितश्च, एवमेव भो जिनपुत्र बोधिसत्त्वचर्या दशभिराकारैः संख्यां गच्छत्यसंहार्यतया / कतमैर्दशभिः? यदुत प्रमुदितायां बोधिसत्त्वभूमौ अनुपूर्वमहाप्रणिधानाभिनिर्हारनिम्नतः / विमलायां बोधिसत्त्वभूमौ दौःशील्यमृतकुणपासंवासतः / प्रभाकर्यां बोधिसत्त्वभूमौ लौकिकप्रज्ञप्तिसंख्यात्यागतः / अर्चिष्मत्यां बोधिसत्त्वभूमौ बुद्धभेद्यप्रसादैकरसतः / सुदुर्जयायां बोधिसत्त्वभूमौ अप्रमाणोपायाभिज्ञालोकक्रियाभिनिर्हारबहुरत्नतः / अभिमुख्यां बोधिसत्त्वभूमौ प्रतीत्यसमुत्पादप्रत्यवेक्षणदुरवगाहगाम्भीर्यतः / दूरंगमायां बोधिसत्त्वभूमौ बुद्धिप्रविचयकौशल्यविपुलाप्रमाणतः / अचलायां बोधिसत्त्वभूमौ महाव्यूहाभिनिर्हारसंदर्शनमहाभूतावासतः / साधुमत्यां बोधिसत्त्वभूमौ गम्भीरविमोक्षजगच्चरितयथावत्प्रतिवेधस्थितवेलानतिक्रमणतः / धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतधर्मावभासमहामेघवारिसंप्रत्येषणातृप्तितः //

तद्यथापि भो जिनपुत्र महामणिरत्नं यदा दश रत्नगोत्राण्यतिक्रम्य अभ्युत्क्षिप्तं च भवति कुशलकर्मारसुपरितापितं च सुपरिपिण्डितं च सुपरिशोधितं च सुपर्यवदापितं च सुनिर्विद्धं च रत्नसूत्रस्वाविद्धं च उच्चवैडूर्यमणिरत्नदण्डध्वजाग्रावरोपितं च सर्वावभासप्रमुक्तं च राजानुज्ञातं च भवति, तदा सर्वसत्त्वानां सर्वरत्नसंग्रहाय प्रत्युपस्थितं भवति, एवमेव भो जिनपुत्र यदा बोधिसत्त्वानां सर्वज्ञतारत्नचित्तोत्पादो दशार्यरत्नगोत्राण्यतिक्रम्योत्पन्नो भवति (dbh 67) धूतगुणसंलेखशीलव्रततपःसुपरितापितश्च ध्यानसमाधिसमापत्तिसुपरिपिण्डितश्च मार्गाङ्गाकारसुपरिशोधितश्च उपायाभिज्ञासुपर्यवदापितश्च प्रतीत्यसमुत्पादसुनिर्विद्धश्च उपायप्रज्ञाविचित्ररत्नसूत्रस्वाविद्धश्च वशितामहावैडूर्यमणिरत्नदण्डध्वजाग्रावरोपितश्च सत्त्वचरितप्रत्यवेक्षणश्रुतज्ञानावभाससंप्रयुक्तश्च तथागतधर्मराजसम्यक्संबुद्धज्ञानाभिषेकानुगतश्च भवति, तदा सर्वसत्त्वानां सर्वबुद्धकार्यरत्नसंग्रहाय प्रत्युपस्थितो भवति, तदा च सर्वज्ञ इत्याख्यायते // अयं खलु पुनर्भो जिनपुत्र बोधिसत्त्वचर्यासमुदानयनः सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तो नानवरोपितकुशालमूलानां सत्त्वानां श्रवणावभासमागमिष्यति //

विमुक्तिचन्द्रो बोधिसत्त्व आह - येषां पुनर्भो जिनपुत्र अयं सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तः श्रवणावभासमागमिष्यति, ते कियता पुण्योपचयेन समन्वागता भविष्यन्ति? वज्रगर्भो बोधिसत्त्व आह - यावान् भो जिनपुत्र सर्वज्ञज्ञानस्य प्रभावस्तावान् सर्वज्ञताचित्तोत्पादसंग्रहालम्बनात्पुण्योपचयः स्यात् / यावान् सर्वज्ञताचित्तोत्पादसंग्रहालम्बनतः पुण्योपचयस्तावानेवास्य धर्ममुखपरिवर्तस्याभिमुखः पुण्योपचयो ऽनुगन्तव्यः / तत्कस्य हेतोः? न हि भो जिनपुत्र शक्यं अन्यत्र बोधिसत्त्वेन अयं सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तः श्रोतुं वा अधिमोक्तुं वा प्रत्येतुं वा उद्ग्रहीतुं वा धारयितुं वा संधारयितुं वा / कः पुनर्वादो भावनाकारप्रयोगोद्योगनिष्पादनेषु? तस्मात्तर्हि भो जिनपुत्र सर्वज्ञज्ञानमुखानुगतास्ते संधारयितव्याः, ये इमं सर्वज्ञज्ञानगुणसंचयधर्ममुखपरिवर्तं श्रोप्यति, श्रुत्वा चाधिमोक्ष्यन्ते, अधिमुच्य चाधारयिष्यन्ति, भावनाकारेण प्रयोक्ष्यन्ते //

अथ खलु तस्यां वेलायां बुद्धानुभावेन धर्मताप्रतिलम्भेन च दशदिग्लोकदशबुद्धक्षेत्रकोटिपरमाणुरजःसमा लोकधातवः षड्विकारमष्टादशमहानिमित्तमकम्पन्त प्राकम्पन्त संप्राकम्पन्त / अचलन् प्राचलन् संप्राचलन् / अवेधन्त प्रावेधन्त संप्रावेधन्त / अरणन् प्रारणन् संप्रारणन् / अक्षुम्यन् प्राक्षुभ्यन् संप्राक्षुम्यन् / अगर्जन् प्रागर्जन् संप्रागर्जन् / दिव्याश्च पुष्पगन्धमाल्यमेघा अभिप्रावर्षन् / दिव्याश्च वस्त्रमेघा दिव्याश्चूर्णमेघा दिव्या रत्नमेघा दिव्या आभरणमेघा दिव्या छत्रमेघा दिव्या ध्वजमेघा दिव्या पताकामेघा अभिप्रावर्षन् / दिव्यं च सूर्यचक्रात्मभावमण्डलमणिराजसुमेरुमेघवर्षमभिप्रावर्षन् / दिव्यं च सर्वरुतरवितवाद्यमणिराजसुमेरुमेघवर्षमभिप्रावर्षन् / दिव्यं च जाम्बूनदकनकवर्णप्रभामण्डलमणिराजसुमेरुमेघवर्षमभिप्रावर्षन् / दिव्याश्च तूर्यतालावचरसंगीतिमेघा नदन्ति स्म / दिव्यसमतिक्रान्ताः सर्वज्ञताभूम्यभिष्टवसंगीतिमेघा नदन्ति स्म / यथा चास्यां लोकधातौ चातुर्द्वीपिकायां परनिर्मितवशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भप्रासादे, तथा सर्वलोकधातुषु दश दिशः स्फरित्वा इयमेव धर्मदेशना सर्वत्रैव प्रवर्तते स्म / ... दशभ्यो दिग्भ्यो दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनां परेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमा बोधिसत्त्वा आगच्छन्ति दशदिशं स्फरन्तः / ते च आगत्यैवमाहुः - साधु साधु भो जिनपुत्र, यस्त्वमिमां बोधिसत्त्वभूमिधर्मतां सूचयति /

वयमपि भो जिनपुत्र सर्वे वज्रगर्भसमनामका एव वज्रश्रीनामिकाभ्यो (dbh 68) नानालोकधातुभ्य इहागता वज्रध्वजनामकानां तथागतानामन्तिकेभ्यः / सर्वासु च तासु लोकधातुषु इयमेव धर्मदेशना प्रवर्तते बुद्धानुभावेन एवंरूपास्वेव पर्षत्सु / एभिरेव पदैरेभिरेव व्यञ्जनैरेभिरेव निरुक्तैरेतमेवार्थमभिलषद्भिरनूनमनधिकमनतिरिक्तम्, ते वयं भो जिनपुत्र साक्षीभूता बुद्धानुभावेनेमां पर्षदं संप्राप्ताः / यथा च भो जिनपुत्र वयमिमां लोकधातुं संप्राप्तास्तथा च दशसु दिक्षु सर्वलोकधातुष्वेकैकस्यां लोकधातौ चातुर्द्वीपिकायां परनिर्मितवशवर्तिभवने वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भप्रासादे संप्राप्ता इति //

इदमवोचद्वज्रगर्भो बोधिसत्त्वो महासत्त्वो ऽभ्यनुज्ञातस्तथागतेन / आत्तमनाः सा च सर्वावती बोधिसत्त्वपर्षत् सा च देवनाग ... शुद्धावासपर्षद् भगवांश्च परनिर्मितवशवर्तिषु देवेषु विहरन्नचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे वज्रगर्भस्य बोधिसत्त्वस्य भाषितमभ्यनन्दन्निति //

इति परीन्दनापरिवर्तो नामैकादशः //

इति श्रीबोधिसत्त्वचर्याप्रस्थानो दशभूमीश्वरो नाम महायानसूत्ररत्नराजः समाप्तः //

दशभूमिकसूत्रे गाथाविभागः /

1 प्रमुदिता नाम प्रथमा भूमिः /

उपक्रमः /

ते शुक्लधर्मुपचिताः कुशलोपपेताः पर्युपासिताः सुगतमैत्रकृपानुकूलाः / अधिमुक्त्युदार कुशलाशय शुद्धभावाश्चित्तं जनेन्ति अतुलं जिनज्ञानहेतोः // 1 //

सर्वज्ञबुद्धबलशोधनवीर्यस्थामा जिनधर्मनिष्पत्तिजगत्परित्रायणार्थाः / महाकृपोचयवर्तनधर्मचक्रं जिनक्षेत्रशोधमुपपद्यति चित्तश्रेष्ठम् // 2 //

त्र्यध्वैकवीक्षणविबुद्धननिर्विकल्पा नानाविधे जगति कालविशोधनार्थम् / संक्षेपसर्वगुण एषितु नायकानाम् आकाशतुल्य समुदेति उदारचित्तम् // 3 //

प्रज्ञाधिपत्य कृपपूर्वमुपाययुक्तम् अधिमुक्ति-आशयविशुद्धबलाप्रमाणम् / आसङ्गताभिमुखता-अपरप्रणेयं समतोपपेतसुगतं वरचित्तजातम् // 4 //

सहजातिचित्तरतनं सुगतात्मजानाम् अतिक्रान्त बालचरि बुद्धचरि ह्युपेतः / जातः कुले दशबलान अनोद्यपद्यः समतां जिने अनुगतो नियताग्रबोधिः // 5 //

एकस्मि चित्त उपपद्यति भूमिलाभो भवते अचल्यु गिरिराजसमाशयश्च / प्रामोद्यप्रीतिबहुलश्च प्रसादवांश्च उत्साहवेगविपुलः सदुदग्रचित्तः // 6 //

संरम्भहिंसविगतश्च अक्रोधनश्च ह्रीगौरवार्जवतरश्च सुसंवृतश्च / जगतायनं स्मरति अप्रतिमानज्ञानं प्रीतिं जनेत्युपगतस्पृहमेत स्थानम् // 7 //

पञ्चा भया अपगताः सहभूमिलाभो आजीविका मरण कीर्त्यथ दुर्गतिश्च / पर्षद्भयं च विगतं तथ छम्भितत्वं किं कारणं तथ हि आत्मनिकेतु नास्ति // 8 //

ते छम्भितत्वविगताः कृपमैत्रयुक्ताः श्रद्धासगौरवह्रियोपगता गुणाढ्याः / रात्रिंदिवं कुशलपक्ष निषेवमाणाः सत्यार्थ धर्मनिरता न तु कामभोगैः // 9 //

श्रुतधर्मचिन्तकुशला अनिकेतचित्ता लाभादशीचित्तगता उत बोधिचित्ताः / ज्ञानाभिलाषि बलशोधनबुद्धधर्मा एषन्ति पारमित वर्जितमायशाठ्याः // 10 // यथावादिनस्तथक्रियाः स्थितसत्यवाक्या न तु दूषणा जिनकुले चरि बोधिशिक्षाम् / लोकक्रियाय विगता निरता जगार्थं शुक्लैरतृप्त भुमयोत्तरिमारभन्ते // 11 //

ते एव धर्मनिरता गुणार्थयुक्ता अभिनिर्हरन्ति प्रणिधिं जिनदर्शनाय / सद्धर्मधारण उपसंक्रमणा ऋषिणाम् अभिनिर्हरन्ति प्रणीधिं वरचारिकायाम् // 12 //

परिपाकसत्त्वपरिशोधनबुद्धक्षेत्रं ते चास्य क्षेत्र स्फुटिका जिन औरसेहि / एकाशया जिनसुतेहि अमोघतायाः सर्वत्र बालपथि बुद्धिय हेतुमर्थे // 13 //

एतांश्च नैकप्रणिधीनभिनिर्हरन्ति ते चो अनन्तविपुलाय अनन्ततायै / आकाशधातुसत्त्वधर्मतनिर्वृतं च लोको ह्यनिष्ठ जिनमुत्पदि ज्ञानभूमी // 14 //

चित्तस्य नो विषयज्ञानप्रवेशनिष्ठा या वर्तनि त्रिविधनिष्ठ जगत्यनन्ता / प्रणिधाननिष्ठितु भवेन्न ममैवरूपा यथ एत निष्ठ तथ चर्य समा लभेयम् // 15 //

एवं सुनिर्हृतसुमार्दवस्निग्धचित्ताः श्रद्धेत बुद्धगुण सत्त्व विलोकयन्तः / प्रीत्यान्तुलम्भुपगतः कृपमैत्रतां च परितायितव्य मय सत्त्व दुखार्दितानि // 16 //

तेषार्थि त्याग विविधं पुन आरभन्ते राज्यं वरं विविधरत्नहयान् गजांश्च / शिरहस्तपादनयना स्वकमात्ममांसं सर्वं त्यजन्ति न च दीनमना भवन्ति // 17 //

एषन्ति शास्त्र विविधान्न च खेदमेन्ति / शास्त्रज्ञ लोकचरितान्यनुवर्तयन्ति / लोकज्ञतामुपगता ह्रियता धृतिं च पूज्यन्ति चाप्रतिसमान् गुरुगौरवेण // 18 //

एषाभियुक्तविदुना दिवरात्रि नित्यम् उत्तप्यते कुशल स्वर्ण यथैव अग्नौ / सो चापि एव परिकर्म दशान भूमी कृत्वा असङ्गतमुपेति अविष्ठिहन्ता // 19 //

यथ सार्थवाह महसार्थहिताय युक्तो पुच्छित्व मार्गगुण क्षेमतमभ्युपेति / एमेव भूमि प्रथमा स्थित बोधिसत्त्वः कृतनिष्क्रमो दशभिबोधिमुपेत्यसङ्गः // 20 //

अत्र स्थिता गुणधरा नृपती भवन्ति धर्मानुशासक अहिंसक मैत्रयुक्ताः / जम्बुध्वजं सकलराज्य प्रशासयन्तः स्थापेन्ति त्यागि जनतां वरबुद्धज्ञाने // 21 //

आकाङ्क्षमाण वृषभा विजहित्व राज्यं जिनशासने उपगताश्चरि आरभन्तः / लब्ध्वा समाधिशत बुद्धशतं च पश्यि कम्पेन्ति क्षेत्रशतु भासि अतिक्रमन्ति // 22 //

शोध्यन्ति सत्त्वशत धर्ममुखान् विशन्ति प्रविशन्ति कल्पशतकायशतं निदर्शि / पूर्णं शतं जिनसुतान निदर्शयन्ति भूयोत्तरि प्रणिधिश्रेष्ठबलाप्रमाणाः // 23 //

इत्येषा प्रथमा भूमिर्निदिष्टा सुगतात्मजाः / सर्वलोकहितैषीणां बोधिसत्त्वाननुतमा // 24 //

2 विमला नाम द्वितीया भूमिः / उपक्रमगाथाः /

श्रुत्वैतदुत्तमं स्थानं भूम्याः श्रेष्ठं मनोरमम् / प्रसन्नमनसंकल्पहर्षिताः सुगतात्मजाः // 1 //

अभ्युत्थिता आसनेभ्य अभ्युद्गम्य खगपथे / अभ्योकिरन्ति कुसुमैः साध्विति व्याहरी गिरा // 2 //

साधु साधु महाप्राज्ञ वज्रगर्भ विशारद / यन्निर्दिष्टा त्वया भूमि बोधिसत्त्वान या चरी // 3 //

पर्षद्धि विप्रसन्ना तु विमुक्तिचन्द्रः पृच्छति / उत्तरिं कीर्तिया भूमिं द्वितीयां सुगतात्मजाः // 4 //

कीदृशा मनसंकल्पा द्वितीयामभिलक्षतः / प्रव्याहर महाप्राज्ञ श्रोतुकामा जिनात्मजाः // 5 //

उपसंहारगाथाः / ते मार्दवार्जवमृदूकर्मणीयचित्ताः कल्याण-आशय दमाशयताभ्युपेताः / संसर्गपेक्षविगताश्च उदारबुद्धि माहात्म्य आशयविद् द्वितीयाक्रमन्ति // 6 //

अत्र स्थिता गुणधराः कुशलोपपेताः प्राणातिपातविगता अविहिंसचित्ताः / अदत्तदानपगताः परदारतां च सत्यान्विता अपिशुनः पुरुषप्रधानाः // 7 //

परभोगभिद्यविगता विदु मैत्रचित्ताः सम्यक्पथे उपगता अशठज्ञकाश्च / निर्माणकायग्रहणाश्च सुपेशलाश्च रक्षन्ति शास्तुशरणं सद अप्रमत्ताः // 8 //

दुःखानि यानि निरये तथ तिर्यग्योनौ यमशासने ज्वलित-आश्रयनित्युपेताः / सर्वे ति पापपतिताक्षलाः प्रभोन्ति हन्ता विवर्जिय उपेमहि सत्यधर्मम् // 9 //

आदौ च कृत्व मनुजानुपपत्तिमिष्टां यावद्भवाग्रमरणाशयध्यानु शिक्षाम् / प्रत्येकयानमथ श्रावकबुद्धयानं सर्वे इतो दशभि शुक्लपथैः प्रभूतम् // 10 //

एवं विदित्व सततं विदु अप्रमत्ताः शीलेषु संस्थित परानपि स्थापयन्ति / भूयोत्तरे करुण-आशयताभ्युपेताः सत्त्वान् विदित्व दुखितान् कृप संजनेन्ति // 11 //

हन्तो विदृष्टिपतिता इमि बालबुद्धी क्रोधोपनाहद्रुतचित्त विवादप्राप्ताः / सततं अतृप्त विषये भुयु प्रार्थयन्ति त्रिनिदान सत्त्व परिमोचयितव्य एते // 12 //

मह-अन्धकारतमसावृत मोहछन्नाः कान्तारमार्गपतिता महदृष्टिजाले / संसारपञ्जरगता रिपु धर्षयन्ति मोक्षाम्यहं नमुचिपञ्जरमध्यप्राप्तान् // 13 //

क्लेशोर्मिभिह्रियत ओघचतुर्निमग्ना त्रैधातुके दुखशतैः परिपीड्यमानाः / स्कन्धालयाभ्युपगता वृत-आत्मसंज्ञा तेषार्थि युज्यमि अहं दुखमोचनार्थम् // 14 //

अवसृज्य श्रेष्ठप्रवरं इम बुद्धज्ञानं सति एव निःसरणि हीनमतिं जनेन्ति / स्थापेमि तान् विमलज्ञानि तथागतानां वीर्यारभन्ति अतुलं विदु बोधिहेतोः // 15 //

अत्र स्थिता गुणशतोपचिता महर्षि पश्यन्ति नैकसुगतानपि पूजयन्ति / तेषां शुभं भुयु उत्तप्यति कल्पकोट्यां कासीसकाञ्चनवरं च यथा निक्षिप्तम् // 16 //

अत्र स्थिता जिनसुता नृपचक्रवर्ति भूत्वा प्रणेन्ति दशभिः कुशलेभि सत्त्वान् / यच्चैव संचि शुभसंचय संचिनन्ति त्राता भवेम जगतो दशभिर्बलाढ्यैः // 17 //

आकाङ्क्षमाण विजहित्व च रजभोगान् प्रव्रज्य शासनवरे उपगम्य धीराः / वीर्यान्विता लभिय श्रेष्ठवरं समाधिं बुद्धा सहस्र परिपूर्ण क्षेणे दृशन्ति // 18 //

एवंविधा गणनया भुयु अन्य नेका आदर्शयन्ति वृषभी स्थित अत्र भूमौ / अत उत्तरि प्रणिधिज्ञानवराभ्युपेता नैका विकुर्वितविधौ विनयन्ति सत्त्वान् // 19 //

इत्येषा द्वितिया भूमिर्निर्दिष्टा सुगतात्मजाः / सर्वलोकहितैषीणां बोधिसत्त्वाननुत्तमा // 20 //

3 प्रभाकरी नाम तृतीया भूमिः / उपक्रमगाथाः /

एवं श्रुणित्व चरिभूमिमुत्तमां बोधिसत्त्वविषये अचिन्तियाम् / हर्षित जिनसुताः सगौरवाः पुष्पमेघ नभतः प्रमुञ्चिषुः // 1 //

साधु साधु गिरिसारसाकय (?) देशितो विदुन शीलसंवरः / सर्वसत्त्वकरुणाय आशयो भूमिश्रेष्ठ द्वितियाय गोचरः // 2 //

भूततत्त्व वितथामनन्यथा बोधिससत्त्वचरणं मनोरमम् / सर्वलोकहितशौख्यचिन्तना देशितं तु परमप्रभास्वरम् // 3 //

भूयु भूयु नरदेवपूजितां भूमिश्रेष्ठ तृतियामुदाहर / धर्मज्ञानक्रियमुक्ति सूचय यादृशो ऽनुभव तादृ(शो) गोचरः // 4 //

दानशीलचरणं महर्षिणां क्षान्तिवीर्यशमप्रज्ञुपायताम् / मैत्रश्रेष्ठ करुणाय मार्गणं भाषध्वं जिनचरीविशोधनम् // 5 //

विमुक्तिचन्द्र उवाच वज्रगर्भविशारदम् / तृतीया संक्रमन्तानामाशयं भण सूरण // 6 //

उपसंहारगाथाः /

ते शुद्ध-आशय गुणाकर तीक्ष्णचित्ता निर्विण्ण रागविगता अनिवर्तियाश्च / दृढचित्त तप्तधृतियुक्ति उदारवेगा माहात्म्यताशयविदू तृतियाक्रमन्ति // 7 //

अत्र स्थिता विदु प्रभाकरिभूमिदेशे दुःखं अनित्यमशुचिं च प्रलोपधर्मम् / अचिरस्थिताक क्षणिकं च निरोधकं च विचिनन्ति संस्कृतगतीकमनागतीकम् // 8 //

ते रोगभूतसहशोकपरदेवनं च सोपायसं च प्रिय अप्रियतानुबद्धम् / दुःखदौर्मनस्यनिलयं ज्वलिताग्निकल्पं पश्यन्ति संस्कृतमनन्त समुज्ज्वलन्ति // 9 //

उद्विग्न सर्व त्रिभवे अनपेक्षचित्ता ज्ञानाभिलाष सुगतानमनन्यबुद्धिः / अविचिन्तियं अतुलियं असमन्तपारं संपश्यते निरुपताप जिनान ज्ञानम् // 10 //

ते बुद्धज्ञान निरुपद्रवमीक्षमाणा अत्राण नाथरहिता व्रजते चरन्ति / नित्यं दरिद्र त्रिभिरग्निभि संप्रदीप्ता भवचारके दुखशतैर्विनिबद्धचित्ताः // 11 //

क्लेशावृताश्च अविलोकन छन्दहीनाः सुगतान धर्मरतनानुप्रनष्ट बालाः / संसारस्रोत-अनुवाहिन मोक्षत्रस्ता मे त्रायितव्य दृढ वीर्य समारभन्ते // 12 //

ज्ञानाभिलाष अनपेक्ष जगार्थचारी व्युपरीक्षते कतम हेतु जगस्य मोक्षे / नान्यत्र नावरणज्ञान तथागतानां ज्ञानं च प्रज्ञप्रभवं सुगताननन्तम् // 13 //

प्रज्ञा श्रुतात्तु इति चिन्तयि बोधिसत्त्वो ज्ञात्वा तमारभति वीर्य श्रुतार्थचारी / रात्रिंदिवं श्रवणहेतु अनन्यकर्मा अर्थार्थिको भवति धर्मपरायणश्च // 14 //

मणिमुक्तिरत्ननिलयान् प्रियबान्धवांश्च राज्यं अनन्त विविधान् पुर स्थानश्रेष्ठान् / भार्यासुतांश्च परिवार मनोनुकूलान् अनपेक्षचित्तु त्यजते विदु धर्महेतोः // 15 //

शिर हस्तपाद नयन स्वकमात्ममांसं जिह्वा च दंष्ट्र श्रव नासिक शोणितं च / हृदयं तुपाद्य प्रिय मज्ज परित्यजन्ति ना दुष्करेतमथ दुष्कर यच्छृणोति // 16 //

यदि कश्चिदेनमुपगम्य वदेय्य एवं यदि अग्निगर्भ प्रपते ज्वलितापि घोरम् / प्रापिष्य धर्मरतनं सुगतोपनीतं श्रुत्वा अदीनमनसः प्रपते गुणार्थी // 17 //

एकस्य धर्मपद अर्थ सुमेरुमूर्ध्ना त्रिसहस्र अग्निरुचितं अपि ब्रह्मलोकात् / सूदूर्लभा इमि जिनस्य उदारबोधिः ये मानुष्येण सुख लभ्यति एवरूपम् // 18 //

यावत्तरेण पवरर्षिण ज्ञानलाभस्तावत्तरं दुखमवीचिकमुत्सह्यमि / किं वा पुनर्विविधमानुषदुःखस्कन्धं हन्ताभ्युपेमि वरधर्मिपदार्थिदुःखम् // 19 //

धर्मं च श्रुत्व पुन योनिषु चिन्तयाति ध्यानाप्रमाण चतुरश्च तथा अरूप्या / पञ्चाप्यभिज्ञ प्रवरा अभिनिर्हरन्ति ना चापि तेषु वशिता उपपद्य याति // 20 //

अत्र स्थिता गुणधरा बहुबुद्धकोट्यः पूज्यन्ति निश्चितमना शृणुवन्ति धर्मम् / तनुभूत्व मिथ्यपगताः परिशुद्धयन्ति स्वर्णे यथा विगतदोष प्रमाणतुल्यम् // 21 //

अत्र स्थिता गुणधरास्त्रिदशाधिपत्यं कारेन्ति ईश्वर निवर्तितु कामरागाः / मरुसंघ नेकविविधान् कुशलान मार्गे स्थापेन्त्यनन्यमन बुद्धगुणाभिलाषे // 22 //

अत्र स्थिता जिनसुता विरियारभन्ते लब्ध्वा समाधिन सहस्रशतं अनूनम् / पश्यन्ति बुद्धवर लक्षणचित्रिगात्रां भूयो अतः प्रणिधिश्रेष्ठ गुणाप्रमाणाः // 23 //

इत्येषा तृतिया भूमिनिर्दिष्टा सुगतात्मजाः / सर्वलोकहितैषीणां बोधिसत्त्वाननुत्तमा // 24 //

4 अर्चिष्मती नाम चतुर्थी भूमिः / उपक्रमगाथाः /

एवं श्रूणित्व चरणं विपुलं भूम्युत्तमं मनुरमं प्रवरम् / संहर्षिता जिनसुतात्तमना अभ्योकिरन्ति कुसुमेभि जिनम् // 1 //

संकम्पिता लवणतोयधरा इह धर्मदेशनमुदीरयताम् / मरुकन्यका अभिमनोरुचिराः संगीतियुक्त वरधर्मरताः // 2 //

वशवर्ति देवपतिरात्तमना मणिरत्न दिव्य सुगतस्य क्षिपी / वाचं अभाषि अथ एव जिनो उत्पन्न अर्थ गुणपारगतो // 3 //

किं कारणं तथ हि धर्मवरं संबोधिसत्त्वचरणं परमम् / भूमिर्विदू न इयमद्य श्रुता यस्याश्रवो दुर्लभ कल्पशतैः // 4 //

भूयः प्रभाष नरदेवहिता चर्यावरां जिनसुतान् विदू / श्रोष्यन्ति ते मरुतसंघगणा भूतं विनिश्चयमनन्यपदम् // 5 //

विमुक्तिचन्द्रः पुनर्वीरो आलपी सुगतात्मजम् / चतुर्थी संक्रमन्तानां गोचरं भण उत्तमम् // 6 //

उपसंहारगाथाः / परिकर्मिता तृतीयभूमिप्रभंकराय सत्त्वचर्यलोक तथ धर्म विचार्यमाणः / आकाशधातु मनधातु त्रयश्च धातु अधिमुक्ति आशय विशुद्धि समाक्रमन्ति // 7 //

सहप्राप्तु अर्चिष्मति भूमि महानुभावः संवृत्तु शास्तु कुलु भूयु विवर्तियत्वे / अभेद्य बुद्धरतने तथ धर्मसंघे उदयव्ययस्थिति निरीहक प्रेक्षमाणः // 8 //

लोकप्रवृत्ति क्रियकर्म भवोपपत्तिं संसारनिर्वृतिविभावन क्षेत्रसत्त्वान् / धर्माञ्च पूर्वमपरान्त क्षयानुत्पादं संवृत्तु भावयति शास्तु कुलानुवर्ती // 9 //

सो एषु धर्मु समुपेतु हितानुकम्पी भावेति कायमपि वेदन चित्तधर्मान् / अध्यात्मबाह्युभयथा विदु भावयाति स्मृत्योपस्थानभावन निकेतवर्जिता // 10 //

पापक्षयात्कुशलधर्मविवर्धिता च सम्यक्प्रहाण चतुरो विदु भावयन्ति / चतुऋद्धिपाद बल इन्द्रिय भावयन्ति बोध्यङ्गरत्न रुचिरं तथ मार्ग श्रेष्ठम् // 11 //

भावेन्ति तान् जनयतां समवेक्ष्य बुद्धिम् उपस्तम्भयन्ति प्रणिधिं कृतपूर्वमैत्राः / सर्वज्ञज्ञानमभिप्रार्थन बुद्धक्षेत्रं बलश्रेष्ठमुत्तमपथं अनुचिन्तयन्तः // 12 //

वैशारदं अपि च धर्म अहार्य शास्तुः वरवुद्धघोषमभिप्रार्थयमान धीराः / गम्भीरमार्गरतनं च विमोक्षस्थानं महतामुपाय समुदागम भावयन्ति // 13 //

सत्कायदृष्टिविगताश्च द्विषष्टिदृष्टी अत्तात्तमीयविगतास्तथ जीवलाभम् / स्कन्धास्तु द्वार तथ धातुनिकेतस्थानं सर्वप्रहाण विदुषं चतुथाय भूम्याम् // 14 //

सो यानिमानि सुगतेन विवर्णितानि कर्माणि क्लेशसहजानि अनर्थकानि / तानि प्रहाय विदु आशयतो विशुद्धा धर्मारभन्ति कुशलं जगऊतायणार्थम् // 15 //

सुस्निग्धचित्त भवती विदु अप्रमत्तो मृदुचित्तु सार्जव हितासुख-आवहश्च / अपरिक्लिष्टश्च परिमार्गति उत्तमार्थं ज्ञानाभिषेकमभिलाषि जगार्थचारी // 16 //

गुरुगौरवेषुपगतः प्रतिपत्तिकामो भवते कृतज्ञ सुमनाश्च अकूहकाश्च / निर्मायतागहन आशयसूरतश्च अविवर्त्यवीर्यु भवते समुदानयन्तः // 17 //

तस्यात्र भूमि रुचिराय प्रतिष्ठितस्य अध्याशयं अपि च शुद्धमुपेति धर्मम् / अधिमुक्ति तप्यति विवर्धति शुक्लधर्मो मलकल्मषं विमति शंशय सर्व यान्ति // 18 //

अत्र स्थिता नरवरर्षभ बोधिसत्त्वाः सुगताननेकनयुतानभिपूजयन्ति / शृण्वन्ति धर्म यथ शासनि प्रव्रजन्ति असंहार्य शक्य कृतकाञ्चनभूषणं वा // 19 //

अत्र स्थितान विदुना गुणमाशयं च ज्ञानं उपाय चरणं च विशुद्धिमार्गः / नो शक्यु मारनयुतेभि निवर्तनाय रत्नप्रभेव यथ वर्षजलैरहार्या // 20 //

अत्र स्थिता नरमरुद्गणपूजनार्हा भोन्ती सुयामपतिरीश्वर धर्मचारी / सत्त्वानि दृष्टिगहनाद्विनिवर्तयन्ति संभारयन्ति कुशला जिनज्ञानहेतोः // 21 //

विर्योपपेत शतकोटि मरर्षभाणां पश्यन्त्यनन्यमनसः सुसमाहितत्वात् / तत उत्तरिं बहुकल्पमभिनिर्हरन्ति ज्ञानाकरा प्रणिधिश्रेष्ठ गुणार्थचारी // 22 //

चतुर्थी इतियं भूमिर्विशुद्धा शुभचारिणी / गुणार्थज्ञानयुक्तानां निर्दिष्टा सुगतात्मजाः // 23 //

5 सुदुर्जया नाम पञ्चमी भूमिः / उपक्रमगाथाः /

चरणमथ श्रुणित्वा भूमिश्रेष्ठां विदूनां जिनसुत परितुष्टा हर्षिता धर्महेतोः / गगनि कुसुमवर्षं उत्सृजन्ती उदग्राः साधु सुगतपुत्र व्याहृतं ते महात्मा // 1 //

मरुपति वशवर्ती सार्ध देवागणेन स्वगगत सुगतस्य पूजानार्थं उदग्रा / विविधरुचिरमेघाः स्निग्ध-आभा मनोज्ञाः अभिकिर सुगतस्य हर्षिताः प्रीणिताश्च // 2 //

गीतरुत मनोज्ञा वाद्यतूर्याभिनादा देववधुप्रयुक्ताः शास्तु संपूजनार्थम् / जिन पुन तथरूपं दर्शयन्ति स्म स्थानं सर्वरुतस्वरेभी एव शब्दः प्रयुक्तः // 3 //

सुचिरेण आशयु प्रपूर्ण मुनेः सुचिरेण बोधि शिव प्राप्त जिनः / सुचिरेण दृष्ट नरदेवहितः संप्राप्त देवपुरि शाक्यमुनिः // 4 //

सुचिरेण सागरजलाः क्षुभिताः सुचिरेण आभ शुभ मुन्नि जने / सुचिरेण सत्त्व सुखिताः सुचिरेण शासु श्रुत कारुणिकः // 5 //

सुचिरेण संगमु महामुनिना संप्राप्त सर्वगूणपारमितः / मद मान दर्प प्रजहित्व तमं पूजार्हु पूजिम महाश्रमणम् // 6 //

(इह पूजि कृत्व खगमार्गगता) इह पूजि कृत्व सुख नेकविधम् / इह पूजि कृत्व दुखसर्वक्षये इह पूजि कृत्व जिन ज्ञानवरम् // 7 //

गगनोपमः परमुशुद्धु जिनु जगती अलिप्तु यथ पद्मु जले / अभ्युद्गतो उदधि मेरुरिव हर्षित्व चित्तु जिन पूजयथा // 8 //

अथाब्रवीद्वज्रगर्भं विमुक्तिचन्द्रो विशारदः / पञ्चम्या भूम्य आकरान् निर्दिशस्व विशारद // 10 //

उपसंहारगाथाः /

एवं विशोधित चतुर्षु जिनचरीषु बुद्धया त्रियाध्वसमता अनुचिन्तयन्ति / शीलं च चित्तप्रतिपत्तितु मार्गशुद्धिः काङ्क्षाविनीत विदु पञ्चमि आक्रमन्ति // 11 //

स्मृति चाप इन्द्रिय इषु अनिवर्तिताश्च सम्यक्प्रहाण हय वाहन ऋद्धिपादाः / पञ्च बलाः कवच सर्वपिपू-अभेब्याः शूराणिवर्ति विदु पञ्चमि आक्रमन्ति // 12 //

ह्यपत्राप्यवस्त्रविदुनां शुचिशीलगन्धो बोध्यङ्गमाल्यवरध्यानविलेपनं च / प्रज्ञाविचारणविभूषणुपायश्रेष्ठम् उद्यानधारणित पञ्चमिमाक्रमन्ति // 13 //

चतुऋद्धिपादचरणाः स्मृतिशुद्धिग्रीवाः कृपमैत्रश्रेष्ठनयना वरप्रज्ञदंष्ट्रा / नैरात्म्यनाद रिपुक्लेश प्रधर्षमाणा नरसिंह सम्य विदु पञ्चमिमाक्रमन्ति // 14 //

ते पञ्चमीमुपगता वरभूमिश्रेष्ठां परिशुद्धमार्ग शुभमुत्तरि भावयन्ति / शुद्धाशया विदु जिनत्वनुप्रापणार्थी कृपमैत्रखेदविगता अनुचिन्तयन्ति // 15 //

संभारपुण्युपचया तथ ज्ञान श्रेष्ठं नैका उपाय अभिरोचनभूम्य भासान् / बुद्धधिष्ठान स्मृतिमां मतिबुद्धिप्राप्ता चत्त्वारि सत्य निखिलाननुचिन्तयन्ति // 16 //

परमार्थसत्यमपि संवृतिलक्षणं च सत्यविभागमथ सत्यनितीरणं च / तथ वस्तु सास्रव क्षयं अपि मार्गसत्यं यावन्तनावरणसत्य समोसरन्ति // 17 //

एवं च सत्य परिमार्गति सूक्ष्मबुद्धिः न च तावदनावरणप्राप्तु विमोक्षं श्रेष्ठम् / ज्ञानाधिमुक्तिविपुलात्तु गुणाकराणाम् अतिभोन्ति सर्वजगतो अर्हप्रत्ययानाम् // 18 //

सो एव सत्य-अभिनिर्हृत तत्त्वबुद्धिः जानाति संस्कृत मृषाप्रकृती असारम् / कृपमैत्र-आभ लभते सुगतान भूयः सत्त्वार्थिकः सुगतज्ञान गवेषमाणः // 19 //

पूर्वापरे विदु निरीक्षतु संस्कृतस्य मोहान्धकारतमसावृत दुःखलग्ना / अभ्युद्धरोति जगतो दुखस्कन्धवृद्धान् नैरात्म्यजीवरहितांस्तृणकाष्ठतुल्यान् // 20 //

क्लेशाद्वयेन युगपत्पुनर्भासि त्र्यध्वं छेदो दुखस्य न च अन्त समोसरन्तः / हन्तो प्रणष्ट जन ते ऽतिदयाभिजाता संसारस्रोत न निवर्तति निःस्वभावम् // 21 //

स्कन्धालया उरगधातु कुदृष्टिशल्याः संतप्त अग्निहृदयावृत अन्धकारे / तृष्णार्णवप्रपतिता अवलोकनत्वात् जिनसार्थवाहविरहा दुख-अर्णवस्थाः // 22 //

एवं विदित्व पुनरारभते ऽप्रमत्तो तच्चैव आरभति सर्वजगद्विमोक्षी / स्मृतिमन्तु भोन्ति मतिमान् गतिमान् धृतीं च ह्रीमांश्च भोन्ति तथ बुद्धिन प्रज्ञवांश्च // 23 //

अवितृप्तु पुण्युपचये तथ ज्ञान श्रेष्ठं नो खेदवान्न शिथिलो बलमेषमाणः / क्षेत्रं विधाय जिनलक्षणबुद्धघोषम् अवितृप्तसर्वक्रिय सत्त्वहितार्थयुक्तः // 24 //

परिपाचनाय जगतो विदु शिल्पस्थानान् लिपिमुद्रसंख्यगणधातुचिकित्सतन्त्रान् / भूतग्रहाविषमरोगनिवर्तनार्थं स्थापेन्ति शस्त्र रुचिरान् कृपमैत्रबुद्धी // 25 //

वरकाव्यनाटकमतिं विविधप्रहर्षान् नद्योदियानफलपुष्पनिपद्यस्थानान् / स्थापेन्ति नेकक्रिय सत्त्वसुखापनार्थं रत्नाकरांश्च उपदर्शयि नैकरूपान् // 26//

भूमीचलं च ग्रह ज्योतिष चन्द्रसूर्यौ सर्वाङ्गलक्षणविचारणराज्यस्थानम् / आरूप्यध्यान तथभिज्ञ अथाप्रमाणा अभिनिर्हरन्ति हितसौख्यजगार्थकामाः // 27 //

इह दुर्जयामुपजता वरप्रज्ञचारी पूजेन्ति बुद्ध नयुता शृणुवन्ति धर्मम् / तेषां शुभं पुनरुत्तप्यति आशयश्च स्वर्णं यथा मुसरगल्वयसंविमृष्टम् // 28 //

रत्नामया ग्रहविमान् वहन्ति वाता ते येहि तेहि तु वहन्ति असंहृताश्च / तथ लोकधर्मि चरमान जगार्थचारी असंहार्य भोन्ति यथ पद्म जले अलिप्तम् // 29 //

अत्र स्थिता तुषित ईश्वर ते कृतावी नाशेन्ति तीर्थ्यचरणान् पृथुदृष्टिस्थानान् / यच्चाचरन्ति कुशलं जिनज्ञानहेतोः सत्त्वान त्रात भवमो दशभिर्बलाढ्यैः // 30 //

ते वीर्यमुत्तरि समारभि अरमत्ताः कोटिसहस्र सुगतानभिपूजयन्ति / लब्ध्वा समाधि विदु कम्पयि क्षेत्रकोटी प्रणिधीविशेषु अनुभूय गुणाकरानाम् // 31//

इत्येषा पञ्चमी भूमिर्विचित्रोपायकोटिभिः / निर्दिष्टा सत्त्वसाराणामुत्तमा सुगतात्मजाः // 32 //

6 अभिमुखी नाम षष्ठी भूमिः / उपक्रमगाथाः /

चरणवर श्रुणित्वा भूमिश्रेष्ठं विदूनां गगनि सुगतपुत्रा हर्षिताः पुष्पवर्षी / मणिरतन उदारा आभयुक्ता विशुद्धा अभिकिर सुगतस्य साध्विति व्याहरन्तः // 1 //

मरुत शतसहस्रा हर्षिता अन्तरीक्षे दिविय रुचिर चित्रा रत्नचूर्णा उदाराः / अभिकिर सुगतेभ्यो गन्धमाल्यानुलेपान् छत्रध्वजापताकाहारचन्द्रार्धहारान् // 2 //

मरुपति वशवर्ती सर्वदेवगणेन उपरि खग पठित्वा मेघ रत्नामयानि / अभिकिरिषु प्रसन्नः पूजनार्थं जिनस्य साधु सुगतपुत्रा व्याहरी हृष्टचित्ताः // 3 //

अमरवधुसहस्राण्यन्तरीक्षे स्थितानि गीत रुत मनोज्ञा वाद्यसंगीतियुक्ता / सर्वरुतस्वरेभ्यो एव शब्दा रवन्ते जिन कृतु सुमनोज्ञैः क्लेशतापस्य हन्ता // 4 //

शून्य प्रकृतिशान्ता सर्वधर्मानिमित्ताः खगपथसमतुल्या निर्विकल्पा विशुद्धाः / गतिस्थितिविनिर्वृत्ता निष्प्रपञ्चा अशेषा तथतसम तथत्वाद्धर्मता निर्विकल्पा // 5 //

यैः पुनरनुबुद्धाः सर्वधर्मेव तेषां भावि तथ अभावे इञ्जना नास्ति काचित् / कृप करुण जगे च मोचनार्थं प्रयुक्तास्ते हि सुगतपुत्रा औरसा धर्मजाताः // 6 //

दानचरि चरन्ते सर्व हित्वा निमित्तं शीलसुधृतचित्तां आदिशान्ता प्रशान्ताः / जगति कृत क्षमन्ते अक्षया धर्मज्ञानी विरियबलौपेताः सर्वधर्माविविक्ताः // 7 //

ध्याननयप्रविष्टा जीर्णक्लेशा विशुद्धाः सर्वविदितवस्तू आदिशून्याधिमुक्ताः / ज्ञानक्रियबलाढ्या नित्ययुक्ता जगार्थं ते हि सुगतपुत्राः शान्तपापा महात्माः // 8//

ईदृशा रुतसहस्र भणित्वा खे स्थिताः सुमधुरा सुरकन्याः / तूष्णिभूत जिनमीक्षि प्रसन्ना धर्मगौरवरता मरुकन्याः // 9 //

विमुक्तिचन्द्र अब्रवीद्वज्रगर्भं विशारदम् / कीदृशाकारनिष्पत्तिः पञ्चमायामनन्तरम् // 10 //

उपसंहारगाथाः / परिपूर्णमार्गचरणा विदु पञ्चमायां धर्मानिमित्तत अलक्षणता अजाता / अनुत्पाद आदिपरिशुद्ध्यतिनिष्प्रपञ्चा भावेत्व ज्ञानमति षष्ठि समाक्रमन्ति // 11 //

धर्मा विविक्त अप्रतिग्रह निर्विकल्पा मायास्वभाव द्वयभावतु विप्रयुक्ता / अनुलोमयन्त अविलोमन्त धर्मनेत्री ज्ञानान्विताः प्रवर षष्ठि समाक्रमन्ति // 12 //

तीक्ष्णानुलोमस्थित ज्ञानबलोपपेताः समुदागमं विभवु प्रेक्षिषु सर्वलोके / मोहान्धकारप्रभवं जगसंभवात्मा तस्यैव मोहविगमेन प्रवृति नास्ति // 13 //

विचिनन्ति प्रत्ययकृतिं परमार्थशून्यां क्रिय हेतुप्रत्ययसमज्ञ क्रियाविरोधौ / याथावतः करकपेतक्रियां विदित्वा विचिनन्ति संस्कृत घनाभ्रसमं निरीहम् // 14//

सत्येषु ऽज्ञानु परमार्थतु सा अविद्या कर्मा च चेतनबलेन विभागप्राप्तम् / चित्तं निश्रित्य सहजं पुन नामरूपम् एवंमुखा भवति याव दुखस्य स्कन्धः // 15 //

ते चित्तमात्र ति त्रैधातुकमोतरन्ति अपि चा भवाङ्ग इति द्वादश एकचित्ते / संरागु जातु अपि चित्तु प्रभावितस्तु एवं च संभवक्षयं पुन चित्तभागम् // 16 //

कार्यं अविद्यद्वय कुर्वति मोहभावे मोहेभि हेतु वहते पुन चेतनायाः / एवं च याव जरध्वंसनस्कन्धभेदम् अनु सर्व दुःखप्रभवं क्षयतः अभावः // 17 //

उच्छेदु नो भवति प्रत्ययतामविद्या नोच्छेद्यतापि कर प्रहाय संनिरोधम् / मोहो तेषु च उपादानं क्लेशवर्त्म कर्म भवं च अपि चेतन शेष दुःखा // 18 //

मोहं तु आयतन संस्कृतदुःख तेषां स्पर्शं च वेदन सुखादुखताय दुःखा / शेषानमङ्गनपरिणामदुःखवृद्धिः व्युच्छेद तस्य दुःखता न हि आत्ममस्ति // 19 //

अध्वेषु पूर्वं तमचेतनसंस्कृतस्य विज्ञान वेदन विवर्तति प्रत्युत्पन्नम् अपरान्तु तेषु प्रभवो दुखसंभवेयम् आपेक्ष च्छेदु प्रसरं च निरीक्षयन्तः // 20 //

मोहस्य प्रत्ययतु संभवते विबन्धा विनिबन्धनव्ययक्षये सति प्रत्ययानाम् / हेतोश्च मूलप्रभवं न तु हेतुभेदं व्युपरीक्षते च जिन ज्ञान स्वभावशून्यम् // 21 //

अनुलोम मोहप्रभवं च प्रभावतश्च प्रतिलोमहेतु क्षयतो भव सर्वच्छेद्यम् / गम्भीरप्रत्ययतमस्य सतो ऽसतश्च व्युपरीक्षते दशविधं अनिकेतबुद्धिः // 22 //

संधी भवाङ्गतु तथापि च कर्मस्थानम् अविभागतस्त्रिविधु वर्त्मनि पूर्वतश्च / त्रियहेतु दुःखविभवा उदय व्ययं च अभावतो ऽक्षयत प्रत्यय आनुलोमम् // 23 //

एवं प्रतीत्यसमुत्पाद समोतरन्ति मायोपमं वितथ वेदकर्मापनीतम् / स्वप्नोपमं च तथता प्रतिभास चैव बालान मोहन मरीचिसमस्वभावम् // 24 //

या एव भावन स शून्यत पण्डितानां रति प्रत्ययान भवते इदमानिमित्तम् / जानित्व जातु वितथं प्रणिधातु नास्ति अन्यत्र सत्त्वकृपया उपपद्यन्ति // 25 //

एवं विमोक्षमुख भावयि ते महात्मा कृपबुद्धि भूय तथ बुद्धगुणाभिलाषी / संयोगसंस्कृतिकृत व्युपरीक्षमाणो नियताशयो भवति नैकगुणोपपेतः // 26 // पूर्णा सहस्र दश शून्यतये समाधी तथ आनिमित्तवरदं च विमोक्ष तायी // 27 // प्रल्हादयन्ति जगदाशय चन्द्र-आभा वहमानु वात चतुरो असंहार्यप्राप्ता / अतिक्रम्य मारपथमाभ जिनौरसानां प्रशमेन्ति क्लेशपरिताप दुखार्दितानाम् // 28 //

इह भूमिदेशुपगता मरुताधिपास्ते भोन्ती सुनिर्मित कृतावधिमानघाती / यं चैव आरभिषु ज्ञानपथोपपेता असंहार्य श्रावकगती अतिक्रान्त धीराः // 29 //

आकाङ्क्षमाणु सुगतात्मज वीर्यप्राप्ताः कोटीशतसहस्रपूर्ण समाधि लब्धाः / पश्यन्ति एकक्षणि बुद्ध दशद्दिशासु प्रतपन्ति सूर्य एव मध्यगु ग्रीष्मकाले // 30 //

गम्भीर दुर्दृशा सूक्ष्म दुर्ज्ञेया जिनश्रावकैः / षष्ठी भूमिर्महात्मानामाख्याता सुगतात्मजाः // 31 //

7 दूरंगमा नाम सप्तमी भूमिः / उपक्रमगाथाः /

अथ विविधरुचिरमेघान् मरुद्गणो ऽभिकिरिषु वेगप्राप्ताः / प्रव्याहरन्ति मधुरा गिरिवर शुभ प्रीतिसंपूर्णाः // 1 //

साधु वरतीक्ष्णचित्ता गुणशतसमुपेतज्ञानवशवर्तिम् / वरचरणं परितुष्टं जगहितवरपुण्डरीकाणाम् // 2 //

तद प्रवरमतुलमाभा महेश्वराः खेगता नरवरस्य / वररुचिरगन्धमेघानभिकिरि क्लेशौघमपहर्तुम् // 3 //

प्रव्याहरन्ति मधुरं मरुद्गणा हर्षकररुचिरघोषाः / परमसुलब्धलाभाः श्रुतु यैरयु भूमिनिर्देशः // 4 //

तूर्य मधुरघोषयुक्त मरुकन्याः प्रीणितमनोभिः / सुचरसुगतानुभावाद्वरचरिरियमीदृशी प्रोक्ता // 5 //

सुमनी सुचरणश्रेष्ठः सुदान्त दमकान लोकमहितानाम् / अतिक्रम्य सर्वलोकं लोकचरिं दर्शयी सूक्ष्माम् // 6 //

दर्शेन्ति काय विविधान् कायाकायांश्च धर्मतोपेताः / शमथः समितिविभक्तो भणति घोषं न चाक्षरं रवति // 7 //

क्षेत्रशतमाक्रमन्ते पूजेन्ति नायकान् परमपूजियान् / आत्मजनितक्षेत्रसंज्ञा विधुनित्वा ज्ञानवशवर्ती // 8 //

परिपाचयन्ति सत्त्वान्न चात्मपरसंज्ञ सर्वश उपेन्ति / शुभ संचिनन्ति प्रवरं न चापि शुभसंचयनिकेताः // 9 //

रागरजदोषमोहैः पश्यित्व सर्वलोक ज्वलमानान् / वर्जेति सर्वसंज्ञा वीर्यं वरमारभी कृपया // 10 //

मरुकन्या देवसंघाश्च पूजेन्ता वरस्वरम् / तूष्णींभावरताः सर्वे प्रेक्षन्ते पुरुषर्षभम् // 11 //

परिषद्विप्रसन्नेयमवोचत् सुगतात्मजम् / सप्तम्या भूमेराकारान् निर्दिशस्व गुणाकर // 12 //

उपसंहारगाथाः / गम्भीरज्ञान परमार्थपदानुसारी षड्भूमिनिश्चितमतिः सुसमाहितात्मा / प्रज्ञामुपाय युगपद्यभिनिर्हरन्तो भूम्याक्रमन्ति विदु सप्तमि चर्यश्रेष्ठाम् // 13 //

शून्यानिमित्तप्रणिधीकृपमैत्रयुक्ता बुद्धानुधर्म सुगतानुग पूजयन्तः / ज्ञानेन शुभमहपुण्यबलेभ्यतृप्तास्तामाक्रमन्ति विदु सप्तमि भूमिदेशम् // 14 //

त्रैधातुकेन अधिवास विवेकप्राप्ताः शान्तश्च क्लेशबलशान्तिजगाभिकाङ्क्षी / प्रतिभास माय सुपिनाद्वयधर्मचारी कृप दर्शयन्ति विदु सप्तमिमाक्रमन्ति // 15 //

शोधेन्ति क्षेत्र खसमाशय निर्विकल्पा जिनलक्षनैरुपागतो ऽचलधर्मतायाम् / अभिलाप्यघोषविगता जगतोषणार्थं क्षणज्ञान चित्तस्य जिनान समोसरन्ति // 16 //

अभासप्राप्त इति धर्म विचारयन्ति आक्रान्त भूमिप्रवरां जगदर्थकाराः / ते अत्र भूम्यस्थित सत्त्वचरी अनन्तान् विचिनन्ति कर्म सुगतान् नियुताप्रमाणान् // 17 //

क्षेत्रांश्च नैकविधधर्मथ कल्पसंख्यान् अधिमुक्ति-आशय च चित्तविचित्रधारान् / त्रियाणदेशनमनन्त समोसरन्ति अस्माभि सत्त्व परिपाचयितव्यमेतत् // 18 //

ये ते ज्ञाननिचिता वरमार्गप्राप्ता ईर्यापथैश्चतुर्भि प्रज्ञमुपायमुक्ताः / सर्वस्मि चित्तक्षणि बोधिगुणानुप्राप्ताः परिपूरयन्ति दश पारमिताप्रदेशान् // 19 //

सर्वेषु मार्गकुशलस्य य एष दानं शीलं च क्लेशप्रशमं क्षममक्षतित्वम् / वीर्यं च भूयु अनु उत्तरि आरभन्ते मार्गे अचल्यतय ध्यानगुणान्वितानाम् // 20 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.