Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
दशबलसूत्र 1-4
- Thông tin
- GRETIL — (1) the ed. by Ernst Waldschmidt. In: Bruchstücke buddhistischer Sūtras aus dem zentralasiatischen Sanskritkanon I, Leipzig 1932 (Kleinere Sanskrit-Texte, 4; Nachdruck: Monographien zur indischen Archäologie, Kunst und Philologie, 2. Wiesbaden, Stuttgart 1979), pp. 207-225; and Ernst Waldschmidt, "Ein zweites Daśabalasūtra", Mitteilungen des Instituts für Orientforschung 6 (1958), pp. 382-387, 397-403 [Nachdruck: Ernst Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp
दशबलसूत्र 1-4
द्ब्सू(1) 0. एवं मया श्रुतं / एकस्मिं समये भगवां श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे /
तत्र भगवां भिक्षून् आमन्त्रयते स्म /
दशेमानि भिक्षवस् तथागतस्य बलानि यैः समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
कतमानि दश /
द्ब्सू(1) 1. इह तथागतः स्थानञ् च स्थानतो यथाभूतं प्रजानात्य् अस्थानञ् चास्थानतो यत् तथागतः स्थानञ् च स्थानतो यथाभूतं प्रजानात्य् अस्थानञ् चास्थानतः /
इदं प्रथमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
द्ब्सू(1) 2. पुनर् अपरं तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति
यत् तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि स्थानतो हेतुतो विपाकतश् च यथाभूतं प्रजानाति /
इदं द्वितीयं तथागतबलं येन बलेन पूर्ववत्* /
द्ब्सू(1) 3. पुनर् अपरं तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिं यथाभूतं प्रजानाति /
इदं तृतीयं तथागतबलं येन बलेन पूर्ववत्* /
द्ब्सू(1) 4. पुनर् अपरं तथागतः परसत्वानाम् इन्द्रियपरापरतां यथाभूतं प्रजानाति यत् तथागतः परसत्वानाम् इन्द्रियपरापरतां यथाभूतं प्रजानाति /
इदं चतुर्थं तथागतबलं येन बलेन पूर्ववद् यावत्* परिषदि सम्यक्सिंहनादं नदति /
द्ब्सू(1) 5. पुनर् अपरं तथागतः परसत्वानां परपुद्गलानां नानाधिमुक्तितां यथाभूतं प्रजानाति यत् तथागतः परसत्वानां परपुद्गलानां नानाधिमुक्तितां यथाभूतं प्रजानाति /
इदं पञ्चमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
dbsū(1) 6. punar aparaṃ tathāgato nānādhātukaṃ lokam anekadhātukam iti yathābhūtaṃ prajānāti / {iti fehlt s 481 z. 11 bzw. 13} yat tathāgato nānādhātukaṃ lokam anekadhātukam iti yathābhūtaṃ prajānāti / {iti fehlt s 481 z. 11 bzw. 13}
इदं षष्ठं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
द्ब्सू(1) 7. पुनर् अपरं तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति यत् तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति /
इदं सप्तमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
द्ब्सू(1) 8. पुनर् अपरं तथागतो ऽनेकविधं पूर्वेनिवासं समनुस्मरति तद्यथैकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नवो दश विंशत् त्रिंशच् चत्वारिंशत् पञ्चाशज् जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतान्य् अनेकान्य् अपि जातिसहस्राण्य् अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अप्य् अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरत्य् अमी नाम ते भवन्तः सत्वा यत्राहम् आसम् एवंनामैवंजात्य एवंगोत्र एवमाहर एवंसुखदुःखप्रतिसंवेद्य् एवंदीर्घायुर् एवंचिरस्थितिक एवमायुःपर्यन्तः सो ऽहं तस्माच् च्युतो ऽमुत्रोपपन्नस् तस्माच् च्युतो ऽमुत्रोपपन्नस् तस्माद् अपि च्युत इहोपपन्नः / इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वेनिवासं समनुस्मरति / यत् तथागतो ऽनेकविधं पूर्वेनिवासं समनुस्मरति तद्यथैकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नवो दश विंशत् त्रिंशच् चत्वारिंशत् पञ्चाशज् जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतान्य् अपि जातिसहस्राण्य् अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अप्य् अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरत्य् अमी नाम ते भवन्तः सत्वा यत्राहम् आसम् एवंनामैवंजात्य एवंगोत्र एवमाहर एवंसुखदुःखप्रतिसंवेद्य् एवंदीर्घायुर् एवंचिरस्थितिक एवमायुःपर्यन्तः सो ऽहं तस्माच् च्युतो ऽमुत्रोपपन्नस् तस्माद् अपि च्युत इहोपपन्नः / इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वेनिवासं समनुस्मरति /
इदम् अष्टमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति /
द्ब्सू(1) 9. पुनर् अपरं तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वां पश्यति च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगां सत्वां यथाभूतं प्रजानाति / इतीमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / इमे वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते / यत् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वां पश्यति च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगां सत्वां यथाभूतं प्रजानाति / इतीमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / इमे वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते /
इदं नवमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति 9 /
द्ब्सू(1) 10. पुनर् अपरं तथागत आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदयति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भावं प्रजानामि यत् तथागत आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदयति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भावं प्रजानामि /
इदं दशमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति 10 /
इदम् अवोचद् भगवान् आप्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दम्* //
दशबलसूत्रं समाप्तम्* //
द्ब्सू(2) 1 श्रावस्त्यां निदानम् / द्ब्सू(2) 2 दशबलसमन्वागतस् तथागतो ऽर्हां सम्यक्संबुद्धश् चतुर्वैशारद्यप्राप्त उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक्सिंहनादं नदति / द्ब्सू(2) 3 यद् उतास्मिं सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते / यद् उताविद्याप्रत्ययाः संस्काराः यावत् समुदयो निरोधश् च भवति / द्ब्सू(2) 4 स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृत छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितः / द्ब्सू(2) 5 एवं स्वाख्याते मे धर्मे उत्ताने विवृते छिन्नप्लोतिके यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशिते अलम् एव श्रद्धाप्रव्रजितेन कुलपुत्रेण योगाय / अलम् अप्रमादाय / अलं शास्तुश् शासने योगम् आपत्तुं / कामं त्वक् स्नायु च अस्थि चावतिष्ठतु परिशुष्यतु शरीरां मांसशोणितम्* / द्ब्सू(2) 6 अथ च पुनर् यत् तद् आरब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवता उत्साहिना धृढपराक्रमेण अनिक्षिप्तधुरेण कुशलेषु धर्मेषु तद् बत नानुप्राप्यान्तरा वीर्यस्य स्रंसनं भविष्यति / द्ब्सू(2) 7 तत् कस्य हेतोः / दुःखं कुसीतो विहरति व्यवकीर्णः पापकैर् अकुशलैर् धर्मैः सांक्लेश्यैः पौनर्भविकैः सज्वरैर् दुःखविपाकैर् आयत्यां जातिजरामरणीयैर् महतश् चाप्य् अर्थस्य पारिहाणिर् भवति / द्ब्सू(2) 8 आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैः सांक्लेश्यैः पोनर्भविकैः सज्वरैर् दुःखविपाकैर् आयत्यां जातिजरामरणीयैर् महतश् चाप्य् अर्थस्य पारिपूरिर् भवति / द्ब्सू(2) 9 मण्डपेयम् इदं प्रवचनं / यद् उत शास्ता च संमुखीभूतो धर्मश् च देश्यते औपशमिकः पारिनिर्वाणिकः संबोधगामी सुगतप्रवेदितः / द्ब्सू(2) 10 तस्मात् तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं च इतः प्रतिसंशिक्षितव्यम् / द्ब्सू(2) 11 कच्चिन् न प्रव्रज्या अमोघा भविष्यति सफला सुखोदया सुखविपाका येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारां तेषां ते काराः कृताः कच्चिद् अत्यर्थं महाफला भविष्यंति महानुशंसा महाद्युतयो महावैस्तारा इत्य् एवं वो भिक्षवः शिक्षितव्यं //
द्ब्सू(2) 12 दशबलसूत्रं / समाप्तः //
द्ब्सू(3) 1 श्रावस्त्यां निदानम्* द्ब्सू(3) 2अ रूपस्य भिक्षवो निर्विदे विरागान् निरोधाद् अनुपादाय विमोक्षात् तथागतो ऽर्हां सम्यक्संबुद्ध इत्य् उच्यते / द्ब्सू(3) 2ब् एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य वाच्यम्* द्ब्सू(3) 3अ भिक्षुर् अपि रूपस्य निर्विदे विरागां निरोधाद् अनुपादाय विमोक्षाद् अर्हां प्रज्ञाविमुक्त इत्य् उच्यते द्ब्सू(3) 3ब् एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य वाच्यम्* द्ब्सू(3) 4 इह भिक्षवः को विशेषः को ऽभिप्रायः किं नानाकरणं तथागतस्यार्हतः सम्यक्संबुद्धस्य अर्हता च प्रज्ञाविमुक्तेन भिक्षुणा : द्ब्सू(3) 5 भगवन्मूलका भदन्त धर्मा भगवंनेत्र्या भगवत्प्रतिसरणाः साधु भगवान् एतम् एवार्थं भिक्षुभ्यो भाषेत भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति द्ब्सू(3) 6 तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये द्ब्सू(3) 7 तथागतो भिक्षवः अर्हं सम्यक्संबुद्धः पूर्वम् अननुश्रुतेषु धर्मेषु स्वयं धर्मान् अभिज्ञाय धर्मां परिज्ञाय दृष्टधर्माभिज्ञः परमबोधिम् अनुप्राप्त आयत्याम् बोधाय श्रावकानान् धर्मन् देशयति /
द्ब्सू(3) 8 यद् उत चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादा पंचेन्द्रियाणि पंच बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः द्ब्सू(3) 9 इति हि भिक्षवस् तथागतो ऽर्हां सम्यक्संबुद्धः अनधिगतस्य मार्गस्याधिगन्ता अप्रज्ञप्तस्य ब्रह्मचर्यस्य प्रज्ञप्ता मार्गज्ञस् तथागतो मार्गविन् मार्गदैशिकः मार्गाख्याता मार्गपरिणायकः द्ब्सू(3) 10 ततः पश्चात् समन्वागताः श्रावका मार्गानुगाश् शास्तुः शासनकरा यथानुशिष्टाः सम्यक् प्रतिपद्यमाना आराधका भवन्त्य् आराधयन्ति न्यायं धर्मं कुशलम्* द्ब्सू(3) 11 अयं भिक्षवो विशेषः अयम् अभिप्रायः इदं नानाकरणं तथागतस्यार्हतः सम्यक्संबुद्धस्य अर्हता च प्रज्ञाविमुक्तेन भिक्षुणा द्ब्सू(3) 12 पञ्चेमानि शैक्षबलानि दश तथागतबलानि / द्ब्सू(3) 13 पंच शैक्षबलानि कतमानि पञ्च श्रद्धाबलं शैक्षबलम्* वीर्यबलं ह्रीबलम् अवत्राप्यबलं प्रज्ञाबलं शैक्षबलम्* द्ब्सू(3) 14 दश तथागतबलानि कतमानि दश द्ब्सू(3) 15.1अ इह तथागतः स्थानञ् च स्थानतो यथाभूतं प्रजानाति अस्थानञ् चास्थानतः द्ब्सू(3) 15.1ब् यत् तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति अस्थानञ् चास्थानतः इदं प्रथमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्धः उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक् सिंहनादं नदति / द्ब्सू(3) 15.2अ पुनर् अपरं तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति /
द्ब्सू(3) 15.2ब् यत् तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति इदं द्वितीयं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 15.3अ पुनर् अपरं तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिन् यथाभूतं प्रजानाति द्ब्सू(3) 15.3ब् यत् तथागतो यावद् इदं तृतीयं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 15.4अ पुनर् अपरं तथागतः परसत्वानाम् इन्द्रियपरावरतां यथाभूतं प्रजानाति / द्ब्सू(3) 15.4ब् यत् तथागतः परसत्वानां यावद् इदं चतुर्थं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 15.5अ पुनर् अपरं तथागतः परसत्वानां नानाधिमुक्तितां यथाभूतं प्रजानाति द्ब्सू(3) 15.5ब् यत् तथागतः परसत्वानां नानाधिमुक्तितां यथाभूतं प्रजानाति इदं पञ्चमं तथागतबलं पूर्ववत्* द्ब्सू(3) 15.6अ पुनर् अपरं तथागतो नानाधातुकं लोकम् अनेकधातुकं यथाभूतं प्रजानाति /
द्ब्सू(3) 15.6ब् यत् तथागतो नानाधातुकं लोकम् अनेकधातुकं यथाभूतं प्रजानाति इदं षष्ठं तथागतबलं पूर्ववत्* द्ब्सू(3) 15.7अ पुनर् अपरं तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति द्ब्सू(3) 15.7ब् यत् तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति इदं सप्तमं तथागतबलं पूर्ववत्* द्ब्सू(3) 15.8अ पुनर् अपरं तथागत अनेकविधं पूर्वेनिवासं समनुस्मरति तद्यथा एकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशत् त्रिंशच् चत्वारिंशत् पञ्चाशज् जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पां विवर्तकल्पां अनेकान् अपि संवर्तविवर्तकल्पां समनुस्मरति अमी नाम ते सत्वा अभूवं यत्राहम् आसम् एवंनाम एवंजात्य एवंगोत्र एवमाहारः एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुःपर्यन्तः सो ऽहं तस्माच् च्युतः अमुत्रोपपन्नस् तस्माद् अपि च्युतः अमुत्रोपपन्नः तस्माद् अपि च्युतः इहोपपन्न इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वेनिवासं समनुस्मरति द्ब्सू(3) 15.8ब् यत् तथागतः अनेकविधं पूर्वेनिवासं समनुस्मरति तद्यथा एकाम् अपि जातिं द्वे तिस्रः पूर्ववद् इदम् अष्टमं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 15.9अ पुनर् अपरं तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वां पश्यति च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगां सत्वां यथाभूतं प्रजानाति इतीमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम्
अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यंते /
इमे वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते / द्ब्सू(3) 15.9ब् यत् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वां पश्यति पूर्ववत्* इदं नवमं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 15.10अ पुनर् अपरं तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदयति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि / द्ब्सू(3) 15.10ब् यत् तथागत आस्रवाणां क्षयात् पूर्ववत्* इदं दशमं तथागतबलं येन बलेन पूर्ववत्* द्ब्सू(3) 16 (स्क्त्. नो परल्लेल्) द्ब्सू(3) 17 इदम् अवोचद् भगवान् आप्तमनसस् ते भिक्षवो भगवद्भाषितम् अभ्यनन्दम्* ॥
द्ब्सू(3) 18 दशबलसूत्रं समाप्तः ॥ ॥
dbsū(4) 1 (skt. not extant; cf. sūtra 684, §1) dbsū(4) 2a (skt. not extant) dbsū(4) 2b (skt. not extant) dbsū(4) 2c (skt. not extant) dbsū(4) 3 (skt. not extant; cf. sūtra 684, § 12) dbsū(4) 4 (skt. not extant; cf. sūtra 684, § 13) dbsū(4) 5.1 (skt. not extant; cf. sūtra 684, § 15.1a) dbsū(4) 5.2-7 (skt. not extant; cf. sūtra 684, § 15.2-7) dbsū(4) 5.8a (skt. not extant; cf. sūtra 684, § 15.8a) dbsū(4) 5.8b evaṃcirasthitika evamāyuḥparyantaḥ so 'haṃ tasmāc cyutaḥ amutropapannaḥ tasmāc cyutaḥ amutropapannaḥ tasmā cyutaḥ ihopapannaḥ iti sākāraṃ sanidānaṃ soddeśam anekavidhaṃ pūrvenivāsaṃ samanusmarati / idam aṣṭamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyak siṃhanādaṃ nadati / dbsū(4) 5.9a punar aparaṃ tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīnān api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti / itīme bhavaṃtaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyaṃte /
इमे वा पुनर् भवंतः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यंते / द्ब्सू(4) 5.9ब् यत् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वां पश्यति च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगां सत्वां यथाभूतं प्रजानाति / इतीमे भवंतः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यंते / इमे वा पुनर् भवंतः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाःसम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययंकायस भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यंते / इदं नवमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक् सिंहनादं नदति / द्ब्सू(4) 5.10अ पुनर् अपरं तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदयति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि /
द्ब्सू(4) 5.10ब् यत् तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदयति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि / इदं दशमं तथागतबलं येन बलेन समन्वागतस् तथागतो ऽर्हं सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्मं चक्रं वर्तयति परिषदि सम्यक् सिंहनादं नदति /
द्ब्सू(4) 6.1 तं चैनं तथागतं स्थानास्थानज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन स्थानास्थानज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.2 तं चैनं तथागतं कर्मस्वकज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन कर्मस्वकज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.3 तं चैनं तथागतं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.4 तं चैनं तथागतं परसत्वानाम् इन्द्रियपरावरतां ज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन परसत्वानाम् इन्द्रियपरावरतां ज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.5 तं चैनं तथागतं परसत्वानां नानाधिमुक्तिज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन परसत्वानां नानाधिमुक्तिज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.6 तं चैनं तथागतं नानाधातुज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन नानाधातुज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.7 तं चैनं तथागतं सर्वत्रगामिनीप्रतिपज्ज्ञानबले प्रश्नं पृच्छेयुः यथा
तत् तथागतेन सर्वत्रगामिनीप्रतिपज्ज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.8 तं चैनं तथागतं पूर्वेनिवासानुस्मृतिज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन पूर्वेनिवासानुस्मृतिज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.9 तं चैनं तथागतं च्युत्युपपादज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेन च्युत्युपपादज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 6.10 तं चैनं तथागतं आस्रवक्षयज्ञानबले प्रश्नं पृच्छेयुः यथा तत् तथागतेनास्रवक्षयज्ञानबलं ज्ञातं दृष्टं विदितं विज्ञातं सम्यग् एवाभिसंबुद्धं तथा तत् तथागतः प्रश्नं पृष्टो व्याकुर्यात्* द्ब्सू(4) 7.1 स्थानास्थानज्ञानबलम् इति भिक्षवः समाहितस्य वदामि नासमाहितस्य /
dbsū(4) 7.2 karmasvakajñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.3 dhyānavimokṣasamādhisamāpattijñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.4 parasatvānām indriyaparāvaratāṃ jñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.5 parasatvānāṃ nānādhimuktitāṃ jñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.6 nānādhātujñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.7 sarvatragāminīpratipajjñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.8 pūrvenivāsānusmṛtijñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / dbsū(4) 7.9 (skt. not extant) dbsū(4) 7.10 (skt. not extant) dbsū(4) 8 (skt. not extant) dbsū(4) 9 (skt. not extant; cf. sūtra 684, § 17)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
