Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

दशभूमिकसूत्र

Thông tin
GRETIL — P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति / स संवृतिसत्यकुशलश्च भवति / परमार्थसत्यकुशलश्च भवति / लक्षणसत्यकुशलश्च भवति / विभागसत्यकुशलश्च भवति / निस्तीरणसत्यकुशलश्च भवति / वस्तुसत्यकुशलश्च भवति / प्रभवसत्यकुशलश्च भवति / क्षयानुत्पादसत्यकुशलश्च भवति / मार्गज्ञानावतारसत्यकुशलश्च भवति / सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यकुशलश्च भवति / स परसत्त्वानां यथाशयसंतोषणात्संवृतिसत्यं प्रजानाति / एकनयसमवसरणात्परमार्थसत्यं प्रजानाति / स्वसामन्यलक्षणानुबोधाल्लक्षणसत्यं प्रजानाति / धर्मविभागव्यवस्थानानुबोधाद्विभागसत्यं प्रजानाति / स्कन्धधात्वायतनव्यवस्थानानुबोधान्निस्तीरणसत्यं प्रजानाति / चित्तशरीरप्रपीडनोपनिपातितत्वाद्वस्तुसत्यम्, गतिसंधिसंबन्धनत्वात्प्रभवसत्यम्, सर्वज्वरपरिदाहात्यन्तोपशमात्क्षयानुत्पादसत्यम्, अद्वयानुत्पादसत्यम्, अद्वयाभिनिर्हारन्मार्गज्ञानावतारसत्यम्, सर्वाकाराभिसंबोधित्सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यं प्रजानाति अधिमुक्तिज्ञानबलाधानान्न खलु पुनर्निरवशेषज्ञानात् //

स एवं सत्यकौशल्यज्ञानाभिनिर्हृतया बुद्ध्या सर्वसंस्कृतं रिक्तं तुच्छं मृषा मोषधर्म अविसंवादकं बालालापनमिति यथाभूतं प्रजानाति / तस्य भूयस्या मात्रया सत्त्वेषु महाकरुणा अभिमुखीभवति, महामैत्र्यालोकश्च प्रादुर्भवति //

स एवं ज्ञानबलाधनप्राप्तः सर्वसत्त्वसापेक्षो बुद्धज्ञानाभिलाषी पूर्वान्तापरान्तं सर्वसंस्कारगतस्य प्रत्यवेक्षते यथा पूर्वान्ततो ऽविद्याभवतृष्णाप्रसृतानां सत्त्वानां संसारस्रोतो (dbh 28) ऽनुवाहिनां स्कन्धालयानुच्छलितानां दुःखस्कन्धो विवर्धते, निरात्मा निःसत्त्वो निर्जीवो निष्पोषो निष्पुद्गल आत्मात्मीयविगतः, तं यथाभूतं प्रजानाति / यथा च अनागतस्यैव असत्संमोहाभिलाषस्य व्यवच्छेदः पर्यन्तो निःसरणं नास्त्यस्ति च, तच्च यथाभूतं प्रजानाति //

तस्यैवं भवति - आश्चर्यं यावदज्ञानसमूढा बतेमे बालपृथग्जनाः, येषामसंख्येया आत्मभावा निरुद्धाः, निरुध्यन्ते निरोत्स्यन्ते च / एवं च क्षीयमाणाः काये न निर्विदमुत्पादयन्ति / भूयस्या मात्रया दुःखयन्त्रं विवर्धयन्ति / संसारस्रोतसश्च महाभयान्न निवर्तन्ते / स्कन्धालयं च नोत्सृजन्ति / धातूरगेभ्यश्च ग निर्विद्यन्ते / नन्दीरागतश्चारकं च नावबुध्यन्ते / षडायतनशून्यग्रामं च न व्यवलोकयन्ति / अहंकारममकाराभिनिवेशानुशयं च न प्रजहन्ति / मानदृष्टिशल्यं च नोद्धरन्ति / रागद्वेषमोहज्वलनं च न प्रशमयन्ति / अविद्यामोहान्धकारं च न विधमयन्ति / तृष्णार्णवं च नोच्छोषयन्ति / दशबलसार्थवाहं च न पर्येषन्ते / माराशयगहनानुगतश्च संसारसागरे विविधाकुशलवितर्कग्राहाकुले परिप्लवन्ते / अप्रतिशरणास्तथा संवेगमापद्यन्ते, बहूनि दुःखानि प्रत्यनुभवन्ति यदुत जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासान् / हन्त अहमेषां सत्त्वानां दुःखार्तानामनाथानामत्राणानामशरणानामलयनानामपरायणानामन्धानामविद्याण्डकोशपटलपर्यवनद्धानां तमोभिभूतानामर्थाय एको ऽद्वितीयो भूत्वा तथारूपं पुण्यज्ञानसंभारोपचयं बिभर्मि, यथारूपेण पुण्यज्ञानसंभारोपचयेन संभृतेन इमे सर्वसत्त्वा अत्यन्तविशुद्धिमनुप्राप्नुयुः, यावद्दशबलबलतामसङ्गज्ञाननिष्ठामनुप्राप्नुयुरिति //

स एवं सुविलोकितज्ञानाभिनिर्हृतया बुद्ध्या यत्किंचित् कुशलमूलभारभते, तत्सर्वसत्त्वपरित्राणायारभते / सर्वसत्त्वहिताय सर्वसत्त्वसुखाय सर्वसत्त्वानुकम्पायै सर्वसत्त्वानुपद्रवाय सर्वसत्त्वपरिमोचनाय सर्वसत्त्वानुकर्षाय सर्वसत्त्वप्रसादनाय सर्वसत्त्वविनयाय सर्वसत्त्वपरिनिर्वाणायारभते //

स भूयस्या मात्रया अस्यां पञ्चम्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्मृतिमांश्च भवति, असंप्रमोषधर्मतया मतिमांश्च भवति, सुविनिश्चितज्ञानतया गतिमांश्च भवति, सूत्रार्थगतिसंधायभाषितावबोधतया ह्रीमांश्च भवति, आत्मपरानुरक्षणतया धृतिमांश्च भवति, संवरचारित्रानुत्सर्गतया बुद्धिमांश्च भवति, स्थानास्थानकौशल्यसुविचारिततया ज्ञानानुगतश्च भवति, अपरप्रणेयतया प्रज्ञानुगतश्च भवति, अर्थानर्थसंभेदपदकुशलतया अभिज्ञानिर्हारप्राप्तश्च भवति, भावनाभिनिर्हारकुशलतया उपायकुशलश्च भवति लोकानुवर्तनतया / अतृप्तश्च भवति पुण्यसंभारोपचयतया / अप्रतिप्रस्रब्धवीर्यश्च भवति ज्ञानसंभारपर्येषणतया / अपरिखिन्नाशयश्च भवति महामैत्रीकृपासंभारसंभृततया / अशिथिलपर्येषणाभियुक्तश्च भवति तथागतबलवैशारद्यावेणिकबुद्धधर्मपर्येषणतया / स्वभिनिर्हृतमनसिकारानुगतश्च भवति बुद्धक्षेत्रविठपनालंकाराभिनिर्हृततया / विचित्रकुशलक्रियाभियुक्तश्च भवति लक्षणानुव्यञ्जनसमुदानयनतया / सततसमितं स्वभियुक्तश्च भवति तथागतकायवाक्चित्तालंकारपर्येषणतया / महागौरवोपस्थानशीलश्च भवति सर्वबोधिसत्त्वधर्मभणाकशुश्रूषणतया / (dbh 29) अप्रतिहतचित्तश्च भवति बोधिचित्तमहोपायकौशल्यसंध्युपसंहितलोकप्रचारतया / रात्रिंदिवमन्यचित्तपरिवर्जितश्च भवति सर्वसत्त्वपरिपाचनाभियोगतया //

स एवमभियुक्तो दानेनापि सत्त्वान् परिपाचयति, प्रियवद्यतयापि, अर्थक्रिययापि, समानार्थतयापि, रूपकायसंदर्शनेनापि, धर्मदेशनयापि, बोधिसत्त्वचर्याप्रभावनयापि, तथागतमाहात्म्यप्रकाशनतयापि, संसारदोषसंदर्शनेनापि, बुद्धज्ञानानुशंसापरिकीर्तनेनापि, महर्द्धिविकुर्वणाभिनिर्हारणानोपचारक्रियाप्रयोगैरपि सत्त्वान् परिपाचयति / स एवं सत्त्वपरिपाचनाभियुक्तो बुद्धज्ञानानुगतचित्तसंतानो ऽप्रत्युदावर्तनीयकुशलमूलप्रयोगो वैशेषिकधर्मपरिमार्गणाभियुक्तः यानीमानि सत्त्वहितानि लोके प्रचरन्ति, तद्यथा - लिपिशास्त्रमुद्रासंख्यागणनानिक्षेपादीनि नानाधातुतन्त्रचिकित्सातन्त्राणि शोषापस्मारभूतग्रहप्रतिषेधकानि विषवेतालप्रयोगप्रतिघातकानि काव्यनाटकाख्यानगान्धर्वेतिहाससंप्रहर्षणानि ग्रामनगरोद्याननदीसरस्तडागपुष्करिणीपुष्पफलौषधिवनषण्डाभिनिर्हाराणि सुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरत्नाकरनिदर्शनानि चन्द्रसूर्यग्रहज्योतिर्नक्षत्रभूमिचालमृगशकुनिस्वप्ननिमित्तानि प्रदेशप्रवेशानि सर्वाङ्गप्रत्यङ्गलक्षणानि चारानुचारप्रयोगनिमित्तानि संवरचारित्रस्थानध्यानाभिज्ञाप्रमाणारूप्यस्थानानि, यानि चान्यान्यपि अविहेठनाविहिंसासंप्रयुक्तानि सर्वसत्त्वहितसुखावहानि, तान्यप्यभिनिर्हरति कारुणिकतया अनुपूर्वबुद्धधर्मप्रतिष्ठापनाय //

तस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य ... .पेयालं ... परिणामयति / तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपासते, तेषां च सकाशाद् गौरवचित्रीकारेण सत्कृत्य धर्मदेशनां शृणोति उद्गृह्णाति धारयति / श्रुत्वा च यथाबलं यथाभजमानं प्रतिपत्या संपादयति / भूयस्त्वेन च तेषां तथागतानां शासने प्रव्रजति / प्रव्रजितश्च श्रुतधारी धर्मभाणको भवति / स भूयस्या मात्रया श्रुताचारधारणीप्रतिलब्धो धर्मभाणको भवति अनेकेषां च बुद्धकोटिनियुतशतसहस्राणामन्तिके अनेककल्पकोटिनियुतशतसहस्राण्यसंप्रमोषतया / तस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पांस्तानि कुशलमूलान्युत्तप्यन्ते परिशुध्यन्ति प्रभास्वरतराणि च भवन्ति, अनेकानि कल्पशतानि ... / तस्य तानि कुशलमूलान्युत्तप्यन्ते परिशुद्ध्यन्ति प्रभास्वरतराणि च भवन्ति / तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं मुसार्गल्वसृष्टं भूयस्या मात्रयोत्तप्यते परिशुध्यति प्रभास्वरतरं भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां सुदुर्जयायां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाविचारितानि भूयस्या मात्रयोत्तप्यन्ते परिशुद्ध्यन्ति, प्रभास्वरतराणि च भवन्ति, ज्ञानप्रयोगगुणाभिनिर्हारादसंहार्यविचारिततमानि च भवन्ति /

तद्यथापि नाम भवन्तो जिनपुत्राश्चन्द्रसूर्यग्रहज्योतिर्नक्षत्राणां विमानालोकप्रभवातमण्डलीभिरसंहार्या भवति मारुतासाधारणा च, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां सुदुर्जयायां (dbh 30) बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाज्ञानचित्तविचारणानुगतान्यसंहार्याणि भवन्ति, सर्वश्रावकप्रत्येकबुद्धैर्लौकिकासाधारणानि च भवन्ति / तस्य दशभ्यः पारमिताभ्यो ध्यानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम् / इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य सुदुर्जया नाम पञ्चमी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन संतुषितो भवति, देवराजः कृती प्रभुः सत्त्वानां सर्वतीर्थ्यायतनविनिवर्तनाय कुशलः सत्त्वान् सत्येषु प्रतिष्ठापयितुम् / यत्किंचित् ... .. //

सुदुर्जया नाम् पञ्चमी भूमिः //

6 अभिमुखी नाम षष्ठी भूमिः /

वज्रगर्मो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः पञ्चम्यां बोधिसत्त्वभूमौ सुपरिपूर्णमार्गः षष्ठीं बोधिसत्त्वभूमिमवतरति / स दशभिर्धर्मसमताभिरवतरति / कतमाभिर्दशभिः? यदुत सर्वधर्मानिमित्तसमतया च सर्वधर्मालक्षणसमतया च सर्वधर्मानुत्पादसमतया च सर्वधर्माजाततया च सर्वधर्मविविक्तसमतया च सर्वधर्मादिविशुद्धिसमतया च सर्वधर्मनिष्प्रपञ्चसमतया च सर्वधर्मानाव्यूहानिर्व्यूहसमतया च सर्वधर्ममायास्वप्नप्रतिभासप्रतिश्रुत्कोदकचन्द्रप्रतिबिम्बनिर्माणसमतया च सर्वधर्मभावाभावाद्वयसमतया च / आभिर्दशभिर्धर्मसमताभिरवतरति //

स एवंस्वभावान् सर्वधर्मान् प्रत्यवक्षेमाणो ऽनुसृजन् अनुलोमयन् अविलोमयन् श्रद्दधन् अभियन् प्रतियन् अविकल्पयन् अनुसरन् व्यवलोकयन् प्रतिपद्यमानः षष्ठीमभिमुखीं बोधिसत्त्वभूमिमनुप्राप्नोति तीक्ष्णया आनुलोमिक्या क्षान्त्या / न च तावदनुत्पत्तिकधर्मक्षान्तिमुखमनुप्राप्नोति //

स एवंस्वभावान् सर्वधर्माननुगच्छन् भूयस्या मात्रया महाकरुणापूर्वंगमत्वेन महाकरुणाधिपतेयतया महाकरुणापरिपूर्णार्थं लोकस्य संभवं च विभवं च व्यवलोकयते / तस्य लोकस्य संभवं च विभवं च व्यवलोकयत एवं भवति - यावत्यो लोकसमुदाचारोपपत्तयः सर्वाः, ता आत्माभिनिवेशतो भवन्ति / आत्माभिनिवेशविगमतो न भवन्ति लोकसमुदाचारोपपत्तय इति / तस्यैवं भवति - तेन खलु पुनरिमे बालबुद्ध्य आत्माभिनिविष्टा अज्ञानतिमिरावृता भावाभावाभिलाषिणो ऽयोनिशोमनसिकारप्रसृता विपथप्रयाता मिथ्यानुचारिणः पुण्यापुण्यानेञ्ज्यानभिसंस्कारानुपचिन्वन्ति / तेषां तैः संस्कारैरवरोपितं चित्तबीजं सास्रवं सोपादानमायत्यां जातिजरामरणपुनर्भवाभिनिर्वृत्तिसंभवोपगतं भवति / कर्मक्षेत्रालयमविद्यान्धकारं तृष्णास्नेहमस्मिमानपरिष्यन्दनतः / दृष्टिकृतजालप्रवृद्ध्या च नामरूपाङ्कुरः प्रादुर्भवति / प्रादुर्भूतो विवर्धते / विवृद्धे नामरूपे पञ्चानामिन्द्रियाणां प्रवृत्तिर्भवति / प्रवृत्तानामिन्द्रियाणामन्योन्य(सं)निपाततः स्पर्शः / स्पर्शस्य संनिपाततो वेदना प्रादुर्भवति / वेदनायास्तत उत्तरे ऽभिनन्दना भवति / तृष्णाभिनन्दनत उपादानं विवर्धते / उपादाने विवृद्धे भवः संभवति / भवे संभूते स्कन्धपञ्चकमुन्मज्जति / उन्मग्नं स्कन्धपञ्चकं गतिपञ्चके ऽनुपूर्वं म्लायति / म्लानं विगच्छति / म्लानविगमाज्ज्वरपरिदाहः / ज्वरपरिदाहनिदानाः सर्वशोकपरिदेवदुःखदौर्मनस्योपायासाः समुदागच्छन्ति / तेषां न कश्चित्समुदानेता / स्वभावानाभोगाभ्यां च विगच्छन्ति / न चैषां कश्चिद्विगमयिता / एवं बोधिसत्त्वो ऽनुलोमाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षते //

तस्यैवं भवति - सत्येष्वनभिज्ञानं परमार्थतो ऽविद्या / अविद्याप्रकृतस्य कर्मणो विपाकः संस्काराः / संस्कारसंनिश्रितं प्रथमं चित्तं विज्ञानम् / विज्ञानसहजाश्चत्वार उपादानस्कन्धा (dbh 31) नामरूपम् / नामरूपविवृद्धिः षडायतनम् / इन्द्रियविषयविज्ञागत्रयसमवधानं सास्रवं स्पर्शः / स्पर्शसहजा वेदना / वेदनाध्यवसानं तृष्णा / तृष्णाविवृद्धिरुपादानम् / उपादानप्रसृतं सास्रवं कर्म भवः / कर्मनिष्यन्दो जातिः स्कन्धोन्मज्जनम् / स्कन्धपरिपाको जरा / जीर्णस्य स्कन्धभेदो मरणम् / म्रियमाणस्य विगच्छतः संमूढस्य साभिष्वङ्गस्य हृदयसंतापः शोकः / शोकसमुत्थिता वाक्प्रलापाः परिदेवः / पञ्चेन्द्रियनिपातो दुःखम् / मनोदृष्टिनिपातो दौर्मनस्यम् / दुःखदौर्मनस्यबहुलत्वसंभूता उपायासाः / एवमयं केवलो दुःखस्कन्धो दुःखवृक्षो ऽभिनिर्वर्तते कारकवेदकविरहित इति //

तस्यैवं भवति - कारकाभिनिवेशतः क्रियाः प्रज्ञायन्ते / यत्र कारको नास्ति, क्रियापि तत्र परमार्थतो नोपलभ्यते / तस्यैवं भवति - चित्तमात्रमिदं यदिदं त्रैधातुकम् / यान्यपीमानि द्वादश भवाङ्गानि तथागतेन प्रभेदशो व्याख्यातानि, अपि सर्वाण्येव तानि चित्तसमाश्रितानि / तत्कस्य हेतोः? यस्मिन् वस्तुनि हि रागसंयुक्तं चित्तमुत्पद्यते तद्विज्ञानम् / वस्तुसंस्कारे ऽस्मिमोहो ऽविद्या / अविद्याचित्तसहजं नामरूपम् / नामरूपविवृद्धिः षडायतनम् / षडायतनभागीयः स्पर्शः / स्पर्शसहजा वेदना / वेदयतो ऽवितृप्तिस्तृष्णा / तृष्णार्तस्य संग्रहो ऽपरित्याग उपादानम् / एषां भवाङ्गानां संभवो भवः / भवोन्मज्जनं जातिः / जातिपरिपाको जरा / जरापगमो मरणमिति //

तत्र अविद्या द्विविधकार्यप्रत्युपस्थाना भवति / आलम्बनतः सत्त्वान् संमोहयति, हेतुं च ददाति संस्काराभिनिर्वृत्तये / संस्कारा अपि द्विविधकार्यप्रत्युपस्थाना भवन्ति / अनागतविपाकाभिनिर्वृत्ति च कुर्वन्ति, हेतुं च ददति विज्ञानाभिनिर्वृत्तये / विज्ञानमपि द्विविधकार्यप्रत्युपस्थानं भवति / भवप्रतिसंधिं च करोति, हेतुं च ददाति नामरूपाभिनिर्वृत्तये / नामरूपमपि द्विविधकार्यप्रत्युपस्थानं भवति / अन्योन्योपस्तम्भनं च करोति, हेतुं च ददाति षडायतनाभिनिर्वृत्तये / षडायतनमपि द्विविधकार्यप्रत्युपस्थानं भवति / स्वविषयविभक्तितां चादर्शयति, हेतुं च ददाति स्पर्शाभिनिर्वृत्तये / स्पर्शो ऽपि द्विविधकार्यप्रत्युपस्थानो भवति / आलम्बनस्पर्शनं च करोति, हेतुं च ददाति वेदनाभिनिर्वृत्तये / वेदनापि द्विविधकार्यप्रत्युपस्थाना भवति / इष्टानिष्टोभयविमुक्तानुभवनं च करोति, हेतुं च ददाति तृष्णाभिनिर्वृत्तये / तृष्णापि द्विविधकार्यप्रत्युपस्थाना भवति / संरजनीयवस्तुसंरागं च करोति, हेतुं च ददात्युपादानाभिनिर्वृत्तये / उपादानमपि द्विविधकार्यप्रत्युपस्थानं भवति / संक्लेशबन्धनं च करोति, हेतुं च ददाति भवाभिनिर्वृत्तये / भवो ऽपि द्विविधकार्यप्रत्युपस्थानो भवति / अन्यभवगतिप्रत्यधिष्ठानं च करोति, हेतुं च ददाति जात्यभिनिर्वृत्तये / जातिरपि द्विविधकार्यप्रत्युपस्थाना भवति / स्कन्धोन्मज्जनं च करोति, हेतुं च ददाति जराभिनिंवृत्तये / जरापि द्विविधकार्यप्रत्युपस्थाना भवति / इन्द्रियपरिणामं च करोति, हेतुं च ददाति मरणसमवधानाभिनिर्वृत्तये / मरणमपि द्विविधकार्यप्रत्युपस्थानं भवति - संस्कारविध्वंसनं च करोति, अपरिज्ञानानुच्छेदं चेति //

तत्र अविद्याप्रत्ययाः संस्कारा इत्यविद्याप्रत्ययता संस्काराणामनुच्छेदो ऽनुपस्तम्भश्च / संस्कारप्रत्ययं विज्ञानमिति संस्कारप्रत्ययता विज्ञानानामनुच्छेदो ऽनुपस्तम्भश्च / पेयालं ... जातिप्रत्ययता जरामरणस्यानुच्छेदो ऽनुपस्तम्भश्च / अविद्यानिरोधात्संस्कारनिरोध इत्यविद्याप्रत्ययताभावात्संस्काराणां व्युपशमो ऽनुपस्तम्भश्च / पेयालं ... जातिप्रत्ययताभावाज्जरामरणस्य व्युपशमो ऽनुपस्तम्भश्च //

तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनो ऽव्यवच्छेदः / संस्कारा भवश्च कर्मवर्त्मनो ऽव्यवच्छेदः / परिशेषं दुःखवर्त्मनो ऽव्यवच्छेदः / प्रविभागतः पूर्वान्तापरान्तनिरोधवर्त्मनो व्यवच्छेदः / एवमेव त्रिवर्त्म निरात्मकमात्मात्मीयरहितं संभवति च असंभवयोगेन, विभवति च अविभवयोगेन स्वभावतो नडकलापसदृशम् //

अपि तु खलु पुनर्यदुच्यते - अविद्याप्रत्ययाः संस्कारा इत्येषा पौर्वान्तिक्यपेक्षा / विज्ञानं यावद्वेदनेत्येषा प्रत्युत्पन्नापेक्षा / तृष्ण यावद्भव इत्येषा अपरान्तिक्यपेक्षा / अत उर्ध्वमस्य प्रवृत्तिरिति / अविद्यानिरोधात्संस्कारनिरोध इत्यपेक्षाव्यवच्छेद एषः //

अपि तु खलु पुनस्त्रिदुःखता द्वादश भवाङ्गान्युपादाय / तत्र अविद्या संस्कारा यावत्षडायतनमित्येषा संस्कारदुःखता / स्पर्शो वेदना चैषा दुःखदुःखता / परिशेषाणि भवाङ्गान्येषा परिणामदुःखता / अविद्यानिरोधात्संस्कारनिरोध इति त्रिदुःखताव्यवच्छेद एषः //

अविद्याप्रत्ययाः संस्कारा इति हेतुप्रत्ययप्रभवत्वं संस्काराणाम् / एवं परिशेषाणाम् / अविद्यानिरोधात्संस्कारनिरोध इत्यभावः संस्काराणाम् / एवं परिशेषाणाम् //

अविद्याप्रत्याः संस्कारा इत्युत्पादविनिबन्ध एषः / एवं परिशेषाणाम् / अविद्यानिरोधात्संस्कारनिरोध इति व्ययविनिबन्ध एषः / एवं परिशेषाणाम् //

अविद्याप्रत्ययाः संस्कारा इति भावानुलोमपरीक्षा / एवं परिशेषाणाम् / अविद्यानिरोधात्संस्कारनिरोध इति क्षयव्ययाविनिवन्ध एषः / एवं परिशेषाणाम् //

स एवं द्वादशाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षते ऽनुलोमप्रतिलोमं यदुत भवाङ्गानुसंधितश्च एकचित्तसमवसरणतश्च स्वकर्मासंभेदतश्च अविनिर्भागतश्च त्रिवर्त्मानुवर्तनतश्च पूर्वान्तप्रत्युत्पन्नापरान्तावेक्षणतश्च त्रिदुःखतासमुदयतश्च हेतुप्रत्ययप्रभवतश्च उत्पादव्ययविनिबन्धनतश्च अभावाक्षयताप्रत्यवेक्षणतश्च //

तस्यैवं द्वादशाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षमाणस्य निरात्मतो निःसत्त्वतो निर्जीवतो निष्पुद्गलतः कारकवेदकरहिततो ऽस्वामिकतो हेतुप्रत्ययाधीनतः स्वभावशून्यतो विविक्ततो ऽस्वभावतश्च प्रकृत्या प्रत्यवेक्षमाणस्य शून्यताविमोक्षमुखमाजातं भवति //

तस्यैवं भवाङ्गानां स्वभावनिरोधात्यन्तविमोक्षप्रत्युपस्थानतो न किंचिद्धर्मनिमित्तमुत्पद्यते / अतो ऽस्य आनिमित्तविमोक्षमुखमाजातं भवति //

तस्यैवं शून्यतानिमित्तमवतीर्णस्य न कश्चिदभिलाष उत्पद्यते अन्यत्र महाकरुणापूर्वकात्सत्त्वपरिपाचनात् / एवमस्य अप्रणिहितविमोक्षमुखमाजातं भवति //

य इमानि त्रीणि विमोक्षमुखानि भावयन् आत्मपरसंज्ञापगतो कारकवेदकसंज्ञापगतो भावाभावसंज्ञापगतो भूयस्या मात्रया महाकरुणापुरस्कृतः प्रयुज्यते ऽपरिनिष्पन्नानां बोध्यङ्गानां परिनिष्पत्तये, तस्यैवं भवति - संयोगात्संस्कृतं प्रवर्तते / विसंयोगान्न प्रवर्तते / सामग्र्या संस्कृतं प्रवर्तते / विसामग्र्या न प्रवर्तते / हन्त वयमेवं बहुदोषदुष्टं संस्कृतं विदित्वा अस्य संयोगस्य अस्याः सामग्र्या व्यवच्छेदं करिष्यामः, न चात्यन्तोपशमं सर्वसंस्काराणामविरागयिष्यामः सत्त्वपरिपाचनतायै //

एवमस्य भवन्तो जिनपुत्राः संस्कारगतं बहुदोषदुष्टं स्वभावरहितमनुत्पन्नानिरुद्धं प्रकृत्या प्रत्यवेक्षमाणस्य महाकरुणाभिनिर्हारतश्च सत्त्वकार्यानुत्सर्गतश्च सङ्गज्ञानाभिमुखो नाम प्रज्ञापारमिताविहारो ऽभिमुखीभवत्यवभासयोगेन / स एवं ज्ञानसमन्वागतः प्रज्ञापारमिताविहारावभासितो बोध्यङ्गाहारकांश्च प्रत्ययानुपसंहरति / न च संस्कृतसंवासेन संवसति / स्वभावोपशमं च संस्काराणां प्रत्यवेक्षते / न च तत्रावतिष्ठते बोध्यङ्गापरित्यक्तत्वात् //

तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अवतारशून्यता च नाम समाधिराजायते / स्वभावशून्यता ... परमार्थशून्यता ... परमशून्यता ... महाशून्यता ... संप्रयोगशून्यता ... अभिनिर्हारशून्यता यथावदविकल्पशून्यता सापेक्षशून्यता विनिर्भागाविनिर्भागशून्यता नाम समाधिराजायते / तस्यैवंप्रमुखानि दश शून्यतासमाधिमुखशतसहस्राण्यामुखीभवन्ति / एवमानिमित्तसमाधिमुखशतशहस्राणि अप्रणिहितसमाधिमुखशतसहस्राण्यामुखीभवन्ति / तस्य भूयस्या मात्रया अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्यभेद्याशयता च परिपूर्यते / नियताशयता ... कल्याणाशयता ... गम्भीराशयता ... अप्रत्युदावर्त्याशयता ... अप्रतिप्रस्त्रब्धाशयता ... विमलाशयता ... अनन्ताशयता ... ज्ञानाभिलाषाशयता ... उपायप्रज्ञासंप्रयोगाशयता च परिपूर्यते //

तस्यैते दश बोधिसत्त्वाशयाः स्वनुगता भवन्ति तथागतबोधौ / अप्रत्युदावर्तनीयवीर्यश्च भवति सर्वपरप्रवादिभिः / समवसृतश्च भवति ज्ञानभूमौ / विनिवृत्तश्च भवति श्रावकप्रत्येकबुद्धभूमिभ्यः / एकान्तिकश्च भवति बुद्धज्ञानाभिमुखतायाम् / असंहार्यश्च भवति सर्वमारक्लेशसमुदाचारैः / सुप्रतिष्ठितश्च भवति बोधिसत्त्वज्ञानालोकतायाम् / सुपरिभावितश्च भवति शून्यतानिमित्ताप्रणिहितधर्मसमुदाचारैः / संप्रयुक्तश्च भवत्युपायप्रज्ञाविचारैः / व्यवकीर्णश्च भवति बोधिपाक्षिकधर्माभिनिर्हारैः / तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य प्रज्ञापारमिताविहारो ऽतिरिक्ततर आजातो भवति, तीक्ष्णा चानुलोमिकी तृतीया क्षान्तिरेषां धर्माणां यथावदनुलोमतया न विलोमतया //

तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य यथावत्समापत्तिप्रज्ञाज्ञानालोकतया प्रयुज्यते, प्रतिपत्तितश्चाधारयति / स भूयस्या मात्रया तथागतधर्मकोशप्राप्तो भवति / तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पांस्तानि कुशलमूलानि भूयस्या मात्रया उत्तप्तप्रभास्वरतराणि भवन्ति / अनेकानि कल्पशतानि ... . / तानि कुशलमूलानि भूयस्या मात्रयोत्तप्तप्रभास्वरतराणि भवन्ति / तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं वैडूर्यपरिसृष्टं भूयस्या मात्रयोत्तप्तप्रभास्वरतरं भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाज्ञानविचारितानि भूयस्या मात्रयोत्तप्तप्रभास्वरतराणि भवन्ति, भूयो भूयश्च प्रशमासंहार्यतां गच्छन्ति / तद्यथापि नाम भवन्तो जिनपुत्राश्चन्द्राभा सत्त्वाश्रयांश्च प्रह्लादयति असंहार्या च भवति चतसृभिर्वातमण्डलीभिः, एवमेव भवन्तो जिनपुत्र बोधिसत्त्वस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्यनेकेषां सत्त्वकोटिनयुतशतसहस्राणां क्लेशज्वालाः प्रशमयन्ति, प्रह्लादयन्ति, असंहार्याणि च भवन्ति चतुर्भिर्मारावचरैः / तस्य दशभ्यः पारमिताभ्यः प्रज्ञापारमिता अतिरिक्ततमा भवति, न च परिशेषा न समुदागच्छति यथाबलं यथाभजमानम् / इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य अभिमुखी नाम षष्ठी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन सुनिर्मितो भवति देवराजं कृती प्रभुः सत्त्वानामभिमानप्रतिप्रस्रब्धये कुशलः सत्त्वान्याभिमानिकधर्मेभ्यो विनिवर्तयितुम् / असंहार्यश्च भवति सर्वश्रावकपरिपृच्छायां कुशलः सत्त्वान् प्रतीत्यसमुत्पादे ऽवतारयितुम् / यच्च किंचित् ... . //

अभिमुखी नाम षष्टी भूमिः //

7 दुरंगमा नाम सप्तमी भूमिः /

वज्रगर्भ आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः षष्ट्यां बोधिसत्त्वभूमौ सुपरिपूर्णबोधिसत्त्वमार्गः सप्तमीं बोधिसत्त्वभूमिमाक्रमति, स दशभिरुपायप्रज्ञाज्ञानाभिनिर्हृतैर्मार्गान्तरारम्भविशेषैराक्रमति / कतमैर्दशभिः? यदुत शून्यतानिमित्ताप्रणिहितसमाधिसुपरिभावितमानसश्च भवति, महापुण्यज्ञानसम्भारोपचयं च संबिभर्ति / नैरात्म्यनिःसत्त्वनिर्जीवनिष्पुद्गलतां च सर्वधर्माणामवतरति, चतुरप्रमाणाभिनिर्हारं च नोत्सृजति / पुण्यधर्मोच्छ्रयपारमिताभिसंस्कारं चाभिसंस्करोति, न च किंचिद्धर्ममभिनिविशते / सर्वत्रैधातुकविवेकप्राप्तश्च भवति, त्रैधातुकविठपनालंकाराभिनिर्हारं चाभिनिर्हरति / अत्यन्तशान्तोपशान्तश्च सर्वक्लेशज्वालापगमाद्भवति, सर्वसत्त्वरागद्वेषक्लेशज्वालाप्रशमाभिनिर्हारं चाभिनिर्हरति / मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्कोदकचन्द्रप्रतिबिम्बनिर्माणभावाभावस्वभावाद्वयानुगतश्च भवति, कर्मक्रियाविभक्त्यप्रमाणाशयतां चाभिनिर्हरति / आकाशसमक्षेत्रपथसुभावितमनाश्च भवति, बुद्धक्षेत्रविठपनालंकाराभिनिर्हारं चाभिनिर्हरति / प्रकृतिधर्मकायतां च सर्वबुद्धनामवतरति, रूपकायलक्षणानुव्यञ्जनविठपनालंकाराभिनिर्हारं चाभिनिर्हरति / अनभिलाप्यरुतघोषापगतं च प्रकृतिशान्तं तथागतघोषमधिमुच्यते, सर्वस्वराङ्गविभक्तिविशुद्ध्यलंकाराभिनिर्हारं चाभिनिर्हरति / एकक्षणत्र्यध्वानुबोधं च बुद्धानां भगवतामवतरति, नानालक्षणाकल्पसंख्याविभावनां चानुप्रविशति सत्त्वाशयविभावनाय / एविर्भवन्तो जिनपुत्रा दशभिरुपायप्रज्ञाज्ञानाभिनिर्हृतिभिर्मार्गान्तरारम्भविशेषैर्बोधिसत्त्वः षष्ठ्या बोधिसत्त्वभूमेः सप्तमीं बोधिसत्त्वभूमिमाक्रान्त इत्युच्यते //

स सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो ऽप्रमाणासत्त्वधातुमवतरति / अप्रमाणं च बुद्धानां भगवतां सत्त्वपरिपाचनविनयकर्मावतरति / अप्रमाणं लोकधातुमवतरति / अप्रमाणं च बुद्धानां भगवतां क्षेत्रपरिशुद्धिमवतरति / अप्रमाणं च धर्मनानात्वमवतरति / अप्रमाणं च बुद्धानां भगवतां ज्ञानाभिसंबोधिमवतरति / अप्रमाणं च कल्पसंख्याप्रवेशमवतरति / अप्रमाणं च बुद्धानां भगवतां त्र्यध्वानुबोधमवतरति / अप्रमाणं च सत्त्वानामधिमुक्तिनानात्वविशेषमवतरति / अप्रमाणं च बुद्धानां भगवतां रूपकायनानात्वदर्शनमवतरति / अप्रमाणं च सत्त्वानामाशयेन्द्रियनानात्वमवतरति / अप्रमाणं च बुद्धानां भगवतां घोषोदाहारसत्त्वसंतोषणमवतरति / अप्रमाणं सत्त्वानां चित्तचरितनानात्वमवतरति / अप्रमाणं च बुद्धानां भगवतां ज्ञानप्रसरानुगममवतरति / अप्रमाणं श्रावकयाननिर्याणा-अधिमुक्तिनानात्वमवतरति / अप्रमाणं च बुद्धानां भगवतां मार्गदेशनावतारमवतरति / अप्रमाणं प्रत्येकबुद्धयानसमुदागमनिष्पत्तिमवतरति / अप्रमाणं च बुद्धानां भगवतां ज्ञानमुखप्रवेशनिर्देशमवतरति / बोधिसत्त्वानां बोधिसत्त्वचर्याप्रयोगमवतरति / अप्रमाणं च बुद्धानां भगवतां महायानसमुदयावतारनिर्देशनामवतरति //

तस्यैवं भवति - एवमप्रमाणः खलु पुनस्तथागतानामर्हतां सम्यक्संबुद्धानां विषयो यस्य न सुकरा संख्या कर्तुं कल्पकोटिशतसहस्रैर्यावदेतावद्भिरपि कल्पकोटिनियुतशतसहस्रैः / सर्व ... विषयो ऽस्माभिः समुपस्थापयितव्यो ऽनाभोगतो ऽकल्पाविकल्पतश्च परिपूरयितव्य इति / स एवं सुप्रत्यवेक्षितज्ञानाभिज्ञः सततसमितमभियुक्तोपायप्रज्ञापरिभावितेषु मार्गान्तरारम्भविशेषेषु सुप्रतिष्ठितो भवत्यविचाल्ययोगेन //

स एकक्षणमपि मार्गाभिनिर्हारान्न व्युत्तिष्ठते / स गच्छन्नेव ज्ञानाभिनिर्हारयुक्तो भवति / तिष्ठन्नपि निषण्णो ऽपि शयानो ऽपि स्वप्नान्तरगतो ऽप्यपगतनीवरणः सर्वेर्यापथे स्थितो ऽविरहितो भवति एभिरेवंरूपैः संज्ञामनसिकारैः / तस्य सर्वचित्तोत्पादे दशानां बोधिसत्त्वपारमितानां समुदागमपरिपूरिः समुदागच्छति / तत्कस्माद्धेतोः? तथा हि स बोधिसत्त्वः सर्वांश्चित्तोत्पादानुत्पन्नोत्पन्नान् महाकरुणापूर्वकान् बुद्धधर्मसमुदागमाय तथागतज्ञानाय परिणामयति / तत्र यः कुशलमूलस्य सत्त्वेभ्य उत्सर्गो बुद्धज्ञानं पर्येषमाणस्य, इयमस्य दानपारमिता / यः प्रशमः सर्वक्लेशपरिदाहानाम्, इयमस्य शीलपारमिता / या कृपामैत्रीपूर्वगमा सर्वसत्त्वेषु क्षान्तिः, इयमस्य क्षान्तिपारमिता / य उत्तरोत्तरकुशलधर्मातृप्ततयारम्भः पराक्रमः, इयमस्य वीर्यपारमिता / या विप्रतिसार्यविसृतमार्गता सर्वज्ञज्ञानाभिमुखता, इयमस्य ध्यानपारमिता / या सर्वधर्माणां प्रकृत्यनुत्पादाभिमुखी क्षान्तिः, इयमस्य प्रज्ञापारमिता / यो ऽप्रमाणाज्ञानाभिनिर्हारः, इयमस्योपायकौशलपारमिता / या सर्वपरप्रवादिमारसंघैर्मार्गानाच्छेद्यता, इयमस्य बलपारमिता / यद्यथावत्सर्वधर्मज्ञाननितीरणम्, इयमस्य ज्ञानपारमिता / एवमस्य भवन्तो जिनपुत्रा बोधिसत्त्वस्य दूरंगमायां बोधिसत्त्वभूमौ स्थितस्य इमा दश पारमिताः क्षणे क्षणे परिपूर्यन्ते / एवं चत्वारि संग्रहवस्तूनि परिपूर्यन्ते, चत्वारि च अधिष्ठानानि, सप्तत्रिंशद् बोधिपक्ष्याश्च धर्माः, त्रीणि च विमोक्षमुखानि, समासतः सर्वबोध्यङ्गिका धर्माः क्षणे क्षणे परिपूर्यन्ते //

एवमुक्ते विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - किं पुनर्भो जिनपुत्रा अस्यामेव सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य सर्वबोध्यङ्गिका धर्माः क्षणे क्षणे परिपूर्यन्ते, आहोस्वित्सर्वासु दशसु बोधिसत्त्वभूमिषु? वज्रगर्भ आह - सर्वासु भो जिनपुत्रा दशसु बोधिसत्त्वभूमिषु बोधिसत्त्वस्य सर्वबोध्यङ्गानि क्षणे क्षणे परिपूर्यन्ते, तदतिरेकेण पुनरस्यामेव सप्तम्यां बोधिसत्त्वभूमौ / तत्कस्य हेतोः? इयं भो जिनपुत्रा बोधिसत्त्वभूमिः प्रायोगिकचर्यापरिपूरणी च ज्ञानाभिज्ञानचर्याक्रमणी च / अपि तु खलु पुनर्भो जिनपुत्राः प्रथमायां बोधिसत्त्वभूमौ सर्वप्रणिधानाध्यालम्बेन बोधिसत्त्वस्य सर्वबोध्यङ्गानि क्षणे क्षणे परिपूर्यन्ते / द्वितीयायां चित्तमलापनयनेन / तृतीयायां प्रणिधानविवर्धनतया धर्मावभासप्रतिलम्भेन च / चतुर्थ्यां मार्गावतारेण / पञ्चम्यां लोकत्रयानुवृत्या / षष्ट्यां गम्भीरधर्ममुखप्रवेशेन / अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ सर्वबुद्धधर्मसमुत्थापनतया क्षणे क्षणे सर्वबोध्याङ्गानि परिपूर्यन्ते / (dbh 38) तत्कस्य हेतोः? यानि बोधिसत्त्वेन प्रथमां बोधिसत्त्वभूमिमुपादाय यावत्सप्तमी बोधिसत्त्वभूमिरित्यभिनिर्हृतानि ज्ञानाभिनिर्हारप्रयोगाङ्गानि, इमान्यष्टमी बोधिसत्त्वभूमिमारभ्य यावदत्यन्तपर्यवसानमित्यनाभोगेन परिनिष्पद्यन्ते /

तद्यथापि नाम भो जिनपुत्रा द्वयोर्लोकधात्वोः संक्लिष्टविशुद्धाशयश्च लोकधातोरेकान्तपरिशुद्धाशयश्च लोकधातोर्लोकान्तरिका दुरतिक्रमा न शक्या यथातथातिक्रमितुमन्यत्र महाभिज्ञाबलाधानात्, एवमेव भो जिनपुत्र व्यामिश्रपरिशुद्धा बोधिसत्त्वचर्यान्तरिका दुरतिक्रमा न शक्या यथातथातिक्रमितुमन्यत्र महाप्रणिधानोपायप्रज्ञाभिज्ञाबलाधानात् / विमुक्तिचन्द्र आह - किं पुनर्भो जिनपुत्र सप्तसु बोधिसत्त्वभूमिषु क्लेशचर्यासंक्लिष्टा बोधिसत्त्वचर्या प्रत्येतव्या? वज्रगर्भ आह - प्रथमामेव भो जिनपुत्र बोधिसत्त्वभूमिमुपादाय सर्वाबोधिसत्त्वचर्यापगतक्लेशकल्माषा बोधिपरिणामनाधिपत्येन प्रत्येतव्या / यथाभागिमार्गसमतया, (न च) तावत्सप्तसु बोधिसत्त्वभूमिषु समतिक्रान्ता क्लेशचर्येत्यवाचनीया / तद्यथापि नाम भो जिनपुत्र राजा चक्रवर्ती दिव्यं हस्तिरत्नमभिरूढश्चतुरो द्वीपानाक्रमति, मनुष्यदुःखदारिद्र्यसंक्लेशदोषांश्च प्रजानाति, न च तैर्दोषैर्लिप्यते / न च तावत्समतिक्रान्तो मनुष्यभावं भवति / यदा पुनर्मनुष्याश्रयं हित्वा ब्रह्मलोकोपपन्नो भवति ब्राह्म्यविमानमभिरूढः, सहस्रलोकधातुमल्पकृच्छ्रेण पश्यत्यनुविचरति, ब्रह्मप्रतिभासं चादर्शयति, न च मनुष्य इति प्रभाव्यते, एवमेव भोः प्रथमां भूमिमुपादाय बोधिसत्त्वः पारमितायानाभिरूढः सर्वजगदनुविचरन् संक्लेशदोषान् प्रजानाति, न च तैर्दोषैर्लिप्यते सम्यग्मार्गाभिरूढत्वात् / न च तावत्समतिक्रान्तः सर्वजगत्संक्लेशदोषान् वक्तव्यः /

सप्तसु भूमिषु सर्वप्रायोगिकचर्यां विहाय सप्तम्या भूमेरष्टमीं बोधिसत्त्वभूमिमवक्रान्तो भवति, तदा परिशुद्धं बोधिसत्त्वयानमभिरूढः सर्वजगदनुविचरन् सर्वजगत्संक्लेशदोषान् प्रजानाति, न च तैर्दोषैर्लिप्यते समतिक्रान्तत्वाद् लोकत्रियाभ्यः / अस्यां पुनर्भो जिनपुत्र सप्यम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो भूयस्त्वेन रागादिप्रमुखं सर्वक्लेशगणं समतिक्रान्तो भवति / सो ऽस्यां दूरंगमायां बोधिसत्त्वभूमौ चरन् बोधिसत्त्वो ऽसंक्लेशानिष्क्लेश इति वक्तव्यः / तत्कस्मात्? असमुदाचारात्सर्वक्लेशानां न संक्लेश इति वक्तव्यः / तथागतज्ञानाभिलाषादपरिपूर्णाभिप्रायत्वाच्च न निष्क्लेश इति वक्तव्यः //

सो ऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो ऽध्याशयपरिशुद्धेन कायकर्मणा समन्वागतो भवति / अध्याशयपरिशुद्धेन वाक्कर्मणा अध्याशयपरिशुद्धेन मनस्कर्मणा समन्वागतो भवति / ये चेमे दशाकुशलाः कर्मपथास्तथागतविवर्णिताः, तान् सर्वेण सर्वं समतिक्रान्तो भवति / ये चेमे दश कुशलाः कर्मपथाः सम्यक्संबुद्धानुभाविताः, तान् सततसमितमनुवर्तते / यानि लौकिकानि शिल्पस्थानकर्मस्थानानि यान्यभिनिर्हृतानि पञ्चम्यां बोधिसत्त्वभूमौ, तान्यस्य सर्वाण्यनाभोगत एवं प्रवर्तन्ते / स आचार्यः संमतो भवति त्रिसाहस्र महासाहस्रलोकधातौ, स्थापयित्वा तथागतानर्हतः सम्यक्सम्बुद्धान्, अष्टमीं भूमिमुपादाय च बोधिसत्त्वान् / नास्य कश्चित्समो भवत्याशयेन वा प्रयोगेण वा / यानि चेमानि ध्यानानि (dbh 39) समाधयः समपत्तयो ऽभिज्ञा विमोक्षाश्च, तान्यस्य सर्वेण सर्वमामुखीभवन्ति भावनाभिनिर्हाराकारेण / न च तावद्विपाकतः परिनिष्पन्नानि भवन्ति तद्यथापि नाम अष्टम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य / अस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य सर्वचित्तोत्पादेषु प्रज्ञोपायभावनाबलं परिपूर्यते / भूयस्या मात्रया सर्वबोध्यङ्गपरिपूरिं प्रतिलभते //

सो ऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितः सन् सुविचितविचयं च नाम बोधिसत्त्वसमाधि समापद्यते / सुविचिन्तितार्थं च नाम ... / विशेषमतिं च नाम ... / प्रभेदार्थकोशं च ... / सर्वार्थविचयं च ... / सुप्रतिष्ठितदृढमूलं च ... / ज्ञानाभिज्ञामुखं च ... / धर्मधातु(परि)कर्मं च ... / तथागतानुशंसं च ... / विचित्रार्थकोशसंसारनिर्वाणमुखं च बोधिसत्त्वसमाधिं समापद्यते / स एवंप्रमुखानि महाभिज्ञाज्ञानमुखानि परिपूर्णानि दश समाधिशतसहस्राणि भूमिपरिशोधिकानि समापद्यते //

स एषां समाधीनामुपायप्रज्ञासुपरिशोधितानां प्रतिलम्भान्महाकरुणाबलेन चातिक्रान्तो भवति श्रावकप्रत्येकबुद्धभूमिम्, अभिमुखश्च भवति प्रज्ञाज्ञानविचारणाभूमेः //

तस्य अस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अप्रमाणं कायकर्म निमित्तापगतं प्रवर्तते / अप्रमाणं वाक्कर्म ... मनस्कर्म निमित्तापगतं प्रवर्तते सुविशोधितमनुत्पत्तिकधर्मक्षान्त्यवभासितम् / विमुक्तिचन्द्र आह - ननु भो जिनपुत्र, प्रथमायामेव बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अप्रमाणं कायवाङ्मनस्कर्म सर्वश्रावकप्रत्येकबुद्धचर्यां समतिक्रान्तं भवति? वज्रगर्भ आह - भवति भो जिनपुत्र / तत्पुनर्बुद्धधर्माध्यालम्बनमाहात्म्येन, न पुनः स्वबुद्धिविचारेण / अस्यां तु पुनः सप्तम्यां बोधिसत्त्वभूमौ स्वबुद्धिगोचरविचारप्रतिलम्भादसंहार्यं श्रावकप्रत्येकबुद्धैर्भवति / तद्यथापि नाम भवन्तो जिनपुत्रा राजकुलप्रसूतो राजपुत्रो राजलक्षणसमन्वागतो जातमात्र एव सर्वामात्यगणमभिभवति राजाधिपत्येन, न पुनः स्वबुद्धिविचारेण / यदा पुनः स संवृद्धो भवति तदा स्वबुद्धिबलाधानतः सर्वामात्यक्रियासमतिक्रान्तो भवति, एवमेव भो जिनपुत्रा बोधिसत्त्वः सहचित्तोत्पादेन सर्वश्रावकप्रत्येकबुद्धानभिभवत्यध्याशयमाहात्म्येन, न पुनः स्वबुद्धिविचारेण / अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्वविषयज्ञानविशेषमाहात्म्यावस्थितत्वात्सर्वश्रावकप्रत्येकबुद्धक्रियामतिक्रान्तो भवति //

स खलु पुनर्भो बोधिसत्त्वो ऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितो गम्भीरस्य विवित्तस्याप्रचारस्य कायवाङ्मनस्कर्मणो लाभी भवति / न चोत्तरं विशेषपरिमार्गणाभियोगमवसृजति / [येन परिमार्गणाभियोगेन निरोधप्राप्तश्च भवति, न च निरोधं साक्षात्करोति //]

विमुक्तिचन्द्र आह - कतमां भूमिमुपादाय बोधिसत्त्वो निरोधं समापद्यते? वज्रगर्भ आह - षष्ठीं भो जिनपुत्र बोधिसत्त्वभूमिमुपादाय बोधिसत्त्वो निरोधं समापद्यते / अस्यां (dbh 40) पुनः सप्तम्यां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वश्चित्तक्षणे चित्तक्षणे निरोधं समापद्यते च व्युत्तिष्ठते च / न च निरोधः साक्षात्कृत इति वक्तव्यः / तेन सो ऽचिन्त्येन कायवाङ्मन स्कर्मणा समन्वागत इत्युच्यते / आश्चर्यं भो यत्र हि नाम बोधिसत्त्वो भूतकोटिविहारेण च विहरति, न च निरोधं साक्षात्करोति / तद्यथापि नाम भो जिनपुत्र पुरुषः कुशलो महासागरे वारिलक्षणाभिज्ञः पण्डितो व्यक्तो मेधावी तत्रोपगतया मीमांसया समन्वागतो महासागरे महायानपात्राभिरूढो वहनकुशलश्च भवति, वारिकुशलश्च भवति, न च महासमुद्रे वारिदोषैर्लिप्यते, एवमेव भो जिनपुत्र अस्यां सप्तम्यां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वः सर्वज्ञज्ञानमहासागरावतीर्णः पारमितामहायानपात्राभिरूढो भूतकोटिविहारेण च विहरति, न च निरोधं साक्षात्करोति, (न च सस्ंकृतात्यन्तव्युपशमवितर्कदोषैर्लिप्यते) //

स एवं ज्ञानबलाधानप्राप्तः समाधिज्ञानबलभावनाभिनिर्हृतया बुद्ध्या महतोपायप्रज्ञाबलाधानेन संसारमुखं चादर्शयति / निर्वाणसतताशयश्च भवति / महापरिवारपरिवृतश्च भवति / सततसमितं च चित्तविवेकप्रतिलब्धो भवति / त्रैधातुकोपपत्तिं च प्रणिधानवशेनाभिनिर्हरति सत्त्वपरिपाचनार्थम् / न च लोकदोषैर्लिप्यते / शान्तप्रशान्तोपशान्तश्च भवति / उपायेन च ज्वलति / ज्वलंश्च न दहते / संवर्तते च बुद्धज्ञानेन / विवर्तते च श्रावकप्रत्येकबुद्धभूमिभ्याम् / बुद्धज्ञानविषयकोशप्राप्तश्च भवति / मारविषयगतश्च दृश्यते / चतुर्मारपथसमतिक्रान्तश्च भवति / मारविषयगोचरं चादर्शयति / सर्वतीर्थ्यायतनोपगतश्च दृश्यते / बुद्धतीर्थ्यायतनानुत्सृष्टाशयश्च भवति / सर्वलोकक्रियानुगतश्च दृश्यते / लोकोत्तरधर्मगतिसमवसरणश्च भवति / सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशक्रब्रह्मलोकपालातिरेकव्यूहालंकारविठपनाप्राप्तश्च भवति / सर्वबुद्धधर्मतिमनसिकारं च न विजहाति //

तस्यैवं ज्ञानसमन्वागतस्य अस्यां सप्तस्यां दूरंगमायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति ... / तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपासते / तेषां च सकाशाद्गौरवचित्रीकारेण सत्कृत्य धर्मदेशनां शृणोति, उद्गृह्णाति धारयति / श्रुत्वा च यथावत्समापत्तिप्रज्ञाज्ञानालोकेन प्रयुज्यते / प्रतिपत्तितश्चाधारयति / शासनसंधारकश्च भवति तेषां बुद्धानां महात्मनाम् / असंहार्यश्च सर्वश्रावकप्रत्येकबुद्धाभिसमयपरिपृच्छासु / तस्य भूयस्या मात्रया सत्त्वानुग्रहाय गम्भीरधर्मक्षान्तिर्विशुद्ध्यति / तस्य ... अनेकान् कल्पांस्तानि कुशलमूलान्युत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति, पर्यवदानं चागच्छन्ति / अनेकानि कल्पशतानि ... अनेकानि कल्पकोटिनियुतशतसहस्राणि तानि कुशलमूलान्युत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति, पर्यवदानं चागच्छन्ति / तद्यथापि नाम भो जिनपुत्राः तदेव जातरूपं सर्वरत्नप्रत्युप्तं भूयस्या मात्रयोत्तप्ततरं भवति, प्रभास्वरतरं भवति, असंहार्यतरं च भवत्यन्याभ्यो भूषणविकृतिभ्यः, एवमेव भो जिनपुत्राः ... तानि कुशलमूलान्युपायप्रज्ञाज्ञानाभिनिर्हृतानि भूयस्या मात्रयोत्तप्ततराणि (dbh 41) भवन्ति प्रभास्वरतराणि, पर्यवदाततराणि असंहार्यतराणि च भवन्ति सर्वश्रावकप्रत्येकबुद्धैः /

तद्यथापि नाम भो जिनपुत्राः सूर्याभा असंहार्या भवन्ति सर्वज्योतिर्गणचन्द्राभाभिश्चतुर्षु महाद्वीपेषु, सर्वस्नेहगतानि भूयस्त्वेन परिशोषयन्ति, सर्वशस्यानि परिपाचयन्ति, एवमेव भो जिनपुत्रा ... तानि कुशलमूलान्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैः, चतुर्विपर्यासगतानि च सर्वक्लेशस्नेहगतानि भूयस्त्वेन परिशोषयन्ति / क्लेषाविलानि च सर्वसंतानानि परिपाचयन्ति / तस्य दशभ्यः पारमिताभ्य उपायकौशल्यपारमिता अतिरिक्ततमा भवति, न च परिशेषा न समुदागच्छति यथाबलं यथाभजमानम् / इयं भो जिनपुत्रा बोधिसत्त्वस्य दूरंगमा नाम सप्तमी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन वशवर्ती भवति देवराजः कृती प्रभुः सत्त्वानामभिसमयज्ञानोपसंहारेष्वपर्यन्तः सर्वश्रावकप्रत्येकबुद्धपरिपृच्छासु कुशलः सत्त्वान्नियाममवक्रामयितुम् / यच्च किचित् ... //

दूरंगमा नाम सप्तमी भूमिः //

8 अचला नाम अष्टमी भूमिः /

वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः सप्तसु बोधिसत्त्वभूमिषु सुकृतविचयः प्रज्ञोपायाभ्यां सुपरिशोधितमार्गः सुसंभृतसंभारः सुपरिबद्धमहाप्रणिधानः अधिष्ठिततथागताधिष्ठानः स्वकुशलमूलबलाधानप्राप्तः तथागतबलवैशारद्यावेणिकबुद्धधर्मानुगतसंज्ञामनसिकारः सुपरिशोधिताध्याशयसंकल्प पुण्यज्ञानबलाभ्युद्गतः महाकरुणाकृपाभ्यां सर्वसत्त्वानुत्सृष्टप्रयोगः अप्रमाणज्ञानपथानुगतः, स सर्वधर्माणामाद्यनुत्पन्नतां च यथाभूतमवतरति / अजाततां च अलक्षणतां च असंभूततां च अविनाशितां च अनिष्ठिततां च अप्रवृत्तितां च अनभिनिवृत्तितां च अभावस्वभावतां च आदिमध्यपर्यवसानसमतां च तथताविकल्पसर्वज्ञज्ञानप्रवेशतां च सर्वधर्माणां यथाभूतमवतरति / स सर्वशश्चित्तमनोविज्ञानविकल्पसंज्ञापगतो ऽनवगृहीताकाशसमो ऽभ्यवकाशप्रकृतितो ऽवतीर्णो ऽनुत्पत्तिकधर्मक्षान्तिप्राप्त इत्युच्यते //

तत्र भवन्तो जिनपुत्रा एवं क्षान्तिसमन्वागतो बोधिसत्त्वः सहप्रतिलम्भादचलाया बोधिसत्त्वभूमेर्गम्भीरं बोधिसत्त्वविहारमनुप्राप्तो भवति दुराज्ञातमसंभिन्नं सर्वनिमित्तापगतं सर्वसंज्ञाग्रहव्यावृत्तमप्रमाणमसंहार्यं सर्वश्रावकप्रत्येकबुद्धैः सर्वविवेकाभिमुखीभूतम् / तद्यथापि नाम भवन्तो जिनपुत्रा भिक्षुरृद्धिमांश्चेतोवशिपारमिताप्राप्तो ऽनुपूर्वेण नवमं निरोधं समापन्नः सर्वेञ्जितमन्यनास्पन्दितविकल्पापगतो भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वो ऽस्या अष्टम्या अचलाया बोधिसत्त्वभूमेः सहप्रतिलम्भात्सर्वाभोगविगतो ऽनाभोगधर्मताप्राप्तः कायवाक्चित्तौत्सुक्यापगतः सर्वेञ्जितमन्यनास्पन्दितविकल्पापगतो विपाकधर्मतावस्थितो भवति / तद्यथापि नाम भो जिनपुत्राः पुरुषः सुप्तः स्वप्नान्तरगतो महौघप्राप्तमात्मानं संजानीते / स तत्र महद्व्यायामौत्सुक्यमारभेतोत्तरणाय / स तेनैव महता व्यायामौत्सुक्येन विबुध्येत / समनन्तरविबुद्धश्च व्यायामौत्सुक्यभयापगतो भवेत् / एवमेव भो जिनपुत्रा बोधिसत्त्वश्चतुर्महौघप्राप्तं सत्त्वकायं संजानान उत्तरणाभिप्रायः सर्वज्ञज्ञानाभिसंबोधाय महद्व्यायामौत्सुक्यमारभते / स महावीर्यारम्भप्राप्तः समनन्तरमनुप्राप्त इमामचलां बोधिसत्त्वभूमिं सर्वाभोगविगतो भवति / तस्य सर्वेण सर्वं द्वयसमुदाचारो वा निमित्तसमुदाचारो वा नाभासीभवति / तद्यथापि नाम भो जिनपुत्रा ब्रह्मलोकोपपत्तिस्थितः कामावचरान् क्लेशान् न समुदाचरति, एवमेव भो जिनपुत्रा बोधिसत्त्वो ऽचलायां बोधिसत्त्वभूमौ स्थितः सर्वचित्तमनोविज्ञानसमुदाचारान्न समुदाचरति / सर्वबुद्धसमुदाचारमपि ... बोधिसमुदाचारमपि ... बोधिसत्त्वसमुदाचारमपि ... प्रत्येकबुद्धसमुदाचारमपि ... श्रावकसमुदाचारमपि ... निर्वाणसमुदाचारमपि ... अर्हत्समुदाचारमपि ... अनागामिसमुदाचारमपि ... निर्वाणसमुदाचारमपि ... अर्हत्समुदाचारमपि ... अनागामिसमुदाचारमपि ... सकृदागामिसमुदाचारमपि ... स्रोतआपन्नसमुदाचारमपि न समुदाचरति / कः पुनर्वादो लौकिकान् समुदाचारान् समुदाचरिष्यतीति //

तस्य खलु भो जिनपुत्र बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति / एवं चैनं ब्रुवन्ति - साधु साधु कुलपुत्र / एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय / अपि तु खलु पुनः कुलपुत्र या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्धिः, सा तव नास्ति / तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व / एतदेव क्षान्तिमुखं मोन्मोक्षीः / अपि तु खलु पुनः कुलपुत्र किंचापि त्वयैवं शान्तविमोक्षविहारो ऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान् नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व / अपि तु खलु पुनः कुलपुत्र पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च / अपि तु खलु पुनः कुलपुत्र एषा सर्वधर्माणां धर्मता / उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः / नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति / अपि तु खलु पुनः कुलपुत्र प्रेक्षस्व तावत् त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्ध्यप्रमाणतां च / तथैव त्वमप्यभिनिर्हारमुत्पादय / अपि तु खलु पुनः कुलपुत्र एकस्त्वेष आलोको यो ऽयं सर्वधर्मनिर्विकल्पालोकः /

ईदृशास्तु कुलपुत्र धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना प्रमाणमुपनिषदौपम्यं नास्ति, तेषामधिगमाय अभिनिर्हारमुत्पादय / अपि तु खलु पुनः कुलपुत्र प्रेक्षस्व तावद्दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च / तत्सर्वमनुगणय / यथावत्तया अभिनिर्हारमुत्पादय / इति हि भो जिनपुत्र ते बुद्धा भगवन्त एवंभूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वो ऽप्रमाणज्ञानविभक्तितो ऽभिनिर्हारकर्माभिनिष्पादयति //

आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि / ते चेद्बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुः, तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च / तेन खलु पुनर्बुद्धा भगवन्तस्तस्य बोधिसत्त्वस्य तावदप्रमाणं ज्ञानाभिनिर्हारकर्मोपसंहरन्ति, यस्यैकक्षणाभिनिर्हृतस्य ज्ञानाभिनिर्हारकर्मणः स पूर्वकः प्रथमचित्तोत्पादमुपादाय यावत्सप्तमीं भूमिप्रतिष्ठामुपागत आरम्भः शततमीमपि कलां नोपेति, सहस्रतमीमपि, शतसहस्रतमीमपि ... पेयालं ... कोटीनियुतशतसहस्रतमीमपि कलां नोपेति, संख्यामपि, गणनामपि, उपमामपि, उपनिसामपि, यावदौपम्यमपि न क्षमते / तत्कस्य हेतोः? तथा हि भो जिनपुत्र पूर्वमेककायाभिनिर्हारतया चर्याभिनिर्हारो ऽभूत् / इमां पुनर्भूमिं समारूढस्य बोधिसत्त्वस्य अप्रमाणकायविभक्तितो बोधिसत्त्वचर्याबलं समुदागच्छति / अप्रमाणघोषाभिनिर्हारतः अप्रमाणज्ञानाभिनिर्हारतः अप्रमाणोपपत्त्यभिनिर्हारतः अप्रमाणक्षेत्रपरिशोधनतः अप्रमाणसत्त्वपरिपाचनतः (dbh 44) अप्रमाणबुद्धपूजोपस्थानतः अप्रमाणधर्मकायानुबोधतः अप्रमाणाभिज्ञाबलाधानाभिनिर्हारतः अप्रमाणपर्षन्मण्डलविभक्त्यभिनिर्हारतश्च अप्रमाणानुगतेन कायवाङ्मनस्कर्माभिनिर्हारेण सर्वबोधिसत्त्वचर्याबलं समुदागच्छत्यविचाल्ययोगेन / तद्यथापि नाम भो जिनपुत्र महासमुद्रगामी पोतो ऽप्राप्तो महासमुद्रं साभोगवाहनो भवति / स एव समनन्तरमनुप्राप्तो महासमुद्रमनाभोगवाहनो वातमण्डलीप्रणीतो यदेकदिवसेन महासमुद्रे क्रमते, तत्सर्वसाभोगवाहनतया न शक्यं वर्षशतेनापि तावदप्रमेयमनुप्राप्तुम् / एवमेव भो जिनपुत्र बोधिसत्त्वः सुसंभृतमहाकुशलमूलसंभारो महायानसमुदागमाभिरूढो महाबोधिसत्त्वचर्यासागरमनुप्राप्तो यदेकमुहूर्तेन ज्ञानानाभोगतया सर्वज्ञज्ञानेनाक्रमति, तन्न शक्यं पूर्वकेण साभोगकर्मणा कल्पशतसहस्रेणापि तावदप्रमेयमनुप्राप्तुम् //

तत्र भो जिनपुत्र बोधिसत्त्वो ऽष्टमीं बोधिसत्त्वभूमिमनुप्राप्तो महत्या उपायकौशल्यज्ञानाभिनिर्हारानाभोगप्रसृतया बोधिसत्त्वबुद्ध्या सर्वज्ञज्ञानं विचारयन् लोकधातुसंभवं च विचारयति, लोकधातुविभवं च विचारयति / स यथा च लोकः संवर्तते, तं च प्रजानाति / यथा च लोको विवर्तते, ... / येन च कर्मोपचयेन लोकः संवर्तते, ... / येन च कर्मक्षयेण लोको विवर्तते, ... / यावत्कालं च लोकः संवर्तते, ... / यावत्कालं च लोको विवर्तते, ... / यावत्कालं च लोकं संवृत्तस्तिष्ठति, ... / यावत्कालं च लोको विवृत्तस्तिष्ठति, तं च प्रजानाति सर्वत्र चानवशेषतः / स पृथिवीधातुपरीत्ततां च प्रजानाति महद्गततां च ... अप्रमाणतां च ... विभक्तितां च प्रजानाति / अब्धातु ... / तेजोधातु ... / वायुधातु ... / स परमाणुरजःसूक्ष्मतां च प्रजानाति, महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति / अप्रमाणपरमाणुरजोविभक्तिकौशल्यं च प्रजानाति / अस्यां च लोकधातौ यावन्ति पृथिवीधातोः परमाणुरजांसि तानि प्रजानाति / यावन्ति अब्धातोः ... / तेजोधातोः ... / वायुधातोः ... / यावन्त्यो रत्नविभक्तयो यावन्ति च रत्नपरमाणुरजांसि तानि प्रजानाति / सत्त्वकाय ... / क्षेत्रकाय ... / स सत्त्वानां कायौदारिकतां च कायसूक्ष्मतां च कायविभक्तितां च प्रजानाति / यावन्ति परमाणुरजांसि संभूतानि नैरयिककायाश्रयतस्तानि प्रजानाति / तिर्यग्योनिकायाश्रयतः ... / ... यमलोककायाश्रयतः ... / ... असुरलोककायाश्रयतः ... . / देवलोककायाश्रयतः ... . / मनुष्यलोककायाश्रयतः ... . /

स एवं परमाणुरजःप्रभेदज्ञानावतीर्णः कामधातुसंवर्तं च प्रजानाति / रूपधातुविवर्तं ... / आरूप्यधातुविवर्तं च प्रजानाति / रूपधातुपरीत्ततां ... . आरूप्यधातुपरीत्ततां ... / आमधातुपरीत्ततां च महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति / रूपधातुपरीत्ततां ... आरूप्यधातुपरीत्ततं ... / कामधातुपरीत्ततां च महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति / रूपधात्वारूप्यधातुपरीत्ततां ... / त्रैधातुकविचारज्ञानानुगमे स्वभिनिर्हृतज्ञानालोकः सत्त्वकायप्रभेदज्ञानकुशलः क्षेत्रकायविभागज्ञानकुशलश्च सत्त्वोपपत्त्यायतनाभिनिर्हारे बुद्धिं चारयति / स यादृशी सत्त्वानामुपपत्तिश्च कायसमुदागमश्च, तादृशमेव स्वकायमधितिष्ठति सत्त्वपरिपाचनाय / स एकामपि त्रिसाहस्रमहासाहस्रां लोकधातुं (dbh 45) स्फरित्वा सत्त्वानां स्वकायं विभक्त्यधिमुक्तिषु तथत्वायोपपत्तये ऽभिनिर्हरति प्रतिभासज्ञानानुगमनतया (यथा सत्त्वाः परिपाकं गच्छन्त्यनुत्तरसम्यक्संबोधिविमुक्तये) / एवं द्वे वा तिस्रो वा चतस्रो वा पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा यावदनभिलाप्या अपि त्रिसाहस्रमहासाहस्रा लोकधातूः स्फरित्वा सत्त्वानां स्वकायं ... पेयालं ... प्रतिभासज्ञानानुगमनतया / स एवंज्ञानसमन्वागतो ऽस्यां भूमौ सुप्रतिष्ठित एकबुद्धक्षेत्राच्च न चलति, अनभिलाप्येषु बुद्धक्षेत्रेषु तथागतपर्षन्मण्डलेषु च प्रतिभासप्राप्तो भवति //

यादृशी सत्त्वानां कायविभक्तिश्च वर्णलिङ्गसंस्थानारोहपरिणाहाधिमुक्त्यध्याशयश्च तेषु बुद्धक्षेत्रेषु तेषु च पर्षन्मण्डलेषु तत्र तत्र तथा तथा स्वकायमादर्शयति / स श्रमणपर्षन्मण्डलेषु श्रमणवर्णरूपमादर्शयति / ब्राह्मणपर्षन्मण्डलेषु ब्राह्मणवर्णरूपमादर्शयति / क्षत्रिय ... / वैश्य ... / शूद्र ... / गृहपति ... / चातुर्महाराजिक ... / त्रायस्त्रिंश ... / एवं याम ... / तुषित ... / निर्माणरति ... / परनिर्मितवशवर्ति ... / मार ... / ब्रह्म ... / यावदकनिष्ठ ... / श्रावकवैनेयिकानां सत्त्वानां श्रावककायवर्णरूपमादर्शयति / प्रत्येकबुद्धवैनेयिकानां सत्त्वानां प्रत्येकबुद्धकायवर्णरूपमादर्शयति / बोधिसत्त्व ... / तथागत ... / इति हि भो जिनपुत्र यावन्तो ऽनभिलाप्येषु बुद्धक्षेत्रेषु सत्त्वानामुपपत्त्यायतनाधिमुक्तिप्रसरास्तेषु तथत्वाय स्वकायविभक्तिमादर्शयति //

स सर्वकायविकल्पापगतः कायसमताप्राप्तः (तच्चास्य कायसंदर्शनमक्षूणमवन्ध्यं च सत्त्वपरिपाकविनयाय) स सत्त्वकायं च प्रजानाति / क्षेत्रकायं च ... / कर्मविपाककायं च ... / श्रावककायं च ... / प्रत्येकबुद्धकायं च ... / बोधिसत्त्वकायं च ... / तथागतकायं च ... / ज्ञानकायं च ... / धर्मकायं च ... / आकाशकायं च प्रजानाति / स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यथाकालपरिपाकविनयानतिक्रमादाकाङ्क्षन् सत्त्वकायं स्वकायमधितिष्ठति / एवं क्षेत्रकायं कर्मविपाककायं ... आत्मकायमधितिष्ठति / स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यं यमेव कायं यस्मिन् यस्मिन् काये आकाङ्क्षति, तं तमेव कायं तस्मिन् तस्मिन् काये (स्वकायं) अधितिष्ठति / स सत्त्वकायानां कर्मकायतां च प्रजानाति / विपाककायतां च ... / क्लेशकायतां च ... / रूपकायतां च ... / आरूप्यकायतां च प्रजानाति / क्षेत्रकायानां परीत्ततां च प्रजानाति, महद्गततां च अप्रमाणतां च संक्लिष्टतां च विशुद्धतां च व्यत्यस्ततां च अधोमूर्धतां च समतलतां च समवसरणतां च दिग्जालविभागतां च प्रजानाति / कर्मविपाककायानां विभक्तिसंकेतं प्रजानाति / एवं श्रावकाकायानां प्रत्येकबुद्धकायानां बोधिसत्त्वकायानां विभक्तिसंकेतं प्रजानाति / तथागतकायानामभिसंबोधिकायतां च प्रजानाति / प्रणिधानकायतां च ... / निर्माणकायतां च / अधिष्ठानकायतां च / रूपलक्षणानुव्यञ्जनविचित्रालंकारकायतां च / प्रभाकायतां च / मनोमयकायतां च / पुण्यकायतां च / ज्ञानकायतां च / धर्मकायतां च प्रजानाति / ज्ञानकायानां सुविचारिततां च प्रजानाति / यथावन्निस्तीरणतां च फलप्रयोगसंगृहीततां (dbh 46) च लौकिकलोकोत्तरविभागतां च त्रियाणव्यवस्थानतां च साधारणासाधारणतां च नैर्याणिकानैर्याणिकतां च शैक्षाशैक्षतां च प्रजानाति / धर्मकायानां समतां च प्रजानाति / अविकोपनतां च अवस्थानसंकेतसंवृत्तिव्यवस्थानतां च सत्त्वासत्त्वधर्मव्यवस्थानतां च बुद्धधर्मार्यसंघव्यवस्थानतां च प्रजानाति / आकाशकायानामप्रमाणतां च सर्वत्रानुगततां च अशरीरतां च अवितथानन्ततां च रूपकायाभिव्यक्तितां च प्रजानाति //

स एवं कायज्ञानाभिनिर्हारप्राप्तो वशवर्ती भवति सर्वसत्त्वेषु / आयुर्वशितां च प्रतिलभते ऽनभिलाप्यानभिलाप्यकल्पायुःप्रमाणाधिष्ठानतया / चेतोवशितां च प्रतिलभते ऽप्रमाणासंख्येयसमाधिनिध्यप्तिज्ञानप्रवेशतया / परिष्कारवशितां च सर्वलोकधात्वनेकव्यूहालंकारप्रतिमण्डिताधिष्ठानसंदर्शनतया / कर्मवशितां च यथाकालं कर्मविपाकाधिष्ठानसंदर्शनतया / उपपत्तिवशितां च सर्वलोकधातूपपत्तिसंदर्शनतया अधिमुक्तिसंदर्शनतया सर्वलोकधातुबुद्धप्रतिपूर्णसंदर्शनतया प्रणिधानसंदर्शनतया यथेष्टबुद्धक्षेत्रकालाभिसंबोधिसंदर्शनतया ऋद्धिसंदर्शनतया सर्वबुद्धक्षेत्र-ऋद्धिविकुर्वणसंदर्शनतया धर्मसंदर्शनतया अनन्तमध्यधर्ममुखालोकसंदर्शनतया ज्ञानसंदर्शनतया तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनाभिसंबोधिसंदर्शनतया //

स आसां दशानां बोधिसत्त्ववशितानां सहप्रतिलम्भेन अचिन्त्यज्ञानी च भवति अतुल्यज्ञानी च अप्रमेयज्ञानी च विपुलज्ञानी च असंहार्यज्ञानी च भवति / तस्यैवंभूम्यनुगतस्य एवं ज्ञानसमन्वागतस्य अत्यन्तागवद्यः कायकर्मसमुदाचारः प्रवर्तते, अत्यन्तानवद्यश्च वाक् ... / अत्यन्तानवद्यश्च मनःसमुदाचारः प्रवर्तते / ज्ञानपूर्वंगमो ज्ञानानुपरिवर्ती प्रज्ञापारमिताधिपतेयो महाकरुणापूर्वक उपायकौशल्यसुविभक्तः प्रणिधानस्वभिनिर्हृतस्तथागताधिष्ठानस्वधिष्ठितो ऽप्रतिप्रस्रब्धसत्त्वार्थप्रयोगो ऽपर्यन्तलोकधातुविभक्तिगतः / समासतो भो जिनपुत्र बोधिसत्त्वस्य इमामचलां बोधिसत्त्वभूमिमनुप्राप्तस्य सर्वबुद्धधर्मसमुदानयनाय कायवाङ्मनस्कर्मसमुदाचारः प्रवर्तते / स एवमिमामचलां बोधिसत्त्वभूमिमनुप्राप्तः सुप्रतिष्ठिताशयबलश्च भवति सर्वक्लेशसमुदाचारापगतत्वात् / सुप्रतिष्ठिताध्याशयबलश्च भवति मार्गाविप्रवासितत्वात् / महाकरुणाबलसुप्रतिष्ठितश्च भवति सत्त्वार्थानुत्सर्गत्वात् / महामैत्रीबल ... सर्वजगत्परित्राणत्वात् / धारणीबल ... असंप्रमोषधर्मत्वात् / प्रतिभानबल ... सर्वबुद्धधर्मप्रविचयविभागकुशलत्वात् / अभिज्ञाबल ... अपर्यन्तलोकधातुचर्याविभागकुशलत्वात् / प्रणिधानबल ... सर्वबोधिसत्त्वक्रियानुत्सर्गत्वात् / पारमिताबल ... सर्वबुद्धधर्मसमुदानयनत्वात् / तथागताधिष्ठानबल ... सर्वाकारसर्वज्ञानाभिमुखत्वात् / स एवंबलाधानप्राप्तः सर्वक्रियाश्च संदर्शयति, सर्वक्रियासु च अनवद्यो भवत्यनुपलिप्तश्च //

इयं भो जिनपुत्र बोधिसत्त्वस्य अष्टमी ज्ञानभूमिरचलेत्युच्यते ऽसंहार्यत्वात् / अविवर्त्यभूमिरित्युच्यते ज्ञानाविवर्त्यत्वात् / दुरासदभूमिरित्युच्यते सर्वजगद्दुर्ज्ञानत्वात् / कुमारभूमिरित्युच्यते (dbh 47) अनवद्यत्वात् / जन्मभूमिरित्युच्यते यथाभिप्रायवशवर्तित्वात् / परिनिष्पन्नभूमिरित्युच्यते अपुनःकार्यत्वात् / परिनिष्ठितभूमिरित्युच्यते / सुकृतज्ञानविचयत्वात् / निर्माणभूमिरित्युच्यते स्वभिनिर्हृतप्रणिधानत्वात् / अधिष्ठानभूमिरित्युच्यते / पराविकोपनत्वात् / अनाभोगभूमिरित्युच्यते पूर्वान्ताभिनिर्हृतत्वात् //

एवं ज्ञानस्वभिनिर्हृतः खलु पुनर्भो जिनपुत्र बोधिसत्त्वो बुद्धगोत्रानुगतो बुद्धगुणप्रभावभासितस्तथागतेर्यापथचर्याचारित्रानुगतो बुद्धविषयाभिमुखः सततसमितं स्वधिष्ठिततथागताधिष्ठानश्च भवति शक्रब्रह्मलोकपालप्रत्युद्गतश्च वज्रपाणिसततानुबद्धश्च समाधिबलानुत्सृष्टश्च च अप्रमाणकायविभक्त्यभिनिर्हृतश्च सर्वकायचर्याबलोपगतश्च महाभिज्ञाविपाकपरिनिष्पन्नश्च अनन्तसमाधिवशवर्ती च अप्रमाणव्याकरणप्रत्येषकश्च यथापरिपवक्कजगदभिसंबोधिनिदर्शकश्च भवति / स एवं ज्ञानभूम्यनुगतो महायानमण्डलानुप्रविष्टः सुविचारितमहाज्ञानाभिज्ञः सततसमितं प्रमुक्तप्रज्ञालोकरश्मिरसङ्गधर्मधातुपथावतीर्णो लोकधातुपथविभक्तिकोविदः सर्वाकारगुणसंदर्शकः स्वचित्तोत्पादवशवर्ती पूर्वान्तापरान्तसुविचितज्ञानः सर्वमारपथावर्तनविवर्तनज्ञानानुगतः सर्वतथागतविषयगोचरानुप्रविष्टो ऽपर्यन्तलोकधातुप्रसरेषु बोधिसत्त्वचर्यां चरत्यप्रत्युदावर्त्ययोगेन / तत उच्यते बोधिसत्त्वो ऽचलां बोधिसत्त्वभूमिमनुप्राप्त इति //

तत्र भो जिनपुत्र अचलां बोधिसत्त्वभूमिमनुप्राप्तो बोधिसत्त्वः सततसमितमपर्यन्ततथागतदर्शनाविरहितो भवति समाधिबलस्वभिनिर्हृतत्वात् / औदारिकं बुद्धदर्शनपूजोपस्थानं नोत्सृजति / स एकैकस्मिन् कल्पे एकैकस्मिन् लोकधातुप्रसरे अनेकान् बुद्धान्, अनेकानि बुद्धशतानि ... पेयालं ... अनेकानि बुद्धकोटीनयुतशतसहस्राणि सत्करोति गुरुकरोति मानयति पूजयति सर्वाकारपूजाभिनिर्हारं चोपसंहरति / तांश्च तथागतान् पर्युपास्ते, लोकधातुविभक्तिपूर्वकं च धर्मालोकोपसंहारं प्रतीच्छति / स भूयस्या मात्रया तथागतधर्मकोशप्राप्तो ऽसंहार्यो भवति लोकधातुपरिपृच्छानिर्देशेषु / तानि चास्य कुशलमूलान्यनेकान् कल्पानुत्तप्यन्ते ... / तद्यथापि नाम भो जिनपुत्र तदेव जातरूपं सुपरिनिष्ठितं कुशलेन कर्मारेण सुपरिकर्मकृतं जम्बूद्वीपस्वामिनः कण्ठे शिरसि वा आबद्धमसंहार्यं भवति सर्वजम्बूद्वीपकानां सत्त्वानामाभरणविकृतैः, एवमेव भो जिनपुत्र अस्यामचलायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य तानि कुशलमूलान्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैर्यावत्सप्तमीभूमिस्थितैश्च बोधिसत्त्वैः / इमां च भूमिमनुगतस्य बोधिसत्त्वस्य महती प्रज्ञाज्ञानप्रभा सत्त्वानां क्लेशतमांसि प्रशमयति सुविभक्तज्ञानमुखाभिनिर्हारतया /

तद्यथापि नाम भो जिनपुत्र साहस्रिको महाब्रह्मा साहस्रलोकधातुं (dbh 48) मैत्र्या स्फरित्वा प्रभयावभासयति, एवमेव भो जिनपुत्र बोधिसत्त्वो ऽस्यामचलायां बोधिसत्त्वभूमौ स्थितो यावद्दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमान् लोकधातून् महता मैत्र्यवभासेन स्फरित्वा सत्त्वानां क्लेशपरिदाहाननुपूर्वेण प्रशमयति, आश्रयांश्च प्रह्लादयति / तस्य दशभ्यः पारमिताभ्यः प्रणिधानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम् / इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य अचला नाम अष्टमी बोधिसत्त्वभूमिः समासनिर्देशतः / विस्तरशः पुनरपर्यन्तकल्पनिर्देशनिष्ठातो ऽनुगन्तव्या / यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन महाब्रह्मा भवति साहस्राधिपतिः / अभिभूरनभिभूतो ऽन्वर्थदर्शी वशिप्राप्तः कृती प्रभुः सत्त्वानां सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वपारमितोपदेशोपसंहारेषु असंहार्यो लोकधातुविभक्तिपरिपृच्छानिर्देशेषु / यच्च किंचित् ... //

अचला नाम अष्टमी भूमिः //

9 साधुमती नाम नवमी भूमिः /

वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्व एवमप्रमाणज्ञेयविचारितया बुद्ध्या भूयश्चोत्तरान् शान्तान् विमोक्षानध्यवस्यन् अध्यालम्बमानः भूयश्चोत्तरं तथागतज्ञानं सुसमाप्तं विचारयन् तथागतगुह्यानुप्रवेशं चावतरन् अचिन्त्यज्ञानमाहात्म्यं च प्रविचिन्वन् धारणीसमाधिप्रविचयं च परिशोधयन् अभिज्ञावैपुल्यं चाभिनिर्हरन् लोकधातुविभक्तिं चानुगच्छन् तथागतबलवैशाद्यावेणिकबुद्धधर्मासंहार्यतां च परिकर्मयन् तथागतधर्मचक्रप्रवर्तनवृषभतां चानुक्रममाणः महाकरुणाधिष्ठानप्रतिलम्भं चानुत्सृजन् नवमीं बोधिसत्त्वभूमिमाक्रमति / सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः कुशलाकुशलाव्याकृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति / सास्रवानास्रवधर्माभिसंस्कारं च ... / लौकिकलोकोत्तरधर्माभिसंस्कारं च ... / चिन्त्याचिन्त्यधर्माभिसंस्कारं च ... / नियतानियतधर्माभिसंस्कारं च ... / श्रावकप्रत्येकबुद्धधर्माभिसंस्कारं च ... / बोधिसत्त्वचर्याधर्माभिसंस्कारं च ... / तथागतभूमिधर्माभिसंस्कारं च ... / संस्कृतधर्माभिसंस्कारं च.. / असंस्कृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति //

स एवंज्ञानानुगतया बुद्ध्या सत्त्वचित्तगहनोपचारं च यथाभूतं प्रजानाति / क्लेशगहनोपचारं च ... / कर्मगहनोपचारं च ... / इन्द्रियगहनोपचारं च ... / अधिमुक्तिगहनोपचारं च ... / धातुगहनोपचारं च ... / आशयानुशयगहनोपचारं च ... / उपपत्तिगहनोपचारं च ... / वासनानुसंधिगहनोपचारं च ... / त्रिराशिव्यवस्थानगहनोपचारं च यथाभूतं प्रजानाति / स सत्त्वानां चित्तवैमात्रतां च यथाभूतं प्रजानाति / चित्तविचित्रतां च चित्तक्षणलघुपरिवर्तभङ्गभङ्गतां च चित्तशरीरतां च चित्तानन्त्यसर्वतःप्रभूततां च चित्तप्रभास्वरतां च चित्तसंक्लेशनिःक्लेशतां च चित्तबन्धविमोक्षतां च चित्तमायाविठपनतां च चित्तयथागतिप्रत्युपस्थानतां च यावदनेकानि चित्तनानात्वसहस्राणि यथाभूतं प्रजानाति / स क्लेशानां दूरानुगततां च यथाभूतं प्रजानाति / प्रयोगानन्ततां च ... / सहजाविनिर्भागतां च ... / अनुशयपर्युत्थानैकार्थतां च ... / चित्तसंप्रयोगासंप्रयोगतां च ... / उपपत्तिसंधियथागतिप्रत्युपस्थानतां च ... / त्रैधातुकविभक्तितां च ... / तृष्णाविद्यादृष्टिशल्यमानमहासावद्यतां च ... / त्रिविधकर्मणि दानानुपच्छेदतां च ... / समासतो यावच्चतुरशीतिक्लेशचरितनानात्वसहस्रानुप्रवेशतां (dbh 50) च यथाभूतं प्रजानाति / स कर्मणां कुशलाकुशलाव्याकृततां च ... / विज्ञप्त्यविज्ञप्तितां च ... / चित्तसहजाविनिर्भागतां च ... / स्वरसक्षणक्षीणभङ्गोपचयाविप्रणाशफलानुसंधितां च ... / विपाकविपाकतां च ... कृष्णशुक्लाकृष्णशुक्लानेकदेशकर्मसमादानवैमात्रतां च ... / कर्मक्षेत्राप्रमाणतां च ... /

आर्यलौकिकप्रविभक्तितां च ... / लोकोत्तरधर्मव्यवस्थानतां च ... / (सोपादानानुपादानतां च ... / संस्कृतासंस्कृततां च / ) दृष्टधर्मोपपद्यापरपर्यायवेदनीयतां च ... / यानायाननियतानियततां च ... / समासतो यावच्चतुरशीतिकर्मनानात्वसहस्रप्रविभक्तिविचयकौशल्यं च यथाभूतं प्रजानाति / स इन्द्रियाणां मृदुमध्याधिमात्रतां च ... / पूर्वान्तापरान्तसंभेदासंभेदतां च ... / उदारमध्यनिकृष्टतां च ... / क्लेशसहजाविनिर्भागतां च ... / यानायाननियतानियततां च ... / यथापरिपव्कापरिपक्ववैनेयिकतां च ... / इन्द्रियजालानुपरिवर्तनलघुभङ्गनिमित्तग्रहणतां च ... / इन्द्रियाधिपत्यानवमर्दनीयतां च ... / विवर्त्याविवर्त्येन्द्रियप्रविभागतां च ... / दूरानुगतसहजाविनिर्भागनानात्वविमात्रतां च, समासतो यावदनेकानीन्द्रियनानात्वसहस्राणि प्रजानाति / सो ऽधिमुक्तीनां मृदुमध्याधिमात्रतां च ... यावदनेकान्यधिमुक्तिनानात्वसहस्राणि प्रजानाति / स धातूनां ... . / स आशयानां ... . / सो ऽनुशयानामाशयसहजचित्तसहजतां च ... . / चित्तसंप्रयोगतां च ... / विप्रयोगविभागदूरानुगततां च ... / अनादिकालानुद्धटिततां च ... / सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाप्रसह्यतां च / त्रैधातुकसंधिसुनिबद्धतां च / अनादिकालचित्तनिबन्धसमुदाचारतां च / आयतनद्वारसमुदयविज्ञप्तितां च / प्रतिपक्षालाभाद्रव्यभूततां च / भूम्यायतनसमवधानासमवधानतां च / अनन्यार्यमार्गसमुद्धटनतां च प्रजानाति / स उपपत्तिनानात्वतां च / यथाकर्मोपपत्तितां च / निरयतिर्यग्योनिप्रेतासुरमनुष्यदेवव्यवस्थानतां च /

रूपारूप्योपपत्तितां च / संज्ञासंज्ञोपपत्तितां च / कर्मक्षेत्रतृष्णास्नेहाविद्यान्धकारविज्ञानबीजपुनर्भवप्ररोहणतां च / नामरूपसहजाविनिर्भागतां च / भवसंमोहतृष्णाभिलाषसंधितां च / भोक्तुकामभवितुकामसत्त्वरत्यनवराग्रतां च / त्रैधातुकावग्रहणसंज्ञानिष्कर्षणतां च प्रजानाति / स वासनानामुपचारानुपचारतां च ... / यथागतिसंबन्धवासनावासिततां च / यथासत्त्वचर्याचरणवासिततां च / यथाकर्मक्लेशाभ्यासवासिततां च / कुशलाकुशलाव्याकृतधर्माभ्यासवासिततां च / पुनर्भवगमनाधिवासिततां च ... / अनुपूर्वाधिवासिततां च / दूरानुगतानुपच्छेदक्लेशोपकर्षणविकारानुद्धरणवासिततां च / द्रव्यभूताद्रव्यभूतवासिततां च / श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतदर्शनश्रवणसंवासवासिततां च प्रजानाति / स सत्त्वराशीनां सम्यक्त्वनियततां च प्रजानाति मिथ्यात्वनियततां च / उभयत्वानियततां च ... / सम्यग्दृष्टिसम्यग्नियततां च मिथ्यादृष्टिमिथ्या ... नियततां च / तदुभयविगमादनियततां च पञ्चानन्तर्यान्यतममिथ्यादृष्टिनियततां च ... / पञ्चेन्द्रियसम्यग्नियततां च ... / अष्टमिथ्यात्वमिथ्यानियततां च ... / सम्यक्त्वसम्यग्नियततां च ... / अपुनःकारिततां च ... / मात्सर्येर्ष्याघृणोपचाराविनिवृत्त्या मिथ्यानियततां च ... / आर्यानुत्तरमार्गभावनोपसंहारसम्यक्त्वनियततां च ... / तदुभयविगमादनियतराश्युपदेशतां च प्रजानाति / इति हि भो जिनपुत्र एवंज्ञानानुगतो बोधिसत्त्वः साधुमत्यां बोधिसत्त्वभूमौ प्रतिष्ठित इत्युच्यते //

सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थित एवं चर्याविमात्रतां सत्त्वानामज्ञाय तथैव मोक्षोपसंहारमुपसंहरति / स सत्त्वपरिपाकं प्रजानाति / सत्त्वविनयं च ... / श्रावकयानदेशनां च / प्रत्येकबुद्धयानदेशनां च / बोधिसत्त्वयानदेशनां च / तथागतभूमिदेशनां च प्रजानाति / स एवं ज्ञात्वा तथत्वाय सत्त्वेभ्यो धर्मं देशयति / यथाशयविभक्तितो यथानुशयविभक्तितो यथेन्द्रियविभक्तितो (dbh 51) यथाधिमुक्तिविभक्तितो यथागोचरविभागज्ञानोपसंहारतः सर्वगोचरज्ञानानुगमनतो यथाधातुगहनोपचारानुगमनतो यथागत्युपपत्तिक्लेशकर्मवासनानुवर्तनतो यथाराशिव्यवस्थानानुगमनतो यथायानाधिमोक्षविमुक्तिप्राप्तितो ऽनन्तवर्णरूपकायसंदर्शनतः सर्वलोकधातुमनोज्ञस्वरविज्ञापनतः सर्वरुतरवितपरिज्ञानतः सर्वप्रतिसंविद्विनिश्चयकौशल्यतश्च धर्मं देशयति //

सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः सन् बोधिसत्त्वो धर्मभाणकत्वं कारयति, तथागतधर्मकोशं च रक्षति / स धर्माभाणकगतिमुपगतो ऽप्रमाणज्ञानानुगतेन कौशल्येन चतुःप्रतिसंविदभिनिर्हृतया बोधिसत्त्ववाचा धर्मं देशयति / तस्य सततसमितमसंभिन्नाश्चतस्रो बोधिसत्त्वप्रतिसंविदो ऽनुप्रवर्तन्ते / कतमाश्चतस्रः? यदुत धर्मप्रतिसंवित् अर्थप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् //

स धर्मप्रतिसंविदा स्वलक्षणं धर्माणां प्रजानाति / अर्थप्रतिसंविदा विभक्तिं धर्माणां प्रजानाति / निरुक्तिप्रतिसंविदा असंभेददेशनां धर्माणां प्रजानाति / प्रतिभानप्रतिसंविदा अनुप्रबन्धानुपच्छेदतां धर्माणां प्रजानाति //

पुनरपरं धर्मप्रतिसंविदा अभावशरीरं धर्माणां प्रजानाति / अर्थप्रतिसंविदा उदयास्तगमनं धर्माणां प्रजानाति / निरुक्तिप्रतिसंविदा सर्वधर्मप्रज्ञप्त्यच्छेदनधर्मं देशयति / प्रतिभानप्रतिसंविदा यथाप्रज्ञप्त्यविकोपनतापर्यन्ततया धर्मं देशयति //

पुनरपरं धर्मप्रतिसंविदा प्रत्युत्पन्नविभक्तिं धर्माणां प्रजानाति / अर्थप्रतिसंविदा अतीतानागतविभक्तिं धर्माणां प्रजानाति / निरुक्तिप्रतिसंविदा अतीतानागप्रत्युत्पन्नासंभेदतो धर्मं देशयति / प्रतिभानप्रतिसंविदा एकैकमध्वानमारभ्य अपर्यन्तधर्मालोकतया धर्मं देशयति //

पुनरपरं धर्मप्रतिसंविदा धर्मप्रभेदं प्रजानाति / अर्थप्रतिसंविदा अर्थप्रभेदं प्रजानाति / निरुक्तिप्रतिसंविदा यथारुतदेशनतया धर्मं देशयति / प्रतिभानप्रतिसंविदा यथानुशयज्ञानं देशयति //

पुनरपरं धर्मप्रतिसंविदा धर्मज्ञानविभक्त्यसंभेदकौशल्यं प्रजानाति / अर्थप्रतिसंविदा अन्वयज्ञानतथात्वव्यवस्थानं प्रजानाति / निरुक्तिप्रतिसंविदा संवृतिज्ञानसंदर्शनासंभेदतया निर्दिशति / प्रतिभानप्रतिसंविदा परमार्थज्ञानकौशल्येन धर्मं देशयति //

पुनरपरं धर्मप्रतिसंविदा एकनयाविकोपं धर्माणां प्रजानाति / अर्थप्रतिसंविदा स्कन्धधात्वायतनसत्यप्रतीत्यसमुत्पादकौशल्यानुगममवतरति / निरुक्तिप्रतिसंविदा सर्वजगदभिगमनीयसुमधुरगिरिनिर्घोषाक्षरैर्निर्दिशति / प्रतिभानप्रतिसंविदा भूयो भूयो ऽपर्यन्तधर्मावभासतया निर्दिशति //

पुनरपरं धर्मप्रतिसंविदा एकयानसमवसरणनानात्वं प्रजानाति / अर्थप्रतिसंविदा प्रविभक्तयानविमात्रतां प्रजानाति / निरुक्तिप्रतिसंविदा सर्वयानान्यभेदेन निर्दिशति / प्रतिभानप्रतिसंविदा एकैकं यानमपर्यन्तधर्माभासेन देशयति //

पुनरपरं धर्मप्रतिसंविदा सर्वबोधिसत्त्वचरिज्ञानचरिधर्मचरिज्ञानानुगममवतरति / अर्थप्रतिसंविदा दशभूमिव्यवस्थाननिर्देशप्रविभक्तिमवतरति / निरुक्तिप्रतिसंविदा यथाभूमिमार्गोपसंहारसंभेदेन निर्दिशति / प्रतिभानप्रतिसंविदा एकैकां भूमिमपर्यन्ताकारेण निर्दिशति //

पुनरपरं धर्मप्रतिसंविदा सर्वतथागतैकलक्षणानुबोधमवतरति / अर्थप्रतिसंविदा नानाकालवस्तुलक्षणविभङ्गानुगमं प्रजानाति / निरुक्तिप्रतिसंविदा यथाभिसंबोधिं विभक्तिनिर्देशेन निर्दिशति / प्रतिभानप्रतिसंविदा एकैकं धर्मपदमपर्यन्तकल्पाव्यवच्छेदेन निर्दिशति //

पुनरपरं धर्मप्रतिसंविदा सर्वतथागतवाग्बलवैशराद्यबुद्धधर्ममहाकरुणाप्रतिसंवित्प्रयोगधर्मचक्रानुप्रवर्तमानसर्वज्ञज्ञानानुगमं प्रजानाति / अर्थप्रतिसंविदा चतुरशीतिसत्त्वचरितसहस्राणां यथाशयं यथेन्द्रियं यथाधिमुक्तिविभक्तितस्तथागतघोषं प्रजानति / निरुक्तिप्रतिसंविदा सर्वसत्त्वचर्यासंभेदतस्तथागतघोषानुरवेण निर्दिशति / प्रतिभानप्रतिसंविदा तथागतज्ञानप्रभाचर्यामण्डलाधिमुक्त्त्या धर्मं देशयति //

स एवं प्रतिसंविदा ज्ञानाभिनिर्हारकुशलो भो जिनपुत्र बोधिसत्त्वो नवमीं बोधिसत्त्वभूमिमनुप्राप्तस्तथागतधर्मकोशप्राप्तो महाधर्मभाणकत्वं च कुर्वाणः अर्थवतीधारणीप्रतिलब्धश्च भवति / धर्मवती ... / ज्ञानाभिनिर्हारवती ... / अवभासवती ... / वसुमतीधारणी ... / सुमतिधारणी ... / तेजोधारणी ... / असङ्गमुखधारणी ... / अनन्त ... / विचित्रार्थकोश ... / स एवमादीनां धारणीपदानां परिपूर्णानि दशधारणीमुखासंख्येयशतसहस्राणि प्रतिलभते / तथा असंख्येयशतसहस्रानुगतेनैव स्वराङ्गकौशल्येन तावदप्रमाणानुगतेनैव प्रतिभानविभक्तिमुखेन धर्मं देशयति / स एवमप्रमाणैर्धारणीमुखासंख्येयशतसहस्रैर्दशसु दिक्षु अप्रमेयाणां बुद्धानां भगवतां सकाशाद्धर्मं शृणोति / श्रुत्वा च न विस्मारयति / यथाश्रुतं च अप्रमाणविभक्तित एवं निर्दिशति //

स एकस्य तथागतस्य सकाशाद्दशभिर्धारणीमुखासंख्येयशतसहस्रैर्धर्मान् पर्यवाप्नोति / यथा चैकस्य, एवमपर्यन्तानां तथागतानाम् / स प्रणिधानमात्रेण बहुतरं सम्यक्संबुद्धसकाशाद्धर्ममुखालोकं संप्रतीच्छति, न त्वेव महाबाहुश्रुत्यप्राप्तः श्रावकः श्रुतोद्ग्रहणधारणीप्रतिलब्धः कल्पशतसहस्रोद्ग्रहणाधिष्ठानेन / स एवं धारणीप्राप्तश्च भवति प्रतिभानप्राप्तश्च धर्मसांकथ्यं संनिषण्णः सर्वावतीं त्रिसाहस्रमहासाहस्रलोकधातुं स्फरित्वा यथाशयविभक्तितः सत्त्वेभ्यो धर्मं देशयति धर्मासने निषण्णः / धर्मासनं चास्य तथागतानभिषेकभूमिप्राप्तान् बोधिसत्त्वान् स्थापयित्वा सर्वतो विशिष्टमप्रमाणावभासप्राप्तं भवति / स धर्मासने निषण्ण आकाङ्क्षन् एकघोषोदाहारेण सर्वपर्षदं नानाघोषरुतविमात्रतया संज्ञापयति / आकाङ्क्षन् नानाघोषनानास्वराङ्गविभक्तिभिराज्ञापयति / आकाङ्क्षन् रश्मिमुखोपसंहारैर्धर्ममुखानि निश्चारयति / आकाङ्क्षन् सर्वरोमकूपेभ्यो घोषान्निश्चारयति / आकाङ्क्षन् यावत्त्रिसाहस्रमहासाहस्रायां लोकधातौ रूपावभासास्तेभ्यः सर्वरूपावभासेभ्यो धर्मरुतानि निश्चारयति / आकाङ्क्षन् एकस्वररुतेन सर्वधर्मधातुं विज्ञापयति / आकाङ्क्षन् सर्वरुतनिर्घोषेषु धर्मरुतमधितिष्ठति / आकाङ्क्षन् (dbh 53) सर्वलोकधातुपर्यापन्नेभ्यो गीतावाद्यतूर्यशब्देभ्यो धर्मरुतं निश्चारयति / आकाङ्क्षन् एकाक्षररुतात्सर्वधर्मपदप्रभेदरुतं निश्चारयति / आकाङ्क्षन् अनभिलाप्यानभिलाप्यलोकधात्वपर्यन्ततः पृथिव्यप्तेजोवायुस्कन्धेभ्यः सूक्ष्मपरमाणुरजःप्रभेदत एकैकपरमाणुरजोनभिलाप्यानि धर्ममुखानि निश्चारयति /

सचेत्तं त्रिसाहस्रमहासाहस्रलोकधातुपर्यापन्नः सर्वसत्त्वा उपसंक्रम्य एकक्षणलवमुहूर्तेन प्रश्नान् परिपृच्छेयुः, एकैकश्च तेषामप्रमाणरुतविमात्रतया परिपृच्छेत्, यं चैकः सत्त्वः परिपृच्छेन्न तं द्वितीयः, तं बोधिसत्त्वः सर्वसत्त्वरुतपदव्यञ्जनमुद्गृह्णियात् / उद्गृह्य चैकरुताभिव्याहारेण तेषां सर्वसत्त्वानां चित्ताशयान् परितोषयेत् (यावदनभिलाप्यलोकधातुर्पयापन्ना वा सत्त्वा उपसंक्रम्य एकक्षणलवमुहूर्तेन प्रश्नान् परिपृच्छेयुः, एकैकश्च तेषामप्रमाणरुतविमात्रतया परिपृच्छेत्, यं चैकः परिपृच्छेन्न तं द्वितीयः, तं बोधिसत्त्व एकक्षणलवमुहूर्तेनैव सर्वमुद्गृह्य एकोदाहारेणैव सर्वानाज्ञापयेत् / यावदनभिलाप्यानपि लोकधातून् स्फरित्वा यथाशयेन्द्रियाधिमुक्तितः सत्त्वेभ्यो धर्मं देशयति / धर्मसांकथ्यं निषण्णश्च तथागताधिष्ठानसंप्रत्येषकः सकलेन बुद्धकार्येण सर्वसत्त्वानां प्रत्युपस्थितो भवति / स भूयस्या मात्रया एवं ज्ञानावभासप्रग्रहणमारभते / सचेदेकस्मिन् वालाग्रप्रसरे यावन्त्यनभिलाप्येषु लोकधातुषु परमाणुरजांसि तावन्तस्तथागतास्तावदप्रमाणप्राप्तेष्वेव पर्षन्मण्डलेषु धर्मं देशयेयुः / एकैकश्च तथागतस्तावदप्रमाणप्राप्तेभ्यः सर्वसत्त्वेभ्यो नानात्वतो धर्मं देशयेत्, एकैकस्मिंश्च सत्त्वाशयसंताने तावदप्रमाणमेव धर्मोपसंहारमुपसंहरेत् / यथा चैकस्तथागतः पर्षन्मण्डले तथा ते सर्वे तथागताः / यथा चैकस्मिन् वालाग्रप्रसरे तथा सर्वस्मिन् धर्मधातौ /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.