Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

चीवरवस्तु

Thông tin
GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ततो ऽसौ ब्राह्मणस् तत्प्रचारावर्जितजनितसौमनस्यो बलमित्रस्य गृहपतेर् निवेशनं प्रविश्य कन्याप्रतिलम्भतृष्णाया ससंभ्रमः स्वस्ति स्वस्तीत्य् उवाच / गृहपरिजनः कथयति / ब्राह्मण न तावद् भिक्षावेला / किं प्रार्थयसे / कन्याभिक्षाम्* / कस्यार्थाय / श्रावस्त्यां मृगारो नामाग्रामात्यः / तस्य पुत्रो विशाखो नाम / ते कथयन्ति / सदृशम् अस्माकं तत् कुलम्* / किं तर्हि / अतिविप्रकृष्टो देशः / स कथयति / दूर एव दारिका दातव्या / किं कारणम्* / यदि तावत् सुखिता भवति श्रुत्वा प्रामोद्यम् उत्पादयिष्यति / अथ दुःखिता दानमानसत्कारक्रियया खेदम् आपद्यते ऽर्थापचयश् च भवति / ते कथयन्ति / यद्य् एवं दत्ता भवतु / ततो ब्राह्मणः स्वस्तीत्य् उक्त्वा प्रक्रान्तो ऽनुपूर्वेण श्रावस्तीं गतः / मार्गश्रमं प्रतिविनोद्य मृगाराग्रामात्यस्य सकाशं गतः / ततो दारिकाया आहारविहारतां चेष्टां रूपयौवनशोभां वैचक्षण्यं च यथावदाख्याय कथयति / मया महता परिखेदेन नानादिग्देशाधिष्ठानान् पर्यटित्वा सा कृच्छ्रेण प्रतिलब्धा / गच्छेदानीं परिणयेति / ततो मृगारेणाग्रामात्येन दिवसतिथिमुहूर्तनक्षत्रप्रतिग्रहं कृत्वा चण्पाम् आगत्य महता श्रीसमुदयेन विशाखस्य परिणीता /

सा मात्रा गमनदेशकाले शिक्ष्यते / पुत्रि नित्यं त्वया सूर्याचन्द्रमसौ नमस्यौ / अग्निः परिचर्तव्यः / आदर्शो निर्मादयितव्यः / शुक्लानि वासांसि प्रावरितव्यानि / ग्रहीतव्यं न दातव्यम्* / वाणी (msv ii 58) रक्षितव्या / न कस्यचिद् उत्थायासनं दातव्यम्* / मिष्टं भोक्तव्यम्* / सुखं स्वप्तव्यम्* / निःश्रेणी बद्धव्येति / ततो मृगारेण श्रुतम्* / स संलक्षयति / इयं दारिका मिथ्यादृष्टिर् ग्राह्यते / अहम् एनां मिथ्यादर्शने विवेच्य सम्यग्दर्शनं ग्राहयिष्यामीति विदित्वा ताम् आदाय संप्रस्थितः /

ततो ऽस्या माता स्नेहव्याकुलहृदया अश्रुव्याकुलेक्षणा कण्ठे परिष्वज्य सस्वरं रुदन्ती कथयति / पुत्रि इदं ते पश्चिमं दर्शनम् इति / सा ताम् अनुसंज्ञापयन्ती कथयति / अम्ब पृच्छामि / तावत् किं त्वम् अत्र जाताहोस्विज् ज्ञातिगृहे / पुत्रि ज्ञातिगृहे / तत् तव गृहम् आहोस्विद् इदम्* / इदम्* / अहम् अपीह जाता / तत्र मया वस्तव्यम्* / संयोगो नियतं वियोगान्तः / तूष्णींभव / किमर्थं रोदिषि /

ततो मृगारः स्थलेन संप्रस्थितः / विशाखा स्वामिना सार्धं स्वगृहलब्धेन च परिजनेन नौयानेन संप्रस्थिता / तत्र वडवा अचिरप्रसूता नावम् अधिरोह्यते / किशोरकः स्थले खेदम् (253र्1 = ग्ब्म् 6.818) आपत्स्यतीति / सा यत्नेनापि नाभिरोहतीति कोलाहलो जातः / विशाखया श्रुतम्* / सा कथयति / किमर्थम् अयं कोलाहल इति / तैर् यथावृत्तम् आख्यातम्* / विशाखा कथयति / किशोरकं पूर्वम् अभिरोहयत स्वयम् अभिरोक्ष्यतीति / तैस् तथा कृतम्* / अभिरूढा / ततो मृगारेण ते पृष्टाः / किमर्थं चिरेण यूयम् आगताः / वडवा (msv ii 59) नावं नाभिरोहति / अथ कथम् अभिरूढा / चाण्पेयिकया उपायसंविधानम् आख्यातं किशोरकं पूर्वम् अभिरोहयत / पण्डिता चाण्पेयिका /

यावद् अन्तर्मार्गो सार्था रात्रिं वासम् उपगताः / मृगारस्य प्राग्भारे शय्या प्रज्ञप्ता / विशाखा दृष्ट्वा पृच्छति / कस्यैषा शय्या / मृगारस्य / अपनयत / किं कारणम्* / यदि सुप्तस्य प्राग्भार उपरि निपतति नियतम् अवष्टब्धः कालं करोति / मम यावज्जीवम् अयशस्यम्* / ईदृशी दारिका परिणीता यद् अन्तर्मार्ग एव श्वशुरः कालगतो गृहम् अपि न संप्राप्त इति / तच् च शयनासनम् अपनीतं प्राग्भारश् च पतितः / समन्तान् महाजनकायः प्रधावितो गृहपतिर् अवष्टब्धः इति / गृहपतिः कथयति / भवन्तो मा बिभीत / इहाहं तिष्ठामि / शय्यां प्रत्यवैक्षन्त / अपनीता शय्या / केन / विशाखया / पण्डिता चाण्पेयिका / पुनर् अपि जीर्णोद्याने वासम् उपगताः / मृगारस्य शून्यदेवकुले शय्या प्रज्ञप्ता / विशाखया दृष्टा / पृच्छति / कस्यैषा शय्या / आर्यस्य / अपनयत / किं कारणाम्* / यदि देवकुलं पतति ततो ऽवष्टब्धः कालं करोति / ननु मे पूर्ववद् यशस्यम्* / सा चापनिता / देवकुलं च पतितम्* / महाजनकायो प्रधावितः पूर्ववद् यावत् पण्डिता चाण्पेयिका /

यावद् अनुपूर्वेण श्रावस्तीम् अनुप्राप्ता / मार्गश्रमे प्रतिविनोदिते सुहृत्संबन्धिबान्धवजने च प्रेषिते विशाखा स्वकुलानुरूपं गृहे (msv ii 60) कर्म कार्यते / मृगारस्य षट् स्नुषा वारेण वारं गृहजनस्य भक्तं संपादयन्ति / विशाखापि तथैव नियुक्ता / त्वयापि सप्तमे दिवसे वारः कर्तव्य इति / तस्या वार आगमिष्यतीति / ये श्वशुरश्वश्रूस्वामिनां गन्धा अवशिष्यन्ते चर्पटिकां कृत्वा प्रतिदिवसं शोषयति / यान् सक्तून् प्रतिदिनं लभते ततः प्रस्थानि विशाखा अपनीय स्थापयति / परिशिष्टं घृतेन मोदयति तत्प्रमाणा एव भवन्ति / मद्यपानागतस् तु श्वो वारो भविष्यतीति / यत् स्वामिनो निर्माल्यम् आत्मनश् च तच्छीतले स्थापितम्* / यावत् प्रभातायां रजन्यां कर्मकराणां आमलकं दत्तं गन्धः पुष्पाणि भोजनं मद्यं च / ते परितुष्टाश् चिरेण वयं पुराणगृहपतिपत्न्या अवलोकिता इति / तैस् तस्मिन् दिवसे द्विगुणं कर्म कृतम्* / यावन् मृगारः कालवेलायां कर्मान्तान् अवलोकयन् पश्यति प्रभूतं कर्म कृतम्* / स पृच्छति / किं युष्माभिर् अपरे भृतकपुरुषा गृहीताः / न / केनचित् को ऽत्र योगो येनाद्य द्विगुणं कर्म कृतम्* / ते कथयन्ति / आर्या यादृशं भक्तं तादृशं कर्म / किम् एतत्* / तैर् यथावृत्तं विस्तरेण समाख्यातम्* / मृगारपुत्रैस् स्वकस्वकानां पत्न्यः (msv ii 61) आरोचिताः / ताः कथयन्ति / वयम् अपि गृहाद् अपहृत्य भृतकपुरुषाणां प्रियं कुर्याम / वयम् अप्य् आर्यस्य युष्माकं भृतकपुरुषाणां (253व्1 = ग्ब्म् 6.819) च प्रिया भवेम यथा विशाखया कृतम्* / ततो मृगारेण विशाखा पृष्टा / पुत्रि कथं त्वया भक्तं प्रतिजागरितम्* / तया विस्तरेण समाख्यातम्* /

मृगारस् तुष्टः / तेन सैव गृहव्यापारे नियुक्ता / अन्तर्जनश् च सर्वो ऽभिहितः / यो युष्माकं विशाखया दत्तेन परितुष्यति तेन स्थातव्यम् आनुकूल्येन वा चरितव्यं यावद् असौ गृहस्वामिनी संवृत्ता / साचारविहारतया सौरत्येन च सर्वम् अन्तर्जनं तोषयति / यावद् अपरेण समयेन विशाखाया गृहस्योपरिष्टाद् हंसा उत्तरकुरुद्वीपाद् अकृष्टोप्तं तण्डुलफलशालिम् आदाय संप्रस्थिताः / राज्ञश् च गृहे हंसस् तिष्ठति / तेन तान् दृष्ट्वा कूजितम्* / तैर् अपि समयोनिविश्वासोद्वेगम् असहमानैः कूजितम्* / राज्ञश् चरणकोष्ठे शालिबल्लर्यो निपतिताः / ततो राज्ञो ऽमात्यानाम् एकैका दत्ता / मृगारेण स्वप्रत्यंशो विशाखाया दत्तः / तया समुद्गके स्थापयित्वा कार्षिकाणां आज्ञा दत्ता / ते ऽपि सुतरां परितुष्टाः / तैः क्षेत्रस्तोकं सुपरिकर्षीकृत्य कालं ज्ञात्वा उप्तः / देवः कालवर्षी संवृत्तः / बीजानुरूपा संपत्तिर् जाता / अपरस्मिन् वर्षे प्रभूतं संपन्नम् अपरस्मिन्न् अपि वर्षे प्रभूततरम्* / (msv ii 62) एवं यावत् सर्वाणि कोष्ठागाराणि हंसाहृतकुशूलैः {म्स् हंसाहृतकशालैः} परिपूर्णानि / यावद् राज्ञः प्रसेनजितः कोसलस्य ग्लान्यम् उत्पन्नम्* / तेन वैद्या आहूय प्र्ष्टाः / ते कथयन्ति / देव यदि हंसाहृतशालिः संपद्यते तेन मण्डं साधयितुम् अर्हसि / पीत्वा स्वस्थो भविष्यसीति / राज्ञा अमात्या आहूय पृष्टाः / भवन्तो मया युष्माकं हंसाहृतानि शालिशीर्षाणि दत्तानि / तानि युष्माभिः किं कृतानि / तत्र केचित् कथयन्ति / देव अस्माभिर् देवकुले दत्तानीति / अपरे कथयन्ति / अस्माभिर् अग्नौ प्रक्षिप्तानि इति / अपरे कथयन्ति / अस्माभिर् द्वारशालायां बद्धानीति / मृगारः कथयति /

देव मया विशाखाया दत्तानि / पृच्छामि तावत् तया किं कृतानीति / तेन विशाखा पृष्टा / सा कथयति / तात किं हंसाहृतशालिना प्रयोजनम्* / राज्ञो ग्लान्यम् उत्पन्नम्* / वैद्यैर् हंसाहृता शालिर् व्यपदिष्टा / ततो विशाखया सौवर्णं भाजनं हंसाहृतस्य तण्डुलस्य मण्डेन पूरयित्वा राज्ञः प्रेषितम्* / राज्ञा परिभुक्तम्* / स्वस्थीभूतः /

अपरेण समयेन जानपदैः राज्ञे बडवाद्वयं प्रेषितम्* / माता च दुहिता च / तत्र न कश्चिज् जानीते कतरा माता कतरा दुहिता इति / राज्ञा अमात्यानाम् आज्ञा दत्ता / भवन्तः सुविचारितं कृत्वा मम निवेदयत इति / अमात्याः सकलदिवसं विचारयन्तः खिन्नाः / न निर्लोडितम्* / मृगारश् चिरकाले गृहं गतः / विशाखा (msv ii 63) पादयोर् निपत्य कथयति / तात किम् अद्य चिरेणागतः / तेन यथावृत्तं विस्तरेण समाख्यातम्* / विशाखा कथयति / तात किम् अत्र ज्ञातव्यम्* / ताभ्यां योग्याशनं समं देयम्* / या दुहिता सा शीघ्रं भक्षयित्वा मातुः प्रत्यंशं भक्षयिष्यति / या माता अपरिपन्थिनी मुखं निक्षिप्य स्थास्यति / एतच् चिह्नम् इति / मृगारेण अमात्यानां निवेदितम्* / तैर् अपि यथा समादिष्टा परीक्षा कृता / ततः प्रभातायां रजन्यां राज्ञे निवेदितम्* / देव (254र्1 = ग्ब्म् 6.820) इयं माता इयं दुहिता इति / राजा कथयति / कथं युष्माभिः परिज्ञातम्* / देव एवं चैवं च / ह्यस्तनिके न परिज्ञातम्* / देव का शक्तिर् अस्माकं परिज्ञातुम्* / विशाखया एवं संदिष्टम्* / राजा कथयति / पण्डिता चाण्पेयिकेति /

अन्यतमः पुरुषस् तीर्थे कम्बलं स्थापयित्वा स्नाति / अन्यतमश् च पुरुष आगतः / स तेन कम्बलेन शिरो वेष्टयित्वा तत्रैव स्नातुम् आरब्धः / स पुरुषः स्नात्वोत्थितो न पश्यति कम्बलम्* / पुरुषः कथयति / भोः पुरुष किं समन्वेषसे / कम्बलम्* / कुतस् तव कम्बलम्* / स्याद् यथाहं शिरो वेष्टयित्वावतीर्णस् तथा त्वम् अप्य् अवतीर्णः स्या इति / स कथयति / एष एवासौ मदीयः कम्बलः / त्वदीयो मदीय इति तयोर् विवादो जातः / तौ राज्ञः सकाशं गतौ / राज्ञा अमात्यानाम् आज्ञा दत्ता / भवन्तः परीक्षित्वा यस्य सन्तकस् तस्यानुप्रयच्छत (msv ii 64) इति / ते परीक्षितुम् आरब्धाः / एकः पृष्टः / स कथयति मदीय इति / अपरः पृष्टः / स कथयति मदीय इति / त्वदीयो मदीय इति दिवसो ऽतिक्रान्तः / अमात्याः खिन्नाश् चिरकाले अनिर्लोडयित्वैव गृहं गताः / विशाखया मृगारः पूर्ववत् पृष्टः / तेन यथावृत्तम् आरोचितम्* / विशाखा कथयति / तात किम् अत्र ज्ञातव्यम्* / तौ वक्तव्यौ / एको ऽपि अर्धं गृह्णात्व् अपरो ऽप्य् अर्धम् इति / यस्य सन्तकः स वक्ष्यति / किमर्थं मदीयः कम्बलश् छिद्यते इति / यस्य न सन्तकः स संलक्षयिष्यत्य् अर्धम् अपि तावन् मे भवतु / को ऽत्र मम व्यय इत्य् एषात्र परीक्षा इति / मृगारेण गत्वा अमात्यानां निवेदितम्* / देव पूर्ववद् यावद् राजा कथयति / पण्डिता चाण्पेयिकेति /

राज्ञो यानपात्रकेण वणिजा चन्दनगण्डीरकः प्रावृतो ऽनुप्रेषितः / तस्य न विज्ञायते कतरद् अग्रं कतरन् मूलम् इति / राजा अमात्यानाम् आज्ञा दत्ता / विचारयथ इति / तैः कृत्स्नं दिवसं विचारितम्* / न परिज्ञातम्* / चिरकाले गृहं गताः / विशाखया पूर्ववद् यावन् मृगारः पृष्टः / तेन यथावृत्तं विस्तरेण समाक्यातम्* / विशाखा कथयति / तात किम् अत्र ज्ञातव्यम्* / उदके प्रक्षेप्तव्यः / यन् मूलं तद् अधस्ताद् भवति / यद् अग्रं तद् उपरिष्टाद् भवति / एषा तत्र परीक्षेति / मृगारेण अमात्यानां निवेदितम्* / पूर्ववद् यावद् राजा कथयति / पण्डिता चाण्पेयिकेति /

अन्यतमस्मिन् कर्वटके गृहपतिः / तेन सदृशात् कुलात् कलत्रम् आनीतम्* / तस्य न पुत्रो न दुहिता / तेन पुत्राभिनन्दिना द्वितीया पत्नी आनीता / तस्याः प्रथमपत्न्या ईर्य्षाप्रकृत्या योनिविनाशनप्रयोगो दत्तः / तस्याः सुतरां योनिर् विशुद्धा आपन्नसत्वा संवृत्ता / यावन् नवानां मासानाम् अत्ययात् प्रसूता / दारको जातः / सा संलक्षयति / प्रतिक्रुष्टम् एतद् वैराणां यदुत सापत्नकम्* / नियतम् एनम् अपरा माता येन वा तेन वोपायेन घातयति / किं मम स्वामी करिष्यति / किं वा अहम्* / कियन्तं च कालं रक्षितव्यः / सर्वथा अस्या एव दातव्य इति तया स्वामिना सह संप्रधार्य लब्धानुज्ञया सा प्रथमपत्नी उक्ता / भगिनि तवैवैष पुत्रो दत्तो मया / संवर्धय एनम् इति / सा संलक्षयति / यस्याः पुत्रस् तस्या गृहम्* / संवर्धयामि / गृहस्वामिनी भविष्यामीति / (254व्1 = ग्ब्म् 6.821) स तया संवर्धितः / पिता चास्य कालगतः / तयोर् गृहनिमित्तं विवादो जातः / एका कथयति / ममैव पुत्रो द्वितीया कथयति ममैष पुत्र इति / ते राज्ञः सकाशं गते / राज्ञा अमात्यानाम् आज्ञा दत्ता / गच्छत भवन्तो विचारयथेति / तेषां विचारयतां दिवसो ऽतिक्रान्तो न निर्लोडितम्* / चिरकाले गृहं गताः / विशाखा मृगारं पृच्छति / पूर्ववद् यावत् किम् अत्र ज्ञातव्यम्* / ते वक्तव्ये न वयं जानीमः कस्य पुत्र इति या युवयोर् बलवती सा गृहीत्वा गच्छतु / ते बाहुद्वयेन गृहीत्वा आकर्क्ष्यतः / स दुःख्यमानो (msv ii 66) रोदिष्यति / यास्य माता सा सानुनया प्रतिमोक्ष्यति / जीवन्तम् अपि तावद् एनं द्रक्षामीति / सान्या निर्दया न प्रतिमोक्ष्यति / यदा कषाभिस् ताडिता भवति तदा यथाभूतं करिष्यति / इयम् अत्र परीक्षेति / मृगारेणामात्यानाम् एवं निवेदितम्* / पूर्ववद् यावद् राजा कथयति / पण्डिता चाण्पेयिकेति /

अथापरेण समयेन मृगारो ग्लानिपतितः / तस्य वैद्य एकं दिवसं भैषज्यं ददाति पुनर् ग्लानो भवति / विशाखा संलक्षयति / किमर्थं तात एकस्मिन् दिवसे स्वस्थो भवति द्वितीये दिवसे पुनर् ग्लानो भवति / यैर् भैषज्यैः स्वस्थो भवति तानि निमित्तीकृतानि / ततस् तया वैद्यानां द्वारं धारयित्वा स्वयम् एव चिकित्सा कृता / स्वस्थीभूतः / मृगारः संलक्षयति / को ऽत्र योगो येनाहम् एकस्मिन् दिवसे स्वस्थो भवाम्य् एकस्मिन् ग्लानः / यदा वैद्यो न प्रविशति तदा नित्यम् एव स्वस्थ इति / तेन विशाखा पृष्टा / पूर्ववद् यावत् पण्डिता चाण्पेयिका /

राज्ञः प्रसेनजितः कोसलस्य श्रीवर्धनो नाम हस्तिविश्वासिकः / सो ऽपरेण समयेन राज्ञा अवसादितः / विशाखया श्रुतम्* / तया मृगार उक्तः / तात सर्वेषाम् अमात्यानाम् अन्त्यम् अवसादनम्* / अर्हसि श्रीवर्धनस्य देवं क्षमयितुम्* / स कथयति / पुत्रि क्षमयामि / ततस् तेन राजाभिहितः / देव श्रीवर्धनो देवस्य भक्तः / क्षम्यताम् (msv ii 67) अस्येति / राजा कथयति / क्षान्तम्* / देव यदि क्षान्तं तान्य् अस्य वृत्तिपदानि दीयन्ताम्* / एवं भवतु / दत्तानि / श्रीवर्धनेन विज्ञातं यथा विशाखया मम राजा क्षमापित इति / स तस्याः प्रत्युपकारबुद्ध्या स्थितः / अपरेण समयेन मृगारस्य पुरुषव्याधिर् उत्पन्नः / विशाखा अस्योपस्थानं करोति / स जिह्रेति / सा कथयति / तात किमर्थं जिह्रेषि / किं न दुहिता पितुर् उपस्थानं करोति / तथाप्य् असौ जिह्रेति / सा संलक्षयति / नायं ममान्तिकाद् उपस्थानं स्वीकरोति / दारसंग्रहम् अस्य करोमीति / सा श्रीवर्धनस्य गृहं गता / तेन स्वागतवादेन समुदाचरित्वा आसनं दत्तम्* / निषण्णा श्रीवर्धनस्य दुहिता / सा तेनोक्ता / दारिके विशाखापादयोः गृहाणेति / विशाखा कथयति / स्थानम् एतद् विद्यते यन् मयैवैषा पादयोर् ग्रहीतव्या भवतीत्य् उक्त्वा कथयति / स्वस्ति सुते इति / श्रीवर्धनः कथयति / किं प्रार्थयसे / कन्याभिक्षाम्* / कस्यार्थाय / सा कथयति / तातस्य / स तूष्णीम् अवस्थितः / श्रीवर्धनस्य पत्नी कथयति / वृद्धः / कथं तस्य दीयत इति / विशाखा कथयति / धनयौवने हि पुरुषाः / किं विचारेण दीयताम् इति / श्रीवर्धनः कथयति / भद्रे अस्माकं विशाखोपकारिणी / दीयताम्* / यद्य् एवं दत्ता भवतु / ततो (255र्1 = ग्ब्म् 6.822) मृगारेण महता श्रीसमुदयेन परिणीता / सा तस्योपस्थानं कर्तुं प्रवृत्ता / विशाखा न तथा /

मृगारः कथयति / पुत्रि वाचम् अनुप्रयच्छेति / सा कथयति / सा कथयति / तात मा किञ्चित् परिहीयते / पुत्रि यस् त्वं मात्रा (msv ii 68) शिक्षिता तन् न किञ्चित् समादाय वर्तसे / तात सर्वं समादाय वर्ते / यत् कथयति सूर्याचन्द्रमसौ नमस्याव् इति / दारिकायाः सूर्याचन्द्रमसःस्थानीयौ श्वश्रूश्वशुरौ / तान् अहं नमस्यामि / यत् कथयति अग्निः परिचर्तव्य इति / स्त्रिया भर्ताग्निस्थानीयः / भर्तुर् आसन्नया भवितव्यम्* / नातिदूरस्थया / साहं स्वामिनम् अग्निवत् परिचरामि / यत् कथयत्य् आदर्शो निर्मादयितव्य इति / तद् गृहम् आदर्शस्थानीयं नित्यम् उपलेप्तव्यं संमार्ष्टव्यं च / तद् अहं गृहसंस्कारम् अनुदिवसं करोम्य् एव / यत् कथयति शुक्लानि वासांसि प्रावरितव्यानीति / अन्यैर् वस्त्रैर् गृहपरिकर्म कर्तव्यम्* / शुक्लानि वस्त्राणि प्रावृत्य देवशुश्रूषा कर्तव्या स्वाभिसंस्कारं चोपसंक्रम्यम् इति / एतद् अप्य् अहं करोम्य् एव / यत् कथयति ग्रहीतव्यं न दातव्यम् इति / किं ग्रहीतव्यम्* / लोकसकाशाद् दुरुक्तवचनानि / न च किञ्चिद् दुरुक्तं वचनीयम्* / एतद् अप्य् अहं समादाय वर्ते / यत् कथयति वाणी रक्षितव्येति / गुह्यवचनं न प्रकटीकर्तव्यम्* / तन् मे वाक्संयमो ऽस्त्य् एव / यत् कथयति न कस्यचिद् उत्थायासनं दातव्यम् इति / एवं कथयति / त्वं कुलवधू त्वया प्रतिगुप्ते स्थाने निषेत्तव्यम्* / साहं प्रतिगुप्त एव निषीदामि / यत् कथयति मृष्टं भोक्तव्यम् इति / सुबुभुक्षितया भोक्तव्यम् इति / साहं नित्यं गृहजने भुक्ते बुभुक्षिता च भुंजे / यत् कथयति सुखं शयितव्यम् इति /

सर्वं गृहकार्यं कृत्वा रात्रौ भाण्डं प्रतिशाम्य शय्या ते कल्पयितव्या यथा (msv ii 69) न पुनर् उत्तिष्ठसि इदं सुनिहितम् इदं दुर्निहितम् इति / तद् अहम् एवम् एव करोमि / यत् कथयति निःश्रेणी बद्धव्येति / एवं कथयति / त्वं पूर्वकैर् दशभिः कर्मपथैः समन्वागता येन देवगतिं प्राप्य इह मनुष्यलोके उपपन्ना / तद् इयं कर्मभूमिः / इहापि त्वया दानानि दातव्यानि पुण्यानि कर्तव्यानि पापं न करणीयम्* / एषापि पुण्यमयी निःश्रेणी स्वर्गसोपानभूतेति / एतद् अप्य् अहं शक्त्या संपादयामि / साधु साधु विशाखे / पण्डिता तव माता / त्वं तु पण्डिततरा यया मातुः सन्धाय भाषितं विज्ञातम्* /

अथ मृगारस्यैतद् अभवत्* / यदि भगवान् अनुजानीयाद् अहं विशाखां मातरं घोषयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्* / लभ्यं भदन्त स्नुषां मातरं घोषयितुम् इति / भगवान् आह / सचेत् पंचभिर् धर्मैः समन्वागतो भवति / कतमैः पंचभिः / ग्लानम् उपतिष्ठति / प्रतिरूपेषु दारेषु प्रतिष्ठापयति / जीवितेनाच्छादयति / धनं रक्षति / प्रज्ञया च संविधानं करोति /

अन्तरोद्दानम्* /

ग्लानोपस्थानं दारा च जीवितस्य धनस्य च / प्रज्ञया उपसंहर्षी पञ्चैता मातरः स्मृताः //

अथ मृगारो येन राजा प्रसेनजित् कोसलस् तेनोपसंक्रान्तः / उपसंक्रम्य राजानं प्रसेनजितं कोसलम् इदम् अवोचत्* / इच्छाम्य् अहं (msv ii 70) देव विशाखां मातरम् उद्घोषयितुम्* / राजा कथयति / ममापि विशाखयोपस्थानं कृतम् अहम् अप्य् आर्यकां पृष्ट्वा तां भगिनीम् (255व्1 = ग्ब्म् 6.823) उद्घोषयामि / तेनार्यका पृष्टा / सा कथयति / उद्घोषय मा वा / भगिन्य् एवासौ / कथं कृत्वा / पुरानु ब्रह्मदत्तो ऽस्य {एद्. ब्रह्मत्तो ऽस्य; म्स्: अराडब्रह्मदत्तस्य; भ्स्द् स्.व्. पुराण} प्रेष्यदारिकया सार्धं संवासं गतः / तस्याः पुत्रो जातः / तस्य बलमित्र इति नाम कृतम्* / स वृद्धराजेन कस्मिंश्चिद् एवाधिकरणे प्रवासितः / चण्पां गत्वावस्थितः / तस्यासौ दुहिता / तव भगिनी भवति / ततो राज्ञा हस्तिस्कन्धे आरोप्य उद्घोषिता / इयं विशाखा मृगारस्य माता / राज्ञः प्रसेनजितो भगिनीति / तया पूर्वारामे विहारं कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितम्* / तथा स्थविरैर् अपि सूत्रान्त उपनिबद्धम्* / भगवान् श्रावस्त्यां विहरति पूर्वारामे मृगारमातुः प्रासाद इति /

अपरेण समयेन विशाखा द्वात्रिंशद् अण्डानि प्रसूता / मृगारः श्रुत्वा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः / जनपदकल्याणी कीदृशो ऽनर्थः प्रादुर्भूत इति / मृगारस् तानि च्छोरयितुम् आरब्धः / विशाखा कथयति / तात मा च्छोरय / भगवतस् तावद् आरोचयेति / तेन भगवत आरोचितम्* / भगवान् आह / मा च्छोरयेति / तद् द्वात्रिंशत् पुटं (msv ii 71) कच्छपुटं कारयित्वा कुलस्योपरि एकैकम् अण्डं प्रत्येकं पुटेषु स्थापयेति / विशाखां च वद / त्रिष्कालं पाणिना परामृष / सप्तमे दिवसे स्फुटिष्यन्ति / द्वात्रिंशत् कुमारा भविष्यन्तीति / तेन तथा कृतम्* / सप्तमे दिवसे स्फुटितानि / द्वात्रिंशत् कुमारा जाताः / उन्नीता वर्धिता महान्तः संवृत्ता व्याडविक्रान्ताः / अपरेण समयेन ते रथाभिरूढा बहिर् निर्गताः प्रविशन्ति / पुरोहितपुत्रश् च रथाभिरूढो निर्गच्छति / यावद् अन्योन्यधुरातुण्डो लग्नः / पुरोहितपुत्रः कथयति / अपनयतेति / ते ऽपि कथयन्ति / त्वम् एवापनयेति / पुरोहितपुत्रो ऽहम् इति पुरुषं वक्तुम् आरब्धः / ततो विशाखापुत्रैः धुरातुण्डकेन गृहीत्वा क्षिप्तः / संकारकूटे पतितः / स भस्मावगुण्ठितशिराः पितुः सकाशं गतः / अश्रुपर्याकुलेक्षणः कथयति / तात विशाखापुत्रैर् मम ईदृशी समवस्था कृतेति / पुत्र किमर्थम्* / तेन विस्तरेण समाख्यातम्* / स कथयति / पुत्र यद्य् एवं क्रमघात्यास् ते / मा शोकं कुरु / उपायसंविधानं करिष्यामि / स तेषां रन्ध्रान्वेषणतत्परो व्यवस्थितः / अपरेण समयेन राज्ञः प्रसेनजितः कोसलस्य कार्वटिको विरुद्धः / तस्य राज्ञा एकं दण्डस्थानं प्रेषितम्* / हतप्रहतम् आगतम्* /

एवं यावत् सप्तदण्डस्थानानि हतप्रत्याहतानि / राजा स्वयम् एव चतुरंगेण बलकायेन निर्गच्छति / (msv ii 72) विशाखापुत्राश् च प्रविशन्ति / तैर् असौ दृष्ट उक्तश् च / देवः संप्रस्थित कार्वटिकां सन्नामयितुम् इति / तिष्ठतु देव / वयं गच्छामः / एवं कुरुथेति / तेन तेषां चतुरङ्गो बलकायो दत्तस् तैर् गत्वासौ कार्वटिकः सन्नामितः / वन्दिग्रहकरप्रात्यायांश् च गृहीत्वा आगताः / पुरोहितः कथयति / देव एते अतीव विक्रान्ताः / यद् देवस्य कृच्छ्रसाध्यं तद् एषाम् अल्पसाध्यम्* / देवेनैतच् चिन्तनीयम् इति / काकशंकिनो हि राजानः / तत्* हृदि कृत्वा व्यवस्थितः / पुनः (256र्1 = ग्ब्म् 6.824) पुरोहितं पृच्छति / कथम् अत्र प्रतिपत्तव्यम्* / स कथयति / देव किम् अत्र प्रतिपत्तव्यम्* / यद्य् एषाम् अभिरुचितं देवं राज्याच् च्यावयित्वा स्वयम् एव राज्यं कारयन्ति / राजा सुतरां खिन्नः संलक्षयति / स्याद् एवम्* / कथं घातयितव्य इत्य् उपायसंविधानं चिन्तयति / न कंचित् पृच्छति / मा मन्त्रस्रावो भविष्यतीति स्वयम् एवास्य विचारयतो बुद्धिर् उत्पन्ना / इहैवोपनिमन्त्र्य घातयितव्या इति / तेन विशाखाया सन्दिष्टम्* / भागिनेयैश् च इह भोक्तव्यम् इति / सा संलक्षयति / श्वो दारका मातुलस्य सकाशे भोक्ष्यन्ते / अहम् अपि बुद्धप्रमुखं भिक्षुसंघं भोजयामीति विदित्वा येन भगवांस् तेनोपसंक्रान्ता / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा / एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णींभूतः /

अथ विशाखा मृगारमाता उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् (msv ii 73) इदम् अवोचत्* / अधिवासयतु मे भगवान् पूर्ववद् यावत् पुरस्ताद् भिक्षुसंघस्य / प्रज्ञप्त एवासने निषण्णा / तेषां च राज्ञः सकाशाद् दूत आगतः / दारका आगच्छन्त्व् इति / ततो राज्ञा हालाहलेन विषेण च सहयोगेन विह्वलीकृताः / शिरांसि छिन्नानि / ततः पेडां पूरयित्वा ज्येष्ठपुत्रस्य शिर उपरि दत्वा जतुमुद्रया लक्षयित्वा विशाखायाः प्रेषिताः / विशाखा संलक्षयति / नूनं देवेन भागिनेयानाम् आच्छादनं प्रेषितम्* / अहम् अपि बुद्धप्रमुखं भिक्षुसंघम् आच्छादयामीति / ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पूर्ववद् यावद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं पेडाम् उद्धाटयितुम् आरब्धा / भगवान् संलक्षयति / सचेद् विशाखा अदृष्टसत्या पुत्रबधं द्रक्ष्यति स्थानम् एतद् विद्यते यत् सत्यानाम् अभाजनीभविष्यतीति विदित्वा विशाखाम् आह / निषीद तावद् धर्मं शृणु / पश्चाद् यथाभिप्रेतं करिष्यसीति / सा भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय / ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च जात्वा पूर्ववद् यावत् सत्यदर्शनं कृतम्* / ततो दृष्टसत्या सा पेडाम् उद्धाटित्वा पश्यति पुत्रशिरांसि / ततः कथयति / भगवन् एवम् अनित्याः सर्वसंस्कारा इति / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / हंभो भिक्षवो राजा प्रसेनजित् कोसलो येन विशाखायाः पुत्राः प्रघातिताः / ते चेन् न (msv ii 74) प्रघातिताः स्युः /

एभिर् एव सहायैः कृत्स्ना तेन वसुमती करतले स्थापिता स्याद् इति /

अथ राजा प्रसेनजित् कोसलो रजसावचूर्णितगात्रो येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् इदम् अवोचत्* / कुतस् त्वं महाराजैतर्ह्य् आगच्छसि रजसावचूर्णितगात्रः / यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां (256व्1 = ग्ब्म् 6.825) पृथग्भवन्ति राजकृत्यानि राजकरणीयानि तान्य् अहं कृत्वा परिप्राप्य एतर्ह्य् आगच्छामि रजसावचूर्णितगात्रः / तेन हि महाराज त्वाम् एव प्रक्ष्यामि / यथा ते क्षमते तथैनं व्याकुरु / तद्यथा महाराज इह ते पूर्वस्यां दिशि पुरुष आगच्छेच् छ्रद्धितः प्रत्ययितः स्थेय अविसंवादितो लोकस्य / स एवं वदेत् / ततो ऽहं तवैतर्ह्य् अगच्छामि पूर्वस्याम् दिशि / सो ऽहं तत्राप्राक्षम्* / महाशैलं पर्वतम् अखण्डम् अछिद्रम् असुषिरं सुसंवृत्तम् एकघनं यावच् च पृथिवी यावच् च नभो ऽत्रान्तरे सर्वान् सत्वान् सर्वान् प्राणिनः सर्वाणि भूतानि सर्वं च तृणकाष्ठशाखापर्णशदम् (msv ii 75) अभिनिष्पेषयन्न् आगच्छति {म्स्: अभिनिष्पीषं नागच्छन्ति} / यत् ते देव कृत्यं वा करणीयं वा तत् कुरुष्वेति / एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि पुरुष आगच्छेत्* / पूर्ववद् यत् कृत्यं वा करणीयं वा तत् कुरुष्वेति / एवं भूपते महाराज महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात् करणीयम्* /

एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात् करणीयं नान्यत्रार्थचर्यायां धर्मचर्यायां पुण्यचर्यायां कुशलचर्यायां कल्याणचर्यायां बुद्धानां च शासने योगम् आपत्तुम्* / कस्मात् त्वं महाराज एवं वदसि / एवं रूपे मे महति महाभये पूर्ववद् यावद् बुद्धानां शासने योगम् आपत्तुम् इति / यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश् चर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां पृथग्भवन्ति हस्तिभिर् हस्तियुद्धान्य् अश्वैर् अश्वयुद्धानि रथै रथयुद्धानि पत्तिभिः पत्तियुद्धानि मन्त्रैर् मन्त्रयुद्धानि धनैर् धनयुद्धानि / तानि तेषां तस्मिन् समये अस्थामान्य् अबलान्य् अपराक्रमाणि युद्धाय / तस्माद् अहम् एवं वदामि / एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते पूर्ववद् यावद् बुद्धानां (msv ii 76) शासने योगम् आपत्तुम् इति / एवम् एव महाराज सततसमितम् अभिमर्दत एव प्राणिनो जरामरणम्* / एवं जरामरणाभिमर्दनेन महाराज पुरुषपुद्गलेन किञ्चित् स्यात् करणीयं नान्यत्रार्थचर्यायाः पूर्ववद् यावद् बुद्धानां शासने योगम् आपत्तुम् इति विदित्वा तस्यां वेलायां गाथां भाषते /

यथा महान्तो विपुला नभ आसाद्य पर्वताः महान्ताद् अनुसंयान्ति निष्पीषन्तो वसुन्धराम्* / न तत्र हस्तिनां भूमिर् न पत्तिरथवाजिनाम्* न चापि मन्त्रयुद्धेन जयो लभ्यो धनेन वा //

एवं जरा च मृत्युश् च मनुष्यान् अभिमर्दति / क्षत्रियान् ब्राह्मणान् वैश्याञ् छूद्रांश् चण्डालपुक्वसान्* / दुःशीलाञ् छीलसंयुक्तान् गृहस्थान् गृहिणस् तथा / दहरांश् चैव वृद्धांश् च तथा मध्यमपौरुषान्* //

विमर्दयति सर्वान् हि न किञ्चिद् अनुरक्षति / तस्माद् धि पण्डितः पोषः संपश्यन्न् अर्थम् आत्मनः / बुद्धे निवेशयेच् छ्रद्धां धर्मे संघे चाप्य् अनुत्तरे //

स धर्मचारी कायेन वाचा वाप्य् अथ चेतसा / इह चानिन्दितो भवति प्रेत्य स्वर्गो च मोदते //

अथ राजा प्रसेनजित् कोसलो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः /

भिक्षवो संशयजाताः (257र्1 = ग्ब्म् 6.826) सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः / किं भदन्त विशाखया मृगारमात्रा कर्म कृतम्* / यस्य कर्मणो विपाकेन द्वात्रिंशदण्डाः प्रसूताः / तेन द्वात्रिंशत् पुत्रा जाता व्याडा विक्रान्ताः संवृत्ता इति / भगवान् आह प्रणिधानवशात्* / कुत्र प्रणिधानं कृतम्* /

भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अन्यतमो गृहपतिपुत्रः कालगतः / तस्य सा पत्नी नित्यं पुत्राभिनन्दिनी / यदा भगवान् काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपाधिशेषे निर्वाणधातौ परिनिर्वृतः / तस्मिंश् च समये वाराणस्यां कृकिर् नाम राजा बभूव / तेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य चतूरत्नमयस्तूपः प्रतिष्ठापितः / तत्र या सा अपुत्रा युवतिः पुत्राभिनन्दिनी सा वृद्धा संवृत्ता / तस्मिन् स्तूपे परिकर्म कृत्वा तिष्ठति / तया छन्दकभिक्षणं कृत्वा तस्मिन् स्तूपे पूजा कृता प्रणिधानं च / यन् मया भगवतः काश्यपस्य सम्यक्संबुद्धस्य सत्काराः कृताः / अनेन मम कुशलमूलेन बहवः पुत्रा भवेयुर् इति कृत्वा प्रक्रान्ता नगरं प्रविष्टा / तत्रान्यतरा स्त्री प्रसूयमाना दुःखवेदनाभ्याहता विरौति / तया अपरा पृष्टा / किमर्थम् एषा विरौति / तया यथावृत्तम् आरोचितम्* / सा संलक्षयति / (msv ii 78) यद्य् अहं प्रसूता भवेयम् अहम् अप्य् एवंविधं दुःखम् अनुभवेयम्* / यावत् पुनर् अपि द्वात्रिंशता गोष्ठिकैस् तस्मिन् स्तूपे पूजा कृता / सा युवतिस् तत्र सन्निहितैव / पूजां कृत्वा प्रणिधानं कृतम्* / अनेन वयं कुशलमूलेन महान्तो ऽग्रबलिनः स्याम / ते तया पृष्टाः / पुत्राः किं युष्माभिः प्रणिधानं कृतम्* / ते कथयन्ति अम्ब इदं चेदं च / सा कथयति / पुत्राः यद्य् एवम् अहम् एव युष्माकं माता भवेयम्* / ते कथयन्ति / अम्ब एवं भवत्व् इति / इत्य् उक्त्वा ते प्रक्रान्ताः / सा संलक्षयति / सा तावत् स्त्री एकवारं प्रसूयमाना दुःखवेदनाभ्याहता तथा विरौति अहं पुनर् द्वात्रिंशद् वारान् प्रसूयमाना कथं करिष्यामि इति / सा चैवं विकल्पयति / स्तूपसमीपे कुक्कुटी प्रसूता / सा मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसुता न च विरौति / सा संलक्षयति / अयं शोभनप्रसवनोपाय इति विदित्वा तस्मिन् स्तूपे तीव्रेण प्रसादेन निपत्य प्रणिधानं कर्तुम् आरब्धा यथेयं कुक्कुटी मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसूता एवम् एव अहम् अपि सकृद् द्वात्रिंशदण्डानि प्रसूयेयेति /

किं मन्यध्वे भिक्षवः / या सा वृद्धा युवतिर् एषैव सा विशाखा / तेन कालेन तेन समयेन ये ते द्वात्रिंशद् गोष्ठिका एत एव ते द्वात्रिंशद् विशाखापुत्राः / यद् अनया तत्र प्रणिधानं कृतं तस्य कर्मणो विपाकेन द्वात्रिंशदण्डानि प्रसूतानि /

किं भदन्त विशाखापुत्रैः कर्म कृतं यस्य कर्मणो विपाकेन अदूष्यनपकारिणो राज्ञा प्रसेनजिता प्रघातिताः / तेषां च शिरांसि (msv ii 79) पेडायां प्रक्षिप्य विशाखाया उपनामितानि / भगवान् आह / एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* /

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके शौण्डिकः प्रतिवसति / संबहुलाश् (257व्1 = ग्ब्म् 6.827) चौरा मद्यं पर्येषमाणाः तस्य सकाशम् उपसंक्रान्ताः / अस्ति मद्यम् इति पृच्छन्ति / शौण्डिकपत्न्याभिहिता अस्तीति / तेषां मद्यं दत्तम्* / अवद्रगो नास्ति / तया वृषो दर्शितः / एतं प्रघातयत / ते कथयन्ति / शस्त्रं नास्ति / तया बन्धकं गृहीतम्* / शस्त्रं दत्तम्* / ते तं प्रघातयितुम् आरब्धाः / स हन्यमानश् चेतनां पुष्णाति / यद् अहं घात्ये तत् सर्वम् अनया शौण्डिकपत्न्या / तत्रोपपद्ये ऽहं यत्रैषां शिरांसि छित्वा पेडायां पूरयित्वा एतस्यां प्रेषयेयम् इति /

किं मन्यध्वे भिक्षवः / यो ऽसौ वृष एष एवासौ राजा प्रसेनजित् कोसलः तेन कालेन तेन समयेन / ये ते चौरा एत एव ते विशाखापुत्राः / या सा शौण्डिकपत्नी एषैव सा विशाखा तेन कालेन तेन समयेन इति विस्तरः /

बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे / तेन खलु समयेन पञ्चाभिज्ञस्य ऋषेर् आश्रमपदम्* / तेन तस्मिन् पर्यटता आश्रमपदस्य नातिदूरे चिरंखले भूप्रदेशे प्रस्रावः कृतः / दैवयोगात् तृषार्ता मृगी तं प्रदेशम् अनुप्राप्ता / तयासौ तृष्णार्तया पीतः (msv ii 80) स्त्रीन्द्रियं च घ्रातम्* / अचिन्त्यः सत्वानां कर्मविपाकः / आपन्नसत्वा संवृत्ता / यावद् अपरेण समयेन तस्मिन्न् एव प्रदेशे आगत्य प्रसूता / दारको जातः / सा तं घ्रात्वा विसभागसत्व इति छोरयित्वा प्रक्रान्ता / यावत् तेन ऋषिणा तद् आश्रमं पर्यटता स दारको दृष्टः / स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्र इति / यावत् पश्यत्य् आत्मानम्* / तेनासौ आश्रमपदं प्रवेशित आपायितः पोषितः संवर्धितः / तस्य मृगस्य यादृशं शिर इति मृगशिरो मृगशिर इति संज्ञा संवृत्ता / अपरेण समयेन स ऋषिः कालगतः / मृगशिरसा कपालाकोटनी विद्या शिक्षिता / स कपालम् आकोट्य सर्वं व्याकरोति / यदि तावत् खंखटस्वरो भवति ऊर्ध्वगामी भवति देवोपपत्तिं व्याकरोति / अथ मध्यो भवति ऊर्ध्वगामी भवति मनुष्योपपत्तिं व्याकरोति / एतत् सुगतिनिमित्तम्* / अथ दुर्गतिनिमित्तम्* / यदि तावद् गद्गदस्वरो भवति अधोगामी भवति नरकोपपत्तिं व्याकरोति / अथ मध्यस्वरो भवति अधोगामी भवति तिर्यगुपपत्तिं / अथ मृदुस्वरो ऽधोगामी भवति प्रेतोपपत्तिम्* /

ततो भगवता तस्य विनयकालं ज्ञात्वा आयुष्मान् आनन्द उक्तः / गच्छानन्द चत्वारि शिरांस्य् आधाय स्रोतआपन्नस्य सकृदागामिनो ऽनागामिनो ऽर्हतश् चेति / एवं भदन्तेत्य् अयुष्मान् आनन्दो भगवतः प्रतिश्रुतः / चत्वारि शिरांस्य् आधाय तस्य ऋषेः सकाशं गतः / व्याकुरुष्वेति / स स्रोतआपन्नस्येति कपालम् आकोट्य कथयत्य् अयं देवेषूपपन्नः / सकृदागामिनो ऽप्य् एवम् एव / अनागामिनो ऽप्य् एवम् एव / अर्हतः कपालम् (msv ii 81) आकोत्य विषयं न जानाति न विजानाति / तस्यैतद् अभवत्* /

भ्रष्टो ऽस्मि तस्माद् उपदेशतः किं अथवा न चार्यकुले प्रसूतः / किं वा निमित्तानि न तादृशानि येनास्य न जानामि तं हि प्रचारम्* /

आयुष्मान् आनन्दः कथयति /

न सर्वविद्यासु कृतश्रमस् त्वं येनास्य जानासि तं हि प्रचारम्* / अधीष्व तावन् निखिलां विद्यां लोकस्य पश्चाद् व्यपदेक्ष्यसि त्वम् इति /

मृगशिराः (258र्1 = ग्ब्म् 6.828) कथयति / अस्ति कश्चित् त्वया सर्वविद्यासु कृतावी दृष्टः / स कथयति / अस्ति / तथागतो ऽर्हत् सम्यक्संबुद्धः सर्वविद्यायां पारंगतः / अथ मृगशिरा येन बहगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवन्तम् इदम् अवोचत्* /

तिर्यक् प्रेतमनुष्यदेवनिरये जानासि जन्तोर् गतिम्* शिष्टं नोपलभे च सत्वचरितं विद्यापराधे सति / आचक्ष्व त्रिभवार्णवस्य महतो विस्तीर्णपारं प्रभो किं तत् सर्वपरप्रवादिविजय शिष्टं न विज्ञायते // इति //

भगवान् आह /

ayoghanahatasyaiva jvalato jātavedasaḥ anupūrvopaśāntasya yathā na jñāyate gatiḥ /{cf. uv 30.35} tathā samyagvimuktānāṃ kāmapaṅkaughatāriṇām* prajñaptaṃ vā gatir nāsti prāptānām acalaṃ padam* // iti //

एवम् उक्ते मृगशिरा भगवन्तम् इदम् अवोचत्* / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति / ततो भगवता प्रव्राजित उपसंपादितः / प्रव्राज्योपसंपाद्य यथाभिरम्यं राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः / अनुपूर्वेण चारिकां चरन् श्रावस्तीम् अनुप्राप्तः / श्रावस्त्यां विहरति पूर्वारामे मृगारमतुः प्रासादे / अभ्यवकाशे चंक्रम्यमाणेन नक्षत्राणि विपरीतानि दृष्टानि / दृष्ट्वा च पुनर् आयुष्मन्तं मृगशिरसम् आमन्त्रयते / समन्वाहर मृगशिरः कियच् चिरेण देवो वर्षिष्यतीति / स कथयति / नष्टो ऽयं भदन्त लोकः प्रनष्टो ऽयम्* / यथा नक्षत्राणि व्यवस्थितानि द्वादशभिर् वर्षैः / भगवता नक्षत्राणि समान्य् अधिष्ठायोक्तोः / पुनर् जानीष्वेति / स कथयति / षड्भिर् वर्षैर् एवम्* / भगवता पुनः पर्यनुयुक्तो ब्रवीति / पंचभिर् वर्षैः / एवं यावत् सप्तभिर् दिवसैर् इति / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / शयनासनं भिक्षवश् छन्ने गोपयत / अद्यैव शलभसंनिपातेन देवो वर्षिष्यति / तत्र ये स्नास्यन्ति तेषाम् उत्पादगण्डपिटकानि न (msv ii 83) भविष्यन्तीति / इति हि मृगशिरो नक्षत्राणि चपलानि चंचलान्य् अनवस्थायीनि / जीवितम् अपि चंचलम् अनवस्थितम् इत्य् एवम् उक्तः / मृगशिरा भगवतो ऽभिप्रसन्नः / तथाभिप्रसन्नेन चार्हत्वं साक्षात्कृतम्* / ततो विमुक्तिप्रीतिसुखसंवेदी गाथा भाषते /

गतिर् मृगाणां पवनम् आकाशं पक्षिणां गतिः / गतिर् विरागिणां धर्मो निर्वाणं गतिर् अर्हताम्* // इति //

अश्रौषीद् विशाखा मृगारमाता भगवान् कोसलेषु जन्पदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः श्रावस्त्यां विहरत्य् अस्माकम् एवाराम इति / श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्ता / (258व्1 = ग्ब्म् 6.829) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा / एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* / अथ विशाखा मृगारमाता उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इदम् अवोचत्* / अधिवासयतु मे भगवां श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति / अधिवासयति भगवान् पूर्ववद् यावद् उदकमणिं प्रतिष्ठाप्य / भगवतः प्रेष्यदारिकया कालारोचिकया कलाम् आरोचयति / यावद् असौ प्रेष्यदारिका पूर्वारामं गत्वा पश्यति भिक्षून् कवाटविवरेण नग्नान् स्नायिनः / दृष्ट्वा च पुनः संलक्षयति / नूनम् आर्यकाः प्रक्रान्ताः एभिः पुत्रमोटिकापुत्रैर् आजीविकैर् अयं विहारो ऽवष्टब्ध इति / सा (msv ii 84) त्वरितत्वरितम् आगत्य कथयति / यत् खल्व् आर्ये जानीया आर्याः प्रक्रान्ताः / पुत्रमोटिकापुत्रैर् आजीवकैर् असौ विहारो ऽवष्टब्ध इति / विशाखा संलक्षयति / अस्थानम् अनवकाशो यद् भगवान् अधिवास्याभुक्त्वा प्रक्रमिष्यति / नूनम् अनया भिक्षवो विनग्ना दृष्टा इति / तयान्यः कालारोचकः पुरुषः प्रेषितः / समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति पूर्ववद् यावद् भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रम्* / वृद्धान्ते निषद्य भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त अष्टौ महादानानि प्रज्ञापयितुम्* /

आगन्तुके दानं गमिके दानं ग्लाने दानं ग्लानोपस्थायिके दानं ध्रुवं यवागुं ध्रुवं भैषज्यं भिक्षूणां वर्षाशाटीचीवरं भिक्षुणीनां चोदकशाटिकाम् इति / भगवान् आह / किं पुनस् तद् विशाखे आनुशंसं समनुपश्यन्ती आगन्तुके दानं ददासि / आगन्तुको भदन्त भिक्षुर् न गोचरकुशलो भवति न वीथीकुशलः / स मदीयं पिण्डपातं परिभुज्य गोचरकुशलो भविष्यति / वीथीकुशलश् च / साधु साधु विशाखे गतम् एतत्* / किमर्थं समनुपश्यन्ती गमिकदानं ददासि / गमिको भदन्त भिक्षुः पिण्डपातं पर्येषमाणः सार्थात् परिभृश्यते / यूथपरिभृष्टो विहन्यते / स मदीयं पिण्डपातं परिभुज्य सार्थान् न परिभृश्यते / नापि यूथपरिभृष्टो विहन्यते / साधु साधु विशाखे एतद् अपि गतम्* / किमर्थवशं समनुपश्यन्ती ग्लाने दानं ददासि / ग्लानो भदन्त भिक्षुः पिण्डपातं (msv ii 85) पर्येषमाणः क्लामेद् वा कालं वा कुर्यात्* / स मदीयं पिण्डपातं परिभुज्य ग्लान्याद् उत्थास्यति सुखस्पर्शं विहरिष्यति / साधु साधु विशाखे एतद् अपि गतम्* / किमर्थवशं समनुपश्यन्ती (259र्1 = ग्ब्म् 6.830) ग्लानोपस्थायिको दानं ददासि / ग्लानोपस्थायिको भदन्त भिक्षुर् आत्मार्थं पिण्डकं पर्येषमाणो ग्लानस्य कृत्यं हापयति / स मदीयं पिण्डपातं परिभुज्य संपादयिष्यति / साधु साधु विशाखे एतद् अपि गतम्* / किमर्थवशं समनुपश्यन्ती संघे ध्रुवयवागुं ददासि / सन्ति भदन्त भगवतः श्रावका दीप्ताग्नयो मन्दाग्नयश् च / तत्र ये मन्दाग्नयस् तेषाम् अग्निसंरक्षणं ये तु दीप्ताग्नयस् तेषां बलोपचयः / साधु साधु विशाखे / एतद् अपि गतम्* /

किमर्थवशं समनुपश्यन्ती संघे ध्रुवभैषज्यं ददासि / सन्ति भदन्त भगवतः श्रावका बह्वाबाधाः स्वल्पाबाधाश् च / तत्र ये बह्वाबाधास् तेषां कृतम् एव तावत्* / ये त्व् अल्पाबाधास् ते परिभुज्य भूयस्या मात्रया सुखस्पर्शं विहरिष्यन्ति / साधु साधु विशाखे एतद् अपि गतम्* / किमर्थवशं समनुपश्यन्ती भिक्षूणां वर्षाशाटीचीवरं ददासि / अद्यैव मया भदन्त प्रेष्यदारिका कालारोचिका प्रेषिता / तया भिक्षवो दृष्टा नग्नाः स्नातुम्* / सा मे आगत्य कथयति / आर्यकाः प्रक्रान्ताः पुत्रमोटिकापुत्रैर् आजीविकैर् विहारो ऽवष्टब्ध इति / ते मदीयेन वर्षाशाटीचीवरेण गुप्ताः स्नास्यन्ति / साधु साधु विशाखे एतद् अपि गतम्* / किमर्थवशं समनुपश्यन्ती भिक्षुणीनाम् उदकशाटिकां ददासि / एको ऽयं भदन्त समयः संबहुलाश् च भिक्षुण्यो ऽजिरवत्यां नग्नाः स्नान्ति / (msv ii 86) ता गृहिण्यो विपुष्प्य विपुष्प्य भिक्षुणीनाम् अङ्गुल्यग्रेण गुह्यस्थानान्य् उपदर्शयन्ति / ताः उपदर्श्यमानाः मद्गुवो भवन्ति / मदीयया तु उदकशाटिकया ता गुप्ताः स्नास्यन्ति / साधु साधु विशाखे यानि त्वया अष्टौ पुण्यक्रियावस्तूनि समाख्यातानि संदृश्यन्ते एतानि / सप्तस्व् औपधिकेषु पुण्यक्रियावस्तुष्व् अन्तर्गतान्य् एतानि / सप्तस्व् औपधिकेषु पुण्यक्रियावस्तुषु न लभ्यं पुण्यस्य प्रमाणम् उद्ग्रहीतुम् एतावत् पुण्यं वा पुण्यफलं वा पुण्यफलविपाको वेति / अपि तु बहुत्वात् पुण्यस्य महापुण्यः पुण्यस्कन्ध इति संख्यां गच्छति / इदं चाहं भदन्त श्रोष्यामि / अमुको भिक्षुः स भगवता प्रतिपद्येव व्याकृताः /

एषो ऽपि भिक्षुस् त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नो भवत्य् अविनिपातधर्मो नियतं संबोधिपरायणः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाय्य संसृत्य दुःखस्यान्तं करिष्यतीति / स कदाचित् श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति / स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं परिभोक्ष्यति / भिक्षुणी च यावद् उदकशाटिकाम् इति / श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* / (259व्1 = ग्ब्म् 6.831) अमुको भिक्षुः (msv ii 87) भगवता व्याकृतः / एष भिक्षुस् त्रयाणां संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वात् सकृदागामी भविष्यति / सकृद् इमं लोकम् आगत्य दुःखस्यान्तं करिष्यतीति / सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति / स मदीयम् आगन्तुकभक्तं पूर्ववद् यावत्* वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति / श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* / अमुको भिक्षुः स भगवता व्याकृतः / एष भिक्षुः पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामी / भविष्यत्य् अनागन्ता पुनर् इमं लोकम् इति / सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति / स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति / श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* / अमुको भिक्षुः स भगवता व्याकृतः / एष भिक्षुः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृत्वा निरुपधिशेषे निर्वाणधातौ प्रवेक्ष्यतीति / सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति /

स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति / श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* / अथ भगवान् विशाखां मृगारमातरं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः /

अथ भगवान् यथाभिरम्य श्रावस्त्यां विहरति / येन वैशाली तेन चारिकां प्रक्रान्तः / अनुपूर्वेण चारिकां चरन् वैशालीम् अनुप्राप्तः / वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्* / अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षत्* (msv ii 88) तेन खलु समयेन संबहुला भिक्षव आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयन्त्य् आतापयन्ति प्रविषजन्ति / अद्राक्षीद् भगवान् संबहुलान् भिक्षून् आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः / दृष्ट्वा च पुनर् अस्यैतद् अभवत्* / यद् अपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तद् अपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्त इति विदित्वा वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य विहारं प्राविक्षत् प्रतिसंलयनाय / अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / (260र्1 = ग्ब्म् 6.832) निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / इहाहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षम्* / अद्राक्षम् अहं भिक्षवः संबहुलान् भिक्षून् आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः / दृष्ट्वा च पुनर् मे एतद् अभवत्* / यद् अपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तद् अपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्ते / साधु भिक्षवः श्रद्धादेयस्य मात्रापरिभोजितायाः कालपरिभोजिताया वीचिपरिभोजितायाः संख्यापरिभोजिताया मितपरिभोजितायाः / (msv ii 89) अथ भगवाञ् छ्रद्धादेयस्य मात्रादिपरिभोजितानां वर्णं भाषित्वा भिक्षून् अमन्त्रयते स्म / तस्मात् तर्हि भिक्षवो न विना प्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम् अशुचिम्रक्षितं शयनासनं च / तत्क्षणाद् एव शोचयितव्यम् अन्यथा सातिसारः /

अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षद् आयुष्मतानन्देन पश्चाच्छ्रमणेन / अद्राक्षीद् भगवान् अन्यतरं पुरुषं कालकपृष्ठम्* / दूराद् एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दम् आमन्त्रयते / पश्यसि त्वम् आनन्द एतं पुरुषं कालकपृष्ठम्* / एवं भदन्त / एष आनन्द पुरुषः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने प्रव्रजित आसीत्* / तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन मलप्रत्यास्तरणेन पट्टिकां सुरुचिकां लोढकं कृत्वा परिभुक्तम्* / तस्य कर्मणो विपाकेन पंच जन्मशतानि कालकप्र्ष्ठो जातः / यावद् एतर्ह्य् अपि कालकपृष्ठो जात इति / विदित्वा वैशालीं पिण्डाय चरित्वा पूर्ववद् यावत् प्रतिसंलयनाद् व्यूत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / अद्याहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय (msv ii 90) प्रविष्टः / तत्राहम् अद्राक्षं पुरुषं कालकपृष्ठम्* / स काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुर् आसीत्* / तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन पूर्ववद् यावत् पंच जन्मशतानि कालकपृष्ठो जातः / तस्मात् तर्हि भिक्षवो ऽद्याग्रेण न भिक्षुणा कल्पप्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम्* / परिभुंक्ते / सातिसारः / अपि तु द्वाभ्यां प्रत्यास्तरणाभ्यां परिभोक्तव्यं घनेन वा एकपुटेन / पैलोत्तिकेन वा द्विपुटेन /

भिक्षवश् चित्रोपचित्राणि प्रत्यास्तरणानि धारयन्ति दीर्घदशानि / ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति / भगवान् आह / नीलं कर्दमं कषायं वा प्रत्यास्तरणं शस्त्रलूनं कृत्वा धारयितव्यम्* / अन्यथा सातिसारः /

भिक्षवः कुण्डूरोगेण (260व्1 = ग्ब्म् 6.833) बाध्यन्ते / तस्य चीवरकाणि पूयशोणितोपलिप्तानि दुर्गन्धितानि मक्षिकाकीर्णानि / स पिण्डपातं प्रविष्टः / तं दृष्ट्वा ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्माद् अनुजानामि कण्डूप्रच्छादनं धारयितव्यम्* / पंचभिः षड्भिर् वा दिवसैः शोचयितव्यम्* / अन्यथा सातिसारः /

भिक्षवः कुष्ठरोगेण बाध्यन्ते / ते सांघिकानि शयनासनानि परिभुंजते / प्रासादेषु पुष्करिण्यां द्वारकोष्ठके परिषण्डायां चंक्रमेषु संस्थानवृक्षेषु तिष्ठन्ति / दुर्गन्धान् मक्षिकाभिर् आकीर्णान्* / (msv ii 91) तान् दृष्ट्वा ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुष्ठरोगाभिभूतस्याहं भिक्षवो भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयिष्यामि / कुष्ठरोगाभिभूतेन भिक्षुणा सांघिकम् शयनासनं लयनं च न परिभोक्तव्यम्* / प्रासादादिषु यथापरिकीर्तितेषु स्थानेषु स्थातव्यम्* / साम्घिकी प्रस्रावकुटी वर्चःकुटी च न प्रवेष्टव्या / प्रतिगुप्ते स्थाने संघेन तस्य वासो देयः / उपस्थानं च कर्तव्यम्* / कुष्ठरोगाभिभूतो भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते संघो वा सातिसारो भवति /

आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / लभ्यं भदन्त सुगतचीवरम् अतिरेकचीवरकल्पेन धारयितुम्* / न लभ्यम् उपालिन्* / लभ्यं भदन्त कौशेयं चीवरं त्रिचीवराधिष्ठानेन अतिरेकचीवराधिष्ठानेन धारयितुम्* / लभ्यम् उपालिन् यथेष्ठतः / एवं पूर्णकं शाणकं लभ्यम् /

उद्दानम्* /

भाङ्गेयं केशचीवरं नाग्न्यं केशलुचनं पर्णशाटीम्* / अजिनं सान्तरोत्तरं तिरीटिम् अङ्गनीलकम्* /

श्रावस्त्यां निदानम्* / अथान्यतमो भिक्षुर् येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते (msv ii 92) अस्थात्* / एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त भाङ्गेयं चीवरं धारयितुम्* / भगवान् आह / तीर्थिकध्वज एष मोहपुरुषः यदुत भाङ्गेयं चीवरम्* / तस्मान् न भिक्षुणा भाङ्गेयं चीवरं धारयितव्यम्* / धारयति सातिसारो भवति /

अपरो भिक्षुर् गत्वा भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त केशचीवरं धारयितुम्* / भगवान् आह / तीर्थिकध्वज एष मोहपुरुषः / पूर्ववद् यावत् सातिसारो भवति /

अपरो भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त नाग्न्यं समादातुम्* / भगवान् आह / तीर्थिकध्वज एष मोहपुरुषः यदुत नाग्न्यम्* / अपि तु त्रिचीवरं मयानुज्ञातं किमर्थं नाग्न्यं समाददासि / तस्मान् न भिक्षुणा नाग्न्यं समादातव्यम्* / समाददाति / आपद्यते स्थूलात्ययः / अथ स (261र्1 = ग्ब्म् 6.834) भिक्षुर् नाग्न्यम् अलभमानः शिक्षां प्रत्याख्याय हानायावृत्तः / भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्तासौ भिक्षुर् नाग्न्यम् अलभमानः शिक्षां प्रत्याख्याय हानायावृत्तम्* / भगवान् आह / न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अह्रीक्यदोषाद् दारिकां न लब्धवांस् तच् छ्रूयताम्* /

भूतपूर्वं भिक्षवो धृतराष्ट्रो नाम हंसराजो बभूव / तस्य दुहिता स्वयंवरावतीर्णा / श्रुत्वा नानादिग्देशनिवासिनः पक्षिणः सन्निपतिताः / एकैकः संलक्षयति मां वरयिष्यतीति / तया (msv ii 93) दारिकया मयूरो दृष्टः / सा कथयति / एष मम भर्तेति / तस्यापरैः समाख्यातम्* / त्वम् अनया वृत इति / स कलापं पूर्वीकृत्य नर्तितुम् आरब्धः / स धृतराष्ट्रेण दृष्टः / कथयति / किमर्थम् अयम् नृत्यतीति / अपरैः समाख्यातम्* / तव दुहिता वृता इति / स कथयति / ह्रीव्यपत्राप्यवियुक्तो ऽयं नाहम् अस्मै दुहितरं ददामीति / स श्रुत्वा मयूरो धृतराष्ट्रसकाशं गत्वा गाथां भाषते /

स्वरो मनोज्ञो रुचितरश् च वर्णो व्यामप्रमाणानि च वर्हकाणि / ग्रीवा च वैदूर्यमणेः समाना ददासि कस्मान् न भवान् सुतां मे //

धृतराष्ट्रः प्राह /

स्वरो मनोज्ञो रुचितरश् च वर्णो व्यामप्रमाणानि च वर्हकाणि / ग्रीवा च वैदूर्यमणेः समानाह्रीक्यदोषात् तु न ते ददामि // इति //

किं मन्यध्वे भिक्षवः / यो ऽसौ मयूरः एष एवासौ भिक्षुस् तेन कालेन तेन समयेन / तदाप्य् एष अह्रीक्यदोषाद् दारिकाम् अलभमानो दुःखी दुर्मना पक्षिणमध्याद् अवक्रान्तः / एतर्ह्य् अप्य् असौ नाग्न्यम् अल्भमानो दुःखी दुर्मना भिक्षुसंघमध्यात् प्रक्रान्तः /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त केशान् लुंचितुम्* / भगवान् आह / मुण्डनं मया समनुज्ञातम्* / कस्मात् त्वं केशान् लुंचसि / तीर्थिकधृत एष मोहपुरुषः यदुत केशलुंचनम्* / तस्मान् न हि भिक्षुणा केशा लुंचितव्याः / लुंचति / सातिसारो भवति / (msv ii 94)

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त पर्णशाटिकां धारयितुम्* / भगवान् आह / तीर्थिकधृतम् एतन् मोहपुरुषः / पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त अजिनं धारयितुम्* / भगवान् आह / तीर्थिकध्वजम् एतन् मोहपुरुषः / यदुत अजिनम्* / धारयति पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त सान्तरोत्तरेण चीवरेण यापयितुम्* / त्रिचीवरं मया मोहपुरुष समनुज्ञातम्* / कस्मात् त्वं सान्तरोत्तरेण यापयसि / तस्मान् न भिक्षुणा सान्तरोत्तरेण चीवरेण यापयितव्यम्* / यापयति / सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं (261व्1 = ग्ब्म् 6.835) भदन्त तिरीटिं धारयितुम्* / तिरीटि इति वल्कलः / भगवान् आह / तीर्थिकध्वज एष पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त अंगनाडिकां धारयितुम्* / भगवान् आह / आगारिकधर्मस् तर्ह्य् एषाहो मोहपुरुषा यदुतांगनाडिका / पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त सर्वनीलं चीवरं धारयितुम्* / भगवान् आह / आगारिका ह्य् एनं धारयन्ति / तस्मान् न भिक्षुणा सर्वनीलं चीवरं धारयितव्यम्* / पूर्ववद् यावत् सातिसारो भवति / एवं सर्वपीतं सर्वलोहितम् अवदातं न कल्पयत्य् एव /

उद्दानम्* /

दीर्घदशं छन्नदशं {म्स् फणदशं} कम्बुकोष्णीषवेष्टनम्* / कुतपम् उष्ट्रकम्बलं प्लीहकानन्दः सान्तरोत्तरम्* //

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त दीर्घदशं चीवरं धारयितुम्* / भगवान् आह / तीर्थिकध्वजः पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त छन्नदशं {म्स् फणदशं} चीवरं धारयितुम्* / भगवान् आह / तीर्थिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त कम्बुकं धारयितुम्* / भगवान् आह / आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त उष्णीषं धारयितुम्* / भगवान् आह / आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति / (msv ii 96)

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त शिरोवेष्टनं धारयितुम्* / भगवान् आह / आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त कुतपं धारयितुम्* / भगवान् आह / आगारिकध्वज एष पूर्ववद् यावत् सातिसारो भवति /

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* / इच्छाम्य् अहं भदन्त उष्ट्रकम्बलं धारयितुम्* / भगवान् आह / आगारिकध्वज एष पूर्ववद् यावत् सातिसारो भवति /

आयुष्मान् प्लीहकानन्दः अन्यतमस्मिन्न् अभिक्षुके आवासे अकवाटके वर्षा उपगतः / तस्य बहिर् निगतस्य संघाट्य् उपहृता / एतद् यावद् भगवान् आह / न भिक्षुणा अभिक्षुके आवासे अकवाटके वर्षा उपगन्तव्यम्* / न च विना संघाट्या क्वचिद् गन्तव्यम्* / गच्छति / सातिसारो भवति /

आयुष्मान् प्लीहकानन्दो ग्लानः / तस्यायुष्मान् आनन्दो ग्लानोपस्थायकः / देवश् च वर्षितुम् आरब्धः / स नोत्सहते संघाटीं प्रावृत्य गन्तुम्* / (262र्1 = ग्ब्म् 6.836) भगवान् आह / सान्तरोत्तरेण गन्तव्यम्* /

अपि तु संघाट्या पंचोपनिक्षेपणकल्पा / सभिक्षुक आवासः सकवाटः / देवो वर्षति / वर्षाशङ्के च / नदीपारं वा गन्तुकामो (msv ii 97) भवति / आस्तीर्णः कठिन आवासो भवति / संघेन संमतिर् दत्ता भवति /

अन्तरोद्दानम्* /

वार्षिकश्रमणोद्देशा उत्पादेनापि च द्वयम्* / कुलोपकाश् च कौकृत्यं संघलाभेन तस्य तत्* //

उक्तं भगवता भिक्षूणां चीवरपातो देय इति / भिक्षवः संघप्रवारित एव जनपदे चारिकां प्रक्रामन्ति / तेषां न कश्चिल् लाभं गृह्णाति / भगवान् आह / भिक्षुम् अवलोकयित्वा गन्तव्यं यो ऽस्य लाभं गृह्णाति / अपरे ऽपि भिक्षव अनवलोकिता एवं गृह्णन्ति / भिक्षूणां परस्परं विरोधो भवति / भगवान् आह / न भिक्षुणा अनवलोकितेन लाभो ग्रहीतव्यः / गृह्णाति / सातिसारो भवति / अपरे ऽपि भिक्षवः अवलोकिता अपि प्रतिज्ञाय न गृह्णन्ति / भगवान् आह / ते सर्वं दाप्याः / श्रमणेराणां प्रक्रान्तानां न कश्चिल् लाभं गृह्णाति / भगवान् आह / तेषाम् आचार्योपाध्यायैर् ग्रहीतव्यम्* / भिक्षवः कुलाभं (msv ii 98) भाजयन्ति / विप्रक्रान्तानां नानुप्रयच्छन्ति कुलाभ इति कृत्वा / भगवान् आह / ये ऽवलोकितास् तैर् ग्रहीतव्यम्* / अपरे ऽनवलोक्यैव गताः / तेषां न कश्चिद् गृह्णाति / भिक्षवः कौकृत्येन न गृह्णन्ति / भगवान् आह / ग्रहीतव्यम्* / नात्र कौकृत्यं करणीयम्* / अपरं नैव शक्यते भाजयितुम् अल्पं कृत्वा / भगवान् आह / अन्येन मिश्रीकृत्य विहारस्थैर् भाजयितव्यम्* / नात्र कौकृत्यं करणीयम्* / कुलाभम् अवलोकितो न गृह्णाति / पंच पणान् उपादाय स्फुटं दापयितव्यम्* /

अन्यतमस्मिन् कर्वटके गृहपतिः / तेन विहारः कारितः / तत्र यदि भिक्षुशतं प्रतिवसति पटकशतं ददाति / एवं यावद् एको ऽपि भिक्षुः प्रतिवसति पटकशतम् एव ददाति / यावद् अपरेण समयेन तस्मिन्न् एव विहारे द्वौ महल्लौ वर्षोषितौ / तेन गृहपतिना पटकशतं प्रेषितम्* / तौ गृहीत्वा परस्परं विचारयतः / एकः कथयति संघस्यायं लाभः प्रतिपद्यत इति / द्वितीयः कथयति / अस्माकम् एव प्रापद्य इति / यद्य् एवं गृहाण / स कथयति / मा परस्परविरोधः स्यात्* / यावद् एकेनापि न गृहीतम्* / तौ पुनर् विचारयतः / कथम् अत्र प्रतिपत्तव्यम्* / एकः कथयति / भिक्षव आहूयन्ताम्* / तैः सह भाजयिष्यामः / द्वितीयः कथयति / एवं भवतु / को गच्छतु / यो नवकः / को वस्त्राणि गोपायति / यो नवकः / न शक्यम् एवम्* (msv ii 99) यो नवकः स गच्छतु यो वृद्धः स वस्त्राणि गोपायतु / एवं भवतु / नवकः श्रावस्तीं गतो भिक्षूणाम् आनयनाय / (262व्1 = ग्ब्म् 6.837) आचरितं षड्वर्गिकाणाम्* / अशून्यं जेतवनद्वारम् अन्यतमान्यतमेन षड्वर्गिकेण / उपनन्दो जेतवनद्वारे तिष्ठति / तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः / स संलक्षयति / को ऽप्य् अयं स्थविरो भिक्षुर् आगच्छति / प्रत्युद्गच्छामीति / स प्रत्युद्गतः / स्वागतं स्वागतं स्थविर / वन्दे आचार्य / स संलक्षयति / नायम् आचार्यं जानीते नाप्य् उपाध्यायम्* / महल्लो ऽयम् इति विदित्वा कथयति / सालोहित कुतस् त्वम् आगच्छसि / अमुकस्मात् कर्वटकात्* / किं तत्र विहारः / विहारः / किम् असौ विहार आहोस्विद् विघातः / तेन यथावृत्तं विस्तरेण समाख्यातम्* / त्वं किमर्थम् आगतः /

भोजनाय भिक्षून् नयामि / यद्य् एवम् अहम् एव युष्माकम् अनुकम्पार्थं गच्छामि / आचार्य शोभनम्* / उपनन्दः संलक्षयति / यद्य् अयं मत्सकाशाद् अन्यत्र गमिष्यति महाजनप्रतिसंविदितं करिष्यति / सुरक्षितः कर्तव्य इति / स तेन प्रतिशामितः / अकालपानको दत्तः / कथासंलापेन तावाद् विधारितो यावद् विकालीभूतम्* / शय्या शोभना प्रज्ञप्ता / पादशौचं पादम्रक्षणं च दत्तम्* / तावच् चावस्थितो यावन् मिद्धम् अवक्रान्तम्* / तत उपनन्देन सा रात्रिः कृच्छ्रेणातिनामिता / मा मन्त्रस्रावः स्याद् इति / ततः स रात्रम् एवोत्थाय सालोहितम् आदाय त्वरितत्वरितं (msv ii 100) संप्रस्थितः / अनुपूर्वेण कर्वटकम् अनुप्राप्तः / ततस् तेन द्वितीयेन सालोहितेन विहारस्थेन स्वागतवादसमुदाचारेण समुदाचर्य विश्रामितः / अथ त्रयो ऽपि जना एकस्मिन् स्थाने निषण्णाः / उपनन्दः कथयति / भाजयामो लाभं स्थविराः / भाजयामः / उपनन्देनैको महल्ल उक्तः / सालोहित त्वं भाजय / स्थविर नाहं भाजयामि / किमर्थम्* / मा मे प्रत्यवायः स्यात्* / द्वितीयो ऽप्य् उक्तः / सालोहित त्वं भाजय / सो ऽप्य् एवम् एव कथयति / उपनन्दः कथयति / युवां प्रत्यवायभीरुकौ किम् इच्छथः / उपनन्द ऊर्ध्वपादोवाङ्मुखो नरकं गमिष्यतीति / उपनन्द संलक्षयति / सालोहिताव् एतौ महल्लौ भेत्तव्याव् इति / ततस् तयोर् ध्रुवप्रचारं कल्पकारं पृष्ट्वा एकस्य सकाशम् उपसंक्रम्य पृच्छति / सालोहित त्वयात्र किं कृतम्* / स्थविर नित्यं मया विहारः सिक्तः संमृष्टः सुकुमारी गोमयकार्षी दत्तेति / सालोहित यदि सेचनेन संमार्जनेन वा लाभो लभ्येत उपनन्दः सर्वविहारान् सिञ्चेत् संमार्जयेच् च /

अपि तु यो ऽत्र लाभः संपन्नः स तस्यान्यस्य सालोहितस्यानुभावात्* / सो ऽस्मिन् विहारे कालानुकालं धर्मश्रवणं ददाति / धर्मश्रवणार्थिन्यो देवता औत्सुक्यम् आपन्नाः / (263र्1 = ग्ब्म् 6.838) ये ऽत्र लाभसंपन्नाः / ततस् तस्यानुभावाद् अयं लाभः संपन्नः / यम् असौ ददाति सः ग्रहीतव्यो नो तु विचारयितव्यः / स तेनाभ्याहत इति प्रतिभिन्नस् (msv ii 101) तूष्णीम् अवस्थितः / ततो द्वितीयस्य सकाशम् उपसंक्रम्य कथयति / सालोहित त्वयात्र किं कृतम्* / स्थविर मयात्र कालानुकालं धर्मश्रवणं दत्तम्* / सालोहित यदि धर्मश्रवणेन लाभो लभ्येत उपनन्दस् तिष्ठन् गच्छन् निषण्णो निषण्णः सर्वकालं धर्मं देशयेत्* / यः कश्चिद् अयं लाभः संपन्नः सर्वो ऽसौ तस्यान्यस्य सालोहितस्यानुभावात्* / तेनायं विहारो नित्यकालं सिक्तः संमृष्टः सुकुमारी गोमयकार्षी तु प्रदत्ता / उक्तं भदन्त भगवता पंचानुशंसाः संमार्जने / कतमे पंच / आत्मनश् चित्तं प्रसीदति / परस्य चित्तं प्रसीदति / देवता आत्तमनसो भवन्ति / प्रासादिकसंवर्तनीयं कुशलमूलम् उपचिनोति / कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यत इति / तद् अत्र विहारे संमार्जनेन दानपतयो ऽभिप्रसन्नाः / देवता चात्तमनसः संवृत्ताः / तेनात्र लाभसंपन्नाः / अतस् तस्यानुभावाद् अयं लाभः संपन्नः / यम् असौ ददाति स ग्रहीतव्यो नो तु विचारयितव्य इति / सो ऽप्य् अभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः / तौ निष्प्रतिभातौ कृत्वा कथयति / सालोहिताव् अस्त्य् अन्य उपायः / ज्ञप्तिं कृत्वा भाजयामः / ज्ञप्तिकर्माकोप्यम् उक्तं भगवतेति / तौ पूर्वम् एवाभ्याहतौ कथयतः /

स्थविर यथेच्छसि तथा कुरुष्वेति / तत उपनन्देन त्रयो भागाः कृताः / द्वयोर् भागयोर् मध्ये स्वयं निषण्णः / तयोर् द्वयोर् मध्ये एकं भागं स्थापयित्वा ज्ञप्तिं कर्तुम् आरब्धः / शृणुतं युवां सालोहितौ द्वौ / अयम् एकः / इमौ द्वौ / अहम् एक एव / तत् त्रयम् (msv ii 102) इत्य् एषा ज्ञप्तिः / ततो द्वौ भागाव् आत्मना गृहीत्वा तयोर् एको दत्तः / तौ कथयतः स्थविर स एवास्माकं कलिः संवृत्तः / त्वम् एवास्माकं भाजय / स भाजयितुम् आरब्धः / तत्राप्य् एकः पटको ऽतिरिक्तः / तम् अप्य् आदाय पटकानां भारं बद्ध्वा संप्रस्थितः / ततो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्तः / भिक्षुभिर् दृष्ट उक्तश् च / भदन्तोपनन्द कस् त्वया पश्चाच्छिराशयनो दृष्टः / तेन यथावृत्तं विस्तरेण समाख्यातम्* / ते कथयन्ति / कल्पते तवैवं कर्तुम्* / अमित्राणां पादं गले दत्वा / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् संलक्षयति / यः कश्चिद् आदीनवो भिक्षवः परकीये लाभे सन्निपतन्ति / तस्मान् न भिक्षुणा परकीये लाभे सन्निपतितव्यम्* / सन्निपतति / सातिसारो भवति / भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छति / पश्य भदन्त आयुष्मता उपनन्देन (263व्1 = ग्ब्म् 6.839) तन् महल्लद्वयं धर्ममुखिकया व्यंसितम्* / भगवान् आह / न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् अनेन महल्लद्वयं व्यंसितम्* / तच् छ्रूयताम्* /

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् नदीतीरे उद्रद्वयं प्रतिवसति / तद् यदा जलेन गच्छति तदा मत्स्याः स्थलम् अभिरुहन्ति / यदा (msv ii 103) तु स्थलेन गच्छति तदा मत्स्या जले निपतन्ति / न किञ्चिद् अघं साधयन्ति / ततस् तैः सामीचिः कृता / एको ऽस्माकं जलेन गच्छतु द्वितीयः स्थलेन / यत् संपद्यते तद् अस्मात् सामान्यम् इति / तत्रैको जलेन संप्रस्थितो द्वितीयः स्थलेन / तत्र ये जलस्थेन मत्स्याः संत्रासिताः स्थलम् अभिरोहन्ति / तान् स्थलस्था प्रघातयति जलस्थाञ् जलस्थ एव / यावन् मत्स्यानां महानुराशिः संवृत्तः / एकः कथयति / त्वं भाजय / द्वितीयः कथयति / नाहं भाजयामि / किमर्थम्* / मा मे प्रत्यवायः स्यात्* / सो ऽपि कथयति / यद्य् अप्य् एवं ममाप्य् एव एष दोषः / तौ चिन्तापरौ व्यवस्थितौ / यावत् पूर्णमुखो नाम शृगालस् तयोः सकाशम् उपसंक्रान्तः / स कथयति / भागिनेयौ किं चिन्तापरस् तिष्ठतः / मातुल अस्माकं मत्स्याः संपन्नाः / किं न भाजयथः / मातुल प्रत्यवायभयात्* / युवां प्रत्यवायभीरूकौ किम् इच्छथः / पूर्णमुख ऊर्ध्वपादो ऽवाङ्मुखो नरकं पतिष्यतीति / पूर्णमुखः संलक्षयति / सहिताव् एतौ भेत्तव्याव् इति / ततस् तयोर् ध्रुवप्रचार कल्पकारं दृष्ट्वा एकस्य सकाशम् उपसंक्रम्य पृच्छति / भागिनेय त्वयात्र किं कृतम्* / मातुलं अहं जलेन गतः / ये मया जलेन गच्छता मत्स्याः संत्रासिताः स्थलम् अभिरूढाः ते अनेन प्रघातिताः / भागिनेय यदि जलगमनेन किञ्चित् संपद्येत पूर्णमुखो नित्यं जलेन यायात्* / तस्य जलेन गच्छता स्थाणुभयं कण्टभयं (msv ii 104) श्वापदभयं कूलपातभयम्* /

अपि तु यद्य् असौ न प्रतिघातयति किं त्वं त्रासयित्वा करोषि / सर्वथा ये ऽत्र मत्स्याः संपन्नास् ते तस्यानुभावान् न तव / यद् असौ ददाति न ग्रहीतव्यो नो तु विचारयितव्यः / स तेनाभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः / ततो द्वितीयस्य सकाशम् उपसंक्रम्य कथयति / भागिनेय त्वयात्र किं कृतम्* / मातुलो ऽहं स्थलेन गतो मया स्थलम् अभिरूढा मत्स्याः प्रतिघातिताः / भागिनेय यदि स्थलगमनेन किञ्चिल् लभ्येत पूर्णमुखो नित्यम् एव स्थलेन यायात्* / तस्य जलेन गच्छता ऊर्मिभयं कूर्मभयं शिशुमारभयं कुम्भीरभयं जालभयम्* / अपि तु यद्य् असौ न संत्रासयति कथं त्वं प्रघातयसि / सर्वथा ये तु मत्स्याः संपन्नास् ते तस्यानुभावात्* / यद् असौ ददाति (264र्1 = ग्ब्म् 6.840) स ग्रहीतव्यो नो तु विचारयितव्यः / स तेनाभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः / पूर्णमुखो कथयति / भागिनेय अस्त्य् अन्य उपायः / गाथाभिगीतेन तान् भाजयामः / अकोप्यं भविष्यति / तौ पूर्वम् एवाभ्याहतौ कथयतः / मातुल यथेच्छसि तथा कुरु / पूर्णमुखेन त्रयो भागाः कृताः / पुच्छानाम् एको मत्स्यराशिः शिरसां द्वितीयो मध्यमखण्डानां तृतीय इति / गाथां च भाषते /

स्थलचारिणो हि लाङ्गूलं शिरो गंभीरचारिणः / यस् तु मध्यमको गण्डः धर्मस्थस् तं हरिष्यति // इति //

पूर्णमुखः संलक्षयति / व्यंसिताव् एतौ / संपन्नो मे लाभः / स महतो रोहितस्य मत्स्यस्य मध्यगण्डम् आदाय पितुः सकाशम् उपसंक्रान्तः / ततो ऽस्य माता परितुष्टा गाथाभिगीतेन परिपृच्छति /

कुतस् त्वं पूर्णिक एषि कुत एषि सुपूर्णिक / अशिरस्कम् अलाङ्गूलं मत्स्यम् आदाय रोहितम्* // इति

स कथयति /

विवदन्ते येन मूढा धर्माधर्मेष्व् अकोविदाः / अल्पेच्छास् तेन जीवन्ति राजकोषश् च वर्धते // इति //

सापि पुनर् गाथां भाषते /

साधु ते सुपराक्रान्तं पूर्णिक प्रियदर्शन / त्वं च लाभेन संयुक्तस् तौ चापि परितोषितौ // इति //

किं मन्यध्वे भिक्षवः / यो ऽसौ पूर्णमुखः शृगाल एष एवासौ उपनन्दः / तेन कालेन तेन समयेन यौ ताव् उद्राव् एतौ तौ महल्लौ / तदाप्य् अनेन तौ व्यंसिताव् एतर्ह्य् अपीति /

श्रावस्त्यां निदानम्* / अन्यतमस्मिन् कर्वटके गृहपतिः / तेन विहारः कारितः / तत्र भिक्षुशतं वार्षा उपगतम्* / तस्य गृहपतेर् बुद्धिर् उत्पन्ना पटकशतं समुदानयामि / भिक्षुसंघं भोजयित्वा प्रत्येकम् एकैकं भिक्षुं पटेनाच्छादयिष्यामीति / यावद् उपनन्देन श्रुतम्* / अमुको गृहपतिर् भिक्षुसंघं भोजयित्वा प्रत्येकम् एकैकं भिक्षुं पटेनाच्छादयिष्यतीति / श्रुत्वा च पुनः संलक्षयति / न भवाम्य् उपनन्दो यदि (msv ii 106) तस्मात् पटकं न निष्पादयामीति / सो ऽनिमन्त्रित एष गतः / गृहपतिर् भिक्षुसंघं भोजयित्वा चारयति / उपनन्दः पटकं गृहीत्वा लघुलघ्व् एव प्रक्रान्तः / यावद् एकस्य भिक्षोः पटको नास्ति / गृहपतिः कथयत्य् आर्य पटकशतं मया सुगणितम् आनीतम्* / मा केनचिद् आर्येण पटद्वयं गृहीतं भवेद् इति / भिक्षवः कथयन्ति / गृहपते को ऽसाव् एवं करिष्यति / अपि तु भदन्तोपनन्दस् त्वयोपनिमन्त्रितः / आर्य नाहम् उपनिमन्त्रयामि / स तं पटकम् आदाय प्रक्रान्तः / ततो ऽसौ गृहपतिर् अवध्यायितुम् आरब्धः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / यः कश्चिद् आदीनवो भिक्षवो ऽनिमन्त्रिताः परकीये (264व्1 = ग्ब्म् 6.841) लाभे संनिपतन्ति / तस्मान् न भिक्षुणानिमन्त्रितेन परकीये लाभे संनिपतितव्यम्* / संनिपतति / सातिसारो भवति /

भिक्षवः संशयजाताः / सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्त आयुष्मान् उपनन्दो ऽनिमन्त्रित एव परकीये लाभे संनिपतित इति / भगवान् आह / न भिक्षव एतर्हि / यथा अतीते ऽप्य् अध्वन्य् उपनन्दो ऽनिमन्त्रितः परकीये लाभे संनिपतितः / तच् छ्रूयताम्* /

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके ब्राह्मणः पर्षन्महत्तरः / तेन माणवशतं त्रैमासीम् उपनिमन्त्र्य माणवशतं भोजिताम्* / तस्य बुद्धिर् उत्पन्ना प्रत्येकम् एकैकं माणवकं पटेनाच्छादयिष्यामीति / (msv ii 107) तस्य नातिदूरे वृद्धो ब्राह्मणः प्रतिवसति / तेन श्रुतम्* / स प्रथमतरं वृद्धान्ते भुक्त्वा पटम् आदाय प्रक्रान्तः / गृहपतिना पटकाच् छोरिताः / यावद् एकस्य माणवकस्य पटो नास्ति / स पृच्छति / भवन्तो मया पटकशतं सुगणितम् आनीतम्* / मा केनचिन् माणवकेन पटकद्वयं गृहीतं भवेद् इति / ते कथयन्ति / क एवं करिष्यति / अपि तु त्वया वृद्धो ब्राह्मण उपनिमन्त्रितः / नाहम् उपनिमन्त्रयामि / स तं पटकम् आदाय प्रथमतरं प्रक्रान्तः / स ब्राह्मणो ऽवध्यायितुम् आरब्धः /

किं मन्यध्वे भिक्षवः / यो ऽसौ ब्राह्मणो वृद्धः एष एवासाव् उपनन्दस् तेन कालेन तेन समयेन / तदाप्य् एषो ऽनिमन्त्रितः परकीये लाभे संनिपतित एतर्ह्य् अपीति /

श्रावस्त्यां निदानम्* / अन्यतमस्मिन् कर्वटके गृहपतिः / तेन विहारः कारितः / तत्रैको भिक्षुर् वर्षा उपगतः / स उत्थानसंपन्नः / तेनासौ विहारः प्रतिदिनम् उपलिप्तसंमृष्टः क्रियते / प्रतिपत्त्य् एवासौ विहारः शोभने विविक्तावकाशे च भूभागे प्रतिष्ठापितः नानावृक्षोपशोभिते हंसक्रौंचमयूरशुकशारिकाकोकिलाभिनिकूजिते विविधपुष्पफलोपशोभिते / यावद् विस्तीर्णविभवः सार्थवाहस् तस्मिन् विहारे रात्रिवासम् उपगतः / तेन तां विहारशोभाम् उपवनशोभां च दृष्ट्वाभिप्रसन्नेनादृष्ट्वैव भिक्षुसंघम् उद्दिश्य प्रभूतो लाभः प्रेषितः / स रात्रम् एवोत्थाय प्रक्रान्तः / स भिक्षुः कौकृतिकः संघस्यायं लाभ इति कौकृत्या न गृह्णाति / भिक्षून् एव समन्वेषते भाजयितुम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति भगवान् (msv ii 108) आह / गोमयगृहम् अपि चेद् भिक्षुर् निशृत्य वर्षा उपगतो भवति तत्र चेद् ब्राह्मणगृहपतयः संघम् उद्दिश्य लाभम् अनुप्रयच्छन्त्य् अल्पं वा प्रभूतं वा यस् तत्र वसति एको वा द्वौ वा संबहुला वा तेषाम् एव सः / नात्र कौकृत्यं करणीयम्* /

उद्दानम्* / (265र्1 = ग्ब्म् 6.842)

भिन्नानां देयप्रत्यंशं ऋषिलस्य च चारिकाम्* / संघस्य चीवरं चैव अष्टौ लाभेन कारयेत्* //

श्रावस्त्यां निदानम्* / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / अन्तर्वर्षे भदन्त संघो भिद्येत / देयो लाभो न देयः / भगवान् आह / कस्यचिद् उपालिन् देयः कस्यचिन् न देयः / कस्य देयः / धर्मपाक्षिकस्य // 1 // अन्तर्वर्षे भदन्त भिक्षुः शिक्षां प्रत्याख्याय हानायावर्तते / देयो लाभो न देयः / कस्यचिद् उपालिन् देयः कस्यचिन् न देयः / कस्य देयः / यद्भूयो ऽपि तस्य // 2 // अन्तर्वर्षे भदन्त भिक्षुः कालं कुर्यात्* / देयो लाभो न देयः / कस्यचिद् उपालिन् देयः कयचिन् न देयः / कस्य देयः / यद्भूयो ऽपि तस्य // 3 //

अन्यतमस्मिन् कर्वटके गृहपतिः / तेन विहारः कारितः सर्वोपकरणसंपन्नः / आयुष्मांश् च शारिपुत्रो जनपदचारिकां चरन् तं विहारम् अनुप्राप्तः / तेन गृहपतिना भोजयित्वा पंचभिः पटकशतैर् आच्छादितः / स तानि पंच पटकशतानि तस्मिन्न् एव विहारे दत्वा प्रक्रान्तः / यावत् तस्य द्वौ सार्धंविहारिणौ ऋषिल ऋषिदत्तश् च जनपदचारिकां चरन्तौ तम् एव कर्वटकम् अनुप्राप्तौ / ताव् अपि तेन (msv ii 109) गृहपतिना भोजयित्वा पंचभिः पटशतैर् आच्छादितौ / तौ भिक्षुभिर् उच्येते / आयुष्मन्तौ युवयोर् उपाध्यायेन तस्य गृहपतेः सकाशात् पंच पटशतानि लब्धानि / तान्य् अस्माभिर् एव भाजितानि / अधुनाप्य् एष लाभो ऽस्माकम् एव प्रापद्यते / तौ कथयतः / उपाध्यायो ज्ञातो महापुण्यः / तेन कदाचिद् युष्माकम् एवानुमोदितः स्यात्* / ते प्रतिबोढुम् आरब्धाः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / अष्टाव् इमे भिक्षवो लाभाः / कतमे ऽष्टौ / सीमाहृतो लाभः / क्रियाहृतः / निश्रयाहृतः / संघप्रज्ञप्तः / भिक्षुप्रज्ञप्तः / वार्षिकः / संमुखः / प्रत्यादेशश् च /

सीमाहृतो लाभः कतमः / यथापि तद् एवावसथ एकः पोषधः / तयोर् विहारयोर् यो लाभः स उभयविहारप्रतिवासिनां भिक्षूणाम्* / तन् निवासिनो भिक्षवः कदाचिद् धि एकपोषधेन वर्षा उपगच्छन्ति / तत्र यो लाभः संपद्यते यम् अस्मिन्न् एव विहारे दत्तस् तस्मिन् निवासिभिर् एव भिक्षुभिः परिभोक्तव्यं हि / एकपोषधत्वात्* अयम् उच्यते सीमाहृतो लाभः /

क्रियाहृतो लाभः कतमः / यथापि तद् भिक्षव इदम् एवंरूपं क्रियाकारं कृत्वा वर्षा उपगच्छन्ति / अमुकं कुलं युष्माकम्* / (msv ii 110) अमुकं कुलम् अस्माकम्* / रथ्यावीथीचत्वरशृङ्गाटका मध्यम् इति / ते चेद् ब्राह्मणगृहपतयः (265व्1 = ग्ब्म् 6.843) उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / उपगतकानाम् एव पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 1 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 2 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां पानीयम् अनुप्रयच्छन्ति / अनुपगतकानां लाभम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 3 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वानुपगतकानां लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते // उपगतकानाम् एव // 4 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति / उपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 5 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 6 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / लाभः कस्य (msv ii 111) प्रापद्यते / उपगतकानाम् एव // 7 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 8 // उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानुपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते च पानीयम्* / लाभः कस्य प्रापद्यते / उपगतकानाम् एव // 9 //

यथा उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वेति नव पर्यायाः / एवम् अनुपगतकानाम् आवासी उपगतकान् भिक्षून् भोजयित्वेति नव पर्यायाः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.