Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

कर्मवस्तु

Thông tin
GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 199-211: Karmavastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कर्मवस्तु

कर्मवस्तु

(msv ii 199) कर्मवस्तुनि (285व्1 = ग्ब्म् 6.883) उद्दानम्* //

काशिषु वासवग्रामकं सेनाञ्जयवस्तुकम्* / चण्पायां भगवान् बुद्धः अकर्माणि प्रतिक्षिपेत्* //

काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति / तम् आगम्य वासवग्रामका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति / ये आगन्तुका भिक्षवो वासवग्रामकम् आगच्छन्ति तान् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति / यावद् अन्यतमः सालोहितो वासवग्रामके वर्षा उषितः / त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरन् श्रावस्तीं अनुप्राप्तः /

आचरितं षड्वर्गिकाणाम् अशून्यं जेतवनद्वारम् अन्यतरान्यतरेण षड्वर्गिकेण / उपनन्दो जेतवनद्वारे तिष्ठति / तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः / स संलक्षयति / को ऽप्य् अयं स्थविरो भिक्षुर् आगच्छति / प्रत्युद्गन्तव्यम् इति / स प्रत्युद्गतः / स्वागतं स्वागतं स्थविर इति / स कथयति / वन्दे आचार्य इति / स संलक्षयति / महल्लो बतायम्* / नायम् आचार्यं जानीते नाप्य् उपाध्यायम् इति / सालोहित कियद् दूराद् आगच्छसि / वासवग्रामकात्* / किं तत्र / विहारः / किम् असौ विहारः / आहोस्विद् (msv ii 200) विघातः / कीदृशो विहारः / कीदृशो विघातः / यत्रोपकरणसंपत् स विहारः / यत्रोपकरणवैकल्यं स विघातः / यद्य् एवं विहारो ऽसौ यत्र सेनांजयो नाम भिक्षुः प्रतिवसति / तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति / इतश् च तत्रागन्तुको भिक्षुर् आगच्छति / तम् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु भिक्षूणां पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति /

आचरितं षड्वर्गिकाणां यत् किंचिद् एव शृण्वन्ति तद् रात्रौ संनिपत्य परस्परम् आरोचयन्ति / नन्दोपनन्द कियच् चिरम् अस्माभिः कृच्छ्रम् उद्वोढव्यम्* / अस्ति किंचिद् युष्माकं किंचिच् छ्रुतं यत्रोदारावभासो भवेद् इति / उपनन्दः कथयति / अस्ति / काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति / तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयः पूर्ववद् यावद् भोक्तुं प्रेषयति / यद्य् अभिप्रेतं तत्र गच्छामः / ते समादाय पात्रचीवरं येन वासवग्रामकस् तेन चारिकां प्रक्रान्ताः / अनुपूर्वेण चारिकां चरन्तो वासवग्रामकम् अनुप्राप्ताः / ते सेनांजयेन दूरत एव दृष्टाः / स संलक्षयति / आगता ह्य् एते दुष्ठुलसमुदाचाराः / प्रतिशामयित्वा सर्वोपकरणैः प्रवारयितव्याः / नो तु कुलानि भोक्तुं प्रेषयितव्या इति / ते अनेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारिताः / नो तु कुलानि भोक्तुं प्रेषिताः / तेषाम् एके कथयन्ति / नन्दोपनन्द वयम् अनेन महल्लेन सर्वोपकरणैः प्रवारिताः / नो तु कुलानि भोक्तुं प्रेषिता इति / अपरे कथयन्ति / एकं तावत् संपन्नं कुलान्य् अपि (286र्1 = ग्ब्म् 6.884) प्रेषयिष्यतीति / (msv ii 201) यावन् नवको भिक्षुर् आगतः / स तेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारितो मार्गश्रमे प्रतिविनोदिते कुलानि भोक्तुं प्रेषितः / षड्वर्गिकाः प्रकुपिताः कथयन्ति / नन्दोपनन्द कीदृशो ऽयं महल्लः छन्दद्वेषी / यदि तावत् पूर्वम् आगतास् ते वयम्* / यदि वृद्धास् ते वयम्* / अथ बहुश्रुतास् ते वयम्* / एष भिक्षुर् अचिरेणाभ्यागतो नवकः प्रकृतिज्ञः / सो ऽनेन सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* / स तैर् उपालब्धः /

महल्ल ईदृशस् त्वं छन्दद्वेषी / यदि तावत् पूर्वम् आगतास् ते वयं पूर्ववद् यावत्* / स त्वया सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* / स्थविरा किंचित् परिहीयते / षड्वर्गिकाः संजातामर्षाः कथयन्ति / न तूष्णीं स्थातव्यम्* / तद् अपरं प्रतिवदति / स तैर् अभ्याहतः / तूष्णीम् अवस्थितः / तैस् तस्याचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्मं कृतम्* / स संलक्षयति / दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते सुखम् अप्रसाद्यन्ते / यदि स्थास्यामि वासवग्रामीयका ब्राह्मणगृहपतयः प्रसादं प्रवेदयिष्यन्ते / सर्वदा प्रक्रमितव्यम् इति / स समादाय पात्रचीवरं येन श्रावस्ती येन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां (msv ii 202) चरन् श्रावस्तीम् अनुप्राप्तः / स भिक्षुभिर् दृष्ट उक्तश् च / स्वागतं स्वागतम् आयुष्मन्* / सेनाञ्जयिन् प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन / किं कारणम्* / त्वाम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति / आगन्तुकानां गमिकानां च वासवग्रामकं प्रतिशरणम्* / अस्त्य् एतद् एवम्* / मम तु षड्वर्गिकैर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्म कृतम् / किं कारणम्* / तेन यथावृत्तम् आख्यातम्* / ते ऽवध्यायन्तः क्षिपन्तो विवाचयन्त एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्मात् तर्हि भिक्षवो व्यग्रेण न भिक्षुभिर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञया बलाद् उत्क्षेपणीयं कर्म कर्तव्यम्* / कुर्वन्ति / सातिसारा भवन्ति /

बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे / तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति / तद्यथा अधर्मेण कुर्वन्ति व्यग्राः / अधर्मेण कुर्वन्ति समग्राः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्मान् न भिक्षुभिर् इमान्य् एवंरूपाण्य् अधर्मकर्माणि करणीयानि / तद्यथा अधर्मेण व्यग्रैर् अधर्मेण समग्रैः धर्मेण व्यग्रैः / कुर्वन्ति / सातिसारा भवन्ति /

उद्दानम्* /

न एक एकेन न द्वौ न संबहुलाः कृताः / न गणो गणस्य कर्माणि पंच संघकर्मणां स्वामिनः //

बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे / तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति / तद्यथा एको ऽप्य् एकस्य / एको द्वयोः / एकः संबहुलानाम्* / द्वाव् अपि द्वयोः / द्वाव् एकस्य / द्वौ संबहुलानाम्* / संबहुला अपि संबहुलानाम्* / संबहुला एकस्य / संबहुला द्वयोः / (286व्1 = ग्ब्म् 6.885) गणो गणस्य / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तस्मान् नैकेनैकस्य कर्म कर्तव्यम्* / नैकेन द्वयोः / नैकेन संबहुलानाम्* / न द्वाभ्यां द्वयोः / न द्वाभ्याम् एकस्य / न द्वाभ्यां संबहुलानाम्* / न संबहुलैः संबहुलानाम्* / न संबहुलैर् एकस्य / न संबहुलैर् द्वयोः / न गणेन गणस्य / कुर्वन्ति / सातिसार भवन्ति /

अपि तु भिक्षवः पंच संघकर्मणां स्वामिनः / कतमे पंच / चत्वारो भिक्षवः संघः / पांचापि भिक्षवः संघः / दश भिक्षवः संघः / विंशतिर् भिक्षवः संघः उत्तरे च / पंच संघाः /

तत्र भिक्षवो यत्र चत्वारो भिक्षवः प्रतिवसन्ति / अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* / स्थापयित्वा पांचानां प्रवारणां दशानाम् उपसंपदं विंशतीनां चावर्हणम्* /

यत्र पंच प्रतिवसन्ति / अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* / स्थापयित्वा दशानाम् उपसंपदं विंशतीनां चावर्हणम्* /

यत्र दश प्रतिवसन्ति / अर्हति तत्र संघः सर्वकर्माणि कर्तुम्* / स्थापयित्वा विंशतीनां आवर्हणम्* /

यत्र विंशतिर् भिक्षवः प्रतिवसन्ति उत्तरे च / अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* /

उद्दानम्* /

चतुर्वर्गकरणीयं पुद्गल ऊनकः कृतः / न पारिवासिकचतुर्थेन कर्मचतुष्टयं स्मृतम्* //

चतुर्वर्गकरणीयं भिक्षवः कर्म ऊनाश् चत्वारः कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न तत् तथा करणीयम्* / संघश् च तेन सातिसारः / चतुर्वर्गकरणीयं कर्म आगारिकचतुर्थाः कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः / एवं श्रामणेरकः षण्ढपण्डकः भिक्षुणीदूषको मातृघातकः पितृघातकः अर्हघातकः संघभेदकः तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकस् तीर्थिकस् तीर्थकावक्रान्तिकः स्तेयासंवासिको नानासंवसिको ऽसंवासिकः पारिवासिकचतुर्थाः कर्म कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः /

चतुर्वर्गकरणीयं कर्म पूर्णाश् चत्वारो धर्मेण कुर्वन्ति धर्मकर्म च तद् विनयकर्म च / एवं च तत् करणीयम्* / संघश् च तेन न सातिसारः / चतुर्वर्गकरणीयं कर्म नागारिकचतुर्थो न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकचतुर्थाः कुर्वन्ति / धर्मकर्म च तद् विनयकर्म च / एवं च तत् करणीयम्* / संघश् च तेन न सातिसारः /

पंचवर्गकरणीयं कर्म ऊनाः पंच कुर्वन्ति / अधर्मकर्म च तद् (msv ii 205) अविनयकर्म च / न तथा करणीयम्* / संघश् च तेन सातिसारः / पंचवर्गकरणीयं कर्म आगारिकपंचमः पूर्ववद् यावत् पारिवासिकपंचमाः कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः /

पंचवर्गकरणीयं कर्म पूर्णाः पंचवर्गेण कुर्वन्ति / धर्मकर्म च तद् विनयकर्म च / एवं तत् करणीयम्* / संघश् च तेन न सातिसारः / पंचवर्गकरणीयं कर्म नागारिकपंचमा न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकपंचमा धर्मेण कुर्वन्ति / (287र्1 = ग्ब्म् 6.886) धर्मकर्म च तद् विनयकर्म च / एवं च तत् करणीयम्* / संघश् च तेन न सातिसारः /

दशवर्गकरणीयं कर्म ऊना दशवर्गेण कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः / दशवर्गकरणीयं कर्म आगारिकदशमाः पूर्ववद् यावत् पारिवासिकदशमा कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः /

दशवर्गकरणीयं कर्म पूर्णा दशवर्गेण कुर्वन्ति / धर्मकर्म च तद् विनयकर्म च / एवं च तत् कर्म करणीयम्* / संघश् च तेन न सातिसारः / दशवर्गकरणीयं कर्म नागारिकदशमाः पूर्ववद् यावन् न पारिवासिकदशमा धर्मेण कुर्वन्ति / धर्मकर्म च तद् विनयकर्म च / एवं च करणीयम्* / संघश् च तेन न सातिसारः /

विंशतिवर्गकरणीयं कर्म ऊना विंशतिवर्गेण कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / संघश् च तेन सातिसारः / विंशतिवर्गकरणीयं (msv ii 206) कर्म आगारिकविंशतिमाः श्रामणेरकाः पूर्ववत् पारिवासिकविंशतिमाः कुर्वन्ति / अधर्मकर्म च तद् अविनयकर्म च / न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः /

विंशतिवर्गकरणीयं कर्म पूर्णा विंशतिधर्मेण कुर्वन्ति / धर्मकर्म च तद् विनयकर्म च / एवं च तत् करणीयम्* / संघश् च तेन न सातिसारः / विंशतिवर्गकरणीयं कर्म नागारिकविंशतिमा न श्रामणेरकाः पूर्ववद् यावन् न पारिवासिकविंशतिमा धर्मेण कुर्वन्ति / धर्मकर्म तद् विनयकर्म च / एवं च तत् करणीयम्* / संघश् च तेन न सातिसारः /

उद्दानम्* /

धर्माधर्मेण यत् कर्म यच् च ज्ञप्तितया कृतम्* / संमुखं च प्रतिज्ञा च चक्रपेयाल सङ्कलात्* //

अधर्मकर्म / धर्मकर्म / अधर्मकर्म कतमत्* / अप्राप्ते उत्सारणे अप्राप्तम् उत्सारयन्ति / यथास्योत्सार्यमाणस्यानुश्रावणं भवति / न तथोत्सारयन्ति / अधर्मकर्म / धर्मकर्म कतमत्* / प्राप्ते उत्सारणे प्राप्तम् उत्सारयन्ति / यथास्योत्सार्यमाणस्यानुश्रावणं भवति / तथोत्सारयन्ति / धर्मकर्म / अप्राप्ते ओसारणे अप्राप्तम् ओसारयन्ति / यथास्य ओसार्यमाणस्यानुश्रावणं भवति / न तथा ओसारयन्ति / अधर्मकर्म / प्राप्ते ओसारणे प्राप्तम् ओसारयन्ति / यथास्य ओसार्यमाणस्यानुश्रावणं भवति / तथोसारयन्ति / धर्मकर्म / ज्ञप्तिकर्म ज्ञप्तिम् अकृत्वा कुर्वन्ति / अधर्मकर्म / ज्ञप्तिकर्म ज्ञप्तिं कृत्वा कुर्वन्ति / (msv ii 207) धर्मकर्म / ज्ञप्तिद्वितीयं कर्म / ज्ञप्तिम् अकृत्वा एकं वारम् अनुश्रावयन्ति / अधर्मकर्म / ज्ञप्तिद्वितीयं कर्म / ज्ञप्तिं कृत्वा एकं वारम् अनुश्रावयन्ति / धर्मकर्म / ज्ञप्तिचतुर्थं कर्म / ज्ञप्तिम् अकृत्वा त्रीन् वारम् अनुश्रावयन्ति / अधर्मकर्म / ज्ञप्तिचतुर्थण् कर्म / ज्ञप्तिं कृत्वा त्रीन् वारान् अनुश्रावयन्ति / धर्मकर्म / अन्येन कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति / अधर्मकर्म / तेनैव कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति / धर्मकर्म / संमुखकरणीयं कर्मासंमुखीभूतस्य कुर्वन्ति / अधर्मकर्म / संमुखकरणीयं कर्म संमुखीभूतस्य कुर्वन्ति / धर्मकर्मा / प्रतिज्ञाकरणीयं कर्म अप्रतिज्ञया कुर्वन्ति / अधर्मकर्म / प्रतिज्ञाकरणीयं कर्म प्रतिज्ञया कुर्वन्ति (287व्1 = ग्ब्म् 6.887) / धर्मकर्म / संमुखविनयार्हाय स्मृतिविनयं ददाति / अधर्मकर्म /

अमूढविनयं तत्स्वभावैषीयं यद्भूयैषीयं प्रतिज्ञाकारकं तृणप्रस्तारकं तर्जनीयं निगर्हणीयं प्रतिसंहरणीयम् अदर्शनीयोत्क्षेपणयम् अप्रतिकर्मार्हयोत्क्षेपणीयम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म / परिवासं मूलपरिवासं मूलापकर्षपरिवासं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यम् आवर्हन्ति / अधर्मकर्म / संमुखविनयार्हाय तु संमुखविनयम् एव ददाति न स्मृतिविनयं न यावद् आवर्हन्ति / धर्मकर्म / स्मृतिविनयार्हाय अमूढविनयं ददाति / अधर्मकर्म / एवं यद्भूयैषीयं पूर्ववद् यावद् आवर्हन्ति संमुकविनयं ददाति / अधर्मकर्म / स्मृतिविनयार्हाय तु स्मृतिविनयम् एव ददाति न तत्स्वभावैषीयं न यावत् संमुखविनयम्* / धर्मकर्म / अमूढविनयार्हाय (msv ii 208) तत्स्वभावैषीयं ददाति / अधर्मकर्म / एवं यद्भूयैषीयं यावत् संमुखविनयं स्मृतिविनयं ददाति / अधर्मकर्म / अमूढविनयार्हाय त्व् अमूढविनयम् एव ददाति तत्स्वभावैषीयं न यावत् संमुखविनयं स्मृतिविनयं / धर्मकर्म / तत्स्वभावैषीयार्हाय यद्भूयैषीयं ददाति अधर्मकर्म / तर्जनीयार्हाय पूर्ववद् यावद् अमूढविनयं ददाति / अधर्मकर्म / तत्स्वभावैषियार्हाय तु तत्स्वभावैषीयम् एव ददाति न यद्भूयैषीयं न यावद् अमूढविनयम्* / धर्मकर्म / यद्भूयैषीयार्हाय तर्जनीयं कर्म कुर्वन्ति / अधर्मकर्म / निगर्हणीयार्हाय पूर्ववद् यावत् तत्स्वभावैषीयम् ददाति / अधर्मकर्म / यद्भूयैषीयार्हाय यद्भूयैषीयम् एव ददाति न तर्जनीयं न यावत् तत्स्वभावैषीयम्* / धर्मकर्म /

तर्जनीयकर्मार्हाय निगर्हणीयं कर्म कुर्वन्ति प्रतिसंहरणीयं पूर्ववद् यावद् यद्भूयैषीयं ददाति / अधर्मकर्म / तर्जनीयकर्मार्हाय तु तर्जनीयम् एव कर्म कुर्वन्ति न परिशिष्टानीति / अनया वर्तन्या चक्रपेयालः पूर्ववद् यावद् धर्मकर्म / निगर्हणीयार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति / अधर्मकर्म / पूर्ववत्* / निगर्हणीयकर्मार्हाय तु निगर्हणीयकर्मैव कुर्वन्ति / धर्मकर्म पूर्ववत्* / प्रवासनीयकर्मार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति / अधर्मकर्म पूर्ववत्* / प्रवासनीयकर्मार्हाय तु प्रवासनीयम् एव कर्म कुर्वन्ति / धर्मकर्म पूर्ववत्* / प्रतिसंहरणीयकर्मार्हायादर्शनीयोत्क्षेपणीयं कर्म कुर्वन्ति / अधर्मकर्म पूर्ववत्* / प्रतिसंहरणीयकर्मार्हाय तु प्रतिसंहरणीयम् एव कर्म कुर्वन्ति / धर्मकर्म पूर्ववत् / अदर्शनीयोत्क्षेपणीयकर्मार्हायाप्रतिकर्मार्हायोत्क्षेपणीयं कर्म कुर्वन्ति / अधर्मकर्म पूर्ववत्* / अदर्शनीयोत्क्षेपणीयकर्मार्हाय त्व् अदर्शनीयोत्क्षेपणीयम् एव कर्म कुर्वन्ति / (msv ii 209) धर्मकर्म / पूर्ववत्* / अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय परिवासं ददाति / अधर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्वन्ति / अधर्मकर्म पूर्ववत्* / अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय त्व् अप्रतिकर्मार्हायोत्क्षेपणीयम् एव कर्म (288र्1 = ग्ब्म् 6.888) कुर्वन्ति / धर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय परिवासं ददाति / अधर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय त्व् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्मैव कुर्वन्ति /

धर्मकर्म पूर्ववत्* / परिवासकर्मार्हाय मूलपरिवासं ददाति / अधर्मकर्म पूर्ववत्* / परिवासकर्मार्हाय त्व् अपरिवासम् एव तु ददाति / अधर्मकर्म पूर्ववत्* / मूलपरिवासार्हाय मूलपरिवासं ददाति / अधर्मकर्म पूर्ववत्* / मूलपरिवासार्हाय तु मूलपरिवासम् एव ददाति / धर्मकर्म पूर्ववत्* / अपर्युषितपरिवासाय मानाप्यं ददाति / अधर्मकर्म पूर्ववत्* / अपर्युषितपरिवासाय मानाप्यं ददाति / अधर्मकर्म पूर्ववत्* / पर्युषितपरिवासाय तु मानाप्यं ददाति / धर्मकर्म पूर्ववत्* / अचरितमानाप्यम् आवर्हन्ति / अधर्मकर्म पूर्ववत्* / चरितमानाप्यम् आवर्हन्ति / धर्मकर्म पूर्ववत्* / आवर्हणार्हाय संमुखविनयं ददाति / पूर्ववद् यावन् मानाप्यं ददाति / अधर्मकर्म पूर्ववत्* / आवर्हणार्हाय त्व् आवर्हणम् एव कुर्वन्ति न संमुखविनयं ददाति न यावन् मानाप्यम्* / धर्मकर्म पूर्ववत्* / एवम् एव नवकेन चक्रपेयालं विस्तरेण बोद्धव्यम्* /

उद्दानम्* /

व्यग्रः समग्रा रोहन्ति धर्माधर्मेण वोत्क्षिपेत्* / ओसारणया एतानि कर्म वस्तुसमुद्दितम्* //

व्यग्रकर्म / समग्रकर्म / व्यग्रकर्म कतमत्* / यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति / समवहिताश् च भिक्षवः संमुखीभूताः प्रतिवहन्ति प्रतिक्रोशन्ति / येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति / कर्माणि च कुर्वन्ति / इदम् उच्यते व्यग्रकर्म / समग्रकर्म कतमत्* / यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति / समवहिताश् च भिक्षवः संमुखीभूता न प्रतिवहन्ति न प्रतिक्रोशन्ति / येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति / कर्माणि च कुर्वन्ति / इदम् उच्यते समग्रकर्म /

आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / कतीनां भदन्त प्रतिक्रोशो न रोहति / दशानाम् उपालिन्* / अलज्जिनः सान्तरस्य बालस्य मूढस्याव्यक्तस्याकुशलस्य बहिःसीमायां स्थितस्य ईर्यापथे च्युतस्य वाचा असंवृतस्य / कतीनां भदन्त प्रतिक्रोशो रोहति / चतुर्णाम् उपालिन्* / प्रकृतिस्थितस्य अन्तःसीमायां स्थितस्य ईर्यापथाद् अच्युतस्य वा वाचा संयतस्येति / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / कति भदन्त उत्क्षेपणीयकर्माणि / चत्वार्य् उपालिन् / अधर्मेणोत्क्षिपन्ति व्यग्रा अधर्मेण समग्राः / धर्मेण व्यग्राः / धर्मेण समग्राः / तत्रैकम् उत्क्षेपणकर्म / यद् इदं धर्मेणोत्क्षिपन्ति समग्राः / कति भदन्त ओसारणकर्माणि / चत्वार्य् (msv ii 211) उपालिन्* / अधर्मेणोसारयन्ति व्यग्राः / अधर्मेण समग्राः / धर्मेण व्यग्राः / धर्मेण समग्राः / तत्रैकम् ओसारणकर्म (288व्1 = ग्ब्म् 6.889) यद् इदं धर्मेण कुर्वन्ति समग्राः /

कर्मवस्तु समाप्तम्* //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.