Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

चीवरवस्तु

Thông tin
GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सचेत् ते ब्राह्मणगृहपतयः रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / उपगतकानाम् एव पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 1 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / (266र्1 = ग्ब्म् 6.844) उभयोर् अपि // 2 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति / उपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 3 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / (msv ii 112) लाभः कस्य प्रापद्यते / उभयोर् अपि // 4 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति / उपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 5 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 6 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति / अनुपगतकानां पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 7 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 8 // रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते उपगतकानुपगतकानां लाभम् अनुप्रयच्छन्ति / वृद्धान्ते च पानीयम्* / लाभः कस्य प्रापद्यते / उभयोर् अपि // 9 // अयम् उच्यते क्रियाहृतो लभब्ः /

निश्रयाहृतो लाभः कतमः / भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगच्छति स यं लाभं ददाति तस्यैव सः / अयम् उच्यते निश्रयाहृतो लाभः /

संघप्रज्ञप्तो लाभः कतमः / यो लाभो नियतो ऽविपंचितः / अयम् उच्यते संघप्रज्ञप्तो लाभः /

भिक्षुप्रज्ञप्तो लाभः कतमः / यो लाभो नियतो ऽविपंचितः / लयने मठे वा कूटागारे वा प्रज्ञप्तः / तत्र यो भिक्षुः प्रतिवसति तस्यैव सः / अयम् उच्यते भिक्षुप्रज्ञप्तो लाभः /

वार्षिको लाभः कतमः / यो लाभो वर्षोषितस्य भिक्षुसंघस्य दायिकैः प्रज्ञप्तः / अयम् उच्यते वार्षिको लाभः /

संमुखलाभः कतमः / यो लाभो ऽनियतो ऽविपंचितः / अयम् उच्यते संमुखलाभः /

प्रत्यादेशलाभः कतमः / यो लाभो जातौ बोधौ धर्मचक्रे परिनिर्वाणे निर्यातितः / सचेन् न शक्यते चतुर्महाचैत्येषु एकस्मिन्न् एव महाचैत्ये देयो नानयत्र / अयम् उच्यते प्रत्यादेशलाभः /

उद्दानम्* /

कालं कुर्वन्त्य् उत्क्षिप्तका मिश्रकाणां च भाजनम्* / उत्क्षिप्तश्रमणोद्देशा (266व्1 = ग्ब्म् 6.845) उसारयन्ति म्रियन्ते च //

श्रावस्त्यां निदानम्* / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / यथापि तद् भदन्त एकस्मिन्न् आवासे संबहुला उत्क्षिप्तकाः संबहुलाश् च प्रकृतिस्थकाः प्रतिवसन्ति / तेषाम् उत्क्षिप्तकः कालं करोति / तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते / प्रकृतिस्थकानाम् (msv ii 114) उपालिन् // 1 // द्वौ भदन्त उत्क्षिपकौ संबहुलाः प्रकृतिस्थकाः / उत्क्षिप्तकः कालं करोति / तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते / प्रकृतिस्थकानाम् एव // 2 // उत्क्षिपकाः संबहुलाः प्रकृतिस्थका अल्पाः / उत्क्षिप्तकः कालं करोति / तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते / प्रकृतिस्थकानाम् एव // 3 //

यथापि तद् भदन्त एकस्मिन्न् आवासे संबहुला उत्क्षिप्तकाः संबहुलाश् च प्रकृतिस्थकाः प्रतिवसन्ति / तेषां प्रकृतिस्थकः कालं करोति / तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते / प्रकृतिस्थकानाम्* // 1 // संबहुला उत्क्षिप्तका द्वौ प्रकृतिस्थकौ / प्रकृतिस्थकः कालं करोति / तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते / तस्यैकस्य प्रकृतिस्थकस्य // 2 // संबहुला उत्क्षिप्तका एकः प्रकृतिस्थकः / प्रकृतिस्थकः कालं करोति / लाभः कस्य प्रापद्यते / उत्क्षिप्तकानां यः प्रथमं पापकं दृष्टिगतं प्रतिनिसृजति // 3 //

उपगतकानाम् आवासे अनुपगतकः श्रामणेरक आगत्य कालं करोति / उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः / श्रामणेरो वः कालगतः / हरत तस्य पात्रचीवरम् इति / उपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / अनुपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 1 // (msv ii 115) उपगतकानाम् आवासे अनुपगतकः श्रामणेरक आगत्य एवं वदेद् ओसारयन्तु माम् आयुष्मन्तः / उपगतको भविष्यामीति / स चानोसारितः कालं कुर्यात्* / उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः / श्रामणेरो वः कालगतः / हरतास्य पात्रचीवरम् इति / उपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / अनुपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 2 // उपगतकानाम् आवासे अनुपगतको भिक्षुर् आगत्य कालं कुर्यात्* / उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः / सब्रह्मचारी वः कालगतः / हरतास्य पात्रचीवरम् इति / उपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / अनुपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय (267र्1 = ग्ब्म् 6.846) भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 3 // उपगतकानाम् आवासे अनुपगतको भिक्षुर् आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः / उपगतको भविष्यामीति / स चानोसारित एव कालं कुर्यात्* / उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः / सब्राह्मचारी वः कालगतः / हरतास्य पात्रचीवरम् इति / उपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / अनुपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 4 //

अनुपगतकानाम् आवासे उपगतकः श्रामणेरक आगत्य कालं कुर्यात्* / अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः / श्रामणेरो वः कालगतः / हरतास्य पात्रचीवरम् इति / अनुपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / उपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 1 // अनुपगतकानाम् आवासे उपगतकः श्रामणेर आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः / अनुपगतको भविष्यामीति / स चानोसारितः कालं कुर्यात्* / अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः / श्रामणेरो वः कालगतः / हरतास्य पात्रचीवरम् इति / अनुपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / उपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 2 // अनुपगतकानाम् आवासे उपगतको भिक्षुर् आगत्य कालं कुर्यात्* / अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः / सब्रह्मचारी वः कालगतः / हरतास्य पात्रचीवरम् इति / अनुपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / उपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 3 // अनुपगतकानाम् आवासे उपगतको भिक्षुर् आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः / अनुपगतको भविष्यामीति / स चानोसारितः कालं कुर्यात्* / अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः / सब्राह्मचारी वः कालगतः / हरतास्य पात्रचीवरम् (msv ii 117) इति / अनुपगतका भाजयन्ति / अभाजितं दुर्भाजितम्* / उपगतका भाजयन्ति / भाजितं सुभाजितम्* / मिश्रका भाजयन्ति (267व्1 = ग्ब्म् 6.847) / अभाजितं दुर्भाजितम्* / चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति / सुपरिणामितम्* // 4 //

उद्दानम्* //

उपनन्दस्याधिष्टानं घातव्यं मध्यविक्षेपः / नास्ति ममात्ययाद् दानं विसृज्यो मनुष्यास् त्रयः //

श्रावस्त्याम् निदानम्* / उपनन्दस्य मूर्ध्नि पिटको जातः / स वैद्यसकाशं गतः / भद्रमुख भैषज्यं मे व्यपदिशेति / स कथयति आर्य घृतस्य पानं पिब / स्वास्थ्यं ते भविष्यतीति / उपनन्दः संलक्षयति / सचेद् अद्यैव पास्यामि अद्यैव स्वस्थो भविष्यामि / श्वः कतरेण कल्पेन घृतं समाधापयिष्यामि वस्त्राणि वा / यावद् इष्टं कल्पं समाधापयिष्यामि तावत् पश्चात् पास्यामीति / ज्ञातमहापुण्यो ऽसौ / तेन सार्धंविहार्यन्तेवासिकाः समन्तात् प्रेषिताः / तैः प्रभूता घृतघटका वस्त्राणि च व्रणबन्धनाय समाधापितानि / द्वितीये दिवसे वैद्य आगत्य पृच्छति / आर्य स्वस्थः / पीतं ते घृतम्* / भद्रमुख न पीतम्* / आर्य न शोभनं कृतम्* / अद्य द्विगुणं पिबेति / सार्धंविहार्यन्तेवासिन उक्ता / श्रुतं वो यद् वैद्येनाभिहितम्* उपाध्याय (msv ii 118) श्रुतम्* / ममायं रोगो ऽभिवृद्धः / प्रभूतं घृतं वस्त्राणि च व्रणबन्धनानि स्माधापयतेति / तैः प्रभूततरं घृतं वस्त्राणि च समाधापितानि / तेनातिलोभात्* श्वः कल्पो भविष्यतीति तद् अपि दिवसे न पीतम्* / रोगो ऽस्य प्रबलो जातः / यावत् पुनर् अपि वैद्य आगत्य पृच्छति / आर्य पीतं घृतम्* / भद्रमुख न पीतम्* / आर्य न शोभनं कृतम्* / स कथयति / भद्रमुख अद्य त्रिगुणं पिबामि / वैद्यः कथयति / आर्य यदि घृतमञ्जूषायाम् अपि निमग्नस् तिष्ठसि तथापि ते नास्ति जीवितम् इति / स कथयति / यमदण्डिक यादृशस् त्वम्* / गले ते पादं दत्वा घृतं च पिबामि / जीवामि चेति / स वैद्यो हुम् इति कृत्वा सामर्षः प्रक्रान्तः / तत उपनन्देन घृतस्य पात्रं पूरयित्वा पीतम्* / विषूचितः कालगतः /

तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षाः / एका पात्रचीवरात्* / द्वितीया ग्लानभैषज्यात्* / तृतीया कृताकृतात्* / अमात्यैः श्रुतम्* / राज्ञे निवेदितम्* / देव आर्योपनन्दः कालगतः / तस्य प्रभूतं सुवर्णम् अस्ति / तिस्रः सुवर्णलक्षाः / तद् अर्हस्याज्ञां दातुम् इति / राजा कथयति / यद्य् एवं गच्छत / अस्य लयनं मुद्रयतेति / भिक्षवस् तम् आदाय दहनं गताः / तैर् आगत्य लयनं मुद्रितम्* / भिक्षवस् तम् आदहने संस्कार्य विहारम् आगताः / पश्यन्ति लयनं राजमुद्रामुद्रितम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छानन्द मद्वचनाद् राजानं (268र्1 = ग्ब्म् 6.848) प्रसेनजितम् आरोग्यं (msv ii 119) पृच्छ / एवं च वद / यस्मिन् महाराज समये तव राजकरणीयं भवति / अवलोकयसि त्वं तस्मिन् समये उपनन्दं भिक्षुम्* / यस्मिन् वा ते समये आवाहो वा विवाहो व अवलोकयसि तस्मिन् समये उपनन्दम्* / कदाचिद् वा ते उपनन्दो यावज्जीवं प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / ग्लानस्य वा उपस्थानं कृतम् इति / यदि ब्रूयान् नेति / स वक्तव्यः / पृथङ् महाराज गृहिणां गृहकार्याणि / पृथक् प्रव्रजितानाम्* / अल्पोत्सुकस् त्वं तिष्ठ / सब्रह्मचारिणाम् एष लाभः प्रापद्यते / निरस्तव्यापारो भवेति / एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येन राजा प्रसेनजित् कोसलस् तेनोपसंक्रान्तः / उपसंक्रम्य यथासन्दिष्टं निवेदितवान्* / राजा कथयति / भदन्तानन्द यथा भगवान् आज्ञापयति तथा भवतु / निरस्तव्यापारो ऽहम् इति /

तत आयुष्मतानन्देन राज्ञः प्रतिसन्देशो भगवते निवेदितः / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / भाजयत यूयं भिक्षव उपनन्दस्य भिक्षोर् मृतपरिष्कारम् इति / भिक्षुभिः संघमध्ये अवतार्य विक्रीय भाजितम्* / साकेतकैर् भिक्षुभिः श्रुतम्* / उपनन्दः कालगतः / तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षा भिक्शुभिर् भाजिता इति / ते त्वरमाणाः श्रावस्तीम् आगताः कथयन्ति / अस्माकम् अपि भदन्तोपनन्दः सब्रह्मचारी / अस्माकम् अपि तत्सन्तको लाभः प्रापद्यत इति / भिक्षुभिः पातयित्वा तैः सार्धं पुनर् अपि भाजितः / एवं षण् (msv ii 120) महानगरनिवासिनो भिक्षवः सन्निपतिताः / वैशालकाः वाराणसीयाः राजगृहेयकाः चांपेयिकाश् च / भिक्षुभिः पुनः पुनः पातयित्वा भाजितः / भिक्षवः पातयन्तो भाजयन्तश् च रिञ्चन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम्* / एतत् प्रकरणं भगवत आरोचयन्ति / भगवान् आह / पञ्च करणानि लाभविभागे / कतमे पञ्च / गण्डी त्रिदण्डकं चैत्यं शीलाका ज्ञप्तिः पञ्चकम्* / यो मृतगण्ड्याम् आकोट्यमानायाम् आगच्छति तस्य लाभो देयः / एवं त्रिदण्डके भाष्यमाने चैत्यवन्दनायां क्रियमाणायां शीलाकायाम् आचर्यमाणायाम्* / तस्मात् तर्हि भिक्षवः सर्वं मृतपरिष्कारं ज्ञप्तिं कृत्वा भाजयितव्यम्* / अकोप्यं भविष्यति / एवं च पुनः कर्तव्यम्* / शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावत् सर्वसंघे सन्निषण्णे सन्निपतिते मृतपरिष्कारं वृद्धान्ते स्थापयित्वा एकेन भिक्षुणा वृद्धान्ते निषण्णेन ज्ञप्तिः कर्तव्या / शृण्वन्तु भदन्ताः संघाः / (268व्1 = ग्ब्म् 6.849) अस्मिन्न् आवासे उपनन्दो भिक्षुः कालगतः /

तस्येदं मृतपरिष्कारं दृश्यम् अदृश्यं चावतिष्ठते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उपनन्दस्य भिक्षोर् मृतद्रव्यं दृश्यम् अदृश्यं च मृतपरिष्कारिकम् अधितिष्ठेद् इत्य् एषात्र ज्ञप्तिः / एषा भिक्षवो मृतपरिष्कारविभागनिष्ठा यदुत ज्ञप्तिः / ज्ञप्तौ कृतायां यो भिक्षुर् आगच्छति लाभो न देय इति / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / यत्र यत्र भदन्त संघवृत्तः ज्ञप्तिकारको नास्ति तत्र मृतपरिष्कारिकं भाजयितव्यम्* / न भाजयितव्यम्* / उपालिन् (msv ii 121) पूर्वाचरमं कृत्वा भाजयितव्यम्* / पूर्वाचरमम् अपि भिक्षवो न जानन्ति / भगवान् आह / एकं परिष्कारं विक्रीय ततः स्तोकं संघवृद्धाय संघनवकाय च दत्वा यथेष्टं भाजयितव्यम्* / नात्र कौकृत्यं करणीयम्* / ज्ञप्तौ च कृतायां पूर्वाचरमे वा मृतपरिष्कारिको लाभः सर्वबुद्धशिष्येभ्यः प्रापद्यत इति /

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्तायुमान् उपनन्दः अतिलोभेन विपन्नः / भगवान् आह / न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अतिलोभेन विपन्नः / तच् छ्रूयताम्* /

भूतपूर्वं भिक्षवो ऽन्यतमेन लुब्धेन हस्ती सविषेण शरेण मर्मणि ताडितः / ततस् तेन मर्मवेदनाभ्याहतेन शरानुसारेण गत्वा स लुब्धो जीविताद् व्यपरोपितः / यावद् दैवयोगात्* पञ्चमात्राणि चौरशतान्य् अन्यतमं कर्वटकं मुषित्वा तं प्रदेशम् अनुप्राप्तानि / तैर् असौ हस्ती दृष्टः / स कृच्छ्रकालो वर्तते / ते कथयन्ति / भवन्तः संपन्नम् इदं मांसम्* / अर्धतृतीयानि शतानि हस्तिनं विशस्य मांसं पचन्तु / अर्धतृतीयानि शतानि पानीयम् आनयन्त्व् इति / तत्र ये विशसन्ति पचन्ति च तेषाम् (msv ii 122) एतद् अभवत्* / भवन्तो ऽस्माभिर् ईदृशं कर्म कृतम्* / इदं च लोप्त्रं प्रभूतं संपन्नकम्* / यावदाप्तं मांसं भक्षयित्वा अवशिष्टं विषेण दूषयिष्यामः / किमर्थं तेषाम् अनुप्रयच्छामः / लोप्त्रम् अस्माकं भविष्यति / ते विषदूषितं मांसं भक्षयित्वा प्राणैर् वियोक्ष्यन्तीति / तैर् यावदाप्तं मांसं भक्षयित्वावशिष्टं विषेण दूषितम्* / ये ऽपि पानीयस्य गातास् तैर् अप्य् एवम् एव विचार्य यावदाप्तं पानीयं पीत्वावशिष्टं विषेण दूषितम् अदायागताः / यैर् मांसं भक्षितं तैः पानीयं पीतम्* / यैर् अपि पानीयं पीतं तैर् अपि मांसं भक्षितम्* / सर्वे ते कालगाताः / यावद् अन्यतमः शृगालः कालपाशपाशितस् तं प्रदेशम् अनुप्राप्तम्* / तेन ते सर्वे मृता दृष्टाः / ततो लोभसौमनस्यः संलक्षयति / संपन्नो मे प्रभूतो लाभः / आनुपूर्वी कर्तव्या इति / स धनुषो (269र्1 = ग्ब्म् 6.850) ऽटनिं मुखे प्रक्षिप्य स्नायुं भक्षयितुम् आरब्धः / ततः स्नायुश् छिन्ना / अटन्या तालु च्छिद्रितम्* / कालगतः /

देवता गाथां भाषन्ते /

संचयः खलु कर्तव्यो न कार्यस् त्व् अतिसंचयः / पश्य संचयलोभान्धो हतश् च येन जम्बुकः /

किं मन्यध्वे भिक्षवो यो ऽसौ जम्बुक एष एवासाव् उपनन्दस् तेन कालेन तेन समयेन / तदाप्य् एषो ऽतिलोभेन विपन्नः / एतर्ह्य् अपि एषो ऽतिलोभेन विपन्न इति /

श्रावस्त्यां निदानम्* / तेन खलु समयेनान्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानः तस्य भिक्षुणा उपस्थानम् कृतम्* / (msv ii 123) तथापि कालगतः / तस्य पात्रचीवरं वृद्धान्ते नीतम्* / तत्रैकं चीवरं केनापि नाशितम्* / मक्षिकाभिर् आकीर्णम्* / ततश् चीवरभाजकेनासाव् उपस्थायिको ऽभिहितः / आयुष्मन्न् अलसस् त्वम्* / न त्वयैतच् चीवरं शोचितम्* / शोचय / स कथयति / त्वं परिष्कारं भाजयिष्यसि / अहं शोचयिष्यामि / त्वम् एव शोचय / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / ग्लानोपस्थायिकस्य षट् परिष्कारा दातव्याः / अवशिष्टं भिक्षुभिर् भाजयितव्यम्* / उपस्थायिकाश् चेद् बहवो भवन्ति सर्वैः षट् परिष्काराः सामान्यं भाजयितव्याः /

अपरे भिक्षवो ज्ञातमहापुण्याः कालं कुर्वन्ति / तेषां बहवः परिष्काराः श्रामण्यपरिष्कारा जीवितपरिष्काराश् च / वृद्धान्ते ऽभिरोहिताः / उक्तं भगवता / उपस्थायकेन षट् परिष्कारा ग्रहीतव्या इति / स विचार्य विचार्य प्रणीतानि गृह्णाति / भगवान् आह / न प्रणीतानि दातव्यानि / भिक्षवो लूहानि ददति / भगवान् आह / न लूहानि दातव्यानि / अपि तु मध्यानि दातव्यानिति /

ग्लानाः असंविदिता एव सांघिके शयनासने कालं कुर्वन्ति / भगवान् आह / ग्लानोपस्थायकेन ग्लानस्य निमित्तं कुशलेन भवितव्यं मुहुर् मुहुः प्रत्यवेक्षितव्यः कृत्यस्य न हापयितव्यम्* / शरीरावस्थां ज्ञात्वा पौद्गलिके शयनासने व्याजेनावतार्य शायितव्य इति /

श्रावस्त्यां निदानम्* / अन्यतमो भिक्षुर् ग्लानस् तेन शरीरावस्थां परिच्छिद्य भिक्षुर् अभिहितः / यावद् अहं जीवामि तावद् उपस्थानं कुरु / मदीयं पात्रचीवरं मृते मयि तव यथासुखम् इति / स तस्योपस्थानं कर्तुम् आरब्धः / यावद् असौ भिक्षुः कालगतः / ततश् चीवरभाजकेनासौ उक्तः / आनय तस्य भिक्षोः पात्रचीवरम्* / भाजयामि / स कथयति / ममैव तेन यथासुखं कृतम् इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / जीवन्न् एवासौ भिक्षवो न ददाति / कुतः पुनर् मृतो दास्यति / (269व्1 = ग्ब्म् 6.851) नास्तीदं दानं ममात्ययाद् अस्य भविष्यति / गृहीत्वा भाजयितव्यम्* / तस्यात्र भिक्षवो सुप्रत्यंशो देय इति /

तेन खलु समयेनान्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानः / स चाल्पज्ञातः / तस्य भैषज्यं नास्ति / तेन शरीरावस्थां परिच्छिद्य उपस्थायिको ऽभिहितः / मम नास्ति किंचित्* / माम् उद्दिश्य पूजां कुरुष्वेति / तेन प्रतिज्ञातम्* / स कालगतः / अपायेषूपपन्नः / अथ भगवान् भिक्षून् आमन्त्रयते स्म / यो ऽसौ भिक्षवो भिक्षुः कालगतः किं तेनोपस्थायिको ऽभिहितः / तैर् यथावृत्तम् आख्यातम्* / विनिपतितो ऽसौ भिक्षवो भिक्षुः / यदि तस्य सब्रह्मचारिभिः रत्नत्रयपूजा कृताभविष्यत्* चित्तम् अस्याभिप्रसन्नम् अभविष्यत्* / तस्मान् न भिक्षुणा ग्लानसब्रह्मचारी अध्युपेक्षितव्यः / ग्लानोपस्थायिको दीयते / तद् यद्य् अस्य भैषज्यं नास्ति तं पृष्ट्वा (msv ii 125) दानपतयः समादापयितव्याः / सचेत् संपद्यत इत्य् एवं कुशलम्* / नोचेत् संपद्यते सांघिकं देयम्* / सचेत् संपद्यत इत्य् एवं कुशलम्* / नोचेत् संपद्यते बुद्धाक्षयनीविसन्तिकं देयम्* / सचेत् अपि न संपद्यते यत् तथागतचैत्ये वा गन्धकुट्यां वा छत्रं वा ध्वजं वा पताका वा आभरणकं वा संघेन दानीयं दातव्यम् इति / उपस्थायिकेन विक्रीयोपस्थानं कर्तव्यं शास्तुश् च पूजा / स्वस्थीभूतस्यारोचयितव्यं यद् बुद्धसन्तकं तवोपयुक्तम् इति / यद्य् अस्य विभवो ऽस्ति / तेन यत्नम् आस्थाय दातव्यम्* / सचेन् नास्ति यद् अस्योपयुक्तम्* / अर्हति पुत्रः पैतृकस्य / नात्र कौकृत्यं करणीयम् इति /

श्रावस्त्यां निदानम्* / अन्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानो वेदनाभिभूतः / तस्य पात्रं शोभनम्* / स तस्मिन् अतीवाध्यवसितः / उपस्थायकम् आह / आनय मे पात्रम् इति / तेन न दत्तम्* / स तस्यान्तिके चित्तं प्रदूष्य पात्रे ऽध्यवसितः कालगतः / स तस्मिन्न् एव पात्रे आशीविषो भूत्वा उत्पन्नः / भिक्षवस् तम् आदहनं नीत्वा संस्कार्य विहारम् आगताः / भिक्षुः संनिपतितः / चीवरभाजकेन मृतपरिष्कारिकं वृद्धान्ते ऽभिरोहितम्* / तत्र भगवान् आयुष्मन्तम् (msv ii 126) आनन्दम् आमन्त्रयते स्म / गच्छानन्द / भिक्षूणाम् आरोचय / न केनचित् तस्य भिक्षोः पात्रस्थविका मोचयितव्या / तथागत एव मोचयिष्यति / आयुष्मतानन्देन भिक्षूणाम् आरोचितम्* / ततो भगवता स्वयम् एव मोचितः / आशीविषो महान्तं फणं कृत्वावस्थितः / ततो भगवता ऋच्छटाशब्देन प्रबोध्याभिहितः / गच्छ मोहपुरुष / त्यजैनं पात्रम्* / भिक्षवो भाजयन्तु इति / स कुपितो यथेष्टगतिप्रचारतया वनगहनं (270र्1 = ग्ब्म् 6.852) प्रविष्टः / स तस्मिन् क्रोधाग्निना प्रज्वलितः / तद् वनगहनं प्रदीप्तम्* / तत्रैव दग्धो भिक्षूणाम् अन्तिके चित्तम् अभिप्रदूष्य नरकेषूपपन्नः / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / निर्विद्यतां भिक्षवः सर्वभवेभ्यो निर्विद्यतां सर्वभवोपपत्तिकरणेभ्यः / यत्र नामैकस्य सत्वस्य त्रिषु स्थानेषु कायो दह्यते / वनगहने क्रोधाग्निना / नरके नारकेण / श्मशाने प्राकृतेन / तस्मान् न भिक्षूणा परिष्कारे ऽत्यर्थम् अध्यवसानम् उत्पादयितव्यम्* / यस्मिन्न् उत्पद्यते तत् परित्यक्तव्यम्* / न परित्यजति / सातिसारो भवति / अपि तु यदि ग्लानः स्वं परिष्कारं याचते / उपस्थायकेन लघुलघ्व् एव दातव्यम्* / न ददाति / सातिसारो भवति /

श्रावस्त्यां निदानम्* / तेन खलु समयेनान्यतमो भिक्षुर् ग्लानो लयने कालगतः / अमनुष्यकेषूपपन्नः / चीवरभाजको भिक्षुस् तं लयनं प्रवेष्टुम् आरब्धः / पात्रचीवरं भाजयामीति / स तीव्रेण पर्यवस्थानेन लगुडम् आदायोत्थितः कथयति / यावन् माम् अभिनिर्हरथ (msv ii 127) तावत् पात्रचीवरं भाजयथेति / स संत्रस्तो निष्पलायितः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / पूर्वं तावन् मृतो भिक्षुर् अभिनिर्हर्तव्यः पश्चात् तस्य पात्रचीवरं भाजयितव्यम् इति /

श्रावस्त्यां निदानम्* / तेन खलु समयेनान्यतमो भिक्षुर् कालगतः / भिक्षवस् तम् अभिनिर्हृत्य एवम् एव श्मशाने छोरयित्वा विहारम् आगतः / चीवरभाजकस् तस्य लयनं प्रविष्टः / पात्रचीवरं भाजयामीति / सो ऽमनुष्यकेषूपपन्नः / लगुडम् आदायोत्थितः / स कथयति / यावन् मम शरीरपूजां कुरुथ तावत् पात्रचीवरं भाजयथेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / भिक्षुभिस् तस्य पूर्वं शरीरपूजा कर्तव्येति / ततः पश्चात् पात्रचीवरं भाजयितव्यम्* / एष आदीनवो न भविष्यतीति /

श्रावस्त्यां निदानम्* / तेन खलु समयेनान्यतमो भिक्षुर् ग्लानो लयने कालगतः / स भिक्षुर् आदहनं नीत्वा शरीरपूजां कृत्वा दग्धः / ततो विहारम् आगतः / चीवरभाजकस् तस्य लयनं प्रविष्टः / स लगुडम् आदायोत्थितः / तत् तावन् माम् उद्दिश्य धर्मश्रवणम् अनुप्रयच्छथ तावच् चीवरकाणि भाजयथेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / तम् उद्दिश्य धर्मश्रवणं दत्वा दक्षिणाम् उद्दिश्य पश्चाच् चीवरकाणि भाजयितव्यानीति /

उद्दानम्* /

ग्लानकश् चाथ श्रेष्ठी च प्रतिवस्तु नवकर्मिकः / सीमा चतुष्किकां कृत्वा अष्टौ दूतेन कारयेत्* /

श्रावस्त्यां निदानम्* / तेन खलु समयेनान्यतमेन (270व्1 = ग्ब्म् 6.853) गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः / भिक्षुसंघः प्रविष्टः / भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः / पंचभिः कारणैर् बुद्धा भगवन्तः औपधिके तिष्ठन्त्य् अभिनिर्हृतपिण्डपाताः / कतमैः पंचभिः / प्रतिसंलातुकामा भवन्ति / देवतानां धर्मं देशयितुकामा भवन्ति / शयनासनं प्रत्यवेक्षितुकामा भवन्ति / ग्लानम् अवलोकयितुकामा भवन्ति / श्रावकाणां विनयशिक्षापदं प्रज्ञपयितुकामा भवन्ति / अस्मिंस् त्व् अर्थे द्वाभ्यां कारणाभ्यां बुद्धो भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः /

अथ भगवान् अचिरप्रक्रान्तं भिक्षुसंघं विदित्वा अपावरणीं गृहीत्वा आरामेणारामं विहारेण विहारं परिगणेन परिगणं चंक्रमेण चंक्रमम् अनुचंक्रम्यमाणो ऽनुविचरति / अनेनान्यतमो महल्लको विहारस् तेनोपसंक्रान्तः / तत्र भिक्षुर् बाढग्लानः अल्पज्ञातः स्वे मूत्रपुरीषे निमग्नो भगवन्तं दृष्ट्वापरस्वरम् अकार्षीत्* / अनाथो ऽस्मि भगवन्* / अनाथो ऽस्मि सुगत इति / भगवान् आह / कस्मात् त्वं भिक्षो मां त्रैलोक्यनाथम् उद्दिश्य प्रव्रजित एवं विरौषि / अनाथो ऽस्मि भगवन्* / अनाथो ऽस्मि सुगत इति / न मे भदन्त कश्चित् सब्रह्मचारी उपस्थानं करोत्य् अवलोकयति वा / अस्ति त्वया भिक्षो कस्यचित् (msv ii 129) सब्रह्मचारिण उपस्थानं कृतम् अवलोकितं वा / नो भदन्त / अत एव ते इयं समवस्था / भगवां लौकिकचित्तम् उत्पादयति / अहो बत शक्रो देवेन्द्रो ऽनवतप्तान् महासरः पानीयम् आदाय गन्धमादनाच् च पर्वतान् मृत्तिकाम् आनयेद् इति / धर्मता खलु यस्मिन् समये भगवां लौकिकं चित्तम् उत्पादयति तस्मिन् समये शक्रब्रह्मादयो ऽपि देवा भगवतश् चित्तम् आजानन्ति / ततः शक्रो देवेन्द्रः अनवतप्तान् महासरसः अष्टांगोपेतस्य पानीयस्य सौवर्णं भृङ्गारम् आदाय गन्धमादनाच् च पर्वतान् मृत्तिकां लघुलघ्व् एव भगवतः पुरस्ताद् अस्थात्* / एवं चाह / तिष्ठतु भगवान् अहम् अस्योपस्थानं करोमि / भगवान् आह / नैष कौशिकम् उद्दिश्य प्रव्रजितः किं तु माम्* / अपि तु किं त्वयैष पूर्वं न दृष्टः / तिष्ठ त्वम्* / शुचिकामा देवाः / अहम् एवास्योपस्थानं करोमि /

ततो भगवता चीवरं बद्ध्वा चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरणकरेणासौ भिक्षुर् गृहीत्वा मूत्रपुरीषाद् उद्धृत्य एकान्ते स्थापितः / वंशविदलिकया निर्लिखितः / पाण्डुमृत्तिकया उद्वर्तितः स्नापितः / ततः स्थापितः / (271र्1 = ग्ब्म् 6.854) चीवरकाण्य् अस्य प्रक्षालितानि / तस्मिन् प्रदेशे सुकुमारी गोमयकार्षी दत्ता / ततो हस्तपादौ संप्रशोध्य शक्रं देवेन्द्रं ग्लानोपस्थानपूर्विकया (msv ii 130) धर्मदेशनया सन्देश्य समादाप्य विहारं प्रविष्टः / आयुष्मान् आनन्दः पिण्डपातनिर्हारकः पिण्डपातम् आदाय भगवत्सकाशम् उपसंक्रान्तः / धर्मता खलु बुद्धा भगवन्तः पिण्डपातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया प्रतिसंमोदन्ते / कच्चिद् भिक्षो प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति / प्रतिसंमोदते भगवान् आयुष्मन्तम् आनन्दम्* / कच्चिद् आनन्द प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति / तथ्यं भदन्त / प्रणीतं भक्तं संतर्पितो भिक्षुसंघः / ततो भगवान् उपार्धपिण्डपातम् आदायायुष्मन्तम् आनन्दम् आमन्त्रयते / गच्छ आनन्द अमुष्मिन् विहारे बाढग्लानो भिक्षुः / तस्मै देयम् उपार्धपिण्डपातम्* / यद् भूंक्ते चैनं वक्तव्यः / शास्त्रा ते आयुष्मन् स्वयम् एवोपस्थानं कृतम्* / उपार्धपिण्डपातेन च संविभागः कृत इति / एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्योपार्धपिण्डपातम् आदाय तस्मै दत्वा यथासन्दिष्टम् आरोचितवान्* /

अथ तस्य भिक्षोर् एतद् अभवत्* / मम त्रैलोक्यगुरुणा स्वयम् उपस्थानं कृतम् उपार्धपिण्डपातश् च दत्तः / न मम प्रतिरूपं स्याद् यद् अहं श्रद्धादेयं परिभुज्य कौसीद्येनातिनामयेयम्* / यन्व् अहं पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तो विहरेयम् इति / तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता इदम् एव च पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकिरणविध्वंसनधर्मतया (msv ii 131) पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति / अर्हन् संवृत्तः / त्रैधातुके वीतरागः समलोष्ट्रकांचनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पो ऽविद्याविदारिताण्डकोशो विद्याभिज्ञः प्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरांमुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः /

तत्र भगवान् भिक्षून् आमन्त्रयते / एषां भिक्षवो ग्लानानां न माता न पिता न चान्यो बन्धुः नान्यत्र यूयम् एव सब्रह्मचारिणः / तस्मात् सब्रह्मचारिभिः पस्रस्परम् उपस्थानं करणीयम्* / उपाध्यायेन सार्धंविहारिणः / सार्धंविहारिणा उपाध्यायस्य / आचार्येणान्तेवासिनः / अन्तेवासिना आचार्यस्य / समानोपाध्यायेन समानोपाध्यायस्य / समानाचार्येण समानाचार्यस्य / आलप्तकेनालप्तकस्य / संलप्तकेन संलप्तकस्य / (271व्1 = ग्ब्म् 6.855) संस्तुकेन संस्तुकस्य / सप्रेमकेन सप्रेमकस्य / यः पर्षद्विनिर्मुक्तो ऽल्पज्ञातश् च तस्य संघेनोपस्थायिको देयः / ग्लानावस्थां परिच्छिद्य एको वा द्वौ वा संबहुला वा / अन्ततः सर्वसंघेनोपस्थानं करणीयम्* /

भिक्षवः संशयजाताः सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्त भगवता तस्य भिक्षोः स्वयम् एवम् उपस्थानं कृतम्* / तेन चार्हत्वं साक्षात्कृतम् इति / भगवान् आह / न भिक्षव एतर्हि (msv ii 132) यथा अतीते ऽप्य् अध्वनि तस्य मया उपस्थानं कृतम्* / तेन च पञ्चाभिज्ञाः साक्षात्कृताः /

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन्न् आश्रमपदे पुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते ऋषिः प्रतिवसति पञ्चाभिज्ञः / तेन शिष्यस्योपस्थानं कृतम्* / स्वस्थीभूतः / ततस् तेन पञ्चाभिज्ञाः साक्षात्कृताः / किं मन्यध्वे भिक्षवः / यो ऽसौ तेन कालेन तेन समयेन ऋषिर् आसीद् अहं सः / यो ऽसौ तस्य ऋषेः शिष्य एष एवासौ भिक्षुः / तदाप्य् अस्य मया उपस्थानं कृतम् एतर्ह्य् अप्य् अस्य मया उपस्थानं कृतम्* /

पुनर् अपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्तातीव भगवतो ग्लानकः प्रिय इति / भगवान् आह / न भिक्षव एतर्हि यथा अतीते ऽध्वनि ममातिव ग्लानकाः प्रियाः / तच् छ्रूयताम्* /

भूतपूर्वं भिक्षवः शिवघोषायां राजधान्यां सिविर् नाम राजा राज्यं कारयति / ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च / तस्य नास्ति किंचिद् अपरित्याज्यं याचनकेभ्यो विशेषतस् तु ग्लानेभ्यः / यावद् अन्यतमो गृहपतिर् ग्लानः सर्ववैद्यप्रत्याख्यातो राज्ञः सकाशं गतः / देव चिकित्सां मे कारय इति / ततो राज्ञा वैद्यानाम् आज्ञा दत्ता / भवतो ऽस्य चिकित्सां कुरुतेति / ते कथयन्ति / देव दुर्लभान्य् अस्य भैषज्यानीति / राजा कथयति / कीदृशानि पुनस् तानि भैषज्यानि / देव यः कदाचिज् जन्मनः प्रभृति न कस्यचिद् रुषितपूर्वस् तस्य रुधिरेण यवागूः षण्मासान् दातव्या / एवम् अस्य स्वास्थ्यं भवति / नान्यथेति / राजा कथयति / सत्यं दुर्लभम् अस्य भैषज्यम्* / स आत्मनः (msv ii 133) प्रचारं परिच्छेत्तुम् आरब्धः / दुःखम् आत्मनः प्रचारः परिच्छिद्यते / स धात्रीं प्रष्टुम् आरब्धः / अम्ब अस्त्य् अहम् इयता कालेन कस्यचिद् रुषितपूर्वः / कुमार यदा त्वं ममांसगतस् तदाहम् अपि न कस्यचिद् रुषितपूर्वा प्राग् एव त्वम् इति / ततो जनन्याः सकाशम् उपसंक्रान्तः / कथयति / अम्ब अस्त्य् अहं कस्यचिद् रुषितपूर्वः / कुमार यदा त्वं मम कुक्षिगतस् तदाहम् अपि न कस्यचिद् रुषितपूर्वा प्राग् एव त्वम् इति / स संलक्षयति (272र्1 = ग्ब्म् 6.856) / लब्धं भैषज्यम् इति विदित्वा तेन वैद्यानाम् आज्ञा दत्ता / भवन्तो मयात्मा परीक्षितः / अहं न कदाचित् कस्यचिद् रुषितपूर्वः / मम पंचेङ्खिकशिरावेधं कुरुत / देव वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं न निपातयामः / कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु / राज्ञा स्वयम् एव शिरावेधः कृतः / तेन च रुधिरेण षण् मासान् प्रतिदिनं तस्मै यवागूर् दत्ता / स्वस्थो जातः / किं मन्यध्वे भिक्षवः / यो ऽसौ राजा अहं स तेन कालेन तेन समयेन / तदापि मे ग्लानकाः प्रियाः प्राग् एवेदानीम्* /

पुनर् अपि शिवे राज्ञः पुत्रस्य पार्श्वशोषो जातः / राज्ञा वैद्यानाम् आज्ञा दत्ता / भवन्तो ऽस्य कुमारस्य चिकित्सां कुरुतेति / ते कथयन्ति / देव सर्वसारं घृतं पच्यताम्* / इति विदित्वा द्वादशभिर् वर्षैः सर्वद्रव्याणि समुपानीतानि / अद्यापि जीवजीवकमांसं न लभ्यते / वैद्यैः शाकुन्तिकानाम् आज्ञा दत्ता / आगच्छत / आदर्शकं (msv ii 134) कुक्कुटकं च गृहीत्वा समुद्रतटं गच्छत / तत्र पाशान् पातयित्वा कुक्कुटकस्य पुरस्ताद् आदर्शं स्थापयत / कुक्कुटः स्वं प्रतिबिम्बं दृष्ट्वा कुक्कुटो ऽयम् इति रविष्यति / कौतूहली जीवजीवकः कुक्कुटशब्दं श्रुत्वा कुक्कुटसमीपम् आगमिष्यति / अयं तस्य बन्धनोपाय इति / तैस् तथा कृतम्* / यावत् कर्मपाशितो जीवजीवकः प्राणी बद्धः / ते तम् आदाय संप्रस्थिताः / धर्मता ह्य् एषा अचिरव्यतिवृते लोकसन्निवेशे तिर्यञ्चो ऽपि वाक्प्रव्याहरणसमर्था भवन्ति / जीवजीवकः प्राणी कथयति / भवन्तः कुत्र मां नयथ / तैर् यथावृत्तं समाख्यातम्* / स कथयति / मुंचत मुंचत माम्* / मांसबलो नाम औषधी कथयसि रत्नानि वेति / ते कथयन्ति / उपदर्शय तावत् पश्यामः कीदृशास् ता ओषधय इति / तेन समाख्यातम्* / मदीयस्नानोदकं मांसबलम्* / तदादाय गच्छ / इमानि च रत्नानीति / ते राज्ञः शंकिताः / रत्नान्य् अपास्य तम् एव जीवजीवकम् आदाय संप्रस्थिताः / अनुपूर्वेण शिवघोषां राजधानीम् अनुप्राप्ताः / तैर् जीवजीवकप्राणी राज्ञ उपनामितः / यच् च तेनौषधम् आदिष्टं तच् च कथितम्* / ततो राज्ञा जीवजीवकः पृष्टः / कथयति / देव मम स्नानोदकं मांसबलम् इति / राज्ञा सप्त उदकमणयः शोभनाम्भसः पूर्णाः स्थापिताः / स तेषु यावत् स्नातो यावत् सुविश्रान्तो जातः / ततः कायस्य बलं ज्ञात्वा सहसा उत्फ्लुत्य शरणपृष्ठम् अभिरूढो विगतभयभैरवो गाथां भाषते /

पूर्वं तावद् अहं मूर्खः पश्चाच् (272व्1 = ग्ब्म् 6.857) छाकुन्तिका इमे / ततो राजा च वैद्याश् च संपूर्णं मूर्खमण्डलम्* //

इत्य् उक्त्वा प्रक्रान्तः / ततो राज्ञा वैद्या आहूय पृष्टाः / भवन्तः सत्यम्* / भवन्तः जीवजीवकस्य स्नानोदकं तन्मांसेन समबलम् इति / ते कथयन्ति / देव सत्यम्* / पचत घृतम्* / तैः सर्वसारं घृतं पक्वम्* / राजपुत्र उपयोक्तुं प्रवृत्तः / यावद् अन्यतमस्मिन् हिमवत्कन्दरे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्रैकस्य पार्श्वशोषो जातः / स तैः प्रत्येकबुद्धैर् अभिहितः / आयुष्मन् जनपदान् गत्वा वैद्यं पृष्ट्वा भैषज्यं सेवस्व / स्वस्थो भविष्यसीति / कथयति / आयुष्मन्त आगमिष्यन्ति / स धर्मो बहुजनानिष्टो बहुजनाकान्तो बहुजनाप्रियो बहुजनामनापः सर्वसत्वाधारणः यदुत मरणं नाम यो मां स व्याधिना नेष्यति / कस्यार्थाय ग्रामान्तम् अवसरामीति / ते कथयन्ति / आयुष्मन् यद्य् अप्य् एवं यथापि यावच् छीलवान् पुरुषपुद्गलश् चिरं जीवति तावद् बहुपुण्यं प्रसूयते / यावद् बहुपुण्यं प्रसूयते तावच् चिरं स्वर्गेषु मोदते / स तैर् उपरुध्यमानो जनपदाद् अवतीर्णः / अनुपूर्वेण शिवघोषां राजधानीम् अनुप्राप्तः / ततो मार्गश्रमं प्रतिविनोद्य वैद्यसकाशं गतः / भद्रमुख ममेदृशो रोगः / भैषज्यं व्यपदिश इति / स कथयति / आर्य यादृश एवायं तव रोगस् तादृश एव राज्ञ पुत्रस्य / द्वादशभिर् वर्षैः सर्वसारं घृतं पक्वम्* / गत्वा प्रार्थय / यद्य् अप्य् एतत् ते मण्डम् अपि (msv ii 136) भाग्यविशेषात् प्रतिलभ्यसे तेन ते याप्यं भविष्यतीति / स राजकुलद्वारं गत्वावस्थितः / आचरितं तस्य राज्ञः / घण्टा द्वारे नित्यं प्रलम्बिता / याचनकजननिवेदी / यदा याचनको द्वारे तिष्ठति तदासौ रौति /

यावद् असौ घण्टा प्रत्येकबुद्धम् आगतं निवेदयन्ती रटितुम् आरब्धा / ततो राजपुत्रः कथयति / अम्ब तात यावनको ऽभ्यागतः / विचार्यतां किं प्रार्थयतीति / तौ कथयतः / पुत्र अस्माभिर् द्वादशभिर् वर्षैर् द्रव्यसंहारं कृत्वा इदं घृतं पक्वम्* / पिब तावत् पश्चाद् याचनकं प्रवेशयामः / विचारयिष्यामः किं प्रार्थयतीति / तस्य कृतकुतूहलस्वस्त्ययनस्य घृतं पातुकामस्य याचनकभाजनाशामर्मसंघट्टितशरीरस्य तद् वृत्तं न रोचते / कथयति च / अम्ब तात न तावपरिभोक्ष्ये यावद् याचनकः प्रविशत इति / राज्ञा दौवारिकस्याज्ञा दत्ता / याचनकं प्रवेशय इति / स प्रवेशितः / राजपुत्रेण दृष्टः / कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेनेर्यापथेनावतीर्णः / स कथयति / आर्यकेण किं प्रयोजनम्* / तेन विस्तरेण समाख्यातम्* / स कथयति / आर्य त्वम् एव मण्डार्हो नाहम्* / गृहाण / ददामीति / तेन पात्रं प्रसारितम्* / राजपुत्रेण तीव्रेणाशयेन (273र्1 = ग्ब्म् 6.858) तस्मै तन्मण्डो दत्तः / तेनापि महात्मना सर्वसत्वहितानुगतं राजपुत्रेण चित्तम् उत्पादितम्* / ऋध्यति शीलवतश् चेतःप्रणिधानम्* / तच् च विशुद्धत्वाच् छीलस्येति / उभाव् अपि स्वस्थौ संवृत्तौ / किं मन्यध्वे भिक्षवो यो ऽसौ राजकुमारः (msv ii 137) अहम् एव स तेन कालेन तेन समयेन / तदापि मे ग्लानकाः प्रियाः प्राग् एवेदानीम्* /

किं भदन्त तेन राजपुत्रेण तेन च प्रत्येकबुद्धेन कर्म कृतं येन तयोर् युगपद् व्याधिर् उत्पन्नो युगपच् च व्युपशान्तिर् इति / भगवान् आह / तस्याम् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि अवश्यंभावीनि / न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते / नाब्धातौ / न तेजोधातौ / न वायुधातव् अपि / भूधातुष्व् एव स्कन्धधात्व् आयतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च /

न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* //

भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव / तस्य द्वौ पुत्रौ / तयोर् यः कनीयान् स राज्याभिनन्दी / पुरोहितस्यापि द्वौ पुत्रौ / तयोर् अपि कनीयान् स पौरोहित्यं प्रार्थयते / धातुशः सत्वाः संस्यन्दन्त इति तयोः परस्परं सख्यम् उत्पन्नम्* / राजपुत्रः कथयति / क उपायः स्याद् येनाहं राजा भवेयम्* / स कथयति / अस्त्य् उपायः / यदि त्वं मां पौरोहित्ये स्थापयसि (msv ii 138) कथयामीति / स कथयति / एवं भवतु / कथय / स्थापयामीति / स कथयति / अहं तव भ्रातरं व्यंगं करोमि / त्वं राजा भवसीति / तेनानुमोदितम्* / ततस् तेन तस्य ज्येष्ठस्य राजपुत्रस्य भैषज्यं दत्तम्* / व्यंगीभूतम्* / अपरेण समयेन राजा कालगतः / अमात्यैः स व्यंग इति कृत्वा कनीयान् राज्ये ऽभिषिक्तः / तेनाप्य् असौ कनीयान् पुरोहितपुत्रः पौरोहित्ये प्रतिष्ठापितः / यावद् अपरेण समयेन राजा पुरोहितेन सार्धं संलापेन तिष्ठति / राज्ञासौ भ्राता व्यंगो दृष्टः / तस्य तं दृष्ट्वा विप्रतिसार उत्पन्नः / न शोभनं मया कृतं यद् राज्यहेतोर् भ्राता व्यंगीकृत इति / पुरोहितः कथयति / देव ममापि विप्रतिआर उत्पन्नः / यदि देवस्याभिमतं पुनर् अप्य् एवं यथापौराणं करोमीति / स कथयति / कुरुष्वानुजाने / तेन तस्य भैषज्यं दत्तम्* / स्वस्थीभूतः / ततस् तौ प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कर्तुम् आरब्धौ / यदावाभ्याम् एवंविधे सद्भूतदक्षिणीये काराः कृता अस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जायेयहि / अस्य च पापस्य व्यंगीकरणस्य कर्मणो विपाकम् अनुभवेयम् इति (273व्1 = ग्ब्म् 6.859) / किं मन्यध्वे भिक्षवः /

यो ऽसौ राजपुत्रः अहम् एव स तेन कालेन तेन समयेन / यो ऽसौ पुरोहितपुत्रः एष एवासौ प्रत्येकबुद्धः / यत् ताभ्यां संजल्पं कृत्वा राजकुमारस्य भैषज्यं दत्तं तेन युगपद् व्यंगौ संवृत्तौ / यत् तु विप्रतिसाराभ्यां विचार्य पुनर् भैषज्यं दत्तं तेन युगपत् स्वस्थीभूतौ / इति हि (msv ii 139) भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः / एकान्तशुक्लानाम् एकान्तशुक्लः / व्यतिमिश्राणां व्यतिमिश्रः / तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्वाभोगाः करणीयः / इत्य् एवं वो भिक्षवः शिक्षितव्यम्* /

श्रावस्त्यां निदानम्* / तेन खलु समयेन श्रावस्त्यां श्रेष्ठिनामा गृहपतिर् आढ्यो महाधने महाभोगे विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी / तेन सदृशात् कुलात् कलत्रम् आनीतम्* / सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते / तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृंगाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते / अस्ति चैष लोकप्रवादः / यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति / तच् च नैवम्* / यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चकरवर्तिनः / अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च / कतमे त्रयाणाम्* / मातापितराउ रक्तौ भवतः / सन्निपतितौ / माता कल्या भवति ऋतुमती / गन्धर्वश् च प्रत्युपस्थितो भवति / एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च / यदास्य देवताराधनेनापि न पुत्रो न दुहिता तदा सर्वदेवताः प्रत्याख्याय भगवत्य् अभिप्रसन्नः / यावद् अन्यतमस्य भिक्षोः सकाशम् उपसंक्रान्तः / आर्य इच्छामि (msv ii 140) स्वाख्याते धर्मविनये प्रव्रजितुम्* / भद्रमुख एवं कुरु / स तस्यानुपूर्व्या केशावतरणं कृत्वा शिक्षापदानि ग्राहयितुम् आरब्धः / प्रव्रज्यान्तरायकरेण च महता ज्वरेणाभिभूतः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / उपस्थानम् अस्य करणीयम्* / न तावच् छिक्षापदानि देयानि यावत् स्वस्थः संवृत्तः / इत्य् उक्तं भगवता /

तस्योपस्थानं कर्तव्यम् इति हि भिक्षवो न जानन्ते केन कर्तव्यम् इति / भगवान् आह / भिक्षुभिः / वैद्यास् तस्य दिवा भैषज्यं कुर्वन्ति / रात्रौ (274र्1 = ग्ब्म् 6.860) ग्लान्यं वर्धते / ते कथयन्ति / आर्य वयम् अस्य दिवा चिकित्सिकां कुर्मः रात्रौ ग्लान्यं वर्धते / यद्य् एष गृहं नीयते वयम् अस्य रात्रौ चिकित्सां कुर्याम इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / गृहं नीयतां तत्राप्य् अस्योपस्थायिकान् अनुप्रयच्छत / तस्य तद् ग्लान्यं दीर्घकालीनं सम्वृत्तम्* / केशास् तस्य दीर्घदीर्घा जाताः / तस्य मुण्डो गृहपतिर् इति संज्ञा संवृत्ता / स यदा मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयमानो न स्वस्थीभवति तदा तेनात्मा परिच्छिन्नो मृतो ऽहम् इति / ततस् तेन मरणकालसमये सर्वं सन्तकस्वापतेयं पत्राभिलेख्यं कृत्वा जेतवने प्रेषितम्* / स च कालगतः / अमात्यैः राज्ञः प्रसेनजितः कोसलस्यारोचितम्* / देव मुण्डो गृहपतिर् अपुत्रः कालगतः / प्रभूतं चास्य हिरण्यसुवर्णम् अस्ति हस्तिनो ऽश्वा गावो महिष्यः सन्नाहानि च / एतच् च सर्वं पत्राभिलिखितं कृत्वा जेतनवनम् आर्यसंघाय प्रेषितम्* / राजा कथयति / आर्योपनन्दसन्तकम् एव मया अपत्राभिलिखितं (msv ii 141) न प्रतिलब्धं प्राग् एव पत्राभिलिखितं प्रतिलप्स्ये / अपि तु यद् भगवान् अनुज्ञास्यति तद् ग्रहीष्ये / एतत् प्रकरणं भगवत आरोचयन्ति / भगवान् आह / किं तत्र भिक्षवः संविद्यन्ते /

अन्तरोद्दानम्* /

वस्तुशयनासनप्रावरणम् अयोलोहं च चन्दनम्* / कुम्भानि पीतभक्षादि रंजनं यष्टिजम्बुकम्* //

द्विपदा चतुष्पदा यावत्* अन्नपानं च भैषज्यम्* / दासो वा प्रस्तरं लेख्यं यथायोगेन भाजयेत्* //

हिरण्यं च सुवर्णं च यच् चाप्य् अन्यत् कृताकृतम्* / समग्रः संघो भाजयेद् इति प्रोक्तं महर्षिणा //

भिक्षुभिः समाख्यातम्* / भगवान् आह / यथायोगेन भाजयितव्यम्* / तत्र क्षेत्रवस्तु गृहवस्त्व् आपणवस्तु / शयनासनम् अयस्कारभाण्डं लोहकारभाण्डं कुम्भकारभाण्डम्* / कुण्डिकाकरण्डकविवर्जितं तक्षभाण्डं वरुटभाण्डम्* / दासीदासकर्मकारपौरुषेयानाम् अन्नपानं व्रीहयश् चाविभाज्याः / चातुर्दिशाय भिक्षुसंघाय साधारणाः स्थापयितव्याः / शाटकाः पटका चर्मभाण्डम् उपानहस् तैलकुतुपाः कुण्डिकाकरकाश् (msv ii 142) च समग्रेण संघेन भाजयितव्याः / यष्टयो या आयतास् ता जम्बूच्छायिकाः प्रतिमाया ध्वजवंशाः कारयितव्याः / याः स्वल्पास् ताः खंखरकाः कृत्वा भिक्षूणां दातव्याः / पुत्रदारकं संघेन यथासुखम् अविक्रीय यथाभिप्रसादलब्धेन मोक्तव्याः / चतुष्पदानां हस्तिनो ऽश्वा उष्ट्राः खरा वेसराश् च राज्ञ उपयोगाः / महिष्यः अजा एडकाश् चातुर्दिशाय भिक्षुसंघाय (274व्1 = ग्ब्म् 6.861) साधारणा अविभाज्याः / यश् च सन्नाहो यच् चान्यत्र राजोपयोज्यं तत् सर्वं राज्ञ उपनामयितव्यम्* / स्थापयित्वायुधानि तैः शस्त्रकैः सूच्यः खंखरकाश् च कारयित्वा संघे चारयितव्याः / रंगाणां महारंगः कंकुष्टहिंगुलुकराजपट्यादयस् ते गन्धकुट्यां प्रक्षेप्तव्याः प्रतिमोपयोगिकाः / खंखटिकं गौरिकं नीलिश् च संघेन भाजयित्व्या / मद्यं मृष्टयवान् प्रक्षिप्य भूमौ निखातव्यम्* / शुक्तत्वे परिणतं परिभोक्तव्यम्* / शुक्तत्वानुपयोज्यं तु छोरयितव्यम्* / मां भिक्षवः शास्तारम् उद्दिशद्भिर् मद्यम् अदेयम् अपेयम् अन्ततः कुशाग्रेणापि / भैषज्यानि ग्लानकल्पिकशालायां (msv ii 143) प्रक्षेप्तव्यानि / ततो ग्लानकैर् भिक्षुभिः परिभोक्तव्यानि /

रत्नानां मुक्ता वर्जयित्वा मणिवैडूर्यदक्षिणावर्तपर्यन्तानि तु द्वौ भागौ कर्तव्यानीति / एको धर्मस्य / द्वितीयः संघस्य / यो धर्मस्य तेन बुद्धवचनं लेखयितव्यम्* / सिंहासने चोपयोक्तव्यम्* / यः संघस्य स भिक्षुभिर् भाजयितव्यः / पुस्तकानां बुद्धवचनपुस्तका अविभज्य चातुर्दिशाय भिक्षुसंघाय धारणकोष्ठिकायां प्रक्षेप्तव्याः / बहिःशास्त्रपुस्तका भिक्षुभिर् विक्रीय भाजयितव्याः / पत्रलेख्यं यच् छीघ्रं शक्यते साधयितुं तस्य द्रव्यविभागे तद् भिक्षुभिर् भाजयितव्यम्* / न शक्यते तच् चातुर्दिशाय भिक्षुसंघाय धारण / कोष्ठिकायां प्रक्षेप्तव्यम्* / सुवर्णं च हिरण्यं चान्यच् च कृताकृतं त्रयो भागाः कर्तव्याः / एको बुद्धस्य / द्वितीयो धर्मस्य / तृतीयः संघस्य / यो बुद्धस्य तेन गन्धकुट्यां केशनखस्तूपेषु च खण्डछुट्टं प्रतिसंस्कर्तव्यम्* / यो धर्मस्य तेन बुद्धवचनं लेखयितव्यं सिंहासनेन वा उपयोक्तव्यम्* / यः संघस्य स भिक्षुभिर् भाजयितव्यः /

श्रावस्त्यां निदानम्* / यदा राज्ञा प्रसेनजिता कोसलेना तोयिकामहः प्रस्थापितस् तदा तत्र भिक्षुभिक्षुण्युपासकोपासिकानां महासन्निपातो भवति / तेन खलु समयेन मूलफल्गुनो भिक्षुर् भिक्षुणीभावनीयः / तोयिकामहे प्रत्युपस्थिते संबहुलाभिर् भिक्षुणीभिर् उक्तः / आर्य उपनिमन्त्रितो भव / तोयिकामहं गमिष्याम इति / स कथयति / को ऽत्र मम पात्रचीवरं स्थापयतीति / (msv ii 144) द्वादशवर्गिकाभिर् भिक्षुणीभिर् उक्तः / आर्य अल्पोत्सुको भव / वयं स्थापयामः / तेन तासां समर्पितम्* / तत् ताभिर् अपि महाप्रजापत्ये संन्यस्तम्* / महाप्रजापत्यापि आयुष्मत आनन्दस्य / आयुष्मताप्य् आनन्देनान्यतमस्मिन् विहारे स्थापितम्* / तत आयुष्मान् मूलफल्गुनस् तोयिकामहं गतः / स तत्र भिक्षुणीभिर् उपनिमन्त्रितः / एका कथयति / आर्येण ममाद्य पूर्वाह्णिका कर्तव्या / अपरया पूर्वाह्णिकया उपनिमन्त्रितः / अपरापि / अपरा कथयति / आर्येण ममान्तिकाद् भोक्तव्यम् इति / अपरापि / एवम् एव कथयत्य् अपरापि / अपरा कथयति / आर्येण ममान्तिके कालपानकं पाययितव्यम् इति / अपरापि / एवम् एव कथयत्य् अपरापि / तेन तासाम् अनुरक्षया स्तोकस्तोकं गृहीत्वा पूर्वाह्णिका कृता / ततैव वेलायां भुक्तम् अकाले पानकं च पीतम्* / ततः स्तोकस्तोकेन (275र्1 = ग्ब्म् 6.862) प्रभूतं संपन्नम्* / स चाध्वपरिश्रान्तः / तेन प्रभूतं भुक्तम्* / सः अजीर्णो जातः / विषूचितः कालगतः / स भिक्षुभिः श्मशानं नीत्वा दग्धः / धर्मश्रवणं दत्तम्* / अनुपूर्वेण विहारः प्रविष्टः / चीवरगोपकेन ग्लानोपस्थायिकः अभिहितः / आनय तस्य पात्रचीवरम् इति / स कथयति /

द्वादशवर्गिकानां हस्ते स्थापितम्* / ताः प्र्ष्टाः / कथयन्ति / अस्माभिर् महाप्रजापत्या हस्ते स्थापितम्* / महाप्रजापतिः कथयति / मया आनन्दस्य संन्यस्तम् इति / आयुष्मान् आनन्दः कथयति / मया अमुष्मिन् विहारे स्थापितम्* / इत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / (msv ii 145) भगवान् आह / आनन्देन स्थापितं भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकम् अधिष्ठातव्यम्* / एवं च पुनर् अधिष्ठातव्यम्* / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* / शृणोतु भदन्तः संघः / अस्मिन्न् आवासे मूलफल्गुनो भिक्षुः कालगतः / तस्य पात्रचीवरं सचीवरचीवरिकम् आनन्दस्य हस्ते तिष्ठति / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः / यत् संघो मूलफल्गुनस्य भिक्षोः पात्रचीवरं सचीवरचीवरिकम् आनन्देन भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकम् अधितिष्ठेद् इत्य् एषा ज्ञप्तिः / आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / अन्यत्र भदन्त भिक्षुः कालं कुर्याद् अन्यत्रास्य पात्रचीवरम् अन्यत्र प्रतिवस्तुकः / तत् पात्रचीवरं कस्य प्रापद्यते / यो ऽत्र उपालिन् प्रतिवस्तुको भिक्षुर् गृही वा /

स्रावस्त्यां निदानम्* / तेन खलु समयेन नवकर्मिको भिक्षुः कालगतः / भिक्षवस् तस्य पात्रचीवरं कौकृत्यान् न भाजयन्ति / एतत् प्रकरणं भगवत आरोचयन्ति / भगवान् आह / सर्वसंघं सन्निपात्यासौ लक्षितव्यः / किं सम्भिन्नकारी न वा इति / यदि संभिन्नकारी / सांघिकं स्तौपिकं करोति / स्तौपिकं वा सांघिकम्* / (msv ii 146) एवम् अधार्मिकम्* / तस्य पात्रचीवरं सचीवरचीवरिकं त्रीन् भागान् कर्तव्यम्* / बुद्धस्य / धर्मस्य / संघस्य / सांघिको भिक्षुभिर् भाजयितव्यः / बुद्धसन्तकेन बुद्धपूजा वा गन्धकूट्यां स्तूपे वा नवकर्म कर्तव्यम्* / धर्मसन्तकेन बुद्धवचनं वा लेखयितव्यम्* / सिंहासने वा उपयोक्तव्यम्* / न चेत् सम्भिन्नकारी सर्वम् एव भिक्षुभिर् भाजयितव्यम्* / नात्र कौकृत्यं करणीयम्* /

श्रावस्त्यां निदानम्* / तेन खलु समयेन संबहुला भिक्षवो जनपदचारिकां चरन्तो ऽनुपूर्वेण स्रावस्त्याम् उपनगरम् अनुप्राप्ताः* / तन्मध्याद् एको भिक्षुः कालगतः / ते संलक्षयन्ति / बहिर् विहारस्य भाजयामः / विहारं प्रविष्टानां सब्रह्मचारिणो ऽपि भागं प्रार्थयिष्यन्तीति / श्रावस्ती तन्निवासिभिर् गोपालकैः पशुपालकैस् तृणहारकैः काष्ठहारकैः पथाजीवैर् उत्पथाजीवैश् च मनुष्यैः समन्ताद् आकीर्णा / ते यत्र यत्र निषीदन्ति भाजयाम इति तत्र तत्र महाजनेन परिवार्यन्ते / ते संलक्षयन्ति / विहारसमीपे भाजयाम इति / ते विहारसमीपे भाजयितुम् आरब्धाः (275व्1 = ग्ब्म् 6.863) / उपधिवारिकेण दृष्टा उक्ताश् च / आयुष्मन्तः किं कुरुथ / तैर् यथावृत्तं समाख्यातम्* / स कथयति / अहम् अपि सीमाप्राप्त इति / तैस् तस्य विवाचयतो न दत्तम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / (msv ii 147) भगवान् आह / अन्तःसीमायाम् अन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति / अभाजितं दुर्भाजितम्* / पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* / अन्यथा सातिसाराः / एवम् अन्तःसीमायां वैमतिका भाजयन्ति / अभाजितं दुर्भाजितम्* / पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* / अन्यथा सातिसाराः / बहिःसीमायाम् अन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति / अभाजितं दुर्भाजितम्* / पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* / अन्यथा सातिसाराः / बहिःसीमायां वैमतिका भाजयन्ति / अभाजितं दुर्भाजितम्* / पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* / अन्यथा सातिसाराः भवन्ति /

श्रावस्त्यां निदानम्* / तेन खलु समयेन भिक्षुणा भिक्षोर् हस्ते भिक्षोश् चीवराणि प्रेषितानि / तेन भिक्षुणा येन प्रेषितानि तस्य निश्वासेन परिभुक्तानि / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / अविश्वासे भिक्षवस् तेन भिक्षुणा विश्वासम् उत्पादितम्* / यस्य येन भिक्षुणा प्रेषितानि तस्य तेन विश्वासेन परिभुक्तानि /

अपि तु भिक्षुर् भिक्षोर् हस्ते भिक्षोश् चीवरकाणि प्रेषयति / यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते / सुपरिभुक्तानि / येन प्रेषितानि तस्य निश्वासेन परिभुंक्ते / दुष्परिभुक्तानि // 1 // भिक्षुर् भिक्षोश् चीवराणि प्रेषयति / यस्य प्रेषितानि स कालगतः / येन प्रेषितानि (msv ii 148) तानि तस्य विश्वासेन परिभुंक्ते / दुष्परिभुक्तानि / यस्य प्रेषितानि तस्य कल्पेन तस्य मृतपरिष्कारिकम् अधितिष्ठति / स्वधिष्ठितानि // 2 // भिक्षुर् भिक्षोश् चीवराणि प्रेषयति / येन प्रेषितानि स कालगतः / येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति / दुरधिष्ठितानि // 3 // भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति / यस्य प्रेषितानि तेन प्रतिक्षिप्तानि / येन प्रेषितानि तस्य विश्वासेन परिभुंक्ते / सुपरिभुक्तानि / यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते / दुष्परिभुक्तानि // 4 // भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति / यस्य प्रेषितानि स कालगतः / यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति / स्वधिष्ठितानि / येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति / दुरधिष्ठितानि // 5 // भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति / यस्य प्रेषितानि तेन प्रतिक्षिप्तानि / येन प्रेषितानि स च कालगतः / यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते / दुष्परिभुक्तानि / येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति / स्वधिष्ठितानि // 6 // भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति / यस्य प्रेषितानि तेन प्रतिक्षिप्तानि / स कालगतः / येनापि प्रेषितानि स कालगतः / यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारम् अधितिष्ठति / दुरधिष्ठितानि / येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति / स्वधिष्ठितानि // 7 //

// चीवरवस्तु समाप्तम्* //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.