Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिसत्त्वभूमि

Thông tin
GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कथं बोधिसत्त्वः सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु योगं करोति / इह बोधिसत्त्वश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्योपाय-परिगृहीतेन ज्ञानेन सप्तत्रिंशद्बोधिपक्ष्यान्धर्मान्यथाभूतं प्रजानाति / न चैतान् साक्षात्करोति / स (dutt 177) द्विविधेनापि याननयेन तान् यथाभूतं प्रजानाति श्रावकयाननयेन च महायाननयेन च / तत्र श्रावकयाननयेन यथाभूतं प्रजानाति / तद्यथा श्रावकभूमौ सर्वं यथा निर्दिष्टं वेदितव्यम् / कथञ्च बोधिसत्त्वो महायाननयेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् यथाभूतं प्रजानाति / इह बोधिसत्त्वः काये कायानुदर्शी विहरन् नैव कायं कायभावतो विकल्पयति / नापि सर्वेण सर्वमभावतः / तञ्च कायनिरभिलाप्यस्वभावधर्मतां यथाभूतं प्रजानाति / इयमस्य परमार्थिकी काये कायानुपश्यना स्मृत्युपस्थानम् / संवृतिनयेन पुनर्बोधिसत्त्वस्याप्रमाणव्यवस्थान-नयज्ञानानुगतं काये कायानुपश्यना स्मृत्युपस्थानं वेदितव्यम् / यथा काये कायानुपश्यना स्मृत्युपस्थानं एवमवशिष्टानि स्मृत्युपस्थानानि अविशिष्टाश्च बोधिपक्ष्या धर्मा वेदितव्याः / स नैव कायादीन्धर्मान् दुःखतो वा विकल्पयति समुदयतो वा / नापि तत्कृतं प्रहाणं निरोधतः कल्पयति / नापि तत्प्राप्तिहेतुं मार्गतः कल्पयति / निरभिलाप्यस्वभावधर्मतया च दुःखधर्मतां समुदयधर्मतां निरोधधर्मतां मार्गधर्मतां यथाभूतं प्रजानाति / इयमस्य पारमार्थिकी बोधिपक्ष्यभावना-सन्निश्रयेण सत्यभावना भवति / संवृत्त्या पुनरप्रमाणव्यवस्थान-नयज्ञानानुगता बोधिसत्त्वस्य सत्यालम्बनभावना दृष्टव्या /

तत्र या बोधिसत्त्वस्यैषा धर्माणामेवमविकल्पना सो ऽस्य शमथो द्रष्टव्यः / यच्च तद्यथाभूतज्ञानं पारमार्थिकं यच्च तदप्रमाण-व्यवस्थाननयज्ञानं धर्मेषु इयमस्य विपश्यना द्रष्टव्या /

तत्र बोधिसत्त्वस्य समासतश्चतुराकारः शमथो वेदितव्यः / पारमार्थिकसाङ्केतिक-ज्ञानपूर्वङ्गमः पारमार्थिकसांकेतिक-ज्ञानफलं सर्वप्रपञ्चसंज्ञासु अनाभोगवाहनः तस्मिंश्च निरभिलाप्ये वस्तुमात्रै निर्निमित्ततया च निर्विकल्पचित्ताशान्त्या सर्वधर्मसमतैकरसगामी / एभिश्चतुर्भिराकारैबोधिसत्त्वानां शमथमार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानदर्शन-परिनिष्पत्तये समुदागमाय /

तत्र बोधिसत्त्वानां समासतश्चतुराकारैव विपश्यना वेदितव्या / एतच्चतुराकार-शमथपूर्वङ्गमा सर्वधर्मेषु समारोपासद्ग्राहान्तविवर्जिता अपवादासद्ग्राहान्तविवर्जिता अप्रमाणधर्मप्रभेदव्यवस्थान-नयानुगता च विपश्यना / एभिश्चतुर्भिराकारै र्बोधिसत्त्वानां विपश्यनामार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानिदर्शन-[परि]निष्पत्तये (dutt 178) समुदागमाय / इतीयं बोधिसत्त्वानां शमथविपश्यना समासनिर्देशतः /

तत्र कतमद्बोधिसत्त्वानामुपायकौशल्यम् / तत्समासतो द्वादशाकारम् / अध्यात्म-बुद्धधर्मसमुदागममारभ्य [षड्विधम् /] बहिर्धा-सत्त्वपरिपाकमारभ्य षड्विधमेव /

अध्यात्म-बुद्धधर्मसमुदागममारभ्य षड्विधमुपायकौशल्यं कतमत् / या बोधिसत्त्वस्य सर्वसत्त्वेषु करुणासहगता अपेक्षा यच्च सर्वसंस्कारेषु यथाभूतसर्वपरिज्ञानं या चानुत्तरसम्यक्संबोधिज्ञाने स्पृहा / यच्च सत्त्वापेक्षां निश्रित्य संसारापरित्यागः या च संस्कारेषु यथाभूतपरिज्ञानं निश्रित्यासंक्लिष्टचित्तस्य संसारसंसृती / या च बुद्धज्ञाने स्पृहा निश्रित्योत्तप्तवीर्यता / इदमध्यात्मबुद्धधर्मंसमुदागममारभ्य षडिवधमुपायकौशल्यं वेदितव्यम् /

तत्र कतमद्बहिर्धा-सत्त्वपरिपाकमारभ्य षड्विधमुपायकौशल्यम् / येनोपायकौशल्येन बोधिसत्त्वः परात्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति / तथाल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि समावर्तयत्युपसंहरति / तथा बुद्धशासनप्रतिहतानां सत्त्वानां प्रतिघातमपनयति / मध्यस्थानवतारयति / अवतीर्णान् परिपाचयति / परिपक्वान् विमोचयति /

कथञ्च बोधिसत्त्वः सत्त्वानां परीत्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति / इह बोधिसत्त्वो यत् किंचित् सत्त्वं प्रत्यवरमपि वस्त्वन्ततः सक्तुप्रसृतं प्रत्यवर एव क्षेत्रे प्रदापयति अन्ततस्तिर्यग्योनिगते ऽपि परीत्तं तच्च प्राणिभूते दापयित्वा चानुत्तरायां सम्यक्संम्बोधौ परिणामयति / एवं तत्कुशलमूलं वस्तुतो ऽपि क्षेत्रतो ऽपि परीत्तं तच्च परिणामना-वशेनाप्रमाणफलतयामुपनीतं भवति

कथं च बोधिसत्त्वः सत्त्वानामल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि संजनयति / इह बोधिसत्त्वो मिथ्या-मासोपवासानशनाद्यधिमुक्तानां सत्त्वानामार्याष्टाङ्गमुपवासं व्यपदिशति / तस्माद्विच्छन्दयति कृच्छ्रादनिष्टफलादुपवासात् / तस्मिन्नकृच्छ्रसमादाने महाफले चोपवासे समादापयति / तथा आत्मक्लमथयोगमनुयुक्तानां मोक्षकामानां मिथ्याप्रयुक्तानां [सत्त्वानां] (dutt 179) मध्यमां प्रतिपदमन्तद्वयविगतां व्यपदिशति तस्यां चावतारयति / तथा स्वर्गकामानां [सत्त्वानां] मिथ्याप्रयुक्तानामग्निप्रवेशातटप्रपाता ऽनशनस्थानादिभिः सम्यग्ध्यानं दृष्टधर्मसुखविहाराय चायत्यां अकृछ्रेण सहैव सुखेन सह सौमनस्येन स्वर्गोपपत्तये व्यपदिशति / पुनर्वैदिकमन्त्रोद्देशस्वाध्यायशुद्धिनिष्ठागमनाधिमुक्तान् बुद्धवचनोद्देशस्वाध्यायक्रियायामर्थचिन्तायाञ्च समादापयति / पुनर्गम्भीरांस्तथागतभाषितान् शून्यताप्रतिसंयुक्तान्धर्मान् तथा तथा उत्तानीकरोति संप्रकाशयति यथा परे श्रुत्वा तीव्रञ्च संवेगमुत्पादयन्ति तीव्रं च प्रसादम् / तदेकक्षणिकमपि संवेगप्रसादसहगतं चित्तं विपुल[कुशमूल]संग्रहे संख्यां गच्छति प्रागेव प्राबन्धिकम् / पुनर्बोधिसत्त्वो यानि कानिचिन्माल्यानि गन्धजातानि च लोके विविधानि प्रवराणि प्रणीतानि तैः प्रसादसहगतेनाध्याशयेन बुद्धधर्मसंघ[त्रि]रत्नपूजामधिमुच्यते परांश्चाधिमोचयति दशसु दिक्षु / पुनः सर्वा दिशस्तेनैव प्रसादसहगतेनाध्याशयेन स्फरित्वा सर्वां त्रिरत्नपूजामभ्यनुमोदते परांश्चाभ्यनुमोदयति /

पुनर्बुद्धानुस्मृतिं सततसमितं भावयति परेषाञ्च समादापयति धर्मानुस्मृतिं संघानुस्मृतिं यावद्देवतानुस्मृतिम् / पुनर्मनोजल्पैस्त्रिरत्न-नमस्क्रियया अबन्ध्यं कालं करोति कारयति च / पुनः सर्वसत्त्वानां सर्वपुण्यमनुमोदते अनुमोदयति च / पुनः सर्वसत्त्वानां विपुलकरुणानुप्रविष्टेनाध्याशयेन सर्वदुःखमात्मनि संप्रतीच्छति / तत्रैव परं समादापयति / पुनरतीतप्रत्युत्पन्नानि सर्व-स्खलितानि सर्वव्यतिक्रमांश्च कल्याणेन शिक्षाकामानुगतेन चेतसा सर्वदिक्षु बुद्धानां भगवतामन्तिके प्रतिदेशयति / तत्रैव च परान् समादापयति / तस्यैवमभीक्ष्णं स्खलितं प्रतिदेशयतः सर्वकर्मावरणेभ्यो विमोक्षो भवत्यल्पकृच्छ्रेण / पुनः प्रभूतैर्विचित्रैश्च निर्माणैः सर्वदिक्षु बुद्धधर्मसंघाधिष्ठानं सत्त्वाधिष्ठानञ्चाप्रमेयं बोधिसत्त्वः ऋद्धिमांश्चेतोवशिप्राप्तः पुण्यपरिग्रहं करोति / पुनर्बोधिसत्त्वः मैत्रीं करुणां मुदितामुपेक्षां भावयति / तत्रैव च परं समादापयति / एवं हि बोधिसत्त्वो ऽल्पकृच्छ्रेण विपुलान्यप्रमेयफलानि कुशलमूलान्यभिनिर्हरति समुदानयति /

कथञ्च बोधिसत्त्वः प्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति / मध्यस्थांश्चावतारयति / अवतीर्णांश्च परिपाचयति / परिक्वांश्च विमोचयति / (dutt 180) अत्रापि बोधिसत्त्वस्य चतुर्विधस्याप्यस्य सत्त्वार्थस्याभिनिष्पत्तये समासतः षड्विध एवोपायो वेदितव्यः / आनुलोमिको विबन्धस्थायी विसभागाशयः अवष्टम्भजः कृतप्रकृतिकः विशुद्धश्च षष्ठ उपायः /

तत्रायं बोधिसत्त्वस्यानुलोमिक उपायः / इह बोधिसत्त्वः पूर्वमेव तावद् येषां सत्त्वानां धर्मं देशयितुकामो भवति तेषां श्लक्ष्णैर्मधुरैः कायवाक्समुदाचारैरुपप्रदानानुवृत्तिसमुदाचारैश्चात्मगतं तेषां प्रतिघातमपनयति / प्रतिघातमपनीय प्रेमगौरव जनयति / प्रेमगौरवं जनयित्वा धर्मे ऽर्थित्वं जनयति / तत एषां पश्चाद्धर्मं देशयति / तञ्च पुनर्धर्मं यथार्हं सुप्रवेशं गमकं कालेनानुपूर्वमविपरीतमर्थोपसंहितञ्च देशयति / विमर्दसहिष्णुश्च भवति / सत्त्वविनये परमया च कर्तुकामतया अनुकम्पाचित्तेन समन्वागतो भवति / स ऋद्ध्या चित्तादेशनया युक्तरूपया धर्मदेशनया परं वा ऽध्येष्य विचित्रैर्वा प्रभूतैश्च निर्मितैः सत्त्वान्विनयति / संक्षिप्तानाञ्चार्थोपसंहितानां शास्त्राणां प्रविस्तरणतया अतिविस्तृतानां चाभिसंक्षेपणतया तथा उद्देशदानेन अनुस्मरणपरिपृच्छादानेन धृतानाञ्चोद्गृहीतानाञ्च धर्माणां सम्यगर्थविवरणतया सर्वालम्बनसमाध्यवतारमुखेषुचानुलोमिक्या अववादानुसासन्या सत्त्वाननुगृह्णाति सत्त्वानामर्थमाचरति / ये च सत्त्वा गम्भीराणां तथागतभाषितानां शून्यताप्रतिसंयुक्तानां सूत्रान्तानामाभिप्रायिकं तथागतानामर्थमविज्ञाय ये ते सूत्रान्ताः निःस्वभावतां धर्माणामभिवदन्ति निर्वस्तुकतामनुत्पन्नानिरुद्धतामा काशसमतां मायास्वप्नोपमतां धर्माणामभिवदन्ति तेषां यथावदर्थमविज्ञायोत्रस्तमानसाः तान् सूत्रान्तान् सर्वेण सर्वं प्रतिक्षिपन्ति नैते तथागतभाषिता इति / तेषामपि सत्त्वानां स बोधिसत्त्वः आनुलोमिकेनोपायकौशल्येन तेषां सूत्रान्तानां तथागताभिप्रायिकमर्थं यथावदनुलोमयति /

तांश्च सत्त्वान् ग्राहयति / एवञ्च पुनरनुलोमयति / यथा नेमे धर्माः सर्वेण सर्वं न संविद्यन्ते अपि त्वभिलापात्मकः स्वभाव एषां नास्ति तेनेमे निःस्वभावा इत्युच्यन्ते / यद्यप्येतवभिलाप्यवस्तु विद्यते यदाश्रित्याभिलापाः प्रवर्तन्ते तदपि यैरभिलापैर्यत् स्वभावमभिलप्यते तदपि न तत्स्वभाव परमार्थतः / तस्मान्निर्वस्तुका इत्युच्यन्ते एवञ्च सति ते ऽभिलाप्याः स्वभावा धर्माणामादित एव सर्वेण (dutt 181) सर्वं न संविद्यन्ते / ते किमुत्पत्स्यन्ते वा निरोत्स्यन्ते वा तस्मादनुत्पन्ना अनिरुद्धा इत्युच्यन्ते / तद्यथा चाकाशे विचित्राणि प्रभूतानि रूपाणि रूपकर्माणि चोपलभ्यन्ते / सर्वेषाञ्च तेषां रूपाणां रूपकर्मणां चावकाशं ददाति / तदाकाशं गमनागमनस्थानोत्पतननिपतनाकुञ्चनप्रसारणादीनाम् / यदा च पुनस्तद् रूपं तानि च रूपकर्माण्यपनीतानि भवन्ति तदा रूपाभावमात्रात्मकमेव परिशुद्धमाकाशं ख्याति / एवं तस्मिन्नाकाशस्थानीये निरभिलाप्ये वस्तुनि विविधाभिलापकृताः संज्ञा विकल्पाः प्रपञ्चसंज्ञानुगताः रूपकर्मस्थानीयाः प्रवर्तन्ते / सर्वेषाञ्च तेषामभिलापकृतानां संज्ञाविकल्पानां प्रपञ्चसंज्ञानुगतानां चित्ररूपकर्मस्थानीयानां तन्निरभिलाप्यं वस्त्वाकाश स्थानीयमवकाशं ददाति / यदा च पुनर्बोधिसत्त्वैर्ज्ञानेनार्येण ते ऽभिलापसमुत्थिता मिथ्यासंज्ञाविकल्पाः प्रपञ्चसंज्ञानुगताः सर्वेण सर्वमपनीता भवन्ति तदा तेषां बोधिसत्त्वानां परमार्याणां तेनार्यज्ञानेन तन्निरभिलाप्यं वस्तु सर्वाभिलाप्यस्वभावाभावमात्रमाकाशोपमं परिशुद्धं ख्याति / न च तस्मात् परमन्यं स्वभावमस्य मृगयन्ते / तस्माद्धर्मा आकाश समा इत्युच्यन्ते /

तद्यथा माया न च यथा ख्याति तथास्ति / न च पुनः सर्वेणैव सर्वं नास्ति तन्मायाकृतम् / एवं न चैते धर्मा यथैवाभिलापसंस्तववशेन ख्यान्ति बालानां तथैव संविद्यन्ते / न च पुनः सर्वेण सर्वं न संविद्यन्ते पारमार्थिक-निरभिलाप्यात्मना / ते चानेन नयप्रवेशेन न सन्तो नासन्त इत्यद्वया मायावत् / तस्मान्मायोपमा इत्युच्यन्ते / एवं हि बोधिसत्त्वः सर्वस्माद्धर्मधातोर्न किञ्चिदुत्क्षिपति न च किञ्चित् प्रतिक्षिपति नोनी-करोति नाधिकं करोति न विनाशयति / भूतञ्च भूततः प्रजानाति / तथैव च संप्रकाशयति / अयं बोधिसत्त्वस्यानुलोमिक उपायो वेदितव्यः /

तत्र कतमो बोधिसत्त्वस्य विबन्धस्थायी उपायः इह बोधिसत्त्वो भोजनपानादि-दश-कायादिपरिष्कारार्थिकानां [सत्त्वानां] विप्रतिबन्धेनावतिष्ठते / स चेन्मातृज्ञा भवथेति पितृज्ञाः श्रामण्याः ब्राह्मण्या विस्तरेण पूर्ववत् यावत्सचेच्छीलं समादाय वर्तध्वे एवमहं युष्माकं भोजनपानादीन् कायपरिष्कारान्यावदर्थमनुप्रदास्यामि / अन्यथा न दास्यामीति / तथा क्षेत्रवस्तुगृहवस्त्वापणवस्तु-राज्यवस्तु-देशवस्तु-धनवस्तु-धान्यवस्तु अर्थिकानां (dutt 182) तथा शिल्पकर्मस्थानविद्यार्थिकानां तथा तेन सह सख्यार्थिकानामावाहविवाहार्थिकानामाभक्षणसंभक्षणार्थिकानां कृत्यसहायार्थिकानाञ्च सत्त्वानां कार्यविप्रतिबन्धेनावतिष्ठते / एवमहं युष्माकं विस्तरेण यावत्कृत्येषु सहायीभावं गमिष्यामि स चेन्मातृज्ञा भवथेति पूर्ववत् / पुनर्बोधिसत्त्वः अपराधिषु दुषिष्वपकारिषु सत्त्वेषु परैर्वधबन्धनच्छेदनताडनकुत्सनतर्जनप्रवासनायोपात्तेष्वाधमनबन्धन-विक्रयाय चोपात्तेषु विप्रतिबन्धे नावतिष्ठते शक्तः प्रतिबलः / स चेन्मातृज्ञाः [पितृज्ञा] भवथेति विस्तरेण पूर्ववत् एवमहं भवतो ऽस्माद्व्यसनाद्विमोचयिष्यामीति / पुनर्बोधिसत्त्वो राजचौरोदकाग्निमनुष्यामनुष्याजीविकाश्लोकादिभयभीतानां सत्त्वानां विप्रतिबन्धेनावतिष्ठते / स चेन्मातृज्ञा भवथेति पूर्ववत् विस्तरेणैवमहं भवतो ऽस्माद्भयात् परित्रास्यामीति / पुनर्बोधिसत्त्वः प्रियसमागमकामानां वाप्रियवियोगकामानाञ्च सत्त्वानां विप्रतिबन्धेनावतिष्ठते / स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववत् एवमहं भवतां प्रियसमागममप्रियविनाभावं चोपसंहरिष्यामीति / पुनर्बोधिसत्त्व आबाधिकानां सत्त्वानां व्याधितानां विप्रतिबन्धेनावतिष्ठते / स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववत् एवमहं भवतो ऽस्माद्व्याधिदुःखात् परिमोचयिष्यामीति / ते च सत्त्वाः एवं विबन्धावस्थितस्य बोधिसत्त्वस्य लघुलध्वेव तस्मिन् कुशलसमादाने पापप्रहाणे च यथाकामं करणीया भवन्ति / अयं बोधिसत्त्वस्य विबन्धस्थायी उपाय इत्युच्यते /

ये पुनः सत्त्वा एवं विबन्धस्थायिनो बोधिसत्त्वस्य यथापरिकीर्तितेषु वस्तुषु न लघु-लघ्वेव यथाकामं प्रतिपद्यन्ते तेषां बोधिसत्त्वो यथा परिकीर्तितैर्वस्तुभिरर्थिकानां तानि वस्तूनि नानुप्रयच्छति हितकामतया / न चादातुकामाशयो भवति / व्यसनस्थान् भीतान्प्रियाप्रियसंयोगविसंयोगकामान् व्याधिदुःखेन आर्तान् सत्त्वान् कञ्चित्कालमध्युपेक्षते हितकामतया / न चोपेक्षणाशयो भवति नापरित्राणाशयः / ते च सत्त्वा एवं निष्ठुरकर्मणा प्रतिपद्यमानस्य बोधिसत्त्वस्य न त्वाशयतः अपरेण समयेन यथाकामकरणीया भवन्ति पापप्रहाणाय कुशलसमादानाय च / ये च सत्त्वा नाप्यर्थिनो (dutt 183) बोधिसत्त्वस्य नापि च व्यसनस्था नापि विस्तरेण यावद्व्याधितास्ते चास्य संस्तुताः सप्रणयाः / तानपि बोधिसत्त्वस्तस्मिन्नेव कुशल-[मूले] समादापयति यदुत मातृज्ञतायां विस्तरेण यावच्छीलसमादानानुवर्तनायाम् / त एवं बोधिसत्त्वेन समादाप्यमानाः स चेद्विकम्पनेन [न] प्रतिपद्यन्ते तेषां बोधिसत्त्वः कुपितमप्यात्मानमुपदर्शयति हितकामतया / न चाशयतः कुपितो भवति / कृत्येषु वैमुख्यमुपदर्शयति हितकामतया / न चाशयतो विमुखो भवति / तदेकत्वमप्यस्यानर्थं लौकिकमुपसंहरति हितकामतया / न चाशयतो ऽनर्थकामो भवति / विसभागो ऽस्य बोधिसत्त्वस्य तेषु [सत्त्वेषु] तस्याश्चेष्टायाः स आशयो भवति / तेन च तान्सत्त्वांस्तस्मिन् पापप्रहाणे कुशलसमादाने च सन्नियोजयति / तस्मादयं सत्त्वविनयोपायो बोधिसत्त्वस्य विसभागाशय इत्युच्यते /

तत्र कतमो बोधिसत्त्वस्यावष्टम्भज उपायः / इह बोधिसत्त्वः स्वामिभूतो वा राजभूतो वा आधिपत्यप्राप्तः स्वं वा परिजनं स्व वा विजितमेवं सम्यक् समनुशास्ति / यो मे कश्चित्परिजने वा विजिते वा ऽमातृज्ञो भविष्यति विस्तरेण यावद्दौशील्यं समादाय वर्तिष्यते तस्याहमुचितं वा भक्ताच्छादनं समुच्छेत्स्यामि वारयिष्यामि वा ताडयिष्यामि वा सर्वस्वेन वा वियोजयिष्यामि सर्वेण वा सर्व विजितात् प्रवासयिष्यामीति / तत्र च कर्मणि कुशलान् दक्षान् पौरुषेयान्विनियोजयति / ते च सत्त्वास्तस्मान्महतो दण्डकर्मणो भीताः पापञ्च प्रजहति कुशलञ्च समादाय वर्तन्ते / अकामका अपि तेन बलावष्टम्भेन कुशले सन्नियोज्यन्ते ते सत्त्वा अनेनोपायेन / तस्मादयमवष्टम्भज उपाय इत्युच्यते /

तत्र कतमो बोधिसत्त्वस्य कृतप्रतिकृतिक उपायः / सह बोधिसत्त्वेन येषां सत्त्वानां पूर्वमेवोपकारः परीत्तः प्रभूतो वा कृतो भवति दानेन वा व्यसनपरित्राणतया (dutt 184) वा भयपरित्राणतया वा प्रियाप्रियसंयोगविसयोगोपसंहरणतया वा व्याधिसशमनतया वा तेषां कृतज्ञानां कृतवेदिनां प्रत्युपकार-कामानामन्तिकाद्बोधिसत्त्वः कुशलसमादानमेव प्रतिकारतो याचते संप्रतीच्छति / न किञ्चिदन्यल्लोकामिषम् / एवं चाह / अयमेव मे भवतामन्तिकान्महाप्रत्युपकारो भविष्यति / स चेद्यूयमेव मातृज्ञा भवथ पितृज्ञा विस्तरेण यावच्छीलं समादाय वर्तध्वे कृतस्य प्रतिकृतं कुशलसमादानं परतः प्रत्यासंशते तेन चोपायेन परांस्तत्र कुशले समादापयति / तस्मादयमुपायः कृतिप्रतिकृतिक इत्युच्यते /

तत्र कतमो बोधिसत्त्वस्य विशुद्ध उपायः / इह निष्ठागमन-बोधिसत्त्वभूमि-स्थितो बोधिसत्त्वः सुविशोधितबोधिसत्त्वमार्गस्तुषिते देवनिकाये उपपद्यते / अमुको बोधिसत्त्ववस्तुषिते देवनिकाये उपपन्नः / स न चिरस्येदानीं जम्बूद्वीपे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / तं वयमारागयेम न विरागयेम / तस्य च बोधिसत्त्वस्यान्तिके ऽस्माकं जन्म भवेदित्यपरिमितसत्त्व-सम्यक्-छन्द-जननार्थं छन्दबहुलीकरणार्थम् / पुनर्बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्वा उच्चे वा सम्मते वा कुले उपपद्यते यदुत राजकुले वा पुरोहितकुले वा / तथोदारान् कामानुत्सृज्य निष्क्रामति सत्त्वानां बहुमानोत्पादनार्थम् / पुनर्दुष्करचर्यामभ्युपगच्छति दुष्करचर्याधिमुक्तानां सत्त्वान विच्छन्दनार्थम् / पुनरनुत्तरां सम्यक् संबोधिमभिसंबुध्यते / तदन्येषां सत्त्वानां बोधिविमुक्तिसामान्योपगमनपरिहर्षणार्थम् / पुनरनुत्तरां सम्यक्संबोधिमभिसंबुध्य ब्रह्माध्येषणां प्रतीक्षते / न तावत्सत्त्वानां धर्मं देशयति / तेषां सत्त्वानां धर्मगौरवोत्पादनार्थम् / नावरमात्रकमेतद्धर्माख्यानं भवति यत्रेदानीं ब्रह्मा [स्वयं] धर्मदेशनायै भगवन्तमध्येषत इति / पुनर्बुद्धचक्षुषा लोकं व्यवलोकां यति / ब्रह्माध्येषिते ऽनेन धर्मो देशितो ब्रह्मगौरवात् / परव्यापारितेन न तु स्वेन सत्त्वेषु कारुण्यचित्तेन नात्मन एव प्रतिरुपतां विदित्वेति / तदेकत्यानां सत्त्वानामेवंरूपस्य मिथ्याग्राहस्य विप्रणाशार्थम् / पुनर्धर्मचक्रमप्रवर्तितपूर्वं लोके प्रवर्तयति / तथा धर्मं देशयति / शिक्षापदानि च प्रज्ञपयति / अयमुच्यते बोधिसत्त्वस्य विशुद्ध उपायः / यस्मादुपायादन्य उपाय उत्तरि अतिक्रान्ततरश्च प्रणीततरश्च नास्ति /

इतीदं षड्विधमुपायकौशल्यं बोधिसत्त्वानां समासव्यासनिर्देशतः प्रतिहतानां सत्त्वानां प्रतिघाताय नयनाय मध्यस्थानामवतारायावतीर्णानां परिपाकाय परिपक्कानां विमोचनाय / इति नास्त्यत उत्तरि नास्त्यतो भूयः / इदं बोधिसत्त्वानामुपायकौशल्यम् /

तत्र कतमा बोधिसत्त्वानां धारणी / समासतश्चतुर्विधा द्रष्टव्या / धर्मधारणी / अर्थधारणी / मन्त्रधारणी / बोधिसत्त्वक्षान्तिलाभाय च धारणी /

तत्र धर्माधारणी कतमा / इह बोधिसत्त्वस्तद्रूपां स्मृतिप्रज्ञाबलाधानतां प्रतिलभते यथा श्रुतमात्रकेणैवानाम्नातान् वचसा ऽपरिचितान् नामपदव्यञ्जनकायसंगृहीताननुपूर्वचरिताननुपूर्वसमायुक्तान् प्रमाणान् ग्रन्थानप्रमाणं कालं धारयति /

तत्रार्थधारणी कतमा / पूर्ववत् / तत्रायं विशेषः / तेषामेव धर्माणामप्रमाणमर्थमनाम्नातमपरिचितं मनसा ऽप्रमाणं कालं धारयति /

तत्र मन्त्रधारणी कतमा / इह बोधिसत्त्वस्तद्रूपं समाधिवशितां प्रतिलभते यथा यानि मन्त्रपदानीति संशमनाय सत्त्वानामधितिष्ठन्ति / तानि सिद्धानि भवन्ति / परमसिद्धान्यमोघान्येनेकविधानामीतीनां संशमनाय / इयमुच्यते बोधिसत्त्वस्य मन्त्रधारणी /

तत्र कतमा बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी / इह बोधिसत्त्वः स्वयं प्रगाढहेतुचरितः प्रज्ञावान् प्रविविक्तविहारी वाचमप्यनुदीरयन् दर्शनपथमप्यनागच्छन् केनचित् सह तथा मात्राभोजी असंकीर्णभोजी एकप्रकाराशनभोजी प्रध्यानपरतः अल्पं रात्रौ स्वपन् बहु जाग्रन् यानीमानि तथागतभाषितानि बोधिसत्त्वक्षान्तिलाभाय मन्त्रपदानि तद्यथा इटि मिटि किटिभिः क्षान्तिपदानि स्वाहा / इत्येतेषां मन्त्रपदानामर्थं चिन्तयति तुलयत्युपपरीक्षते / स तेषां मन्त्रपदानामेवं सम्यक् प्रतिपन्न एवमर्थं स्वयमेवाश्रुत्वा कुतश्चित् प्रतिविध्यति / तद् यथा नास्त्येषां मन्त्रपदानां काचिदर्थपरिनिष्पत्तिः निरर्था एवैते / अयमेव चैषामर्थो यदुत निरर्थता / तस्माच्च परं पुनरपरमर्थं न समन्वेषते / इयता तेन तेषां मन्त्रपदानामर्थः सुप्रतिविद्धो भवति / स (dutt 186) तेषां मन्त्रपदानामर्थं सम्यक् प्रतिविध्य तेनैवार्थानुसारेण सर्वधर्माणामत्यर्थं सम्यक् प्रतिविध्यति स्वयमेवाश्रुत्वा परतः / एवञ्च पुनरर्थं प्रतिविध्यति / सर्वाभिलापैः सर्वधर्माणां स्वभावार्थापरिनिष्पत्तिः / या पुनरेषां निरभिलाप्यस्वभावता अयमेवैषां स्वभावार्थः / स एवं सर्वधर्माणां स्वभावार्थं सम्यक् प्रतिविध्य तस्मात्परमर्थं न समन्वेषते / उदारञ्च तस्यार्थस्य प्रतिवेधात् प्रीतिप्रामोद्यं प्रतिलभते / तेन बोधिसत्त्वेन प्रतिलब्धा तानि धारणीपदान्यधिष्ठाय बोधिसत्त्वक्षान्तिर्वक्तव्या / तस्याश्च लाभात् स बोधिसत्त्वो न चिरस्येदानीमध्याशयविशुद्धिं प्रतिलभते / अधिमात्रायामधिमुत्तिचर्याभूमिक्षान्तौ वर्तते / इयं बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी वेदितव्या /

तत्र धर्मधारणीमर्थधारणीञ्च बोधिसत्त्वः प्रथमस्य कल्पासंख्येयस्यात्ययाच्छुद्धाध्याशयभूमिप्रविष्टो लभते नियतां स्थिरामुदाराञ्च / ततः पुनरर्वाग् लभते प्रणिधानवशेन वा ध्यानसन्निश्रयेण वा नतु नियतां न स्थिरां नोदाराम् / यथाधर्मार्थधारणी एवं मन्त्रधारणी वेदितव्या / बोधिसत्त्वक्षान्तिलाभाय तु धारणी यथैव व्याख्याता तथैव लभ्यते /

एताः पुनः सर्वा धारणीर्बोधिसत्त्वश्चतुर्भिगुणैर्युक्तो लभते नान्यतमविकलः / कतमैश्चतुर्भिः / कामेष्वनध्ववसितो भवति परसमुच्छ्रयेष्वीर्यां नोत्पादयति / अनीर्षुर्भवति सर्व-याचित-प्रदश्च भवत्यननुताप्यदायी / धर्मारामश्च भवति धर्मरतो बोधिसत्त्वपिटकमारभ्य पिटकमातृकां वा

तत्र कतमद्बोधिसत्त्वस्य बोधिसत्त्वप्रणिधानम् / तत् समासतः पञ्चविधं द्रष्टव्यम् / चित्तोत्पादप्रणिधानं उपपत्तिप्रणिधानं गोचरप्रणिधानं सम्यक्प्रणिधानं महाप्रणिधानञ्च /

तत्र प्रथमचित्तोत्पादो बोधिसत्त्वस्यानुत्तरायां सम्यक्संबोधौ चित्तोत्पादप्रणिधानमित्युच्यते /

आयत्यां सत्त्वार्थानुकूलासु सुगत्युपपत्तिषु प्रणिधानं बोधिसत्त्वस्योपपत्तिप्रणिधानमित्युच्यते /

सम्यग्धर्मप्रविचयप्रणिधानं अप्रमाणादिकुशलधर्मभावना-विषय-प्रणिधानञ्च बोधिसत्त्वस्य गोचरप्रणिधानमित्युच्यते /

आयत्यां सर्वबोधिसत्त्वकुशलसंग्रहाय सर्वगुणसंग्रहाय च समासतो व्यासतो वा प्रणिधानं बोधिसत्त्वस्य सम्यक् प्रणिधानमित्युच्यते /

महाप्रणिधानं पुनर्बोधिसत्त्वसत्त्वस्यास्मादेव सम्यक्प्रणिधानाद्वेदितव्यम् / तत् पुनर्दशविंधम् / आयत्यां सर्वाकाराप्रमेय-तथागत-पूजोपस्थानतायै प्रथमं प्रणिधान बोधिसत्त्वस्य महाप्रणिधानमित्युच्यते / बुद्धानां च भगवतां सद्धर्म-परिग्रहारक्षणतायै धर्मनेत्रीसन्धारणाय महाप्रणिधानम् / तुषितभवनवासमुपादाय पुर्ववद्यावत् परिनिर्वाणाय महाप्रणिधानम् / बोधिसत्त्व-सर्वाकारसम्यक्चर्याचरणतायै महाप्रणिधानम् / सर्वसत्त्वपरिपाकाय महाप्रणिधानम् / सर्वलोकधातुसन्दर्शनाय महाप्रणिधानम् / बुद्धक्षेत्रपरिशोधनाय महाप्रणिधानम् / सर्वबोधिसत्त्वैकाशयप्रयोगतायै महायानावतरणतायै महाप्रणिधानम् / अबन्ध्यसर्व-सम्यक्प्रयोगतायै महाप्रणिधानम् / अनुत्तरसम्यक्संबोध्यभिसंबोधाय महाप्रणिधानम् /

तत्र कतमो बोधिसत्त्वस्य शून्यतासमाधिः / इह बोधिसत्त्वस्य सर्वाभिलाषात्मकेन स्वभावेन विरहितं निरभिलाप्यस्वभावं वस्तु पश्यतः या चित्तस्य स्थितिः / अयमस्योच्यते शून्यतासमाधिः /

अप्रणिहितः समाधिः कतमः / इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु मिथ्याविकल्पसमुत्थापितेन क्लेशेन दुःखेन च परिगृहीतत्वादनेकदोषदुष्टं समनुपश्यतो या आयत्यां तत्राप्रणिधानपूर्विका चित्तस्थितिः / अयमस्याप्रणिहितः समाधिरित्युच्यते /

अनिमित्तः समाधिः कतमः / इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु सर्वविकल्पप्रपञ्च निमित्तान्यपनीय यथाभूतं शान्ततो मनसि कुर्वतो या चित्तस्थितिः / अयमस्योच्यते अनिमित्तः समाधिः / कस्मात्पुनरेषामेव त्रयाणां समाधीनां प्रज्ञप्तिर्भवति / नात उत्तरि नातो भूयः द्वयमिदं सच्चासच्च / तत्र संस्कृतमसस्कृतञ्च सत् असदात्मा वात्मीयं वा / तत्रः (dutt 188) संस्कृते सत्यप्रणिधानतः प्रातिकूल्यतो ऽप्रणिहितसमाधिव्यवस्थानम् / असंस्कृते पुनर्निर्वाणे प्रणिधानतः सम्यगभिरतिग्रहणतो निर्निमित्तसमाधिव्यवस्थानम् / यत् पुनरेतदसदेव वस्तु तत्र बोधिसत्त्वेन न प्रणिधानं नाप्रणिधानं करणीयम् / अपि तु तदसदसदित्येव यथाभूतं द्रष्टव्यम् / तच्च दर्शनमधिकृत्य शून्यतासमाधिव्यवस्थानं वेदितव्यम् / एवं हि बोधिसत्त्व एषु त्रिषु समाधिषु योगं करोति / एवं च व्यवस्थानं यथाभूतं प्रजानाति / तदन्याकारानपि त्रीन्समाधीन्यथाभूत-व्यवस्थान-नयप्रवेशेन भावना-नयप्रवेशेन च यथाभूतं प्रजानाति येषु श्रावकाः शिक्षन्ते समुदागच्छति च /

चत्वारीमानि धर्मोद्दानानि यानि बुद्धाश्च बोधिसत्त्वाश्च सत्त्वानां विशुद्धये देशयन्ति / कतमानि चत्वारि / अनित्याः सर्वसंस्कारा इति धर्मोद्दानम् / दुःखाः सर्वसंस्कारा इति धर्मोद्दानम् / अनात्मानः सर्वधर्मा इति धर्मोद्दानम् / शान्तं निर्वाणमिति धर्मोद्दानम् / एतत् प्रतिसंयुक्तार्थ यद्भूयसा धर्ममुदीरयन्ति बुद्धबोधिसत्त्वाः सत्त्वानाम् / तस्मादेतानि धर्मोद्दानानीत्युच्यन्ते / पौराणेश्च शान्तमानसैर्मुनिभिरुदितोदितत्वान्नित्यकालमुद्दानानीत्युच्यन्ते / महोदयगामिनी भवाग्रोर्ध्वंगामिनी चैषा प्रतिपत् तस्मादुद्दानानीत्युच्यन्ते /

कथं च बोधिसत्त्वः सर्वसंस्काराननित्यतः समनुपश्यति / इह बोधिसत्त्वः सर्वसंस्काराणामभिलाप्यस्वभावं नित्यकालमेव नास्तीत्युपलभ्यानित्यतः सर्वसंस्कारान् पश्यति / पुनरविज्ञातस्य भूततस्तस्यैव निरभिलाप्यस्य वस्तुनः अपरिज्ञानहेतुकमुदयव्ययमुपलभ्यतान् निरभिलाप्यस्वभावान् सर्वसंस्काराननित्यतः समनुपश्यति / सो ऽतीतान् संस्कारानुत्पन्ननिरुद्धान्समनुपश्यति / तेषां नैव हेतुमुपलभते नापि स्वभावम् / तस्मात्तेषां नैव हेतुतो नैव स्वभावतो विद्यमानतां समनुपश्यति / प्रत्युत्पन्नानिरुद्धान्समनुपश्यति / तेषां हेतुं नोपलभते दत्तफलत्वात् / स्वभावं पुनरुपलभते अनिरुद्धत्वात् / तस्मात्तेषां स्वभावतो विद्यमानतां समनुपश्यति नो तु हेतुतः / अनागतान् संस्काराननुत्पन्नानिरुद्धान् पश्यति / तेषां हेतुमुपलभते अदत्तफलत्वात् / नो तु स्वभावमनुत्पन्नत्वात् / तस्मात्तेषां बोधिसत्त्वो हेतुतो विद्यमानतां (dutt 189) पश्यति नो तु स्वभावतः / स एव त्रिष्वध्वस्वव्यवच्छिन्नां संस्कार-सन्ततिं प्रवर्तमानां दृष्ट्वा एकैकस्मिन् संस्कारक्षणे त्रीणि संस्कृतस्य संस्कृतलक्षणानि पश्यति / क्षणादुर्क्ष्वं चतुर्थं संस्कृतलक्षणं समनुपश्यति / तत्र पूर्वसंस्कारक्षणे स्वभावविनाशानन्तर यो ऽपूर्वसंस्कारक्षणस्वभावप्रादुर्भावः सा जातिरिति पश्यति / उत्पन्नस्य यस्तत्कालाविप्रणाशः सा स्थितिरिति पश्यति / तं पूर्वनिरुद्धं संस्कारज्ञणस्वभावमपेक्ष्य तस्योत्पन्नस्य यदन्यत्वमन्यथात्वं वा सा जरेति पश्यति / तस्माज्जातिक्षणादूर्ध्वं तस्यैवोत्पन्नस्य संस्कारक्षणस्य यः स्वभावविनाशः स व्यय इति पश्यति / स यत्स्वभावमेव तमुत्पन्नं संस्कारक्षणं समनुपश्यति / तत्स्वभावानेव तस्य जातिं स्थितिं जरां च / [न] पश्यति तदन्यस्वभावान् /

तस्माच्च क्षणादूर्ध्वं च एव तस्य संस्कारक्षण[स्वभाव]स्यापगमः स एव तेषां जात्यादीनामिति यथाभूतं पश्यति तान्येतानि चत्वार्यषि संस्कृतलक्षणान्यभिसमस्य संस्काराणां समासतो द्वयावस्था-प्रभावितानि / भावप्रभावितान्यभावप्रभावितानि च / तत्र भगवता यो भावस्तदेकं संस्कृतलक्षणं व्यवस्थापितम् / यस्त्वभावस्तत् द्वितीयं संस्कृतलक्षणं व्यवस्थापितम् / स च भावस्तेषां संस्काराणां स्थित्यन्यथात्वप्रभावित इति कृत्वा तृतीयं संस्कृतलक्षणं व्यवस्थापितम् / तत्र बोधिसत्त्वः संस्कारमात्रं स्थापयित्वा न तस्य जातिं न स्थितिं न जरां नानित्यतां सर्वकालं द्रव्यस्वभावपरिनिष्पत्तितः पश्यति / तत्कस्य हेतोः / संस्कारमात्रं स उत्पद्यमानमुपलभते / नास्यान्यां जातिं न स्थितिं न जरां नानित्यताम् / संस्कारमात्रमेव च जायमानं तिष्ठन्तं जीर्यमाणं विनश्यमानमुपलभते / न तस्यान्यां जातिं स्थितिं जरामनित्यताञ्च / युक्त्यापि बोधिसत्त्वो विमृशन्नेतान् जात्यादीन् द्रव्यतो नोपलभते / एवञ्च पुनर्विमृशन्नोपलभते / स चेद्रूपादिसंस्कारविनिर्मुक्तः अन्यो जातिधर्मः स्यात् स यथैव रूपादिकः संस्कारः स्वात्मनोत्पद्यते / तथैव सो ऽप्युत्पद्येत / एवं सति द्वे जन्मनी स्याताम् यच्च संस्कार-जन्म यच्च जाति-जन्म तत्र तत्संस्कारजन्म तस्माज्जातिजन्मनः अनन्यदेव वा स्यात् / [अन्यदेव वा /] यदि तावदनन्यदेवं सत्यपार्थिका जातिद्रव्यकल्पना / अन्या जातिर्द्रव्यतो ऽस्तीतिं न युज्यते / (dutt 190) अथ च पुनरन्यदेवं सति संस्कार-जन्म जातिर्न भवति / संस्कार-जन्म जातिरिति न युज्यते /

यथा जातिरेवं स्थितिर्जरा विनाशश्च विस्तरेण वेदितव्यः / स चेद्विनाशो नाम स्वभावतो धर्मः परिनिष्पन्नः स्यात् सो ऽप्युत्पद्येत निरुध्येत वा / यदा च विनाश उत्पन्नः स्यात्तदा सर्वसंस्कारैर्निरुद्धैर्भवितव्यं स्यात् / एवं सत्यल्पकृच्छ्रेण निरोधसमापन्नस्येव चित्तचैतसिकानां धर्माणामप्रवृत्तिः स्यात् / तस्य च पुनर्विनाशस्य निरोधात् निरुद्धैरपि तैः संस्कारैः पुनरेव भवितव्यं स्यात् विनाश एषां नास्तीति कृत्वा / अतो विनाश उत्पद्यते निरुध्यते चेति न युज्यते / न च पुनः कुलपुत्रस्य वा कुलदुहितुर्वा सर्वकालास्तिताञ्च द्रव्यसतां स्वभावपरिनिष्पतिञ्च प्रज्ञप्ति सतां पश्यतो निर्विद्विरागो विमुक्तिश्च युज्यते / अतो विपर्ययेण तु युज्यते / इत्येभिराकारैर्बोधिसत्त्वः सर्वसंस्कारा अनित्या इति यथाभूतं प्रजानाति /

तान् पुनरेव अनित्यान् संस्कारान् प्रबन्धेन वर्तमानाद्बोधिसत्त्वः त्रिःप्रकाराया दुःखतायाः सन्निश्रयभावेन पश्यति संस्कारदुःखतायाः विपरिणामदुःखतायाः दुःखदुःखतायाश्च / एवं हि बोधिसत्त्वः सर्वसंस्कारा दुःखा इति यथाभूतं प्रजानाति /

पुनः सर्वधर्माणां बोधिसत्त्वः संस्कृतासंस्कृतानां द्विविधं नैरात्म्यं यथाभूतं प्रजानाति / पुद्गलनैरात्म्यं धर्मनैरात्म्यं च / तत्रेदं पुद्गलनैरात्म्यम् / यन्नैवते विद्यमाना धर्माः पुद्गलाः / नापि विद्यमानधर्मविनिर्मुक्तो ऽन्यः पुद्गलो विद्यते / तत्रेदं धर्मनैरात्म्यम् / यत्सर्वेष्वभिलाप्येषु वस्तुषु सर्वाभिलापस्वभावो धर्मो न संविद्यते / एवं हि बोधिसत्त्वः सर्वधर्मा अनात्मान इति यथाभूतं प्रजानाति /

यः पुनरेषामेव संस्काराणां पूर्वं हेतुसमुच्छिन्नानां पश्चादशेषोपरमस्तदन्येषाञ्चात्यन्तमनभिनिर्वृत्तिरप्रादुर्भावः / इदमुच्यते निर्वाणम् / तच्च शान्तं क्लेशोपशमात् दुःखोपशमाच्च वेदितव्यम् / एवं च तावदनध्याशयशुद्धो बोधिसत्त्वः अदृष्टसत्यो वा श्रावकायानीयो निर्वाणमधिमुक्तो भवति / एवञ्चाभिवदति-शान्तं निर्वाणमिति / न चास्य तस्मिन्निर्वाणे यथाभूतावगमो यथावज्ज्ञानदर्शनं (dutt 191) प्रवर्तते / अस्ति त्वेष योनिशो मनस्कारः / तद्यथा राजपुत्रो वा गृहपतिपुत्रो वा राज्ञा गृहपतिना वा ऽन्तर्गृहे संवर्धितः स्यात् तस्य च दहरस्यैव कुमारभूतस्य तेन राज्ञा गृहपतिना वा कृत्रिमका मृगरथका वा गो-अश्वरथका वा हस्तिरथका वा उपसंहृता भवेयुः / स च राजपुत्रो वा गृहपतिपुत्रो वा तैः क्रीडन् रममाणः परिचारयंस्तेष्वेव कृत्रिमेषु मृगेषु मृगसंज्ञी स्यात् कृत्रिमेषु गो ऽश्वेषु हस्तिषु हस्तिसंज्ञी स्यात् / अथैकदा स राजा वा गृहपतिर्वा स्वस्य पुत्रस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकाद्भूतानां मृगाणां वर्णं भाषेत / भूतानां यावद्धस्तिनां वर्णं भाषेत / तस्य पुना राजपुत्रस्य [वा] गृहपतिपुत्रस्य वा त वर्णवादं श्रुत्वा एवं स्यात् / एषामयं राजा गृहपतिर्वा अस्माकं मृगरथकानां यावद्धस्तिरथकानां वा वर्णं भाषत इति / अथापरेण समयेन स राजा गहपतिर्वा स्वं पुत्रं बहिरागारान्निवीष्य भूतानेव मृगांस्तस्मै उपदर्शयेद्भूतानेव यावद्धस्तिन उपदर्शयेत् / तस्य तान् दृष्ट्वा तस्मिन्समये प्रत्यात्मं प्रत्यवगमो यथाभूत उत्पद्येत /

इमे ते भूतार्थिका मृगरथका विस्तरेण यावद्धस्तिरथका येषामस्माकं पिता दीर्घरात्रं वर्णं भाषितवानस्माकमेव त्वयथाभूते अर्थे तत् प्रतिरूपमात्रके तत्प्रतिबिम्बप्रतिभासमात्रके अधिमोक्षः प्रवृत्त इति / तेन पूर्वकेणाधिमोक्षेणारितीयेरन् / एवमेव संसारान्तर्गृहसंवृद्धानामशुद्धाशयानां बोधिसत्त्वानामदृष्टसत्यानाञ्च श्रावकाणां पुत्रस्थानीयानां पितृकल्पैर्बुद्धैर्बोधिसत्त्वैश्च महाभूमिप्रविष्टैर्निर्वाणप्रत्यक्षदर्शिभिस्तेषां बोधिसत्त्वानां श्रावकाणाञ्च पुरस्तान्निर्वाणस्य यथादृष्टस्य वर्णो भाषितः / तैश्च तन्निर्वाणं गुणतो घोषमात्रानुसरिण्या बुद्ध्या दीर्घरात्रमधिमुक्तम् / यदा पुनस्तेषां संभारपरिपाकवृद्धेरन्वयात् श्रद्धाशयानाञ्च बोधिसत्त्वानां दृष्टसत्यानाञ्च श्रावकाणां निर्वाणे प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते / तदा तेषामपि यथाभूतः प्रत्यवगम उत्पद्यते / इदं तन्निर्वाणं सर्वश्रावकप्रत्येकबुद्धानां यस्य बुद्धबोधिसत्त्वैर्वर्णा भाषितः / अस्माभिस्तु पूर्वबालप्रज्ञतया न यथाभूतमधिमुक्तम् / अस्ति तु तदस्य प्रतिरूपकम् / अस्ति प्रतिभासमात्रकम् / ते तेन पूर्वकेणाधिमोक्षेण (dutt 192) रितीयन्ते पश्चिमकं यथाभूताधिमोक्षं निश्रित्य / तद्यथा किञ्चिद्व्याधितं पुरुषं कश्चिन्महावैद्यस्तस्य प्रप्युपस्थितस्य व्याधेः प्रशमायानुलोमिकैर्भैषज्यैरूपतिष्ठेत् / स च व्याधितपुरुषो दीर्घकालप्रतिनिषेवणात्तेषां भैषज्यानां तदधिमुक्त एव भवेत् तदारामः / तेष्वेव सारदर्शी भवेत् / अथ तस्यैव व्याधितपुरुषस्य स च पूर्वको व्याधिस्तया भैषज्यासेवया व्युपशाम्येदन्यश्चापूर्वो व्याधिरन्यभैषज्यसाध्यः प्रादुर्भवेत् /

अथ स महावैद्यः पूर्वकस्य च व्याधेः प्रशमं पश्चिमकस्य चोत्पादमन्यभैषज्यसाध्यं विदित्वा तञ्च पूर्वकं भैषज्यप्रयोगं प्रतिक्षिपेदन्यं चानुलोमिकं व्यपदिशेद् भैषज्यम् / स बालो व्याधित पुरुषः पूर्वभैषज्याधिमुक्तस्तेष्वेव पथ्यसंज्ञी येनैव महावैद्येन तानि पूर्वपश्चिमानि भैषज्यानि व्यपदिष्टानि / एवमप्युच्यमानस्तेन संमुखमपथ्यान्येतानि पूर्वकाणि भैषज्यानि पश्चिमे व्याधाविति संप्रत्ययेन न गच्छन्नाष्य वचनमभिश्रद्धव्यादेवमेव तदुपमास्ते बाला बोधिसत्त्वाः श्रावकाश्च वेदितव्याः / ये व्याधितपुरुषा एव क्लेशग्रस्ता महावैद्यस्य तथागतस्योत्तरादुत्तरतरामुत्तमतमामुत्तानादुत्तानतरां गम्भीराद् गम्भीरतरां गम्भीरतमां हीनादुदारामुदारतरामुदारतमां धर्मदेशनां सम्यग्व्यपदेशमववादानुशासनीं नावतरन्ति नाधिमुच्यन्ते न प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र श्राद्धो बोधिसत्त्वः श्रावको वा न कस्मिंश्चित्तथागतभाषिते विमतिसन्देहमुत्पादयति / स पुनः सर्वाङ्गपरिष्कारसुसमायुक्तमिवाजन्यरथं तं तथागतभाषितं धर्मरथमभिरूह्य कुशल इव सारथिर्यावती तेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघुलध्वेव गन्ता भवत्यधन्धायमानः /

इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तदशमं बोधिपक्ष्यपटलम् /

बोधिसत्त्वगुणपटलम् (छप्तेर् 1.18)

उद्दानम् /

आश्चर्यं चाप्यनाश्चर्यं समचित्तोपकारिता / प्रतिकारस्तथा शास्ति स्यादबन्ध्यप्रयोगता //

पञ्चेमे बोधिसत्त्वास्याश्चर्याद्भूता धर्मा अनुत्तरे सम्यक्संबोधियाने शिक्षमाणस्य वेदितव्याः / कतमे पञ्च / निष्कारणवत्सलता सर्वसत्त्वेषु / सत्त्वानामेवार्थाय संसारे ऽप्रमेयदुःखसहिष्णुता / बहुक्लेशानां दुर्विनेयानां च सत्त्वानां विनयोपायज्ञता / परमदुर्विज्ञानतत्त्वार्थानुप्रवेशः / अचिन्त्यप्रभावता च / इमे पञ्च बोधिसत्त्वानामाश्चर्याद्भुता धर्मा असाधारणस्तदन्यैः सर्वसत्त्वैः /

पञ्चेमानि बोधिसत्त्वस्यानाश्चर्याणि यैः समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते / कतमानि पञ्च / यद् बोधिसत्त्वः परहितहेतुकेन दुःखेन सुखात्मक एव सन् कृत्स्नं परहितहेतुकं दुःखमभ्युपगच्छति / इदं बोधिसत्त्वस्य प्रथममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते / पुनरपरं यद् बोधिसत्त्वः संसारदोषज्ञो निर्वाणगुणज्ञ एव च सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा संसारमभ्युपगच्छति / इदं बोधिसत्त्वस्य द्वितीयमनाश्चर्यं पूर्ववत् / पुनरपरं यद् बोधिसत्त्वस्तूष्णींभाव-सुखरसज्ञ एव सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकं सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सत्त्वानां धर्मेदेशनायै प्रयुज्यते / इदं बोधिसत्त्वस्य तृतीयमनाश्चर्यं पूर्ववत् / पुनरपरं यद् बोधिसत्त्वः [षट्] पारमितोपचितं कुशलमूलं सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सर्वसत्त्वानामाशयतः समुत्सृजति / न च पुनस्तस्य समुत्सर्गस्य विपाकेनार्थी भवति / इदं बोधिसत्त्वस्य चतुर्थमनाश्वर्यं पूर्ववत् / पुनरपरं यद् बोधिसत्त्वः परकार्यस्वकार्य इव सर्वपरकार्यार्थक्रियासु संदृश्यते / इदं बोधिसत्त्वस्य पञ्चममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते /

पञ्चभिराकारैर्बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो वेदितव्यः / कतमैः पञ्चभिः / प्रथमेन बोधाय चित्तोत्पाद-प्रणिधानेन / तथा हि बोधिसत्त्वः सर्वसत्त्वानामर्थे समं तच्चित्तमुत्पादयति / अनुकम्पासहगतेन चित्तेन समचित्तो भवति / बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक इव प्रेमसहगतेन चित्तेन समचित्तो भवति / बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक एव प्रेमसहगतेन चित्तेन समचित्तो भवति / बोधिसत्त्वः सर्वसत्त्वेषु प्रतीत्यसमुत्पन्नेषु च [सर्व]संस्कारेषु सत्त्वसंज्ञेति विदित्वा बोधिसत्त्वो या एकस्य सत्त्वस्य धर्मता सा सर्वेषामिति धर्मसमतानुगतेन चेतसा सर्वसत्त्वेषु समचित्तो विहरति / यथा चैकस्य सत्त्वस्यार्थमाचरति तथा सर्वेषाम् / एवं हि बोधिसत्त्वः सर्वार्थक्रियासहगतेन चेतसा सर्वसत्त्वेषु स्मचित्तो विहरति / एभिः पञ्चभिराकारैर्बोधिसत्त्वः सत्त्वेषु समचित्तो भवति /

पञ्चभिराकारैर्बोधिसत्त्वानां सत्त्वेषु सर्वोपकारक्रिया वेदितव्या / कतमैः पञ्चभिः / सम्यगाजीवव्यपदेशोपसंहारेण / विलोमेषु च कृत्येष्वर्थोपसंहितेष्वनुलोमोपदेशोपसंहारेण / अनाथानां च दुःखितानां कृपणानामप्रतिशरणानां सनाथक्रियया / सुगतिगमनाय मार्गव्यपदेशोपसंहारेण यानत्रयव्यपदेशोपसंहारेण च /

पञ्चभिराकारैः सत्त्वा उपकारिणो बोधिसत्त्वस्य प्रत्युपकारेण प्रत्युपस्थितो भवन्ति / कतमैः पञ्चभिः / आत्मानं गुणैः संयोजयन्ति परगुणाधानाय प्रयुक्तारो भवन्ति / अनाथेषु दुःखितेषु कृपणेष्वप्रतिशरणेषु सत्त्वेषु सानाथ्यं कुर्वन्ति / तथागतान् पूजयन्ति / तथागताभाषितञ्च धर्ममुखेन वा लेखयित्वा वा धारयन्ति तञ्च पूजयन्ति /

पञ्चेमानि स्थानानि बोधिसत्त्वेन नित्यमेवमाशंसितव्यानि भवन्ति / कतमानि पञ्च / बुद्धोत्पादारागणता / तेषामेव च बुद्धानामन्तिकात् षटे पारमिता-बोधिसत्त्वपिटकश्रवणम् / सर्वाकारसत्त्वपरिपाचनप्रतिअबलता / अनुत्तरसम्यक्संबोधिप्राप्तिः / अभिसंबोधेश्च श्रावकसामग्री /

पञ्चभिः कारणैः बोधिसत्त्वस्य सत्त्वेष्व्वबन्ध्यो ऽर्थक्रिया-प्रयोगो भवति / कतमैः पञ्चभिः / इह बोधिसत्त्व आदित एव सत्त्वेषु हितसुखैषी भवति / तच्च हितसुखं यथाभूतं प्रजानाति / अविपर्यस्तबुद्धिर्भवति / इति सर्वं पूर्ववद् वेदितव्यं यद्यथा पूजासेवा ऽप्रमाणपटले /

उद्दानम् /

सम्यक् प्रयोगो हानिश्च विशेषगमनं तथा / प्रतिरूपाश्च भूताश्च गुणा विनयनं तथा //

पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्संप्रयोग संग्रहो वेदितव्यः कतमैः पञ्चभिः / अनुरक्षणा-प्रयोगेण / अनवद्यप्रयोगेण प्रतिसंख्यानबलप्रयोगेण / अध्याशयशुद्धिप्रयोगेण / नियतपतितप्रयोगेण च /

तत्र बोधिसत्त्वो ऽनुरक्षणा प्रयोगेण मेधां रक्षति येन सहजेन ज्ञानेन धर्मान् लघुलध्वेवोद्गृह्णाति / स्मृतिं रक्षति यया स्मृत्या उद्गृहीतान् धर्मान् धारयति / ज्ञानमारक्षति येन ज्ञानेन धृतानां धर्माणामर्थमुपपरीक्षते / सम्यक् प्रज्ञया प्रतिविध्यति मेधास्मृतिबुद्धिहानभागीयनिदानपरिवर्जनतया स्थितिवृद्धिभागीयनिदानप्रतिनिषेवणतया च / स्वचित्तमारक्षति इन्द्रियाणां गुप्तद्वारतया / परचित्तमारक्षति सम्यक्परिचित्तानुवर्तनतया / तत्र बोधिसत्त्वस्यानवद्यप्रयोगो यः कुशलेषु धर्मेष्वविपरीतश्चोत्तप्तश्चाप्रमाणश्च सततश्च बोधिपरिणामितश्च / प्रतिसंख्यानबलप्रयोगः पुनरस्य सर्वस्यामधिमुक्तिचर्याभूमौ द्रष्टव्यः / [शुद्धाध्याशयप्रयोगः] शुद्धाध्याशयभूमौ चर्या प्रतिपत्तिभूमौ च द्रष्टव्यः / नियतिपतितप्रयोगो नियतायां भूमौ निष्ठागमनभूमौ च द्रष्टव्यः / इवमेभिः पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्प्रयोगसंग्रहो भवति /

पञ्चेमे बोधिसत्त्वस्य हानभागीया धर्मा वेदितव्याः / कतमे पञ्च / अगौरवता धर्मे धर्मभाणके च / प्रमादकौसीद्यम् / क्लेश-आसेवा ऽधिवासनता / दुश्चरित-आसेवा ऽधिवासनता / तदन्यैश्च बोधिसत्त्वैः सह परितुलनाभिमानता धर्मविपर्यासाभिमानता च /

पञ्चेमे बोधिसत्त्वस्य धर्मा विशेषभागीया वेदितव्याः / ते पुनरेषामेव पञ्चानां कृष्णपक्ष्याणां धर्माणां यथाक्रमं विपर्ययेण वेदितव्याः /

पञ्चेमे बोधिसत्त्वानां गुणप्रतिरूपकः बोधिसत्त्वदोषा वेदितव्याः / कतमे पञ्च / रौद्रदुःशीलेषु सत्त्वेषु ततो निदानमपकारक्रिया / कुहकस्येर्यापथसम्पत्तिक्रल्पना / लोकायतैर्मन्त्रैस्तीर्थिकशास्त्रप्रविसंयुत्तैर्ज्ञात्र प्रतिलम्भः पण्डितसंख्या-गमनता च / सावद्यस्य च दानादिकस्य कुशलस्याध्याचारः / सद्धर्मप्रतिरूपकाणां च / रोचना देशना व्यवस्थापना /

पञ्चेमे बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा वेदितव्याः / कतमे पञ्च / रौद्रदुःशीलेषु सत्त्वेषु विशेषेण कारुण्यचित्तता / प्रकृत्या ईर्यापथसंपन्नता / तथागतप्रणीतेनागमाधिगमेन ज्ञात्रप्रतिलम्भः / पण्डितसंख्यागमनता च / अनवद्यस्य च दानादिकस्य कुशलस्य क्रिया / सद्धर्मस्य च प्रकाशना सद्धर्मप्रतिरूपकाणां च प्रतिक्षेपणता /

दशसु स्थानेषु समासतो बोधिसत्त्वा विनेयान् सत्त्वान् सम्यगेव विनयन्ति / कतमेषु दशसु / दुश्चरितविवेके / [कामविवेके] / आपत्त्यन ध्याचारव्युत्थाने / इन्द्रियैर्गुप्तद्वारतायाम् / संप्राजनविहारितायाम् / संसर्गविवेके प्रविविक्तस्यासद्वितर्कंविवेके / आवरणविवेके / क्लेशपर्यवस्थानविवेके / क्लेशपक्षदौष्ठुल्यविवेके च /

उद्दानम् /

व्याकृतिर्नियतौ पातो ह्यवश्यकरणीयता / सातत्यकरणीयञ्च प्राधान्यं पश्चिमं भवेत् //

षड्भिराकारैः समासतस्तथागता बोधिसत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकुर्वन्ति / कतमैः षड्भिः / गोत्रस्थमनुत्पादितचित्तम् / तथोत्पादितं चित्तम् सम्मुखावस्थितम् / विपरोक्षावस्थितम् / परिमितं कालमियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति / अपरिमितकालं व्याकुर्वन्ति न तु कालनियम कुर्वन्ति /

त्रय इमे बोधिसत्त्वस्य नियतिपाताः / कतमे त्रयः / गोत्रस्थ एव बोधिसत्त्वो नियतिपतित इत्युच्यते / तत्कस्य हेतोः / भव्यो ऽसौ प्रत्ययानासाद्य नियतमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / पुनरेकत्यो बोधिसत्त्वो नियतं चित्तमुत्पादयत्यनुत्तरायां सम्यक्संबोधौ न पुनस्तावत्प्रत्युदावर्तयति यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / पुनर्बोधिसत्त्वो वशिताप्राप्तः सर्वां सत्त्वार्थचर्यां यथेच्छति यथारभते तथैवाबन्ध्यां करोति / त एते त्रयो नियतिपाता भवन्ति / गोत्रस्थनियतिपातः / चित्तोत्पादनियतिपातः / अबन्ध्य-चर्या-नियतिपातश्च / तत्र पश्चिमं नियतिपातमारभ्य तथागता नियतिपतितं बोधिसत्त्वं व्याकुर्वाणा व्याकुर्वन्ति /

पञ्चेमानि स्थानानि बोधिसत्त्वस्यावश्यकरणीयानि भवन्ति यान्यकृत्वा बोधिसत्त्वः अभव्यो भवत्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / कतमानि पञ्च / प्रथमश्चित्तोत्पादः / सत्त्वेष्वनुकम्पा / उत्तप्तवीर्यम् / सर्वविद्यास्थानेषु योग्यता / अखेदश्च /

पञ्चेमानि बोधिसत्त्वस्य स्थानानि सातत्यकरणीयानि / कतमानि पञ्च / अप्रमादो बोधिसत्त्वस्य सातत्यकरणीयः / अनाथेषु सत्त्वेषु [दुःखितेषु च] अप्रतिशरणेषु सनाथक्रिया / तथागतपूजा स्खलितपरिज्ञानम् / सर्वक्रियाचारविहारमनसिकारेषु बोधिचित्तपूर्वङ्गमता बोधिसत्त्वस्य पञ्चमं सातत्यकरणीयम् /

दशेमे धर्मा बोधिसत्त्वानां प्रधानसम्मता यान् बोधिसत्त्वा अग्रतो धारयन्त्यग्र्यप्रज्ञप्तिषु च प्रज्ञपयन्ति / कतमे दश / बोधिसत्त्वगोत्रं सर्वगोत्राणां प्रधानम् / प्रथमश्चित्तोत्पादः सर्वसम्यक् प्रणिधानानं प्रधानम् / वीर्यं च प्रज्ञा च सर्वपारमितानां प्रधानम् / प्रियवादिता सर्वसंग्रहवस्तूनां प्रधानम् / तथागतः सर्वसत्त्वानां प्रधानम् / करूणा ऽप्रमाणानां प्रधानम् / चतुर्थं ध्यानं [सर्वध्यानानां प्रधानम् /] त्रयाणां समाधीनां शून्यतासमाधिः प्रधानम् / सर्वसमापत्तीनां (dutt 198) निरोधसमापत्तिः प्रधानम् / सर्वोपायकौशल्यानां विशुद्धमुपायकौशल्यं यथानिर्दिष्टं प्रधानम् /

उद्दानम् /

प्रज्ञप्तेः स्याद्व्यवस्थानं धर्माणामेषणा तथा / यथाभूतपरिज्ञानमप्रमेयास्तथैव च //

देशनायाः फलं चैव महत्त्वं यानसंग्रहः / बोधिसत्त्वा दश ज्ञेया नामप्रज्ञप्तयस्तथा //

चत्वारीमानि बोधिसत्त्वानां प्रज्ञप्तिव्यवस्थानानि यानिं बोधिसत्त्वा एव सम्यक् प्रज्ञपयन्ति व्यवस्थापयन्ति तथागता वा / न त्वन्यः कश्चिद्देवभूतो वा मनुष्यभूतो वा श्रमणब्राह्मणभूतो वान्यत्रैतेभ्य एवं श्रुत्वा / कतमानि चत्वारि / धर्मप्रज्ञप्तिव्यवस्थानं सत्यप्रज्ञप्तिव्यवत्त्थानं युक्तिप्रज्ञप्तिव्यवस्थानं यानप्रज्ञप्तिव्यवस्थानञ्च /

तत्र या द्वादशाङ्गस्य सूत्रादिकस्य वचोगतस्यानुपूर्वरचना अनुपूर्वव्यवस्थानसमायोगः / इदमुच्यते धर्मप्रज्ञप्तिव्यवस्थानम् /

सत्यप्रज्ञप्तिव्यवस्थानं पुनरनेकविधम् / अवितथार्थेन तावदेकमेव सत्यं न द्वितीयमस्ति / द्विविधं सत्यम् / संवृतिसत्यं परमार्थसत्यं च / त्रिविधं सत्यम् / लक्षणसत्यं वाक्सत्यं क्रियासत्यं च / [चतुर्विधं सत्यम् /] दुःखसत्यं यावन्मार्गसत्यम् / पञ्चविधं [सत्यम् /] हेतुसत्यं फलसत्यं ज्ञानसत्यं ज्ञेयसत्यं अग्र्यसत्यं च / षड्विधं [सत्यम्] / सत्यसत्यं मृषासत्यं परिज्ञेयसत्यं प्रहातव्यसत्यं साक्षात्कर्तव्यसत्यं भावयितव्यसत्यं च / सप्तविधं सत्यम् / आस्वादसत्यं आदीनवसत्यं निःसरणसत्यं धर्मतासत्यं अधिमुक्तिसत्यं आर्याणां सत्यं अनार्याणां सत्यं च / अष्टविधं [सत्यं] / संस्कारदुःखतासत्यं विपरिणामदुःखतासत्यं दुःखदुःखतासत्यं प्रवृत्तिसत्यं निवृतिसत्यं संक्लेशसत्यं व्यवदानसत्यं सम्यक्प्रयोगसत्यं च / नवविधं [सत्यम्] / अनित्यसत्यं दुःखसत्यं शून्यतासत्यं नैरात्म्यसत्यं [भवतृष्णासत्यं] (dutt 199) विभवतृष्णासत्यं तत्प्रहाणोपायसत्यं सोपधिशेषनिर्वाणसत्यं निरुपधिशेषनिर्वाणसत्यं [च] / दशविधं सत्यम् / औपक्रमिकदुःखसत्यं भोगवैकल्यदुःखसत्यं धातुर्वैषम्यदुःखसत्यं प्रियविपरिणामदुःखसत्यं दौष्ठुल्यदुःखसत्यं कर्मसत्यं क्लेशसत्यं तथा श्रवणयोनिशोमनस्कारसत्यं सम्यक्दृष्टिसत्यं सम्यग्दृष्टिफलसत्यं चेति / इदमुच्यते बोधिसत्त्वानां सत्यप्रज्ञप्तिव्यवस्थानम् / प्रभेदशः पुनरेतदप्रमाण वेदितव्यम् /

चतस्रो युक्तयो युक्तिप्रज्ञप्तिव्यवस्थानमित्युच्यते / तासां पुनः प्रविभागः पूर्ववद्वेदितव्यः /

त्रयाणां यानानां एकैकस्य सप्तभिराकारैः प्रज्ञप्तिव्यवस्थानम् / श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य यानप्रज्ञप्तिव्यवस्थानमित्युच्यते / चतुर्ष्वार्यसत्येषु या प्रज्ञा तस्या एव च प्रज्ञाया य आश्रयः आलम्बनं सहायः कर्म संभारस्तस्या एव च प्रज्ञाया यत् फलम् एभिः सप्तभिराकारैः श्रावकयानप्रज्ञप्तिव्यवस्थानं साकल्येन वेदितव्यम् / यथा श्रावकयानमेवं प्रत्येकबुद्धयानप्रज्ञप्तिव्यवस्थानम् / निरभिलाप्यं वस्त्वालम्बनीकृत्य सर्वधर्मेषु या तथता निर्विकल्पसमता निर्याणता प्रज्ञा तस्या एव च प्रज्ञाया य आश्रय आलम्बनं सहायः कर्म सम्भारस्तस्या एव च प्रज्ञाया यत्फलम् / इत्येभिः सप्तभिराकारैर्महायानप्रज्ञप्तिव्यवस्थानं वेदितव्यम् / अतीतानागतप्रत्युत्पन्नेष्वध्वषु ये केचिद्बोधिसत्त्वाः सम्यक्प्रज्ञप्तिव्यवस्थानं कृतवन्तः करिष्यन्ति कुर्वन्ति वा पुनः सर्वे त एभिश्चतुभिर्वस्तुभिः / नात उत्तरि नातो भूयः /

चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञायै पर्येषणावस्तूनि / कतमानि चत्वारि / नामपर्येषणा / वस्तुपर्येषणा / स्वभावप्रज्ञप्तिपर्येषणा / विशेषप्रज्ञप्तिपर्येषणा च / एषां च विभागः पूर्ववद्वेदितव्यः तद्यथा तत्त्वार्थपटले /

(dutt 200) चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञानानि / कतमानि चत्वारि / नामपर्येषणागतं यथाभूतपरिज्ञानं वस्तुपर्येषणागतं स्वभावप्रज्ञप्तिपर्येषणागतं विशेषप्रज्ञप्तिपर्येषणागतं यथाभूतपरिज्ञानम् / एषामपि विभागः पूर्ववद्वेदितव्यः / [तद्यथा तत्त्वार्थपटले /] /

पञ्चेमे अप्रमेया बोधिसत्त्वानां सर्वकौशल्यक्रियायै संवर्तन्ते / कतमे पञ्च / सत्त्वधातुरप्रमेयो लोकधातुरप्रमेयो धर्मधातुरप्रमेयः / विनेयधातुरप्रमेयो विनेयोपायश्चाप्रमेयः / चतुःषष्टिः सत्त्वनिकायाः सत्त्वधातुस्तद्यथा मनोमप्यां भूमौ / सन्तानभेदेन पुनरप्रमेयः / दशसु दिक्षुप्रमेया अप्रमेयनामलोकधातवस्तद्यथा इयं सहा नाम लोकधातुर्यस्य नाम्ना ब्रह्मा सहांपतिरित्युच्यते / कुशलाकुशलाव्याकृता धर्माः प्रभेदनयेनाप्रमेया वेदितव्याः / स्यादेकविधो विनेयः सर्वसत्त्वा विनेया इति कृत्वा / स्याद् द्विविधः / सकलबन्धनो विकलबन्धनश्च / स्यात् त्रिविधः मृद्विन्द्रियो मध्येन्द्रियस्तीक्ष्णेन्द्रियश्च / चतुर्विधः / क्षत्रियो ब्राह्मणो वैश्यः शूद्रश्च / पञ्चविधः / रागचरितो द्वेषचरितो मोहचरितो मानचरितो वितर्कचरितश्च / षड्विधः / गृही प्रव्रजितः अपरिपक्वः परिपक्वो [ऽविमुक्तश्च] विमुक्तश्च / सप्तविधः / प्रतिहतो मध्यस्थः विपञ्चितज्ञः उद्धटितज्ञः तदात्वविनेयः आपत्तिविनेयः प्रत्ययहार्यश्चविनेयो यादृशान् प्रत्ययान् लभते तथा तथा परिणमति / अष्टविधः / अष्टौ परिषदः / क्षत्रियपरिषदमादिं कृत्वा यावद्ब्रह्मपरिषत् / नवविधः / तथागतविनेयः श्रावकप्रत्येकबुद्धविनेयः बोधिसत्त्वविनेयः कृच्छ्रसाध्यः [अकृच्छ्रसाध्यः] श्लक्ष्णसाध्यः अवसादना-साध्यः दूरे विनेयः अन्तिके च विनेयः / दशविधः / नारकः तैर्यक्योनिकः यामलौकिकः कामावचरो दिव्यमानुष्यकः आन्तराभविकः रूपी अरूपी सज्ञी असंज्ञी नैवसज्ञीनासंज्ञी च / अयं तावत् प्रकारभेदेन पञ्चपञ्चाशदाकारः / अप्रमाणस्तु सन्तानप्रभेदेन वेदितव्यः / तत्र (dutt 201) सत्त्वधातु विनेयधात्वोः किं नानाकरणम् सत्त्वधातुरविशेषेण सर्वसत्त्वा गोत्रस्थाश्चागोत्रस्थाश्च / ये पुर्नगोत्रस्था एव तासु ताष्ववस्थासु वर्तन्ते / स विनेयधातुरित्युच्यते / विनेयोपायः पुनः पूर्ववद्यथा निर्दिष्टो वेदितव्यः / सो ऽपि चाप्रभेयः प्रकारभेदतः /

त एते ऽभिसमस्य पञ्चाप्रमेया भवन्ति / तत्कस्य हेतोः / इह बोधिसत्त्वो येषां सत्त्वानामर्थे प्रयुज्यते स प्रथमो ऽप्रमेयः / तान्पुनः सत्त्वान् यत्रस्थानुपलभते / स द्वितीयो ऽप्रमेयः तान्पुनः सत्त्वांस्तेषु तेषु लोकधातुषु यैर्धर्मैः संक्लिश्यमानांश्च विशुध्यमानांश्चोपलभते / स तृतीयो ऽप्रमेयः / तेभ्यश्च सत्त्वेभ्यो यान्सत्त्वान् भव्यान् शक्यरुपानत्यन्तदुःखविमोक्षाय पश्यति / स चतुर्थो ऽप्रमेयः / यश्चोपायस्तेषामेव सत्त्वानां विमोक्षाय स पञ्चमोप्रमेयः / तस्मादेते पञ्चाप्रमेया बोधिसत्त्वानां सर्व[कौशल]क्रियायै संवर्तन्ते /

पञ्चेमे बुद्धबोधिसत्त्वानां सत्त्वेषु धर्मदेशनाया विपुलाः फलानुशंसा वेदितव्याः / कतमे पञ्च / तदेकत्याः सत्त्वाः तस्मिन्नेव सद्धर्मे देश्यमाने विरजो विगतमलं धर्मेषु धर्मचक्षुरूत्पादयन्ति / तदेकत्याः सत्त्वा देश्यमान एव सद्धर्मतः आस्रवक्षयमनुप्राप्नुवन्ति / तदेकत्याः सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति / तदेकत्याः सत्त्वाः परमां बोधिसत्त्वक्षान्तिं प्रतिलभन्ते / श्रुतमात्र एव तस्मिन्सद्धर्मे देशितश्च सद्धर्मो बुद्धैर्बोधिसत्त्वैश्च उद्देशस्वाध्यायसंप्रतिपत्तिपारंपर्ययोगेन सद्धर्मनेत्र्याश्चिरस्थितिकतायै संवर्तते / इतीमे पञ्च देशनाया विपुलाः फलानुशंसा वेदितव्याः /

सप्तेमानि महत्त्वानि यैर्युक्तं बोधिसत्त्वानां यानं महायानमित्युच्यते / कतमानि सप्त / धर्ममहत्त्वम् / तद्यथा द्वादशाङ्गाद्वचोगताद् बोधिसत्त्वपिटकवैपुल्यम् / चित्तोत्पादमहत्त्वम् / तद्यथा एकत्यो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति / अधिमुक्तिमहत्त्वम् / तद्यथैकत्यः तस्मिन्नेव च धर्ममहत्त्वे ऽधिमुक्तो भवति / अध्याशयमहत्त्वम् / तद्यथैकत्यः अधिमुक्तिचर्याभूमिं (dutt 202) समतिक्रम्याध्याशयशुद्धिभूमिमनुप्रविशति / सम्भारमहत्त्वम् / यस्य पुण्यसम्भारस्य ज्ञानसम्भारस्य समुदागमादनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते / कालमहत्त्वम् / येन कालेन यैस्त्रिभिष्कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / समुदागममहत्त्वम् / सैवानुत्तरा सम्यक्संबोधिः / यस्यात्मभावसमुदागमस्यान्यः आत्मभावसमुदागमः समो नास्ति / कुतः पुनरुत्तरि कुतो भूयः / तत्र यच्च धर्ममहत्त्वं यच्च चित्तोत्पादमहत्त्वं यच्चाधिमुक्तिमहत्त्वं यच्चाध्याशयमहत्त्वं यच्च सम्भारमहत्त्वं यच्च कालमहत्त्वमितीमानि षट्महत्त्वानि हेतुभूमानि समुदागम-महत्त्वस्य / तत्पुनरेकं समुदागम-महत्त्वं फलस्थानीयमेषां षण्णां वेदितव्यम् /

अष्टाविमे धर्माः सर्वस्य महायानस्य संग्रहाय संवर्तन्ते / बोधिसत्त्वपिटकदेशना / तस्मिन्नेव च बोधिसत्त्वपिटके य सर्वधर्माणां तत्त्वार्थप्रकाशना / तस्मिन्नेव बोधिसत्त्वपिटके या सर्वबुद्धबोधिसत्त्वानामचिन्त्या परमोदारा प्रभावसंप्रकाशना / तस्य च यद्योनिशः श्रवणम् / योनिशश्च चिन्तापूर्वकमध्याशयोपगमनम् / अध्याशयोपगमनपूर्वंकश्च भावनाकारप्रवेशः / भावनाकारप्रवेशपूर्विका च भावनाफलपरिनिष्पत्तिः / तश्या एव च भावनाफलपरिनिष्पत्तेरत्यन्तनैर्याणिकता / एवं हि बोधिसत्त्वाः शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्थन्ते /

के पुनस्ते बोधिसत्त्वा य एवं शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते / ते समासतो दश वेदितव्याः / गोत्रस्थः / अवतीर्णः / अशुद्धाशयः / शुद्धाशयः / अपरिपक्वः / परिपक्वः / अनियतिपतितः / नियतिपतितः / एकजातिप्रतिबद्धः / चरमभविकश्चेति / तत्र गोत्रस्थो बोधिसत्त्वः शिक्षमाणश्चित्तमुत्पादयति / सो ऽवतीर्ण इत्युच्यते / स एव पुनरवतीर्णो यावत् शुद्धाशयभूमिमप्रविष्टो भवति तावदशुद्धाशय इत्युच्यते / प्रविष्टस्तु शुद्धाशयो भवति / स एव पुनः शुद्धाशयो यावन्निष्ठागमनभूमिमप्रविष्टो भवति तावदपरिपक्व इत्युच्यते / प्रविष्टस्तु परिपक्वो भवति / स पुनरपरिपक्वो यावन्नियतनियताचर्याभूमौ (dutt 203) वा नानुप्रविष्टो भवति तावदनियत इत्युच्यते / प्रविष्टस्तु नियतो भवति / स एव पुनः परिपक्वौ द्विविधः / एकजातिप्रतिबद्धो यस्य जन्मनो ऽनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / चरमभविकश्च तस्मिन्नेव जन्मनि स्थितो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / तत्र ते गोत्रमुपादाय यावदनुत्तरायाः सम्यक्संबोधेर्दश बोधिसत्त्वा निर्दिष्टाः / ये बोधिसत्त्वशिक्षासु शिक्षन्ते तेषां नात उत्तरि शिक्षा विद्यते / यत्र शिक्षेरन् यथा च शिक्षेरन् न च एभ्यो यथा निर्दिष्टेभ्यो बोधिसत्त्वेभ्य उत्तरि बोधिसत्त्वो विद्यते यो बोधिसत्त्वशिक्षासु शिक्षते /

तेषां पुनः सर्वेषां एव बोधिसत्त्वानामभेदेनिमान्येवं भागीयानि गौणानि नामानि वेदितव्यानि / तद्यथा बोधिसत्त्वो महासत्त्वः धीमानुत्तमद्युतिः जिनपुत्रो जिनाधारः विजेता जिनाङ्कुरः विक्रान्तः परमार्यः सार्थवाहो महायशः कृपालुर्महापुण्यः ईश्वरो धार्मिकश्चेति / तेषां पुनर्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वनन्तानां बोधिसत्त्वानामप्रमेयाः प्रयात्मगताः संज्ञाप्राप्तयो वेदितव्याः / तत्र ये बोधिसत्त्वाः स्म इति प्रतिज्ञायां बोधिसत्त्वा वर्तन्ते न च बोधिसत्त्वशिक्षासु सम्यक् प्रतिपद्यन्ते ते बोधिसत्त्वप्रतिरूपका वेदितव्याः / नो तु भूताः / बोधिसत्त्वाः स्म इति प्रतिज्ञायां वर्तन्ते सम्यक् [च ये] बोधिसत्त्वशिक्षाषु शिक्षन्ते ते भूता बोधिसत्त्वा वेदितव्याः /

इति बोधिसत्त्वभूमावाधारे योगस्थाने बोधिसत्त्वगुणपटलमष्टादशमम् /

समाप्तं चाधारयोगस्थानम् /

आधारानुधर्मयोगस्थानम् (book 2) बोधिसत्त्वलिङ्गपटलम् (छप्तेर् 2.1)

उद्दानम् /

स्वभावो ऽधिष्ठानं [फलानुशंसः] अनुक्रमः संग्रहेण च /

पञ्चेमानि भूतस्य बोधिसत्त्वस्य बोधिसत्त्वलिङ्गानि यैः समन्वागतो [बोधिसत्त्वो] बोधिसत्त्व इति संख्यां गच्छति / कतमानि पञ्च / अनुकम्पा प्रियवादिता वैर्यं मुक्तहस्तता गम्भीरार्थसन्धिनिर्मोचनता च / इमे पुनः पञ्च धर्माः पञ्च परिवर्तेन वेदितव्याः / स्वभावतो ऽधिष्ठानतः फलानुसंशतः अनुक्रमतः संग्रहतश्च /

तत्रानुकम्पायाः स्वभावो द्विविधः / आशयगतः प्रतिपत्तिगतश्च / तत्राशयगतो हिताशयः सुखाशयश्च बोधिसत्त्वस्य सत्त्वेष्वनुकम्पेत्युच्यते / प्रतिपत्तिगतश्च स्वभावतो ऽनुकम्पायाः यदाशयो भवति बोधिसत्त्वः सत्त्वेषु तदेव यथाशक्त्या यथाबलं कायेन वाचा उपसंहरति / तत्र प्रियवादितायाः स्वभावः पूर्ववदामोदनी संमोदनी उपकरा च वाग्वेदितव्या / तद्यथा संग्रहवस्तुपटले / तत्र सत्त्वं धृतिरलीनत्वं च यद्बलं बोधिसत्त्वस्य अयं वैर्यंस्वभाव इत्युच्यते / तत्र या बोधिसत्त्वस्योदारदानता असंक्लिष्टदानता वा / अयं मुक्तहस्ततायाः स्वभावो वेदितव्यः / चतस्रः प्रतिसंविदस्तासामेव चाभिनिर्हाराय यत्सम्यक् प्रायोगिकं ज्ञानमयं बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनतायाः स्वभावो वेदितव्यः /

तत्रानुकम्पायाः पञ्चाधिष्ठानानि / कतमानि पञ्च / दुःखिताः सत्त्वा दुश्चरितचारिणः प्रमत्ता मिथ्याप्रतिपन्नाः क्लेशानुशयिताश्च / नारकान्सत्त्वानुपादाय शेषां केषांचित्सत्त्वानां दुःखा वेदना प्राबन्धिकी सन्ततिसमारूढा वर्तते / (dutt 208) इमे [ते] सत्त्वा दुःखिता इत्युच्यन्ते / ये पुनर्नावश्यं दुःखिताअपि तु बहुलं कायदुश्चरितमध्याचरन्ति वाग्दुश्चरितं मनोदुश्चरितमध्याचरन्ति / तत्र चाभिरतरूपा विहरन्ति / इमे सत्त्वा दुश्चरितचारिण इत्युच्यन्ते तद्यथा औरभ्रिक-शौकरिक-कौक्कुटिकप्रभृतयः / ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणो ऽपि त्वध्यवसिताः कामानुपभुञ्जते नटनर्तकहासकलासकप्रेक्षणपरा विहरन्ति आत्मोपलाडनपराः / इमे सत्त्वाः प्रमत्ता इत्युच्यन्ते तद्यथा तदेकत्याः कामोपभोगिनः / ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणो न वापि प्रमत्ताः अपि तु दृष्टिविपत्तिमाश्रित्य दुःखविमोक्षाय प्रतिपन्नाः / इमे सत्त्वा मिथ्याप्रतिपन्ना इत्युच्यन्ते तद्यथा कामानुत्सृज्य दुराख्याते धर्मविनये प्रव्रजिताः / ये पुनः सत्त्वा नावश्यं दुःखिता विस्तरेण यावन् न मिथ्याप्रतिपन्नाः अपि तु सकलबन्धनाश्च विकलबन्धनाश्च क्लेशैः इमे सत्त्वाः क्लेशानुशयिता इत्युच्यन्ते तद्यथा ये च सम्यक् प्रयुक्ताः पृथग्जना कल्याणका ये च शैक्षाः एतावदनुकम्पाधिष्ठानं बोधिसत्त्वानां येनाधिष्ठानेन येनालम्बनेनानुकम्पा प्रवर्तते / नात उत्तरि नातो भूयः /

पञ्चेमानि बोधिसत्त्वानां प्रियवादिताया अधिष्ठानानि / कतमानि पञ्च / सम्यगालपना सम्यगानन्दना सम्यगाश्वासना सम्यक्प्रवारणा न्यायोपदेशश्च / तेषां पुनः प्रतिभागो वेदितव्यः / तद्यथा संग्रहवस्तुपटले / एभिः पच्चभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां प्रियवादिता प्रवर्तते / नात उत्तरि नातो भूयः /

पञ्चेमानि बोधिसत्त्वस्य वैर्याधिष्ठानानि वेदितव्यानि / कतमानि पञ्च / यैरेव पञ्चभिराकारैर्बोधिपक्षपटले धृतिबलाधानता बोधिसत्त्वानामुक्ता तान्येव बोधिसत्त्वस्य वैर्याधिष्ठानानि वे दितव्यानि / यैरधिष्ठानैर्यैरालम्बनैर्बोधिसत्त्वस्य वैर्य प्रवर्तते / नात उत्तरि नातो भूयः /

पञ्चेमानि बोधिसत्त्वस्य मुक्तहस्तताया अधिष्ठानानि / कतमानि पञ्च / अभीक्ष्णदानता प्रमुदितदानता सत्कृत्यदानता असंक्लिष्टदानता अनिश्रित्यदानता च / एषां पुनर्विस्तरेण विभागो वेदितव्यः / तद्यथा दानपटले / एभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां मुक्तहस्तता प्रवर्तते / नात् उत्तरि नातो भूयः /

पञ्चेमानि बोधिसत्त्वस्य गम्भीरार्थसन्धिनिर्मोचनताया अधिष्ठानानि / कतमानि पञ्च / ये ते तथागतभाषिताः सूत्रान्ताः गम्भीरागम्भीरावभाषाः शून्यता-प्रतिसंयुक्ता इदंप्रत्ययता / प्रतीत्यसमुत्पादानुलोमाः / इदं प्रथममधिष्ठानम् / विनये वा पुनरापत्तिकौशल्यमापत्तिव्युत्थान-कौशल्यं च / इदं द्वितीयमधिष्ठानम् / मातृकायां वा पुनरविपरीतं धर्मलक्षणव्यवस्थानम् / इदं तृतीयमधिष्ठानम् / आभिप्रायिकनिगूढधर्मसंज्ञार्थविभावनता / इदं चतुर्थमधिष्ठानम् / सर्वधर्माणाञ्च धर्मार्थनिर्वचनप्रकारभेदः / इदं पञ्चममधिष्ठानम् / येनाधिष्ठानेन येनालम्बनेन बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनता प्रवर्तते / नात उत्तरि नातो भूयः /

अनुकम्पा बोधिसत्त्वस्य सत्त्वेष्वादित एव तावद्वैरप्रहाणाय संवर्तते / तथानुकम्पको बोधिसत्त्वः सर्वसत्त्वार्थक्रियासु अदिनमनाः प्रयुज्यते / तस्मिंश्च प्रयोगे न परिखिद्यते / अनुकम्पा तद्-बहुलविहारिता चास्यानवद्यदृष्टधर्मसुखविहाराय परानुग्रहाय च संवर्तते / ये च भगवता मैत्र्या अनुशंसा उक्तानास्य काये विषं क्रामति न शस्रमित्येवमादयः / ते ऽप्यनुकम्पकस्य बोधिसत्त्वस्य सर्वे वेदितव्याः / इत्ययमनुकम्पाया बोधिसत्त्वानां फलानुशंसो द्रष्टव्यः /

प्रियवादी बोधिसत्त्वो दृष्टे धर्मे चतुर्विधं वाग्दोषं विजहाति मृषावादं पैशून्यं षारुष्यं सम्भिन्नप्रलापञ्च / सा चास्य बागात्मानुग्रहाय परानुग्रहाय च प्रवृत्ता भवति / दृष्ट एव च धर्मे आयत्यां च प्रियवादी बोधिसत्त्वः आदेयवचनो भवति ग्राह्यवचनः / इत्ययं बोधिसत्त्वस्य प्रियवादितायाः [फला]नुशंसो वेदितव्यः /

धीरो बोधिसत्त्वो दृष्टे [तावत] धर्मे सर्वेण सर्वमालस्यकौसीद्यापगतो भवति प्रमुदितचित्तश्च / बोधिसत्त्वशीलसंवरसमादानं करोति / कृत्वा च न (dutt 210) विषीदति / आत्मानं च परञ्च क्षान्त्यानुगृह्णाति / आयत्यां च सर्वबोधिसत्त्वकृत्यसमारम्भेषु प्रकृत्या दृढसमारंभो भवति / नाकृत्वा विनिवर्तते / इतीमे बोधिसत्त्वानां वैर्यफलानुशंसा वेदितव्या /

मुक्तहस्तताया गम्भीरार्थसन्धिनिर्मोचनतायाश्च फलानुशंसा वेदितव्याः / तद्यथा प्रभावपटले दानप्रभावे प्रज्ञाप्रभावे च / अयमेषां बोधिसत्त्वविज्ञानां फलानुशंसः /

कश्चैषामनुक्रमः / पूर्वं तावद्बोधिसत्त्वो ऽनुकम्पया सत्त्वाननुगृह्णाति तेषु च सापेक्षो भवत्यर्थकामः / ततश्चाकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय युक्तिं भाषते ग्राहयति व्यपदिशति / एवमवतीर्णेषु च सत्त्वेषु सत्त्वविप्रतिपत्तिषु [च] क्लेशविप्रकृतास्वर्थविधासु विमर्दसहो भवति / प्रतिपत्तिविप्रति[पत्ति]स्थितानां सत्त्वानामनुत्सर्गतया / स एवं धीरः एकत्यान्सत्त्वानामिषसंग्रहेण परिपाचयति एकत्यान्धर्मसंग्रहेण तदेकत्यांस्तदुभाभ्यां धर्माभिषसंग्रहाभ्याम् / अयमेषां पञ्चानां बोधिसत्त्वलिङ्गानामनुक्रमो वेदितव्यः /

पञ्चेमानि बोधिसत्त्वलिङ्गानि षट्पारमिताः / आसां षण्णां पारमितानां कतमया पारमितया कतमद्बोधिसत्त्वलिङ्गं संगृहीतम् / अनुकम्पा ध्यानपारमितया संगृहीता / प्रियावादिता शीलपारमितया प्रज्ञापारमितया च संगृहीता / वैर्यं वीर्यपारमितया क्षान्तिपारमितया प्रज्ञापारमितया च संगृहीतम् / मुक्तहस्तता दानपारमितायैव संगृहीता / गम्भीरार्थसन्धिनिर्मोचनता ध्यानपारमितया प्रज्ञापारमितया च संगृहीता एवमिमानि [पञ्च बोधि]सत्त्वलिङ्गानि पञ्चपरिवर्तेन वेदितव्यानि / स्वभावतो ऽधिष्ठानतः फलानुसंशतो ऽनुक्रमतः संग्रहतश्च वेदितव्यानि /

इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने प्रथमं बोधिसत्त्वलिङ्गपटलम् /

पक्षपटलम् (छप्तेर् 2.2)

उद्दानम् /

सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामनं च पश्चिमम् /

गृहिपक्षे वा प्रव्रजितपक्षे वा वर्तमानस्य बोधिसत्त्वस्य समासतश्चत्वारो धर्मा वेदितव्याः / येषु गृही प्रव्रजितो व बोधिसत्त्वः शिक्षमाणः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते / कतमे चत्वारः / सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामना च /

तत्र कतमा बोधिसत्त्वस्य सुकृतकर्मान्तता / या पारमितासु नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च / कथञ्च बोधिसत्त्वो नियतकारी भवति यदुत दाने / इह बोधिसत्त्वः संविद्यमाने देयधर्मे याचनके सम्यक् प्रप्युपस्थिते अपकारिण्युपकारिणि वा गुणवति दोषवति वा ऽवश्यं ददाति / नास्य दानचित्तं कश्चिद्विकम्पयितुं समर्थो भवति मनुष्यो वा ऽमनुष्यो वा श्रमणो वा ब्राह्मणो वा कश्चिद्वा पुनर्लोके सहधर्मेण / कथं च बोधिसत्त्वो निपुणकारी भवति यदुत् दाने / इह बोधिसत्त्वः संविद्यमाने देयधर्मे सम्यक् प्रत्युपस्थिते याचनके सर्वं ददाति / नास्त्यस्य किञ्चिद्यदपरित्याज्यं भवति सत्त्वेभ्यः आध्यात्मिकमपि वस्तु प्रागेव बाह्यम् / कथं च बोधिसत्त्वो नित्यकारी भवति यदुत दाने / इह बोधिसत्त्वो अपरिखिद्यमानो दानेन सततसमितमेव सर्वकालं यथोत्पन्नं दानं ददाति / कथं च बोधिसत्त्वः अनवद्यकारी भवति यदुत दाने / इह बोधिसत्त्वो यत्तत्संक्लिष्टं दानं वर्णितं दानपटले तत्संक्लिष्टं वर्जयित्वा असंक्लिष्टं दानं ददाति / एवं हि बोधिसत्त्वः सुकृतकारी भवति यदुत दाने / यथा दाने एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासु (dutt 212) यथायोगं वेदितव्यम् / एत एव चत्वार आकारा नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च /

तत्र कतमद्बोधिसत्त्वस्य कौशल्यम् / तत्समासतो दशविधं वेदितव्यम् प्रतिहतानां सत्त्वानां प्रतिघातापनयायोपायकौशल्यम् / मध्यस्थानामवतारणाय अवतीर्णानां परिपाचनाय परिपक्वानां विमोचनायोपायकौशल्यम् / लौकिकेषु सर्वशास्त्रेषु कौशल्यम् / बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्यम् सम्यक्प्रणिधानकौशल्यम् / [श्रावकयानकौशल्यं] प्रत्येकबुद्धायानकौशल्यम् महायानकौशशल्यञ्च / एषां सर्वेषामेव कौशल्यानां पूर्ववद्यथायोगं तत्र तत्रास्यामेव बोधिसत्त्वभूमौ प्रविभागो वेदितव्यः / एतानि पुनर्बोधिसत्त्वस्य दश कौशल्यानि पञ्चकृत्यानि कुर्वन्ति / पूर्वकैश्चतुर्भिः कौशल्यैर्बोधिसत्त्वः सत्त्वान् स्वार्थे सन्नियोजयति / लौकिकेषु सर्वशास्त्रेषु कौशल्येन बोधिसत्त्वः सर्वपरप्रवादानभिभवति / बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्येन बोधिसत्त्वः आपत्तिं [न] वापद्यते / आपन्नो वा यथाधर्मं प्रतिकरोति / सुविशुद्धं शीलसंवरसमादानं परिकर्षति / सम्यक् प्रणिधानकौशल्येन बोधिसत्त्वः आयत्यां सर्वाभिप्रेतार्थसमृद्धिमधिगच्छति / त्रिभिन्नं कौशल्यैर्बोधिसत्त्वो यथा गोत्रेन्द्रियाधिमुक्तानां तदुपमं धर्मं देशयति / अनुकूलां युक्तिं व्यपदिशति / एवमेभिर्दशभिः कौशल्यैर्बोधिसत्त्वः पञ्चकृत्यानि करोति / यैरस्य पञ्चभिः कृत्यैः सर्वकृत्यसमाप्तिर्भवति / दृष्टधार्मिकसांपरायिकं चार्थमारभ्य /

तत्र कतमो बोधिसत्त्वस्य परानुग्रहः / इह बोधिसत्त्वश्चत्वारि संग्रहवस्तूनि निश्रित्य दानं प्रियवादितामर्थचर्यां समानार्थताञ्च तदेकत्यानां सत्त्वानां हितमप्युपसंहरति / सुखमप्युपसंहरति / [हितसुखमप्युपसंहरति /] अयं बोधिसत्त्वानां परानुग्रहस्य समासनिर्देशः / विस्तरनिर्देशः पुनः पूर्ववद्वेदितव्यः तद्यथा स्वपरार्थपटले /

तत्र कतमा बोधिसत्त्वस्य परिणामना / इह बोधिसत्त्वो यत्किञ्चिदेभिस्त्रिभिर्मुखैरुपचितोपचितं कुशलमूलं सुकृतकर्मान्ततया कौशल्येन परानुग्रहेण च तत्सर्वमतीतानागतप्रत्युत्पन्नमनुत्तरायां सम्यक्संबोधौ घनरसेन प्रसादेन परिणामयति / न तस्य कुशलमूलस्यान्यं फलविपाकं प्रतिकांक्षति नान्य[त्रा]नुत्तरामेव सम्यक्संबोधिम् / ये च केचिद्भगवता गृहिणां वा प्रव्रजितानां वा बोधिसत्त्वानां शिक्षाधर्मा व्यपदिष्टाः सर्वेषां तेषामेष्वेव चतुर्षु संग्रहो वेदितव्यः सुकृतकर्मान्ततायां कौशल्ये परानुग्रहे परिणामनायां च / तस्मादेवं सुकृतकर्मान्तस्य बोधिसत्त्वस्य कुशलस्य परानुग्रहप्रवृत्तस्य परिणामकस्य एवं दुष्प्रापा दुरधिगमा च बोधिरासन्ना समासन्ना वेदितव्या / अतीतानागतप्रत्युत्पन्नेष्वध्वसु ये केचिद्बोधिसत्त्वा गृहि-प्रव्रजित पक्षेषु शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धवन्तो ऽभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च सर्वे ते एभिरेव चतुर्भिर्धर्मैः / नात उत्तरि नातो भूयः / एवमपि चतुर्षु धर्मेषु सम्यक्प्रयुक्तो गृही प्रव्रजितो वा बोधिसत्त्वो भवति / अपि तु गृहिणो बोधिसत्त्वस्यान्तिकात्प्रव्रजितस्य बोधिसत्त्वस्य सुमहान् विशेषः / सुमहान् नानाकरणं वेदितव्यम् / तथाहि प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवत्यादित एव तावन्मातापितृपुत्तदारादिकलत्रपरिग्रहदोषात् / अपरिमुक्तस्तु गृही वेदितव्यः / पुनः प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवति तस्यैव परिग्रहस्यार्थे कृषिवणिज्या-राजपौरुष्यादि-परिक्लेशे व्यासङ्गदुःखेभ्यः / अपरिमुक्तस्तु गृही वेदितव्यः / पुनः प्रव्रजितो बोधिसत्त्व एकान्तसङ्कलीकृतं ब्रह्मचर्यं शक्नोति चरितुं [न तु] गृही बोधिसत्त्वः / पुनः प्रव्रजितो बोधिसत्त्वः सर्वेषु बोधिपक्ष्येषु धर्मेषु क्षिप्राभिज्ञो भवति / यद्यदेव कुशलमारभते तत्र तत्रैव लघुलध्वेव निष्ठां गच्छति / न तु तथा गृही बोधिसत्त्वः / पुनः प्रव्रजितो बोधिसत्त्वः परेषां व्रतनियमे स्थितत्वाद् आदेयवचनो भवति / न तु तथा गृही बोधिसत्त्वः / इत्येवंभागीयैर्धर्मैः सुमहदन्तरं गृहि-प्रव्रजितयोर्बोधिसत्त्वयोर्वेदितव्यम् /

इति बोधिसत्त्वभुमावाधारानुधर्मे योगस्थाने द्वितीयं पक्षपटलम् /

अध्याशयपटलम् (छप्तेर् 2.3)

उद्दानम् /

वात्सल्यं सर्वसत्त्वेषु सप्ताकारं हि धीमताम् / पञ्चदशाशयास्तेषां दश कृत्यकरा मताः //

सप्ताकारं बोधिसत्त्वानां सत्त्वेषु वात्सल्यं प्रवर्तते येन वात्सल्येनोपेता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते / सप्ताकारं वात्सल्यं कतमत् / अभयं युक्तमखेदमयाचितमनामिषं विस्तीर्णं समञ्चेति / न हि बोधिसत्त्वः कस्यचिद्भयाद्वत्सलो भवति / आनुलोमिकेन कायवाङ्मनस्कर्मणा समुदाचरति मनापेन हितसुखेन च / न च पुनर्बोधिसत्त्वस्य सत्त्वेषु योगरहितं वात्सल्यं प्रवर्तते तद्यथा अधर्मे ऽविनये ऽसत्यसमुदाचारे अस्थाने समादापनतायै / तथा च बोधिसत्त्वो वत्सलो भवति सत्त्वेषु यथा तेषामर्थे सर्वारम्भैर्न परिखिद्यते / अयाचित एव च बोधिसत्त्वः सत्त्वेषु वत्सलो भवति न तु केनचिद्याचितः / निरामिषेण च चित्तेन वत्सलो [भवति] न परतः प्रत्युपकारं प्रतिकांक्षमाणः परत्र च विपाकमिष्टं प्रत्याशंसमान इति निष्कारणवत्सलो भवति सत्त्वेषु बोधिसत्त्वः / विपुलञ्च तद्बोधिसत्त्वस्य वात्सल्यं भवति सत्त्वेषु न परीत्तम् / तथा च विपुलं भवति यथैषां सत्त्वानामन्तिकाद्बोधिसत्त्वः सर्वाकारमप्यपकारं लभमानो नोत्सृजति आत्मानं काममप्रियं करोति / न तु केनचित्पर्यायेण परेषां पापकर्मेच्छति / तत्पुनरेवं लक्षणमेव गुणयुक्तं वात्सल्यं बोधिसत्त्वानां सर्वसत्त्वेष्वेव सममासमन्त सत्त्वधातुप्रादेशिकः / एवमनेन सप्ताकारेणैव वात्सल्येन युक्ता बोधिसत्त्वाः कल्याणाशयाः परमकल्याणाशया इत्युच्यन्ते /

तत्र श्रद्धापूर्वंको धर्मविचयपूर्वकश्च बुद्धधर्मेषु यो ऽधिमोक्षः प्रत्यवगमो निश्चयो बोधिसत्त्वस्य सो ऽध्याशय इत्युच्यते / ते पुनरध्याशया बोधिसत्त्वस्य समासतः पञ्चदश वेदितव्याः / कतमे पञ्चदश / अग्र्याशयो वृत्ताशयः पारमिताशयः तत्त्वार्थाशयः प्रभावाशयः हिताशयः सुखाशयो विनिर्मुक्ताशयः दृढाशयः अविसंवादनाशयः अशुद्धाशयः शुद्धाशयः सुशुद्धाशयः निगृहीताशयः सहजश्चाशयः / तत्र यो बुद्धधर्मसंघरत्नेषु बोधिसत्त्वस्याध्याशयः सो ऽग्र्याशय इत्युच्यते / बोधिसत्त्वशीलसंवरसमादाने यो ऽध्याशयो ऽयं वृत्ताशय इत्युच्यते / दानशीलक्षान्तिवीर्यध्यानप्रज्ञासमुदागमाय यो ऽध्याशयो ऽयं पारमिताशय इत्युच्यते / धर्मपुग्दलनैरात्म्ये परमार्थे च धर्मतथतायां गम्भीरायां यो ऽध्याशयो ऽयं तत्त्वार्थाशय इत्युच्यते / बुद्धबोधिसत्त्वानामचिन्त्ये ऽभिज्ञाप्रभावे सहजे वा प्रभावे यो ऽध्याशयो ऽयं प्रभावाशय इत्युच्यते / सत्त्वेषु कुशलोपसंहर्तुकामता हिताशय इत्युच्यते / सत्त्वेष्वेवानुग्रहोपसंहर्तुकामता सुखाशय इत्युच्यते / सत्त्वेष्वेव निरामिषचित्तता इष्टे च विपाके निष्प्रतिबद्धचित्तता विनिर्मुक्ताशय इत्युच्यते / अनुत्तरायां सम्यक्संबोधौ या चितैकान्तिकतायं दृढाशय इत्युच्यते / सत्त्वार्थोपाये बोध्युपाये अविपरीतज्ञानसहगतो ऽधिमोक्षः अविसंवादनाशय इत्युच्यते / सर्वस्यामधिमुक्तिवर्याभूमौ यो ऽध्याशयो बोधिसत्त्वानां सो ऽशुद्धाशय इत्युच्यते / शुद्धाशयभूमिमुपादाय यावन्नियतचर्याभूमेरध्याशयो बोधिसत्त्वानां शुद्धाशय इत्युच्यते / निष्ठागमनभूमावध्याशयो बोधिसत्त्वानां सुशुद्धाशय इत्युच्यते / तत्र यो हि [अ]शुद्धाशयः स एव निगृही[ताशय] इत्युच्यते प्रतिसंख्यानकरणीयतया / यः पुनः शुद्धः सुशुद्धश्चाध्याशयः स सहजो ऽध्याशय इत्युच्यते प्रकृत्या तन्मयतया आश्रयसुसंनिविष्टतया च /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.