Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिसत्त्वभूमि

Thông tin
GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर्बोधिसत्त्वः कालेन कालमिन्द्रियैर्गुप्तद्वारतां भोजने मात्रज्ञतां पूर्वरात्रापररात्रं जागरिकानुयुक्ततां सप्रजानन् विहारितामित्येवंभागीयान् समाधिसंभारान् समादाय वर्तते / तेषु चोद्युक्तो भवति / अविपरीतञ्चार्थोपसंहितं सर्वत्र यत्नमारभते / इतीदं बोधिसत्त्वस्याविधुरं वीर्यमित्युच्यते / पुनर्बोधिसत्त्वो नातिलीनं नात्यारब्धं वीर्यमारभते / सम योगवाहि सर्वेषु चारम्भकरणीयेषु समं सत्कृत्यकारी भवति / इयं बोधिसत्त्वस्य समं वीर्यमित्युच्यते /

पुनर्बोधिसत्त्वः सर्ववीर्यारम्भानभिसंस्कृताननुत्तरायां सम्यक्संबोधौ परिणमयतीदं बोधिसत्त्वस्य सम्यक् परिणमितं वीर्यमित्युच्यते /

इत्येतत्स्वभाववीर्यादिकं विशुद्धवीर्यावसानञ्च बोधिसत्त्वानां वीर्य महाबोधिफलं यदाश्रित्य बोधिसत्त्वा वीर्यपारमितां परिपूर्य अनुत्तरां सम्यक् संबोधिमभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च /

इति बोधिसत्त्वभूमावाधारे योगस्थाने द्वादशमं वीर्यपटलं समाप्तम् /

ध्यानपटलम (छप्तेर् 1.13)

उद्दानं पूर्वंवद्वेदितव्यम् /

तत्र कतमो बोधिसत्त्वानां ध्यानस्वभावः / बोधिसत्त्वपिटकश्रवणचिन्तापूर्वकं यल्लौकिकं लोकोत्तरं बोधिसत्त्वानां कुशलं चित्तैकाग्र्यञ्चित्तस्थितिः शमथपक्ष्या वा विपश्यनापक्ष्या वा युगनद्धवाहिमार्गं तदुभयापक्ष्या वा / अयं बोधिसत्त्वानां ध्यानस्वभावो वेदितव्यः /

तत्र कतमद्बोधिसत्त्वानां सर्वंध्यानम् / तद् द्विविधं द्रष्टव्यम् / लौकिकं लोकोत्तरञ्च / तत्पुनर्यथायोगं त्रिविधं वेदितव्यम् / दृष्टधर्मसुखविहाराय ध्यानं बोधिसत्त्व-समाधिगुणनिर्हाराय ध्यान सत्त्वार्थक्रियायै ध्यानम् /

तत्र यद्बोधिसत्त्वानां सर्वविकल्पापगतं कायिकचैत्तसिकप्रस्रब्धिजनकं परमप्रशान्तं मन्यनापगतमनास्वादितं सर्वनिमित्तापगतं ध्यानम् / इदमेषां दृष्टधर्मसुखविहाराय वेदितव्यम् /

तत्र यद्बोधिसत्त्वानां ध्यानं विचित्राचिन्त्याप्रमाणदशबलगोत्र-संगृहीतसमाधिनिर्हाराय संवर्तते / येषां समाधीनां सर्वश्रावकप्रत्येकबुद्धा अपि नामापि न प्रजानन्ति कुतः पुनः समापत्स्यन्ते / यच्च बोधिसत्त्वविमोक्षाभिभ्वायतनकृत्स्नायतनानां प्रतिसंविद्-अरणा-प्रणिधिज्ञानादीनां [गुणानां] श्रावकसाधारणानामभिनिर्हाराय संवर्तते / इदं बोधिसत्त्वस्य ध्यानं समाधिगुणाभिनिर्हाराय वेदितव्यम् / सत्त्वार्थकर्मणि ध्यानं बोधिसत्त्वस्यैकादशाकारं पूर्ववद्वेदितव्यम् / यद्ध्यानं निश्रित्य बोधिसत्त्वः सत्त्वानां कृत्येष्वर्थोपसंहितेषु सहायीभावं गच्छति / दुःखमनपनयति / दुःखितानां न्यायमुपदिशति / कृतज्ञः कृतवेदी उपकारिषु प्रत्युपकारं करोति / भयेभ्यो रक्षति / व्यसनस्थानां शोकं प्रतिविनोदयति / उपकरणविकलानामुपकरणोपसंहारं करोति / सम्यक् परिषदं परिकर्षति / चित्तमनुवर्तते / भूतैर्गुणैर्हर्षयति / सम्यक् च निगृह्णाति / (dutt 144) ऋद्ध्या चोत्रासयत्यावर्जयति चेति / तदैतत्सर्वमेकध्यमभिसंक्षिप्य बोधिसत्त्वानां सर्वध्यानमित्युच्यते / नात उत्तरि नातो भूयः /

तत्र कतमद्बोधिसत्त्वानां दुष्करध्यानम् / तत् त्रिविधं द्रष्टव्यम् / यद्बधिसत्त्वा उदारैर्विचित्रैः सुपरिचितैर्ध्यानविहारैरभिनिर्हृतैर्विहृत्य स्वेच्छया तत्परमं ध्यानसुखं व्यावर्त्य प्रतिसंख्याय सत्त्वानुकम्पा प्रभूतां सत्त्वार्थक्रियां सत्त्वार्थपरिपाकं समनुपश्यन्तः कामधातावुपपद्यन्ते / इदं बोधिसत्त्वानां प्रथम दुष्करध्यानं वेदितव्यम् / पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्याप्रमेयासंख्येयाचिन्त्यान्सर्वश्रावकप्रत्येकबुद्धविषयसमतिक्रान्तान् बोधिसत्त्वसमाधीनभिनिर्हरति / इदं बोधिसत्त्वस्य द्वितीयं दुष्करध्यानं वेदितव्यम् / पुनर्यद्बोधिसत्त्वो ध्यानं निश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते / इतीदं बोधिसत्त्वस्य तृतीय दुष्करध्यानं वेदितव्यम् /

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं ध्यानम् / तच्चतुर्विधं द्रष्टव्यम् / सवितर्कं-सविचारं [विवेकजं समाधिजं] प्रीतिसहगतं सात-सुखसहगतमुपेक्षासहगत च /

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषध्यानम् / तत्पञ्चविधं द्रष्टव्यम् / अनाखादितं मैत्रीसहगतं करुणासहगतं मुदितासहगतमुपेक्षासहगतञ्च /

तत्र कतमद्बोधिसत्त्वस्य सर्वाकार-ध्यानम् / तत्षड्विधं [सप्तविधं] चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम् / कुशलं ध्यानमव्याकृतं च निर्मितनिर्माणाय ध्यानं शमथपक्ष्यं विपश्यनापक्ष्यं स्वपरार्थसम्यगुपनिध्यानाय ध्यानं अभिज्ञाप्रभावगुणर्निर्हाराय ध्यानं नामालम्बनंमर्थालम्बनं शमथनिमित्तालम्बनं प्रग्रहनिमित्तालम्बनमुपेक्षानिमित्तालम्बनं [दृष्टधर्मसुख]विहाराय परार्थक्रियायै च ध्यानम् / इतीदं त्रयोदशाकारं बोधिसत्त्वानां ध्यानं सर्वाकारमित्युच्यते /

तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकध्यानम् / तदष्टविधं द्रष्टव्यम् / विषाशनि विषमज्वरभूतग्रहाद्युपद्रवसंशमकानां सिद्धये मन्त्राणामधिष्ठायकं ध्यानम् / धातुभैषम्यजातानाञ्च व्याधीनां विविधानां व्युपशमाय ध्यानम् / दुर्भिक्षेषु महारौरवेषु प्रत्युपस्थितेषु वृष्टिनिर्हारकं ध्यानम् / विविधेभ्यो भयेभ्यो (dutt 145) मनुष्यामनुष्यकृतेभ्यो जलस्थलगतेभ्यः सम्यक् परित्राणा ध्ययानम् / तथा भोजनपानहीनानामटवीकान्तारगतानां भोजनपानोपसंहाराय ध्यानम् / भोगविहीनानां विनेयानां भोगोपसहाराय ध्यानम् / दशसु दिक्षु प्रमत्तानां सत्त्वानां सम्यक्संबोधनाय ध्यानम् / उत्पन्नोत्पन्नानाञ्च सत्त्वकृत्यानां सम्यक् क्रियायै ध्यानम् /

तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं ध्यानम् / तन्नवविधं द्रष्टव्यम् / ऋद्धिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम् / आदेशनाप्रातिहार्येणानुशास्तिप्रातिहार्येण सत्त्वानां विनयाय ध्यानम् / पापशारिणामपायभूमिविदर्शनं ध्यानम् / नष्टप्रतिभानानां सत्त्वानां प्रतिभानोपसंहाराय ध्यानम् / मुषितस्मृतीनां सत्त्वानां स्मृत्युपसंहाराय ध्यानम् / अविपरीतशास्रकाव्यमातृकानिबन्धव्यवस्थानाय सद्धर्मचिरस्थितिकतायै ध्यानम् / लौकिकानां शिल्पकर्मस्थानानामर्थोपसंहितानां सत्त्वानुग्राहकाणां लिपिगणनन्यसनसंख्यामुद्रादीनां मञ्चपीठच्छत्रोपानहादीनाञ्च विचित्राणां विविधानां भाण्डोपस्कराणामनुप्रवर्तकं ध्यानम् / अपायभूम्युपपन्नानाञ्च सत्त्वानां तत् कालापायिकदुःखप्रतिप्रस्रम्भणतायै रश्मिप्रमोचकं ध्यानम् /

तत्र कतमद्बोधिसत्त्वस्य विशुद्धं ध्यानम् / तद्दशविधं द्रष्टव्यम् / लौकिक्या शुद्ध्या [वि]शुद्धमनास्वादितं ध्यानम् / अक्लिष्टं लोकोत्तरया शुद्ध्या [वि]शुद्धं ध्यानम् / प्रयोगशुद्ध्या [वि]शुद्धं मौलविशुद्ध्या [वि]शुद्धं मौलविशेषोत्तरविशुद्ध्या विशुद्धं ध्यानम् / प्रवेशस्थितिव्युत्थानवशिताविशुद्ध्या विशुद्धं ध्यानम् / ध्यानव्यावर्तने पुनः समादपनवशिता-विशुद्ध्या विशुद्धं ध्यानम् अभिज्ञाविकुर्वणवशिता-विशुद्ध्या विशुद्धं ध्यानम् / सर्वदृष्टिगतापगमविशुद्ध्या विशुद्धं ध्यानम् / क्लेशज्ञेयावरणप्रहाणविशुद्ध्या च विशुद्धं ध्यानम् / इत्येतद्ध्यानमप्रमेय बोधिसत्त्वानां महाबोधिफलं यदाश्रित्य बोधिसत्त्वा ध्यानपारमितां परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसम्बुद्धवन्तो ऽभिसं[भोत्स्यन्ते ऽभिसं]बुध्यन्ते च /

इति बोधिसत्त्वभूमावाधारे योगस्थाने त्रयोदशमं ध्यानपटलम् /

प्रज्ञापटलम् (छप्तेर् 1.14)

उद्दानं पूर्ववद्वेदितव्यम् /

तत्र कतमो बोधिसत्त्वस्य प्रज्ञास्वभावः / सर्वज्ञेयप्रवेशाय च सर्वज्ञेयानुप्रविष्टश्च यो धर्माणां प्रविचयः पञ्चविद्यास्थानान्यालम्ब्य प्रवर्तते अध्यात्मविद्यां हेतुविद्यां शब्दविद्याञ्चिकित्साविद्यां शिल्पकर्मस्थानविद्याञ्च / अयं बोधिसत्त्वानां प्रज्ञास्वभावो वेदितव्यः /

तत्र कतमा बोधिसत्त्वानां सर्वा प्रज्ञा / सा द्विविधा द्रष्टव्या / लौकिकी लोकोत्तरा च / सा पुनः समासतस्त्रिविधा वेदितव्या / ज्ञेयतत्त्वानुबोधप्रतिवेधाय / पञ्चसु च यथानिर्दिष्टेषु विद्यास्थानेषु त्रिषु च राशिषु कौशल्यक्रियायै सत्त्वार्थक्रियायै च / या बोधिसत्त्वानामनभिलाप्यं धर्मनैरात्म्यमारभ्य सत्यावबोधाय वा सत्यावबोधकाले वा सत्याभिसंबोधाद्वा उर्द्धं प्रज्ञा परमप्रशमप्रत्युपस्थाना निर्विकल्पा सर्वंप्रपञ्चागता सर्वंधर्मेषु समतानुगता महासामान्यलक्षणप्रविष्टा ज्ञेयपर्यन्तगता समारोपापवादान्तद्वय विवर्जितत्वान्मध्यमप्रतिपदनुसारिणी / इयं बोधिसत्त्वानां तत्त्वानुबोधप्रतिवेधाय प्रज्ञा वेदितव्या / पञ्चसु विद्यास्थानेषु कौशल्यं विस्तरेण पूर्ववद्वेदितव्यं तद्यथा बलगोत्रपटले / त्रयः पुना राशयोर्थोपसंहितानां धर्माणां राशिः / अनर्थोपसंहितानां धर्माणां राशिः / नैवार्थोपसंहितानां नाना ऽर्थोपसंहितानां धर्माणां राशिः / इत्येतेष्वष्टासु स्थानेषु प्रज्ञायाः कौशल्यपरिग्रहो महान्तं निरुत्तरं ज्ञानसम्भारं परिपूरयत्यनुत्तरायै सम्यक्संबोधये / सत्त्वार्थक्रिया पुनः पूर्ववदेकादशप्रकारैव वेदितव्या / तेष्वेव स्थानेषु या प्रज्ञा सा सत्त्वार्थक्रियायै प्रज्ञा वेदितव्या /

तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रज्ञा / सा त्रिविधा द्रष्टव्या गम्भीरस्य धर्मनैरात्म्यज्ञानाय दुष्करा / सत्त्वानां विनयोपायस्य प्रज्ञानाय दुष्करा / सर्वज्ञेयानावरणज्ञानाय च परमदुष्करा /

तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी प्रज्ञा / सा चतुर्विद्या द्रष्टव्या / श्रावकपिटकं बोधिसत्त्वपिटकं चारभ्य श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा / प्रतिसंख्याय बोधिसत्त्वकरणीयानुवृत्तावकरणीयनिवृत्तौ च प्रतिसंख्यानबलसंगृहीता प्रज्ञा / भावनाबलसंगृहीता च समाहितभूमिका अप्रमाणा प्रज्ञा /

तत्र कतमा बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषप्रज्ञा / सा पञ्चविधा द्रष्टव्या / सद्धर्मश्रवणसमुदागता प्रत्यात्मं योनिशो मनस्कारसहगता स्वपरार्थनिश्चिता प्रज्ञा क्लेशविजहना च प्रज्ञा / अपरः पर्यायः / सूक्ष्मा यथावद् भाविकतया ज्ञेयप्रवेशात् / निपुणा यावद्भाविकतया ज्ञेयप्रवेशात् / सहजा पूर्वकज्ञानसंभारसमुदागमात् / आगमोपेता बुद्धैर्महाभूमिप्रविष्टैश्च बोधिसत्त्वैः संप्रकाशितधर्मार्थस्योद्ग्रहणधारणात् / अधिगमोपेता शुद्धाशयभूमिमुपादाय यावन्निष्ठागमनभूमिपरिग्रहात् /

तत्र कतमा बोधिसत्त्वस्य सर्वाकारा प्रज्ञा / सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या / सत्येषु दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानम् / निष्ठायां क्षयज्ञानमनुत्पादज्ञानम् / इयं तावत् षड्विधा प्रज्ञा / सप्तविधा पुनः धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानमभिज्ञाज्ञानं लक्षणज्ञानं दशबलपूर्वङ्गमं ज्ञानं चतसृषु च युक्तिषु युक्तिज्ञानम् /

तत्र कतमा बोधिसत्त्वस्य विधातार्थिकप्रज्ञा / सा ऽष्टविधा द्रष्टव्या / धर्माणां पर्यायज्ञानमारभ्य बोधिसत्त्वस्य धर्मप्रतिसंवित् / धर्माणां लक्षणज्ञानमारभ्यार्थप्रतिसंवित् / धर्माणां निर्वचनज्ञानमारभ्य निरुक्तिप्रतिसंवित् / धर्माणां प्रकारपदप्रभेदमारभ्य प्रतिभानप्रतिसंवित् / सर्वपरप्रवादिनिग्रहाय बोधिसत्त्वस्य प्रज्ञा / सर्वस्ववादव्यवस्थानप्रतिष्ठापनाय च प्रज्ञा / गृहतन्त्रसम्यक् प्रणयनाय कुलोदयाय प्रज्ञा / राजनीतिलौकिकव्यवहारनीतिषु च बोधिसत्त्वस्य या निश्चिता प्रज्ञा /

तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखा प्रज्ञा / सा नवविधा द्रष्टव्या / अध्यात्मविद्यायां सुव्यवदाता सुप्रतिष्ठिता प्रज्ञा / हेतुविद्यायां शब्दविद्यायां चिकित्साविद्यायां लौकिकशिल्पकर्मस्थानविद्यायां सुव्यवदाता नो तु प्रतिष्ठिता प्रज्ञा / तामेव च सुव्यवदातां पञ्चप्रकारां विद्यां निश्रित्य या बोधिसत्त्वस्य (dutt 148) परेषां विनेयानां मूढानां प्रमत्तानां संलीनानां सम्यक् प्रतिपन्नानां यथाक्रमं संदर्शनी समादापनी समुत्तेजनी संप्रहर्षणी च प्रज्ञा /

तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रज्ञा / सा समासतो दशविधा वेदितव्या / तत्त्वार्थे द्विविधा यावद्भाविकतया यथावद्भाविकतया च तत्त्वार्थस्य ग्रहणात् / प्रवृत्त्यर्थे द्विविधा सम्यगहेतुतः फलतश्च ग्रहणात् / उपादानार्थे द्विविधा विपर्यासाविपर्यास-यथाभूतपरिज्ञानात् / उपायार्थे द्विविधा सर्वकरणीयाकरणीय-यथाभूतपरिज्ञानात् / इतीयं बोधिसत्त्वानां पश्चाकारा दशप्रभेदा प्रज्ञा विशुद्धा परमया विशुद्ध्या वेदितव्या /

इतीयं बोधिसत्त्वानां सु-विनिश्चिता चाप्रमेया च प्रज्ञा महाबोधिफला यामाश्रित्य बोधिसत्त्वाः प्रज्ञापारमितां परिपूर्यानुत्तरां सम्यक्सम्बोधिमभिसंबुध्यन्ते /

स खल्वेष षण्णां पारमितानां तेषु-तेषु सूत्रान्तरेषु भगवता व्यग्राणां निर्दिष्टानामयं समास-संग्रह-निर्देशो वेदितव्यः / यस्मिंतथागत-भाषिते सूत्रे दानपारमिता वा यावत् प्रज्ञापारमिता वा उद्देशमागच्छति निर्देशं वा सा स्वभाव-दाने वा यावत् विशुद्धे वा दाने ऽवतारयितव्या / संग्रहश्च तस्या यथा योगं वेदितव्यः / एवमन्येषां शीलादीनां प्रज्ञावसानानां यथानिर्दिष्टानामवतारः संग्रहश्च यथायोगं वेदितव्यः / यानि च तथागतानां बोधिसत्त्वचर्या-जन्माप्रमेयाणि जातकानि दुष्करचर्या-प्रतिसंयुक्तानि तानि सर्वाणि दानप्रतिसंयुक्तानि दानमारभ्य वेदितव्यानि / यथा दानमेवं शीलं क्षान्तिं वीर्यं ध्यानं सर्वाणिं प्रज्ञाप्रतिसंयुक्तानि प्रज्ञामारभ्य वेदितव्यानि / कानिचिद्दानमेवारभ्य कानिचिद्यावत् प्रज्ञामेवारभ्य कानिचिद्द्वयसंसृष्टानि कानिचित्रयसंसृष्टानि कानिचिच्चतुःसंसृष्टानि कानिचित्पञ्चसंसृष्टानि कानिचित्सर्वा एव षट्पारमिता आरभ्य वेदितव्यानि / आभिः षड्भिः पारमिताभिरनुत्तरायै सम्यक् संबोधये समुदागच्छन्तो बोधिसत्त्वा महाशुक्लधर्मार्णवा महाशुक्लधर्मसमुद्रा इत्युच्यन्ते / सर्वसत्त्वसर्वाकारसंपत्तिहेतुमहारत्नह्रदा इत्युच्यन्ते / अस्य पुनरेषामेवमप्रमाणस्य पुण्यज्ञानसंभारसमुदागमस्य नान्यत्फलमेवमनुरूपं यथानुत्तरैवं सम्यक्संबोधिरिति /

इति बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्दशमं प्रज्ञापटलम् /

(dutt 149) (छप्तेर् 1.15) संग्रहवस्तुपटलम्

उद्दानं पूर्ववद्वेदितव्यम् /

तत्र कतमो बोधिसत्त्वानां प्रियवादितास्वभावः / इह बोधिसत्त्वो मनापां सत्यां धर्म्याञ्चार्थोपसंहिताञ्च सत्त्वेषु वाचमुदाहरति / अयं बोधिसत्त्वानां समासतः प्रियवादितास्वभावः /

तत्र कतमा बोधिसत्त्वस्य सर्वा प्रियवादिता / सा त्रिविधा द्रष्टव्या / इह बोधिसत्त्वस्य या वाक्सम्मोदनी यया वाचा बोधिसत्त्वो विगतभृकुटिः पूर्वाभिलापी उत्तानमुखवर्णः स्मितमुख पूर्वङ्गमः क्षेमस्वस्त्ययनपरिपृच्छया वा धातुसाम्यपरिपृच्छया वा सुखरात्रिन्दिवपरिपृच्छया वा एहीति स्वागत[वादि]तया वा इत्येवमादिभिराकारैः सत्त्वान् प्रतिसम्मोदयति लोकयात्रां नागरकभावमनुवर्तमानः / या च वाग्बोधिसत्त्वस्यानन्दनी यया वाचा बोधिसत्त्वः पुत्रवृद्धिं [दारवृद्धिं] ज्ञातिवृद्धिं धनवृद्धिं धान्यवृद्धिं वा दृष्ट्वा अप्रतिसंविदितात्मवृद्धिकानां सत्त्वानामावेदयन्नानन्दयति श्रद्धाशीलश्रुतत्यागप्रज्ञावृद्ध्या वा पुनरानन्दयति / या च बोधिसत्त्वस्य सर्वाकारगुणोपेतधर्मदेशनाप्रतिसंयुक्ता वाक् सत्त्वानां हितसुखाय सततसमितं प्रत्युपस्थिता परमेणोपकारेणोपकारिभूता / इयं बोधिसत्त्वानां प्रियवादिता प्रभेदशः सर्वा वेदितव्या /

तत्र कतमा बोधिसत्त्वानां समासतः सर्वा प्रियवादिता / सा द्विविधा द्रष्टव्या / लोकयात्रानुगता सम्यग्धर्मदेशनानुगता च / तत्र या च सम्मोदनीवाग् या चानन्दनी इयं लोकयात्रानुगता वेदितव्या / तत्र येयं वागुपकरा परमेणोपकारेण प्रत्युपस्थिता निर्दिष्टा इयं सम्यग्धर्मदेशनानुग्रता वेदितव्या /

तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रियवादिता / सा त्रिविधा द्रष्टव्या / यद्बोधिसत्त्वो वधकेषु प्रत्यर्थिषु प्रत्यमित्रेषु सुविशुद्धेन निष्कलुषेण चेतसा प्रतिसंख्याय सम्मोदनीं वा आनन्दनीं वा उपकरां वाचमुदीरयति इयं (dutt 150) बोधिसत्त्वस्य प्रथमा दुष्करा प्रियवादिता वेदितव्या / यत्पुनर्बोधिसत्त्वः अधिमात्रं संमूढेषु सत्त्वेषु धन्धेन्द्रियेष्वपरितस्यमानः प्रतिसंख्याय धर्म्यां कथां कथयति खेदमभ्युपगम्य ग्राहयति न्यायं धर्मं कुशलम् इयं द्वितीया बोधिसत्त्वस्य दुष्करा प्रियवादिता वेदितव्या / पुनर्यद्बोधिसत्त्वः शठेषु मायाविषु सत्त्वेष्वाचार्योपाध्यायगुरुदक्षिणीयविसंवादकेषु मिथ्याप्रतिपन्नेषु अनाघातचित्तो ऽप्रतिघचित्तः सम्मोदनीमानन्दनीमुपकरां वाचमुदीरयति इयं बोधिसत्त्वस्य तृतीया दुष्करा प्रियवादिता वेदितव्या /

तत्र कतमा बोधिसत्त्वस्य सर्वतो-मुखी प्रियवादिता / सा चतुर्विधा द्रष्टव्या / निवरण-प्रहाणाय सुगतिगमनाय पूर्वकालकरणीया धर्मदेशना / विगतनिवरणस्य कल्य-चित्तस्य सामुत्कर्षिकी चतुरार्यसत्य-प्रतिसंयुक्ता धर्मदेशना / प्रमत्तानां सत्त्वानां गृहि-प्रव्रजितानां सम्यक्संचोदना प्रमादचर्याया उत्थाप्य अप्रमादचर्यायां प्रतिष्ठापनार्थम् / उत्पन्नोत्पन्नाञ्च संशयानामपनयाय या धर्मदेशना सांकथ्यविनिश्चय-क्रिया /

तत्र कतमा बोधिसत्त्वानां सत्-पुरुषाणां सत्पुरुषप्रियवादिता / सा पञ्चविधा द्रष्टव्या / इह बोधिसत्त्वभूतास्तथागतभूताश्च बोधिसत्त्वाः सनिदानमेव विनेयानां धर्मं देशयन्ति सनिःसरणं सप्रतिसरणं सपराक्रमं सप्रातिहार्यम् / स्थाने सोत्पत्तिकं शिक्षापदं प्रज्ञपयन्ति / तस्मात् एषां धर्मः सनिदानो भवति / समात्तशिक्षाणाञ्चापन्नानामापत्तेः व्युत्थानं प्रज्ञपयन्ति / तस्मात् एषा धर्मः सनिःसरणो भवति / चतुर्भिः प्रतिसरणैः संगृहीतामविपरीतां धर्मविनये ऽस्मिन् प्रतिपत्तिं प्रज्ञपयन्ति / तस्मादेषां धर्मः सप्रतिसरणो भवति / सर्वदुःख-नैर्याणिकीमप्रत्युदावर्तां प्रतिपदं संप्रकाशयन्ति / तस्मादेषां धर्मः सपराक्रमो भवति / त्रिभिश्च प्रातिहार्यैः सर्वां देशनामबन्ध्यां कुर्वन्ति / तस्मादेषां धर्मः सप्रातिहार्यो भवति /

तत्र कतमा बोधिसत्त्वानां सर्वाकारा प्रियवादिता / सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा द्रष्टव्या / अनुज्ञेयेषु धर्मेष्वनुज्ञाने प्रियवादिता / प्रतिषेद्धव्येषु धर्मेषु प्रतिषेधे / धर्माणां धर्मपर्यायोद्भाविका प्रियवादिता / धर्मलक्षणाविपरीतोद्भाविका / धर्म-निर्वचनाविपरीतोद्भाविका / धर्मपदप्रकारप्रभेदोद्भाविका (dutt 151) प्रियवादिता / सम्मोदनी प्रियवादिता / आनन्दनी प्रियबादिता / परेषां सर्वोपकरणैरल्पोत्सुकतायां सर्वकृत्येषु च सम्यग्गतेष्वल्पोत्सुकतायां विशदप्रवारणी प्रियवादिता / विविधेषु च भयेषु भीतानामाश्वासनी प्रियवादिता / न्यायोपदेशसंगहीता च प्रियवादिता / अकुशलात् स्थानाद् वुत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थं सम्यग्दृष्ट-श्रुत-परिशङ्कित-संचोदनावसादनी प्रियवादिता / परं प्रतिबलमध्येष्योपसंहृता प्रियवादिता / इयं बोधिसत्त्वानां त्रयोदशाकारा प्रियवादिता सर्वाकारा वेदितव्या /

तत्र कतमा बोधिसत्त्वानां विधातार्थिक-प्रियवादिता / सा ऽष्टविधा द्रष्टव्या / या बोधिसत्त्वस्य चतुर्विधां वाग्विशुद्धिं निश्रित्याष्टस्कार्येषु व्यवहारेषु वाक् / इयं विघातार्थिक-प्रियवादिता बोधिसत्त्वानामुच्यते / तत्रेयं चतुविधा वाग्विशुद्धिः / मृषावादात्प्रतिविरतिः / पैशुन्यात्पारुष्यात्संभिन्नप्रलापात् प्रतिविरतिः / तत्रेमे ऽष्टावार्या व्यवहाराः / दृष्टे दृष्टवादिता श्रुते मते विज्ञाते विज्ञातबादिता / अदृष्टे ऽदृष्टवादिता / अश्रुते ऽमते अविज्ञाते ऽविज्ञातवादिता /

तत्र कतमा बोधिसत्त्वानामिहामुत्रसुखा प्रियवादिता / सा नवविधा द्रष्टव्या / ज्ञातिव्यसनशोकप्रहाणाय प्रियवादिता / भोगव्यसनशोक प्रहाणाय आरोग्यव्यसनशोकप्रहाणाय प्रियवादिता / शीलव्यसनप्रहाणाय दृष्टिव्यसनप्रहाणाय प्रियवादिता / शीलसंपदे दृष्टिसंपदे आचारसंपदे आजीवसंपदे च या प्रियवादिता सद्धर्मदेशना /

तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रियवादित्ता / सः विंशतिविधा द्रष्टव्या / विंशत्याकारैर्या धर्मदेशना सा पुनः पूर्ववद्वेदितव्या / तद्यथा बलगोत्रपटले / तत्रार्थचर्या यथैव प्रियवादिता तथैव विस्तरेण वेदितव्या / एयद्विशिष्टाञ्चार्थचर्यामन्यां वक्ष्यामि / तथा हि बोधिसत्त्वः सर्वप्रकारया ऽनया प्रियवादितया तत्र-तत्रोपगमार्थं सत्त्वानामाचरति / तत्र कतमो बोधिसत्त्वानामर्थचर्यास्वभावः / एवं प्रियवादितया युक्तिसंदर्शितानां सत्त्वानां यथायोगं शिक्षास्वर्थचर्यायां धर्मानुधर्मप्रतिचर्यायां कारुण्यचित्तमुपस्थाप्य निरामिषेण (dutt 152) चेतसा समादापना विनयना निवेशना प्रतिष्ठापना / अयमर्थचर्यायाः समासतः स्वभावनिर्देशः

तत्र कतमा बोधिसत्त्वानां सर्वार्थचर्या / सा द्विविधा द्रष्टव्या / अपरिपक्वानाञ्च सत्त्वानां परिपाचना / परिपक्वानाञ्च सत्त्वानां विमोचना / सा पुनस्त्रिभिर्मुखैः वेदितव्या / दृष्टधार्मिके ऽर्थे समादापना / सांपरायिके ऽर्थे समादापना / दृष्टधर्म-सांपरायिके ऽर्थे समादापना / तत्र धार्मिकैः कर्मगुणैः भोगानामर्जन-रक्षण-वर्धन-सम्यक्-समादापनतया दृष्टधार्मिके ऽर्थे समादापना वेदितव्या / येनायं परतश्च प्रशंसां लभते दृष्टे च धर्मै सुखम् / उपकरणसुखेनानुगृहीतो विहरति / तत्र भोगान् उत्सृज्य भिक्षाकवृत्त-जीविका-प्रतिबद्धमव्रज्या-समादापना / सांपरायिके ऽर्थे समादापना वेदितव्या / येनायं नियतं संपरायसुखितो भवति न त्ववश्यं दृष्टे धर्मे / तत्र या गृहिणो वा प्रव्रजितस्य वानुपूर्वेण वैराग्य-गमन-समादापना / इयं दृष्टधर्म-सांपरायिके ऽर्थे समादापना वेदितव्या / येनायं दृष्टे च धर्मे प्रस्रब्ध-काय प्रस्रब्ध-चित्तः सुखं स्पर्शं विहरति / संपराये च विशुद्धिदेवेषूपद्यते / निरूपधिशेषे निर्वाणधातौ परिनिर्वाति /

तत्र कतमा बोधिसत्त्वानां दुष्करा अर्थचर्या / सा त्रिविधा द्रष्टव्या / पूर्वकुशलमूलहेत्वचरितेषु सत्त्वेष्वर्थचर्या बोधिसत्त्वानां दुष्करा / तथा हि ते दुःखसमादाप्या भवन्ति कुशले / महत्यां भोगसंपदि वर्तमानेषु सत्त्वेषु तदध्यवसानगतेष्वर्थचर्या बोधिसत्त्वानां दुष्करा / तथाहि ते महति प्रमादपदे प्रमादस्थाने वर्तन्ते / इतो बाह्यकेषु तीर्थिकेषु पूर्वं [च] तीर्थिक दृष्टिचरितेषु सत्त्वेष्वर्थंचर्या बोधिसत्त्वानां दुष्करा / तथा हि ते स्वयं संमूढाश्चाभिनिविष्टाश्चास्मिन् धर्मविनये /

तत्र कतमा बोधिसत्त्वानां सर्वतोमुखी अर्थचर्या / सा चतुर्विधा द्रष्टव्या / इह बोधिसत्त्वः अश्राद्धं श्रद्धासंपदि समादापयति यावत्प्रतिष्ठापयति / दुःशीलं शीलसंपदि दुष्प्रज्ञं प्रज्ञासंपदि मत्सरिणं त्यागसंपदि समादापयति यावत्प्रतिष्ठापयति /

तत्र कतमा बोधिसत्त्वस्य सत्पुरुषार्थचर्या / सा पञ्चविधा द्रष्टव्या / इह बोधिसत्त्वः सत्त्वान् भूते ऽर्थे समादापयति / कालेन समादायपति / अर्थोपसंहिते ऽर्थे समादापयति / श्लक्ष्णेन समादापयति / मैत्रचित्तेन समादापयति /

तत्र कतमा बोधिसत्त्वानां सर्वाकारार्थचर्या / सा षड्विधा सप्तविधा चैकध्यमभिसक्षिप्य त्रयोदशविधा द्रष्टव्या / इह बोधिसत्त्वः संग्रहीतव्यांश्च सत्त्वान् सम्यक् संगृह्णाति / निग्रहीतव्यांश्च सत्त्वान् सम्यग्निगृह्णाति / शासनप्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति / मध्यस्थान् सत्त्वानस्मिन् शासनेए ऽवतारयति / अवतीर्णाश्च सत्त्वान् सम्यक् त्रिषु यानेषु परिपाचयति / परिपक्वांश्च सत्त्वान् विमोचयति / तदेकत्यांश्च सम्भार-रक्षोपचये संनियोजयति / यदुत हीनयान-निःसृतिं वारभ्य महायान-निःसृतिं वारभ्य / यथा सम्भाररक्षोपचये एवं प्रविवेके चित्तैकाग्रतायामावरणविशुदौ मनस्कारभावनायां च सन्नियोजयति / श्रावक-प्रत्येक-बुद्धगोत्रान् श्रावक-प्रत्येक-बुद्धयाने सन्नियोजयति / तथागत-गोत्राननुत्तरे सम्यक्संबोधियाने नियोजयति /

तत्र कतमा बोधिसत्त्वानां विघातार्थिकार्थचर्या / सा ऽष्टविधा द्रष्टव्या / ह्रेतव्येषु स्थानेष्वाह्रीक्यपर्यवस्थान-पर्यवस्थितानां सत्त्वानामाह्रीक्यपर्यवस्थानं विनोदयत्यपनयति / यथा आह्रीक्यपर्यवस्थानमेवमपत्रपितव्येषु अनपत्राप्यपर्यवस्थानं मिद्धपर्यस्थानमौद्धत्यपर्यवस्थानं कौकृत्यपर्यंवस्थानमीर्षापर्यस्थानं [मात्सर्यपर्यवस्थानं] विनोदयत्यपनयति /

तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखा ऽर्थचर्या / सा नवविधा द्रष्टव्या / परसत्त्वानां कायकर्मपरिशुद्धिमारभ्य सर्वाकारा प्राणातिपातात् प्रतिविरतिसमानापनता / सर्वाकारादत्तादानात्-प्रतिविरति-समादापनता / सर्वाकारा काममिथ्याचारात्-प्रतिविरति-समादापनता / सर्वाकारा सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरति-समादापनता / वाक्कर्मपरिशुद्धिमारभ्य सर्वाकारा मृषावाद-प्रतिविरति-समादापनता / सर्वाकारा पैशुन्य-प्रतिविरति-समादापनता / सर्वाकारा पारुष्य-प्रतिविरति-समादापनता / सर्वाकारा सम्भिन्नप्रलाप-प्रतिविरति-समादापनता / (dutt 154) मनस्कर्मपरिशुद्धिमारभ्य सर्वाकाराभिध्याव्यापादमिथ्यादृष्टि-प्रतिविरति-समादापनता /

तत्र कतमा बोधिसत्त्वस्य विशुद्धा ऽर्थचर्या / सा दशविधा द्रष्टव्या / बहिःशुद्धिमुपादाय पञ्चविधा / अन्तःशुद्धिमुपादाय पञ्चविधा / बहिःशुद्धिमुपादाय बोधिसत्त्वानां पञ्चविधा सत्त्वेष्वर्थचर्या कतमा / अनवद्या ऽपरावृत्ता ऽनुपूर्वा सर्वत्रगा यथायोगं च /

इह बोधिसत्त्वः सत्त्वान्न दुश्चरितव्यामिश्रे दुश्चरितपूर्वगमे सावद्ये सक्लिष्टे ऽकुशले सन्नियोजयति / इयमस्यानवद्या भवत्यर्थचर्या सत्त्वेषु /

पुनर्बोधिसत्त्वो नामोक्षे चानेकान्तविशुद्धे चायतने मोक्ष एष एकान्तविशुद्ध एष इति सत्त्वांस्तत्रैव समादापयति / इयमस्यापरावृत्ता सत्त्वेष्वर्थचर्या /

पुनर्बोधिसत्त्वः पूर्वं बालप्रज्ञानां सत्त्वानामुत्तानां धर्मदेशनां करोति / उत्तानामववादानुशासनीमनुप्रवर्तयति / मध्यप्रज्ञांश्चैनांविदित्वा मध्यां धर्मदेशनां सूक्ष्मामववादानुशासनीमनुप्रवर्तयति अनुपूर्वेण कुशलपक्षसमुदागमाय / इयमस्यानुपूर्वा सत्त्वेष्वर्थचर्या /

पुनर्बोधिसत्त्वश्चतुर्णां वर्णानाम् आ-देवमनुष्याणां सर्वसत्त्वानां यथाशक्तियथाबलमर्थमाचरति / हितसुखं पर्येषते / तत्रैव समादापयति / इममस्य मर्वत्र्ःगा सत्त्वेष्वर्थचर्या /

पुनर्बोधिसत्त्वो ये सत्त्वा यस्मिन् स्वार्थे कुशले परीत्ते मध्ये ऽधिमात्रे वा शक्यरूपाः समादापयितुं येन चोपायेन शक्यरूपाः समादायितुं तान् यथायोगं तत्र तथा समादापयति / इयं तावद्बोधिसत्त्वानां सत्त्वेषु पञ्चविधा वहिःशुद्धा अर्थचर्या /

तत्र कतमा बोधिसत्त्वानां पञ्चविधा ऽन्तःशुद्धा सत्त्वेष्वर्थचर्या / इह बोधिसत्त्वो विपुलेन सत्त्वेषु कारुण्याशयेन प्रत्युपस्थितेनार्थमाचरति / पुनर्बोधिसत्त्वः सत्त्वानामर्थे सर्वदुःखपरिश्रमैरप्यपरिखिन्नमानसः प्रमुदित एवं सत्त्वानामर्थमाचरति / पुनर्बोधिसत्त्वः प्रवरायामग्र्यायामपि संपदि वर्तमानो दासवत्प्रेष्यवद्वश्यपुत्रवच्चण्डालदारकवन्नीचचित्तो निहतमदमानाहंकारः नामर्थमाचरति / (dutt 155) पुनर्बोधिसत्त्वो निरामिषेणाकृत्रिमेण च परमेण च प्रेम्णा सत्त्वानामर्थमाचरति / पुनर्बोधिसत्त्व आत्यन्तिकेनापुनः प्रत्युदावर्त्येन मैत्रेण चेतसा सत्त्वानामर्थमाचरति / इयं बोधिसत्त्वस्य पञ्चविधा ऽन्तःशुद्धा सत्त्वेष्वर्थचर्या वेदितव्या / या च पञ्चविधा वहिःशुद्धा या च पञ्चविधा ऽन्तःशुद्धा तां सर्वामेकध्यमभिसंक्षिप्य दशविधा बोधिसत्त्वानां विशुद्धा ऽर्थचर्येत्युच्यते /

तत्र कतमा बोधिसत्त्वस्य समानार्थता / इह बोधिसत्त्वो यस्मिन्नर्थे यस्मिन् कुशलमूले परान् समादापयति तस्मिन्नर्थे तस्मिन् कुशलमूल समादापने तुल्ये वा ऽधिके वा स्वयं संशिक्ष्यते / इति यैवं बोधिसत्त्वस्य परैस्तुल्यार्थता इयमुच्यते समानार्थता / तां समानार्थतां परे विनेया बोधिसत्त्वेभ्य उपलभ्य दृढनिश्चया भवन्त्यप्रत्युदावर्त्यास्तस्मिन् कुशल[मूल]समादापने / तत्कस्य हेतोः / तेषामेवं भवति / नूनमेतदस्माकं हितमेतत्सुखं यत्रायं बोधिसत्त्वो ऽस्मान् समादापितवान् / यस्मादयं बोधिसत्त्वो यत्रैवास्मान् सन्नियोजयति तदेवात्मना समुदाचरति / तत्रायं जानन्नहितमसुखं नात्मना समुदाचरेदिति न चास्य समानार्थस्य बोधिसत्त्वस्यैवं भवन्ति परे वक्तारः / त्वं तावत् स्वयं न कुशलं समादाय वर्तसे / कस्मात्त्वं परं कुशले ऽत्यर्थ समादापयितव्यं वक्तव्यमववदितव्यं मन्यसे / त्वमेव तावदन्यैर्वक्तव्यो ऽववदितव्यो ऽनुशासितव्य इति / अस्ति बोधिसत्त्वः परैः समानार्थ एव संस्तां समानार्थतां परेषां नोपदर्शयति / अस्त्यसमानार्थ एव सन् समानार्थतामुपदर्शयति / अस्ति समानार्थः ससानार्थतामुपदर्शयति / अस्ति नैव समानार्थो नापि समानार्थतामुपदर्शयति / तत्र प्रथमा कोटि तुल्यगुणप्रभावानां बोधिसत्त्वानां बोधिसत्त्वमार्गे आचार्यत्वमभ्युपगतानां तुल्यगुणप्रभावो बोधिसत्त्वः प्रतिच्छन्नकल्याणतया गुणान् प्रभावञ्च नोपदर्शयति / द्वितीया कोटी हीनाधिमुक्तिकानां सत्त्वानां गंभीरेषु स्थानेषूत्त्रस्तानां प्रतिसंख्याय बोधिसत्त्वः तेषामेव सत्त्वानां तेनोपायेन विनयनार्थं सहधार्मिकमात्मानमुपदर्शयति / संचिन्त्य आ-चण्डालानाम् आ-शुनामर्थं कर्तुकाम उपद्रवं संशमितुकामो विनयितुकाम आ-चण्डालानाम् आशुनां (dutt 156) सभागतायामुपपद्यते / तृतीया कोटी चलकुशलमूलसमादानानां विनेयानां स्थिरीकरणार्थं बोधिसत्त्वः समानार्थः अधिकार्थो वा समानार्थतामुपदर्शयति / चतुर्थी कोटी स्वयं प्रमत्तः परार्थमप्यभ्युपेक्षते /

तत्र यच्च दानमनेकविधं निर्दिष्टं यच्च शीलं विस्तरेण यावद्या च समानार्थता तत्र पारमिताभिरध्यात्मं बुद्धधर्मपरिपाकः / संग्रहवस्तुभिः [सर्व]सत्त्वपरिपाकः / समासतो बोधिसत्त्वस्यैतत्कुशलानां धर्माणां कर्म वेदितव्यम् / तत्र यच्च दानमनेकविधं पूर्ववद्यावत् समानार्थता इत्येषामनेकविधानामप्रमेयाणां कुशलानां धर्माणां बोधिपाक्षिकानां त्रिभिः कारणैः समुदाचारो वेदितव्यः / द्वाभ्यां कारणाभ्यां श्रेष्ठता वेदितव्या / त्रिभिः कारणैर्विशुद्धिर्वेदितव्या /

कायेन वाचा मनसा समुदाचारो वेदितव्यः / उदारत्वादसंक्लिष्टत्वाच्च श्रेष्ठता निरुत्तरता असाधारणता च वेदितव्या / तत्र सत्त्वाभेदतो वस्त्वभेदतः कालाभेदत्तश्चोदारता वेदितव्या / तत्र सत्त्वाभेदो यद्बोधिसत्त्वः सर्वसत्त्वानधिष्ठाय सर्वसत्त्वानारभ्य तानि दानादीनि कुशलमूलानि समुदाचरति न केवलस्यात्मन एवार्थे / तत्र वस्त्वभेदो यद्बोधिसत्त्वः सर्वाणि सर्वाकाराणि तानि कुशलमूलानि दानादिकानि समादाय वर्तते / तत्र कालाभेदो यद्बोधिसत्त्वः सततसमितमनिराकृतप्रयोगो ऽनिक्षिप्तधुरो रात्रौ च दिवा वा दृष्टे वा धर्मे तेनैव च हेतुना ऽभिसंपराये ऽपि तानि दानादीनि कुशलमूलानि समुदाचरति / तत्र चतुर्भिराकारैरसंक्लिष्टता वेदितव्या / इह बोधिसत्त्वो मुदितचित्तः तान् कुशलान् धर्मान्निषेवते न दुःखी न दुर्मना अविप्रतिसारी भवति ततो निदानम् / पुनर्बोधिसत्त्वः परमनपहत्य दृष्टिगतान्यनभिनिविश्य दुश्चरितेनाव्यामिश्राणि तानि कुशलमूलानि दानादिकानि समुदाचरति / पुनर्बोधिसत्त्वः सत्कृत्य सर्वात्मना तेष्वेव गुणदर्शी सारदर्शी शान्तदर्शी सुनिश्चितो ऽपरप्रत्ययो ऽनन्यनेयः तान् कुशलान् धर्मान् दानादीन् समादाय वर्तते / पुनर्बोधिसत्त्वो न तेर्षा दानादीनां कुशलानां धर्मांणां विपाकं प्रतिकांक्षते चक्रवर्तित्वं वा शक्रत्वं वा मारत्वं वा ब्रह्मत्वं वा नापि परतः प्रतिकारं प्रत्याशंसते / न तत्र निश्रितो भवति / न सर्वलाभसत्कारश्लोकेषु नाप्यन्ततः कायजीविते ऽपि निश्रितो भवति /

इति य एभिराकारैः प्रसादप्रामोद्यसहगतश्चाविषमश्च सत्कृत्य चानिश्रितश्च दानादीनां समानार्थतापर्यवसानानां (dutt 157) कुशलानां धर्माणां समुदाचारः / सा एषामसंक्लिष्टतेत्युच्यते / विशुद्धिरुत्तप्तता अचलता सुविशुद्धता च वेदितव्या / तत्राशय शुद्धिभूमिप्रविष्टस्य बोधिसत्त्वस्य उत्तप्तान्यचलानि चैतानि कुशलमूलानि भवन्ति / तत्रेयमुत्तप्तता यदाशयशुद्धस्य बोधिसत्त्वस्य सर्वे ते कुशला धर्मा अप्रतिसंख्यानकरणीया भवन्ति / तत्रेयमचलनता यदाशयशुद्धो बोधिसत्त्वो यथा प्रतिलब्धेभ्यो यथोपचितेभ्यश्च एभ्यः कुशलेभ्यो धर्मेभ्यो न परिहीयते / न भव्यो भवत्यायत्यां परिहाणाय / नान्यत्र तेषां तेषां रात्रिदिवानामत्ययात्तेषां तेषामात्मभावानां समतिक्रमाच्चन्द्रो वा शुक्लपक्षे प्रत्युपस्थिते वर्धत एव एभिः कुशलैर्धर्मैर्न [परि]हीयते बोधिसत्त्वः निष्ठागमनभूमिब्यवस्थितस्य पुनर्बोधिसत्त्वस्यैकजातिप्रतिबद्धस्य चरमभविकस्य वा एते कुशला धर्माः सुविशुद्धा वेदितव्या येषामुत्तरि बोधिसत्त्वभूमौ परिशुद्धतरता नास्ति / एवं त्रिभिः कारणैरेषां कुशलानां धर्माणां समुदाचारः / द्वाभ्यां कारणाभ्यां श्रेष्ठता / त्रिभिः कारणैः सुविशुद्धता वेदितव्या दानादीनां समानर्थतावसानानाम् /

तत्र सर्वदानस्य सर्वशीलस्य विस्तरेण यावत्सर्वसमानर्थताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णाया अनुत्तरा सम्यक्संबोधिर्वज्रसारशरीरता सद्धर्मचिरस्थितिकता च फलमभिनिर्वर्तते / तत्र दुष्करदानेन दुष्करशीलेन यावद्दुष्करसमानार्थतया आसेवितया सुविशोधितया तथागतस्याप्रतिसमाश्चर्याद्भुतधर्मसमन्वागतत्वं फलमभिनिर्वर्तते / तत्र सर्वतोमुखेन दानेन सर्वतोमुखेन शीलेन विस्तरेण यावत्सर्वतोमुखया समानार्थतया तथागतस्य सर्वतः प्रधानसत्त्वैर्देवमनुष्यैः पूज्यत्वं फलमभिनिवर्तते / तत्र सत्पुरुषदानस्य सत्पुरुषशीलस्य यावत्सत्पुरुषसमानार्थतायाः तथागतस्य ये केचित्सत्त्वा अपदा वा [द्विपदा वा] चतुष्पदा वा बहुपदा वा रूपिणो वा ऽरूपिणो वा संज्ञिनो वासंज्ञिनो वा नैवसंज्ञानासंज्ञायतनोपगा वा [तेषां] सर्वेषां सत्त्वानामग्र्यत्वं फलमभिनिर्वर्तते / तत्र सर्वाकारस्य दानस्य [सर्वाकारस्य] शीलस्य विस्तरेण यावत्सर्वाकारायाः समानार्थतायास्तथागतस्याप्रमेयविचित्रपुण्यपरिगृहीतं द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनकायता फलमभिनिर्वर्तते / (dutt 158) तत्र विघातार्थिकदानस्य विघातार्थिकशीलस्य विस्तरेण यावद्विघातार्थिकसमानार्थतायाः तथागतस्य बोधिमण्ड निषण्णस्य सर्वमारप्रत्यर्थिकविधाताविहेठाविकम्पनाप्रतिबलनता फलमभिनिर्वर्तते / तत्रेहामुत्रसुखस्य दानस्य इहामुत्रसुखस्य शीलस्य विस्तरेण यावदिहामुत्रसुखायाः समानार्थतायास्तथागतस्य परमध्यानविमोक्षसमाधिसमापत्तिसुखं फलमभिनिर्वर्तते / तत्र विशुद्धस्य दानस्य विशुद्धस्य शीलस्य विस्तरेण यावद्विशुद्धायाः समानार्थंताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णयास्तथागतस्य सर्वाकाराश्चतस्रः परिशुद्धयः आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिः फलमभिनिर्वर्तते / तथा त्रीण्यारक्ष्याणि दशबलवैशारद्यस्मृत्युपस्थान-सर्वावेणिकबुद्धधर्मविशुद्धिश्च फलमभिनिर्वर्तते / इदमस्य बोधिसत्त्वस्य दानादीनां कुशलानां धर्माणां पर्यन्तगतं फलं निरुत्तरम् / अन्यच्चास्याप्रमाणमिष्टमनवद्यं बोधिसत्त्वचर्यासु संसरतो वेदितव्यम् /

इति बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चदशमं संग्रहवस्तुपटलम् /

पूजासेवा ऽप्रमाणपटलम् (छप्तेर् 1.16)

उद्दानम् /

रत्न-पूजा मित्र-सेवा अप्रमाणैश्च पश्चिमम् /

तत्र बोधिसत्त्वस्य तथागतेषु तथागत-पूजा कतमा / सा सामासतो दशविधा वेदितव्या / शरीर-पूजा चैत्य-पूजा सम्मुख-पूजा विमुख-पूजा स्वयंकृत-पूजा पर-कारित-पूजा लाभ-सत्कार-पूजा उदार-पूजा असंक्लिष्टपूजा प्रतिपत्ति-पूजा च /

तत्र यद्बोधिसत्त्वः साक्षात् तथागत-रूप-कयमेव पूजयति / इयमस्योच्यते शरीर पूजा /

तत्र यद्बोधिसत्त्वस्तथागतमुद्दिस्य स्तूपं वा गहं वा कूटं वा पुराणचैत्य वा अभिनव-चैत्यं वा पूजयति / इयमस्योच्यते चैत्य-पूजा /

यद् बोधिसत्त्वस्तथागत-काय वा तथागत-चैत्यं वा सम्मुखीभूतमध्यक्ष पूजयति / इयमस्य सम्मुख-पूजेत्युच्यते /

तत्र यद् बोधिसत्त्वस्तथागते वा तथागते-चैत्ये वा सम्मुख-पूजां कुर्वन्नेवमध्याशय-सहगतं प्रसाद-सहगतं चित्तमभिसंस्करोति / या एकस्य तथागतस्य धर्मता सा सर्वेषां तथागतानामतीतानागतप्रत्युत्पन्नानां धर्मता / या एकस्य तथागत-चैत्यस्य धर्मता सा सर्वेषां तथागत-चैत्यानां धर्मता / इत्यतो ऽहमेतञ्च सम्मुखीभूतं तथागतं पूजयामि सर्वांश्च तान् अतीतानागतप्रत्युत्पन्नांश्च तथागतान् पूजयामि / एतच्च सम्मुखीभूत तथागत-चैत्यं पूजयामि / तदन्यानि च दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वाणि स्तूपानि गहानि कूटागाराणि पुराण-चैत्यानि अभिनव-चैत्यानि पूजयामि / इतीयं तावद् बोधिसत्त्वस्य साधारणा सम्मुखा /

विमुखा च तथागत-पूजा तथागत-चैत्य-पूजा च वेदितव्या / यत्पुनर्बोधिसत्त्वः असम्मुखीभूते तथागते तथागत-चैत्ये वा तथागतचित्तमभिसंस्कृत्य (dutt 160) पूजां प्रयोजयति सर्वबुद्धानुद्दिश्य सर्वतथागतचैत्यानि चोद्दिश्य / सास्य केवला विमुखैव पूजा वेदितव्या / यदपि बोधिसत्त्वः परिनिर्वृते तथागते तथागतमुद्दिश्य तथागतस्य शरीरं स्तूपं वा कारयति गहं वा कूटं वा एकं वा द्वौ वा सम्बहुलानि वा यावत् कोटि-शतसहस्राणि यथाशक्ति-यथाबलम् / इयमपि बोधिसत्त्वस्य तथागतेषु विमुखा विपुला पूजा अप्रमाण-पुण्य-फला ऽनेकब्राह्मपुण्यपरिगृहीता / यथा बोधिसत्त्वः अनेकैरेव कल्पै[र्महाकल्पै]रविनिपातगामी भवति / न चानुत्तरायाः सम्यक्संबोधेः सम्भारं न परिपूरयति तन्निदानम् / तत्र येयं बोधिसत्त्वस्य केवलैव तथागते तथागतचैत्ये वा पूजा इयमेव तावद्विपुलपुण्यफला द्रष्टव्या ततो विपुलतरपुण्यफला केवलैव विमुखा द्रष्टव्या / ततो विपुलतमपुण्यफला साधारणसम्सुखविमुखा पूजा द्रष्टव्या /

तत्र यद् बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामः स्वयमेव स्वहस्तं करोति न दासीदासकर्मंकर-[पौरुषेय-]मित्रामात्यज्ञातिसालोहितैः कारयत्यालस्यकौसीद्यं प्रमादस्थानं वा निश्रित्य / इयं बोधिसत्त्वस्य स्वयंकृता पूजा वेदितव्या / तत्र यद्बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामो न केवलं स्वयेव करोत्यपि तु मातापितृभ्यां कारयति पुत्रदारेण दासीदासकर्मकरपौरुषेयैर्मित्रामात्यज्ञातिसालोहितैः परैश्च राजभिः राजमहामात्रैर्ब्राह्मणैगृहपतिभिर्नैगमैर्जानपदैर्धनिभिः श्रेष्ठभिः सार्थवाहैरन्ततः स्त्रीपुरुषदारकदारिकाभिः कृपणैदुःखितैर आ-चण्डालैरपि कारयति / तथा ऽचार्योपाध्यायैः सार्धविहार्यन्तेवासिभिः सब्रह्मचारिभिश्च प्रव्रजितैरप्यन्यतीर्थ्यैस्तथागते [वा तथागत-]चैत्ये वा पूजां कारयति / इयं बोधिसत्त्वस्य साधारणा पूजा स्वपरकृता वेदितव्या /

यत्पुनर्बोधिसत्त्वः परीत्ते पूजाकरणीये देयवस्तुनि संविद्यमाने करुणासहगतेन चेतसा संचिन्त्य परेषामेव तद्वस्त्वनुप्रयच्छत्येते दुःखिताः सत्त्वा अल्पपुण्याश्चाशक्ताश्च तथागते वा तथागतचैत्ये वा कारां कृत्वा सुखिता भवन्त्विति / परे च तेन वस्तुना तथागते वा तथागतचैत्ये वा पूजां कुर्वन्ति न बोधिसत्त्वः इयं बोधिसत्त्वस्य केवला परकारिता पूजा वेदितव्या /

तत्र या केवला स्वयंकृता सा महापुण्यफला / या केवला परकारिता सा महत्तरपुण्यफला / या पुनः साधारणा या महत्तमपुण्यफला निरुत्तरा वेदितव्या /

तत्र यद्बोधिसत्त्वः तथागते वा तथागतचैत्ये वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरभिवादनवन्दनप्रत्युत्थानाञ्जलिकर्मभिश्च धूपगन्धैश्चूर्णगन्धैरनुलेपनगन्धैर्विचित्रैश्च माल्यैर्विचित्रैर्वाद्यै र्विचित्रैश्छत्रध्वजपताकाप्रदीपदानैर्विचित्रैः स्तोत्राभिव्याहारैः पञ्चमण्डलप्रणामैः प्रदक्षिणावर्तैः पूजां करोति / तथा ऽक्षयणिकाप्रदानैः मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिका-दक्षिणावर्तप्रभृतिभिः रत्नप्रदानैर्मणिकुण्डलकेयूराद्यलङ्कारप्रदानैरन्ततश्च घण्टाप्रदानकार्षापण-क्षेपसूत्रपरिवेष्टनैः पूजयति / इयं बोधिसत्त्वस्य तथागते वा तथागतचैत्ये वा लाभसत्कारपूजा वेदितव्या /

तत्र यद्बोधिसत्त्वो दीर्घकालिकीञ्च तथागते वा तथागतचैत्ये वा एतामेव लाभसत्कारपूजां करोति प्रभूतवस्तुकाञ्च प्रणीतवस्तुकाञ्च सम्मुखविमुखाञ्च स्वयंकृतपरकृताञ्च घनरसेन च प्रसादेन सम्मुखीभूतेन तीव्रया चाधिमुक्त्या पूजां करोति / तच्च कुशलमूलमनुत्तरायै सम्यक्संबोधये परिणामयति / इयं बोधिसत्त्वस्य सप्ताकारा उदारपूजेत्युच्यते /

तत्र यद्बोधिसत्त्वः स्वहस्तं तथागते वा तथागतचैत्ये वा कारां करोति न परैरवज्ञया कारयति प्रमादकौसीद्याद्वा / सत्कृत्य करोति / नापविद्धमविक्षिप्तचित्तः करोत्यसंक्लिष्टचित्तः / न बुद्धाभिप्रसन्नानां राजादीनामुदारसत्त्वानां लाभसत्कारहेतोः कुहनार्थं प्रतिरूपेण च वस्तुना पूजयति / न हरिताल-लेपन-धृतस्नान-गुग्गुलुधूपार्कपुष्पादिभिरन्यैश्चाकल्पिकैरुपकरणैः / इयं बोधिसत्त्वस्य षडाकारा ऽसंक्लिष्टा पूजा वेदितव्या /

तां पुनरेतामुदारामसंक्लिष्टां लाभसत्कारपूजां बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा स्वबाहुबलोपार्जितैर्भोगैः करोति परतो वा पर्येषितैः / षरिष्कारवशिता-प्रतिलब्धैर्वा / तत्र परिष्कारवशिताप्राप्तो बोधिसत्त्वः द्वौ वा (dutt 162) त्रीन्वा संबहुलान् वा समुच्छ्रयान् यावत् समुच्छ्र्यकोटीनियुतशतसहस्त्राण्यनेकान्यभिनिर्माय सर्वैस्तैः समुच्छ्रयैस्तथागतेषु प्रणामं करोति / तेषाञ्च समुच्छ्रयाणामेकैकस्य हस्तशतं हस्तसहस्रं वा ततो वा परेण निर्माय सर्वैस्तैर्दिव्यसमतिक्रान्तैः कुसुमैः परमसुगन्धिभिः परममनोरमैः तांस्तथागतानभ्यवकिरति / सर्वे च ते समुच्छ्रया अत्युदाराणि तथागतभूतगुणोपसंहितानि स्तोत्राणि भाषन्ते / सर्वैरेव च तैः समुच्छ्रयैर्विचित्राण्यमात्राणि [अग्राणि] प्रणीतानि केयूरमणिकुण्डलानि छत्रध्वजपताकाश्च तथागतेषूत्सृजयत्त्यारोपयति / इयमेवंभागीया परिष्कारवशिता-प्राप्तस्य बोधिसत्त्वस्य स्वचित्तप्रतिबद्धा पूजा / न चास्य पुनर्बुद्धोत्पादः प्रत्याशंसितव्यः प्रार्थयितव्यो वा भवति / तत्कस्य हेतोः / तथाहि तस्यावैवर्तिकभूमिप्रविष्टत्वात् सर्वबुद्धक्षेत्रेष्वव्याहता गतिर्भ वति / नो चापि बोधिसत्त्वस्य स्वबाहुबलोपार्जिता भोगा भवन्तिनापि च परतः पर्येषितलब्धा वा / नापि च बोधिसत्त्वः परिष्कारवशिताप्राप्तो भवति / अपि तु या काचित् तथागतपूजा जम्बूद्वीपे [वा] चातुर्द्वीपे वा साहस्रे [वा द्विसाहस्रे वा त्रिसाहस्र-]महासाहस्रे वा यावद्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु मृदुमध्याधिमात्रा प्रवर्तते /

तां सर्वां श्राद्धो बोधिसत्त्वः प्रसादसहगतेनोदाराधिमुक्तिसहगतेन चेतसा स्फरित्वाभ्यनुमोदते / इयमपि बोधिसत्त्वस्याल्पकृच्छ्रेण महती अप्रमाणा तथागतपूजा बोधाय महासंभारपरिगृहीता यस्यां बोधिसत्त्वेन सतत-समितं कल्याणचित्तेन हृष्टचित्तेन योगः करणीयः / तत्र यद्बोधिसत्त्वः स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततो गोदोहमात्रमपि सर्वसत्त्व प्राणिभूतेषु मैत्रचित्तं भावयति / करुणासहगतं मुदितासहगतमुपेक्षासहगतं चित्तं भावयति / तथा सर्वसंस्कारेष्वनित्यसंज्ञामनित्ये दुःखसंज्ञां दुःखे ऽनात्मसंज्ञां निर्वाणे चानुशंससंज्ञां भावयति / तथा तथागतानुस्मृतिं धर्मसंघपारमितानुस्मृतिं भावयति / तथा स्तोकस्तोकं मुहूर्तमुहूर्तं सर्वधर्माणां प्रादेशिकेन मृदुक्षान्तिकेनापि ज्ञानेन निरभिलाप्यधर्मस्वभावतथताधिमुक्तो निर्विकल्पेन निर्निमित्तेन चेतसा विहरति / प्रागेव तत उत्तरि ततो भूयः / तथा बोधिसत्त्वशीलसंवरपरिपालना / शमथविपश्यनायां बोधिपाक्षिकेषु च धर्मेषु योगक्रिया / तथा पारमितासु संग्रहवस्तुषु च सम्यग्योगक्रिया / इतीयं बोधिसत्त्वस्य प्रतिपत्तिसहगता तथागत पूजा ऽग्र्यावरा (dutt 163) प्रणीता निरुत्तरा / यस्याः पूजायाः पूर्विका लाभसत्कारपूजा सर्वाकारापि शततमीमपि कलां नोपैति सहस्रतमीमपि कलां नोपैति विस्तरेण यावदुपनिषदमपि नोपैति / इतीयं दशभिराकारैः सर्वाकारा तथागतपूजा वेदितव्या /

यथा तथागतपूजा एवं धर्मपूजा संघपूजा यथायोगं वेदितव्या /

तत्र त्रिषु रत्नेष्वेतां दशाकारां पूजां कुर्वन्बोधिसत्त्वस्तथागतालम्बनैः षड्मिरध्याशयैः करोति / गुणक्षेत्रनिरुत्तराध्याशयतया उपकारिनिरुत्तराध्याशयतया ऽपदद्विपदादिसर्वसत्त्वाग्र्याध्याशयतया उदुम्बरपुष्पवत् सुदुर्लंभा ऽध्याशयतया एकाकिनस्त्रिसाहस्रम साहस्रे लोक उत्पादात्केवलाध्याशयतया लौकिकलोकोत्तरसम्पत्सर्वार्थंप्रतिसरणाध्याशयतया / तस्यैभिः षड्भिरध्याशयैः तथागते तस्य वा धर्मे तस्य वा संघे पूजा प्रकल्पिता परीत्ताप्यप्रमेयफला भवन्ति प्रागेव प्रभूता /

तत्र कतिभिराकारैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं वेदितव्यम् / कतिभिश्चाकारैः कल्याणमित्रता ऽबन्ध्या भवति / कतिभिकारारैः समन्वागतं कल्याणमित्रं प्रसादपदस्थानगतं भवति / कति कल्याणमित्रभूतस्य [बोधिसत्त्वस्य] विनेयेषु कल्याणमित्र-करणीयानि भवन्ति / कतिविधा च कल्याणमित्रसंसेवा बोधिसत्त्वस्य / कत्याकारया च संज्ञया कल्याणमित्रस्यान्तिकाद्बोधिसत्त्वेन धर्मः श्रोतव्यः / कतिषु च स्थानेषु कल्याणमित्रस्यान्तिकाद् बोधिसत्त्वेन धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गले ऽमनसिकारः करणीयः /

तत्राष्टाभिरङ्गैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं सर्वाकारपरिपूर्णं वेदितव्यम् / वृत्तस्थो भवति बोधिसत्त्वसंवरशीलेषु व्यवस्थितो ऽखण्डच्छिद्रकारी / बहुश्रुतो भवति नाव्युत्पन्नबुद्धिः / अधिगमयुक्तश्च भवति लाभी भावनामयस्यान्यतमान्यतमस्य कुशलस्य लामी शमथविपश्यनायाः / अनुकम्पकश्च भवति कारुणिकः सो ऽध्युपेक्ष्य स्वं दृष्टधर्मंसुखविहारं परेषामर्थाय परयुज्यते / विशारदो भवति न परेषामस्य धर्मं देशयतः स्मृतिः प्रतिभानं - व शारद्यभयात् प्रमुष्यते / क्षमश्च भवति परतो ऽवमाननावहसनावस्पन्दन दुरुक्त-दुराग-तादीनामनिष्टानां वचन्स्पथानां विविधानञ्च सत्त्वविप्रतिपत्तीनाम् / अपरिखिन्नमानसश्च (dutt 164) भवति बलवान् प्रतिसंख्यानबहुलः अकिलासी चतसृणां परिषदां धर्मदेशनायै / कल्याणवाक्यश्च भवति वाक्करणेनोपेतो धर्मताप्रणष्टस्पष्टवाक् /

तत्र पञ्चभिराकारैरेव सर्वाकारगुणयुक्तस्य बोधिसत्त्वस्य कल्याणमित्रस्याबन्ध्यं कल्याणमित्रकरणीयं भवति / स हि परेषामादित एव हितसुखैषी भवति / तच्च हितसुखं यथाभूतं प्रजानाति / न तत्र विपर्यस्तबुद्धिर्भवति / येन चोपायेन यद्रुपया धर्मदेशनया यः सत्त्वः शक्यरूपो भवति विनेतुं तत्र शक्तो भवति प्रतिबलः / अपरिखिन्नमानसश्च भवति / समकारण्यश्च भवति / सर्वसत्त्वेषु हीनमध्यविशिष्टेषु न पक्षपतितः /

तत्र पञ्चभिराकारैस्तत्कल्याणमित्रं प्रसादपदस्थितं भवति येनैनं परे ऽत्यर्थमभिप्रसीदन्त्यनुश्रवेणापि श्रुत्वा प्रागेव सम्मुखं निरीक्ष्य / ईर्यापथसंपन्नो भवति प्रशान्तेर्यापथः सर्वाङ्गप्रत्यङ्गैनिर्विकारः / स्थितो भवत्यनुद्धतअचपलकायवाङ्मनःकर्मान्तप्रचारः / निष्कुहकश्च भवति न परेषां कुहनार्थमीर्यापथं स्थैर्यं वा प्रतिसंख्याय कल्पयति / अनीर्षुकश्च भवति न परेषां धर्म्यं कथां लाभसत्कारं वा आरभ्यामर्षमुत्पादयति / अपि तु स्वयमध्येष्यमाणो ऽपि धर्मकथने परैः लभमानो ऽपि विपुलं लाभसत्कारं परमपदिशति अशठेन चेतसा प्रसन्नेन / परेषां तच्च धार्मकथिकत्वं तञ्च लाभसत्कारमारभ्यानुजनाति / यथा स्वेन लाभसत्कारेण तुष्टो भवति तथा भृशतरं परलाभेन परसत्कारेण तुष्टो भवति / [सुमनाः] संलिखितश्च भवत्यल्पभाण्डो ऽल्पपरिष्कारः उत्पन्नोत्पन्नपरित्यक्तसर्वोपकरणः /

तत्र पञ्चभिराकारैरयं कल्याणमित्रभूतो बोधिसत्त्वः परेषां विनेयानां कल्याणमित्रकार्यं करोति / चोदको भवति / स्मारको भवति / अववादको भवति / अनुशासको भवति / धर्मदेशको भवति / एषाञ्च पदानां विस्तरेण विभागो वेदितव्यः / तद्यथा श्रावकभूमावववादानुशासनञ्च भूयस्तत उत्तरि वेदितव्यं तद्यथा बलगोत्रपटले /

तत्र चतुर्भिराकारैर्बोधिसत्त्वस्य कल्याणमित्रसेवा परिपूर्णा वेदितव्या / कालेन कालं ग्लानोपस्थानस्वस्थोपस्थान क्रियया प्रेमगौरवप्रसादोपसंहृतया / (dutt 165) कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामिचीकर्मपूजाक्रियया धर्मचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानपूजया च / निश्रितस्य च धार्मिकेष्वर्थसंयोग-वियोगेषु वशवर्तनतया अविकम्पनतया यथाभूतत्वाविष्करणतया / कालेन च चाज्ञामिप्रायस्योपसंक्रमणपर्युपासनपरिपृच्छनश्रवणतया /

तत्र कल्याणमित्रस्यान्तिकाद्धर्मं श्रोतुकामेन बोधिसत्त्वेन पञ्चाकारया संज्ञया धर्मः श्रोतव्यः / रत्नसंज्ञया दुर्लभार्थेन / चक्षुःसंज्ञयोदारसहजप्रज्ञाप्रतिलाभाय हेतुभावार्थेन / आलोकसंज्ञया प्रतिलब्धसहजज्ञानचक्षुषा सर्वाकार-यथाभूत-ज्ञेयसंप्रकाशनार्थेन / महाफलानुशंससंज्ञया निर्वाणसंबोधिनिरुत्तरपदप्राप्तिहेतुभावार्थेन / अनवद्यरतिसंज्ञया दृष्टे धर्मे ऽप्राप्त निर्वाणसंबोधिधर्मयथाभूतप्रविचयशमथविपश्यना ऽनवद्यमहारतिहेतुभावार्थे /

तत्र बोधिसत्त्वेन कल्याणमित्रस्यान्तिकाद्धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गले पञ्चस्थानेष्वमनसिकारं कृत्वा ऽवहितश्रोत्रेण प्रसन्नमानसेन धर्मः श्रोतव्यः / शीलभ्रंशे ऽमनसिकारः करणीयः / नैवं चित्तमभिसंस्कर्तव्यं दुःशीलो ऽयमसंवरस्थः नाहमतः श्रोष्यामि / कुलभ्रंशे ऽप्यमनसिकारः करणीयः / नैवं चित्तमभिसंस्कर्तब्यं नीलकुलो ऽयं नाहमतः श्रोष्यामि / रूपभ्रंशे ऽप्यमनसिकारः करणीयः / नैवं चित्तमभिसंस्कर्तव्यं विरुपो ऽयं नाहमतः श्रोष्यामि / व्यञ्जनभ्रंशे ऽप्यमनसिकारः करणीयः / नैवं चित्तमभिसंस्कर्तव्यम् अनभिसंस्कृतवाक्यो ऽयं नाहमतः श्रोष्यामि / नान्यत्रार्थप्रतिसरणेन भवितव्यं न व्यञ्जनप्रतिसरणेन / माधुर्यभ्रंशे ऽप्यमनसिकारः करणीयः / नैवं चित्तमभिसंस्कर्तव्यं परुषवाक्योयं क्रोधनो न च मधुरं धर्मं भाषते नाहमतः श्रोष्यामीति / इत्येवं पञ्चसु स्थानेष्वमनसिकारं कृत्वा बोधिसत्त्वेन सादरेण सद्धर्मपरिग्रहः कार्यो न जातु धर्मः पुद्गलदोषेण दुष्टो भवति / तत्र यो ऽसौ मन्दप्रज्ञो बोधिसत्त्वः पुद्गलदोषेषूपहतचित्तो धर्मं नेच्छति श्रोतुं स आत्मन एवाहिताय प्रज्ञापरिहाणाय प्रतिपन्नो वेदितव्यः /

कथञ्च बोधिसत्त्वश्चत्वार्यप्रमाणानि भावयति / मैत्रीं करुणां मुदितामुपेक्षाम् / इह बोधिसत्त्वः समासतस्त्रिविधानि चत्वार्यप्रमाणानि भावयति / सत्त्वालम्बनानि धर्मालम्बनान्यनालम्बनानि च / यद्बोधिसत्त्वस्त्रिषु राशिषु सर्वसत्त्वानवस्थाप्य सुखितान् दुःखितान् अदुःखितासुखितान् सत्त्वान् सुखकामानधिकृत्य सुखोपसंहाराध्याशयगतेन मैत्रेण चेतसा दशदिशः स्फरित्वा सत्त्वाधिमोक्षेण विहरति / इयमस्य सत्त्वालम्बना मैत्री वेदितव्या / यत्पुनः धर्ममात्रसंज्ञी धर्ममात्रे सत्त्वोपचारमाशयतः संपश्यंस्तामेव मैत्रीं भावयति / इयमस्य धर्मालम्बना मैत्री वेदितव्या / यत्पुनर्धर्मानप्यविकल्पयंस्तामेव मैत्रीं भावयति / इयमस्यानालम्बना मैत्री वेदितव्या / यथा सत्त्वालम्बना धर्मालम्बना ऽनालम्बना मैत्री एवं करुणा मुदितोपेक्षा अपि वेदितव्या / तत्र बोधिसत्त्वो दुःखितान् सत्त्वानारभ्य दुःखापनयनाध्याशयो दशसु दिक्षु करुणासहगतं चित्तं भावयति / सास्य करुणा / सुखितान्वा पुनः सत्त्वानारभ्य सुखानुमोदनाध्याशयो दसशु दिक्षु मुदितासहगतं चित्तं भावयति / सास्य मुदिता / स तेषामेव त्रिविधानां सत्त्वानामदुःखासुखिताना दुःखितानां सुखितानाञ्च यथाक्रमं मोहद्वेषरागक्लेशविवेकाध्याशयो दशसु दिक्षूपेक्षासहगतं चित्तं भावयति / इयमस्योपेक्षा / तत्र यानि बोधिसत्त्वस्य मैत्र्यादीन्यप्रमाणानि सत्त्वालम्बनानि तान्यन्यतीर्थ्य साधारणानि वेदितव्यानि / यानि पुनर्धर्मालम्बनानि तानि श्रावकप्रत्येकबुद्धसाधारणानि न त्वन्यतीर्थ्यसाधारणानि वेदितव्यानि / यानि तु बोधिसत्त्वस्यानालम्बनान्यप्रमाणानि तानि सर्वतीर्थ्य-श्रावकप्रत्येकबुद्धासाधारणानि वेदितव्यानि / तत्र बोधिसत्त्वस्य त्रीण्यप्रमाणानि सुखाध्याशयसंगृहीतानि वेदितव्यानि / मैत्री करुणा मुदिता च / एकम प्रमाणं हिताध्याशयसंगृहीतं वेदितव्यं यदुत उपेक्षा / सर्वाणि चैतान्यप्रमाणानि बोधिसत्त्वस्यानुकम्पेत्युच्यते / तस्मात्तैः समन्वागता बोधिसत्त्वा अनुकम्पका इत्युच्यन्ते /

तत्र दशोत्तरशताकारं दुःखं सत्त्वधातौ संपश्यन्तो बोधिसत्त्वाः सत्त्वेषु करुणां भावयन्ति / दशोत्तरशताकारं दुःखं कतमत् / एकविधं दुःखम् / अविशेषेण प्रवृत्तिदुःखमारभ्य सर्वसत्त्वाः प्रवृत्तिपतिता दुःखिताः / द्विविधं दुःखम् / छन्दमूलकं येषां [प्रियाणां] वस्तूनां परिणामादन्यथीभावाद् दुःखमुत्पद्यते / सम्मोहविपाकञ्च दुःखं यैस्तीव्रैः शारीरैर्वेदितैः स्पृष्टस्तस्मिन्नात्मभावे अहमिति वा ममेति वा सम्मूढो ऽत्यर्थं शोचति / येन द्विशल्यां वेदनां वेदयते कायिकीञ्चैतसिकीञ्च / त्रिविधं दुःखं दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च / चतुर्विधं दुःखम् / विरहदुःखं प्रियाणां विसंयोगाद्यदुत्पद्यते / समुच्छेददुःखं निकायसभागनिक्षेपान्मरणाद्यदुत्पद्यते / सन्ततिदुःखं मुत्तरत्रमृतस्य जन्मपारंपर्येण यदुत्पद्यते / अत्यन्तदुःखमपरिनिर्वाणधर्मकाणां सत्त्वानां ये पञ्चोपादानस्कन्धाः / पञ्चविधं दुःखम् / कामच्छन्दपर्यवस्थान प्रत्ययं व्यापादस्त्यान-मिद्धौद्धत्य-कौकृत्य-विचिकित्सा-पर्यवस्थानप्रत्ययञ्च यद्दूःखम् / षड्विधं दुःखम् / हेतुदुःखमापयहेतुर्निषेवणात् फलदुःखमपायोपपत्तितः / भोगान् पुनरारभ्य पर्येष्टिदुःखमारक्षादुःखमतृप्तिदुःखं विप्रणाशदुःखञ्च / तदेतदभिसमस्य षड्विधं दुःखं भवति / सप्तविधं दुःखम् / जातिर्दुःखं जराव्याधिर्मरणमप्रियसंयोगः प्रियविनाभावः यदपीच्छन्पर्येषमाणो न लभते तदपि दुःखम् / अष्टविधं दुःखम् / शीतदुःखभुष्णदुःखं जिघत्सादुःखं पिपसादुःखमस्वातन्त्र्यदुःखम् / आत्मोपक्रमदुःखं तद्यथा निग्रन्थप्रभृतीनाम् / परोपक्रमदुःखं तद्यथा पणिलोष्टसंस्पर्शादिभिः परतो दंशमशकादिसंस्पर्शैश्च /

ईर्यांपथैकजातीयविहारदुःखञ्च / नवविधं दुःखम् / आत्मविपत्तिदुःखं परविपत्तिदुःखं [ज्ञातिविपत्तिदुःखं भोगविपत्तिदुःखम्] आरोग्यविपत्तिदुःखं शीलविपत्तिदुःखं दृष्टि-[विपत्तिदुःखं] दृष्टधार्मिकदुःखं साम्परायिकञ्च दुःखम् / दशविधं दुःखम् / भोजनकायपरिष्कारवैकल्यदुःखं पानयानवस्त्रालङ्कारभाण्डोपष्करपरिष्कारवैकल्यदुःखं गन्धमाल्यविलेपनपरिष्कारवैकल्यदुःखं नृत्यगीतवादित्रपरिष्कारवैकल्यदुःखम् आलोकपरिष्कारवैकल्यदुःखं स्त्रीपुरुषपरिचर्याकायपरिष्कारवैकल्यदुःखञ्च दशमम् पुनरन्यं नवविधं दुःखं वेदितव्यम् / सर्वदुःखं महादुःखं सर्वतोमुखं दुःखं विप्रतिपत्तिदुःखं प्रवृत्तिदुःखमकामकारदुःखं विघातदुःखमानुषङ्गिकं दुःखं सर्वाकारञ्च (dutt 168) दुःखम् / तत्र सर्वदुःखं यत् पूर्वहेतुसमुत्पन्नं वर्तमानप्रत्ययसमुत्पन्नञ्च / तत्र महादुःखं यद्दीर्घंकालिकं प्रगाढं चित्रं निरन्तरञ्च / तत्र सर्वतोमुखं दुःखं यन्नारकं तैर्यग्योनिकं प्रेतलौकिकं सुगतिपर्यापन्नञ्च / तत्र विप्रतिपत्तिदुःखं यद् दृष्टे वा धर्मे परव्यतिक्रमात् परापकारकरणाल्लभते समुत्थापयति / विषमभोजनपरिभोगाद्धातुवैषम्यजं दुःखं समुत्थापयति / अनयेन वात्मदृष्टधर्मदुःखोपक्रमात् स्वयं कृतं दुःखं समुत्थापयति / अयोनिशोमनस्कार-तद्बहुलविहारितया वा क्लेशोपक्लेशपर्यवस्थानदुःखं प्रत्यनुभवति / कायवाङ्मनोदुश्चरितबाहल्याद्बा आयत्यामापायिकं दुःखं प्रत्यनुभवति / तत्र प्रवृत्तिदुःखं यत् षडाकारादनियमादुत्पद्यते संसारे संसरतः / आत्मभावानियमाद्राजा भूत्वा आढ्यः कृपणो भवति / मातापित्रनियमात् पुत्रदारानियमाद्दासीदासकर्मकरपौरुषेयानियमात्

मित्रामात्यज्ञातिसालोहितानियमात् मातापितरौ भूत्वा यावद्विस्तरेण मित्रामात्यज्ञातिसालोहितो भूत्वा ऽपरेण समयेन संसरतो वधको भवति प्रत्यर्थिकः प्रत्यमित्रः / भोगानियमाच्च संसारे संसरन् महाभोगो भूत्वा पुनरपरेण समयेन परमदरिद्रो भवति / तत्राकामकारदुःख यद्दीर्घायुष्कामस्य अकाममल्पायुष्कतयोत्पद्यते /

आभिरुप्यकामस्य चाकामं वैरुप्यतः / उच्चकुलोपपत्तिकामस्य चाकामं नीचकुलोपपत्तितः / ऐश्वर्यकामस्याकामं दारिद्र्योपनिपाततः [महा-]बलकामस्य चाकामं दौर्वल्योपनिपातत उत्पद्यते / ज्ञेयं ज्ञातुकामस्य चाकामं सम्मोहाज्ञानसमुदाचार उत्पद्यते / परपराजयकामस्य चाकामं परापराजयादात्मपरजयाद्यद्दःखमुत्पद्यते / तत्र विघातदुःखं यद्गृहिणाञ्च पुत्रदाराद्यपचयाद् यदुत्पद्यते / प्रव्रजितानाञ्च रागादिक्लेशोपचयाद् यद् दुःखमुत्पद्यते / यच्च दुखं दुर्भिक्षोपघाताद्वा परचक्रोपधाताद्वा ऽटवीदुर्गप्रवेशसम्बाध संकटोपघाताद्वा उत्पद्यते / यच्च दुःखं परायत्तवृत्ततया उत्पद्यते / यच्च दुःखंमङ्गप्रत्यङ्गवैकल्योपघाताद् वोत्पद्यते / यच्च दुःखं वधबन्धनच्छेदनताडनप्रवासनाद्युपद्यातादुत्पद्यते / तत्रानुषङ्गिकं दुःखं यदष्टासु लोकधर्मेषु दुःखं नशन धर्मके नष्टे क्षयधर्मके क्षीणे जराधर्मके जीर्णे व्याधिधर्मके व्याधिते मरणधर्मके मृते ऽलाभतो वा पुनरयशस्तो वा निन्दातो वा यद्दःखम् / इत्येतदष्टविधं दुःखं प्रार्यनादुःखञ्च / इदमुच्यते आनुषङ्गिकं दुःखम् / तत्र सर्वाकारं दुःखं (dutt 169) यत्पञ्चाकारं यथोद्दिष्टसुखविपक्षेण दुःखं हेतुदुःखं वेदयितदुःखं सुखाभावमात्रदुःखं वेदितयानुपच्छेददुःखं नैष्क्रम्यप्रविवेकोपशमसंबोधिसुखविपक्षेण वागारिककामधातुसंयोगज-वितर्क-पृथग्जनदुःखं पञ्चमं वेदितव्यम् / इत्येतच्च पश्चविधं दुःखम् / औपक्रमिकमुपकरणवैकल्यजं धातुवैषम्यजं प्रियविपरिणामजं त्रैधातुकावचरक्लेशपक्ष्यदोष्ठुल्यदुःखञ्च पञ्चमम् / इत्येतत् पञ्चविधं पूर्वकं चैकध्यमभिसंक्षिप्य दशविधं दुखं सर्वाकारमित्युच्यते /

इति पूर्वकञ्च [पञ्चपञ्चाशदाकारमिदञ्च] पञ्चपञ्चाशदाकारमैकध्यमभिसंक्षिप्य दशोत्तरशताकारं दुःखं भवति बोधिसत्त्वः करुणाया आलम्बनं येनालम्बनेन बोधिसत्त्वानां करुणोत्पद्यते विवर्धते भावनापरिपूरिं गच्छति /

अतश्च महतो दुःखस्कन्धादेकान्नविंशतिप्रकारदुःखालम्बना महाकरुणा प्रवर्तते / एकान्नविंशतिप्रकारं दुःखं कतमत् / सम्मोहविपाकं दुःखं संस्कारदुःखतासंगृहीतं दुःखमात्यन्तिकं दुःखं हेतुदुःखं जातिदुःखं स्वयंकृतौपक्रमिकं दुःखं शीलविपत्तिदुःखं दृष्टिविपत्तिदुःखं पूर्वहेतुकं दुःखं महद्दुःखं नारकं दुःखं सुगतिसंगृहीतं दुःखं सर्वविप्रतिपत्तिजं दुःखं सर्वप्रवृत्तिदुःखमज्ञानदुःखमौपचयिकं दुःखमानुषङ्गिकं दुःखं वेदयितदुःखं दौष्ठुल्यदुःखञ्चेति /

तत्र चतुर्भिः कारणैः करुणा महाकरुणेत्युच्यते गम्भीरं सूक्ष्मं दुर्विज्ञेयं सत्त्वानां दुःखमालम्व्योत्पन्ना भवति / दीर्घकालपरिचिता च भवत्यनेक कल्पशतसहस्राभ्यस्ता / तीव्रेण चाभोगेनालम्बने प्रवृत्ता भवति यद्रूपेणाभोगेनायं करुणाविष्टो बोधिसत्त्वः सत्त्वानां दुःखापनयनहेतोः स्वजीवितशतान्यपि परित्यजेत् प्रागेवैकं जीवितं प्रागेव च कायपरिष्कारम् / सर्वदुःखयातनाप्रकारांश्चोद्वहेत् / सुविशुद्धा च भवति तद्यथा निष्ठागतानाश्च बोधिसत्त्वानां बोधिसत्त्वभूमिविशुद्ध्या तथागतानाञ्च तथागतभूमिविशुद्ध्या /

अनेन खलु दशोत्तरेणाकारशतेन ये बोधिसत्त्वः करुणां भावयन्ति सत्त्वेषु ते सर्वां बोधिसत्त्वकरुणां भावयन्ति / ते पुनः क्षिप्रमेव करुणाशयशुद्धिमधिगच्छन्ति शुद्धाशयभूमिप्रविष्टाम् / सत्त्वेषु चात्यर्थं स्निग्धचित्ताश्च भवन्ति प्रेमचित्ताश्च कर्तुकामचित्ताश्चाखिन्नचित्ताश्च दुःखोद्बहनचित्ताश्च कर्मण्यवश्यचित्ताश्च / न च तथा दुःखसत्यमभिसमितवत आर्यश्रावकस्य निष्ठागतस्य दूरीभूता (dutt 170) निर्वित्-सहगता चित्तसंततिः प्रवर्तते यथा बोधिसत्त्वस्युर सत्त्वेषु करुणापूर्वङ्गमेन चित्तेन दशोत्तराकारशतपतितमेतं महान्तं दुःखस्कन्धं संपश्यतः / न च बोधिसत्त्व एवं करुणापरिभावितमानसः किञ्चिदाध्यात्मिकबाह्यं वस्तु यन्न परित्यजेत् / नास्ति तच्छीलसंवरसमादानं यन्न कुर्यात् / नास्ति स परापकारः कश्चिद्यन्न क्षमेत् / नास्ति स वीर्यारम्भो यन्नारभेत / नास्ति तद्ध्यानं यन्न समापद्येत / नास्ति सा प्रज्ञा यां नानुप्रविशेत् / तस्मात्तथागताः पृष्टाः सन्तः-कुत्र प्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति-सम्यक् व्याकुर्वाणा व्याकुर्वन्ति करुणाप्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति /

तत्रैकैकमत्र यथानिर्दिष्टमप्रमाण[मप्रमाणया] समृद्ध्या समृद्धिं बोधिसत्त्वस्य प्रवर्तते / अप्रमाणेष्ठफलपरिग्राहकमप्रमाणैश्चाकारैरेकान्तकुशलैरनवद्यैः प्रवर्तते / एवमप्रमाणभावनानुयुक्तस्य बोधिसत्त्वस्य चत्वारो ऽनुशंसा वेदितव्याः / सास्याप्रमाणभावना आदित एव परमदृष्टधर्मसुखविहाराय भवति / अप्रमाणपुण्यसंभारपरिग्रहोपचयाय भवति / अनुत्तरायां सम्यक्संबोधावाशयदृढत्वाय भवति / सत्त्वानां चार्थे संसारे सर्वदुःखोद्वहनाय भवति /

इति बोधिसत्त्वभूमावाधारे योगस्थाने षोडशमं पूजासेवाप्रमाणपटलम् /

बोधिपक्ष्यपटलम् (छप्तेर् 1.17)

उद्दानम् /

ह्रीधृत्यखेदता चैव शास्त्र-लोकज्ञता तथा / सम्यक् स्यात्प्रतिसरणं तथैव प्रतिसंविदः //

संभारो बोधिपक्ष्याश्च शमथश्च विपश्यना / उपायकुशलत्वञ्च धारणी प्रणिधानता / समाधयस्त्रयो ज्ञेया धर्मोद्दानचतुष्टयमिति //

तत्र कतमद् बोधिसत्त्वानां ह्रीव्यपत्राप्यम् / तत् समासतो द्विविधं वेदितव्यम् / स्वभावतश्चाधिष्ठानतश्च /

अवद्यसमुदाचारे आत्मन एवाप्रतिरूपतां विदित्वा बोधिसत्त्वस्य लज्जा ह्रीः / तत्रैव परेषां भयगौरवाल्लज्जा व्यपत्राप्यम् / सा पुनर्ल्लज्जा बोधिसत्त्वस्य प्रकृत्यैव तीव्रा भवति प्रागेवाभ्यस्ता / एवं स्वभावतो बोधिसत्त्वस्य ह्रीव्यपत्राभ्यं वेदितव्यम् /

अधिष्ठानं पुनः समासतश्चतुर्विधम् / बोधिसत्त्वकरणीयस्याननुष्ठाने या लज्जा / इदं प्रथममधिष्ठानम् / तथा बोधिसत्त्वाकरणीयस्यानुष्ठाने या लज्जा / इदं द्वितीयमधिष्ठानम् / तथा बोधिसत्त्वस्यात्मनः प्रतिच्छन्नपापतायां या लज्जा / इदं तृतीयमधिष्ठानम् / तथा बोधिसत्त्वस्य कौकृत्ये समुत्पन्ने सप्रतिसरणे आनुषङ्गिके या लज्जा / इदं चतुर्थमधिष्ठानम् / एवमधिष्ठानतो वेदितव्यम् /

तत्र कतमा बोधिसत्त्वस्य धृतिबलाधानता / सापि द्विविधा द्रष्टव्या / स्वभावतश्चाधिष्ठानतश्च /

क्लिष्टचित्तसन्नियच्छनता क्लेशवशा[न]नुयायिता दुःखाधिवासनशीलता विचित्रप्रभूतोद्रिक्तैरपि भयभैरवैरामुखैः सम्यक् प्रयोगाविकम्पनता प्रकृतिसत्त्वयोगात् प्रतिसंख्यानाद्वा धीरता / इतीयं धृतिबलाधानता स्वभावतो वेदितव्या /

अस्याः खलु बोधिसत्त्वानां धृतिबलाधानतायाः समासतः पञ्चविधमधिष्ठानं वेदितव्यम् / विचित्रः संसारदुःखोपनिपातो विचित्रा विनेयकृता विप्रतिपत्तिः / दीर्घकालिकः सत्त्वानामर्थे संसाराभ्युपगमः / परवादिभिराकलनानुयोगो महत्याञ्च परिषदि धर्मदेशना / सर्वबोधि [सत्त्व-]शिक्षा[पदा]भ्युपगमः / उदारगंभीरधर्मश्रवणञ्च पञ्चममधिष्ठानं वेदितव्यम् /

तत्र पञ्चभिः कारणैरपरिखिन्नमानसता बोधिसत्त्वानां सर्वसम्यक् प्रयोगेषु वेदितव्या / इह बोधिसत्त्वः प्रकृत्या बलवान् भवति येन न परिखिद्यते / पुनः सैवाखिन्नमानसता ऽनेन पुनः पुनरभ्यस्ता भवति येन न परिखिद्यते / पुनरुपायपरिगृहीतेनवीर्यांरम्भेण प्रयुक्तो भवति येन पौर्वापर्येण विशेषं समनुपश्यन् न परिखिद्यते / तीव्रेण च प्रज्ञाप्रतिसंख्यानबलेन समन्वागतो भवति येन न परिखिद्यते / तीव्रञ्चास्य बोधिसत्त्वस्य सत्त्वेषु कारुण्यचित्तमनुकम्पाचित्तं सततसमितं प्रत्युपस्थितं भवति येन न परिखिद्यते /

तत्र कतमा बोधिसत्त्वस्य शास्त्रज्ञया / इह बोधिसत्त्वेन पञ्चविधास्थानान्यारभ्य नामकाय-पदकाय-व्यञ्जनकाय-प्रतिसंयुक्तो धर्मः परतः सुगृहीतो भवति / वचसा च सुपरिचितः / तस्यैव च धर्मस्यार्थः परतो वा सुश्रुतो भवति / स्वयं वा सुविचि[न्ति]तो भवति स्वभ्यूहितः / एवमपि च धर्मज्ञेनार्थज्ञेन बोधिसत्त्वेन तस्यैव च धर्मस्यार्थस्याविस्मरणाय प्रयोगो ऽनिराकृतो भवत्यन्यस्य चाभिनवस्याभिनवस्योत्तरोत्तरस्य धर्मार्थविशेषस्य ज्ञानाय / श्रुतचिन्तानिष्ठागतेनापि चानेन कालान्तरकृतः परिपाकः प्रसादः तस्मिन्धर्मे चार्थे च प्रतिलब्धो भवति / एभिराकारैर्बोधिसत्त्वस्याप्रमाणा परिपूर्णा अविपरीता च शास्त्रज्ञता वेदितव्या /

तत्र कतमा बोधिसत्त्वस्य लोकज्ञता / इह बोधिसत्त्वः सत्त्वलोकमारभ्यैवं यथाभूतं प्रजानाति-कृच्छ्रं वतायं लोक आपन्नो यदुत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवतेप्युपपद्यतेप्यथ च पुनरमी सत्त्वा जरामरणस्योत्तरि निःसरणं यथाभूतं [न] प्रजानन्तीति / पुनः सत्त्वलोकस्यैव कषायोत्सदकालताञ्च यथाभूतं (dutt 173) प्रजानाति / निष्कषायानुत्सदकषायकालताञ्च यदुत पञ्चकषायानारभ्य आयुष्कषायं [सत्त्वकषायं] क्लेशकषायं कल्पकषायम् / तद्यथा एतर्ह्यल्पं जीवितं मनुष्याणां यश्चिरं जीवति स वर्षशतम् / तद्यथैतर्हि सत्त्वा यद्भूयसा [अ]मातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या न कुलज्येष्ठापचायका नार्थकरा न कृत्यकरा न इह लोके न परलोके अवद्ये भयदर्शिनो न दानानि ददति न पुण्यानि कुर्वन्ति नोपवासमुपवसन्ति न शीलं समादाय वर्तन्ते / तद्यथैतर्हि यद्भूयसा ऽधर्मरागाश्च विषमलोभाश्च शस्त्रादानदण्डादानकलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादमिथ्याधर्मसंगृहीता अनेकविधाः पापका अकुशला धर्माः प्रज्ञायन्ते / तद्यथैतर्हि सद्धर्मप्रलोपाय सद्धर्मान्तर्धानाय सद्धर्मप्रतिरूपकाणि प्रभूतानि प्रादुर्भूतानि मिथ्याधर्मार्थ-सन्तीरणापूर्विकाणि / तद्यथा एतर्हि दुर्भिक्षान्तरकल्पसमासन्नानि प्रचुराणि दुर्भिक्षाण्युपलभ्यन्ते / रोगान्तरकल्पसमासन्नाश्च रोगाश्च प्रचुरा उपलभ्यन्ते /

शस्त्रान्तरकल्पसमासन्नाश्च प्रचुराः शस्त्रकाः प्राणातिपाता उपलभ्यन्ते / न तु तथा पूर्वमासीत् / एवं हि बोधिसत्त्वः सत्त्वलोकमारभ्य लोकज्ञो भवति / पुनर्बोधिसत्त्वो भाजनलोकस्य संवर्तविवर्तं यथाभूतं प्रजानाति यथा भाजनलोकः संवर्तते विवर्तते च / पुनर्बोधिसत्त्वो लोकञ्च [लोक]समुदयञ्च लोकनिरोधञ्च लोकसमुदयगामिनीञ्च प्रतिपदं लोकनिरोधगामिनीञ्च प्रतिपदं लोकस्यास्वादमादीनवञ्च निःसरणञ्च यथाभूतं प्रजानाति / पुनर्बोधिसत्त्वः चक्षुर्यावन्मनः अरूपिणश्च स्कन्धांश्चातुर्महाभौतिकञ्च पुरुषस्य समुच्छ्रयमेतावन्मनुष्यत्वमित्युच्यते / तत्र या संज्ञा आत्मा वा सत्त्वो वेति संज्ञामात्रमेवैतत् / तत्र या प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामि यावन्मनसा धर्मान विजानामीति प्रतिज्ञामात्रमेव तत् / तत्र यो व्यवहार इत्यपि स आयुष्मानेवंनामा एवंजातीय एवंगोत्र एवमाहार एवं सुखदुःखप्रतिसंवेदी एवं दीर्यायुरेवं चिरस्थितिक एवमायुष्पर्यन्त इति व्यवहारमात्रमेवैतदिति सर्वं यथाभूतं प्रजानाति / इति हि स बोधिसत्त्वः सत्त्वलोकप्रवृत्तिञ्च भाजनलोकप्रवृत्तिञ्च अष्टाकारलोकोपपरीक्षार्थञ्च [लोकपरमार्थं च] यथाभूतं प्रजानाति / तस्माल्लोकज्ञैत्युच्यते / पुनर्बोधिसत्त्वो वृद्धतरकं गुणप्रतिविशिष्टतरकं दृष्ट्वा सम्यक् संभाषयत्युत्थायासनेनोपनिमन्त्रयति (dutt 174) अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म प्रवर्तयति / तुल्यं वा पुनर्वयसा गुणैश्च दृष्ट्वा सम्यगालपति प्रतिसमोदयति श्लक्ष्णैर्मधुरैर्वचनपथैः / न चानेन सह मानमाश्रित्यात्मान परितुलयति /

हीनं वा पुनर्वयसा गुणैश्च दृष्ट्वा शक्त्या गुणाधानमारभ्य प्रोत्साहयति / भूतञ्चास्य गुणं स्वल्पमप्युद्भावयति / भूतञ्च दोषं प्रतिच्छादयति / न विवृणोति येनास्य स्यान्मंकुभावः / न चैनमवमन्यते / नाप्यर्थिकं केनचिद्धर्मामिषेण तं ज्ञात्वा विमुखो भवति भृकुटीकृतः / नापि चैनं स्खलिते ऽवहसति / नापि विनिपतितं परिभवति / तथा सर्वेषामेव हीनतुल्यविशिष्टानां सत्त्वानां पूर्वाभिभाषी च भवति / एहि स्वागतवादी सम्यक् प्रतिशामकश्च सम्यग्धर्मामिषाभ्यां यथाशक्त्या संग्राहकश्च / नापि च सत्त्वेषु कुटिलगाम्भीर्योपेतो भवति न गर्वितः केनचिदेवोच्छ्रयविशेषेण / यथोपात्तं सत्त्वं सर्वोपकरणैरपि नाध्युपेक्षते ग्लानं वा स्वस्थं वा आनुलोमिकेन च कायवाक्कर्मणा / यथा संस्तुतं तथैवासंस्तुतं सर्वं मित्रसखा च भवति विगतप्रत्यर्थिकः / सर्वेषाञ्चानाथानामप्रतिसरणानां सत्त्वानां यथाशक्त्या यथाबलं चार्थक्रियां करोति / न च केनचित् पर्यायेण परेषां दुःखदौर्मनस्यमुपसंहरति कच्चिदेषां मुहूर्तमप्यस्पर्शविहारो भवत्विति / एतमेव प्रत्ययं कृत्वा परिहसन्नपि परैः सह युक्तपरिहासो भवति नायुक्तपरिहासः / असत्यवचनानि च न कथयत्यपि निरत्ययैः परमविश्रम्भोपगतैर्वयस्यकैः / न च चिरं परेषां क्रुध्यति / क्रोद्धो ऽपि च परेषां न मर्माणि कीर्तयति / परैश्च कायेन वाचा वाहतः सन् प्रतिसंख्याय धर्मतां वा प्रतिसरति आत्मानमेव वा ऽपराधिकं पश्यति / स्थिरचित्तश्च भवत्यचलः / स्थिरकायवाङ्मनःप्रचारश्चतुर्दशमलकर्मापगतश्च भवति /

षड्दिग्भागप्रतिच्छन्नः चतुःपापमित्रपरिवर्जितः / चतुःकल्याणमित्रपरिगृहीतः / एतच्च यथासूत्रमेव सर्वं वेदितव्यम् / दृष्टधर्महितार्थं वा भोगप्रतिसंयुक्तमारभ्य उत्थानसंपन्नो भवत्यारक्षासंपन्नः समजीवी / च लौकिकेषु च शिल्पकर्मस्थानेषु कौशल्यप्राप्तः / अशठश्च भवत्यमायावी न परवञ्चनशीलः / ह्रीमांश्च भवत्यवद्यसमुदाचारिषु / चारित्रसम्पन्नश्च (dutt 175) भवति तद्गुरूकश्चारित्ररक्षकः / निक्षिप्तस्य विश्वासेन परद्रविणस्य न द्रोग्धा भवति / उपात्तस्य परत ऋणस्य न विसंवादयिता भवति / दायादस्य च न परिवञ्चयिता भवति / रत्नं वा रत्नसम्मतमुपादाय यावत् कार्षापणे ऽपि सम्मूढानां न विप्रलम्भयिता भवति विप्रलोभ्यैनाम् / तथा लौकिकीषु व्यवहारनीतिषु लौकानुग्रहकारिषु पटुर्भवति / तेषु च तेष्वर्थकरणीयेषु परैरायाचितः सन् सहायीभावं गच्छति न विकम्पते नान्येनान्यं प्रतिसरति / सुसंप्रयुक्त-कर्मान्तश्च भवति न कुप्रयुक्त-कर्मान्तः / राज्यं वा पुनः कारयन् धर्मेण कारयति नाघर्मेण / न च दण्डरुचिर्भवति / दौःशील्याच्च महाजनकायं व्यावर्तयित्वा शीलेसु समादापयति / तथार्यैरष्टाभिर्व्यवहारैः समन्वागतो भवति / दृष्टे दृष्टवादितया श्रुते मते विज्ञाते विज्ञातवादितया अदृष्टे ऽदृष्टवादितया अश्रुते ऽमते ऽविज्ञाते अविज्ञातवादितया इत्येभिरेवं भागीयैर्धर्मैः समन्वागतो बोधिसत्त्वो यथा लोके विज्ञातव्यो यथा लोके वर्तितव्यं तत्सर्वं यथाभूतं प्रजानाति तस्माल्लोकज्ञ इत्युच्यते /

तत्र कथं बोधिसत्त्वश्चतुर्षु प्रतिसरणेषु प्रयुज्यते / इह बोधिसत्त्वः अर्थार्थी परतो धर्मं श्रुणोति न व्यञ्जनाभिसंस्कारार्थी / सो ऽर्थार्थी धर्मं शुण्वन् न व्यञ्जनार्थी प्राकृतयापि वाचा धर्मं देशयमानमर्थप्रतिसरणो बोधिसत्त्वः सत्कृत्य शृणोति / पुनर्बोधिसत्त्वः कालापदेशञ्च [महापदेशञ्च] यथाभूतं प्रजानाति / प्रजानन् युक्तिप्रतिशरणो भवति न स्थविरेणाभिज्ञातेन वा पुद्गलेन तथागतेन वा [संघेन वा] इमे धर्मा भाषिता इति पुद्गलप्रतिसरणो भवति / स एवं युक्तिप्रतिसरणो न पुद्गलप्रतिसरणस्तत्त्वार्थात् न विचलति / अ-परप्रत्ययश्च भवति धर्मेषु पुनर्बोधिसत्त्वस्तथागते विविष्टश्रद्धो निविष्टप्रसाद एकान्तिको वचस्यभिप्रसन्नस्तथागत-नीतार्थं सूत्रं प्रतिसरति न नेयार्थम् / नीतार्थं सूत्रं प्रतिसरन् असंहार्यो भवत्यस्माद्धर्मविनयात् / तथाहि नेयार्थस्य सूत्रस्य नानामुखप्रकृतार्थविभागो ऽनिश्चितः संदेहकरो भवति / सचेत्पुनर्बोधिसत्त्वो नीतार्थे ऽपि सूत्रे ऽनैकान्तिकः स्यादेवमसौ संहार्यः स्यादस्माद्धर्मविनयात् / पुनर्बोधिसत्त्वो ऽधिगमज्ञाने सारदर्शी भवति न श्रुतचिन्ताधर्मार्थविज्ञानमात्रके / स यद्भावनामयेन ज्ञानेन ज्ञातव्यं न तच्छक्यं श्रुतचिन्ताविज्ञानमात्रकेण विज्ञातुमिति (dutt 176) विदित्वा परमगम्भीरानपि तथागतभाषितान्धर्मान् श्रुत्वा न प्रतिक्षिपति नापवदति / एवं हि बोधिसत्त्वश्चतुर्षुप्रतिसरणेषु प्रयुज्यते / एवञ्च पुनः सुप्रयुक्तो भवति / तत्रैषु चतुर्षु प्रतिसरणेषु समासतश्चतुर्णां प्रामाण्यं संप्रकाशितम् / भाषितस्यार्थस्य युक्तेः शास्तुः भावनामयस्य चाधिगमज्ञानस्य / सर्वैश्च [पुनश्च]तुर्भिः प्रतिसरणैः सम्यक्प्रयोगसमारम्भगतस्य बोधिसत्त्वस्याविभ्रान्तनिर्याणमभिद्योतितं भवति /

तत्र कतमा बोधिसत्त्वस्य चतस्रो बोधिसत्त्वप्रतिसंविदः / यत्सर्वधर्माणां सर्वपर्यायेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् / इयमेषां धर्मप्रतिसंवित् / यत्पुनः सर्वधर्माणामेव सर्वलक्षणेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् / इयमेषामर्थप्रतिसंवित् / यत्पुनः सर्वधर्माणामेव सर्वनिर्वचनेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् / इयमेषां निरुक्तिप्रतिसंवित् / यत्पुनः सर्वधर्माणामेव सर्वप्रकारपदप्रभेदेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम् / इयमेषां प्रतिभानप्रतिसंवत् / एताश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्यो ऽप्रमेयं बोधिसत्त्वानां पञ्चस्थानकौशल्यं वेदितव्यम् / स्कन्धकौशल्यं धात्वायतनप्रतीत्यसमुत्पादस्थानास्थानकौशल्यञ्च / एभिश्चतुर्भिराकारैः / सर्वधर्मा बोधिसत्त्वेन स्वयञ्च स्वभिसंबुद्धा भवन्ति / परेषाञ्च सुप्रकाशिताः / अत उत्तरि स्वयमभिसंबोधो नास्ति कुतः पुनः परेषां प्रकाशना /

तत्र कतमो बोधिसत्त्वस्य बोधिसंभारः / स द्विविधो द्रष्टव्यः / पुण्यसंभारो ज्ञानसंभारश्च / तस्य पुनर्द्विविधस्यापि संभारस्य विस्तरविभागो वेदितव्यः / तद्यथा स्वपरार्थपटले / स पुनः पुण्यज्ञानसंभारो बोधिसत्त्वस्य प्रथमे कल्पासंख्येये मृदुर्वेदितव्यो द्वितीये मध्यस्तृतीये ऽधिमात्रो वेदितव्यः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.