Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिसत्त्वभूमि

Thông tin
GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवञ्च पुनः शीलसंवरसमादानकर्मपरिसमाप्त्यनन्तरं धर्मता खल्वेषा यद्वा दशसु दिक्ष्वनन्तापर्न्यतेषु लोकधातुषु तथागतानां महाभूमिप्रविष्टानाञ्च बोधिसत्त्वानाञ्च तिष्ठतां ध्रियतां तद्रूपं निमित्तं प्रदुर्भावति / येन तेषामेवं भवति / बोधिसत्त्वेन बोधिसत्त्वशीलसंवरसमादानं समाप्तमिति / तेषाञ्चानन्तरं समन्वाहरस्तस्य बोधिसत्त्वस्यान्तिके भवति / समन्वाहरताञ्च ज्ञानदर्शनं प्रवर्तते / ते तेन ज्ञानदर्शनेन यथाभूतमेवं प्रतिसंवेदयन्ति / यथा एवंनान्मा बोधिसत्त्वेन अमुष्मिन् लोकधातावेवंनाम्नो बोधिसत्त्वस्यान्तिकात् सम्यग्बोधिसत्त्वशील संबरसमादानं गृहीतमिति / ते चास्य सर्वे पुत्रस्यैव भ्रातुरिवकल्याणैर्मनोभिः प्रत्यनुकम्पन्ते / एवं कल्याणमनःप्रत्यनुकम्पितस्य [तस्य] बोधिसत्त्वस्य (dutt 107) भूयस्या मात्रया वृद्धिः प्रतिकांक्षितव्या कुशलानां धर्माणां न हानिः / प्रतिगृहीतञ्च तच्छीलसंवरसमादानारोचनं तैर्वेदितव्यम् / परिसमाप्तौ च तस्मिन् बोधिसत्त्वशीलसंवरसमादानकर्मण्युभाभ्यां ताभ्यां बोधिसत्त्वाभ्यां दशसु दिक्षु तेषामनन्तापर्यन्तलोकधातुगतानां बुद्धबोधिसत्त्वानां सामीचीं कृत्वा पादयोर्निपत्योत्थातव्यम् / इदं तस्य बोधिसत्त्वस्य शीलसंवरसमादानं सर्वशील-संवरसमादानप्रतिविशिष्टं भवति निरुत्तरमप्रमेयपुण्यस्कन्धसमन्वागतं परमकल्याणचित्ताशयसमुत्थापितं सर्वसत्त्वेषु सर्वाकारदुश्चरितप्रतिपक्षभूतम् /

यस्य शीलसंवरसमादानस्य सर्वप्रातिमोक्षसंवरसमादानानि शततमीमपि कलां नोपयन्ति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि नोपयन्ति यदुत पुण्यपरिग्रहमुपादाय / तेन पुनर्बोधिसत्त्वेनैवं बोधिसत्त्वशीलसंवरसमादानव्यवस्थितेन स्वयं चाभ्युह्याभ्युह्येदं बोधिसत्त्वस्य प्रतिरूपं कर्तुम् इदमप्रतिरूपं कर्तुमिति तथैव तत ऊर्ध्वं कर्मणा संपादयितव्यं शिक्षा करणीया / बोधिसत्त्वसूत्रपिटकाद्वा यत्नतः श्रुत्वा ऽस्माबोधिसत्त्वसूत्रपिटकमातृकानिबन्धात् श्रुत्वा तथैव शिक्षा करणीया / न च पुनः सर्वेषां बोधिसत्त्वानामन्तिकाद्विज्ञानामप्येतच्छीलसंवरसमादानमादातव्यम् / बोधिसत्त्वेन नाश्राद्धस्यान्तिकात् प्रग्रहीतव्यम् / यस्तत्प्रथमत एतदेवंविधं शीलसंवरसमादानं नाधिमुच्येत नावतरेन्नावकल्पयेन्नलुब्धस्य न लोभाभिभूतस्य महेच्छस्यासन्तुष्टस्य न शीलविपन्नस्य शिक्षास्वनादरकारिणः शैथिलिकस्य न क्रोधनस्योपनाहिनः अक्षान्तिबहुलस्य परतो व्यतिक्रमासहिष्णोः नालसस्य कुसीदस्य यद्भूयसा रात्रिन्दिवं निद्रासुखं पार्श्वसुखं शयनसुखञ्च स्वीकुर्वतः सङ्गणिकया चातिनामयतः / न विक्षिप्तचित्तस्यान्ततो गोदोहनमात्रमपि कुशलचित्तैकाग्रताभावना ऽसमर्थस्य / न मन्दस्य न मोमुहजातीयस्यात्यर्थं संलीनचित्तस्य बोधिसत्त्वसूत्रपिटकं बोधिसत्त्वपिटकमातृकामपवदमानस्य / न च पुनरेतत् संवरसमादानविधानं बोधिसत्त्वेनोद्गृह्य पर्यवाप्यापि बोधिसत्त्वपिटक प्रतिहतानामश्राद्धानां सत्त्वानां सहसैवारोचयितव्य प्रवेदयितव्यम् / तत्कस्य हेतोः /

तथाहि श्रुत्वा ऽ[न]धिमुच्यमाना महताज्ञानावरणेनावृता (dutt 108) अपवदेरन् / यश्चैनमपवदते स यावदप्रमाणेन पुण्यस्कन्धेन समन्वागतः संवरस्थायी बोधिसत्त्वो भवति तावदप्रमाणेनैव सो ऽपुण्यस्कन्धेनानुषक्तो भवति यावत्तां पापिकां वाचं पापिकां दृष्टिं पापकान् सकल्पान् सर्वेण सर्व नोत्सृजति /

शीलसंवरसमादानञ्च कर्तुकामस्य बोधिसत्त्वस्य पुरतो ऽस्यां बोधिसत्त्वसूत्रपिटकमातृकायां यानि बोधिसत्त्वस्य शिक्षापदान्यापत्तिस्थानानि चाख्यातानि तान्यनुश्रावयितव्यानि / च चेदाशयतो विचारयित्वा प्रज्ञया प्रतिसंख्यायोत्सहते / न परसमादापनिकया नापि परस्पर्धया [स]धीरो बोधिसत्त्वो वेदितव्यः / तेन च प्रतिगृहीतव्यं तस्य च दातव्यमेतेन विधिना एतच्छीलसंवरसमादानम् /

एवञ्च शीलसंवरव्यवस्थितस्य बोधिसत्त्वस्य चत्वारः पाराजयिकस्थानीयधर्मा भवन्ति / कतमे चत्वारः / लाभसत्काराध्यवसितस्यात्मोत्कर्षणा परपंसना बोधिसत्त्वस्य पाराजायिकस्थानीयो धर्मः / सत्सु संविद्यमानेषु भोगेषु लोभप्रकृतित्वात् दुःखितेषु कृपणेष्वनाथेष्वप्रतिशरणेष्वसम्यगयाचकेषु प्रत्युपस्थितेषु नैर्वृण्यादामिषाविसर्गः धर्ममात्सर्याच्चार्थिनां सम्यक्प्रत्युपस्थितानां धर्माणामसंविभागक्रिया बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः / यदपि बोधिसत्त्वस्तद्रूपं क्रोधपर्यवस्थानमनुवृंहयति येन ततो न वाक्पारुष्यनिश्चारणमात्रकेण निवर्तते / क्रोधाभिभूतः पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण सत्त्वांस्ताडयति विहिंसयति विहेठयति / क्रोधाशयमेव च तीव्रमन्तराकृत्वा परेषामन्तिकाद्व्यतिक्रमसज्ञप्ति न प्रतिगृहणाति न क्षमते नाशयं विमुञ्चति / अयमपि बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः / बोधिसत्त्वपिटकापवादः सद्धर्मप्रतिरूपकाणाञ्च रोचना दीपना व्यवस्थापना / स्वयं वा सद्धर्मप्रतिरूपकाधिमुक्तस्य परेषां चा ऽनुवृत्त्या बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः / इतीमे चत्वारः पाराजयिकस्थानीया धर्माः / येषां बोधिसत्त्वो ऽन्यतमान्यतमं धर्ममध्यापद्य प्रागेव सर्वानभव्यो भवति दृष्टे धर्मे विपुलस्य बोधिसत्त्वसंभारस्योपचयाय परिग्रहाय / अभव्यो भवति च दृष्टे (dutt 109) धर्मे आशयविशुद्धेः / [स] बोधिसत्त्वप्रतिरूपकश्च भवति / नो तु भूतो बोधिसत्त्वः /

मृदुमध्यपर्यवस्थान[त]श्च बोधिसत्त्वः एभिश्चतुर्भिः पाराजयिकस्थानीयधर्मसमुदाचाराद्बोधिसत्त्वशीलसंवरसमादानं [न] विजहाति / अधिमात्रपर्यवस्थानतस्तु विजहाति / यतश्च बोधिसत्त्वः एषां चतुर्णां पाराजयिकस्थानीयानां धर्माणामभीक्ष्ण-समुदाचारात् परीत्तमपि ह्रीब्यपत्राप्यं नोत्पादयति / तेन च प्रीयते / तेन च रमते / तत्रैव गुणदर्शी भवति / इयमधिमात्रता पर्यवस्थानस्य वेदितव्या / न तु बोधिसत्त्वः सकृदेव पाराजयिकस्थानीयधर्मसमुदाचारात् बोधिसत्त्वशीलसंवरसमादानं विजहाति / तद्यथा पाराजयिर्कैधर्मैर्भिक्षुःप्रातिमोक्षसंवरम् / परित्यक्तसमादानो ऽपि च बोधिसत्त्वो दृष्टे धर्मे भव्यः पुनरादानाय बोधिसत्त्वशीलसंवरसमादानस्य भवति नाभव्य एव तद्यथा पाराजयिकाध्यापन्नः प्रातिमोक्षसंवरस्थो भिक्षुः / समासतश्च द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वशीलसंवरसमादानस्य त्यागो भवति / अनुत्तरायां सम्यक्संबोधौ प्रणिधानपरित्यागतश्च पाराजयिकस्थानीयधर्माधिमात्रपर्यवस्थानसमुचारतश्च / न च परिवृत्तजन्मापि बोधिसत्त्वः बोधिसत्त्वशीलसंवरसमादानं विजहाति / अध उर्ध्वं तिर्यक्सर्वत्रोपपद्यमानो येन बोधिसत्त्वेन प्रणिधानं न त्यक्तं भवति / नापि च पाराजयिकस्थानीयानां धर्माणामधिमात्रं पर्यवस्थानं समुदाचरितं भवति / मुषितस्मृतिस्तु परिवृत्तजन्मा बोधिसत्त्वः कल्याणमित्रसम्पर्कमागम्य स्मृत्युद्बोधनार्थं पुनः पुनरादानं करोति / न त्वभिनवसमादानम् /

एवं बोधिसत्त्वशीलसंवरस्थितस्य बोधिसत्त्वस्यापत्तिरपि वेदितव्या / अनापत्तिरपि क्लिष्टाप्यक्लिष्टापि मृद्वी मध्या ऽधिमात्रा अपि / एवं बोधिसत्त्वशीलसंवरस्थितो बोधिसत्त्वः प्रतिदिवसं तथागतस्य वा तथागतमुद्दिश्य चैत्ये धर्मस्य वा धर्ममुद्दिश्य पुस्तकगते ऽपि बोधिसत्त्वसूत्रपिटके (dutt 110) [बोधिसत्त्वसूत्रपिटक]मातृकायां वा संघस्य वा यो ऽसौ दशसु दिक्षु महाभूमिप्रविष्टानां बोधिसत्त्वानां संघः किञ्चिदेवाल्पं वा प्रभूतं वा पूजाधिकारिकमकृत्वा ऽन्तत एकप्रणाममपि कायेन अन्ततो गुणानारभ्य बुद्धधर्मसंघानामेकचतुष्पदाया अपि गाथायाः प्रव्याहारं वाचा अन्तत एकप्रसादमपि बुद्धधर्मसंघगुणानुस्मरणपूर्वकञ्चेतसा रात्रिंदिवमतिनामयति सापत्तिको भवति सातिसारः / स चेदगौरवादालस्यकौसीद्यादापद्यते क्लिष्टामापत्तिमापन्नो भवति / स चेत् स्मृतिसंप्रमोषादापद्यते अक्लिष्टामापत्तिमापन्नो भवति / अनापत्तिः क्षिप्तचेतसः / अनापत्तिः शुद्धाशयभूमिप्रविष्टस्य / तथाहि शुद्धाशयो बोधिसत्त्वः तद्यथा अवेत्यप्रसादलाभी भिक्षर्नित्यकालमेव धर्मतया शास्तारं परिचरति परमया च पूजया पूजयति धर्मसंघञ्च /

बोधिसत्त्वो महेच्छतामसन्तुष्टिं लाभसत्कारगर्धमुत्पन्नमधिवासयति सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य वीर्यमारभत स्तत्प्रतिपक्षपरिग्रहेण तत्प्रतिबन्धावस्थितस्य प्रकृत्या तीव्रक्लेशतयाभिभूय पुनः पुनः समुदाचाराणात् /

बोधिसत्त्वो वृद्धतरकं गुणवन्तं सत्कारार्हं सहधार्मिकं दृष्ट्वा मानाभिनिग्रहीतः आघातचित्तः प्रतिघचित्तो वा उत्थायासनं नानुप्रयच्छति / परैश्चालप्यमानः प्रतिसम्मोद्यमानः परिपृष्टश्च न युक्तरूपेण वाक् प्रत्युदाहारेण प्रत्युपतिष्ठते मानाभिनिगृहीत एव आघातचित्तः प्रतिघचित्तो वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / नो चेन्मानाभिनिगृहीतो नाघातचित्तः प्रतिघचित्तो वा अपि त्वालस्यकौसीद्यादव्याकृतचित्तो वा स्मृतिसंप्रमोषाद् [वा] सापत्तिक एव भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते / अनापत्तिर्वाढग्लानः स्यात् क्षिप्तचित्तो वा / अनापत्तिः [सुप्तः] स्यादयञ्च प्रतिविबुद्धसंज्ञी उपश्लिष्येद् आलपेत् संलपेत् प्रतिसम्मोदयेत् परिपृच्छेत् / अनापत्तिः परेषां धर्मदेशनायां प्रयुक्तस्य सांकथ्यविनिश्चये वा / अनापत्तिस्तदन्येषां प्रतिसंमोदयतः / अनापत्तिः परेषां धर्मं देशयतामवहितश्रोत्रस्य शृण्वतः सांकथ्यंविनिश्चयं वा / अनापत्तिर्धर्मसंकथाविरसतां धार्मकथिकचित्तञ्चानुरक्षतः / (dutt 111) अनापत्तिस्तेनोपायेन तेषां सत्त्वानां दमयतो विनयतः अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थानेप्रतिष्ठापयतः / [अनापत्तिः] सांधिकक्रियाकारमनुरक्षतः अनापत्तिः परेषां प्रभूततराणां चित्तमनुरक्षतः /

बोधिसत्त्वः परैरुपनिमन्त्र्यमाणो गृहे वा विहारान्तरे वा गृहान्तरे वा भोजनपानवस्त्रादिभिः परिष्कारैः मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो वा न गच्छति / न निमन्त्रणां स्वीकरोति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न गच्छति अक्लिष्टामापत्तिमापद्यते / अनापत्तिर्ग्लानः स्यादप्रतिबलः क्षिप्तचित्तो व / अनापत्तिर्विप्रकृष्टो देशः स्यात् मार्गश्च सप्रतिभयः / अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्यात् विनेतुकामो ऽकुशलात्स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः / अनापत्तिरन्यस्य पूर्वतरं प्रतिज्ञानं भवेत् / अनापत्तिर्निरन्तरकुशलपक्ष-[प्रयुक्तस्य कुशलपक्ष-]च्छिद्रीकारानुरक्षार्थमगच्छतः अनापत्तिरपूर्वस्यार्थोपसंहितस्य धर्मार्थश्रवणस्य परिहाणिहेतोः / यथा धर्मार्थश्रवणस्य एवं सांकथ्यविनिश्चयस्यापि वेदितव्यम् / अनापत्तिर्विहेठनाभिप्रायेण निमन्त्रितः स्यात् / अनापत्तिः परेषां प्रभूततरकाणामाघतचित्तमनुरक्षतः / अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः /

बोधिसत्त्वः परेषामन्तिकाजजातरूपजतमणिमुक्तावैदूर्यादिकानि च धनजातानि विचित्राणि प्रभूतानि प्रवराणि लभमानो ऽनुदध्यमानः आघातचित्तः प्रतिघचित्तो न प्रतिगृह्णाति प्रतिक्षिपति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते सत्त्वोपेक्षया / आलस्यकौसीद्यान्न प्रतिगृह्णाति / सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते / अनापत्तिः क्षिप्तचित्तस्य / अनापत्तिस्तस्मिन् प्रतिग्रहे रतिं चेतसः पश्यतः / [अनापत्तिर्विप्रतिसारमस्य पश्चात् संभावयवः /] अनापत्तिर्दानविभ्रमस्य संभावयतः / अनापत्तिर्विनिर्मुक्ताग्रहस्य दानपतेर्दारिद्रयं विघातं तन्निदानं संभावयतः / अनापत्तिः सांधिकं स्तौपिकं संभावयतः / अनापत्तिः पराहृतमनेन संभावयतः यतो निदानमस्योत्पद्येत वधो वा बन्धो वा दण्डो वा ज्या-निर्गर्हणा वा /

बोधिसत्त्वः परेषां धर्मार्थिनामाघातचित्तः प्रतिघचित्तः ईर्ष्याविप्रकृतो वा धर्मं नानुप्रयच्छति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न ददाति सापत्तिको भवति सातिसारो न क्लिष्टामापत्तिमापद्यते / अनापत्तिस्तीर्थिकः स्यात् रन्ध्रप्रेक्षी / अनापत्तिर्बाढग्लानः स्यात् क्षिप्तचित्तो वा / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः / अनापत्तिर्धर्मे न प्रवृत्तः स्यात् / अनापत्तिर्यद्यगौरवो ऽप्रतीशो दुरीर्यापथः प्रतिगृह्णीयात् / अनापत्तिर्मृद्विन्द्रियस्योदारया धर्मदेशनया धर्मपर्याप्त्या उत्त्रासं मिथ्यादर्शनं मिथ्याभिनिवेशं क्षतिञ्चोपहतिञ्च संभावयेत् / अनापत्तिस्तद्धस्तगतस्य परेभ्यः अभाजनभूतेभ्यो विसारं धर्मस्य संभावयेत् /

बोधिसत्त्वो रौद्रेषु दुःशीलेषु च सत्त्वेष्वाघातचित्तः प्रतिघचित्तः उपेक्षते विचेष्टते वा रौद्रतां दुःशीलतामेव च प्रत्ययं कृत्वा / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यादुपेक्षते स्मृतिसंप्रमोषाच्च विचेष्टते / सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते / तत्कस्य हेतोः / न हि बोधिसत्त्वस्य शीलवतः शान्तेः कायवाङ्मनस्कर्मप्रचारे तथानुकम्पाचित्तञ्च कर्तुकामता च प्रत्युपस्थिता भवति यथा रौद्रेषु दुःशीलेषु सत्त्वेषु दुःखहेतौ वर्तमानेषु / अनापत्तिः क्षिप्तचित्तस्य / अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्याद्विस्तरेण पूर्ववत् / अनापत्तिः परेषां प्रभूतानाञ्चित्तानुरक्षिणः / अनापत्तिः संघक्रियाकारानुरक्षिणः /

बोधिसत्त्वो यद्भगवता प्रातिमोक्षे विनये प्रतिक्षेपण-सावद्यं व्यवस्थापितं परचित्तानुरक्षामुपादायाप्रसन्नानां सत्त्वानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय / तत्र तुल्यां श्रावकैः शिक्षां करोति निर्निराकरणम् / तत्कस्य हेतोः / श्रावकास्तावदात्मार्थपरमाः / ते तावन्न परनिरनुरक्षा अप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय शिक्षासु शिक्षन्ते / प्रागेव बोधिसत्त्वाः परार्थपरमाः /

यत्पुनः प्रतिक्षेपणसावद्यमल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां भगवता व्यवस्थापितां तत्र बोधिसत्त्वो न तुल्यां शिक्षां श्रावकैः करोति / तत्कस्य हेतोः / शोभते श्रावकः स्वार्थपरमः परार्थनिरपेक्षः परार्थमारभ्याल्पार्थः अल्पकृत्यश्चाल्पोत्सुकविहारी च / न तु बोधिसत्त्वः परार्थपरमः शोभते परार्थमारभ्याल्पार्थो ऽल्पकृत्यश्चाल्पोत्सुकविहारी च तथाहि बोधिसत्त्वेन परेषामर्थे चीवरशतानि सहस्त्राण्यज्ञातिकानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषितव्यानि प्रवारितेन / तेषां च सत्त्वानां बलाबलं संलक्ष्य यावदर्थ प्रतिगृहीतव्यानि / यथा चीवरकाण्येवं पात्राणि / यथा पर्येषितव्यान्येवं स्वयं याचितेन सूत्रेणाज्ञातिभिस्तन्तुवायैर्वार्ययितव्यानि / परेषाञ्चार्थाय कौशेयसंस्तरणशतानि निषदनसंस्तरणशतान्यूपस्थापयितव्यानि / जातरूपरजतशतसहस्रकोढ्यग्राण्यपि स्वीकर्तव्यानि / एवमादिके ऽल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां प्रतिक्षेपणसावद्येन समानशिक्षो भवति / बोधिसत्त्वो बोधिसत्त्वशीलसंवरस्थः सत्त्वार्थमारभ्य आघातचित्तः प्रतिघचित्तः अल्पार्थो भवति अल्पकृत्यः अल्पोत्सुकविहारी / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यादल्पार्थो भवत्यल्पकृत्यः अल्पोत्सुकविहारी / सापत्तिको भवति सातिसारो ऽक्लिष्टामापत्तिमापद्यते /

अस्ति किञ्चित्प्रकृतिसावद्यमपि [यद्] बोधिसत्त्वस्तद्रूपेणोपायकौशल्येन समुदाचरति येनानापत्तिकश्च भवति बहु च पुण्यं प्रसूयते / यथापि तद्बोधिसत्त्वश्चौरं तस्करं प्रभूतानां प्राणिशतानां महात्मनां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां वधायोद्यतमामिषकिञ्चित्कहेतोः प्रभूतानन्तर्यकर्मक्रियाप्रयुक्तं पश्यति / दृष्ट्वा च पुनरेवं चेतसा चित्तमभिसंस्करोति / यद्यप्यहमेनं प्राणिनं जीविताद्व्यपरोप्य नरकेषूपपद्येयं कामं भवतु मे नरकोपपत्तिः / एष च सत्त्व आनन्तर्यकर्म कृत्वा मा भून्नरकपरायण इति / एवमाशयो बोधिसत्त्वस्तं प्राणिनं कुशलचित्तो ऽव्याकृतचित्तो वा विदित्वा ऋतीयमानः (dutt 114) अनुकम्पाचित्तमेवायत्यामुपादाय जीविताद्व्यपरोपयति / अनापत्तिको भवति बहु च पुण्यं प्रसूयते /

यथापि तद् बोधिसत्त्वो ये सत्त्वा राजानो वा भवन्ति राजमहामात्रा वा अधिमात्ररौद्राः सत्त्वेषु निर्दया एकान्तपरपीडाप्रवृत्ताः / तां सत्यां शक्तौ तस्माद्राज्यैश्वर्याधिपत्याच्च्यावयति यत्र स्थितास्ते तन्निदानं बह्वपुण्यं प्रसवन्ति अनुकम्पाचित्तो हितसुखाशयः /

ये च परद्रव्यापहारिणश्चौरास्तस्कराः सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं हृत्वा स्वीकृत्योपभोक्तुकामास्तेषामन्तिकात्तद् द्रव्यं बोधिसत्त्व आच्छिनत्ति / मा हैव तेषां स द्रव्यपरिभोगो दीर्घरात्रमनर्थायाहिताय भविष्यति इति / एवमेव प्रत्ययं कृत्वा आच्छिद्य साधिकं संधे निर्यातयति स्तैपिकं स्तूपे / ये च वैयावृत्यकरा वा आरामिका वा सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं विप्रतिपादयन्त्यनयेन / स्वयं [च] पौद्गलिकं परिभुञ्जते / तान् बोधिसत्त्वः प्रतिसंख्याय मा हैव तत्कर्म / स च मिथ्यापरिभोगस्तेषां भविष्यति दीर्घरात्रमनर्तायाहितायैति / तस्मादाधिपत्याच्च्यावयति / तदनेन पर्यायेण बोधिसत्त्वः अदत्तमाददानो ऽप्यनापत्तिको भवति / बहु च पुण्यं प्रसूयते /

यथापि तद्गृही बोधिसत्त्वः अब्रह्मचर्येषणार्तं तत्प्रतिबद्धचित्तमपरपरिगृहीतं मातृग्रामं मैथुनेन धर्मेण निषेवते / मा हैवाघातचित्ततां प्रतिलभ्य बह्वपुण्यं प्रसोष्यति / यथेप्सितकुशलमूलसन्नियोगे च वश्या भविष्यत्यकुशल[मूल]परित्यागे चेत्यनुकम्पाचित्तमेवोपस्थाप्य अब्रह्मचर्यं मैथुनं [धर्मं] प्रतिषेवमानो ऽप्यनापत्तिको भवति / बहु च पुण्यं प्रसूयते / प्रव्रजितस्य पुनर्बोधिसत्त्वस्य श्रावकशासनभेदमनुरक्षमाणस्य सर्वथा न कल्पते ऽब्रह्मचर्यनिषेवणम् /

यथापि तद् बोधिसत्त्वो बहूनां सत्त्वानां जीवित-विप्रमोक्षार्थं बन्धनविप्रमोक्षार्थं हस्तपादनासाकर्णच्छेद-चक्षुर्विकलीभाव-परित्राणार्थं यां बोधिसत्त्व (dutt 115) स्वजीवितहेतोरपि सम्प्रजानन् मृषावाचं न भाषेत / तां तेषां सत्त्वानामर्थाय प्रतिसंख्याय भाषते / इति समासतो येन येन बोधिसत्त्वः सत्त्वानामर्थमेव पश्यति / नानर्थं पश्यति / स्वयं च निरामिषचित्तो भवति / केवल-सत्त्वहितकामतानिदानं च विनिधाय संज्ञां सम्प्रजानन् अन्यथा-वाचं भाषते / भाषमाणः अनापत्तिको भवति / बहु च पुण्यं प्रसूयते /

यथापि तद् बोधिसत्त्वो ये सत्त्वा अकल्याणमित्र परिगृहीता भवन्ति तेषां तेभ्यः अकल्याणमित्रेभ्यो यथाशक्ति यथाबलं ब्यग्रकरणीं वाचं भाषते / व्यग्रारामश्च भवति तेन प्रीयमाणः / अनुकम्पाचित्तमेवोपादाय मा भूदेषां सत्त्वानां पापमित्रसंसर्गो दीर्घरात्रमनर्थायाहितायेति / अनेन पर्यायेण मित्रभेदमपि कुर्वन् बोधिसत्त्वो ऽनापत्तिको भवति / बहु च पुण्यं प्रसूयते /

यथापि तद् बोधिसत्त्वः उत्पथचारिणो ऽन्यायचारिणः सत्त्वान् परुषया वाचा तीक्ष्णयावसादयति यावदेव तेनोपायेनाकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थम् / एवं पारूषिको बोधिसत्त्वो ऽनापत्तिको भवति / बहु च पुण्यं प्रसूयते /

यथापि तद् बोधिसत्त्वो नृत्तगीतवादिताधिमुक्तानां सत्त्वानां राजचौरान्नपान-वेश्या-वीथी-कथाद्यधिमुक्तानां च सत्त्वानां नृत्तगीतवादितेन विचित्राभिश्च सम्भिन्नप्रलाप-प्रतिसंयुक्ताभिः संकथाभिरनुकम्पाशयेन तोषयित्वावर्ज्य वश्यतां विधेयतां चोपनीयाकुशलात् स्थानाद् व्युत्थाप्य कृशले स्थाने प्रतिष्ठापयति / एवं सम्भिन्नप्रलापी अपि बोधिसत्त्वो ऽनापत्तिको भवति / बहु च पुण्यं प्रसूयते /

बोधिसत्त्वः उत्पन्नां कुहनां लपनां नैमित्तिकतां नैष्पेषिकतां लाभेन लाभं निश्चिकीर्षुतां मिथ्याजीवकरां धर्मानधिवासयति / न तै रितीयते / न विनोदयति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिस्तत्प्रतिविनोदनाय च्छन्दजातस्य यत्नमारभमाणस्य क्लेशप्रचुरतया चित्तमभिभूय समुदाचरणात् /

बोधिसत्त्वः औद्धत्याभिनिगृहीतेन चेतसा ऽव्युपशान्तः अव्ययुपशमारामः उच्चैः संञ्चग्धति संक्रीडते संकिलिकिलायते औद्धत्यं द्रवं प्राविष्करोति (dutt 116) परेषां हासयितुकामो रमयितुकामः / एवमेव च प्रत्ययं कृत्वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते स्मृतिसंप्रमोषादक्लिष्टामापत्तिमापद्यते / अनापत्तिस्तद्विनोदनाय च्छन्दजातस्य पूर्ववत् / अनापत्तिः परेषामुत्पन्नमाघातं तेनोपायेन प्रतिविनोदयितुकामः स्यात् / अनापत्तिः परेषामुत्पन्नं शोकमपहापयितुकामः स्यात् / अनापत्तिः परेषां तत्प्रकृतिकानांतदारामाणां संग्रहाय वा प्रणयानुसंरक्षणाय वा तदनुवर्तनार्थम् / अनापत्तिः परेषां बोधिसत्त्वे मन्युसम्भावनाजातानामाघातवैमुख्यसंभावनाजातानां सौमुख्यान्तर्भावशुद्ध्युपदर्शनार्थम् /

[यः] पुनर्बोधिसत्त्व एवंदृष्टिः स्यादेवंवादी न बोधिसत्त्वेन निर्वाणारामेण विहर्तव्यम् / अपि तु निर्वाणविमुखेन विहर्तव्यम् / न च क्लेशोपक्लेशेभ्यो भेतव्यम् न चैकान्तेन तेभ्यश्चित्तं विवेचयितव्यम् / तथा हि बोधिसत्त्वेन त्रीणि कल्पासंख्येयानि संसारे संसरता बोधिः समुदानेतव्येति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / तत्कस्य हेतोः / यथा खलु श्रावकेण निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चित्तमुद्वेजयितव्यं ततः शतसहस्रकोटिगुणेन बोधिसत्त्वेन निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चेतस उद्वेगो भावयितव्यः / तथा हि श्रावको ऽस्यात्मनो ऽर्थाय प्रयुक्तो बोधिसत्त्वः सर्वसत्त्वानामर्थाय प्रयुक्तः / तेन तथा चित्तासंक्लेशाभ्यासः समुदानेतव्यो यथायमनर्हन्नपि तत्प्रतिविशिष्टेनासंक्लेशेन समन्वागतः सास्त्रवे वस्तुनि अनुविचरेत् /

बोधिसत्त्वो ऽनादेयवचनकरमपशब्दमात्मनः अयशो ऽकीर्ति न रक्षति न परिहरति भूतवस्तुकाम् / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अभूतवस्तुकां न परिहरति / सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते / अनापत्तिस्तीर्थिकः परः स्यात् / इति यो वा पुनरन्यो ऽप्यभिनिविष्टः / अनापत्तिः प्रव्रज्या-भिक्षाचर्या-कुशलचर्या-निदानो ऽपशब्दो निश्चरेत् / अनापत्तिः क्रोधाभिभूतो विपर्यस्तचित्तो निश्चारयेत् /

बोधिसत्त्वो येन कटुकप्रयोगेण तीक्ष्णप्रयोगेण सत्त्वानामर्थं पश्यति तं प्रयोगं दौर्मनस्यारक्षया न समुदाचरति / सापत्तिको भवति [सातिसारः] (dutt 117) अक्लिष्टामापत्तिमापद्यते / अनापत्तिर्यत् परीत्तमर्थं दृष्टधार्मिकं पश्येत् प्रभूतश्च तन्निदानं दौर्मनस्यम् /

बोधिसत्त्वः परैराक्रुष्टः प्रत्याक्रोशति / रोषितः प्रतिरोषयति / ताडितः प्रतिताडयति / भण्डितः प्रतिभण्डयति / सापत्तिको भवति सातिसारं क्लिष्टामापत्तिभापद्यते /

बोधिसत्त्वः परेषां व्यतिक्रमं कृत्वा व्यतिक्रमेण वा सम्भावितः आघातचित्तो मानाभिनिगृहीतः संज्ञप्तिमनुरूपां नानुप्रयच्छत्युपेक्षते / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यात् प्रमादाद्वा न संज्ञप्तिमनुप्रयच्छति / सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात् स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः / अनापत्तिस्तीर्थिकः स्यात् / अनापत्तिरकल्पिकेन सावद्यसमुदाचारेण संज्ञप्तिप्रतिग्रहणमाकांक्षेत् / अनापत्तिः स चेत् प्रकृत्या कलहकारकः स्यादाधिकरणिकः / संज्ञप्यमानश्व भूयस्या मात्रया कुप्येत् अध्यारोहेत् / अनापत्तिः परं क्षमणशीलमना-घातशीलं च संभावयेत् परतो व्यतिक्रममारभ्य संज्ञप्तिलाभेनात्यर्थं रितीयमानम् /

बोधिसत्त्वः परेषां कस्मिंश्चिदधिकरणे निसृतानां धर्मेण समेन संज्ञप्तिमनुप्रयच्छतामाघातचित्तः परविहेठनाभिप्रायः संज्ञप्तिं न प्रतिगृह्णाति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / नो चेदाघातचितः अपि त्वक्षमणशीलतया न प्रतिगृह्णाति / क्लिष्टामापत्ति मापद्यते / अनापत्तिस्तेनोपायेन परं दमयितुकामः स्यात् पूर्ववत् सर्वं वेदितव्यम् / अनापत्तिरधर्मेणासमेन संज्ञप्तिमनुप्रयच्छेत् /

बोधिसत्त्वः परेषां क्रोधाशयं वहति धारयत्युत्पन्नमधिवासयति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत् /

बोधिसत्त्व उपस्थानपरिचर्यापरिगर्धमधिपतिं कृत्वा सामिषेण चित्तेन गणं परिकर्षति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिर्निरामिषचित्तस्योपस्थानपरिचर्यां स्वीकुर्वतः /

बोधिसत्त्व उत्पन्नमालस्यकौसीद्यं निद्रासुखं शयनसुखं पार्श्वसुखञ्चाकाले अमात्रया स्वीकरोति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्ति[र्वाढ]ग्लानः स्यादप्रतिबलः / अनापत्तिरध्वपरिश्रान्तस्य / अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववद्वेदितव्यम् /

बोधिसत्त्वः संरक्तचित्तः संगणिकया कालमतिनामयति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / मुषितया स्सृत्या ऽतिनामयति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिः पर उदाहरेत् / स च परानुवृत्त्या मुहूर्तमुपस्थितस्मृतिः शृणुयात् / अनापत्तिः कौतुकजातस्य परिप्रश्नमात्रे पृष्टस्य च प्रत्युदाहारमात्रे /

बोधिसत्त्वश्चित्तस्थितिमारभ्यं चितं समाधातुकाम आघातचित्तो मानभिनिगृहीतो नोपसंक्रम्याववादं याचते / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्याक्लिष्टमापत्तिमापद्यते / अनापत्तिग्लानः स्यादप्रतिबलः / अनापत्तिः विपरीतमववादं संभाषयेत् / अनापत्तिः स्वयं बहश्रुतः स्यात्प्रतिबलश्चित्तं समाधातुम् / कृतं चानेनाववादकरणीयं स्यात् /

बोधिसत्त्व उत्पन्नं कामच्छन्दनिवरणमधिवसयति न विनोदयति / सापत्तिको भवति सातिसारः क्लिष्टमापत्तिमापद्यते / अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य व्यायच्छत स्तीव्रक्लेशतया चित्तमभिभूय समुदाचरणात् / यथा कामच्छन्द एवं व्यापादः स्त्यानमिद्धमौद्धत्यं कौकृत्यं विचिकित्सा च वेदितव्या /

बोधिसत्त्वो ध्यानमास्वादयति / ध्यानास्वादे च गुणदर्शी भवति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमाद्ते / अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत् /

यः पुनर्बोधिसत्त्वः एवंदृष्टि स्यादेवंवादी न बोधिसत्त्वेन श्रावकयानप्रतिसंयुक्तो धर्मः श्रोतव्यो नोद्ग्रहीतव्यो न तत्र शिक्षा करणीया / किं बोधिसत्त्वस्य श्रावकप्रतिसंयुक्तेन धर्मेण श्रुतेनोद्गृहीतेन / किं तत्र शिक्षया प्रयोजनमिति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / तथा हि बोधिसत्त्वेन तीर्थिकशास्त्रेष्वपि तावद्योगः करणीयः प्रागेव बुद्धवचने / अनापत्तिः ऐकान्तिकस्य तत्परस्य विच्छन्दनार्थम् /

बोधिसत्त्वो बोधिसत्त्वपिटके सति बोधिसत्त्वपिटके अकृतयोग्यः सर्वेण सर्वं बोधिसत्त्वपिटकमध्युपेक्ष्य श्रावकपिटके योग्यां करोति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / बोधिसत्त्वो बुद्धवचने सति बुद्धवचने अकृतयोग्यस्तीर्थिकशास्त्रेषु बहिःशास्त्रेषु योग्यां करोति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिरधिमात्रमेधसः आशूद्ग्रहण-समर्थस्य चिरेणाप्यविस्मरण-समर्थस्य अर्थचिन्तनाप्रतिवेधसमर्थस्य बुद्धवचने युक्त्युपपरीक्षासहगतया ऽविचलया बुद्ध्या समन्वागतस्य तद्द्विगुणेन प्रत्यहं बुद्धवचने योग्यां कुर्वतः /

एवमपि च बोधिसत्त्वो विधिमनतिक्रम्य तीर्थिकशास्त्रेषु बहिःशास्त्रेषु कौशलं कुर्वन्नभिरतरूपस्तत्र करौति तेन च रमते न तु कटुभैषज्यमिव निषेवमाणःकरोति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते /

बोधिसत्त्वो बोधिसत्त्वपिटके गम्भीराणि स्थानानि श्रुत्वा परमगंभीराणि तत्त्वार्थं वारभ्य बुद्धबोधिसत्त्वप्रभावं वा ऽनधिमुच्यमानो ऽपवदते / नैते अर्थोपसंहिता न धर्मोपसंहिता न तथागतभाषिता न हितसुखाय सत्त्वानामिति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / स्वेन वा ऽयोनिशोमनस्कारेण परानुवृत्या वा ऽपवदमानः /

भवति खलु बोधिसत्त्वस्य गम्भीराणि परमगंभीराणि स्थानानि श्रुत्वा चेतसो ऽनधिमोक्षः / तत्र श्राद्धेनाशठेन बोधिसत्त्वेनेदं प्रतिसंशिक्षितव्यम् / न मे प्रतिरूपं स्यादन्धस्याचक्षुष्मतस्तथागतचक्षुषैवानुव्यवहरतस्तथागतसन्धाय भाषितं प्रतिक्षेप्तुम् / इति [एवं] स बोधिसत्त्व आत्मानञ्चाज्ञं व्यवस्थापयति (dutt 120) तथागतमेव च तेषु बुद्धधर्मेष्वपरोक्षतायां समनुपश्यति / एवं सम्यक् प्रतिपन्नो भवति / अनापत्तिरनधिमुच्यमानस्याप्रतिक्षिपतः /

बोधिसत्त्वः सामिषचित्तः प्रतिघचित्तः परेषामन्तिके आत्मानमुत्कर्षयति परान् पंसयति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / अनापत्तिस्तीर्थिकानभिभवितुकामस्य शासनस्थितिकामस्य / अनापत्तिस्तेनोपायेन तमेव पुद्गलं दमयितुकामस्य विस्तरेण पूर्ववत् / अनापत्तिरप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय /

बोधिसत्त्वो धर्मश्रवण-धर्मसांकथ्यविनिश्चयं वा मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो नोपसंक्रामति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्नोपसंक्रामति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिरप्रतिसंवेदयतः / अनापत्तिर्ग्लानः स्यादप्रतिबलः अनापत्तिर्विपरीतां देशनां संभावयेत् / अनापत्तिर्धार्मकथिकचितत्तानुरक्षिणः अनापत्तिः पुनः पुनः [अनु]श्रुतामवधृतां विज्ञातार्थां कथां संजानतः / अनापत्तिर्बहुश्रुतः स्याच्छ्रुताधारः श्रुतसन्निचयः / अनापत्तिर्निरन्तरमालम्ब नचित्तस्थितेः बोधिसत्त्वसमाध्यभिनिर्हाराभियुक्तस्य / अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्गृह्णतः धन्धं धारयतः धन्धमालम्बने चित्तं समादधतः /

बोधिसत्त्वो धर्मभाणकं पुद्गलं संचिन्त्यावमानयत्यसत्करोत्यवहसत्यवस्पण्ङ्यति व्यञ्जनप्रतिसरणश्च भवति नार्थप्रतिसरणः / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते /

संवरस्थो बोधिसत्त्वः सत्त्वकुत्येष्वाघातचित्तः प्रतिघचित्तः सहायीभावं न गच्छति यच्च तत्कुत्यसमर्थे वा अध्वगमनागमने वा सम्यक्कर्मान्त प्रयोगे वा भोगरक्षणे वा भिन्नप्रतिसन्धाने वा उत्सवे वा पुण्यक्रियायां वा / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न (dutt 121) सहायीभावं गच्छति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिर्ग्लानः स्यादप्रतिबलः / अनापत्तिः स्वयं कर्तुमसमर्थः स्यात् सप्रतिसरणश्च याचकः / अनापत्तिरनर्थोपसंहितमधर्मोपसंहितं कृत्यं स्यात् / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत् / अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्यात् / अनापत्तिरन्यमध्येषतः प्रतिबलम् / अनापत्तिः कुशलपक्षे नैरन्तर्येण सम्यक् प्रयुक्तः स्यात् / अनापत्तिः प्रकृत्या धन्धः स्थाद्धन्धमुद्दिशेत्पूर्ववत् / अनापत्तिर्बहुतरकाणामन्येषाञ्चित्तमनुरक्षितुकामस्य / अनापत्तिः सांधिकं क्रियाकारमनुरक्षितुकामस्य /

बोधिसत्त्वो ग्लानं व्याधितं सत्त्वमासाद्य नोपस्थानपरिचर्यां करोति आघातचित्तः प्रतिघचित्तः / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न करोति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिः स्वयमेव ग्लानः स्यादप्रतिबलः / अनापत्तिः परं प्रतिबलमध्येषतो ऽनुकूलम् / अनापत्तिर्ग्लानः सनाथः स्यात्सप्रतिसरणः / अनापत्तिर्याप्येन दीर्घरोगेण स्पृष्टः स्यात् / अनापत्तिरूदारनिरन्तरकुशलपक्षाभियुक्तस्य कुशलपक्षच्छिद्रानुरक्षणार्थम् / अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्दिशतो धन्धं धारयतो धन्धमालम्बने चित्तं समादधतः / अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्याद् / यथा ग्लानस्योपस्थानम् / एवं दुःखितस्य दुःखापनयाय साहाय्यं वेदितव्यम् /

बोधिसत्त्वो दृष्टधार्मिके सांपरायिके चार्थे अनयप्रयुक्तान् [सत्त्वान्] दृष्ट्वा आघातचित्तः प्रतिघचित्तो न्यायं नयं न व्यपदिशति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न व्यपदिशति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिः स्वयमज्ञः स्यादप्रतिबलः / अनापत्तिः परं प्रतिबलमध्येषेत / अनापत्तिः स एव स्वयं प्रतिबलः स्यात् / अनापत्तिरन्येन कल्याणमित्रेण परिगृहीतः स्यात् / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत् / अनापत्तिर्यस्य न्यायोपदेशः करणीयः स आघातचित्तःस्याद्दुर्वचो विपरीतग्राही विगतप्रेमगौरवः खटुङ्कजातीयः /

बोधिसत्त्व उपकारिणां सत्त्वानामकृतज्ञो भवत्यकृतवेदी आघातचित्तो न प्रत्युपकारेणानुरूपेण प्रत्युपतिष्ठते / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न प्रत्युपतिष्ठते / अक्लिष्टामापत्तिमापद्यते / अनापत्तिर्यत्नवतः अशक्तस्याप्रतिबलस्य / अनापत्तिस्तेनोपायेन दमयितुकामः स्यात् पूर्ववत् / अनापत्तिः स एव न संप्रतीच्छेत्प्रत्युपकारम् /

बोधिसत्त्वो ज्ञातिभोगव्यसनस्थानां सत्त्वानामाघातचित्तः उत्पन्नंशोकं न विनोदयति / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यान्न प्रतिविनोदयति / अक्लिष्टामापत्तिमापद्यते / पूर्ववदनापत्तिर्वेदितव्या तद्यथा कृत्येष्वसहायीभावमारभ्य /

बोधिसत्त्वो भोजनपानादिन्युपकरणजातानि भोजनपानादिकार्थिभ्यः सम्यग्याचितो न प्रयच्छत्याघातचित्तः प्रतिघचित्तः / सापत्तिको भवति सातिसारः क्लिष्टामात्तिमापद्यते / आलस्यकौसीद्यात्प्रमादान्नानुप्रयच्छति / अक्लिष्टामापत्तिमापद्यते / अनापत्तिरसत्स्वसंविद्यमानेषु भोगेषु / अनापत्तिरकल्पिकमपथ्यं वस्तु याचितः / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् / अनापत्ती राजापथ्यमनुरक्षतः अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः /

बोधिसत्त्वः परिषदमुपस्थाप्य न कालेन कालं सभ्यगववदति सम्यक्समनुशास्ति / न च तेषामर्थविघातिनां श्राद्धानां ब्राह्मणगृहपतीनामन्तिकाद्धर्मेण चीवरपिण्डपातशयनासन[ग्लान]प्रत्ययमैषज्यपरिष्कारान् पर्येषते आघातचित्तः / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / [आलस्यकौसीद्यात् प्रमादाद्वा नाववदति न समनुशास्ति न पर्येषते अक्लिष्टामापत्तिमापद्यते /] अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् / अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः / अनापत्तिर्ग्लानः स्यात् अप्रयोगक्षमः / अनापत्तिरन्यं प्रतिबलमध्येषते / अनापत्तिः परिषज्जातमहापुण्या स्यात् / स्वयं प्रतिबलो वा चीवरादीनां पर्येषणाय / कृतं चैषा स्यात् अववादानुशासन्याम् अववादानुशासनीकरणीयम् / अनापत्तिस्तीर्थिकपूर्वी धर्मस्तेयेन प्रविष्टः स्यात् / स च स्यादभव्यरुपो विनयाय /

बोधिसत्त्वः आघातचित्तः परेषां चित्तं नानुवर्तते / सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यात् प्रमादान्नानुवर्तंते अक्लिष्टामापत्तिमापद्यते / अनापत्तिः परेषां यदभिप्रेतं तदपथ्यं स्यात् / अनापत्तिर्ग्लानः स्यादप्रयोगक्षमः / अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः / अनापत्तिस्तस्याभिप्रेतं पथ्यञ्च स्यात् परेषां प्रभूततरकाणामनभिप्रेतमपथ्यञ्च स्यात् / अनापत्तिस्तीर्थिको निर्ग्राह्यः स्यात् / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् /

बोधिसत्त्वः आघातचित्तः परेषां भूतान् गुणान् नोद्भावयति भूतं वर्णं न भाषते सुभाषिते साधुकारं न ददाति / सापत्तिको भवति सातिसारः / क्लिष्टामापत्तिमापद्यते / आलस्यात् कौसीद्यात् प्रमादाद्वा न भाषते अक्लिष्टामापत्तिमापद्यते / अनापत्तिः प्रकृत्या ऽल्पेच्छतां संभावयतस्तदनुरक्षयैव / अनापत्तिर्ग्लानः स्यादप्रतिबलः / अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत् / अनापत्तिः सांघिकं क्रियाकारमनुरक्षतः / अनापत्तिस्ततो निदानं संक्लेशं मदमुन्नतिमनर्थाय संभावयतः तस्य च परिहारार्थम् / अनापत्तिर्गुणंप्रतिरूपका गुणाः स्युर्न भूताः / सुभाषितप्रतिरूपकञ्च सुभाषितं स्यान्न भूतम् / अनापत्तिस्तीर्थिकः स्यान्निर्ग्राह्यः / अनापत्तिः कथापर्यवसानकालमागमयतः /

बोधिसत्त्वो ऽवसादनार्हान् सत्त्वान् दण्डकर्मार्हान् [प्रवासनार्हान्] क्लिष्टचित्तो नावसादयति / अवसादयति वा न च दण्डकर्मणा समनुशास्ति / समनुशास्ति वा न प्रवासयति / सापत्तिको भवति सातिसारः / क्लिष्टामापत्तिमापद्यते / आलस्यकौसीद्यात् प्रमादाद्वा नावसादायति यावन्न प्रवासयति अक्लिष्टामात्तिमापद्यते / अनापत्तिरसाध्यरूपमकथ्यं दुर्वचसमाघातबहुलमध्युपेक्षतः / अनापत्तिः कालापेक्षिणः / अनापत्तिस्ततो निदानं कलहभण्डनविग्रहविवादप्रेक्षिणः / अनापत्तिः संवरणविभेदप्रेक्षिणः / अनापत्तिस्ते सत्त्वा अशठा भवेयुस्त्रीव्रेण ह्रीव्यपत्राप्येन समन्वागता लघु लघ्वेव प्रत्यापद्येरन् /

बोधिसत्त्वो विचित्रर्द्धिविकुर्वितप्रभावसमन्वागतः उत्त्रासनार्हाणां सत्त्वानामुत्त्रासनाय आवर्जनार्हाणाञ्च सत्त्वानामावर्जनाय श्रद्धादेयपरिहाराय [ऋद्ध्या] (dutt 124) नोत्त्रासयति नावर्जयति / सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते / अनापत्तिर्यत्र सत्त्वा यद्भूयसा प्रतिनिविष्टा भवेयुस्तीर्थिका आर्यापवादिकया मिथ्यादृष्ट् समन्वागताः / सर्वत्र चानापत्तिरधिकचित्तक्षेपतो दुःखवेदनाभिन्न स्यासमात्तसंवरस्य वेदितव्या /

इतीमान्युत्पन्नवस्तुकानि बोधिसत्त्वानां शिक्षापदानि तेषु तेषु सूत्रान्तेषु व्यग्राणि भगवता आख्यातानि संवरशीलं कुशलसंग्राहकं शीलं सत्त्वार्थक्रियाशीलञ्चारभ्य / तान्यस्यां बोधिसत्त्वपिटकमातृकायां समग्राण्याख्यातानि येषु बोधिसत्त्वेनारदजातेन परमगौरवमुपस्थाप्य शिक्षा करणीया / परतः संवरसमादनं कृत्वा सुविशुद्धेन शिक्षितुकामाशयेन बोध्याशयेन सत्त्वार्थाशयेन आदित एव चाव्यतिक्रमायादरजातेन भवितव्यम् / व्यतिक्रान्तेन च यथाधर्मप्रतिकरणतया प्रत्यापत्तिः करणीया / सर्वा चेयमापत्तिर्बोधिसत्त्वस्य दुष्कृत्यतः संगृहीता वेदितव्या / यस्य कस्यचिच्छ्रावकयानीयस्य वा महायानीयस्य वा ऽन्तिके देशयितव्या यस्तां वाग्विज्ञप्तिं प्रतिबलः स्यादवबोद्धं प्रतिग्रहीतुम् / स चेद्बोधिसत्त्वः पाराजयिकस्थानीयं धर्ममध्यापन्नो भवत्यधिमात्रेण पर्यवस्थानेन तेन त्यक्तः संवरः / द्विरपि पुनरादातव्यः / स चेन्मध्येन पर्यवस्थानेनापन्नो भवति तेन त्रयाणां पुद्गलानामन्तिके ततो वा उत्तरि दुष्कृता देशयितव्या / पूर्व वस्तु परिकीर्तयित्वा परतो निषद्येदं स्याद्वचनीयम् / समन्वाहरत्वायुप्मन्नहमेवंनामा बोधिसत्त्व-विनयातिसारिणीं यथा परिकीर्तिते वस्तुनि दृष्कृतामापत्तिमापन्नः / शिष्टं यथा भिक्षोर्दुष्कृतान् देशयतस्तथैव वक्तव्यम् / पाराजयिकस्थानीयस्य च धर्मस्य मृदुना पर्यवस्थानेन तदन्यासाञ्चापत्तीनामेकस्यैव पुरतो देशना वेदितव्या / असति चानुकूले पुद्गले यस्य पुरतो देश्येताशयतो बोधिसत्त्वेन पुनरनध्याचाराय चित्तमुत्पादयितव्यम् / आयत्याञ्च संवरः करणीयः / एवमसौ व्युत्थितो वक्तव्यस्तस्याः आपत्तेः /

एतदपि बोधिसत्त्वसंवरसमादानम् / यदि तैर्गुणैर्युंक्तः पुङ्गलो न सन्निहितःस्यात्ततो बोधिसत्त्वेन तथागतप्रतिमायाः पुरतः स्वयमेव बोधिसत्त्वशीलसंवरसमादानं करणीयम् / एवञ्च पुनः करणीयम् / एकांसमुत्तरासंगं कृत्वा (dutt 125) दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य पुरतो वा उत्कुटुकस्थितेन इदं स्याद्वचनीयम् / अहमेवंनामा दशसु दिक्षु सर्वास्तथागतान् महाभूमिप्रविष्टांश्च बोधिसत्त्वान् विज्ञापयामि / तेषाञ्च पुरतः सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वं बोधिसत्त्वशीलं समाददे संवरशीलं कुशलधर्मंसंग्राहकं सत्त्वार्थक्रियाशीलञ्च यत्रातीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते प्रत्युत्पन्ना दशसु दिक्षु सर्वबोधिसत्त्वा एतर्हि शिक्षन्ते / द्विरपि त्रिरप्येवं वक्तव्यम् / उक्त्वा उत्थातव्यम् / शिष्टं तु सर्वं पूर्ववद्वेदितव्यम् /

नास्ति च बोधिसत्त्वस्यापत्तिमार्गे निरवशेषा आपत्तिः / यदपि चोक्तं भगवता यद्भूयसा बोधिसत्त्वस्य द्वेषसमुत्थिता आपत्तिर्ज्ञातव्या न रागसमुत्थितेति तत्रायमभिप्रायो द्रष्टव्यः / बोधिसत्त्वः सत्त्वानुनयं सत्त्वप्रेमाधिपतिं कृत्वा यत्किञ्चिच्चेष्टते सर्वं तद्बोधिसत्त्वकृत्यम् / नाकृत्यं न च कृत्यं कुर्वतः आपत्तिर्युज्यते / सत्त्वेषु तु द्विष्टो बोधिसत्त्वो नात्मनो न परेषां हितमाचरति / न चैतद्बोधिसत्त्वकृत्यम् / एवमकृत्यं कुर्वतः आपत्तिर्युज्यते /

मृदुमध्याधिमात्रता च बोधिसत्त्वस्यापत्तीनां वेदितव्या / तद्यथा वस्तुसंग्रहण्याम् /

एवञ्च पुनः स्वविनये शिक्षाप्रयुक्तो बोधिसत्त्वस्तिसृभिः संपत्तिभिः समन्वागतः सुखं स्पर्शं विहरति प्रयोगसम्पत्त्या आशयसम्पत्त्या पूर्वहेतुसम्पत्त्या च /

तत्र प्रयोगसम्पत् कतमा / यथापि तद्बोधिसत्त्वः शीलेष्वखण्डचारी भवति परिशुद्धकायवाङ्मनःसमुदाचारो नाभीक्ष्णापत्तिको विवृतपापश्च भवति / इयमुच्यते प्रयोगसम्पत् /

आशयसम्पत् कतमा / धर्माभिप्रायः प्रव्रजितो भवति न जीविकाभिप्रायः / अर्थी भवति महाबोध्या नानर्थी / अर्थी श्रामण्येन निर्वाणेन नानर्थी / स एवमर्थी न कुसीदो विहरति [न] हीनवीर्यो [नावीर्यो] न व्यवकीर्ण पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैः / इतीयमुच्यते आशयसम्पत् /

पूर्वहेतुसंपत् कतमा / यथापि तद्बोधिसत्त्वः पूर्वमन्यासु जातिषु कृतपुण्यो भवति कृतकुशलमूलो येनैतर्हि स्वयञ्च न विहन्यते चोवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / अन्येषामपि प्रतिबलो भवति संविभागक्रियायैः / इतीयं बोधिसत्त्वस्य पूर्वहेतुसम्पद्वेदितव्या /

आभिस्तिसृभिः संपत्तिभिः समन्वागतो विनये शिक्षाप्रयुक्तो बोधिसत्त्वः सुखं स्पर्शं विहरति / एतद्विपर्ययात्तिसृभिर्विपत्तिभिः समन्वागतो दुःखं संस्पर्शं विहरतीति वेदितव्यम् /

इदं तावद्बोधिसत्त्वस्य समासव्यासतः सर्वशीलमित्युच्यते गृहिपक्षगतं प्रव्रजितपक्षगतञ्च / अस्यैव च सर्वशीलस्य प्रविभागस्तदन्यान्यपि दुष्करशीलादीनि वेदितव्यानि /

तत्र कतमद्बोधिसत्त्वस्य दुष्करशीलम् / तत् त्रिविधं द्रष्टव्यम् /

महाभोगस्य बोधिसत्त्वस्य महत्यैश्वर्याधिपत्ये वर्तमानस्य प्रहाय भोगान् प्रहाय महदैश्वर्याधिपत्यं शीलसंवरसमादानं बोधिसत्त्वस्य दुष्करशीलमित्युच्यते /

कृच्छ्रापन्नो ऽपि च बोधिसत्त्वः समात्तशीलः आप्राणैर्विपद्यमानस्तच्छीलसंवरसमादानं न छिद्रीकरोति / कुतः पुनर्विपादयिष्यति / इदं बोधिसत्त्वस्य द्वितीय दुष्करशीलमित्युच्यते /

तथा तथा बोधिसत्त्वः सर्वाचारविहारमनसिकारेषूपस्थितस्मृतिरप्रमत्तो भवति / यथा यावज्जीवेन [अपि] प्रतनुकामप्यापतिं नापद्यते न शीले च स्खलति कुतः पुनर्गुर्वीम् / इदं बोधिसत्त्वस्य तृतीयं दुष्करशीलमित्युच्यते /

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुख शीलम् / तच्चतुर्विधं द्रष्टव्यम् / समात्तं प्रकृतिशीलमभ्यस्तमुपाययुक्तञ्च /

तत्र समात्तं शीलं येन त्रिविधमपि बोधिसत्त्वशीलसंवरसमादानं कृतं भवति संवरशीलस्य कुशलसंग्राहक[शीलस्य] सत्त्वार्थक्रियाशीलस्य च /

तत्र प्रकृतिशीलं यद्गोत्रस्थस्यैव बोधिसत्त्वस्य प्रकृतिभद्रतयैव सन्तानस्य परिशुद्धं कायवाक्कर्म प्रवर्तते /

तत्राभ्यस्तं शीलं येन बोधिसत्त्वेन पूर्वमन्यासु जातिषु त्रिविधमपि यथानिर्दिष्टं शीलमभ्यस्तं भवति / स तेन पूर्वहेतुबलाधानेन [न] सर्वेण सर्वं पापसमचारेण रमते / पापादुद्विजते / कुशलसमाचारे रमते / कुशलसमाचारमेवाभिलषति /

तत्रेदमुपाययुक्तं शीलं यच्चत्वारि संग्रहवस्तूनि निश्रित्य बोधिसत्त्वस्य सत्त्वेषु कुशलं कायवक्कर्म प्रवर्तते /

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषशीलम् / तत्पञ्चविधं वेदितव्यम् / इह बोधिसत्त्वः स्वयञ्च शीलवान् भवति / परांश्च शीले समादापयति / शीलस्य / च वर्णं भाषते / सहधार्मिकञ्च दृष्ट्वा सुमना भवति / आपत्तिं चापन्नो यथाधर्म प्रतिकरोति /

तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं शीलम् / तत् षड्विधं सप्तविधं चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम् / महाबोधौ परिणमितम् / विस्तीर्णशिक्षापदपरिगृहीतत्त्वाद् विशदम् / कामसुखल्लिकात्मक्लमथान्तद्वयविवर्जितत्त्वादनवद्यप्रमोदस्थानीयम् / यावज्जीवेनापि शिक्षाप्रत्याख्यानात् सातत्यम् / सर्वलाभसत्कारपरप्रवादिक्लेशोपक्लेशैरनभिभवनीयत्वादहार्यत्वाद् दृढम् / शीलालङ्कारसंयुक्तं च / शीलालङ्कारो वेदितव्यस्तद्यथा श्रावकभूमौ प्राणातिपातादिविरत्या / निवृत्तिशीलम् / कुशलसंग्रहात् सत्त्वार्थकरणाच्च प्रवृत्तिशीलम् / प्रवृत्तिनिवृत्तिशीलानुरक्षणादारक्षकं शीलम् / महापुरुषलक्षणवैपाक्यं शीलम् / अधिचित्तवैपाक्यम् / इष्ट गतिवैपाक्यम् / सत्त्वार्थक्रिया वैपाक्यं चेति /

तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकशीलम् / तदष्टविधं वेदितव्यम् / इह बोधिसत्त्वः स्वयमेवैवमनुचिन्तयति / यथाहमर्थी [जीवितेन] न मे कश्चिज्जीवताद् व्यपरोपयेत् / अदत्तमादद्यात् कामेषु मिथ्याचरेत् मृषावाचं भाषेत पैशुन्यं पारुष्यं सभिन्नप्रलापं कुर्यात् पाणिलोष्टताडन संस्पर्शैश्चानिष्टैर्विहिंसासंस्पर्शैः समुदाचरेदिति / तस्य मे एवमर्थिनः स चेत् परे विपर्ययेण समुदाचरेयुः तेन मे स्याद्विधातस्तन्मे स्यादमनापम् / परो ऽप्यर्थिनो यथा ऽस्माकं परे न जीवितद्व्यपरोपयेयुर्विस्तरेण यावन्न विहिंसासस्पर्शै समुदाचरेयुरिति / (dutt 128) तेषामप्येवमर्थिनां स चेदहं विपर्ययेण समुदाचरेयं तेन ते स्युर्विघातिनस्तत्तेषां स्यादमनापम् / इति यन्मम परेषाञ्चामनापं सो ऽहं किं तेन परान् समुदाचरिष्यामि / इति प्रतिसंख्याय बोधिसत्त्वो जीवितहेतोरपि परानष्टविधेनामनापेन न समुदाचरति / इदं बोधिसत्त्वस्याष्टाकारं विघातार्थिकशीलमित्युच्यते /

तत्र कतमद्बोधिसत्त्वस्येहामुत्र सुखं शीलम् / तन्नवविधं द्रष्टव्यम् / इह बोधिसत्त्वः सत्त्वानां प्रतिशेद्धव्यानि स्थानानि प्रतिषेधयति / अभ्यनुज्ञेयानि स्थानान्यभ्यनुजानाति / संग्रहीतव्यान् सत्त्वान् संगृह्णाति / निगृहीतव्यान् सत्त्वान् निगृह्णाति / तत्र बोधिसत्त्व य यत्कायवाक्कर्मपरिशुद्धं प्रवर्तते / इदं तावच्चतुर्विधं शीलम् / पुनरन्यद्दानसहगतं शीलं क्षान्तिसहगतं [वीर्यसहगतं] ध्यानसहगतं प्रज्ञासहगतञ्च पञ्चविधम् / तदेतदैकध्यमभिसंक्षिप्य नवाकारं शीलं भवति / तस्य च बोधिसत्त्वस्य परेषाञ्च दृष्टधर्मसंपरायसुखाय संवर्तते / तस्मादिहामुत्र सुखमित्युच्यते /

तत्र विशुद्धं शीलं बोधिसत्त्वस्य कतमत् / तद्दशविधं वेदितव्यम् / आदित एव सुगृहीत भवति श्रामण्यसबोधिकामतया न जीविकानिमित्तम् / नातिलीनं भवति व्यतिक्रमे मन्दकौकृत्यापगतत्वात् / नातिसृतं भवत्यस्थानकौकृत्यापगतत्वात् / कौसीद्यापगतं भवति निद्रासुखपार्श्वसुखशयनसुखास्वीकरणतया रात्रिंदिवं कुशलपक्षाभियोगाच्च / अप्रमादपरिगृहीतं भवति / पूर्ववत् पञ्चाङ्गाप्रमादप्रतिनिषेवणतया / सम्यक्प्रणिहितं भवति लाभसत्कारगर्धविगमात् देवत्वाय प्रणिधाय ब्रह्मचर्यावासानाभ्युपगमाच्च / आचारसपत्त्या परिगृहीतमीर्यापथेतिकरणीयकुशलपक्षप्रयोगेषु सुसम्पन्नप्रतिरूपकायवाक् समुदाचारतया / आजीवसम्पत्त्या परिगृहीतं कुहनादिसर्वमिथ्याजीवकरकदोषविवर्जिततया / अन्तद्वयविवर्जित कामसुखल्लिकात्मकक्लमथानुयोगविवर्जितत्वात् / नैर्याणिक सर्वतीर्थिकदृष्टिविवर्जिततया / समादानापरिभ्रष्टं शीलं बोधिसत्त्वानामछिद्रीकरणाविपादनतया / इत्येतद्दशाकार शीलं बोधिसत्त्वानां विशुद्धमित्युच्यते /

इत्येष बोधिसत्त्वस्य महान् शीलस्कन्धो महाबोधिफलोदयो यमाश्रित्य (dutt 129) बोधिसत्त्वः शीलपारमितां परिपूरयित्वा अनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते / यावच्च नाभिसबुध्यते तावदयमस्मिन्नप्रमेये बोधिसत्त्वशीलस्कन्धे शिक्षमाणः पञ्चानुशंसान् प्रतिलभते / बुद्धैः समन्वाह्रियते / महाप्रामोद्यस्थितः कालं करोति / कायस्य च भेदात्तत्रोपपद्यते यत्रास्य समानाधिकशीला बोधिसत्त्वाः सभागाः सहधार्मिकाः कल्याणमित्रभूता भवन्ति / अपरिमाणेन पुण्यस्कन्धेन शीलपारमितापरिपूरकेण समन्वागतो भवति / दृष्टे धर्मे सम्पराये ऽपि प्रकृतिशीलतां शीलतन्मयतां प्रतिलभते /

सर्वञ्चैतच्छीलं यथानिर्दिष्टं स्वभावशीलादिकं नवाकारं त्रिविधेन शीलेन संगृहीतं वेदितव्यम् / संवरशीलेन कुशलधर्ममंग्राहकेण सत्त्वार्थक्रियाशीलेन च / तत्पुनस्त्रिविधं शीलं समासतो बोधिसत्त्वस्य त्रीणि कार्याणि करोति / संवरशीलं चित्तस्थितये संवर्तते / कुशलधर्मसंग्राहकमात्मनो बुद्धधर्मंपरिपाकाय संवर्तते / सत्त्वार्थक्रियाशीलं सत्त्वपरिपाकाय संवर्तते / एतावच्च बोधिसत्त्वस्य सर्वं करणीयं भवति / यदुत दृष्टधर्मसुखविहाराय चित्तस्थितिः / अक्लान्तकायचित्तस्य च बुद्धधर्मपरिपाकः सत्त्वपरिपाकश्च / एतावद्बोधिसत्त्वशीलम् / एतावान् बोधिसत्त्वशीलानुशंसः / एतावत् बोधिसत्त्वशीलकार्यं नात उत्तरि नातो भूयः / यत्रातीता बोधिसत्त्वा महाबोधिकामाः शिक्षितवन्तः / अनागता अपि शिक्षिष्यन्ते / वर्तमाना अपि दशसु दिक्ष्वनन्तापर्यन्तेसु / लोकधातुषु शिक्षन्ते

इति बोधिसत्त्वभूमावाधारे योगस्थाने दशमं शीलपटलम् /

क्षान्तिपटलम् (छप्तेर् 1.11)

उद्दानं पूर्वद्वेदितव्यं तद्यथा शीलपटले /

तत्र कतमा बोधिसत्त्वस्य स्वभावक्षान्तिः / या प्रतिसंख्यानबलसन्निश्रयेण वा प्रकृत्या वा परापकारस्य मर्षणा सर्वेषाञ्च मर्षणा सर्वस्य च मर्षणा निरामिषेण च चित्तेन केवलया करुणया [मर्षणा] / अयं समासतो बोधिसत्त्वस्य क्षान्तिस्वभावो वेदितव्यः /

तत्र कतमा बोधिसत्त्वस्य सर्वा क्षान्तिः / या द्विविधा द्रष्टव्या / गृहिपक्षाश्रिता प्रव्रजितपक्षाश्रिता च / सा पुनरुभयपक्षाश्रितापि त्रिविधा वेदितव्या / परापकारमर्पणा-क्षान्तिः / दुःखाधिवासना-क्षान्तिः / धर्मनिध्यानाधिमोक्ष क्षान्तिञ्च /

तत्र कथं बोधिसत्त्वः परापकारं मर्षयति क्षमते / इह बोधिसत्त्वस्तीव्रे निरन्तरे चित्रे दीर्घकालिकेअ ऽपि परापकारजे दुःखे सम्मुखीभूते इदं प्रतिसंशिक्षते / स्वकर्मापराध एष मे / येनाहं स्वयंकृतस्याशुभस्य कर्मणो दुःखमीदृशं फलं प्रत्यनुभवामि / दुःखेन चाहमनर्थी / इयञ्चाक्षान्तिरायत्यां पुरनपि मे दुःखहेतुस्थानीया / सो ऽहमेतद्दुःखहेतुभूतं धर्मं समादाय वर्तेयम् / यद्धा यन्ममैवानिष्टं तेनाहमात्मनैवात्मानं सयोजयेयम् / अत आत्मन एव मे ऽपकृतं स्यात् / न तथा परेषाम् / स्वभावतश्च दुःखप्रकृतिका एवेमे सर्वसंस्काराः स्वपरसान्तानिकाः / तत्परे तावदज्ञाः ये अस्माकं प्रकृतिदुःखितानां भूयो दुःखमुपसंहरन्ति / अस्माकं तु विज्ञानां सतां न प्रतिरूपं स्याद्यद्वयमपि परेषां प्रकृतिदुःखितानां भूयो दुःखमुपसंहरेमः / भूयो ऽपि चात्मार्थे तावत्प्रयुक्तानां श्रावकाणामक्षान्तिर्न युक्तरूपा स्यात् स्वपरेषां दुःखजनिका / प्रागेवास्माकं तु परार्थप्रयुक्तानाम् / इदं प्रतिसंख्याय स (dutt 131) बोधिसत्त्वः पञ्चाकारां संज्ञां भावयन् मित्रामित्रोदासीनेभ्यः हीनतुल्यविशिष्टेभ्यः सुखितदुःखितेभ्यो गुणदोषयुक्तेभ्यश्च सत्त्वेभ्यः सर्वापकारांस्तितिक्षते /

पञ्च संज्ञाः कतमाः / पूर्वजन्मसुहृत्संज्ञा / धर्ममात्रानुसारिणीसंज्ञा [अनित्यसंज्ञा] दुःखसंज्ञा / परिग्रहसंज्ञा चेति /

कथञ्च बोधिसत्त्वो ऽपकारिषु सत्त्वेषु सुहृत्संज्ञां भावयति / इह बोधिसत्त्व इदं प्रतिसंशिक्षते / नासौ सत्त्वः सुलभरूपो यो मे न दीर्घस्याध्वनो ऽत्ययात् पूर्वमन्यासु जातिषु माता वाभूत् पिता वा भ्राता वा भगिनी वा आचार्यो वा उपाध्यायो वा गुरुर्वा गुरुस्थानीयो वा / तस्यैवं योनिशो मनसिकुर्वतः प्रत्यर्थिकसंज्ञा अपकारिषु सत्त्वेषु अन्तर्धीयते सुहृत्संज्ञा च संतिष्ठते / स तां सुहृत्संज्ञां निश्रित्यापकारान् मर्षयति क्षमते /

कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु धर्ममात्रानुसारिणीं संज्ञां भावयति / इह बोधिसत्त्व इदं प्रतिषंशिक्षते / प्रत्ययाधीनमिदं संस्कारमात्रं धर्ममात्रम् / नास्त्यत्र कश्चिदात्मा वा सत्त्वो वा जीवो वा जन्तुर्वाय आक्रोशेद्रोषयेत्ताडयेद् भण्डयेत् परिभाषेत वा यो वा पुनराक्रुश्येत वा रोष्येत वा ताडयेत वा भण्डयेत वा परिभाष्येत वा / तस्यैवं योनिशो मनसिकुर्वतः सत्त्वसंज्ञा चान्तर्धीयते / धर्ममात्रसंज्ञा च संतिष्ठते / स तां धर्ममात्रसंज्ञानिश्चित्य प्रतिष्ठाप्य परतः सर्वापकारान् मर्षयति क्षमते /

कथञ्च बोधिसत्त्वो ऽपकारिषु सत्त्वेषु अनित्यसंज्ञां भावयति / इह बोधिसत्त्व इदं प्रतिसंशिक्षते / ये केचित् सत्त्वा जाता भूताः सर्वे ते अनित्या मरणधर्माणः / एष च परमः प्रत्यतकारो यदुत जीविताद्वयपरोपणम् / एवञ्च प्रकृत्त्या मरणधर्मकेष्वनित्येषु सत्त्वेषु न प्रतिरूपं स्याद्विज्ञपुरुषस्य कलुषमपि तावच्चित्तमुत्पादयितुं प्रागेव पाणिना वा प्रहर्तुं लोष्टेन वा दण्डेन वा प्रागेव सर्वेण सर्वं जीविताद्व्यपरोपयितुम् / तस्यैवं योनिशो मनसि कुर्वतः नित्यसारसज्ञा च प्रहीयते / अनित्यासारसंज्ञा च संतिष्ठते / स तामपि अनित्यासारसंज्ञां निश्रित्य सर्वापकारान् मर्षयति क्षमते /

कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु दुःखसंज्ञां भावयति / इह बोधिसत्त्वो ये तावत् सत्त्वा महत्यामपि सम्पदि वर्तन्ते तानपि तिसृभिः (dutt 132) दुःखताभिरनुषक्तान् पश्यति- संस्कारदुःखतया विपरिणामदुःखतया दुःखदुःखतया च प्रागेव विपत्तिस्थितान् / स एवं पश्यन्निदं प्रतिसंशिक्षते / एवं सदा दुःखानुगतानां सत्त्वानां दुःखापकर्षणायास्माभिर्व्यायच्छितव्यं न दुःखोपसंहाराय / तस्यैवं योनिशो मनसि कुर्वतः सुखसंज्ञा प्रहीयते दुःखसंज्ञा चोत्पद्यते / स तां दुःखसंज्ञां निश्रित्य परेषां सर्वापकारान् मर्षयति क्षमते /

कथञ्च बोधिसत्त्वो ऽपकारिषु सत्त्वेषु परिग्रहसंज्ञां भावयति / इह बोधिसत्त्व इदं प्रतिसंशिक्षते / मया खलु सर्वसत्त्वा बोधाय चित्तमुत्पादयता कडत्रभावेन परिगृहीताः / सर्वसत्त्वानां मयार्थः करणीय इति / तन्न मे प्रतिरूपं स्याद्यदहमेवं सर्वसत्त्वानुपादायैषामर्थं करिष्यामीत्यनर्थमेव कुर्यामपकारममर्षयन् / तस्यैव यानिशो मनसि कुर्वतः अपकारिषु सत्त्वेषु परसंज्ञा प्रहीयते / परिग्रहसंज्ञा च संतिष्ठते / स तां परिग्रहसज्ञां निश्रित्य परेषां सर्वापकारान् मर्षयति क्षमते /

क्षान्तिः कतमा / यन्न कुप्यति न प्रत्यपकारं करोति / नाप्यनुशयं वहति / इयमुच्यते क्षान्तिः /

तत्र बोधिसत्त्वस्य दुःखाधिवासनाक्षान्तिः कतमा / इह बोधिसत्त्व इदं प्रतिसंशिक्षते / मया खलु पूर्व कामचर्यासु वर्तमानेन कामान्पर्येषता प्रतिसंख्याय दुःखहेतुतया दुःखात्मकानां कामानामर्थे प्रभूतानि तीव्राणि दुःखानि अभ्युपगतानि अधिवासितान्यनुभूतानि कृषिवणिज्या राजपौरुष्यप्रयुक्तेन / एवं तद्वयर्थं दुःखस्यैवार्थे मया महद् दुःखमभ्युपगतं प्रतिसंख्यायाज्ञानदोषेण / सांप्रतं तु मम सुखाहारके कुशले प्रयुक्तस्य [प्रतिसंख्याय] ततः कोटीशतसहस्रगुणस्य दुःखस्याधिवासनाभ्युपगमः प्रतिरूपः स्यात् / प्रागेव ततो न्यूनस्य / एवं योनिशो मनसि कुर्वन् बोधाय प्रयुक्तो बोधिसत्त्वः सर्ववस्तुकं दुःखमधिवासयति /

सर्ववस्तुकं दुःखं कतमत् / तत्समासतः अष्टाकारं वेदितव्यम् / सन्निश्रयाधिष्ठानं लोकधर्माधिष्ठानम् ईर्यापथाधिष्ठानं धर्मपरिग्रहाधिष्ठान भिक्षाकवृत्ताधिष्ठानम् अभियोगक्लमाधिष्ठानं सत्त्वार्थक्रियाधिष्ठानम् इतिकरणीयाधिष्ठानञ्चेति /

चत्वारः सन्निश्रयाः / यानाश्रित्य स्वाख्याते धर्मविनये प्रव्रज्या-उपसम्पद्भिक्षुभावः / तद्यथा चीवरं पिण्डपातः शयनासनं ग्लानप्रत्ययभैषज्यपरिष्काराश्च / तैर्बोधिसत्त्वो लूहैः स्तोकैरसत्कृत्य धन्धञ्च लब्धैर्नोत्कण्ठ्यते न परित्रस्यति नापि ततो निदानं वीर्यं स्रंसयति / एवं सन्निश्रित्याधिष्ठानं दुःखमधिवासयति /

नव लोकधर्माः / अलाभः अयशो निन्दा दुःखंनाशधर्मकस्य नाशः क्षयधर्मकस्य क्षयः जराधर्मकस्य जरा व्याधिधर्मकस्य व्याधिः मरणधर्मकस्य मरणम् / एषां लोकधर्माणां समस्तव्यस्तानाम् आपतनात् सम्मुखीभावात् यद्दुःखमुत्पद्यते तल्लोकधर्माधिष्ठानमित्युच्यते / तेनापि स्पृष्टो बोधिसत्त्वो न तन्निदानं वीर्यं स्रंसयति प्रतिसंख्यायोद्वहते अधिवासयति /

चत्वार ईर्यापथाः / चंक्रमः स्थानं निषद्या शय्या च / तत्र बोधिसत्त्वः चंक्रमनिषद्याभ्यां दिवारात्रौ वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयंस्तन निदानं परिश्रमजं दुःखमधिवासयति / न त्वकाले पार्श्वमनुप्रयच्छति मञ्चे वा पीठे वा तृणसंस्तरे वा पर्णसंस्तरे वा /

सप्तविधो धर्मपरिग्रहः / रत्नत्रयपूजोपस्थानं गुरुपूजोपस्थानं धर्माणामुद्ग्रहणमुद्गृहीतानां परेषां विस्तरेण देशना विस्तरेण स्वरेण स्वाध्यायक्रिया एकाकिनो रहोगतस्य सम्यक् चिन्तना तुलना उपपरीक्षणा योगमनसिकारसंगृहीता शमथविपश्यना भावना च / अस्मिन् सप्ताकारे धर्मपरिग्रहे बोधिसत्त्वस्य व्यायच्छमानस्य यद् दुःखमुत्पद्यते तदप्यसावधिवासयति / न च तन्निदानं वीर्यं स्त्रंसयति /

भिक्षाकवृत्तमपि सप्ताकारं वेदितव्यम् / वैरूप्याभ्युपगमः शिरस्तुण्डमुण्डनादिभिरपहृतगृहिव्यञ्जनतया / वैवर्ण्याभ्युपगमो विकृतविवर्णवस्त्रधारणतया / आकल्पान्तरक्रिया सर्वलौकिकप्रचारेषु तन्त्रितविहारतया / परप्रतिबद्धाजीविका कृष्यादिकर्मान्तविवर्जितस्य परलब्धेन यात्राकल्पनतया / यावज्जीवं परतश्चीवरादिपर्येषणा लब्धानां सन्निधिकारापरिभोगतया / यावज्जीवं (dutt 134) मानुष्यकेभ्यः कामेभ्य आवरणक्रिया अब्रह्मचर्यमैथुनधर्मप्रतिविवरणतया / यावज्जीवं मानुष्यकेभ्यो रतिक्रीडाभ्य आवरणकिया नटनर्तनकहासकलासकादिसंदर्शनप्रतिविरमणतया / मित्रसुहृद्वयस्यैश्च सह हसितक्रीडितरमितपरिचारित-प्रतिविरमणतया / इत्येवं रूपं कृच्छ्रसंबाधं भिक्षाकवृत्तमागम्य यद्दुःखमुत्पद्यते तदपि बोधिसत्त्वो ऽधिवासयति / न च तन्निदानं वीयु स्रंसयति /

कुशलपक्षाभियुक्तस्यापि च बोधिसत्त्वस्य [ये] परिश्रमनिदाना उत्पद्यन्ते कायिकाः क्लमाः चैतसिकाः अप्युपायासा न बोधिसत्त्वस्तन्निदानं वीर्यं संस्त्रयति /

सत्त्वार्थकर्म त्वेकादशप्रकारं पूर्ववद्वेदितव्यमु / तन्निदानमपि बोधिसत्त्वो दुःखसमुत्पन्नमधिवासयति / न च तन्निदानं वीर्यं स्त्रंसयति /

इतिकरणीयं प्रव्रजितस्य चीवरपात्रकर्मादि / गृहिणः पुनः सम्यक्कृषिवणिज्या-राजपौरुष्यादि / तन्निदानमपि बोधिसत्त्वो दुःखमधिवासयति / नो तु तन्निदानं वीर्यं स्रंसयति / यत्पुनर्बोधिसत्त्वः स्पृष्टः सन्नन्यतमेन दुःखेन प्रयुज्यत एवानुत्तरायै सम्यक्संबोधये / न [न] प्रयुज्यते / प्रयुक्तश्च न विवर्तंते / अविमनस्कश्चासंक्लिष्टचित्तः प्रयुज्यते / इयमस्योच्यते दुःखाधिवासनाक्षान्तिः /

तत्र कतमा बोधिसत्त्वस्य धर्मनिध्यानाधिमुक्तिक्षान्तिः / इह बोधिसत्त्वस्य सम्यग्धर्मप्रविचयसुविचारितया बुद्ध्या अष्टविधे अधिमुक्त्यधिष्ठाने अधिमुक्तिः सुसन्निविष्टा भवति रत्नगुणेषु तत्त्वार्थे बुद्धबोधिसत्त्वानां महाप्रभावे हेतौ फले प्राप्तव्ये ऽर्थे आत्मनस्तत्प्राप्त्युपाये ज्ञेयगोचरे च / सा पुनरधिमुक्तिर्द्वाभ्यां कारणाभ्यां सुसन्निविष्टा भवति / दीर्घकालाभ्यासतश्च सुविशुद्धज्ञानसमुदागमतश्च / इतीयं बोधिसत्त्वानां सर्वक्षान्तिः पक्षद्वयमाश्रिता / यामाश्रित्य दुष्करक्षान्त्यादिविस्तरविभागो बोधिसत्त्वानां वेदितव्यः /

तत्र कतमा बोधिसत्त्वस्य दुष्करक्षान्तिः / सा त्रिविधा द्रष्टव्या / इह बोधिसत्त्वो दुर्बलानां सत्त्वानामन्तिकादपकारं क्षमते / इयं प्रथमा दुष्करक्षान्तिः / प्रभुर्भूत्वा स्वयं क्षमते / इयं द्वितीया दुष्करक्षान्तिः / जातिगोत्रनीचतराणाञ्च सत्त्वानामन्तिकादुत्कृष्टमधिमात्रमपकारं क्षमते / इयं तृतीया दुष्करक्षान्तिः /

तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी क्षान्तिः / सा चतुर्विधा द्रष्टव्या / इह बोधिसत्त्वो मित्रादप्यपकारं क्षमते ऽमित्रादप्युदासीनादपि / तेभ्यश्च त्रिभ्यो हीनतुल्याधिकेभ्यः क्षमते /

तत्र कतमा बोधिसत्त्वस्य सत्पुरुषक्षान्तिः / सा पञ्चविधा द्रष्टव्या / इह बोधिसत्त्वः आदित एव क्षान्तावनुशंसदर्शी भवति / क्षमः पुद्गलः आयत्त्यामवैरबहुलो भवति / अभेदबहुलो भवति / सुखसौमनस्यबहुलो भवति / अविप्रतिसारी कालं करोति / कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते / इति स एवमनुशंसदर्शी / स्वयञ्च क्षमो भवति / परञ्च क्षान्तौ समादापयति / क्षमायाश्च वर्णं भाषते / क्षमिणञ्च पुद्गलं दृष्ट्वा सुमनस्को भवत्यानन्दीजातः /

तत्र कतमा बोधिसत्त्वस्य सर्वाकारक्षान्तिः / सा षड्विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या / इह बोधिसत्त्वो ऽनिष्टविपाकमक्षान्तिं विदित्वा भयादपि क्षमते / सत्त्वेषु च दयाचित्तः कारुण्यचित्त [स्निग्धचित्तः] स्नेहादपि क्षमते / अनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्दः क्षान्तिपारमितां परिपूरयितुकामः कारणहेतोरपि क्षमते / क्षान्तिबलाश्च प्रव्रजिता उक्ता भगवता / तदनेनापि पर्यायेण न युक्तरूपा समात्तशीलस्य प्रव्रजितस्याक्षान्तिरिति धर्मसमादानतो ऽपि क्षमते / गोत्रसम्पदि पूर्वके च क्षान्त्यभ्यासे वर्तमानो ऽवस्थितः प्रकृत्यापि क्षमते / [निः]सत्त्वांश्च सर्वधर्मान् विदित्वा निरभिलाप्यधर्ममात्रदर्शी धर्मनिध्यानतो ऽपि क्षमते / सर्वञ्चापकारं क्षमते / सर्वतश्च क्षमते / सर्वत्र च देशे क्षमते / रहसि वा महाजनसमक्षं वा सर्वकालञ्च क्षमते / पूर्वाह्ने ऽपि मध्याह्ने ऽपि सायाह्ने ऽपि रात्रौ च दिवा वा ऽती तमप्यनागतमपि प्रत्युत्पन्नमपि ग्लानो ऽपि स्वस्थो ऽपि पतितो ऽप्युत्थितो ऽपि / कायेनापि क्षमते ऽप्रहरणतया / वाचापि क्षमते ऽमनापवचनानिश्चारणतया / मनसापि क्षमते ऽकोप्यतया कलुषाशयाधारणतया च /

तत्र कतमा बोधिसत्त्वस्य विघातार्थिकक्षान्तिः / सा ऽष्टविधा द्रष्टव्या / दुःखितानां याचकानामन्तिकाद्याञ्चोपरोधनक्षान्तिः / रौद्रेष्वधिमात्रपापकर्मसु सत्त्वेषु धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः / दुःशीलेषु प्रव्रजितेषु (dutt 136) धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः / पञ्चाकारा च व्यवसायसहिष्णुताक्षान्तिः / दुःखितानां सत्त्वानां दुःखापनयनाय व्यायच्छतः धर्मान् पर्येषतः धर्मस्यानुधर्मे प्रतिपद्यभानस्य तानेव धर्मान् परेषां विस्तरेण संप्रकाशयतः सत्त्वकृत्येषु [सत्त्वकरणीयेषु] च सम्यक्सहायीभावं गच्छतो या व्यवसायसहिष्णुता / इतीयमष्टाकारा विघातार्थिकक्षान्तिरित्युच्यते / येन च सत्त्वा विधातिनः स्युः तस्य च क्षान्त्या परिवर्जनात् / येन चार्थिनस्तस्योपसंहारात् /

तत्र कतमा बोधिसत्त्वस्य इहामुत्रसुखा क्षान्तिः / सा नवविधा दृष्टव्या / इह बोधिसत्त्वः अप्रमत्तो विहरन् कुशलेषु धर्मेषु क्षमो भवति / शीतस्योष्णस्य जिघत्सापिपासयोः दंशसंस्पर्शानां [मशकसंस्पर्शानां वातातपयोः सरीसृपसंस्पर्शानां] क्षमो भवति / परिश्रमजन्यकायचित्तक्लमोपायासस्य क्षमो भवति / संसारपतितजराव्याधिमरणादिकानां दुःखानां सत्त्वानुकम्पामेव पुरस्कृता इत्येवं क्षमो बोधिसत्त्व आत्मना च दृष्टे च धर्मे सुखसंस्पर्शं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैः / सांपरायिकञ्च सुखहेतुं समादाय वर्तते / [परेषामपि च सुखहेतुं समादाय वर्तते /] परेषामपि च दृष्टे धर्मे संपराय सुखाय प्रतिपन्नो भवति / तस्मादियमिहामुत्रसुखा क्षान्तिरित्युच्यते /

तत्र कतमा बोधिसत्त्वस्य विशुद्धा क्षान्तिः / सा दशविधा द्रष्टव्या / इह बोधिसत्त्वः परेषामन्तिकादपकारं विघातं व्यतिक्रमं लभमानो नापि प्रत्यपकारं करोति / नापि मनसा कुप्यति / नापि प्रत्यर्थिकाशयं वहति / उपकाराय चाभिमुखो भवति यथा पूर्वं तथा पश्चान्नोपकारक्रियया ऽपकारमुपेक्षते अपकारिषु च स्वयमेव संज्ञप्तिमनुप्रयच्छति न च खेदयित्वा परेषामन्तिकात् संज्ञप्तिं प्रतिगृहणाति खेदितो भवत्विति / एतमेव प्रत्ययं कृत्वा अक्षान्तिमारभ्य तीव्रेण [ह्रीव्यपत्राप्येन] समन्वागतो भवति / क्षान्तिमारभ्य तीव्रेण शास्तरि प्रेमगौरवेण समन्वागतो भवति / सत्त्वाविहेठनतामारभ्य तीव्रेण सत्त्वेषु करुणाशयेन सन्वागतो भवति / सर्वेण वा सर्वमक्षान्तिधर्मसहायं प्रहाय कामवीतरागो भवति / सर्वेण एभिर्दशभिराकारैर्बोधिसत्त्वस्य क्षान्तिविशुद्धा वेदितव्या निर्मला /

इत्येतां स्वभाव-[क्षान्त्यादिकं विशुद्ध-]क्षान्तिपर्यवसानां क्षान्तिं विपुलामप्रमाणां महाबोधिफलो[दयां] निश्रित्य बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते /

इति बोधिसत्त्वभूमावाधारे योगस्थाने एकादशमं क्षान्तिपटलं समाप्तम् /

वीर्यंपटलम् (छप्तेर् 1.12)

उद्दानं पूर्ववद्वेदितव्यम /

तत्र कतमद्बोधिसत्त्वस्य स्वभाववीर्यम् / यो बोधिसत्त्वस्य चित्ताभ्युत्साहो ऽप्रमेयकुशलधर्मसंग्रहाय सत्त्वार्थक्रियायै / उत्तप्तश्च निश्छिद्रश्चाविपर्यस्तश्च तत्समुत्थितश्च कायवाङ्मनः परिस्पन्दः / अयं बोधिसत्त्वस्य वीर्यस्वभावो वेदितव्यः /

तत्र कतमद्बोधिसत्त्वस्य सर्ववीर्यंम् / तत्समासतो द्विविधं वेदितव्यम् / गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च / तत्पुनरुभयपक्षाश्रितमपि त्रिविधं वेदितव्यम् / सन्नाहवीर्यं कुशलधर्मसंग्राहकं सत्त्वार्थक्रियायै च /

तत्रेदं बोधिसत्त्वस्य सन्नाहवीर्यम् / इह बोधिसत्त्वः पूर्वमेव वीर्यारम्भप्रयोगादेवं चेतसो ऽभ्युत्साहपूर्वकं सन्नाहं सन्नह्यते / स चेदहमेकसत्त्वस्यापि दुःखविमोक्षहेतोर्महाकल्पसहस्रतुल्यै रात्रिन्दिवसैर्नंरकवासेनैव नान्यगतिवासेन यावता कालेन बोधिसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते तेनैव कोटीनियुतशतसहस्रगुणितेन कालेनाहमनुत्तरां सम्यक्संबोधिमासादयेयम् / तथापि चोत्सहेयम् / न नानुत्तरायाः सम्यक्संबोधेरर्थेन प्रयुज्येयम् / न च प्रयुक्त-वीर्यं संस्रयेयम् / प्रागेव न्यूनतरेण कालेन तनुतरेण च दुःखेन / इदमेवंरूपं बोधिसत्त्वस्य सन्नाहवीर्यम् / यो बोधिसत्त्वः एवरूपे बोधिसत्त्वानां सन्नाहवीर्ये ऽधिमुक्तिमात्रकं प्रसादमात्रकमप्युत्पादयेत् सो ऽपि तावद्बोधिसत्त्वो धीरो ऽप्रमाणस्य बोधाय वीर्यारम्भस्य धातुं परिपोषयेत् / प्रागेव यो बोधिसत्त्वः ईदृशेनैव सन्नाहवीर्येण समन्वागतः स्यात् न च पुनस्तस्य बोधिसत्त्वस्य बोधेरर्थे सत्त्वानामर्थाय किञ्चिदस्ति दुष्करं करणीयं कर्म यत्रास्य बोधिसत्त्वस्य संकोचो वा स्यात् चेतसो दुष्करं वा कर्तुम् /

तत्र कतमद्बोधिसत्त्वानां कुशलधर्मसंग्राहकं वीर्यम् / यद्वीर्यं दानपारमिताप्रायोगिकं दानपारमितासमुदागमाय यद्वीर्यं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रायोगिकं (dutt 139) यावत्प्रज्ञापारमितासमुदागमाय / तत्पुनः समासतः सप्ताकारं वेदितव्यम् / अचलं सर्वकल्पविकल्पक्लेशोपक्लेशपरप्रवादिदुःखसंस्पर्शैरविचाल्यत्वात् / गाढं सत्कृत्य प्रयोगित्वात् / अप्रमेयं सर्वविद्यास्थानसमुदागमप्रत्युपस्थानत्वात् / उपायप्रयुक्तं प्राप्तव्यस्यार्थस्याविपरीतमार्गा नुगतत्वात् समताप्रतिवेधाच्च / सम्यग्वीर्यमर्थोपसंहितस्य प्राप्तव्यस्यार्थस्य प्राप्तये प्रणिहितत्वात् / प्रततं सातत्यप्रयोगित्वात् / विगतमानं तेन वीर्यारम्भेणानुन्नमनात् / इत्येभिः सप्तभिराकारैः कुशलधर्मसंग्रहाय वीर्यारम्भप्रयोगो बोधिसत्त्वानां क्षिप्रं पारमितापरिपूरये ऽनुत्तरसम्यक्संबोध्यधिगमाय संवर्तते / यतश्च सर्वेषां बोधिकरकाणां कुशलानां धर्मणामेवं समुदागमाय वीर्यमेव प्रधानं श्रेष्ठं कारणं न तथान्यत् / तस्माद्वीर्यमनुत्तरायै सम्यक्संबोधये इति निर्दिशन्ति तथागताः /

सत्त्वार्थक्रियावीर्यं पुनर्बोधिसत्त्वानां वेदितव्यमेकादशप्रकारम् / तद्यथा शीलपटले / यत्तत्र शीलयुक्तं तदिह वीर्यं वक्तव्यम् / अयं विशेषः /

तत्र कतमद्बोधिसत्त्वस्य दुष्करवीर्यम् / तत् त्रिविधं द्रष्टव्यम् / यद्बोधिसत्त्वो नैरन्तर्येण चीवरसंज्ञां पिण्डपातसंज्ञां शयनासनसंज्ञामपि आत्मसंज्ञामकुर्वन् कुशलेषु धर्मेषु भावनासातत्येन प्रयुक्तो भवति / इदं बोधिसत्त्वस्य प्रथमं दुष्करवीर्यम् / पुनर्बोधिसत्त्वस्तेन तथारूपेण वीर्यारम्भेण आ-निकायसभागनिक्षेपात् सर्वकालं प्रयुक्तो भवति / इदं द्वितीयं बोधिसत्त्वस्य दुष्करवीर्यम् / पुनर्बोधिसत्त्वः समताप्रतिवेधगुणयुक्तेन नातिलीनेन नात्यारब्धेनाविपरीतेनार्थोपसंहितेन वीर्येण समन्वागतो भवति / इदं बोधिसत्त्वस्य तृतीयं दुष्करवीर्यं वेदितव्यम् / अस्य खलु बोधिसत्त्वानां दुष्करवीर्यस्य बलं सत्त्वेषु करुणा प्रज्ञा च संग्रहहेतुर्वेदितव्यः /

तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं वीर्यम् / तच्चतुर्विध द्रष्टव्यम् / क्लिष्टधर्मविवर्जकं शुक्लधर्मावर्जकं कर्मपरिशोधकं ज्ञानविवर्धकञ्च / तत्र क्लिष्टधर्मविवर्जकं बोधिसत्त्वस्य वीर्यमनुत्पन्नानाञ्च संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानामनुत्पादायोत्पन्नानाञ्च प्रहाणाय / तत्र शुक्लधर्मावर्जकं बोधिसत्त्वस्य (dutt 140) वीर्यं यदनुत्पन्नानाञ्च कुशलानां धर्माणामुत्पत्तये वीर्यम् / उत्पन्नानाञ्च स्थितये असंमोषायै वृद्धिविपुलतायै यद्वीर्यम् / तत्र कर्मपरिशोधकं बोधिसत्त्वस्य वीर्यं यत् त्रयाणां कर्मणां विशुद्धये संग्रहाय कुशलस्य कायकर्मणो वाक्कर्मणो मनस्कर्मणश्च / तत्र ज्ञानविवर्धके बोधिसत्त्वस्य वीर्यम् / यच्छ्रु तचिन्ताभावनामय्याः प्रज्ञायाः समुदागमाय परिवृद्धये संवर्तते /

तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषवीर्यम् / तत्पञ्चविधं द्रष्टव्यम् / अनिराकृतं सर्वेण सर्वं छन्दप्रयोगानिराकरणतया / अन्यूनं यथोपात्ततुल्याधिकवीर्यानुबृंहणतया / अलीनमुत्तप्तदीर्घकालिक-निरन्तरवीर्यारम्भायासंकुचिताविषण्णचित्ततया / अविपरीतमर्थोपसंहितोपायपरिगृहीततया / उत्तप्तप्रयोगञ्च बोधिसत्त्वानां वीर्यमनुत्तरायां सम्यक् संबोधावभिकरणतया /

तत्र कतमद्बोधिसत्त्वानां सर्वाकारं वीर्यम् / तत्षडाकारं सप्ताकारञ्च ऐकध्यमभिसंक्षिप्य त्रयोदशाकारं वेदितव्यम् / सातत्यवीर्यं नित्यकालप्रयोगितया / सत्कृत्यवीर्यं निपुणप्रयोगितया / नैष्यन्दिकं वीर्यं पूर्ववीर्यहेतुबलाधानतया / प्रायोगिकं वीर्यं प्रतिसंख्याय कुशलपक्षप्रयोगितया / अकोप्यवीर्यं सर्वदुःखसंस्पर्शैरविकोप्यतया ऽनन्यथाभावोपगमनतया असंतुष्टिवीर्यमल्पावरमात्रविशेषाधिगमासन्तुष्टतया / इदं तावत् षड्विधं सर्वाकारं वीर्यं येन समन्वागतो बोधिसत्त्वः आरब्धवीर्यः स्थामवान् वीर्यवानुत्साही दृढपराक्रमः अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते / सप्तविधं पुनः छन्दसहगतं बोधिसत्त्वस्य वीर्यं पुनः पुनरनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्द प्रणिधानानुवृंहणतया साम्ययुक्तं बोधिसत्त्वस्य वीर्यं यदन्यतमेन क्लेशोपक्लेशेनासंक्लिष्टचेतसो ऽपर्यवस्थितस्य येन वीर्येण बोधिसत्त्वः कुशलेषु धर्मेषु तुल्योचित्तविहारी संभवति / वैशेषिकं वीर्यं बोधिसत्त्वस्यान्यतमेनोपक्लेशेनोपक्लिष्टचेतसः [पर्यवसितचेतसः] तस्योपक्लेशस्य प्रहाणाय यदादीप्तशिरो निर्वाणोपमं वीर्यम् / एषकं वीर्यं बोधिसत्त्वस्य सर्वविद्यास्थानपर्येषणतया / शिक्षावीर्यं बोधिसत्त्वस्य तेष्वेव पर्येषितेषु धर्मेषु यथायोग्यं यथार्हं धर्मानुधर्मप्रतिपत्तिसंपादनतया / परार्थक्रियावीर्यं बोधिसत्त्वस्य पूर्ववदेकादशविधं वेदितव्यम् / आत्मनः सम्यक्प्रयोगारक्षायै (dutt 141) स्खलितस्य च यथाधर्मप्रतिकरणतायै वीर्यं सप्तमं बोधिसत्त्वस्य / इतीदं त्रयोदशाकारं बोधिसत्त्वस्य वीर्य सर्वाकारमित्युच्यते /

विघातार्थिकवीर्यं चेहामुत्रसुखञ्च बोधिसत्त्वानां वीर्यं क्षान्तिवद् द्रष्टव्यम् / तत्रायं विशेषः / या तत्र क्षान्तिः सेह वीर्यमभ्युत्साहो वक्तव्यः /

तत्र कतमद्बोधिसत्त्वस्य विशुद्धं वीर्यम् / तत्समासतो दशविधं वेदितव्यम् / अनुरूपमभ्यस्तमश्लथं सुगृहीतं कालाभ्यास-प्रयुक्तं निमित्तप्रतिवेधयुक्तमलीनमविधुरं समं महाबोधिपरिणमितञ्चेति /

इह बोधिसत्त्वो येन येनोपक्लेशेनात्यर्थं बाध्यते / तस्य तस्योपक्लेशस्य प्रहाणायानुरूपं प्रतिपक्षं भजते / कामरागस्य प्रतिपक्षेणाशुभां भावयति / व्यापादप्रतिपक्षेण मैत्रीम् / मोहप्रतिपक्षेणेदंप्रत्ययता-प्रतीत्यसमुत्पादं भावयति / वितर्कप्रतिपक्षेणानापानस्मृतिम् / मानप्रतिपक्षेण धातुप्रभेदं भावयति / इदमेवंभागीयं बोधिसत्त्वस्य अनुरूपं [वीर्य]मित्युच्यते /

इह बोधिसत्त्वो न आदिकर्मिक-तत्प्रथमकर्मिकवीर्येण समन्वागतो भवति / यदुत चित्तस्थितये ऽ ऽववादानुशासन्याम् / नान्यत्राभ्यस्तप्रयोगो भवति परिचितप्रयोगः / इतीदं बोधिसत्त्वस्याभ्यस्तं वीर्यमित्युच्यते /

न चापि बोधिसत्त्वः अभ्यस्तप्रयोगो भवति अववादानुशासन्यां चित्तस्थितिमारभ्य / अपि त्वादिकर्मिक एव स बोधिसत्त्वस्तस्मिन् प्रयोगे ऽश्लथप्रयोगो भवति सातत्यसत्कृत्यप्रयोगितया / इतीदं बोधिसत्त्वस्याश्लथं वीर्यमित्युच्यते /

पुनर्बोधिसत्त्वो गुरुणामन्तिकात स्वयमेव वा बाहुश्रुत्यबलाधानतया ऽविपरीतग्राहितया चित्तस्थितये वीर्यमारभते / इतीदं बोधिसत्त्वस्य सुगृहीतं वीर्यमित्युच्यते /

पुनर्बोधिसत्त्वः एवमविपरीतग्राही शमथकाले शमथं भावयति / प्रग्रहकाले चित्तं प्रतिगृहणाति / उपेक्षाकाले उपेक्षां भावयति / इदमस्य कालप्रयुक्तं वीर्यमित्युच्यते /

पुनर्बोधिसत्त्वः शमथप्रग्रहोपेक्षानिमित्तानां समाधिस्थितिव्युत्थाननिमित्तानां चोपलक्षणासंप्रमोष-प्रतिवेधाय सातत्यकारी भवति सत्कृत्यकारी / इतीदं बोधिसत्त्वस्य निमित्तप्रतिवेधं वीर्यमित्युच्यते /

पुनर्बोधिसत्त्वः परमोदारान् परमगम्भीरानचिन्त्याप्रमेयान् बोधिसत्त्वानां वीर्यारम्भनिर्देशान् श्रुत्वा नात्मानं परिभवति न सलीनचित्तो भवति / नापि चाल्पमात्रकेणावरमात्रकेण विशेषाधिगमेन सन्तुष्टो भवति / नोत्तरि न व्यायच्छते / इतीदं बोधिसत्त्वस्यालीनं वीर्यमित्युच्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.