Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिसत्त्वभूमि
- Thông tin
- GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत्र कथं बोधिसत्त्वः श्रुतं पर्येषते / इह बोधिसत्त्वस्तीव्रं गौरवमुपस्थाप्य सुभाषिते सुलपिते धर्म पर्येषते / एवंरूपश्चास्य समासेन सुभाषितगौरवं प्रत्युपस्थितं भवति / यदसौ बोधिसत्त्व एकसुभाषितश्रवणहेतोरपि तप्तां ज्वलितामप्ययोमयीं भूमिं परेण प्रामोद्येनादरेण प्रविशेद्यद्यन्यथा सुभाषितश्रवणं न लभेत प्रागेव प्रभूतस्य सुभाषितस्यार्थे / यच्च बोधिसत्त्वस्य स्वे आत्मभावे समुच्छ्रये प्रेमगौरवं प्रागेवान्येषु सर्वकायपरिष्कारेषु भोजनपानादिषु / यच्च सुभाषितश्रवणे पूर्वकं प्रेमगौरवं पश्चिमं प्रेमगौरवमुपनिधाय शततमीमपि कलां नोपैति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपनिषदमपि नोपैति स तथा सुभाषिते गौरवजातः सुभाषितं शृण्वन्नखिन्नश्च भवत्त्यतृप्तश्च / श्राद्धश्च भवति प्रसादबहलश्चार्द्रसन्तान ऋजुकदृष्टिः / सगुण कामतया धर्मकामतया धर्मभाणकमुपसंक्रामति नोपारम्भाभिप्रायेण सगौरवतया न मानस्तम्भेन किंकुशलगवेषणतया न आत्मोद्भावनार्थम् आत्मानञ्च परांश्च कुशलमूले संनियोजयिष्यामीति न लाभसत्कारहेतोः /
स एवमुपसंक्रमणसंपन्नः असंक्लिष्टश्च धर्म शृणोत्यविक्षिप्तश्च /
कथमसंक्लिष्टः शृणोति / स्तम्भसंक्लेशविगतो ऽवमन्यनासंक्लेशविगतः लय-संक्लेशविगतश्च /
तत्र षड्भिराकारैः स्तम्भसंक्लेशविगतो भवति / चतुर्भिराकारैरवमन्यासंक्लेशविगतो भवति / एकेनाकारेण लयसंक्लेशविगतो भवति / कालेन शृणोति सत्कृत्य शुश्रूषमाणो नासूयन्ननुविधीयमानो ऽनुपारम्भप्रेक्षी / एभिः षड्भिराकारैः स्तम्भसंक्लेशविगतः /
धर्मे गौरवमुपस्थाप्य धर्मभाणके पुद्गले गौरवमुपस्थाप्य धर्ममपरिभवन् धर्मभाणकं पुद्गलमपरिभवन् एभिश्चतुर्भिराकारैरवमन्यनासंक्लेशविगतः शृणोति /
आत्मानमपरिभवन् शृणोति / अनेनैकेनाकारेण लयसंक्लेशविगतः शृणोति / एवं हि बोधिसत्त्वः असंक्लिष्टो धर्म शृणोति /
तत्र कथं बोधिसत्त्वः अविक्षिप्तो धर्मं शृणोति / पञ्चभिराकारैः / आज्ञाचित्त एकाग्रचित्तः अविहितश्रोत्रः समावर्जितमानसः सर्वचेतसा समन्वाहृत्य धर्मं शृणोति / एवं हि बोधिसत्त्वः श्रुतं पर्येषते /
तत्र किमर्थं बोधिसत्त्वः श्रुतं पर्येषते / बुद्धवचनं तावद् बोधिसत्त्वः पर्येषते / सम्यग्धर्माप्रतिपत्ति संपादनार्थं परेषाञ्च विस्तरेणसंप्रकाशनार्थम् / हेतुविद्यां बोधिसत्त्वः पर्येषते तस्यैव शास्त्रस्य दुर्भाषितदुर्लपितताया यथाभूत परिज्ञानार्थं परवादनिग्रहार्थं चाप्रसन्नानामस्मिंच्छासने प्रसादाय प्रसन्नानाञ्च भूयोभावाय / शब्दविद्यां बोधिसत्त्वः पर्येषते / संस्कृतलपिताधिमुक्तानात्मनि संप्रत्ययोत्पादनार्थं सनिरुक्तपदव्यञ्जननिरूपणतया एकस्य चार्थस्य नानाप्रकारनिरुत्त्यनुव्यवहारानुप्रवेशार्थम् / चिकित्साशास्त्रं बोधिसत्त्वः पर्येषते सत्त्वानां नानाप्रकारव्याधिव्युपशमनार्थं महाजनकायस्यानुग्रहार्थम् / लौकिकानि शिल्पकर्मस्थानानि बोधिसत्त्वः पर्येषते ऽल्पकृच्छ्रेण भोगसंहरणार्थं सत्त्वानामर्थाय सत्त्वानाञ्च बहुमानोत्पादनार्थं शिल्पज्ञानसंविभागेन चानुग्रहसंग्रहार्थम् / सर्वाणि च एतानि पञ्चविद्यास्थानानि बोधिसत्त्वः पर्येषते ऽनुत्तरायाः सम्यक्संबोधेर्महाज्ञानसम्भारपरिपूणार्थम् / न हि सर्वत्रैवमशिक्षमाणः क्रमेण सर्वज्ञज्ञानमनावरणं प्रतिलभते / यत्तावद्वोधिसत्त्वः पर्येषते यथा च पर्येषते यदर्थञ्च पर्येषते तन्निर्दिष्टम् /
तत्र किं बोधिसत्त्वः परेषां देशयति / कथञ्च देशयति / किमर्थञ्च देशयति / तत्र यदेव पर्येषते तदेव देशयति / यदर्थञ्च पर्येषते तदर्थमेव परेषां देशयति / द्वाभ्यां पुनराकाराभ्यां देशयति / अनुलोमां च कथां कथयति परिशुद्धां च / तत्र (dutt 75) कथमनुलोमां कथां कथयति / अनुरूपेणेर्यापिथेन स्थिताय देशयति नाप्रतिरूपेण / न उच्चतरके आसने निषण्णायाग्लानाय नोद्गुन्ठिकाकृताय न पुरतो गच्छते विस्तरेण यथासूत्रं वेदितव्यम् / तत्कस्य हेतोः / धर्मगुरवो हि बुद्धबोधिसत्त्वाः / धर्मे हि तत्क्रियमाणे परेषामधिमात्रं धर्मगौरवमुत्पद्यते / श्रवणे चादरजाता भवन्ति नावज्ञाजाताः / सर्वेषां च देशयति / निरन्तरं सर्वं च देशयति / धर्ममात्सर्यमकुर्वन्नाचार्यमुष्टिं धर्मेषु करोति / यथाक्रमं पदव्यंजनमुद्दिशति / यथाक्रमोद्दिष्टं च पदव्यंजनं यथाक्रममेवार्थतो विभजति / अर्थोपसंहितं च धर्ममर्थं चोद्दिशति नानर्थोपसंहितम् / संदर्शयितव्यां संदर्शयति समादापयितव्यां समादापयति समुत्तेजयितव्यां समुत्तेजयति संप्रहर्षयितव्यां संप्रहर्षयति / प्रत्यक्षानुमानाप्तागमयुक्तां च कथां करोति नाप्रमाणयुक्ताम् / सुगतिगमनानुकूलामपि अव्याकुलामपि सुप्रवेशांन गहनां चतुरार्यसत्यप्रतिसंयुक्तामपि सर्वासाञ्च परिषदां या परिषद् या कथा यथार्हति तां तथास्यै कथं करोति / एभिस्तावत्पञ्चदशभिराकारैर्बोधिसत्त्वानां सत्त्वेष्वनुलोमा सर्वपरार्थेषु कथा वेदितव्या /
पुनश्च बोधिसत्त्वः अपकारिषु [सत्त्वेषु] मैत्रचित्ततामुपस्थाप्य कथां करोति / दुश्चरितचारिषु सत्त्वेषु हितचित्ततामुपस्थाप्य कथां कथयति / सुखितदुःखितेषु सत्त्वेषु प्रमत्तेषु दीनेषु हितसुखानुकम्पाचित्ततामुपस्थाप्य कथां करोति / न चेर्ष्यापर्यवस्थानमधिपतिं कृत्वा आत्मानमुत्कर्षयति / न परान् पंसयति / निरामिषेण च चित्तेनाप्रतिकांक्षमाणो लाभसत्कारश्लोकं परेषां धर्मान् देशयति /
एभिः पञ्चभिराकारैर्बोधिसत्त्वः परिशुद्धां कथां कथयति / त एते समासतो विंशतिराकारा भवन्ति / कालेन सत्कृत्यानुपूर्वमनुसन्ध्यनुसहितं हर्षयता रोच[यता] तोषयता उत्साहयता अनवसादयता युक्ता सहिता ऽव्यवकीर्णानुधार्मिकी यथा परिषत् मैत्रचित्तेन हितचित्तेनानुकम्पाचित्तेनानिश्रितेन लाभसत्कारश्लोके आत्मानमनुत्कर्षयता परांश्चापंसयता / एवं बोधिसत्त्वः परेषां धर्मं देशयति /
[तत्र] कतमा बोधिसत्त्वस्य धर्मानुधर्मप्रतिपत्तिः / समासतः पञ्चविधा वेदितव्या / तेषामेव [यथा] पर्येषितानां यथोद्गृहीतानां धर्माणां कायेन वाचा मनसा चानुवर्तना सम्यक् चिन्तना भावना च /
येषां धर्माणां भगवता कायेन वाचा मनसा क्रिया निषिद्धा येषाञ्चाभ्यनुज्ञाता कायेन वाचा मनसा क्रिया तस्य कायवाङ्मनस्कर्मणस्तथैव परिवर्जनं प्रतिनिषेवणा समुदानयता च / कायेन वाचा मनसा चानुवर्तना धर्मानुधर्मप्रतिपत्तिरित्युच्यते /
तत्र सम्यक् चिन्तना बोधिसत्त्वस्य कतमा / इह बोधिसत्त्व एकाकी रहोगतो यथाश्रुतां धर्मांश्चिन्तयितुकामस्तुलयितुकाम उपपरीक्षितुकाम आदित एवाचिन्त्यानि स्थानानि विवर्जयित्वा धर्मांश्चिन्तयितुमारभते प्रततञ्च चिन्तयति / सातस्य सत्कृत्य प्रयोगेण न श्लथम् / किञ्चिच्च बोधिसत्त्वश्चिन्ताप्रयुक्तो युक्त्या विचारयत्यनुप्रविशति / किञ्चिदधिमुच्यत एव / अर्थप्रतिसरणश्च भवति चिन्तयन्न व्यञ्जनप्रतिसरणः / कालानदेशमहापदेशांश्च यथाभूतं प्रजानाति / आदिप्रवेशेन न चिन्तां प्रविशति / प्रविष्टश्च पुनः पुनर्मनसिकारतः सारतामुपनयति / अचिंन्त्यं वर्जयन् बोधिसत्त्वः सम्मोहं चिंत्ताविक्षेपं नाधिगच्छति / प्रततं सातत्य-सत्कृत्य-प्रयुक्तश्चिन्तयन्नविज्ञातपूर्वञ्चार्थ विजानाति लभते विज्ञातञ्च / प्रतिलब्धमर्थं न विनाशयति न संप्रमोषयति / युक्त्या पुनः किञ्चित् प्रवि[चिन्वन्] प्रविशयन् विचारयन् न परप्रत्ययो भवति / तेषु युक्तिपरीक्षितेषु धर्मेषु किञ्चित्पुनरधिमुच्यमानो ये ऽप्यस्य धर्मेषु गम्भीरेषु बुद्धिर्नावगाहते तथागतगोचरा एते धर्मा नास्मद्बुद्धिगोचरा इत्येवमप्रतिक्षिपंस्तान् धर्मानात्मानमक्षतञ्चानुपहतञ्च परिहरत्यनवद्यम् / अर्थं प्रतिसरन् बोधिसत्त्वो न व्यञ्जनं बुद्धानं भगवतां सर्वसन्ध्याय-वचनान्यनुप्रविशति / कालापदेशमहापदेशकुशलो बोधिसत्त्वः तत्त्वार्थान्न विचलयितुं न विकम्पयितुं केनचित् कथंचिच्छक्यते / आदितश्चिन्तामनुप्रविशन् बोधिसत्त्वः अप्रतिलब्धपूर्वां क्षान्तिं प्रतिलभते / तामेव पुनः प्रतिलब्धां (dutt 77) क्षान्तिं सारतामुपनयन् बोधिसत्त्वः भावनाम नुप्रविशति / एभिरष्टाभिराकारैर्बोधिसत्त्वश्चिन्तासंगृहीतां धर्मानुधर्मप्रतिपत्ति प्रतिपन्नो भवति /
भावना कतमा / समासतश्चतुर्विधा वेदितव्या / शमथो विपश्यना शमथविपश्यनाभ्यासः शमथविपश्यनाभिरतिश्च /
तत्र शमथः कतमः / यथापि तद्वोधिसत्त्वः अष्टाकारायाश्विन्तायाः सुसमाप्तत्वान्निरभिलाप्ये वस्तुमात्रे ऽर्थमात्रे आलम्बने चित्तमुपनिबध्य सर्वप्रपञ्चापगतेन सर्वचित्तपरिप्लवापगतेन संज्ञा-मनसिकारेण सर्वालम्बनान्यधिमुच्यमानः अध्यात्मसमाधिनिर्मित्तेषु चित्तं संस्थापयति अवस्थापयति विस्तरेण यावदेकोतीकरोति समाधत्ते / अयमुच्यते शमथः /
विपश्यना कतमा तेनैव पुनः शमथपरिभावितेन मनस्कारेण यथा चिन्तितानां धर्माणां निमित्तमनसिक्रिया विचयः प्रविचयो धर्मप्रविचयः विस्तरेण यावत्पाण्डित्यं प्रज्ञाचारः / इयमुच्यते विपश्यना /
शमथविपश्यनाभ्यासः कतमः / यः शमथविपश्यनायाञ्च सातत्यप्रयोगः सत्कृत्यप्रयोगश्च /
शमथविपश्यनाभिरतिः कतमा / तेष्वेव शमथविपश्यना-निमित्तेषु यच्चित्तस्याचलनं स्वरसेनैवाभिसंस्कारवाहितास्थानं संग्रहो ऽविसरणा / इयमुच्यते शमथविपश्यनाभिरतिः
तत्र बोधिसत्त्वो यथा यथा शमथविपश्यनाभ्यासं करोति तथा तथा शमथविपश्यनाभिरतिः संतिष्ठते / यथा यथा शमथविपश्यनाभिरतिः संतिष्ठते तथा तथा शमथो विपश्यना च परिशुध्यतः / यथा यथा शमथो विशुध्यति तथा तथा कायप्रस्रब्धिश्चित्तप्रस्रब्धिः पृथुवृद्धिवैपुल्यतां गच्छति / यथा यथा विपश्यना विशुध्यति तथा तथा ज्ञानदर्शनं पृथुवृद्धिवैपुल्यतां गच्छति / एतावच्च भावनायाः करणीयम् / यदुताश्रयगतञ्च दौष्ठुल्यमनपनेतव्यं सर्वत्र च ज्ञेये ज्ञानदर्शनं विशोधयितव्यं च / चैतत्सर्वं भावनाकर्मानया चतुराकारया भावनया बोधिसत्त्वस्य संपद्यते /
अववादः कतमः / समासतो ऽष्टविधो वेदितव्यः / यथापि तद्वोधिसत्त्वः समाधिसन्निश्रयेण वा संवासान्वयाद्वा येषामववदितुकामो भवति यो वा पुनरन्यो बोधिसत्त्वो ऽस्मै अववदति तथागतो वा स आदित एव चित्तं पर्येषते जानाति / चित्तं पर्येष्य इन्द्रिय पर्येषते जानाति / इन्द्रियं पर्येष्य आश्रयं पर्येषते जानाति / आशयं पर्येष्यानुशयं पर्येषते जानाति / अनुशयं पर्येष्य यथायोगं यथार्हमेव विचित्रेष्ववतारमुखेष्ववतारयति / यदि वा ऽशुभया यदि वा मैत्र्या यदि वा इदंप्रत्ययता-प्रतीत्यसमुत्पादेन यदि वा धातुभेदेन यदि वा आनापानस्मृत्या यथायोगं यथार्हमवरतारमुखेष्ववतार्य शाश्वतान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति / उच्छेदान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति / अकृते च कृताभिमानं त्याजयति / अप्राप्ते अस्पर्शिते असाक्षात्कृते साक्षात्कृताभिमानं त्याजयति /
सो ऽयमष्टविधो ऽववादः पुनः समासतस्त्रिभिः स्थानैः संगृहीतो वेदितव्यः / त्रीणि स्थानानि कतमानि / अस्थितस्य चित्तस्यादितो ऽवस्थितये सम्यगालम्बनोपनिबन्धः / स्थितचित्तस्य च स्वार्थप्राप्तये सम्यगुपायमार्गदेशना / अनिष्ठितस्वकार्यस्य चान्तराधिष्ठानपरित्यागः / तत्र चित्तेन्द्रियाशयानुशयज्ञानेन यथायोगमवतारमुखावतारणतया च चित्तस्थितये सम्यगालम्बनोपनिबन्धो वेदितव्यः / तत्र शाश्वतोच्छेदान्तासद्ग्राहप्रतिपक्षेण मध्यमया प्रतिपदा स्थितचित्तस्य स्वार्थप्राप्तये सम्यगुपायमार्गदेशना वेदितव्या / तत्राकृते यावदसाक्षात्कृते साक्षात्कृताभिमानत्याजनतया अनिष्ठितस्वकार्यस्यान्तराधिष्ठानपरित्यागो वेदितव्यः / एवमेभिस्त्रिभिः स्थानैरष्टविधो ऽववादः संगृहीतो वेदितव्यः /
एव मेवाववादं परतो वा लभमानो बोधिसत्त्वः परेषां वानुप्रयच्छन्नष्टानां बलानां गोत्रं क्रमेण विशोधयति विवर्धयति ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलस्येन्द्रियपरापरज्ञानबलस्य नानाधिमुक्तिज्ञानबलस्य नानाधातुज्ञानबलस्य सर्वत्र गामिनी प्रतिपज् ज्ञानबलस्य पूर्वेनिवासानुस्मृतिज्ञानबलस्य च्युत्युपपत्तिज्ञानबलस्य च /
तत्रानुशासनं कतमत् / तत्पञ्चविधं वेदितव्यम् / सावद्यसमुदाचारप्रतिषेधः अनवद्यसमुदाचाराभ्यनुज्ञा प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु स्खलितसमाचार-संचोदना पुनः पुनरनादरजातस्य स्खलतः अवसादनया स्मृतिकरणानुप्रदानमकलुषेणाविपरिणतेन स्निग्धेनाशयेन / सम्यक् प्रतिपन्नस्य च प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु भूतगुणप्रियाख्यानतया संप्रहर्षणा / इतीदं समासतः पञ्चाकारं बोधिसत्त्वानामनुशासनं वेदितव्यम् / यदुत प्रतिषेधो ऽभ्यनुज्ञा चोदना ऽवसादना संप्रहर्षणा च /
तत्रोपायसंगृहीतं बोधिसत्त्वानां कायवाङ्मनस्कर्म कतमत् / समासतो बोधिसत्त्वानां चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते / यथोक्तं भगवता चतुःसंग्रहवस्तुसंगृहीतेनोपायेन समन्वागतो बोधिसत्त्वो बोधिसत्त्व इत्युच्यत इति / केन पुनः कारणेन चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते / समासतश्चतुर्विध उपायः सत्त्वानां विनयाय संग्रहाय / नास्त्यत ऊत्तरि नास्त्यतो भूयः / तद्यथा ऽनुग्राहको ग्राहकः अवतारको ऽनुवर्तकश्च / तत्र दानं बोधिसत्त्वस्यानुग्राहकं उपायः / तथा हि विचित्रेणामिषदानेनानुगृह्यमाणाः सत्त्वाः श्रोतव्यं कर्तव्यं वचनं मन्यते / तदनन्तरं बोधिसत्त्वः प्रियवादितया तत्र तत्र सम्मूढानां तत्सम्मोहाशेषापनयाय युक्तिं ग्राहयति सन्दर्शयति / एवमस्य प्रियवादिता ग्राहक उपायो भवति / तथा च युक्त्या ग्राहितान् सन्दर्शितान्सत्त्वान् अकुशलात्स्थानाद् व्युत्थाप्य कुशले स्थाने समादापयति विनयति निवेशयति प्रतिष्ठापयति / सास्यार्थचर्या भवत्यवतारक उपायः / एवञ्च बोधिसत्त्वः तान्सर्वानवतार्य तत्सभागवृत्तसमाचारेणानुवर्तते येनास्य न भवन्ति विनेया वक्तारः / त्वं तावदात्मना न श्रद्धासम्पन्नः शीलसम्पन्नस्त्यागसम्पन्नः प्रज्ञासम्पन्नः कस्माद्भवान् परानत्र समादापयति / तेन च चोदयति स्मारयतीति तस्मात्समानर्थता बोधिसत्त्वस्य चतुर्थो ऽनुवर्तक उपायो वेदितव्यः /
इत्येभिश्चतुर्भिरुपायर्यत्परिगृहीतं समस्तैर्व्यस्तैर्वा बोधिसत्त्वस्य कायकर्म वाक्कर्म मनस्कर्म / तदुपायपरिग्रहणामित्युच्यते सत्त्वानां सम्यक्संग्रहाय विनयाय परिपाचनाय /
इति बोधिसत्त्वभूमावाधारे योगस्थाने अष्टमं बलगोत्रपटलम् /
दानपटलम् (छप्तेर् 1.9)
उद्दानं /
स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम् / स्यात् सात्पौरुष्ययुक्तञ्च सर्वाकारं तथैव च //
विघातार्थिकयुक्तञ्च इहामुत्र सुखं तथा / विशुद्धञ्च नवाकारं दानमेतत्समासतः //
इह बोधिसत्त्वः क्रमेण षट्पारमितां परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते / दानपारमितां शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताञ्च /
तत्र कतमा बोधिसत्त्वस्य दानपारमिता / नवाकारं दानं बोधिसत्त्वस्य दानपारमितेत्युच्यते / स्वभावदानं सर्वदानं दुष्करदानं सर्वतोमुखं दानं सत्पुरुषदानं सर्वाकारदानं विघातार्थिकदानमिहामुत्रसुखं दानं विशुद्धदानं च /
कश्च दानस्य स्वभावः / या चेतना सर्वपरिष्कार-स्वदेहनिरपेक्षस्य बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्यागाय कायवाक्कर्मानवद्यश्च सर्वदेयवस्तुपरित्यागः / संवरस्थायिनः आगमदृष्टेः फलदर्शिनो यो येनार्थी तस्य च तद्वस्तुप्रतिपादना बोधिसत्त्वस्य दानस्वभावो वेदितव्यः /
तत्र सर्वदानं कतमत् / सर्वमुच्यते समासतो द्विविधं देयवस्तु / आध्यात्मिकं बाह्यञ्च / तत्र आ मज्ज्ञः स्वदेहपरित्यागो बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्याग इत्युच्यते / यत्पुनर्बोधिसत्त्वो वान्ताशिनां सत्त्वानामर्थे भुक्त्वा भुक्त्वा ऽन्नपानं वमति / तत्संसृष्टमाध्यात्मिकबाह्यवस्तुदानं बोधिसत्त्वस्येत्युच्यते / एतद्यथोक्तं स्थापयित्वा परिशिष्टदेयवस्तुपरित्यागो बाह्यदेयवस्तुपरित्यागः एवोच्यते / तत्र बोधिसत्त्वः परेषां देहार्थिनां समासतो द्वाभ्यामाकाराभ्यां स्वदेहमनुप्रयच्छति / यथाकामकरणीयं वा परवश्यं परविधेयमात्मानं परेषामनुप्रयच्छति / तद्यथापि नाम कश्चित् परेषां (dutt 81) भक्ताच्छादनहेतोर्दासभावमुपगच्छेत् / एवमेव निरामिषचित्तो बोधिसत्त्वः परमबोधिकामः परहितसुखकामो दानपारमित्तां परिपूरयितुकामो यथाकरणीयं परेषां वश्यं परविधेयमात्मानं परेषामनुप्रयच्छति / करचरणनयनशिरो ऽङ्गप्रत्यङ्गार्थिनां मांसरुधिरस्नाय्वर्थिनां यावन्मज्जायिनां यावन्मज्जानमनुप्रयच्छति / द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वो बाह्यं वस्तु सत्त्वेभ्यः परित्यजति / यथासुखपरिभोगाय वा याचितकमनुप्रयच्छति / तद्वशित्वाय वा सर्वेण सर्व निर्मुक्तेन चित्तेनानुप्रयच्छति / न च पुनर्बोधिसत्त्वः सर्वमाध्यात्मिकबाह्यं वस्त्वविशेषेणैव सर्वथा च सत्त्वानां ददाति / किञ्च बोधिसत्त्वो द्विविधादस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां ददाति / कथं न ददाति / यदस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां दानं सुखायैव स्यान्न तु हिताय नैव वासुखाय नापि हिताय तद्बोधिसत्त्वः परेषां न ददाति / यत्पुनर्हिताय स्यान्नावश्यं सुखाया-सुखाय वा पुनर्हिताय च तद्वोधिसत्त्वः परेषां दानं ददाति / इत्ययं तावद्दानस्य चादानस्य च समासनिर्देशः /
अतः परं विस्तरविभागो वेदितव्यः / इह बोधिसत्त्वः परोत्पीडनाय [परवधाय] परवञ्चनाय चायोगविहितेन चोपनिमन्त्रितमात्मानं परवश्यं परविधेयं न ददाति / अप्येव नाम बोधिसत्त्वः शतकृत्वः सहस्रकृत्वः स्वजीवितपरित्यागमपि परेषामन्तिकादभ्युपगच्छेत् / नत्वेव राज्ञया पराराधनार्थं परोत्पीडनां परवधं परवञ्चनां वा कुर्यात् / यदि च बोधिसत्त्वः शुद्धाशयो भवति दानमारभ्य सो ऽपि सत्त्वकार्ये प्रभूते करणीये प्रत्युपस्थिते स्वदेहाङ्गप्रत्यङ्गयाचनके च प्रत्युपस्थिते न स्वदेहाङ्गप्रत्यङ्गान्यनुप्रयच्छति / तत्कस्य हेतोः / न ह्यस्य बोधिसत्त्वस्य दानमारभ्य शुद्धाशयस्य पुनः केनचित्पर्यायेणेदं दातव्यमस्मै दातन्यमिति भवति चेतसः संकोचः / तस्मादसौ बोधिसत्त्वो यदाशयशुद्ध्यर्थं प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य दद्यात् सो ऽस्याशयः शुद्ध इति न (dutt 82) प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य ददाति / न च मारकायिकेषु देवेषु याचनकेषु विहेठाभिप्रायेषु प्रत्युपस्थितेषु स्वदेहमङ्गविभागशो ददाति / मा हैव तेषामधिमात्रा क्षतिश्चोपहतिश्च भविष्यतीति यथा मारकायिकेषु देवेषु / एव तदादिष्टेषु सत्त्वेषु वेदितव्यम् / नापि चोन्मत्तक्षिप्तचित्तेषु बोधिसत्त्वः स्वदेहमङ्गविभागशो ऽनुप्रयच्छति / न हि ते स्वचित्ते ऽवस्थिताः / नार्थिनो मृगयन्ते / नान्यत्र विप्रलापः / स तेषामस्वतन्त्रत्वाच्चेतसः तस्मान्न ददाति / एतानाकारान् स्थापयित्वा एतद्विपर्ययात् स्वदेहं तावद्बोधिसत्त्वः परविधेयतया वा ऽङ्गप्रत्यङ्गविभागशो वार्थिभ्यः परित्यजति / एवन्तावद्बोधिसत्त्वस्याध्यात्मिकस्य वस्तुनो दानञ्चादानञ्च वेदितव्यम् /
बाह्यात्पुनर्वस्तुनो बोधिसत्त्वो यानि विषाग्निशस्त्रमद्यानि सत्त्वानामुपघाताय तानि नानुप्रयच्छत्यर्थिभ्यः आत्मोपघाताय वा याचितान्यर्थिनां परोपघाताय [वा] / यानि पुनर्विषाग्निशस्रमद्यान्यनुग्रहाय सत्त्वानां तानि बोधिसत्त्वो ददात्यर्थिभ्य आत्मनो वा ऽनुग्रहाय याचितान्यर्थिनां परानुग्रहाय वा / पुनर्न च बोधिसत्त्वः परकीयं द्रविणमविश्वास्यं परेभ्यो ऽनुप्रयच्छति / न च बोधिसत्त्वः साञ्चरित्रेण परदारमुपसंहृत्य परेषामनुप्रयच्छति / न च सप्राणकं पानभोजनमनुप्रयच्छति / यदपि [रति]क्रीडोपसंहितमनर्थोपसंहितं सत्त्वानां बोधिसत्त्वस्य देयं वस्तु तदपि बोधिसत्त्वो ऽर्थिभ्यो न ददाति / तत्कस्य हेतोः / यद्यपि तद्वस्तु तेषां चित्तप्रसादमात्रकमुत्पादयेद् बोधिसत्त्वस्यान्तिके / अपितु विपुलतरमस्य तद्दानमनर्थं कुर्याद्यद्धेतोरसौ मदं प्रमादं दुश्चरितमध्यापद्यमानः कायस्य भेदादपायेषूपपद्यते / स चेत्पुनस्तद्रतिक्रीडादिकं व तु नापायगमनाय भवेन्नापि चाकुशलमूलोपचयाय कामं तद्बोधिसत्त्वस्तादृशं रतिक्रीडादिकं वस्त चित्तप्रसादहेतोरनुप्रच्छेदर्थिभ्यस्तेनापि वस्तुना संग्रहाय परिपाकाय / कीदृशं पुना रतिक्रीडावस्तु बोधिसत्त्वो न ददात्यर्थिभ्यः /
किदृशं ददाति / तद्यथा मृगवधशिक्षां बोधिसत्त्वो न ददाति / क्षुद्रयज्ञेषु च महारम्भेषु येषु बहवः प्राणिनः संघातमापद्य जीविताद्व्यपरोप्यन्ते / तद्रूपान् यज्ञान्न स्वयं यजति न परैर्याजयति / नापि च देवकुलेषु पशुवधमनुप्रयच्छति / न च प्रभूतप्राण्याश्रितान् [देशान्] जलजैर्वा [स्थलजैर्वा] प्राणिभिरध्युषितांस्तेषां प्राणिनामुपरोधाय याचितो ऽनुप्रयच्छति / (dutt 83) न जालानि न यन्त्राणि न जालयन्त्रशिक्षां प्राणिनामुपरोधाय याचितो ऽनुप्रयच्छति / नाप्याक्रोशाय वधाय बन्धाय दण्डनाय कारणाय शत्रूणां शत्रुमनुप्रयच्छति / समासतो बोधिसत्त्वो यत्किञ्चित् परसत्त्वोत्पीडया परसत्त्वबाधाय सत्त्वानां रतिक्रीडावस्तु तत्सर्वंबोधिसत्त्वो न ददात्यर्थिभ्यः / यानि पुनरिमानि विचित्राणि हस्त्यश्वरथयानवाहनानि वस्त्रालङ्काराणि प्रणीतानि च पानभोजनानि नृत्तगीतवादितशिक्षा नृत्तगीतवादितभाजनानि च गन्धमाल्यविलेपनं विचित्रश्च भाण्डोपस्कर उद्यानानि च गृहाणि स्त्रियश्च परिचर्यायै विविधेषु च शिल्पकर्मस्थानेषु शिक्षा इत्येवंरूपं रतिक्रीडावस्तु बोधिसत्त्वश्चित्तप्रसादहेतोरर्थिभ्यो ऽनुप्रयच्छति / न च बोधिसत्त्वः अमात्रया ऽपथ्यं वा ग्लानायार्थिने ऽपि पानभोजनमनुप्रयच्छति / न तृप्तेषु लोलुपजातीयेषु सत्त्वेषु प्रणीतं पानभोजनमनुप्रयच्छति / नापि च शोकार्तानां सत्त्वानामात्मोद्बन्धनाय वा ताड्नाय वा विषभक्षणाय वा प्रपातपतनाय वा कामकारं ददाति / न च बोधिसत्त्वो मातापितरं सर्वेण सर्वंमर्थिभ्यो ऽनुप्रयच्छति /
तथाहि बोधिसत्त्वस्य मातापितरं परमगुरु-स्थानीयमापायकं पोषकं संवर्धकं तद्बोधिसत्त्वेन दीर्घरात्रं शिरसोद्वहता न खेदमापत्तव्यम् / तयोश्चाधमनबन्धक स्थापनविक्रये आत्मा वश्यो विधेयो दातव्यः / तत्कथं बोधिसत्त्वः परेभ्यो ऽनुप्रदातुमुत्सहेत कुतः पुनः प्रदद्यात् / नापि बोधिसत्त्वो राजा मूर्धाभिषिक्तः प्रभुः स्वे पृथिवीमण्डले सत्त्वानां सपरिग्रहाणां परकीयं पुत्रदारं परेषामन्तिकादाच्छिद्य परेषामनुप्रयच्छति / नान्यत्र कृत्स्नं ग्रामं वा ग्रामप्रदेशं वा जनपदप्रदेशं वा भोगमनुप्रयच्छेत् / यथा ममाभूत्तथा ते भवत्विति / न च बोधिसत्त्वः स्वं पुत्रदारं दासीदासकर्मकरपौरुषेयपरिग्रहं सम्यगसंज्ञप्तमकामकं विमनस्कं परेषामर्थिनामनुप्रयच्छति / सम्यक् संज्ञप्तमपि च सुमनस्कं छन्दजातं नामित्रेषु न यक्षराक्षसेषु न रौद्रकर्मसु प्रतिपादयति / नापि च दासभावाय प्रतिपादयति पुत्रदारं सुकुमारं कुलपुत्रं जनम् / न च बोधिसत्त्वो ऽधिमात्रपरपीडाप्रवृत्तेषु रौद्रकर्मसु याचनकेषु राज्यप्रदानं ददाति / राज्यादपि च तांस्तथाविधान् पुद्गलांश्च्यावयति स चेत् प्रतिबलो भवति च्यावयितुम् / न च बोधिसत्त्वो मातापित्रोरन्तिकाद्भोगानाच्छिद्य याचनकेभ्यः प्रयच्छति / यथा मातापित्रोरेवं पुत्रदारदासीदासकर्मकरपौरुषेयेभ्यः / नापि च (dutt 84) मातापितरं बाधित्वा विस्तरेण यावत्कर्मकरपौरुषेयं बाधित्वा परेभ्यो याचनकेभ्यो देयवस्तु परित्यजति / धर्मण चासाहसेन बोधिसत्त्वो भोगान् संहृत्य दानं ददाति नाधर्मेण साहसेन /
न परमुत्पीड्योपहत्य न च बुद्धानां भगवतां शासने बोधिसत्त्वो व्यवस्थितः शिक्षां व्यतिक्रम्य कथञ्चित् दानं ददाति / दानञ्च ददद् बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो ददाति दक्षिणीयबुद्धिमुपस्थाप्य मित्रामित्रोदासीनेषु गुणवत्सु दोषसत्सु हीनेषु तुल्येषु विशिष्टेषु सुखितेषु दुःखितेषु च / न च बोधिसत्त्वो यथोक्ताद्यथाप्रतिज्ञाताद्याचनकाय न्यूनं दान ददाति / नान्यत्र सम वा अधिकं वा / न च बोधिसत्त्वः प्रणीतं वस्तु प्रतिज्ञाय लूहं प्रत्यवरं ददाति / नान्यत्रलूहं प्रत्यवरं प्रतिज्ञाय प्रणीतं ददाति संविद्यमाने प्रणीते / न च बोधिसत्त्वो विमनस्को न क्रुद्धः क्षुभितमानसो दानं ददाति / नापि च दानं दत्त्वा निन्दयति पुनः पुनः परिकीर्तनतया एवं चैवञ्च त्वं मया दानेनानुगृहीतः सवर्धितो ऽभ्युद्धृतो वेति / न च बोधिसत्त्वो निहीनपुरुषस्यापि दानं दददपविद्धमसत्कृत्यानुप्रयच्छति प्रागेव गुणवतः /
न च बोधिसत्त्वो विविधविप्रतिपत्तिस्थितानामुद्धतानामसंवृतात्मनां
याचनकानामाक्रोशकानां रोषकाणां परिभाषकाणां विप्रतिपत्त्या खिन्नमानसो दानं ददाति / नान्यत्र तेषामेवान्तिके बोधिसत्त्वो भूयस्या मात्रया क्लेशावेशप्रकृतितामवगम्यानुकम्पाचित्तमुपस्थाप्य दानं ददाति / न चासद्दृष्ट्या परामृष्टं [दानं] ददाति / तद्यथा महारौद्रयज्ञेषु न हिंसादानेन धर्मं प्रत्येति / नापि कौतकमङ्गलप्रतिसंयुक्तं दानं ददाति / नापि सुविशुद्धेनापि सर्वाकारेण दानमात्रकेण लौकिकलोकोत्तरां वैराग्यविशुद्धिं प्रत्येति नान्यत्र / संभारमात्रकतया विशुद्धेर्दानं धारयति / न च फलदर्शी ददाति / सर्वञ्च दानमनुत्तरायां सम्यक् सम्बोधौ परिणामयति / सर्वप्रकारस्य दानस्य सर्वं प्रकारं यथाभूतं फलं विपाके ऽभिसंप्रत्ययजातो बोधिसत्त्वो ऽपरप्रत्ययो ऽनन्यनेयो दानं ददाति तद्यथा ऽन्नदो बलवान् भवति / वस्त्रदो वर्णवान् यानदः सुखितः चक्षुष्मान् प्रदीपद इत्येवमादि विस्तरेण वेदितव्यम् / न च बोधिसत्त्वो दारिद्र्यभयभीतो दानं ददाति / नान्यत्र कारुण्याभिप्राय एव / न च बोधिसत्त्वो याचनकानामप्रतिरूपं दानं ददाति / तद्यथा यतीनामुच्छिष्टं वा पानभोजनमुच्चारप्रस्रावखेटशिंघाणकवान्तविरिक्तपूयरुधिंरसंसृष्टं (dutt 85) वा अभिदूषितं वा / अनाख्यातमप्रतिसंवेदितमोदनकुल्माषमुत्सर्जनधर्मी / तथा
अपलाण्डुभक्षाणां पलाण्डुसंमिश्रं पलाण्डुसंसृष्टम् / एवममांसभक्षाणाम् / अमद्यपानां मद्यमिश्रं मद्यसंसृष्टं वा / तथा ऽप्रतिरूपे कर्मणि विनियोज्य बोधिसत्त्वो न परेषां दानं ददाति / इत्येवंभागीयमप्रतिरूपं दानं न ददाति / न च पुनर्बोधिसत्त्वो याचनकं पुनः पुनर्याचनतया गतप्रत्यागतिकतया सेवावृत्तसंविधानेन परिक्लिश्य दानं ददाति / नान्यत्र याचितमात्र एव / न च बोधिसत्त्वः कीर्तिशब्दश्लोकमिश्रितं दानं ददाति / न [च] परतः प्रतिकारसन्निश्रितं न शक्रत्वमारत्वचक्रवर्तित्वैश्वर्यसन्निश्रितं [ददाति] / न च परेषां कुहनार्थं दानं ददाति / कच्चिन्मां परे राजानो वा राजमहामात्या वा नैगमजनपदा ब्राह्मणगृहपतयो धनिनः श्रेष्ठिनः सार्थवाहा दातारं दानपतिं विदित्वा सत्कुर्युर्गुरूकुर्युर्मानयेयुः पूजयेयुरिति / न च कार्पण्यदानं ददाति / अल्पादपि विशदं ददाति प्रागेव प्रभूतात् / न च परेषां विप्रलम्भाय दानं ददाति /
अनेन दानेन विलोभ्य विश्रम्भयित्वा पश्चादेनं विप्रवादयिष्यामीति / न च विभेदाय परतः परेषां दानं ददाति / तद्यथा दानेन ग्रामं वा ग्रामप्रदेशं वा जनपदं वा जनपदप्रदेशं वा विभेद्य स्वामिनामन्तिकादाच्छेत्स्याम्याक्रमिष्यामीति / दक्षश्च बोधिसत्त्वो भवत्यनलसश्च उत्थानसम्पन्नः स्वयं च सन्नद्धः परिकरे पूर्वङ्गमो देयवस्तु परित्यागे स्वयञ्च ददाति परैश्च दापयति न स्वयं कौसीद्यं प्राविष्कृत्य परानाज्ञापयति दानाय / महान्तमपि गणसन्निपातमर्थिनां शीलवद्दुःशीलानां सन्निषण्णं संनिपतितं विदित्वा वृद्धान्तमुपादाय यावन्नवकान्तं तत्सर्वं देयवस्तु गतप्रत्यागतिकतया पुनः पुनरनुक्रमेण प्रतिपादयति न च बोधिसत्त्वः प्रभूतेषु विपुलेषु विस्तीर्णेषु भोगेषु संविद्यमानेषु मितं दानं ददाति / न च परविहेठनाय परेषां दानं ददाति / आक्रोशनाय वा रोषणताडनतर्जनकुत्सनकबन्धनच्छेदनरोधनप्रवासनाय वा दानं ददाति / पूर्वमेव च दानाद् बोधिसत्त्वः सुमना भवति ददच्चित्तं प्रसादयति / दत्त्वा चाविप्रतिसारी भवति / न च शाठ्याद्दानं ददाति मणिमुक्ताशङ्खशिलावैदूर्यप्रवाडादिप्रतिरूपकाणि तदाशावतां सत्त्वानाम् / न च बोधिसत्त्वेन किञ्चिदल्पं [वा प्रभूतं वा] देयवस्तु यन्न प्रागेव चेतसा सर्वसत्त्वानां (dutt 86) निर्मुक्तं भवति / पश्चाद्याचकः स्वकमिव धनं याचितकानुप्रदत्तं बोधिसत्त्वाद्याचते / कालेन च बोधिसत्त्वो दानं ददाति नाकालेन / कल्पिकमात्मनः परस्य च नाकल्पिकम् / आचारेण नानाचारेण / अविक्षिप्तेन च चेतसा न विक्षिप्तेन / न च बोधिसत्त्वो याचनकमवहसति नावस्पण्डयति / म मङ्कुभावमस्योपसंहरति / न भृकुटीकृतो भवति / उत्तानमुखवर्णः स्मितपूर्वंङ्गमः पूर्वाभिभाषी भवति / न च विलम्बितं त्वरितं त्वरितं दानं ददाति / अयाचितो ऽपि बोधिसत्त्वः स्वयं प्रवारयित्वा परान् यो येनार्थी भवति तस्य तद्ददाति / स्वयं गृहीतं चैषामभ्यनुजानाति / न च बोधिसत्त्वो दौष्प्रज्ञदानं ददाति / ददत् प्राज्ञदानमेव ददाति /
प्राज्ञदानं बोधिसत्त्वस्य कतमत् / इह बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु पूर्वमेव याचनकाभ्यागमनादेवं चित्तमभिसंस्करोति / स चेन्मे द्वौ याचनकावागच्छेतां सुखितश्चाकृपणो ऽवराकः सनाथः सप्रतिसरणः दुःखितश्च कृपणो वराकः अनाथः अप्रतिसरणः / तेन मया सचेन्मे भोगानां द्वयोरपि सन्तर्पणायेच्छापरिपूरये तदा संभवो ऽस्ति उभौ सन्तर्पयितव्यौ / द्वयोरपीच्छा परिपूरिः करणीया / स चेन्न तावद्भोगसंभवः स्यादहं द्वयोः सन्तर्पयेयं यदिच्छापरिपूरिञ्च कुर्यां सुखितमपहाय दुःखिताय दानं देयम् / अकृपणमवराकं सनाथं सप्रतिसरणमपहाय कृपणाय वराकाय अनाथायाप्रतिसरणाय दानं देयमिति / स एवं चित्तमभिसंस्कृत्य यथाभिसंस्कारमेव कर्मणा संपादयति / स चेत्पुनः सुखितस्य याचनकस्येच्छां न शक्नोति परिपूरयितुं स तमेव पूर्वकं स्वचित्ताभिसंस्कारकल्पमुपादाय तं याचकमेवं संज्ञप्य प्रेषयति / अस्य मया दुःखितस्य पूर्वनिसृष्टं पूर्वप्रतिज्ञातमेतद्देयवस्तु अतो मया ऽस्यैव प्रतिपादितम् / न च मे त्वय्यदातुकाममना अस्ति / अतो न भद्रमुखेनास्माकमन्तिके प्रणयविमुखता करणीयेति / पुनरपरं बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु यानि तानि मत्सरिकुलानि भवन्ति परममत्सरिकुलान्यागृहीतपरिष्काराणि कुटकुञ्चकानि येषु न जातु श्रमणब्राह्मणेषु देयधर्मे प्रजायते तानि बोधिसत्त्वः कुलान्युपसंक्रम्य प्रतिसंमोद्य प्रणयञ्च संविधायैवमाह / अङ्ग तावत्ते भवन्तः अकोशक्षयेण महता उपकारेण प्रत्यवस्थिता भवन्तु / मम गृहे विपुला भोगा विपुला देयधर्माः (dutt 87) संविद्यन्ते /
सो ऽहं दानपारमितापरिपूरये याचनकेनार्थी / स चेद्यूयं याचनकमारागयथ मा निराकृत्य विसर्जयिष्यथ मदीयं धनं देयधर्ममादाय तेभ्यो वा विसृजत यथासुखमेव / अथवा तं याचनकमस्माकमुपसंहरथ दीयमानञ्च मया दानमनुमोदथ / ते च तस्य प्रतिश्रुत्याकोशक्षयेण प्रियेणायं कुलपुत्रो ऽस्माकमाराधितचित्तो भवतीति तथा कुर्वन्ति / एवं हि तेन बोधिसत्त्वेन येषामायत्यां मात्सर्यमलविनयाय बीजमवरोपितं भवति / क्रमेण च तेनाभ्यासेन तेन प्रज्ञापूर्वकेणोपायकौशल्येन स्वकमपि परीत्तं परेभ्यो धनमनुप्रयच्छन्ति / मृदुकमलोभं निश्रित्य मध्यं प्रतिलभन्ते / मध्यं निश्रित्याधिमात्रं प्रतिलभन्ते / पुनरपरं बोधिसत्त्वो ये ऽस्य भवन्त्याचार्योपाध्यायाः सार्धविहार्यन्तेवासिनः सब्रह्मचारिणश्च लोभप्रकृतयो लुब्धजातीया ये च न लुब्धजातीया अपि तु देयधर्मवैकल्यादिच्छाविघातवन्तस्तत्र बोधिसत्त्वो बुद्धावरोपितं वा धर्मा[वरोपितं वा] संघावरोपितं वा दानमयं पुण्यक्रियावस्तु कर्तुकामस्तेषामेवोत्सृजति / तान् देय धर्मांस्तैः कारयति न स्वयं करोति / एवं तेन बोधिसत्त्वेन स्वयञ्च बहुतरं पुण्यं प्रसूतं भवति / तदेकत्यानाञ्च सब्रह्मचारिणां क्लेशविनयः कृतो भवति / तदेकत्यानां धर्मेच्छापरिपूरिः कृता भवति / सत्त्वसंग्रहः सत्त्वपरिपाकश्च कृतो भवति / पुनरपरं बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु याचनकमाकूटननिमित्तमात्रकेणैव ज्ञात्वा यथाकामं देयधर्मैः प्रतिपादयति / यो ऽपि चैनमुपसंक्रान्तो भवति कूटवाणिज्यनैवं व्यंसयिष्यामीति /
तस्यापि भावमाज्ञाय तद्दुश्चरितमन्येषामपि तावच्छादयति प्रागेव तस्यैव / इच्छाञ्चास्य परिपूरयति येनासावमङ्कुरुदग्रो विशारदः सौमनस्यजातो विप्रक्रामति / येनापि च बोधिसत्त्वः कूट-कपटेन वञ्चितो भवति न चानेन सा वञ्चना पूर्वं प्रतिविद्धा भवति पश्चाच्च प्रतिविध्यति / प्रतिविध्य न च तेन वस्तुना पुनस्तं व्यंसकं पुद्गलञ्चोदयति स्मारयति / सर्वञ्च तच्छलकृत मदत्तादानमस्मै भावेनाभ्यनुमोदते / इत्येवंभागीयं तावद्बोधिसत्त्वस्य सत्सु संविद्यमानेषु प्राज्ञदानं वेदितव्यम् / पुनरपरं बोधिसत्त्वः असत्सु असंविद्यमानेषु देयधर्मेषु कृतावी बोधिसत्त्वस्तेषु तेषु शिल्पकर्मस्थानेषु स तद्रूपं शिल्पकर्मस्थानमामुखीकरोति / (dutt 88) येनाल्पकृच्छ्रेण महान्तं धनस्कन्धमभिनिर्जित्याध्यावसति / परेषाञ्चित्रकथो मधुरकथः कल्याणप्रतिभानो बोधिसत्त्वास्तथा धर्मदेशनां प्रवर्तयति यथा दरिद्राणामपि सत्त्वानां दातुकामता सन्तिष्ठते प्रागेवाढ्यानाम् / मत्सरिणामपि प्रागेव त्यागशीलानाम् / यानि वा पुनस्तानि श्राद्धकुलानि येष्वहरहः प्रवृता एव देयधर्मा विस्तीर्णभोगतया तेषु कुलेषु आगतागतान् याचनकानुपसंहरति / स्वयमेव वा गत्वा दानेषु दीयमानेषु पुण्येषु क्रियमाणेषु दक्षो ऽनलस उत्थानसम्पन्नश्चित्तमभिप्रसाद्य कायेन वाचा यथाशक्त्या यथाबलं व्यापारं गच्छति / सुप्रतिपादितञ्च तद्दानं याचनकेषु करोति / एवं हि तद्दानम् / यदुपस्थापक-वैगुण्याद् दुष्प्रतिपादितं स्यात् पक्षपतितं वा अनादरतो वा स्मृतिसंप्रमोषतो वा तन्न भवति /
एवं हि बोधिसत्त्वः असत्स्वसंविद्यमानेषु भोगेषु प्राज्ञदानस्य दाता भवति यावदाशयशुद्धि नाधिगच्छति / शुद्धाशयस्तु बोधिसत्त्वो यथैवापासमतिक्रमं प्रतिलभते तथैवाक्षयभोगतां जन्मनि प्रतिलभते / पुनरपरं बोधिसत्त्वो न तीर्थिकाय रन्ध्रप्रेक्षिणे धर्मं मुखोद्देशतो वा पुस्तकगतं वा ददाति / नापि लोभप्रकृतये पुस्तकं विक्रेतुकामाय सन्निधिं वा कर्तुकामाय / न तु तेन ज्ञानेनानर्थिने [ज्ञानेनार्थिने वा] / पुनः स चेत्कृतार्थः पुस्तकेन भवति स्वयं ददात्यस्मै यथासुखमेव / स चेदकृतार्थो भवति यस्यार्थे तेन तत्पुस्तकमन्वावर्तितम् / एवमसौ बोधिसत्त्वः आदर्शमन्यं दृष्ट्वा लेखयित्वा वान्यद्ददाति / स चेन्नैवादर्शं पश्यति नापि लेखयितुं शक्नोति तेनादित एवं स्वचित्तं प्रत्यवेक्षितव्यम् / मा हैव मे धर्ममात्सर्यमलपर्यवस्थितं चित्तम् / मा हैवाहमाशयत एव न दातुकामो ऽभिलिखितं धर्मम् / स चेत्स एवं प्रत्यवेक्षमाणो जानीयादस्ति मे धर्ममात्सर्यमलसमुदाचारो ऽपि तेन बोधिसत्त्वेनैवं चित्तमभिसंस्कृत्य दातव्यम् / एवं धर्मदानं स्यात् / यद्यहमनेन धर्मदानेन मूक एवं स्यां दृष्टे धर्मे तथापि मया ऽनधिवास्य क्लेशं दातव्यमेव स्याद्धर्मदानम् / प्रागेव ज्ञानसंभारविकलः / स चेत्पुनः प्रत्यवेक्षमाणो जानीयान्नास्ति मे [धर्म] मात्सर्यमलसमुदाचारो ऽपि तेन बोधिसत्त्वेनैवं प्रतिसंशिक्षितव्यम् / अहम् [आत्मनः] क्लेशनिर्घातनार्थं वा एतद्धर्मदानं दद्यां ज्ञानसंभारपरिपूरणार्थं वा सत्त्व (dutt 89) प्रियतायैव वा / सो ऽहं क्लेशं तावन्न पश्यामि /
ज्ञानसंभारमपि दृष्टधर्मसाम्परायिकं प्रभूततरमननुप्रदानात् पश्यामि / न पदानात् / साम्परायिकमेव प्रतनुकं धर्मलाभप्रचुरतायै / अननुप्रयच्छंश्चाहं सर्वसत्त्वानां हितसुखाय ज्ञानं समुदानय तस्य च सत्त्वस्य तदन्येषाञ्च सर्वसत्त्वानां प्रियकारी भवामि / अनुप्रच्छन्नस्यैवैकस्य सत्त्वस्य प्रियकारी इति विदित्वा यथाभूतं स चेद्बोधिसत्त्वो न ददात्यनवद्यो भवत्यविप्रतिसारी / असमतिक्रान्तश्च भवति बोधिसत्त्ववृत्तम् /
कथञ्च पुनर्न ददाति / न खलु पुनर्बोधिसत्त्वः उत्सहते याचनकं निष्ठुरया वाचा प्रतिक्षेप्तुम् / न ते दास्यामीत्यपि उपायकौशल्यनैनं संज्ञप्यानुप्रेषयति / तत्रेदमुपायकौशल्यम् / प्रागेव बोधिसत्त्वेन सर्वपरिष्काराः सर्वदेयधर्मा दशसु दिक्षु विशद्धेनाशयेन बुद्धबोधिसत्त्वानां विसृष्टा भवन्ति विकल्पितास्तद्यथापि नाम भिक्षुराचार्याय वा उपाध्यायाय वा चीवरं विकल्पयेत् / स एवं विकल्पहेतोः सर्वविचित्रोदारपरिष्कारदेयधर्मसन्निधिप्राप्तो ऽप्यार्यवंशविहारी बोधिसत्त्व इत्युच्यते / अप्रमेयपुण्यप्रसोता च भवति / तञ्च पुण्यमस्य नित्यकालं तद्बहुलमनस्कारस्य सर्वकालानुगतमभिवर्धते / स तान् देयधर्मान् बुद्धबोधिसत्त्वनिक्षिप्तानिव धारयति / यदि याचनकं पश्यति युक्तरूपश्चास्मिन् यथेप्सितं देयधर्मप्रतिपादनं पश्यति / स नास्ति तत् किञ्चिद् बुद्धबोधिसत्त्वानां यत्सत्त्वेषु अपरित्यक्तमिति विदित्वा याचनकस्येच्छां परिपूरयति / नो चेद्युक्तरूपं समनुपश्यति स तमेव कल्पमुपादाय परकीयमेतद् भद्रमुख न चैतद्युष्माकमनुज्ञातं दातुमिति श्लक्ष्नेन वचसा संज्ञप्यैनं प्रेषयति / अन्यद्वा तद् द्विगुणं त्रिगुणं दानमानसत्कारं कृत्वानुप्रेषयति / येनासौ जानीते नायं बोधिसत्त्वो लोभात्मकतया ऽस्माकं न दातुकामः / अपि तु नूनमस्वतन्त्र एवं तस्मिन् पुस्तकधर्मदाने येन न ददातीति / इदमपि बोधिसत्त्वस्य धर्मदानमारभ्य प्राज्ञदानं वेदितव्यम् / पुनरपरं बोधिसत्त्वः सर्वदानानि धर्मामिषाभय[दाना]नि प्रर्यायतो ऽपि लक्षणतो ऽपि निर्वचनतो ऽपि हेतुफलप्रभेदतो ऽपि यथाभूतं प्रजानन्ननुप्रयच्छति / इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् / पुनरपरं बोधिसत्त्वः अपकारिषु सत्त्वेषु मैत्र्याशयो दानं ददाति / दुःखितेषु करुणाशयः / गुणवत्सु मुदिताशयः / (dutt 90) उपकारिषु मित्रेषु सुहृत्सूपेक्षाशयः / इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् /
पुनरपरं बोधिसत्त्वो दानविबन्धनमपि दानविबन्धप्रतिपक्षमपि यथाभूतं प्रजानाति / तत्र चत्वारो दानविबन्धाः / पूर्वको ऽनभ्यासः / देयधर्मपरीत्ततावैकल्यम् / अग्रे मनोरमे च वस्तुनि गृद्धिः आयत्याञ्च भोगसम्पत्ति फलदर्शनाभिनन्दनता / यतश्च बोधिसत्त्वस्य देयधर्मेषु संविद्यमानेषु याचनके च सम्यगुपस्थिते दाने चित्तं न क्रामति / सो ऽनभ्यासकृतो मे ऽयं दोष इति लघु लध्वेव प्रज्ञया प्रतिसिध्यति / एवञ्च पुनः प्रतिविध्यति / नूनं मया पूर्वं दानं न दत्तं येन मे एतर्हि सम्यक् संविद्यमानेषु भोगेषु सम्यक् प्रत्युपस्थिते च याचनके दाने चित्तं न क्रामति / स चेदेतर्हिन प्रतिसंख्याय दास्यामि पुनरपि मे आयत्यां दानविद्वेषो भविष्यति / स एव प्रतिबिध्य दानप्रतिबन्धप्रतिपक्ष निशृत्य प्रतिसंख्याय ददाति / नाभ्यासकृतदोषानुसारी भवति न तद्वशगः / पुनरपरं बोधिसत्त्वस्य स चेद्यद् याचनके सम्यक् प्रत्युपस्थिते परीत्तभोगतया दाने चित्तं न क्रामति स त विघातकृत दानविप्रतिबन्धहेतुं लघु-लघ्वेव प्रज्ञया प्रतिविध्य तद्विघातकृतं दुःखमधिवासयन् प्रतिसंख्याय कारुण्याद्दानं ददाति / तस्यैवं भवति / पूर्वकर्मदोषेण वा परविनेयतया वा मया बहूनि प्रगाढानि क्षुत् पिपासादिकानि दुःखान्यनुभूतानि भवे विना परानुग्रहम् / यदि च मे मरणाय कालक्रियायै सवर्तेत एतद्दानकृत परानुग्रहहेतुक दृष्टे धर्मे दुःख तथापि मे दानमेव श्रेयो न तु याचनकनिराकरणम् / प्रागेव यः कश्चिद्येन केनचिच्छाकपत्रेण जीवति इत्येवं बोधिसत्त्वस्तद्विघातकृतं दुखमधिवास्य दान ददाति /
पनरपर बोधिसत्त्वस्य सम्यग् याचके प्रत्युपस्थिते स चेदधिमात्रमनापत्वादग्र्यत्वाद्देयवस्तुनो दाने चित्त न क्रामति त बोधिसत्त्वो गर्धकृत् दोष लघु-लघ्वेव प्रतिज्ञया प्रतिविध्य दुःखे मे एष सुखसंज्ञाविपर्यासः आयत्यां दुःखजनक इति विपर्यासपरिज्ञानात्तञ्च प्रहाय प्रति संख्याय तद्वस्तु ददाति / पुनरपरं बोधिसत्त्वस्य स चेद्दानं दत्त्वा दानफले (dutt 91) महाभोगतायामनुशंसदर्शनमुत्पद्यते नानुत्तरायां सम्यक्संबोधौ तं बोधिसत्त्वो मिथ्याफलदृष्टिकृतं दोषं लघु-लघ्वेव प्रज्ञया प्रतिविध्य सर्वसंस्काराणामसारतां यथाभूतं प्रत्यवेक्षते / सर्वसंस्काराः क्षणभङ्गुराः फलोपभोगपरिक्षयभङ्गुरा विप्रयोगभङ्गुराश्च / स एवं प्रत्यवेक्षमाणः फलदर्शनं प्रहाय यत्किञ्चिद्दानं ददाति सर्वं तन्महाबोधि-परिणामितमेव ददाति /
तदिदं बोधिसत्त्वस्य चतुर्विधस्य दानविबन्धस्य चतुर्विधं दानप्रतिवन्धप्रतिपक्षज्ञानं वेदितव्यम् / प्रतिवेधो दुःखादिवासना विपर्यासपरिज्ञानं संस्कारासारत्वदर्शनञ्च / तत्र त्रिविधेन बोधिसत्त्वः प्रतिपक्षज्ञानेन पूर्वकेण नियतं सम्यक् च दानं ददाति / एकेन पश्चिमेन प्रतिपक्षज्ञानेन सम्यक् पुण्यफलपरिग्रहं करोति / इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् /
पुनरपरं बोधिसत्त्वः अध्यात्म्यं रहोगतः शुद्धेनाशयेन घनरसेन प्रसादेन संकल्पैर्विचित्रानुदारानप्रमेयान् देयधर्मानधिमुच्य सत्त्वेषु दानाय प्रतिपादितायाभिलषति येन बोधिसत्त्वः अल्पकृच्छ्रेणाप्रमेयं पुण्यं प्रसूयते / इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम् / तदिदं बोधिसत्त्वस्य प्राज्ञस्य [महा]प्राज्ञदानम् / एवं समासतः संविद्यमानेष्वसंविमादेषु चामिषदानसंगृहीतेषु देयधर्मेषु तथा धर्मदानमुपादाय प्रतिसंविदमुपादायाध्याशयदानमुपादाय दानविप्रतिबन्धप्रतिपक्षज्ञानमुपादायाशयाधिमुक्तिदानञ्चोपादाय बोधिसत्त्वस्यैवावेणिकं वेदितव्यम् / एवं हि बोधिसत्त्वस्याध्यात्मिक-बाह्यसर्ववस्तुदानप्रभेदो विस्तरेण वेदितव्यः /
अत ऊर्ध्वमस्मादेव सर्वदानप्रभेदात्तदन्यः सर्वो दुष्करादिदानप्रभेदो वेदितव्यः /
तत्र कतमद्बोधिसत्त्वस्य दुष्करदानम् / यद्बोधिसत्त्वः परीत्तं देयवस्तु संविद्यमानमात्मानं बाधित्वा दुःखमधिवास्य परेषामनुप्रयच्छति / इदं बोधिसत्त्वस्य प्रथमं दुष्करदानम् / यद्बोधिसत्त्वः इष्टञ्च वस्तु प्रकृतिस्नेहाद्वा दीर्घकाल संस्तवाद्वा ऽधिमात्रोपकाराद्वा ऽग्र्यञ्च प्रवरं देयवस्तुगर्धं प्रतिविनोद्य परेभ्यो ऽनुप्रयच्छति / (dutt 92) इदं बोधिसत्त्वस्य द्वितीयं दुष्करदानं यद्बोधिसत्त्वः कृच्छतार्जितान् देयधर्मान् परेभ्यो ऽनुप्रयच्छति / इदं तृतीयं बोधिसत्त्वस्य दुष्करदानम् /
तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं दानम् / यद्बोधिसत्त्वः स्वकं वा परं वा समादाप्य देयवस्तु स्वभृत्येषु वा मातापितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितेष्वनुप्रयच्छति / परेषु वा ऽर्थिषु / एतत्सर्वतोमुखं दानमित्युच्यते /
समासतो बोधिसत्त्वस्य चतुराकारं सत्पुरुषस्य सत्पुरुषदानम् /
तव कतमद् बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषदानम् / यद्बोधिसत्त्वः श्रद्धया दानं ददाति सत्कृत्य स्वहस्तेन कालेन पराननुपहत्य इदं बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषदानमित्युच्यते /
तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं दानम् / अनिश्चितदानता / विशददानता / प्रमुदितदानता / अभीक्ष्णदानता / पात्रदानता / अपात्रदानता सर्वदानता / सर्वत्रदानता / सर्वकालदानता / अनवद्यदानता सर्ववस्तुदानता / देशवस्तुदानता / धनधान्यवस्तुदानता / इतीद त्रयोदशाकारं दानं बोधिसत्त्वस्य सर्वाकारमित्युच्यते /
तत्र कतमद्बोधिसत्त्वस्य विघातार्थिक दानम् / इह बोधिसत्त्वो भोजनेन पानेन विघातिष्वर्थिकेषु भोजनपानं ददाति / यानार्थिकेषु यानं वस्त्रार्थिकेषु वस्त्रमलङ्कारार्थिकेषु अलंकारं विचित्रभाण्डोपस्कारार्थिकेषु विचित्रभाण्डोपस्कारं ददाति / गन्धमाल्यविलेपनार्थिकेषु गन्धमाल्यविलेपनम् / प्रतिश्रयार्थिकेषु प्रतिश्रयम् / आलोकविघातार्थिकेष्वालोकं ददाति / इदमष्टाकार बोधिसत्त्वस्य विघातार्थिकदानं वेदितव्यम् /
तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं दानम् / आमिषदानं धर्मदानमभयदानञ्च समासतः इहामुत्रसुखं बोधिसत्त्वानां दानं वेदितव्यम् / तत्पुनरामिषदानं प्रणीतं शुचिकल्पिकम् / विनीय मात्सर्यमलं सन्निधिमलञ्च ददाति / तत्र मात्सर्यमलविनयश्चित्ताग्रहपरित्यागात् सन्निधिमलविनयो भोगाग्रहपरित्यागाद्वेदितव्यः / अभयदानं सिंहव्याध्रग्राहराजचौरोदकादिभयपरित्राणतया वेदितव्यम् / धर्मदानमविपरीतधर्मदेशना न्यायोपदेशः शिक्षापदसमादापना (dutt 93) च / तदेतत्सर्वमभिसमस्य नवाकारं बोधिसत्त्वस्य दानं सत्त्वानाभिहामुत्रसुखं भवति / तत्रामिषाभयदानं सप्रभेदभिहसुखम् धर्मदानं पुनः सप्रभेदममुत्रसुखम् /
तत्र कतमद्बोधिसत्त्वस्य विशुद्धं दानम् / तद्दशाकरं वेदितव्यम् / असक्तमपरामृष्टमसंभृतमनुन्नतमनिश्रितमलीनमदीनमविमुखं प्रतीकारानपेक्षं विपाकानपेक्षञ्च /
तत्रासक्तं दानं कतमत् / इह बोधिसत्त्वो याचनके सम्यक् प्रत्युपस्थिते त्वरितमविलम्बितं ददाति / न याचनकस्य तथा लाभमारम्य त्वरा भवति यथा बोधिसत्त्वस्य दानमारभ्य /
अपरामृष्टं दानं कतमत् / न हि बोधिसत्त्वो दृष्ट्या एवं दानं परामृशति / नास्ति वा ऽस्य दानस्य फलम् / हिंसादानेन वा पुनर्धर्मो भवतीति / सुसम्पन्नेन वा पुनर्दानमात्रकेण लौकिकलोकोत्तरा विशुद्धिर्भवतीति /
असंभृतं दानं कतमत् / न खलु बोधिसत्त्वः संभृत्य दीर्घकालिकं देयधर्मसन्निचर्य कृत्वा पश्चात् सकृद्दानं ददाति / तत्कस्य हेतोः / न हि बोधिसत्त्वः संविद्यमानेषु देयधर्मेषु सम्यक् प्रत्युपस्थितस्य याचनकस्य निराकरणमुत्सहते नापि प्रतिरूपं पश्यति येन तन्निराकरोति / कुतः पुनः सन्निचयं करिष्यति / न च संभृतदानेन बोधिसत्त्वः पुण्यस्यायद्वारमधिकं पश्यति / समं देयवस्तु तुल्येषु व्यस्तसमस्तेषु याचनकेषु क्रमेण वा सकृद्वा दीयमानं केन कारणेन पुण्यविशेषतां परिगृह्णीयादिति सम्पश्यन्नपि च बोधिसत्त्वः सावद्यमेव संभृतदानं पश्यति / निरवद्यं पश्यति यथोत्पन्नं भोगदानम् / तत्कस्य हेतोः / तथाहि संभृतदाता ऽर्थितो याचनकैर्याचनकशतानि पूर्वं निराकृत्य तेषामाघातमक्षमप्रत्ययं जनयित्वा पश्चादनर्थितो ऽपि तदेकत्यानां संभृतदानं ददाति / तस्माद्बोधिसत्त्वः सम्भृतदानं न ददाति /
अनुन्नतदानं कतमत् / याचनकाय नीचचित्तो बोधिसत्त्वो दानं ददाति / न च परस्पर्धया ददाति / न च दानं दत्त्वा तेन दानेन मन्यते अहमस्मि दाता दानपतिरन्ये च न तथेति /
अनिश्चितदानं कतमत् / न हि बोधिसत्त्वः कीर्तिशब्दघोषश्लोकं निश्रित्य दानं ददाति / विकल्पाक्षरसंभूतां घोषमात्रप्रतिबद्धां वृषमत्रोपमां कीर्तिं मन्यमानः /
अलीनं दानं कतमत् / इह बोधिसत्त्वः पूर्वमेव दानात् सुमना भवति / ददच्चित्तं प्रसादयति / दत्त्वा चाविप्रतिसारी भवति / विपुलानि च परमोदाराणि बोधिसत्त्वानां दानानि श्रुत्वा नात्मानं परिभवन् संकोचमापद्यते /
अदीनं दानं कतमत् / विचिन्त्य विचिन्त्य बोधिसत्त्वो यत्नेन देयधर्मेभ्यो यान्यग्राणि प्रवराणि भोजनपानयानवस्त्रादीनि तान्यनुप्रयच्छति /
अविमुखं दानं कतमत् / समचित्तो बोधिसत्त्वः अपक्षपतितो मित्रामित्रोदासीनेषु समकारुण्यो दानं ददाति /
प्रतीकारानपेक्षं दानं कतमत् / कारुण्यचित्तो ऽनुकम्पाचित्तो बोधिसत्त्वो दानं ददन्न परतः प्रत्युपकारं प्रत्याशंसते / सुखकामां तृष्णादाहेन दह्यमानामप्रतिबलां प्रकृतिदुःखितां जनतां संपश्यन् /
विपाकानपेक्षं दानं कतमत् / न बोधिसत्त्वो दानं दत्त्वा दानस्यायत्यां भोगसम्पदं वा आत्मभावसम्पदं वा फलविपाकं प्रत्याशंसते / सर्वसंस्कारेषु फल्गुदर्शी परमबोधावनुशंसदर्शी /
एभिर्दशभिराकारैर्बोधिसत्त्वानां विशुद्धं सुविशुद्धं दानं भवति /
एवं हि बोधिसत्त्व एतन्नवाकारं दानं निश्रित्य दानपारमितां परिपूरयित्वा ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते /
इति बोधिसत्त्वभूमावाधारे योगस्थाने नवमं दानपटलम् /
शीलपटलम् (छप्तेर् 1.10)
उद्दानम् /
स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम् / स्यात् [सात्]पौरुष्ययुक्तञ्च सर्वाकारं तथैव च //
विघातार्थिकयुक्तञ्च इहामुत्रसुखं तथा / विशुद्धञ्च नवाकारं शीलमेतत्समासतः //
तत्र शीलं बोधिसत्त्वानां कतमत् / तदपि नवविधं वेदितव्यम् / स्वभाव शीलं सर्वशीलं दुष्करशीलं सर्वतोमुखं शीलं सत्पुरुषशीलं सर्वाकारशीलं विघातार्थिकशीलं इहामुत्रसुखं शीलं विशुद्धशीलञ्च /
तत्र स्वभावशीलं कतमत् / चतुर्भिर्गुणैर्युक्तं समासतो बोधिसत्त्वानां स्वभावशीलं वेदितव्यम् / कतमैश्चतुर्भिः / परतः सम्यक्समादानतः सुविशुद्धाशयतया व्यतिक्रान्तैः प्रत्यापत्त्या ऽव्यतिक्रमाय चादरजातस्योपस्थितस्मृतितया / तत्र परतः शीलसमादानाद्बोधिसत्त्वस्य परमुपनिधाय शिक्षाव्यतिक्रमे व्यपत्राप्यमुत्पद्यते / सुविशुद्धाशयतया शीलेषु बोधिसत्त्वस्यात्मानमुपनिधाय शिक्षाव्यतिक्रमे हीरुत्पद्यते / शिक्षापदानां व्यतिक्रम-प्रत्यापत्त्या आदरजातस्य चादित एवाव्यतिक्रमाद्बोधिसत्त्वो द्वाभ्यामाकाराभ्यां निष्कौकृत्यो भवति / एवमयं बोधिसत्त्वः समादनमाशयविशुद्धिञ्च निश्रित्य ह्रीव्यपत्राप्यमुत्पादयति / ह्रीव्यपत्राप्यात् शीलं समात्तं रक्षति / रक्षमाणो निष्कौकृत्यो भवति / तत्र यच्च परतः समादानं यश्च विशुद्धो ऽध्याशयः इतीमौ द्वौ धमौं या च व्यतिक्रमप्रत्यापत्तिर्यश्चादरः अव्यतिक्रमे ऽनयोर्द्वयोर्धर्मयोरावाहकौ / तत्र यच्च परतः समादानं यश्च सुविशुद्धो ऽध्याशयः यश्चाव्यतिक्रमायादरजात इत्येभिस्त्रिभिर्धर्मैरविपत्तिर्बोधिसत्त्वशीलस्य वेदितव्या / व्यतिक्रमप्रत्यापत्त्या पुनश्छिद्रितस्य प्रत्यानयनव्युत्थानं वेदितव्यम् / तत्पुनरेतच्चतुर्भिगुणैर्युक्तं स्वभावशीलं बोधिसत्त्वानां (dutt 96) कल्याणं वेदितव्यमात्महिताय परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै चार्थाय हिताय सुखाय देवमनुष्याणां समादानतो ऽनुशिक्षणतश्च / अप्रमेयं वेदितव्यमप्रमेयबोधिसत्त्वशिक्षापरिगृहीततया / सत्त्वानुग्राहकं वेदितव्यं सर्वसत्त्वहितसुखप्रत्युपस्थानतया / महाफलानुशंसं वेदितव्यम् अनुत्तरसम्यक् संबोधिफलपरिग्रहानुप्रदानतया /
तत्र कतमद् बोधिसत्त्वस्य सर्वशीलम् / समासतो बोधिसत्त्वस्य गृहिपक्षगतं प्रव्रजितपक्षगतञ्च शीलं सर्वशीलमित्युच्यते /
तत्पुनर्गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च शीलं समासतस्त्रिविधम् / संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च /
तत्र संवरशीलं बोधिसत्त्वस्य कतमत् / यत्सप्तनैर्णायिकं प्रातिमोक्षसंवरसमादानं भिक्षुभिक्षुणी-शिक्षमाणा-श्रामणेर-श्रमणेर्य्युपासकोपासिकाशीलम् / तदेतद् गृहिप्रव्रजितपक्षे यथायोगं वेदितव्यम् /
तत्र कुशलधर्मसंग्राहकं शीलं यत्किञ्चिद्बोधिसत्त्वः शीलसंवरसमादानादूर्ध्वं महाबोधाय कुशलमाचिनोति कायेन वाचा मनसा सर्वं तत्समासतः कुशलधर्मसंग्राहकं शीलमित्युच्यते / तत्पुनः कतमत् / इह बोधिसत्त्वः शीलं निश्रित्य शीलं प्रतिष्ठाय श्रुते योगं करोति चिन्तायां शमथविपश्यनाभावनायामेकारामतायाम् / तथा गुरूणामभिवादन-वन्दन प्रत्युत्थानाञ्जलिकर्मणः कालेन कालं कर्ता भवति / तथा कालेन कालं तेषामेव गुरूणां गौरवेणोपस्थानस्य कर्ता भवति / ग्लानानां सत्कृत्य कारुण्येन ग्लानोपस्थानस्य कर्ता भवति तथा सुभाषिते साधुकारस्य दाता भवति / गुणवतां पुद्गलानां भूतस्य वर्णस्याहर्ता भवति / तथा सर्वसत्त्वानां दशसु दिक्षु सर्वपुण्यस्याशयेन प्रसन्नचित्तमुत्पाद्य वाचं भाषामाणो ऽनुमोदिता भवति / तथा सर्वं व्यतिक्रमं प्रतिसंख्याय परेषां क्षमिता भवति / तथा सर्वं कायेन वाचा मनसा कृतं कुशलमनुत्तरायां सम्यक्संबोधौ परिणामयिता भवति / कालेन च कालं विचित्राणां सम्यक् प्रणिधानानां त्रिरत्नपूजायाश्च सर्वाकाराया उदारायाः कर्ता (dutt 97) भवति / अभियुक्तश्च भवत्यारब्धवीर्यः सततसमितं कुशलपक्षे / अप्रमादविहारी कायेन वाचा / शिक्षापदानां स्मृतिसंप्रजन्यचारिकया चारक्षकः / इन्द्रियैश्च गुप्तद्वारो भोजने मात्रज्ञः पूर्वरात्रापररात्रं जागरिकानुयुक्तः सत्पुरुषसेवी कल्याणमित्रसन्निश्रितः आत्मस्खलितानाञ्च परिज्ञाता भवति दोषदर्शी / परिज्ञाय च दोषं दृष्ट्वा प्रतिसंहर्ता भवति / स्खलितश्च बुद्धबोधिसत्त्वानां सहधार्मिकाणां चान्तिके ऽत्ययदेशको भवति / एवंभागीयानां कुशलानां धर्माणामर्जनरक्षणविवर्धनाय यच्छीलं [तद्] बोधिसत्त्वस्य कुशलधर्मसंग्राहकं शीलमित्युच्यते /
तत्र कतमद् बोधिसत्त्वस्य सत्त्वानुग्राहकं शीलम् / तत्समासत एकादशाकारं वेदितव्यम् / एकादशाकाराः कतमे / सत्त्वकृत्येष्वर्थोपसंहितेषु [विचित्रेषु] सहायीभावः / सत्त्वानामुत्पन्नोत्पन्नेषु व्याध्यादिदुःखेषु ग्लानोपस्थानादिकः सहायीभावः / तथा लौकिकलोकोत्तरेष्वर्थेषु धर्मदेशनापूर्वक उपायोपदेशपूर्वकश्च न्यायोपदेशः / उपकारिषु च सत्त्वेषु कृतज्ञतामनुरक्षतो ऽनुरूप[प्रत्युपकार-]प्रत्युपस्थानम् / विविघेभ्यश्च सिंहव्याघ्रराजचौरोदकाग्न्यादिकेभ्यो विचित्रेभ्यो भयस्थानेभ्यः सत्त्वानामारक्षा / भोगज्ञातिव्यसनेषु शोकविनोदना / उपकरणविघातिषु सत्त्वेषु सर्वोपकरणोपसंहारः / न्यायपतितः सम्यङ्निश्रयदानतो धर्मेण गणपरिकर्षणा / आलपनसंलपनप्रतिसम्मोदनैः कालेनोपसंक्रमणतया परतो भोजनपानादि [प्रति]ग्रहतो लौकिकार्थानुव्यवहारतः आहूतस्यागमनगमनतः समासतः सर्वानर्थोपसंहितामनापसमुदाचारपरिवर्जनैश्चित्तानुवर्तनता / भूतैश्च गुणैः संप्रहर्षणता / रहः प्रकाशं वोद्भावनतामुपादाय / स्निग्धेन हिताध्याशयानुगतेनान्तर्गतमानसेन निग्रहक्रिया अवसादना वा दण्डकर्मानुप्रदानं व प्रवासना वा यावदेवाकुशलास्थानात् व्युत्थाप्य कुशले स्थाने सन्नियोजनार्थम् / ऋद्धिबलेन च नरकादिगतिप्रत्यक्षं सन्दर्शनतया ऽकुशलादुद्वेजना बुद्धशासनावताराय चावर्जना तोषणा विस्मापना /
कथञ्च बोधिसत्त्वः संवरशीले स्थितः कुशलधर्मसंग्राहके शीले स्थितः सत्त्वार्थक्रियाशीले च स्थितः सुसंवृतशीली च भवति सुसंगृहीतकुशलशीली च (dutt 98) सर्वाकारसत्त्वार्थक्रियाशीली च / इह बोधिसत्त्वः प्रातिमोक्षसंवरव्यवस्थितः स चेच्चक्रवर्तिराज्यमप्युत्सृज्य प्रव्रजितो भवति स तस्मिंश्चक्रवर्तिराज्ये एवं निरपेक्षो भवति तद्यथा तृणे वा ऽमेध्ये वा / निहीनपुरुषस्य जीविकाभिप्रायस्य प्रव्रजितस्य प्रत्यवरान् कामानपहाय न तथा तेषु प्रत्यवरेषु कामेषु निरपेक्षता भवति यथा बोधिसत्त्वस्याशयविशुद्धतामुपादाय प्रव्रजितस्य सर्वमानुष्यककामप्रवरेषु चक्रवर्तिकामेषु / अनागतेष्वपि मारभवनपर्यापन्नेष्वपि कामेषु बोधिसत्त्वो नाभिनन्दी भवति नापि च तेषामर्थाय प्रणिधाय ब्रह्मचर्यं चरति महाविचित्रप्रतिभयगहनप्रवेशमिव तान् कामान् यथाभूतं संपश्यन् प्रागेव तदन्येषु दिव्येषु / वर्तमाने ऽप्यध्वनि प्रव्रजितो बोधिसत्त्व उदारेभ्यः सत्त्वेभ्य उदारमपि लाभसत्कारं वान्ताशनमिव सम्यक् प्रज्ञया पश्यन् नास्वादयति प्रागेव प्रत्यवरेभ्यः [सत्त्वेभ्यः] प्रत्यवरम् / प्रविवेकाभिरतश्च भवति एकाकी संवमध्ये वा सर्वकालं चित्तव्यपकृष्टविहारी / स न शीलसंवरमात्रकेण तुष्ठो भवति / अपि तु शीलं निश्रित्य शीलं प्रतिष्ठाय ये ते ऽप्रमेया बोधिसत्त्वसमाधयस्तेषामभिनिर्हाराय वशिताप्राप्तये व्यायच्छते / सः संसर्गतो ऽप्यणुकाम् अप्यसत्संकथा मसद्वाचं नाधिवासयति प्रविवेकगतश्चाणुकमप्यसद्वितर्कम् / प्रमुषितया च स्मृत्या तत्समुदाचारहेतोः कालेन कालं तीव्रं विप्रतिसारमादीनवदर्शनमुत्पादयति /
यमाभीक्ष्णकं विप्रतिसारमादीनवदर्शनमागम्योत्पन्नमात्रायामसत्संकथायामसद्वितर्के च त्वरितत्वरितं सा स्मृतिरुपतिष्ठते / अकरणचित्तञ्च प्रतिलभते / येन प्रतिसंहरति / प्रतिसंहरणाभ्यासतश्च क्रमेण तद्यथा पूर्वं तत्समुदाचार-रतिरभूत् तथा एतहर्यसमुदाचार-रतिः सन्तिष्ठते समुदाचारप्रातिकूल्यञ्च / सर्वबोधिसत्त्वशिक्षापदानि चास्य महाभूमिप्रविष्टानां बोधिसत्त्वानां श्रुत्वा उदाराण्यप्रमेयाण्यचिन्त्यानि दीर्घकालिकानि परमदुश्कराणि न भवति चेतस उत्तासो वा लयः संकोचो वा नान्यत्रास्यैवं भवति / ते ऽपि मनुष्यभूताः क्रमेण शिक्षमाणाः बोधिसत्त्वशिक्षाष्वप्रमेयाचिन्त्यकायवाक्संवरसमन्वागताः संवृत्ताः / वयमपि मनुष्यभूताः क्रमेण च शिक्षमाणाः असंशयमनुप्राप्स्यामस्तां कायवाक्संवरसम्पत्तिमिति / आत्मदोषान्तरस्खलितगवेषी च बोधिसत्त्वो भवति शीलसंवरे व्यवस्थितो न परदोषान्तरस्खलितगवेषी / सर्वरौद्रदुःशीलानाञ्च (dutt 99) सत्त्वानामन्तिके नाघातचित्तो भवति न प्रतिघचित्तः / धर्ममहाकरुणतामुपादायाधिमात्रमेव तेषामन्तिके बोधिसत्त्वानामनुकम्पाचित्तञ्च कर्तुकामताचित्तञ्च प्रत्युपस्थितं भवति / संवरशीलव्यस्थितश्च बोधिसत्त्वः पाणिलोष्टदण्डशस्त्रसंस्पर्शैरपि परेषामन्तिके चित्तमपि न प्रदूषयति / कुतः पुनः पापिकां वाचं निश्चारयिष्यति प्रतिहनिष्यति वा प्रागेव पुनः आक्रोशरोषणपरिभाषणैस्तनुकदुःखस्पर्शजैरपकारैः / संवरशीलव्यवस्थितश्च बोधिसत्त्वः पञ्चाङ्गपरिगृहीतेनाप्रमादेन समन्वागतो भवति पूर्वान्तसहगतेनापरान्तसहगतेन मध्यान्तसहगतेन पूर्वकालकरणीयेन सहानुचरेण च /
बोधिसत्त्वशिक्षासु शिक्षमाणो बोधिसत्त्वः अतीतमध्वानमुपादाय यामापत्तिमापन्नः सा ऽनेन यथाधर्मं प्रतिकृता भवति / अयमस्य पूर्वान्तसहगतो ऽप्रमादः / अनागते ऽप्यध्वनि यामापत्तिमापत्स्यते तामपि यथाधर्मं प्रतिकरिष्यति / अयमस्यापरान्तसहगतो ऽप्रमादः / प्रत्युत्पन्ने ऽप्यध्वनि यामापत्तिमापद्यते तामपि यथाधर्मं प्रतिकरोति / अयमस्य मध्यान्तसहगतो ऽप्रमादः / पूर्वमेव चापत्तेर्बोधिसत्त्वस्तीव्रमौत्सुक्यमापद्यते / कच्चिदहं तथा तथा चरेयं यथा यथा चरन् यथा यथा विहरन् आपत्तिं नापद्येयम् / अयं बोधिसत्त्वस्य पूर्वकालकरणीयो ऽप्रमादः / स पूर्वकालकरणीयमेवाप्रमादं निश्रित्य तथा तथा चरति तथा तथा विहरति यथा यथास्य चरतो विहरतो वा आपत्तिर्नोत्तिष्ठते / अयमस्य सहानुचरो ऽप्रमादः / संवरशील-व्यवस्थितो बोधिसत्त्वः प्रतिच्छन्नकल्याणो भवति विवृतपापः अल्पेच्छः सन्तुष्टः दुःखसहिष्णुरपरितसनजातीयः अनुद्धतश्च अचपलश्च प्रशान्तेर्यापथः कुहनादिसर्वमिथ्याजीवकरकधर्मविवर्जितः / एभिर्दशभिरङ्गैः समन्वागतो बोधिसत्त्वः संवरशीलव्यवस्थितः सुसंवृतशीली भवति / यदुतातीतेषु कामेषु निरपेक्षतया अनागतेष्वनभिनन्दनतया प्रत्युत्प-न्नेष्वनध्यवसानतया प्रविवेकवासाभिरत्या वाग्वितर्कपरिशोधनतया आत्मनो ऽपरिभवनतया सौरत्येन क्षान्त्या ऽप्रमादेन आचाराजीवविशुद्ध्या चेति /
पुनर्बोधिसत्त्वः कुशल[धर्म]संग्राहकशीले व्यवस्थितः उत्त्पन्नां कायभोगापेक्षां स्वल्पामपि नाधिवासयति प्रागेव प्रभूताम् / सर्वदौःशील्यनिदानभूतांश्च (dutt 100) क्लेशोपक्लेशान् क्रोधोपनाहादीनुत्पन्नान् नाधिवासयति / उत्पन्नां परेषामन्तिके आघातप्रतिघवैरचित्ततां नाधिवासयति / उत्पन्नमालस्यकौसीद्यं नाधिवासयति / उत्पन्नं समापत्यास्वादं समापत्तिक्लेशं नाधिवासयति / पञ्च च स्थानानि यथाभूतं प्रजानाति / कुशलफलानुशंसं यथाभूतं प्रजानाति / कुशलहेतुं कुशलहेतुफले विपर्यासमविपर्यासञ्च कुशलसंग्रहाय चान्तरायं यथाभूतं प्रजानाति / कुशलफले बोधिसत्त्वः अनुशंसदर्शी कुशलहेतुं पर्येषते / कुशलसंग्रहाय विपर्यासञ्चाविपर्यासञ्च यथाभूतं प्रजानन् बोधिसत्त्वः प्राप्य कुशलफलं नानित्ये नित्यदर्शी भवति / न दुःखे सुखदर्शी / नाशुचौ शचिदर्शी / नानात्मन्यात्मदर्शी / अन्तरायञ्च प्रजानन् कुशलसंग्रहाय परिवर्जयति / तस्यैभिर्दशभिराकारैः कुशलधर्मसंग्राहकशीलव्यवस्थितस्य क्षिप्रमेव कुशलसंग्रहो भवति सर्वाकार[संग्रह]श्च यदुत दानोपनिषदाशीलोपनिषदा क्षान्त्युपनिषदा वीर्योपनिषदा ध्यानोपनिषदा पञ्चाकारया च [प्र]ज्ञया /
पुनर्बोधिसत्त्वः एकादशभिराकारैः सर्वाकारे सत्त्वार्थक्रियाशीले व्यवस्थितः / एकैकेन सर्वाकारेणाकारेण समन्वागतो भवति / इह बोधिसत्त्वः सत्त्वानां तेषु तेषु कृत्येषु सहायीभावं गच्छन् कृत्यचिन्तायां कृत्यसमर्थने सहायीभावं गच्छति अध्वगमनागमने सम्यक्कर्मान्तप्रयोगे भोगानामारक्षणे विभिन्नान्यो ऽन्यप्रतिसन्धाने उत्सवे पुण्यक्रियायाञ्च दुःखेषु वा / पुनर्बोधिसत्त्वः सहायीभावं गच्छन् व्याधितान् सत्त्वान् परिचरति / अन्धान् प्रणयति पन्थानं व्यपदिशति / बधिरान् हस्तसवाचिकयार्थं ग्राहयति संज्ञानिमित्तव्यपदेशेन / व्यङ्गान् शिरसा वा यानेन वा वहति / कामच्छन्दपर्यवस्थानदुःखितानां सत्त्वानां कामच्छन्दपर्यवस्थानदुःखं प्रतिविनोदयति / व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थानदुःखितानां सत्त्वानां यावद्विचिकित्सापर्यवस्थानदुःखं प्रतिविनोदयति / कामवितर्कपर्यवस्थानेन दुःखितानां सत्त्वानां कामवितर्कं प्रतिविनोदयति / यथाकामवितर्कम् एवं व्यापादहिंसाज्ञातिजनपदापर वितर्कावमन्यनाप्रतिसंयुक्तः कुलोदय प्रतिसंयुक्तश्च वितर्को वेदितव्यः परिपरिभवपराजयदुःखेन दुःखितानां सत्त्वानां परपरिभवपराजयदुःखं (dutt 101) प्रतिविनोदयति / अध्वपरिश्रान्तानां स्थानासनदानेनाङ्गप्रपीडनेन श्रमक्लमदुःखं प्रतिविनोदयति / पुनर्बोधिसत्त्वः सत्त्वानां न्यायं व्यपदिशन् दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय धर्मं देशयति युक्तैः पदव्यञ्जनैः सहितैरानुलोमिकैरानुच्छविकैरौपयिकैः प्रतिरूपैः प्रदक्षिणैः निपकस्याङ्गसंभारैः /
उपायकौशल्यं वा पुनर्व्यपदिशति यथा दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय एवं मत्सारिणां [सत्त्वानां] मात्सर्यप्रहाणाय दृष्टे वा धर्मे सम्यगल्पकृच्छ्रेण भोगानामर्जनाय रक्षणाय च शासने ऽस्मिन् प्रतिहतानां श्रद्धाप्रतिलम्भाय दर्शनप्रतिलम्भाय / दर्शनविशुद्ध्या ऽपायसमतिक्रमाय सर्वसंयोजनपर्यादानात् सर्वदुःखसमतिक्रमाय पुनर्बोधिसत्त्व उपकारिणां सत्त्वानां कृतज्ञतां प्राविष्कुर्वन् दृष्ट्वा सत्कृत्यालपति [संलपति] प्रतिसम्मोदयति-एहि स्वागतवादितया / आसनस्थानानुप्रदानेन च संप्रतीच्छति / तुल्याधिकेन चास्य प्रतिलाभसत्कारेण प्रत्युपस्थितो भवति न न्यूनेन / स कृत्येष्वस्यायाचितो ऽपि सहायीभावं गच्छति प्रागेव याचितः / यथा कृत्येषु एवं दुःखेषु नयोपदेशे भयपरित्राणे व्यसनस्थशोकप्रतिविनोदने उपकरणोपसंहारे सन्निश्रयदाने चित्तानुवर्तने भूतैर्गुणैः संप्रहर्षणे स्निग्धेन चान्तर्भावेन विनिग्रहे ऋद्ध्या चोत्तासनावर्जनेनेति / पेयालम् / पुनर्बोधिसत्त्वो भीतानां सत्त्वानां भयेस्वारक्षकः / क्षुद्रमृगभयादपि सत्त्वान् रक्षति आवर्तग्राहभयादपि राजभयादपि चोरभयादपि प्रत्यर्थिकभयादपि स्वाम्यधिपतिभयादपि अनाजीविकभयादप्यश्लोकभयात्परिषच्छारद्यभयादपि अमनुष्यवेताडभयादपि / पुनर्बोधिसत्त्वो व्यसनस्थानां सत्त्वानां शोकप्रतिविनोदनं ज्ञातिव्यसनमारभ्य मातापितृमरणे ऽपि शोकं [प्रति]विनोदयति / पुत्रदारमरणे ऽपि दासीदासकर्मकरपौरुषेयमरणे ऽपि मित्रामात्यज्ञातिसालोहितमरणेप्याचार्योपाध्यायगुरूस्थानीयमरणे ऽपि शोकं प्रतिविनोदयति /
भोग व्यसनं वा पुनरारभ्य स चेद्भोगा राज्ञा वा परेषामपहृता भवन्ति / तत्र शोकं प्रतिविनोदयति / चौरैर्वा ऽपहृता भवन्ति / अग्निना वा दग्धा उदकेन वा अपहृताः कुनिहिता वा निधयः प्रनष्टा भवन्ति / कुप्रयुक्ता वा कर्मान्ताः प्रलुग्ना भवन्ति / अप्रियैर्वा दायादैरधिगता भवन्ति / कुले वा कुलांगार (dutt 102) उत्पन्नो भवति / येन ते भोगा अनयेन व्यसनमापादिता भवन्ति / तन्निदानमपि शोकमुत्पन्नं मृदुमध्याधिमात्रं सत्त्वानां बोधिसत्त्वः सम्यक् प्रतिविनोदयति / पुनरुपकरणार्थिनाम् उपकरणोपसंहारं कुर्वन् बोधिसत्त्वो भोजनं भोजनार्थिभ्यो ददाति / पानं पानार्थिभ्यः / यानं यानार्थिभ्यः / वस्त्रं वस्त्रार्थिभ्यः / अलङ्कारमलङ्कारार्थिभ्यः / भाण्डोपस्करं भाण्डोपस्करार्थिभ्यः / गन्धमाल्यविलेपनं गन्धमाल्यविलेपनार्थिभ्यः / प्रतिश्रयं प्रतिश्रयार्थिभ्यः / आलोकमालोकार्थिभ्यो ददाति / पुनः परिग्रहशीलेन बोधिसत्त्वः सत्त्वानां गणपरिकर्षणयोगेन परिग्रहं कुर्वन् पूर्वन्तावत् निश्रयं ददाति निरामिषेण चित्तेनानुकम्पाचित्तेनानुकम्पाचित्तमेव [सं]पुरष्कृत्य / ततो धर्मेण चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानेषामर्थे श्राद्धानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषते / धार्मिकैश्च धर्मलब्धैः स्वैश्चीवरपिण्डपातशयानासनग्लान प्रत्ययभैषज्यपरिष्कारैः साधारणपरिभोगी च भवत्यप्रतिगुप्तभोजी / अष्टाकारञ्चानुलोमिकमववादं कालेन कालमनुप्रयच्छति / पञ्चाकारया चानुशासन्या सम्यक्समनुशास्ति / तद्यथोक्ते ऽनुशासनी-बलगोत्रपटले तथेहापि वेदितव्या /
पुनर्बोधिसत्त्वश्चित्तानुवर्तनशीलेन सत्त्वानां चित्तमनुवर्तमानः आदित एवं सत्त्वानां भावं च जानाति प्रकृतिञ्च / भावञ्च ज्ञात्वा प्रकृतिञ्च यथा यैः सत्त्वैः सार्धं संवस्तव्यं भवति तथा [तैः] संवसति / यथा येषु सत्त्वेषु प्रतिपत्तव्यं भवति तथा तेषु प्रतिपद्यते / यस्य च सत्त्वस्य बोधिसत्त्वश्चित्तमनुवर्तितुकामो भवति तस्य च चेत्पश्यत्येवंरूपेणास्य वस्तुसमुदाचारेण कायिकवाचिकेन दुःखदौर्मस्यमुत्पत्स्येते / तच्चदुःखदौर्मनस्यमस्य नाकुशलात् स्थानाद् व्युत्थानाय कुशले च स्थाने प्रतिष्ठापनाय संवर्तिष्यते / प्रतिसंख्याय बोधिसत्त्वस्तं कायिकवाचिकं वस्तसमुदाचारं यत्नतः परिहरति न समुदाचरति / स चेत्पुनस्तद् दुःखदौर्मनस्यमस्याकुशलात् स्थानाद् व्युत्थाप्य (dutt 103) कुशले स्थाने प्रतिष्ठापनाय पश्यति नानुवर्तते / प्रतिसंख्याय बोधिसत्त्वः परचित्तं यदुत परानुकम्पामेवोपादाय येन च परेषां वस्तुसमुदाचारेण कायिकवाचिकेनान्येषामुत्पद्यते दुःखदौर्मनस्यम् तच्च परेषां तदन्येषामकुशलात् स्थानाद् व्युत्थानाय कुशले स्थाने प्रतिष्ठा[प]नाय [न] संवर्तते प्रतिसंख्याय प्रतिसंहरति बोधिसत्त्वस्तत्कायवाक् [कर्म]समुदाचारं तदन्येषां चित्तानुरक्षया / स चेत्पुनः पश्यति परेषां तदन्येषां वा तदुभयोर्वा अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय प्रतिसंख्याय समुदाचरति बोधिसत्त्वस्तं कायवाक्समुदाचारम् / नानुवर्तते तेषां सत्त्वानां चित्तमनुकम्पाचित्तमेवोपस्थाप्य /
येन च बोधिसत्त्व आत्मनो वस्तुसमुदाचारेण कायिकवाचिकेन परेषां दुःखदौर्मनस्यमुत्पद्यमानं समनुपश्यति स च कायवाक्समुदाचारो न शिक्षापदपरिगृहीतो भवति न पुण्यज्ञानसम्भारानुगतः तच्च दुःखदौर्मनस्यं परेषां नाकुशलात् स्थानादिति पूर्ववद्वेदितव्यम् / प्रतिसंहरति बोधिसत्त्वस्तं कायवाक्समुदाचारं परचित्तानुरक्षया / [तद्] विपर्ययात्समुदाचारः पूर्ववद्वेदितव्यः / यथा दुःखदौर्मनस्यमेवं सुखसौमनस्यं यथायोगं विस्तरेण वेदितव्यम् / न च परचित्तानुवर्ती बोधिसत्त्वः परस्य क्रोधपर्यवस्थानेन पर्यवस्थितस्य सम्मुखमविगते क्रोधपर्यवस्थाने वर्णमपि भाषते प्रागेवावर्णम् / नापि संज्ञाप्तिमनुप्रयच्छति / पुनः परचित्तानुवर्ती बोधिसत्त्वः परमनालपन्तमप्यालपति [प्रति]सम्मोदयति प्रागेवालपन्तं प्रतिसम्मोदयन्तम् / [न च] परचित्तानुवर्ती बोधिसत्त्वः परेषां क्षुभ्यति नान्यत्रावसादयितुकामः / तेषामेवानुकम्पया प्रशान्तैरिन्द्रियैरवसादयति / न च परिचित्तानुवर्ती बोधिसत्त्वः परमवहसति नावस्पण्डयति न मड्कुभावमस्योपसंहरति नाप्यस्पर्शविहाराय कौकृत्यमुपसंहरति / निगृहीतस्यापि पराजितस्य न निग्रहस्थानेन संचोदयति / नीचैः प्रपन्नस्य न चोच्छ्रितमात्मानं विख्यापयति / न च परचित्तानुवर्ती बोधिसत्त्वः परेषामसेवी भवति नाप्यतिसेवी नाप्यकालसेवी नापि तेषां पुरस्तात्प्रियविगर्हको भवति नाप्यप्रियप्रशंसकः / नाप्यसंस्तुतविश्वासी भवति / नाभीक्ष्णयाचकः / प्रतिग्रहे ऽपि च मात्रां जानाति / प्रतिग्रहेण च भोजनपानादिकेनोपनिमन्त्रितो न निराकरोति /
धार्मिको वा न्यायसंज्ञप्तिमनुप्रयच्छति / (dutt 104) पुनर्बोधिसत्त्वो भूतगुणसंहर्षणशीलेन सत्त्वान् संप्रहर्षयन् श्रद्धागुणसम्पन्नान् श्रद्धागुणसंकथया संप्रहर्षयति शीलगुणसम्पन्नान् शीलगुणसंकथया श्रुतगुणसंपन्नान् श्रुतगुणसङ्कथया त्यागगुणसम्पन्नांस्त्यागगुणसङ्कथया प्रज्ञागुणसम्पन्नान् प्रज्ञागुणसंकथया संप्रहर्षयति / पुनर्बोधिसत्त्वः निग्रहशीलेन सत्त्वान्निगृह्णन् मृद्वपराधं मृदुव्यतिक्रमं स्निग्धेनान्तर्भावेनाविपन्नेन मृद्व्या ऽवसादनिकया अवसादयति / मध्यापराधं मध्यव्यतिक्रमं मध्यया [ऽवसादनिकया] अधिमात्रापराधमधिमात्रब्यतिक्रममधिमात्रया ऽवसादनिकया ऽवसादयति / यथा चावसादनिका तथा दण्डकर्म वेदितव्यम् / मृदुमध्यापराधं मृदुमध्यव्यतिक्रमं बोधिसत्त्वस्तावत्कालिकयोगेन पुनरादानाय प्रवासयति तेषामेव चान्येषाञ्च समनुशासनार्थमनुकम्पाचित्ततया अधिमात्रापराधं [अधिमात्रव्यतिक्रमं] पुनरसंवासायासंभोगाय यावज्जीवेनाप्यपुनःप्रतिग्रहणाय प्रवासयति तेषामेव चानुकम्पया / मा ते बहुतरमस्मिन् शासने ऽपुण्यपरिग्रहं करिष्यन्तीति / परेषाञ्च हितकामतया समनुशासनार्थम् / पुनर्बोधिसत्त्वः ऋद्धिबलेन सत्त्वानुत्त्रासायितुकामः आवर्जयितुकामो वा दुश्चरितचारिणां सत्त्वानां दुश्चरितविपाकफलमपायान्नरकान्महानरकान् शीतलनरकान् प्रत्येकनरकानुपनीयोपनीय दर्शयति / पश्यन्तु भवन्तो दुश्चरितस्य [कृतोपचितस्य] मनुष्यभूतैरिदमीदृशं रौद्रं परमकटुकमनिष्टं फलविपाकं प्रत्यनुभूयमानमिति / ते च तं दृष्ट्वा उत्त्रस्यन्ति संवेगमापद्यन्ते दुश्चरितात्प्रतिविरमन्ति /
तदेकत्यांश्च सत्त्वान् बोधिसत्त्वस्य महत्यां परिषदि सन्निसन्नस्य प्रश्नसंपादेनानादेयं वचनं कर्तुकामान् बोधिसत्त्वो वज्रपाणिं वा ऽन्यतमं वा उदारवर्णमहाकायं [महाबलं] यक्षमभिनिर्मिमीय भीषयत्युत्त्रासयति / तन्निदानं संप्रत्ययजातस्य बहुमानजातस्य सम्यगेव प्रश्नप्रतिव्याकरणार्थम् / तस्य च महाजनकायस्य तेन प्रश्नव्याकरणेन विनयनार्थम् / विचित्रेण वा पुनः ऋद्व्यभिसंस्कारेण तद्यथा एको भूत्वा बहुधा भवन् बहुधा भूत्वा एको भवन् तिरः कुडयं तिरः शैलं तिरः प्राकारमसज्जमानेन कायेन गच्छन्विस्तरेण यावद्ब्रह्मलोकं कायेन वशे वर्तयन् यमकान्यपि प्रातिहार्याणि विदर्शयस्तेजोधातुमपि समापद्यमानः श्रावकासाधारणं वा पुनरृद्धिमुपदर्शयन्नावर्जयन् तोषयित्वा संप्रहर्ष्य अश्रद्धं (dutt 105) श्रद्धासंपदि निवेशयति / दुःशीलं शीलसंपदि अल्पश्रुतं श्रुतसंपदि मत्सरिणं त्यागसंपदि दुष्प्रज्ञं प्रज्ञासंपदि निवेशयति / एवं हि बोधिसत्त्वः सर्वाकारेण सत्त्वार्थक्रियाशीलेन समन्वागतो भवति /
त एते भवन्ति त्रयो बोधिसत्त्वस्य शीलस्कन्धाः अप्रमेयाः पुण्यस्कन्धाः / संवरशीलसंगृहीतः कुशल धर्मसंग्राहक[शील]संगृहीतः सत्त्वार्थक्रियाशीलसंग्रहीतश्च शीलस्कन्धः /
तत्र बोधिसत्त्वेनास्मिन् त्रिविधे ऽपि शीलस्कन्धे बोधिसत्त्वशिक्षायां शिक्षितुकामेन गृहिणा वा प्रव्रजितेन वा ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानेन सहधार्मिकस्य बोधिसत्त्वस्य कृतप्रणिधानस्य विज्ञस्य प्रतिबलस्य वाग्विज्ञप्त्यर्थग्रहणावबोधाय इत्येवंरूपस्य बोधिसत्त्वस्य पूर्वं पादयोर्निपत्याध्येषणां कृत्वा यथा तवाहं कुलपुत्रान्तिकाद्बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च / इत्येवं सम्यगध्येष्यैकांसमुत्तरासङ्गं कृत्वा बुद्धानां भगवतामतीतानागतप्रत्युत्पन्नानां दशमु दिक्षु महाभूमिप्रविष्टानाञ्च महाज्ञानप्रभावप्राप्तानां बोधिसत्त्वानां सामीचीं कृत्वा गुणांश्च तेषांमामुखीकृत्य घनरसं प्रसादं चेतसः सञ्जनय्य परीत्तं वा यस्य [वा] याचति शक्तिर्हेतुबलञ्च / स विज्ञो बोधिसत्त्वो नीचैर्जानु-मण्डलनिपतितेन वा उत्कुटु[क]स्थितेन वा तथागतप्रतिमां पुरतः स्थापयित्वा संपूरस्कृत्यैवं स्याद्वचनीयः / अनुप्रयच्छ मे कुलपुत्रायुष्मन् भदन्तेति वा बोधिसत्त्वशीलसंवरसमादानम् / इत्युक्त्वा एकाग्रां स्मृतिमुपस्थाप्य चित्तप्रशादमेवानुपबृंहयता न चिरस्येदानीं मे ऽक्षयस्याप्रमेयस्य निरुत्तरस्य महापुण्यनिधानस्य प्राप्तिर्भविष्यतीति एतमेवार्थमनुचिन्तयता तूष्णीं भवितव्यम् / तेन पुनर्विज्ञेन बोधिसत्त्वेन स तथा प्रतिपन्नो बोधिसत्त्वः अविक्षिप्तेन चेतसा स्थितेन वा निषण्णेन वा आसने इदं स्याद्वचनीयः / श्रुणु एवंनामन् कुलपुत्र धर्मभ्रातरिति वा बोधिसत्त्वो ऽसि बोधौ च कृतप्रणिधानः / तेन ओमिति [प्रति]ज्ञातव्यम् / स पुनरुत्तरि इदं स्याद्वचनीयः /
प्रतीच्छसि त्वमेवंनामन् (dutt 106) कुलपुत्र ममान्तिकात् सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च / यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत् / यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति / यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति / येषु शिक्षापदेषु यच्छीले ऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः / अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते / प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते / तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम् / एवं द्विरपि त्रिरपि तेन च विज्ञेन बोधिसत्त्वेन वक्तव्यम् / तेन च ममादायकेन बोधिसत्त्वेन यावत् त्रिरपि प्रतिज्ञातव्यं पृष्टेन / एवं हि तेन विज्ञेन बोधिसत्त्वेन तस्य प्रतिग्राहकस्य बोधिसत्त्वस्य यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादान दत्त्वा प्रतिज्ञाञ्च प्रतिगृह्याव्युत्थित एव तस्मिन् प्रतिग्राहके बोधिसत्त्वे तस्या एव तथागतप्रतिमायाः पुरतो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां तिष्ठतां ध्रियतां यापयतां पादयोर्निपत्य सामीचीं कृत्वा एवमारोचयितव्यम् / प्रतिगृहीतमनेन एवनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद्यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादानम् / सो ऽहमेवनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादनम् / एव द्विरप्येवं त्रिरपि वक्तव्यम् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
