Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिसत्त्वभूमि
- Thông tin
- GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अहमिति ममेति च विकल्पः कतमः / यद्वस्तु सास्रवं सोपादानीयं दीर्घकालमात्मतो वा आत्मीयतो वा संस्तुतमभिनिविष्टं परिचितं तस्मादसंग्राह-संस्तवात् स्वं दृष्टिस्थानीयं वस्तु प्रतीत्योत्पद्यते वितथो विअकल्पः / अयमुच्यते अहमिति ममेति च विकल्पः /
प्रियविकल्पः कतमः / यः शुभ-मनाप-वस्त्वालम्बनो विकल्पः /
अप्रियविकल्पः कतमः / यो ऽशुभामनाप-वस्त्वालम्बनो विकल्पः /
प्रियाप्रियोभयविपरीतो विकल्पः कतमः / यः शुभाशुभ-मनापामनापतदुभयविवर्जितवस्त्वालम्बनो विकल्पः / तच्चैतद् द्वयं भवति समासतः विकल्पश्च विकल्पाधिष्ठानं विकल्पालम्बनञ्च वस्तु / तच्चैतदुभयमनादिकालिकं चान्योन्यहेतुकञ्च वेदितव्यम् / पूर्वको विकल्पः प्रत्युत्पन्नस्य विकल्पालम्बनस्य वस्तुनः प्रादुर्भावाय प्रत्युत्पन्नं पुनर्विकल्पालम्बनं वस्तु प्रादुर्भूतं प्रत्युत्पन्नस्य तदालम्बनस्य [विकल्पस्य] प्रादुर्भावाय हेतुः / तत्रैतर्हि विकल्पस्यापरिज्ञानमायत्यां तदालम्बनस्य वस्तुनः प्रादुर्भावाय / तत्संभावाच्च पुनर्नियतं तदधिष्ठानस्यापि तदाश्रितस्य विकल्पस्य प्रादुर्भावो भवति /
कथञ्च पुनरस्य विकल्पस्य परिज्ञानं भवति / चतसृभिः पर्येषणाभिः चतुर्विधेन च यथाभूतपरिज्ञानेन /
चतस्रः पर्येषणाः कतमाः / नामपर्येषणा / वस्तुपर्येषणा / स्वभावप्रज्ञप्तिपर्येषणा च / विशेषप्रज्ञप्तिपर्येषणा च /
तत्र नामपर्येषणा यद्वोधिसत्त्वो नाम्नि नाममात्रं पश्यति / एवं वस्तुनि वस्तुमात्रदर्शनं [वस्तु]पर्येषणा / स्वभावप्रज्ञप्तौ स्वभावप्रज्ञप्तिमात्रदर्शनं स्वभावप्रज्ञप्तिपर्येषणा / विशेषप्रज्ञप्तौ विशेषप्रज्ञप्तिमात्रदर्शनं विशेषप्रज्ञप्तिपर्येषणा / स नामवस्तुनो भिन्नञ्च लक्षणं पश्यत्यनुश्लिष्टञ्च / नामवस्त्वनुश्लेषसन्निश्रितां च स्वभावप्रज्ञप्ति विशेषप्रज्ञप्तिञ्च [प्रति]विध्यति /
चत्वारि यथाभूतपरिज्ञानानि कतमानि / नामैषणागतं यथाभूतपरिज्ञानं वस्त्वेषणागतं स्वभावप्रज्ञप्त्येषणागतं विशेषप्रज्ञप्त्येषणागतञ्च यथाभूतपरिज्ञानम् /
नामैषणागतं यथाभूतपरिज्ञानं कतमत् / स खलु बोधिसत्त्वो नाम्नि नाममात्रतां पर्येष्य तन्नामैवं यथाभूतं परिजानाति इतीदं नाम इत्यर्थं वस्तुनि व्यवस्थाप्यते यावदेव संज्ञार्थ दृष्ट्यर्थमुपचारार्थम् / यदि रूपादिसंज्ञके वस्तुनि रूपमिति नाम न व्यवस्थाप्येत न कञ्चित्तद्वस्तु रूपमित्मेवं संजानीयात् / (dutt 37) असंजानन् समारोपतो नाभिनिवेशेत / अनभिनिवेशं नाभिलपेत् / इति यदेवं यथाभूतं प्रजानाति / इदमुच्यते नामैषणागतं यथाभूतपरिज्ञानम् / वस्त्वेषणागतं यथाभूतपरिज्ञानं कतमत् / यतश्च बोधिसत्त्वो [वस्तुनि] वस्तुमात्रतां पर्येष्य सर्वाभिलापविश्लिष्टं निरभिलाप्यं तद्रूपादिसंज्ञकं वस्तु पश्यति / इदं द्वितीयं यथाभूतपरिज्ञानं वस्त्वेषणागतम् /
स्वभावप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत् यतश्च बोधिसत्त्वः रूपादिसंज्ञके वस्तुनि स्वभावप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तथा स्वभावप्रज्ञप्त्या अतत्स्वभावस्य वस्तुनः तत्स्वभावाभासतां यथाभूतं प्रतिविध्यति प्रजानाति / तस्य निर्माणप्रतिबिम्बप्रतिश्रुत्का-प्रतिभासोदकचन्द्रस्वप्नमायोपमं तत्स्वभावं पश्यतः तदाभासमतन्मयम् इद्ं तृतीयं यथाभूतं परिज्ञानं सुगम्भीरार्थगोचरम् /
विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत् / यतश्च बोधिसत्त्वो विशेषप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तस्मिन् रूपादिसंज्ञके वस्तुनि विशेषप्रज्ञप्तिमद्वयार्थेन पश्यति / न तद्वस्तु भावो नाभावः / अभिलाप्येनात्मना ऽपरिनिष्पन्नत्वान्न भावः / न पुनरभावो निरभिलाप्येनात्मना व्यवस्थितत्वात् / एवं न रूपी परमार्थसत्यतया / नारूपी संवृतिसत्येन तत्र रूपोपचारतया / यथा भावश्चाभावश्च रूपी चारूपी च / तथा सनिदर्शनानिदर्शनादयो विशेषप्रज्ञप्तिपर्यायाः सर्वे ऽनेन नयेनैवं वेदितव्याः / इति यदेतां विशेषप्रज्ञप्तिमेवमद्वयार्थेन यथाभूतं प्रजानाति / इदमुच्यते विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानम् /
तत्र यो ऽसावष्टविधो मिथ्याविकल्पो बालानां त्रिवस्तुजनको लोकनिर्वर्तकः सो ऽस्य चतुर्विधस्य यथाभूतपरिज्ञानस्य वैकल्यादसमवधानात्प्रवर्तते / तस्माच्च पुनर्मिथ्याविकल्पात्संक्लेशः / संक्लेशात्संसारसंसृतिः संसारसंसृतेः संसारानुगतं जातिजराव्याधिमरणादिकं दुःखं प्रवर्तते / यदा च बोधिसत्त्वेन चतुर्विधं यथाभूतपरिज्ञानं निश्रित्य सो ऽष्टविधो विकल्पः परिज्ञातो भवति दृष्टे धर्मे तस्य सम्यक् परिज्ञानादायत्यां तदधिष्ठानस्य तदालम्बनस्य प्रपञ्चपतितस्य (dutt 38) वस्तुनः प्रादुर्भावो न भवति / तस्यानुदयादप्रादुर्भावात्तदालम्बनस्यापि विकल्पस्यायत्यां प्रादुर्भावो न भवति / एवं तस्य सवस्तुकस्य विकल्पस्य निरोधो यः स सर्वप्रपञ्चनिरोधो वेदितव्यः / एवञ्च प्रपञ्चनिरोधो बोधिसत्त्वस्य महायानपरिनिर्वाणमिति वेदितव्यम् / दृष्टे च धर्मे तस्य श्रेष्ठतत्त्वार्थ गोचरज्ञानस्य विशुद्धत्वात् सर्वत्र वशिताप्राप्ति लभते स बोधिसत्त्वः / यदुत निर्माणे ऽपि विचित्रे नैर्माणिक्या ऋद्ध्या / परिणामे च विचित्रे पारिणामिक्या ऋद्ध्या / सर्वज्ञेयस्य च ज्ञाने यावदभिप्रेतं चावस्थाने / कामकारतश्च विनोपक्रमं च्युतौ /
स एवं वशिताप्राप्तः सर्वसत्त्वश्रेष्ठो भवति निरुत्तरः / एवञ्च सर्वत्र वशिनस्तस्य बोधिसत्त्वस्य उत्तमाः पञ्चानुशंसा वेदितव्याः / परमां चित्तशान्तिमनुप्राप्तो भवति विहारप्रशान्ततया न क्लेशप्रशान्ततया / सर्वविद्यास्थानेषु चास्याव्याहतं परिशुद्धं पर्यवदातं ज्ञानदर्शनं प्रवर्तते / अखिन्नश्च भवति सत्त्वानामर्थे संसारसंसृत्या / तथागतानाञ्च सर्वसन्धायवचनान्यनुप्रविशति / न च महायानाधिमुक्तेः संहार्यो भवत्यपरप्रत्ययतया /
अस्य खलु पञ्चविधस्यानुशंसस्य पञ्चविधमेव कर्म वेदितव्यम् / परमो दृष्टधर्मसुखविहारो बोधिसत्त्वस्य बोधाय प्रयोगनिर्यातस्य कायिकचैतसिकस्य व्यायामक्लमस्य नाशाय चित्तशान्तेरनुशंसस्यैतत्कर्म वेदितव्यम् / सर्वबुद्धधर्माणां परिपाको बोधिसत्त्वस्य सर्वविद्यास्थानेष्वव्याहतज्ञानताया अनुशंसस्यै तत्कर्म वेदितव्यम् / सत्त्वपरिपाको बोधिसत्त्वस्य संसाराखेदिताया अनुशंसस्यैतत्कर्म वेदितव्यम् / विनेयानामुत् पन्नोत्पन्नानां संशयानां प्रतिविनोदनं धर्मनेत्र्याश्च दीर्घकालं परिकर्षणं सन्धारणं सद्धर्मप्रतिरूपकाणां शासनान्तर्धायकानां परिज्ञानप्रकाशनापकर्षणतया सर्वसन्धायवचनप्रवेशानुशंसस्यैतत्कर्म वेदितव्यम् / सर्वपरप्रवादिनिग्रहो दृढवीर्यता च प्राणिधानाच्चाच्युतिः असंहार्यता ऽपरप्रत्ययत्वानुशंसस्यैतत्कर्म वेदितव्यम् /
एवं हि बोधिसत्त्वस्य यावत् किञ्चिद्बोधिसत्त्वकरणीयं तत्सर्वमेभिः पञ्चभिरनुशंसकर्मभिः परिगृहीतं भवति / तत्पुनः करणीयं कतमत् / असंक्लिष्टञ्च आत्मसुखं बुद्धधर्मपरिपाकः सत्त्वपरिपाकः सद्धर्मस्य धारणम् अचलप्रणिधानस्योत्तप्तवीर्यस्य परवादविनिग्रहश्च /
तत्र चतुर्णा तत्त्वार्थानां प्रथमौ द्वौ हीनौ / तृतीयो मध्यमः / चतुर्थ उत्तमो वेदितव्यः /
बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्थं तत्त्वार्थपटलम् //
प्रभावपटलम् (छप्तेर् 1.5)
तत्र प्रभावो बोधिसत्त्वानां कतमः / समासतः समाधिवशिताप्राप्तस्य समाधिवशितासन्निश्रयेणोच्छामात्रात् सर्वार्थसमृद्धिः कर्मण्यचित्तस्य सुपरिभावितचित्तस्यार्यः प्रभाव इत्युच्यते / धर्माणाञ्च या महाफलता महानुशंसता सा तेषां प्रभाव इत्युच्यते / पूर्वं महापुण्यसंभारोपचयाद् बुद्धानां बोधिसत्त्वानां च सहजा आश्चर्याद्भुतधर्मता / अयमपि तेषां सहजो ऽपरः प्रभावो वेदितव्यः /
स खल्वेष प्रकारभेदेन बुद्धबोधिसत्त्वानां पञ्चविधो भवति / अभिज्ञाप्रभावो धर्मप्रभावः सहजश्च प्रभावः साधारणश्च श्रावक प्रत्येकबुद्वैरसाधारणश्च तैः /
तत्र षड्भिज्ञाः - ऋद्धिविषयो दिव्यं श्रोत्रंचेतसः पर्यायः पूर्वनिवासानुस्मृतिश्च्युत्युपपाददर्शनमास्रवक्षयज्ञानसाक्षात्क्रिया च अभिज्ञाप्रभाव इत्युच्यते / तत्र षट्पारमिताः-दानं शीलं क्षान्तिर्वीर्यं ध्यानं प्रज्ञा च धर्मा इत्युच्यन्ते / तेषां धर्माणां यो ऽनुभावः स धर्मप्रभाव इत्युच्यते /
तत्र ऋद्धिः कतमा / समासतो द्विविधा / पारिणामिकी नैर्माणिकी च / सा पुनर्द्विधाप्यनेकविधा प्रकारभेदतः /
तत्र पारिणामिक्या ऋद्धेः प्रकारप्रभेदः कतमः / तद्यथा कम्पनं ज्वलनं स्फरणं विदर्शनमन्यथीभावकरणं गमनागमनं संक्षेपः प्रथनं सर्वरूपकायप्रवेशनं सभागतोपसंक्रान्तिराविर्भावस्तिरोभावः वशित्वकरणं परर्द्धयभिभवनं प्रतिभानदानं (dutt 41) स्मृतिदानं सुखदानं रश्मिप्रमोक्षश्च इत्येवंभागीया ऋद्धि पारिणामिकीत्युच्यते /
तत्र कम्पनम् / इह तथागतः समाधिवशिताप्राप्तो वा कर्मण्यचित्तो वा बोधिसत्त्वो विहारमपि कम्पयति / गृहमपि ग्रामनगरक्षेत्रमपि नरकलोकमपि तिर्यग्लोकमपि प्रेतलोकमपि मनुष्यलोकमपि देवलोकमपि चातुर्द्वीपकमपि साहस्रिकमपि लोकधातुं द्विसाहस्रिकमपि त्रिसाहस्रमहासाहस्रमपि लोकधातुं त्रिसाहस्रशतमपि सहस्रमपि शतसहस्रमपि यावदप्रमेयानसंख्येयान् त्रिसाहस्रमहासाहस्रान् लोकधातून् कम्पयति /
तत्र ज्वलनम् / ऊर्ध्व कायात् प्रज्वलति / अधःकायाच्छीतला वारिधाराः स्यन्दन्ते / अधःकायात् प्रज्वलति / उपरिमात् कायाच्छीतला वारिधाराः स्यन्दन्ते / तेजोधातुमपि समापद्यते / सर्वकायेन प्रज्वलति / सर्वकायेन प्रज्वलितस्य विविधा अर्चिषः कायान्निर्गच्छन्ति नीलपीतलोहितावदातमाञ्जिष्ठाः स्फटिकवर्णाः /
तत्र स्फरणम् / यथापि तद्गृहमप्याभया स्फरति विहारमपि पूर्ववद्यावदप्रमेयानसंख्याम् लोकधातूनाभया स्फरति पूर्ववत्तद्यथा कम्पने /
तत्र विदर्शनम् / यथा सुखोपनिषण्णाद्यागतायाः श्रमणब्राह्मणश्रावकबोधिसत्त्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगायाः परिषदः तथागतो वा बोधिसत्त्वो वा अपायानपि विदर्शयत्यधः / देवमनुष्यानपि विदर्शयत्यूर्ध्वम् / तदन्यानि च बुद्धक्षेत्राणि विदर्शयति / तेषु च बुद्धबोधिसत्त्वान् यावद्गङ्गानदीबालुकासमान्यपि बुद्धक्षेत्राण्यतिक्रम्य येन नाम्ना संशब्दितं भवति बुद्धक्षेत्रं तत्र च बुद्धक्षेत्रे यन्नामको भवति तथागतः तच्च बुद्धक्षेत्रं दर्शयति तञ्च तथागतम् / तच्च नाम व्यपदिशति तस्य बुद्धक्षेत्रस्य तथागतस्य च / ततो ऽप्यर्वाग्विदर्शंयति व्यपदिशति ततो ऽपि परेण यत्कामं यावत्कामम् /
तत्रान्यथीभावकरणम् / स चेत् पृथिवीमपो ऽधिमुच्यते तत्तथैव भवति नान्यथा / तेजो वायुमधिमुच्यते तदपि तथैव भवति नान्यथा / स चेदपः पृथिवीमधिमुच्यते / स चेत्तेजः पृथिवीमधिमुच्यते / अपो वायुमधिमुच्यते / स चेद्वायु पृथिवीमधिमुच्यते / अपस्तेजो ऽधिमुच्यते / सर्वं तत्तथैव भवति नान्यथा / यथा महाभूतेष्वन्योन्यपरिणामे नान्यथीभावक्रिया एवं रूपगन्धरसस्प्रष्टव्येषु वेदितव्यम् / स चेत्तृणपर्णगोमयमृत्तिकादीनि द्रव्याणि भोजनपानयानवस्त्रालङ्कारभाण्डोपस्करगन्धमाल्यविलोपनमधिमुच्यते / पाषाणशर्करकपालादीनि च मणिमुक्तावैदूर्यशङ्खशिलाप्रवाडमधिमुच्यते / हिमवन्तं वा पर्वतराजमादिं कृत्वा सर्वपर्वतान् सुवर्णंमधिमुच्यते / तदपि सर्वं तथैव भवति नान्यथा / तथा सुवर्णानां सत्त्वानां दुर्वर्णतामधिमुच्यते / दुर्वर्णानां सुवर्णताम् / तदुभयविवर्जितानां सुवर्णतां वा दुर्वर्णतां वा तदुभयं वा / यथा सुवर्णदुर्वर्णतामेवं व्यङ्गाव्यङ्गतां कृश स्थूलतामित्येवमादि यत्किञ्चिदन्यथा सत्स्वलक्षणतः शक्यरूपञ्चा [न्यथा] ऽधिमुच्यते / तत्सर्वं तथा भवति यथा ऽधिमुच्यते /
तत्र गमनागमनम् / तिरः कुड्यं तिरः शैलं तिरः प्राकारमसज्यमानेन कायेन गच्छति विस्तरेण यावद्ब्रह्मलोकमुपसंक्रामति प्रत्यागच्छति च यावदकनिष्ठादूर्ध्वं तिर्यग्वा पुनर्यावदप्रमेयानसंख्येयांस्त्रिसाहस्रमहासाहस्रान् लोकधातून् गच्छति आगच्छति च कायेन वा औदारिकेण चातुर्महाभौतिकेन / दूरं चासन्नमधिमुच्य मनःसदृशेन वा जवेन गच्छति चागच्छति च /
तत्र संक्षेपप्रथनम् / हिमवन्तमपि पर्वतराजं परमाणुमात्रमभिसंक्षिपति / परमाणुमपि हिम वन्तं पर्वतराजं प्रतानयति /
तत्र सर्वरूपकायप्रवेशनम् / महत्या विचित्रायाः परिषदः पुरस्तात् स ग्रामनिगमतृणवन[-भूमि-]पर्वतं रूपकायमात्मकाये प्रवेशयति / सा च सर्वा परिषत्तस्मिन्नेव काये प्रविष्टमात्मानं संजानीते /
तत्र सभागतोपसंक्रान्तिः / क्षत्रियपरिषद मुपसंक्रामति / उपसंक्रान्तस्य यादृशी तेषां वर्णपुष्कलता भवति तादृशी तस्य / यादृश आरोहपरिणाहस्तादृशस्तस्य भवति / यादृशी स्वरगुप्तिस्तेषां तादृशी तस्य भवति / यञ्च ते ऽर्थं मन्त्रयन्ते तमसावर्थं मन्त्रयते / यमपि ते ऽर्थं न मन्त्रयन्ते तमपि सो ऽर्थं न मन्त्रयते / उत्तरं चैतानानुधार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा ऽन्तर्द्धीयते / अन्तर्हितञ्चैनं न प्रजानन्ति को ऽन्वेषो ऽन्तर्हितो देवो वा मनुष्यो वेति / यथा क्षत्रियपरिषदमेवं ब्राह्मणगृहपतिश्रमणपरिषदं चातुर्महाराजकायिकान् देवान् त्रयस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो देवानेवं ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृस्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलानसंज्ञिसत्त्वान् अबृहान् अतपान् सुदृशान् सुदर्शनानकनिष्ठान् /
तत्राविर्भावतिरोभावः / महत्या परिषदः पुरस्ताच्छतकृत्वः सहस्रकृत्वः अतो वा परेणान्तर्धीयते / पुनश्च तथैवात्मभाव मुपदर्शयत्याविष्करोति /
तत्र वशित्वकरणम् / यावान् कश्चित् सत्त्वधातुः तं सर्व गमनागमनस्थानाद्यासु क्रियासु संवर्तयति / स चेदस्यै वं भवति गच्छतु गच्छति / तिष्ठतु तिष्ठति / आगच्छत्वागच्छति / भाषतां भाषते /
तत्र परर्द्ध्यभिभवः / तथागतस्तदन्येषां सर्वर्द्धिमतामृध्यभिसंस्कारमभिभूय यथाकामं सर्वं संपादयति / निष्ठागतो बोधिसत्त्व एकजातिप्रतिबद्धश्च चरमभविको वा तथागतं स्थापयित्वा तुल्यजातीयञ्च बोधिसत्त्वं तदन्येषां (dutt 44) सर्वेषामृद्ध्यभिसंस्कारमभिभवति / तदन्ये बोधिसत्त्वा उत्कृष्टतरभूमिप्रविष्टांस्तुल्यजातीयांश्च बोधिसत्त्वान् स्थापयित्वा तदन्येषां सर्वर्द्धिमतामृद्ध्यभिसंस्कारमभिभवन्ति /
तत्र प्रतिभानदानम् / प्रतिभा[न]दाने पर्यादत्ते प्रतिभानमुपसंहरति /
तत्र स्मृतिदानम् / धर्मेषु स्मृतौ प्रमुषितायां स्मृतिमुपसंहरति /
तत्र सुखदानम् / ये ऽस्य भाषमाणस्य धर्मं शृण्वन्ति तेषां तादृशं कायिकं चैतसिकमनुग्रहमुपसंहरति प्रतिप्रस्रब्धि सुखम् / येन ते विगतनिवरणा धर्मं श्रृण्वन्ति / तच्च तावत्कालिकयोगेन न त्वत्यन्तम् धातुवैषमिकांश्चौपक्रमिकानमनुष्याभिसृष्टांश्चोपसर्गान् व्युपशमयति /
तत्र रश्मिप्रमोक्षः बोधिसत्त्वो वा तथागतो वा ऋद्ध्यातद्रूपान् रश्मीन् कायत्प्रमुञ्चति य एकत्या दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु गत्वा नारकाणां सत्त्वानां नारकाणि दुःखानि प्रतिप्रस्रम्भयति / एकत्या देवलोकस्थानुदारान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् स्वभवनस्थान् गत्वा इहागमनाय संचोदयति / तथा तदन्यलोकधातुस्थितान् बोधिसत्त्वानिहागमनाय संचोदयति दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु / समासतस्थागतः अप्रमेयैरसंख्येयैर्नानाप्रकारै रश्मिभिरप्रमाणानां सत्त्वानां विचित्रमप्रमेयमसंख्येयमर्थं करोति / ते पुनरेते सर्वे पारिणामिक्या ऋद्ध्याः प्रकारा एकैकशः प्रभिद्यमाना अप्रमेया असंख्येया वेदितव्याः / अन्यथा प्रकृत्या विद्यमानस्य वस्तुनस्तदन्यथाविकारापादनता परिणाम इत्युच्यते / तस्मादेषा पारिणामिकी ऋद्धिरित्युच्यते /
तत्र नैर्माणिकी ऋद्धिः कतमा / समासतो निर्वस्तुकं निर्माणम् / निर्माणचित्तेन यथाकाममभिसंस्कृतं स्मृद्ध्यतीयं नैर्माणिकी ऋद्धिरित्युच्यते / सा चानेकविधा / कायनिर्माणं वाड्निर्माणं विषयनिर्माणञ्च / तत्पुनः कायनिर्माणमात्मनो वा सदृशं विसदृशं वा परस्य वा सदृशं विसदृशं वा निर्मिमीते / तत्पुनः कायनिर्माणमात्मनस्तु परेषाञ्च सदृशासदृशम् / इन्द्रियसभागमिन्द्रियाधिष्ठानं निर्मिमीते न त्विन्द्रियम् / विषयसदृशमपि निर्माणं (dutt 45) निर्मिमीते / तद्यथा भोजनपानादि मणिमुक्तावैदूर्यादि च यत्किञ्चिद्रूपगन्धरसस्प्रष्टव्यसंगृहीतं बाह्यमुपकरणं तत्सदृशं तद्विनिर्मुक्तं सर्वं यथाकामं निर्मिमीते / तत्पुनरात्मसभागमनेकविधं बहु नानाप्रकारं देवनाग[यक्षा]सुरगरुडकिन्नरमहोरगवर्ण मनुष्यवर्ण तिर्यक्प्रेतनारकवर्णं श्रावकवर्णं प्रत्येकबुद्धवर्णं बोधिसत्त्ववर्णं तथागतवर्णम् / स यदि तादृश एव बोधिसत्त्वो भवति तादृशमेव निर्मिमीते / आत्मसभागमस्य तन्निर्माणं भवति / अन्यथा तु विसभागं भवति निर्माणमात्मनः / स चेत्परं देवभूतं तत्सादृश्येन निर्मिमीते परसदृशमस्य तन्निर्माणं भवति / सचेद्वैसादृश्येन निर्मिमीते परविसभागं भवति / यथा देवभूतमेवं यावत्तथागतभूतं वेदितव्यम् /
तत्र प्रभूतकायनिर्माणं कतमत् / इह तथागतो वा बोधिसत्त्वो वा दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सकृदप्रमेयासंख्येयानां सत्त्वानाम् अर्थं करोति तैर्विचित्रवर्णनिर्मितैः / किञ्चिच्च निर्माणमधितिष्ठति यदुपरते ऽपि बोधिसत्त्वे तथागेते वा ऽनुवर्तत एव / किञ्चिन्निर्माणं बुद्धबोधिसत्त्वानां केवलं सत्त्वानां विदर्शनाय मायोपमं भवति / किञ्चित्पुनर्भूतं भोजनपानयानवस्त्रादिमणिमुक्तावैदूर्यशंखशीलाप्रवाडादि च निर्मितं भवति / तथैव नान्यथा / येन वित्तोपकरणोनैव वित्तोपकरणकार्यं क्रियते / इदन्तावत् कायनिर्माणं विषयनिर्माणं च /
वाङ्निर्माणं पुनरस्ति सुस्वरतायुक्तम् / अस्ति विशदस्वरान्वितं स्वसम्बद्धं परसम्बद्धमसम्बद्धं धर्मदेशनासंगृहीतं प्रमत्तसंचोदना-संगृहीतञ्च /
तत्र सुस्वरता / बुद्धबोधिसत्त्वानां निर्मितो वाग्व्याहारो गम्भीरो भवति मेघरवः कलविङ्कमनोज्ञस्वरसदृशो हृदयंगमः ग्रेमणीयः / पौरी च सा वाङ्निर्मिता भवति वल्गुविस्पष्टा विज्ञेया श्रवणीया अप्रतिकूला अनिश्रिता अपर्यन्ता /
तत्र विशदस्वरता / आकांक्षमाणः तथागतो वा बोधिसत्त्वो वा विचित्रां देवनागयक्षासुर गरुडकिन्नरमहोरगश्रावकबोधिसत्त्वपरिषदं (dutt 46) सन्निषण्णां सन्निपतितां यावद्योजनशतपरिषन्मण्डलपर्यन्तां सर्वां स्वरेण सुपरिपूर्णेन विज्ञापयति ये ऽपि दूरे य ऽप्यन्तिके निषण्णाः / आकांक्षमाणः साहस्रिकचूडिकलोकधातुन् स्वरेण विज्ञापयति / द्विसाहस्रं वा त्रिसाहस्रं वा यावद्दशसु दिक्ष्वप्रमेयासंख्येयान् लोकधातून् स्वरेण विज्ञापयति / तस्माच्च घोषादनेकप्रकारा सत्त्वानां धर्मदेशना निश्चरति / या सत्त्वानामर्थाय संवर्तते /
तत्र स्वसम्बद्धं वाङ्निर्माणं यत्स्वयमेव निर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति /
परसंबद्धं पुनर्यत् परनिर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति /
तत्रासम्बद्धं वाङ्निर्माणं यदाकाशात् वाङ्निश्चरति निर्मिताद्वा न सत्त्वसन्तानात् /
तत्र धर्मदेशनानिर्माणं यत् तत्र तत्र सम्मूढानां युक्तिसंदर्शनार्थम् /
तत्र चोदनानिर्माणं यदसम्मूढानां प्रतिलब्धप्रसादानां प्रमत्तानां प्रमादे ह्रीसंजननाय अप्रमादे च समादापनाय /
तदेतदनेकविधं निर्माणम् / समासतः कायनिर्माणं वाङ्निर्माणं विषय निर्माणञ्च वेदितव्यम् / इतीयं नैर्माणिकी ऋद्धिः / एषापि चैकैकप्रकारभेदेनाप्रमेया चासंख्येया च वेदितव्या /
सा पुनरेषा द्विविधापि ऋद्धिर्बुद्धबोधिसत्त्वानां समासतो द्वे कार्ये निष्पादयति / आवर्जयित्वा वा ऋद्धिप्रातिहार्येण सत्त्वान् बुद्धशासने ऽवतारयति अनुग्रहं वा अनेकविधं बहु नानाप्रकारं दुःखितानां सत्त्वानामुपसंहरति /
तत्र पूर्वेनिवासज्ञानं बुद्धबोधिसत्त्वानां कतमत् / इह तथागतो वा बोधिसत्त्वो वा आत्मनैवात्मनस्तावत्पूर्वनिवासं समनुस्मरति अमुका नाम ते सत्त्वा यत्राहमभूवमेवन्नामेति विस्तरेण यथासूत्रं सत्त्वकायदिकं सर्वमनुस्मरति / यथा चात्मनात्मनः समनुस्मरति तथा परेषामपि अनुस्मारयति / स्वयमेव च परेषामनुस्मरति / ये ऽपि ते सत्त्वकायाः पूर्वान्ते यन्निवासास्तानप्यात्मना (dutt 47) स्मरति परेषां स्मारयति अमुका नाम ते सत्त्वा यत्राहमभूवमेवंनामेति विस्तरेण / तेषामपि सत्त्वानां तथैव सर्वं पूर्वेनिवासमनुस्मरति यथैवात्मनो दृष्टधर्मे / सूक्ष्ममपि समनुस्मरति यत्किञ्चिदल्पं वा प्रभूतं वा पूर्वचेष्टितं पूर्वमेव चेतयित्वा अप्रमुषितम् / निरन्तरमपि समनुस्मरति / क्षणं नैरन्तर्ययोगेनाविच्छिन्नं ययैवानुपूर्व्या कृतमितमप्यनुस्मरति / यस्य कल्पगणनायोगेन शक्या संख्यां कर्तुम् अप्रमेयासंख्येयमप्यनुस्मरति / यस्य कल्पगणनायोगेनाशक्या संख्यां कर्तुम् अव्याहतमस्य समासतः पूर्वेनिवासज्ञानं प्रवर्तते यत्रेष्टं यथेष्टं यावदिष्टम् / एवंरूपो बोधिसत्त्वस्य तथागतस्य च पूर्वेनिवाससंगृहीतः प्रभावः / स तेन पूर्वेनिवासानुस्मृतिज्ञानेन जातकान् पूर्वान् बोधिसत्त्वचर्यां सत्त्वानां बुद्धे भगवति प्रसादजननार्थं गौरवोत्पादनार्थं च विचित्राननेकप्रकारान् प्रकाशयति इतिवृत्तकांश्च पूर्वयोगप्रतिसंयुक्तान् सत्त्वानां कर्मफलविपाकमारभ्य / शाश्वतदृष्टिकानां च सत्त्वानां शाश्वतदृष्टिं नाशयति तद्यथा पूर्वान्तकल्पकानां शाश्वतवादिनामेकत्य-शाश्वतिकानां वा /
दिव्यं श्रोत्रज्ञानं बुद्धबोधिसत्त्वानां कतमत् / इह तथागतो वा बोधिसत्त्वो वा दिव्येन श्रोत्रेण दिव्यान् मानुष्यकान् शब्दानार्यानप्यनार्यानपि घनानप्यणुकानपि व्यक्तानप्यव्क्तानपि निर्मितानप्यनिर्मितानपि दूरान्तिकस्थान् शृणोति /
तत्र दिव्याः शब्दाः ऊर्ध्वं यावदकनिष्ठभवनोपपन्नानां सत्त्वानाम् / स चेत्परेणाभोगं न करोति अथ करोति ततो ऽपि परेणान्येषूर्ध्वं लोकधातुषु शृणोति /
तत्र मानुष्यकाः शब्दाः / तिर्यक् सर्वचातुर्द्वीपकोपपन्नानां सत्त्वानाम् /
तत्रार्याः शब्दाः / ये बुद्धानां बुद्धश्रावकानां च बोधिसत्त्वानां प्रत्येकबुद्धानाञ्च / तेषां वा ऽन्तिकाच्छ्रुत्वानुश्रावयतां तदन्येषां सत्त्वानाम् / तद्यथा संदर्शयतां समादापयतां वा समुत्तेजयतां संप्रहर्षयतां कुशलसमादानमारभ्याकुशलत्यागञ्च / (dutt 48) तथा ऽसंक्लिष्टचित्तानामुद्देशः स्वाध्यायो विनिश्चयः सम्यक् चोदना स्मारणाववादानुशासनी इति यद्वा पुनरन्यदपि किञ्चित् सुभाषितं सुलपितमर्थोपसंहितम् / अमी उच्यन्ते आर्याः शब्दाः /
तत्रानार्याः शब्दाः / ये सत्त्वानां मृषावादपैशुन्यपारूष्यसंभिन्नप्रलापशब्दा अधो वा ऽपायोपपन्नानामूर्ध्वं वा देवोपपन्नानां तिर्यग्वा मनुष्येषूपपन्नानाम् /
तत्र धनाः शब्दाः / ये महासत्त्वसंघशब्दा वा विविधैर्वा कारणैः कार्यमाणानामार्त्तस्वरं कन्दमानानां विक्रोशतां वा मेघस्तनितशब्दा वा शंखभेरीपटहशब्दा वा /
अणुकाः शब्दाः / अन्ततो यावत् कर्णजापशब्दाः /
व्यक्ताः शब्दाः / येषामर्थो विज्ञायते /
अव्यक्ताः शब्दाः / येषामर्थो न विज्ञायते / तद्यथा द्रामिडानांमन्त्राणां वायुवनस्पतिशुकसारिकाकोकिलजीवंजीवकादीनाम् /
तत्र निर्मिताः शब्दाः / ये ऋद्धिमद्भिश्चेतोवशिप्राप्तैर्वा ऋद्ध्यभिसंस्कृताः /
दूराः शब्दाः / यत्र ग्रामे क्षेत्रे विहारे वा तथागतो वा बोधिसत्त्वो वा विहरति तत्र ये शब्दा निश्चरन्ति तान् स्थापयित्वा तदन्यत्र यावदप्रमेयासंख्येयेषु लोकधातुषु /
च्युत्युपपत्तिज्ञानं बुद्धबोधिसत्त्वानां कतमत् / इह तथागतो वा बोधिसत्त्वो वा दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्युतिकाले ऽपि च्युतानपि सुवर्णदुर्वर्णान् हीनप्रणीतानपरान्ते च जातान् / वृद्धेश्चान्वयादिन्द्रियाणां परिपाकाद्विचित्रे कायचेष्टिते कुशलाकुशलाव्याकृतेषु प्रवर्तमानान् / तथावभासमपि पश्यति जानीते सूक्ष्ममपि पश्यति / यद्रूपं निर्मितं यच्च दिव्यमच्छं रूपमधो यावदवीचिमूर्ध्वं यावदकनिष्ठभवनम् / स चेदध ऊर्ध्वं वान्येषु लोकधातुषु रूपदर्शनमारभ्याभोगं करोति तिर्यग्यावदप्रमेयेष्वसंख्येयेषु लोकधातुषु सर्वं रूपगतं पश्यति / अन्ततस्तेषु तेषु बुद्धक्षेत्रेषु (dutt 49) तांस्तांस्तथागतान् विचित्रेषु महत्सु पर्षन्मण्डलेषु निषण्णान् धर्म देशयतः पश्यति / तत्र दिव्येन चक्षुषा तथागतो वा बोधिसत्त्वो वा दशसु दिक्षु कायचेष्टितं शुभाशुभं दृष्ट्वा यथायोगं यथार्ह तेषु सत्त्वेषु प्रतिपद्यते / दिव्येन च श्रोत्रेण वाक्चेष्टितं शुभाशुभं श्रुत्वा तेषु सत्त्वेषु यथायोगं यथार्हं प्रतिपद्यते / एवं दिव्येन चक्षुषा दिव्येन श्रोत्रेण बोधिसत्त्वस्तथागतो वा समासेन कर्म करोति /
तत्र चेतःपर्यायज्ञानं बुद्धबोधिसत्त्वानां कतमत् / इह बोधिसत्त्वो वा तथागतो वा परेषां दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सत्त्वानां क्लेशपर्यवस्थितमपि चित्तं जानाति / विगतक्लेशपर्यवस्थानमपि क्लेशसानुबन्धं सानुशयमपि क्लेशनिरनुबन्धं निरनुशयमपि मिथ्याप्रणिहितमपि चित्तं जानाति / तद्यथा तीर्थिकचित्तं सामिषाभिप्रायस्य क्लिष्टमपि चित्तं सम्यक् प्रणिहितमपि चित्तं जानाति / एतद्विपर्ययेण हीनमपि चित्तं जानाति / तद्यथा कामधातूपपन्नानां सर्वसत्त्वानामन्ततो मृगपक्षिणामपि / मध्यमचित्तं जानाति तद्यथा सर्वेषां रूपधातूपपन्नानां सत्त्वानाम् / प्रणीतमपि चित्तं जानाति तद्यथा सर्वेषामारूप्योपपन्नां सत्त्वानाम् / सुखप्रसंयुक्तमपि दुःखप्रसंयुक्तमप्यदुःखासुखवेदनासंप्रयुक्तमपि चित्तं जानाति / एकेन परचित्तज्ञानेनैकस्य सत्त्वस्य यस्य यद्यथा यादृशं यावच्चितं प्रत्युपस्थितं भवति तत्सकृद्यथाभूतं प्रजानाति / एकेनैव परचित्तज्ञानेन प्रभूतानामपि सत्त्वानां येषां यद्यथा यादृशं यावच्चित्तं प्रत्युपस्थितं भवति तदपि सकृद्यथाभूतं प्रजानाति / सा पुनरियमभिज्ञा बुद्धस्य बोधिसत्त्वानामिन्द्रियपरापरज्ञानाय सत्त्वानां नानाधिमुक्तिज्ञानाय नानाधातुचरितज्ञानाय यथायोगञ्च प्रतिपत्सु चित्रासु निर्वाणपुरःसरीषु सम्यक्सन्नियोगाय / इदमस्याः कर्म वेदितव्यम् /
तत्रास्रवक्षयज्ञानं बुद्धबोधिसत्त्वानां कतमत् / इह तथागतो वा बोधिसत्त्वो वा क्लेशानां क्षयप्राप्तिं यथाभूतं प्रजानाति / प्राप्तो मया परैर्वा आस्रवक्षयो न वेति / आस्रवक्षयप्राप्त्युपायमप्यात्मनः परेषाञ्च यथाभूतं प्रजानाति / (dutt 50) यथा उपायमेवमनुपायमपि यथाभूतं प्रजानाति / आस्रवक्षयप्राप्तावभिमानं परेषां यथाभूतं प्रजानाति / निरभिमानमपि यथाभूतं प्रजानाति / बोधिसत्त्वः पुनः सर्वं चैतत् प्रजानात्यास्रवक्षयञ्च स्वयं न साक्षात्करोति / अतः सास्रवञ्च स्वयं न साक्षात्करोति / अतः सास्रवाञ्च वस्तु बोधिसत्त्वः सहस्रवैर्न विजहाति / तत्र च विचरति सास्रवे वस्तुनि / न च संक्लिश्यत इति सो ऽस्य सर्वप्रभावाणां महत्तमः प्रभावो वेदितव्यः / तेन खल्वास्रवक्षयज्ञानेन बुद्धबोधिसत्त्वाः स्वयं न क्लिश्यन्ते / परेषाञ्च व्यपदिशन्त्य भिमानञ्च नाशयन्ति / इदमस्य कर्म वेदितव्यम् /
तत्र धर्मप्रभावः कतमः / दानप्रभावः शीलक्षान्तिवीर्यध्यानप्रज्ञाप्रभावश्च / स पुनरेष दानादीनां धर्माणां प्रभावः समासतश्चतुर्भिराकारैर्वेदितव्यः / विपक्षप्रहाणतः संभारपरिपाकतः स्वपरानुग्रहतः आयत्यां फलदानतश्च /
दानं ददद् बोधिसत्त्वो दानविपक्षं मात्सर्यं प्रजहाति / आत्मनो बोधिसंभारभूतञ्च भवति तदस्य दानम् / दानेन च संग्रहवस्तुना सत्त्वान् परिपाचयति / पूर्वं दानात् सुमना ददच्चित्तं प्रसादयति / दत्त्वा चाविप्रतिसारी / त्रिषु कालेषु प्रमुदितचित्ततया आत्मानमनुगृहणाति / परेषां च जिघत्सापिपासाशोतोष्णव्याधीच्छाविघातभयदुःखापनयनात् परमनुगृह्णाति / परत्र च यत्र यत्र प्रत्याजायते आढ्यो भवति महाभोगो महापक्षो महापरिवार इत्येष चतुराकारो दानस्य प्रभावो नात उत्तरि नातो भूयः /
कायवाक्संवरशीलं समाददानो बोधिसत्त्वः शीलविपक्षं दौःशील्यं प्रजहाति / बोधेश्च संभारभूतं भवति तदस्य शीलसमादानम् / समानार्थतया च संग्रहवस्तुना सत्त्वान् परिपाचयति / दौःशील्यप्रत्ययं भयमवद्यं वैरं प्रजहदात्मानमनुगृहणाति सुखं स्वपन् सुखं प्रतिबुध्यमानः / तथा शीलवतो ऽविप्रतिसारः प्रामोद्यं यावच्चित्तसमाधिः / इत्येवमात्मानमनुगृह्णाति / सर्वसत्त्वानाञ्च सर्वप्रकारैरविहेठनतया अभयमनुप्रयच्छति / एवं परमप्यनुगृह्णाति / (dutt 51) तन्निदानञ्च कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते / इत्ययं चतुराकारः प्रभावः शीलस्य / नात उत्तरि नातो भूयः /
क्षमो बोधिसत्त्वः क्षान्तिविपक्षमक्षान्ति प्रजहाति / बोधेश्च संभारभूता सास्य क्षान्ति र्भवति / समानार्थतयैव च सत्त्वान् परिपाचयति / आत्मानञ्च परञ्च महतो भयात्परित्रायमाणस्तया क्ष्यान्त्या आत्मानञ्च परंश्चानुगृह्णाति / ततो निदानञ्च बोधिसत्त्व आयत्यामवैरबहुलो भवत्यभेदबहुलश्चादुःखदौर्मनस्यबहुलः / दृष्टे च धर्मे ऽविप्रतिसारी कालं करोति / कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते / इत्ययञ्चतुराकारः क्षान्तेः प्रभावो नात उत्तरि नातो भूयः /
आरब्धवीर्यो बोधिसत्त्वो विहरन् वीर्यविपक्षं कौसीद्यं प्रजहाति / बोधेश्च संभारभूतं भवति सन्निश्रयश्च तद्वीर्यम् / समानार्थतयैव च सत्त्वान् परिपाचयति / आरब्धवीर्यश्च सुखं स्पर्शं विहरन्नव्यवकीर्णः पापकैरकुशलैर्धर्मः पूर्वेणापरं विशेषाधिगमं पश्यन् प्रीतिप्रामोद्येनात्मानमनुगृह्णाति / कुशलपक्षाभियुक्तश्च परं न कायेन वाचा वा विहेठयति / परेषां चारब्धवीर्यतायां छन्दं जनयति / एवं परमप्यनुगृह्णाति / हेतुबलिकश्च भवति आयत्यां पुरुषकाराभिरतश्च / इत्ययं चतुराकारो वीर्यप्रभावः / नात उत्तरि नातो भूयः /
ध्यानं समापद्यमानो बोधिसत्त्वो ध्यानविपक्षं क्लेशं काम वितर्कप्रीतिसुखरूपसंज्ञादींश्चोपक्लेशान् प्रजहाति / बोधेश्च संभारभूतं सन्निश्रयभूतं भवति तदस्य ध्यानम् / समानार्थतयैव च सत्त्वान् परिपाचयति / दृष्टधर्मसुखविहारतयात्मानमनुगृह्णाति / शान्तप्रशान्तवीतरागचित्ततया सत्त्वेष्वव्याबाध्यो भवन्नविकोप्यः परमप्यनुगृह्णाति / ज्ञानविशुद्धिरभिज्ञानिर्हारविशुद्धिर्देवोपपत्तिश्चायत्यां ध्यानफलम् / इत्येष चतुराकारो ध्यानप्रभावो नात उत्तरि नातो भूयः /
प्रज्ञावान् बोधिसत्त्वः प्रज्ञाविपक्षमविद्यां प्रजहाति / बोधेश्च संभारभूता भवत्यस्य सा प्रज्ञा / दानेनापि प्रियवादितयाप्यर्थचर्ययापि समानार्थतयापि (dutt 52) च सत्त्वान् परिपाचयति / ज्ञेयवस्तु-यथार्थ-प्रत्यवगमोपसंहितेनोदारेण प्रीतिप्रामोद्येनात्मानमनुगृह्णाति / सर्वत्र न्यायोपदेशेन दृष्टे धर्मे संपराये च हितसुखाभ्यां सत्त्वानप्यनुगृह्णाति / सर्वकुशलमूलपरिग्रहञ्च तया सम्यक्करोति / आयत्याञ्च द्विविधमप्यावरणविसंयोगं साक्षात्करोति क्लेशावरणविसंयोगं ज्ञेयावरणविसंयोगञ्च / इत्ययं चतुराकारः प्रज्ञायाः प्रभावः / नात उत्तरि नातो भूयः / अयमुच्यते धर्मप्रभावः /
सहजः प्रभावो बुद्धबोधिसत्त्वानां कतमः / प्रकृतिजातिस्मरता / सत्त्वानामर्थे अप्रतिसंख्याय दीर्घकालिकविचित्र-तीव्रनिरन्तरदुःखसहिष्णुता / सत्त्वानामेवार्थे सत्त्वार्थसंपादकेन दुःखेन मोदना / तुषितेषु चोपपन्नस्य यावदायुस्तुषितेष्ववस्थानम् / त्रिभिश्च स्थानैस्तुषितोपपन्नानां तदन्येषां देव पुत्राणामभिभवः दिव्येनायुषा दिव्येन वर्णेन दिव्येन यशसा / उपपद्यमानस्य च मातुः कुक्षावुदारेणावभासेन लोकधातुस्फरणं संप्रजानतश्च मातुः कुक्षिप्रवेशः स्थानं निर्गमो जन्म च / जातमात्रस्य च पृथिव्यां सप्तपदगमनमपरिगृहीतस्याकेनचित् / वाचश्च भाषणा जातस्य चोदारदेवनागयक्षासुरगरुडकिन्नरमहोरगैर्दिव्यैमाल्यैर्वाद्यैर्धूपैश्चेलविक्षेपैश्छत्रध्व-जपताकादिभिर्वरप्रवराभिः पूजाकर्म / निरुत्तरैश्च द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रता / चरमे च भवे पश्चिमे जन्मनि सर्वप्रत्यर्थिकैर्मारानीकैरपि सर्वोपक्रमैश्चाबाध्यता / बोधिमण्डे च निषण्णस्य मैत्र्या सर्वमारबलपराजयः / सर्वपर्वसु चैकैकस्मिन्नारायण बलसन्निविष्टता / दह्रस्यैव कुमारकस्य स्वयमेव कौशलकृताविनः / सर्वलौकिकशिल्पस्थानानां त्वरितत्वरितमनुप्रवेशः / स्वयञ्चानाचार्य कमेकाकिन एव च त्रिसाहस्रमहासाहस्रे महाबोधेरभिसंबोधः / ब्रह्मणा च सहांपतिना स्वयमुपसंक्रम्य लोके सद्धर्मदेशनायै अध्येषणा / महामेघरवाप्रतिसंवेदना / अव्युत्थानतया च समापत्तेः शान्तता / बोधिसत्त्वे च मृगपक्षिणामप्यन्ततः क्षुद्रमृगाणामपि परमा विश्वास्यता / सर्वकालमुपसंक्रमणं तस्य चान्तिके यथाकामविहारिता /
(dutt 53) तिरश्चामन्तिकात्तथागतस्य पूजा तद्यथा मर्कटो मध्वनेडकं तथागतायानुप्रदत्तवान् / प्रतिगृहीते च तस्मिन् भगवता स मर्कटो हृष्टमानसः प्रत्यवसृष्टः स नृत्यमानः / भगवन्तमेवोद्दिश्य तथागतः स्नास्यति तं स्नापयिष्यामीति मेघप्रतीक्षणा / वृक्षमूले च बोधिसत्त्वस्य तथागतस्य वा सन्तिष्ठतस्तस्य सर्ववृक्षाणां प्राचीननिम्नासु छायासु तस्य वृक्षस्य छायया कायाविजहनता / षड्भिर्वर्षैरभिसंबुद्धबोधेस्तथागतस्यावतारगवेषिणो ऽपि मारस्यालब्धावतारता / सारूप्य सहगतायाश्च स्मृतेः सततसमितं प्रत्युपस्थानता / स्मृतस्य च प्रतिसंविदितानां वेदनानां संज्ञानां वितर्काणामुत्पादः स्थानं निरोधश्च /
तथा दर्शनानुग्रहकरः सहजः प्रभावो बुद्धानामार्यचारविहारसंगृहीतश्च /
तत्र दर्शनानुग्रहकरः / तद्यथा उन्मत्ताः क्षिप्तचित्ताः तथागतं दृष्ट्वा स्वचित्तं प्रतिलभन्ते / विलोमगर्भाः स्त्रियः अनुलोमगर्भा भवन्ति / अन्धाश्चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्राणि / रक्तानां रागपर्यवस्थानां विगच्छति द्विष्टानां द्वेषपर्यवस्थानं मूढानां मोहपर्यवस्थानम् / इत्ययमेवंभागीयो दर्शनानुग्रहकरः सहजः प्रभावो वेदितव्यः /
तत्रार्यचारविहारसंगृहीतः सहजः प्रभावः / तद्यथा दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति / स चास्य तृणपर्णसंस्तर एकपार्श्वाधिशयितो भवति / अविकोपितस्तथागतार्हत्सम्यक्संबुद्धः शयानः / न चास्य वायुः कायाच्चीवरमपकर्षति / सिंहगतिमपि गच्छति / ऋषभगतिमपि गच्छति / दक्षिणं पादं तत्प्रथमत उद्धरति / ततो वामेन पादेनानुगच्छति / गच्छतश्चास्य उच्चा भूमिप्रदेशा नीचा भवन्ति / नीचा श्चोच्चाः / समाः पाणितलजाताः / अपगतपाषाणशर्करकपालाः / विवेकनिम्नेन च चित्तेन ग्रामं प्रविशति / प्रविशतश्चास्य नीचानि द्वाराणि उच्चानि भवन्ति / आहारमाहरतो नैकौदनपुलाकमप्यतिभिन्नं प्रविशति / न चावशिष्टं भवति यावद् द्वितीयमालोपं (dutt 54) प्रक्षिपति / इत्ययमेवंभागीय आर्यचारविहारसंगृहीतः प्रभावो वेदितव्यः / परिनिर्वाणसमये च महापृथिवीचाल उल्कापाता दिशो दाहा अन्तरिक्षे देवदुन्दुभीनामभिनदनम् / सो ऽपि सहज एव तथागतानां प्रभावो नाभिज्ञासंस्कृतः / अयं बुद्धबोधिसत्त्वानां सहजः प्रभाव इत्युच्यते /
तत्र कतमो बुद्धबोधिसत्त्वानां श्रावकप्रत्येकबुद्धैरसाधारणः प्रभावः / कतमश्च साधारणः / असाधारणता समासतस्त्रिभिराकारैर्वेदितव्या / सूक्ष्मतः प्रकारतो धातुतश्च / इह तथागतो बोधिसत्त्वो वा ऽप्रमेयासंख्येयानां सत्त्वानामप्रमेयासंख्येन प्रभावोपायेन यथा ऽर्थक्रिया भवति तद्यथाभूतं प्रजानाति / एवं सूक्ष्मतः / सर्वप्रकारेण चाभिज्ञाप्रभावेण धर्मप्रभावेण सहजेन प्रभावेण समन्वागतो भवति / एवं प्रकारतः / सर्वलोकधातवः सर्वसत्त्वधातवश्चास्य प्रभावविषयञ्च भवति / एवं धातुतः / श्रावकस्य तु सह सत्त्वधातुना द्विसाहस्रो लोकधातुरभिज्ञाविषयः / प्रत्येकबुद्धस्य सर्व एव त्रिसाहस्रो ऽभिज्ञाविषयः / तत्कस्य हेतोः / तथा हि ते एकस्यैवात्मनो दमाय प्रतिपन्नाः / नो तु सर्वसत्त्वानाम् / तस्मात्तेषामेक एव धातुः परमप्रभावविषयो भवति / एतानाकारान् स्थापयित्वा बुद्धबोधिसत्त्वानां तदन्यः प्रभावः श्रावकप्रत्येकबुद्धैः साधारणो वेदितव्यः / तदेवं सति श्रावकप्रत्येकबुद्धा एव तावद्बुद्धबोधिसत्त्वैः सह न तुल्याभिज्ञा भवन्ति / कुतः पुनः सर्वे देवमनुष्यास्तीर्थ्याः पृथग्जनाश्च /
यश्चापि प्रातिहार्यप्रभावो बुद्धबोधिसत्त्वानामृद्ध्यादेशनानुशास्ति-संगृहीतः सो ऽप्यभिज्ञाप्रभाव एव यथायोगं प्रविष्टो वेदितव्यः ऋद्धिविषयचेतसः पर्यायास्रवक्षयज्ञानाभिज्ञाप्रभावेषु / बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चमं प्रभावपटलम् // 5 //
परिपाकपटलम् (छप्तेर् 1.6)
तत्र परिपाकः कतमः / परिपाकः समासतः षड्भिराकारैर्वेदितव्यः / स्वभावतो ऽपि परिपाच्य पुद्गलतो ऽपि परिपाकप्रकारभेदतो ऽपि परिपाकोपायतो ऽपि परिपाचकपुद्गलतो ऽपि परिपक्वपुद्गल-लक्षणतो ऽपि च /
तत्रायं परिपाकस्वभावः / कुशलधर्मवीजे सति कुशलानां धर्माणामासेवनान्वयाद् या क्लेशज्ञेयावरणप्रहाणविशुद्ध्यनुकूला कायचित्तकर्मण्यता कल्यता सम्यक् प्रयोगनिष्ठा यत्र स्थिताः शास्तारं वा आगम्यानागम्य वा शास्तारं भव्यो भवति प्रतिबलो ऽनन्तरं क्लेशावरणप्रहाणं वा साक्षात्कर्तुं ज्ञेयावरणप्रहाणं वा / तद्यथा व्रणो यदा परिपाटनाय निष्ठागतो भवत्यनन्तरं पाटनार्हः / सः परिपक्व इत्युच्यते / घटघटीशरावादि च मृन्मयं भाण्डं यदा परिभोगाय निष्ठागतं भवति अनन्तरं परिभोगार्ह तदा परिक्वमित्युच्यते / फलानि वा आम्रपनसादीनि यदा परिभोगाय निष्ठागतानि भवन्त्यनन्तरं परिभोगार्हाणि तदा परिपक्वानीत्युच्यन्ते / एवमेव कुशलानां धर्माणामासेवनान्वयाद् असौ सम्यक् प्रयोगनिष्ठा अनन्तरं विशुद्ध्ये संवर्तते / स परिपाकस्वभावः /
तत्र परिपाच्याः पुद्गलाः समासतश्चत्वारः / श्रावकगोत्रः श्रावकयाने / प्रत्येकबुद्धगोत्रः प्रत्येकबुद्धयाने / बुद्धगोत्रो महायाने परिपाचयितव्यः / अगोत्रस्थो ऽपि पुद्गलः सुगतिगमनाय परिपाचयितव्यो भवति / बोधिसत्त्वानां बुद्धानाञ्च भगवताम् इत्येते चत्वारः पुद्गलाः एषु चतुर्षु वस्तुषु परिपाचयितव्याः / एवं परिपाच्यपुद्गलतः परिपाको वेदितव्यः /
तत्र परिपाकप्रभेदः कतमः / समासतः षड्विधः परिपाकः / इन्द्रियपरिपाकः कुशलमूलपरिपाकः ज्ञानपरिपाकश्च मृदुमध्याधिमात्रश्च परिपाकः /
तत्रेन्द्रियपरिपाकः / या आर्युर्वर्णकुलैश्वर्यसम्पदादेयवचनता महेशाख्यतामनुष्यत्वं (dutt 56) महोत्साहता यामाश्रयपरिपाकफलसंपदमागम्य भव्यो भवत्यातप्तानुप्रयोगायापरिखिन्नमानसश्च भवति सर्वविद्यास्थानसमुदागमाभियोगेषु /
कुशलमूलपरिपाकः कतमः / या प्रकृत्या मन्दरजस्कतायामागम्य प्रकृत्यैवास्य पापकेष्वकुशलेषु धर्मेषु / चित्तं न क्रामति मन्दनिवरणश्च भवति मन्दवितर्क ऋजुप्रदक्षिणग्राही /
ज्ञानपरिपाकः कतमः / स्मृतिमान् भवति मेघावी प्रतिबलश्च भवति सुभाषितदुर्भाषितानां धर्माणामर्थस्य आज्ञानायोद्ग्रहणाय धारणाय प्रतिवेधाय / सहजया प्रज्ञया समन्वागतो भवति यां प्रज्ञामागम्य भव्यो भवति प्रतिबलः सर्वतो ऽत्यन्तं सर्वक्लेशाच्चित्तं विमोचयितुम् / तत्रेन्द्रियपरिपाकेन विपाकावरणाद्विमुक्तो भवति / कुशलमूलपरिपाकेन कर्मावरणाद्विमुक्तो भवति / ज्ञानपरिपाकेन क्लेशावणाद्विमुक्तो भवति /
मृदुपरिपाकः कतमः / द्वाभ्यां कारणाभ्यां मृदुः परिपाको भवति / अदीर्घकालाभ्यासतश्चेन्द्रियकुशलमूलज्ञानपरिपाकहेतोः अपरिपुष्टनिहीनहेत्वभ्यासतश्च / मध्यः परिपाको ऽनयोरेव द्वयोः कारणयोरन्यतरवैकल्यादन्यतरसान्निध्याच्च वेदितव्यः / अधिमात्रः पुनः परिपाक उभयोरनयोः कारणयोरवैकल्याद्वेदितव्यः /
तत्र परिपाकोपायः कतमः / स सप्तविंशतिविधो वेदितव्यः / धातुपुष्टया वर्तंमानप्रत्ययोपसंहारतः अवतारतो रतिग्रहणतः आदिप्रस्थानतः अनादिप्रस्थानतः शुद्धिदूरतः शुद्ध्यासन्नतः प्रयोगतः आशयतः आमिषोपसंहारतः धर्मोपसंहारतः ऋद्ध्यावर्जनतया धर्मदेशनया गुह्यधर्माख्यानतः विवृतधर्माख्यानतः मृदुप्रयोगतो मध्यप्रयोगतः अधिमात्रप्रयोगतः श्रवणतः चिन्तनतो भावनतः संग्रहणतो निग्रहणतः स्वयंकृततः पराध्येषणतः तदुभयतश्च /
तत्र धातुपुष्टिः कतमा / या प्रकृत्या कुशलधर्मबीजसंपदं निश्रित्य पूर्वकुशलधर्माभ्यासादुत्तरोत्तराणां कुशलधर्मबीजानां परिपुष्टतरा परिपुष्टतमा उत्पत्तिः स्थितिः / इयमुच्यते धातुपुष्टिः /
तत्र वर्तमानप्रत्ययोपसंहारः कतमः / दृष्टे धर्मे अविपरीता धर्मदेशना / तत्र चाविपरीतग्राहिता / यथावद्धर्मानुधर्मप्रतिपत्तिश्च / तत्र धातुपुष्टेः पूर्वकेण हेतुना वर्तमानः परिपाको निवर्तते / वर्तमानप्रत्ययोपसंहारतो वर्तमान एवं हेतुर्वर्तमानः परिपाको वेदितव्यः /
तत्रावतारः कतमः / श्रद्धाप्रतिलम्भमधिपतिं कृत्वा आगारिकस्य दुश्चरितविवेकशिक्षापदसमादानम् / अनागारिकां वा प्रव्रजतः कामविवेकशिक्षापदसमादानम् /
रतिग्राहः कतमः / या सर्वदुःख-नैर्याणिकीञ्च प्रतिपदं कामसुखात्मक्लमथान्त-विवर्जिताञ्च सुखां प्रतिपदमागम्य स्वाख्याते धर्मविनये शासनाभिरतिः
तत्रादिप्रस्थानं कतमत् / य एव तत्प्रथमतः संवेजनीयेषु धर्मेषु संवेगमागम्य न्यायार्थप्रतिपादने चानुशंसां विदित्वा ऽवतारः / इदमेवादिप्रस्थानमित्युच्यते /
अनादिप्रस्थानं कतमत् / या अवतीर्णस्य पुद्गलस्य परिपाच्यमानतायां वर्तमानस्य बोधिसत्त्वेभ्यो बुद्धेभ्यश्चानध्युपेक्षामागम्य विवृतानाञ्च स्थानानां भूयो भूयः उत्तानक्रियामागम्य उत्तरोत्तरपरिपाकगमनता /
तत्र विशुद्धिदूरता कतमा / यत् कौसीद्यं वा आगम्य प्रत्ययवैधुर्यं वा महता दीर्घेण कालेन प्रभूतैर्जन्मान्तरापरिवर्तैः कल्पपरिवर्तैर्वा भव्यो भवति विशुद्धये / एतद्विपर्ययेण विशुद्ध्यासन्नता वेदितव्या /
तत्र प्रयोगः कतमः / या स्वार्थप्राप्तौ तीव्रच्छन्दतामागम्य विनिपातभयं वा ऽमुत्र दृष्टे वा धर्मे परतो ऽयशोभयमागम्य शिक्षापदेष्वनुपालना सातत्यकारिता सत्कृत्यकारिता च /
तत्राशयः कतमः / धर्मेषु च या सम्यक् सन्तीरणा-क्षान्तिमागम्यास्माद्धर्मविनयादसंहार्यतायै परेषाञ्चाधिगमे ऽभिसंप्रत्यय गुणसंभावनामागम्य या त्रिषु रत्नेषु स्वार्थप्राप्तौ चाविचला श्रद्धधानता /
आभिषोपसंहारः कतमः / यः सर्वेण च सर्वं भोजनपानादिविकलानां भोजनपानाद्युपसंहारः / अनुकूलपानभोजनादिविकालानाञ्चानुकूलपानभोजनाद्युपसंहारः /
तत्र धर्मोपसंहारः कतमः / यदुद्देशतो वा धर्माणामनुप्रदानं सम्यगर्थविवरणतो वा /
ऋद्ध्यावर्जनता कतमा / या ऋद्धिमत ऋद्धिप्रातिहार्यविदर्शना सत्त्वानुकम्पया सत्त्वानामाशयविशुद्धिं वाधिपतिं कृत्वा प्रयोगविशुद्धिं वा एते सत्त्वाः प्रातिहार्यं दृष्ट्वा श्रुत्वा वा आशयशुद्धिं वा शासने प्रतिलप्स्यन्ते प्रयोक्ष्यन्ते सम्यगिति / ते च तेन प्रातिहार्येणावर्जितमानसा आशयशुद्धिं वा प्रतिलभन्ते प्रयुज्यन्ते वा सम्यक् /
तत्र देशना कतमा / स्वयं स्वार्थप्राप्तावशक्तस्य सद्धर्मदेशना सम्यक् प्रतिपत्तिसहायभूता / शक्तस्यापि च क्षिप्राभिज्ञतायै अनुकूला सद्धर्मदेशना /
तत्र गुह्यधर्माख्यानं कतमत् / या बालप्रज्ञानां सत्त्वानामत्युदारगम्भीरार्थधर्मप्रतिच्छादनता उत्तानसुप्रवेशसुखोपायावतारधर्मदेशनता /
विवृतधर्माख्यानं कतमत् / या पृथुप्रज्ञानां सत्त्वानां सुखप्रविष्टबुद्धशासनानयानामत्युदारगम्भीरस्थानविवरणता /
तत्र मृदुः प्रयोगः कतमः / यः सातत्यप्रयोगविवर्जितः सत्कृत्यप्रयोगविवर्जितश्च /
मध्यः प्रयोगः कतमः / यः सातत्यप्रयोगविवर्जितो वा सत्कृत्यप्रयोगविवर्जितो वा / इत्यनयोर्द्वयोः प्रयोगयोरन्यतरविवर्जितः /
अधिमात्रः प्रयोगः कतमः / यस्तदुभयप्रयोगसंयुक्तः सातत्यप्रयोगसंयुक्तः सत्कृत्यप्रयोगसंयुक्तश्च /
तत्र श्रुतं कतमत् / यो बौद्धप्रवचनाधिमुक्तस्य सूत्रादीनां धर्माणां श्रवणोद्ग्रहण-धारणस्वाध्यायाभियोगः /
चिन्ता कतमा / प्रविवेके धर्मनिध्यानाभिरतस्य अर्थाभ्यूहनासंलक्षणानिश्चयः /
भावना कतमा / शमथप्रग्रहोपेक्षानिमित्तेषु सम्यगुपलक्षणापूर्विका शमथविपश्यनोपेक्षा ऽभ्यासरतिः /
संग्रहः कतमः / सम्यग् निरामिषचित्तस्य निश्रयदानमाचार्योपाध्यायन्यायेन / पृथग्विधा च परिचर्या तद्यथा ग्लानोपस्थानपरिचर्या धर्म्यचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिचर्या शोककौकृत्यप्रतिविनोदनपरिचर्या क्लेशप्रतिविनोदनपरिचर्या / इत्येवंभागीयाः पृथग्विधा परिचर्यां वेदितव्याः /
निग्रहः कतमः / आत्मगतां संक्लेशारक्षां संविधाय स्खलितचोदना मृदौ व्यतिक्रमे / मध्ये व्यतिक्रमे ऽवसादना / अधिमात्रे व्यतिक्रमे प्रवासना / तत्र या च चोदना या चावसादना सा तेषामेव हितसुखार्थं तदन्येषाञ्च / या पुनः प्रवासना पुनः प्रतिसंहरणाय सापि तेषां चान्येषां च हितसुखाय / या पुनरप्रतिसंहार्या प्रवासना सा परेषामेव हितसुखाय / तथाहि परेषां प्रवासनां व्यतिक्रमनिदानम् / परेषूपलभ्याव्यतिक्रमाय चेतयते /
कथं स्वयं परिपाचयति / आनुलोमिकञ्च धर्मं देशयति अकुशलात् स्थानाद्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय / यथावादी च भवति तथाकारी / धर्मानुधर्मप्रतिपन्नस्तत्स्वभावानुवर्ती / येनैनं परे नैवमाह / त्वमेव तावत् स्वयं नाकुशलात्स्थानाद्युत्थितः कुशले च स्थाने प्रतिष्ठितः कस्मात्त्वं तत्र परं समादापयितव्यं चोदयितव्यं स्मारयितव्यं मन्यसे / त्वमेव तावत् परैश्चोदयितव्यः स्मारयितव्यः समादापयितव्यः /
कथं परमध्येषते / यस्यान्तिके सत्त्वानामधिमात्रश्च प्रेमगौरवं निविष्टं भवति / यश्चोपायज्ञो भवति धर्मदेशनायां सुशिक्षितः / स्तमध्येषते व्यापारयति परिपाकाय /
उभाभ्यामाभ्यां समस्ताभ्यां स्वपराध्येषणाकृतः परिपाको वेदितव्यः /
इत्यनेन सप्तविंशतिविधेन परिपाकोपायेन सा षड्विधा परिपाकप्रभेद संपद्वेदितव्या / इन्द्रियपरिपाकस्य कुशलमूलपरिपाकस्य ज्ञानपरिपाकस्य मृदुमध्याधिमात्रस्य च परिपाकस्य /
तत्र परिपाचकाः पुद्गलाः कतमे / समासतः षट् बोधिसत्त्वाः षटसु बोधिसत्त्वभूमिषु व्यवस्थिताः सत्त्वान् परिपाचयन्ति / अधिमुक्तिचर्याभूमिस्थितो (dutt 60) बोधिसत्त्वो ऽधिमुक्तिचारी / शुद्धाध्याशयभूमिस्थितो बोधिसत्त्वः शुद्धाध्याशयः / चर्याप्रतिपत्तिभूमिस्थितो बोधिसत्त्वश्चर्याप्रतिपन्नः / नियत भूमिस्थितो बोधिसत्त्वो नियत-पतितः / नियतचर्या-प्रतिपत्तिभूमिस्थितो बोधिसत्त्वो नियतचर्याप्रतिपन्नः / निष्ठागमनभूमिस्थितो बोधिसत्त्वो निष्ठागतः / तत्रागोत्रस्थानां पुद्गलानां सुगतिगमनाय परिपाकः पुनः पुनः प्रत्यावर्त्यो भवति पुनः पुनः करणीयः / गोत्रस्थानां पुनः परिपाको न प्रत्यावर्त्यो भवति न पुनः पुनः करणीयः /
तत्र परिपक्वपुद्गललक्षणं कतमत् / श्रावकः पूर्वकुशलाभ्यासाद् यदामृदुपाकव्यवस्थितो भवति स मृदुच्छन्दो भवति मृदुप्रयोगश्चापायानपि गच्छति न च दृष्टे धर्मे श्रामण्यफलमधिगच्छति न च दृष्टे धर्मे परिनिर्वाति / यदा तु मध्यपाकव्यवस्थितो भवति स मध्यच्छन्दश्च भवति मध्यप्रयोगो न चापायान् गच्छति / दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति / नो तु दृष्टे धर्मे परिनिर्वाति / अधिमात्रे परिपाके स्थितः अधिमात्रच्छन्दो भवति अधिमात्रप्रयोगश्च न चापायान् गच्छति / दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति / दृष्ट एव च धर्मे परिनिर्वाति /
प्रत्येकबुद्धस्तथैव वेदितव्यः यथा श्रावकः / तत्कस्य हेतोः / तुल्यजातीयो ऽस्य मार्गः श्रावकैः / अयन्तु श्रावकेभ्यः प्रत्येकबुद्धस्य विशेषः / पश्चिमे भवे पश्चिमे आत्मभावप्रतिलम्भे ऽनाचायकं पूर्वाभ्यासवशात् सप्तत्रिंशद्वोधिपक्ष्यान् धर्मान् भावयित्वा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोति / तस्मात्प्रत्येकबुद्ध इत्युच्यते /
बोधिसत्त्वः पुनरधिमुक्तिचर्याभूमिस्थितो मुदुपरिपाको वेदितव्यः / अध्याशयशुद्धो चर्याप्रतिपत्तिभूमौ च मध्यपरिपाकः / नियातो निष्ठितश्चाधिमात्रपरिपाकः / तत्र मृदुपाकव्यवस्थितो बोधिसत्त्वो मृदुच्छन्दो भवति मृदुप्रयोगः अपायांश्च गच्छति / प्रथमकल्पासंख्येयपर्यन्ततश्च स वेदितव्यः / उत्तप्तैरचलैः सुविशुद्धैश्च बोधिपक्ष्यैः कुशलैधर्मैः सर्वैरेव विसंयुक्तो भवति / मध्यपाको बोधिसत्त्वो मध्यच्छन्दो भवति मध्यप्रयोगः / न चापायान् गच्छति द्वितीयकल्पासंख्येयपर्यन्ततश्च भवति / उत्तप्तैरचलैश्च बोधिपक्ष्यैः कुशलैर्धर्मैः (dutt 61) संयुक्तो भवति / सुविशुद्धैर्विसंयुक्तः / अधिमात्रपाकस्थितो बोधिसत्त्वः अधिमात्रच्छन्दो भवत्यधिमात्रप्रयोगश्च / न चापायान् गच्छति / तृतीयकल्पासंख्येयपर्यन्ततश्च भवति / उत्तप्तैरचलैः सुविशुद्धैर्बोधिपक्ष्यैः कुशलैर्धर्मैः समन्वागतो भवति / तत्र प्रकृत्या घनत्वादुज्ज्वलत्वादधिमात्रमहाफलत्वान्महानुशंसत्वाच्चोत्तप्ता इत्युच्यन्ते / अप्रत्यावर्त्यत्वादपरिहाणीयत्वाद्विशेषगामित्वादचला इत्युच्यन्ते / बोधिसत्त्वभूमौ निरुत्तरत्वात्सुविशुद्धा इत्युच्यन्ते /
तत्र यश्चामिषकृतः परिपाको यश्च ऋद्ध्यावर्जनजो यश्च गुह्यधर्माख्यानजो यश्च मृदुप्रायोगिको यश्च श्रुतमात्रकृतः परिपाक इत्येष पञ्चविधः परिपाकः दीर्घकालाभ्यासादप्येषां धर्माणां मृदुक एव भवति प्रागेवेत्तककालाभ्यासात् / तदन्यैस्तु सर्वैः परिपाकस्य कारणैः परिपाकस्य त्रिप्रकारनयो वेदितव्यः / मृदुकेनाभ्यासेन मृदुको मध्येन मध्यः अधिमात्रेणाधिमात्रः परिपाको वेदितव्यः / तस्य च मृदुमध्याधिमात्रस्य परिपाकस्यैकैकस्य त्रिप्रकारनयो वेदितव्यः / मृदुकस्य [मृदु-]मृदुको मृदुमध्यो मृद्वधिमात्रः / मध्यस्य च मध्यमृदुको मध्यमध्यो मध्याधिमात्रः / अधिमात्रस्याधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रः / इत्येवं भागीयोत्तरोत्तरप्रभेदनयेनाप्रमाणः परिपाकप्रभेदः सत्त्वानां बुद्धबोधिसत्त्वकृतो वेदितव्यः /
तत्र बोधिसत्त्वः एभिः परिपाककारणैर्यथानिर्दिष्टैरात्मनश्च बुद्धधर्मपरिपाकायेन्द्रियपरिपाकं कुशलमूलपरिपाकं ज्ञानपरिपाकञ्च मृदुमध्याधिमात्रञ्च समुदानयति परसत्त्वानाञ्च परपुद्गलानां यानत्रयनिर्याणाय /
इति बोधिसत्त्वभूमावाधारे योगस्थाने षष्ठं परिपाकपटलम् //
बोधिपटलम् (छप्तेर् 1.7)
तत्र बोधिः कतमा / समासतो द्विविधञ्च प्रहाणं द्विविधञ्च ज्ञानं बोधिरित्युच्यते /
तत्र द्विविधं प्रहाणं-क्लेशावरणप्रहाणं ज्ञेयावरणप्रहाणञ्च / द्विविधं पुनर्ज्ञानं यत् क्लेशावरणप्रहाणाच्च निर्मलं सर्वक्लेशनिरनुबन्धज्ञानम् / ज्ञेयावरणप्रहाणाच्च यत्सर्वस्मिन् ज्ञेये ऽप्रतिहतमनावरणं ज्ञानम् /
अपरः पर्यायः / शुद्धज्ञानं सर्वज्ञानमसङ्गज्ञानञ्च / सर्वक्लेशवासनासमुद्धातश्चाक्लिष्टायाश्चाविद्यायाः निःशेषप्रहाणमनुत्तरा सम्यक्संबोधिरित्युच्यते / तत्र सवासनानां सर्वक्लेशानां सर्वतश्चात्यन्तञ्च प्रहाणाद्यद् ज्ञानं तच्छुद्धमित्युच्यते / सर्वधातुषु सर्ववस्तुषु सर्वप्रकारेषु सर्वकालेषु यद्ज्ञानमव्याहतं प्रवर्तते तत्सर्वज्ञानमित्युच्यते / तत्र द्वौ वा धातू / लोकधातुः सत्त्वधातुश्च / तत्र द्विविधं वस्तु / संस्कृतमसंस्कृतञ्च / तस्यैव च संकृतासंस्कृतस्य वस्तुनो ऽप्रमाणः प्रकारभेदः स्वलक्षणोत्तरजातिप्रभेदेन सामान्यलक्षणप्रभेदेन हेतुफलप्रभेदेन धातुगतिकुशलाकुशलाव्याकृतादिप्रभेदेन / तत्र कालस्त्रिविधः / अतीतो ऽनागतः प्रत्युत्पन्नश्च / इत्येतत्सर्वधातुकं सर्ववस्तुकं सर्वप्रकारं सर्वकालं ज्ञानं सर्वज्ञानमित्युच्यते / तत्रासङ्गज्ञानं यदाभोगमात्रादेव सर्वत्राधिष्ठितं त्वरितमसक्तं ज्ञानं प्रवर्तते / न पुनः पुनराभोगं कुर्वतो नान्यत्रैकाभोगप्रतिबद्धमेव तज्ज्ञानं भवति /
अपरः पर्यायः / चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं या च तथागतस्यारणा प्रणिधिज्ञानं प्रतिसंविदश्च / इयमनुत्तरा सम्यक्संबोधिरुच्यते /
तत्रेदं चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतम् / द्वात्रिंशन्महापुरुषलक्षणान्यशीत्यनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश बलानि चत्वारि वैशारद्यानि त्रींणि स्मृत्युपस्थानानि त्रीण्यरक्ष्याणि महाकरुणा ऽसम्मोषधर्मता (dutt 63) वासनासमुद्घातः सर्वाकारवरज्ञानञ्च / एषाञ्च बुद्धधर्माणां विभागः प्रतिष्ठापटले भविष्यति /
तत्रेयं परमा बोधिः सप्तभिः परमताभिर्युक्ता येनेयं सर्वबोधीनां परमेत्युच्यते /
सप्त परमताः कतमाः आश्रयपरमता प्रतिपत्तिपरमता सम्पत्तिपरमता ज्ञानपरमता प्रभावपरमता प्रहाणपरमता विहारपरमता च / यत्तथागतो द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रः / इयमस्याश्रयपरमतेत्युच्यते / यत्तथागत आत्महिताय परहिताय बहुजनहिताय [बहुजनसुखाय] लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणां प्रतिपन्नः / इयमस्य प्रतिपत्तिपरमतेत्युच्यते / यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः संपत्तिभिः समन्वागतः शीलसंपत्त्या दृष्टिसंपत्त्या आचारसंपत्त्या आजीवसंपत्त्या [प्रतिपन्नः] / इअयमस्य सम्पत्तिपरमतेत्युच्यते / यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः प्रतिसंविद्भिः समन्वागतः धर्मप्रतिसंविदा ऽर्थप्रतिसंविदा निरुक्तिप्रतिसंविदप्रतिभानप्रतिसंविदा च / इयमस्य ज्ञानपरमतेत्युच्यते / यत्तथागतो निरुत्तराभिरप्रतिसमाभिः षड्भिरभिज्ञाभिः समन्वागतः यथा पूर्वनिर्दिष्टाभिः / इयं तथागतस्य प्रभावपरमतेत्युच्यते / यत्तथागतः सवासनसर्वक्लेशप्रहाणेन निरुत्तरेणाप्रतिसमेन ज्ञेयावरण प्रहाणेन च समन्वागतः / इयमस्य प्रहाणपरमतेत्युच्यते / यत्तथागतस्त्रिभिर्निरुत्तरैरप्रतिसमैर्विहारैस्तब्दहुल विहारी आर्येण विहारेण दिव्येन ब्राह्मेण / इयमस्य विहारपरमतेत्युच्यते / तत्र शून्यतानिमित्ताप्रणिहितविहारा निरोधसमापत्तिविहारश्चार्यो विहार इत्युच्यते / चत्वारि ध्यानान्यारूप्यसमापत्तयश्च दिव्यो विहार इत्युच्यते / चत्वार्यप्रमाणानि ब्राह्मो विहार इत्युच्यते / तस्मात्पुनस्त्रिविधाद्विहाराश्चत्वारः परमविहारा यैस्तथागतास्तद्वहुलविहारिणो भवन्ति / आर्याद्विहाराच्छून्यता विहारो निरोधसमापत्तिविहारश्च / दिव्याद्विहारादानिंज्यचतुर्थध्यानविहारः / ब्राह्माद्विहारात्करुणाविहारो येन तथागतस्त्रिस्कृतो रात्रौ त्रिस्कृत्वो दिवसे षट्कृत्वो रात्रिंदिवेन बुद्धचक्षषा लोकं व्यवलोकयति को हीयते (dutt 64) को वर्धते कस्यानुत्पन्नानि कुशलमूलान्यवरोपयामि क्वं यावद्विस्तरेणाग्रफले ऽर्हत्त्वे प्रतिष्ठापयामीति /
तत्राश्रयपरमतया तथागता महापुरुषा इत्युच्यन्ते / प्रतिपत्तिपरमतया महाकारुणिका इत्युच्यन्ते / संपत्तिपरमतया महाशीलमहाधर्माण इत्युच्यन्ते / ज्ञानपरमतया महाप्रज्ञा इत्युच्यन्ते / प्रभावपरमतया महाभिज्ञा इत्युच्यन्ते / प्रहाणपरमतया महाविमुक्तय इत्युच्यन्ते / विहारपरमतया महाविहारतद् बहुलविहारिण इत्युच्यन्ते /
तेषाञ्च पुनस्तथागतानां दशभिराकारैर्गुणाभिधानञ्च भवति गुणानुस्मरणता च / कतमैर्दशभिः / इत्यपि स भगवांस्तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति / तत्रावितथवचनात्तथागतः / सर्वप्राप्तयार्थप्राप्तत्वात् अनुत्तरपुण्यक्षेत्रत्वात् पूजार्हत्वाच्चार्हन् / यथावत्परमार्थेन धर्मानुबोधात्सम्यक्संबुद्धः / तिसृभिर्विद्याभिर्यथासूत्रोक्तेन च चरणेन विपश्यनाशमथपक्षोभयसुसम्पन्नत्वाद्विद्याचरणसम्पन्नः / परमोत्कर्षगमनादपुनः प्रत्यागमनाच्च सुगतः / सत्त्वधातुलोकधात्वोः सर्वाकारेण क्लेशव्यवदानज्ञानाल्लोकवित् / परमचित्तदमोपायज्ञतया एकस्यैव लोके पुरुषभूतस्य च प्रादुर्भावात् अनुत्तरः पुरुषदम्यसारथिः / चक्षुर्भूतत्वाज्ज्ञानार्थधर्मतत्त्व भूतत्वाद् व्यक्तस्यार्थस्य निर्णेतृत्वात् सर्वार्थप्रतिसरणत्वादव्युत्पन्नस्यार्थस्य व्युत्पादकत्वा दुत्पन्नस्य संशयस्योच्छेदकत्वात् गम्भीराणां स्थानानां विवरणात् पर्यवदापकत्वात्तन्मूलत्वात् सर्वधर्माणां तन्नेतृकत्वात्तत्प्रतिसरणत्वात् सर्वदुःखस्य निःसरणं शास्ति व्यपदिशति सम्यग्देवमनुष्याणाम् / तस्माच्छास्ता देवमनुष्याणामित्युच्यते / अर्थोपसंहितस्य धर्मराशेरनर्थोपसंहितस्य धर्मराशेर्न्नैवार्थोपसंहितस्य नानार्थोपसंहितस्य धर्मराशेः सकलसर्वाकाराभिसंबोधाद् बुद्ध इत्युच्यते / सर्वमारबलमहासंग्रामावभङ्गाद्भगवान् /
तत्र प्रभूतैरपि कल्पैरेकस्यापि बुद्धस्य प्रादुर्भावो न भवति / एकस्मिन्नेव च कल्पे प्रभूतानां बुद्धानामुत्पादो भवति / तेषु तेषु च दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुष्वप्रमेयाणामेव बुद्धानामुत्पादो वेदितव्यः / तत्कस्य हेतोः / सन्ति दशसु दिक्ष्वप्रमेयासंख्येया बोधिसत्त्वा ये तुल्यकालकृतप्रणिधानास्तुल्यसंभारसमुदागताश्च / यस्मिन्नेव दिवसे पक्षे मासे संवत्सरे एकेन बोधिसत्त्वेन बोधौ चित्तं प्रणिहितं तस्मिन्नेव दिवसे पक्षे मासे संवत्सरे सर्वैः / यथा चैक उत्सहितो घटितो व्यायच्छितश्च तथा सर्वे / तथाहि दृश्यन्ते ऽस्मिन्नेव लोकधातावनेकानि बोधिसत्त्वशतानि यानि तुल्यकालप्रणिधानानि तुल्यत्यागानि तुल्यक्षान्तिकानि तुल्यवीर्याणि तुल्यध्यानानि तुल्यप्रज्ञानानि / प्रागेव दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु / बुद्धक्षेत्राण्यपि त्रिसाहस्रमहासाहस्राण्यप्रमेयासंख्येयानि दशसु दिक्षु संविद्यन्ते / न च तुल्यसंभारसमुदागतयोर्द्वयोस्तावद्बोधिसत्त्वयोरेकस्मिन् लोकधातौ बुद्धक्षेत्रे युगपदुत्पत्त्यवकाशो ऽस्ति प्रागेवाप्रमेयासंख्येयानाम् / न च पुनस्तुल्यसंभाराणां क्रमेणानुपरिपाटिकया उत्पादोयुज्यते / नापि सर्वेण सर्वमनुत्पाद एव युज्यते / तस्माद्दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु यथा परिशोधितेषु तथागतशून्येषु ते तुल्यसंभारा बोधिसत्त्वा अन्योन्येषु बुद्धक्षेत्रेषूत्पद्यन्त इति वेदितव्यम् / तदनेन पर्यायेण बहुषु लोकधातुषु बुद्धबाहुल्यमेव युज्यते / न चैकस्मिन् बुद्धक्षेत्रे द्वयोस्तथागतयोर्युगपदुत्पादो भवति / तत्कस्य हेतोः / दीर्घरात्रं खलु बोधिसत्त्वेनैवं प्रणिधानमनुबृंहितं भवति /
यथाहमेको ऽपरिणायके लोके परिणायकः स्यां सत्त्वानां विनेता सर्वदुःखेभ्यो विमोचयिता परिनिर्वापयितेति / यस्यैवं दीर्घरात्रं प्रणिधानमनुबृंहयतः सम्यक् प्रतिपत्तिपरिगृहीतमृध्यत्येव तत् / पुनश्च शक्त एकस्तथागतस्त्रिसाहस्रमहासाहस्रे एकस्मिन् बुद्धक्षेत्रे सर्वबुद्धकार्य कर्तुम् / अतो द्वितीयस्य तथागतस्य व्यर्थ एवोत्पादः स्यात् / भूयश्चैकस्य तथागतस्य लोके उत्पादात्सत्त्वानाम् एवार्थकरणप्रसिद्धिः प्रचुरतरा भवति प्रदक्षिणतरा / तत्कस्य हेतोः / तेषामेवं भवत्ययमेव कृत्स्ने जगत्येकस्तथागतो न द्वितीयः / अस्मिञ्जनपदचारिकां वा विप्रकान्ते परिनिर्वृते वा नास्ति स कश्चिद् द्वितीयः / (dutt 66) यस्यास्माभिरन्तिके ब्रह्मचर्यं चरितव्यं स्यात् धर्मो वा श्रोतव्य इति विदित्वा ऽतित्वरन्ते घनतरेण छन्दव्यायामेन ब्रह्मचर्यवासाय सद्धर्मश्रवणाय च / बुद्धबहुत्वंतु ते उपलभ्य नातित्वरेरन् / एवमेषामेकस्य बुद्धस्योत्पादात्स्वार्थे करणप्रसिद्धिः प्रचुरतरा च भवति प्रदक्षिणतरा च /
तत्र सर्वबुद्धानां सर्वं समसमं भवति निर्विशिष्टं स्थापयित्वा चत्वारि स्थानानि-आयुर्नाम कुलं कायञ्च / इत्येषाञ्चतुर्णां धर्माणां ह्रासवृद्ध्या विलक्षणता बुद्धानाम् / न त्वन्येन केनचित् / न च स्त्री अनुत्तरां सम्यक्संबोधिमसंबुध्यते / तत्कस्य हेतोः / तथा हि बोधिसत्त्वः प्रथमस्यैव कल्पासंख्येयस्यात्ययात् / स्त्रीभावं विजहाति / बोधिमण्डनिषदनमुपादाय न पुनर्जातु स्त्री भवति / प्रकृत्या च बहुक्लेशो दुष्प्रज्ञश्च भवति सर्वो मातृग्रामः / न च प्रकृत्या बहुक्लेशसन्तानेन दुष्प्रज्ञसन्तानेन च शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् /
एवमियमनुत्तरा सम्यक्संबोधिः स्वभावतो ऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या / परमतो ऽपि गुणनिर्देशानुस्मरणतो ऽपि संभवतो ऽपि विशेषतो ऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या / अपि त्वचिन्त्यैव सर्वतर्कमार्गसमतिक्रान्तत्वादप्रमेयासंख्येयगुणसमुदितत्वादनुत्तरैव च सम्यक्संबोधिः सर्वश्रावक-प्रत्येकबुद्धतथागतानाभि निर्वृत्तये भवति / तस्मादेषैव बोधिरग्र्या श्रेष्ठा वरा प्रणीतेति /
इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तमं बोधिपटलम् /
बलगोत्रपटलम् (छप्तेर् 1.8)
निर्दिष्टं तावद्यत्र बोधिसत्त्वेन शिक्षितव्यम् / यथा पुनः शिक्षितव्यं तद्वक्ष्यामि /
उद्दानम् /
अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशना / प्रतिपत्तिस्तथा सम्यगववादानुशासनम् / उपायसहितं कायवाङ्मनःकर्म पश्चिमम् /
इहादित एव बोधिसत्त्वेन बोधिसत्त्वशिक्षासु शिक्षितुकामेनाधिमुक्तिबहुलेन भवितव्यं धर्मेपर्येषकेण धर्मदेशकेन धर्मानुधर्मप्रतिपन्नेन सम्यगववादानुशासकेन सम्यगववादानुशासन्याञ्च स्थितेन उपायपरिगृहीतकायवाङ्मनःकर्मणा च भवितव्यम् /
कथञ्च बोधिसत्त्वो ऽधिमुक्तिबहुलो भवति / इह बोधिसत्त्वो ऽष्टविधे ऽधिमुक्त्यधिष्ठाने श्रद्धाप्रसादपूर्वंकेण निश्चयेन रुच्या समन्वागतो भवति / त्रिषु रत्नेषु बुद्धधर्मंसंघगुणेषु बुद्धबोधिसत्त्वप्रभावे च यथानिर्दिष्टे तत्त्वार्थे च यथानिर्दिष्टे हेतौ च फले च विचित्रे यथायोगपतिते अविपरीते प्राप्तव्ये चार्थे समर्थो ऽहं प्राप्तुमिति / यथा प्राप्तव्ये अर्थे एवं प्राप्त्युपाये अस्त्ययं प्राप्त्युपायः प्राप्तव्यस्यार्थस्येति / तत्र प्राप्तव्यो ऽयथा बोधिरनुत्तरा / प्राप्त्युपायः पुनः सर्वे बोधिसत्त्वशिक्षामार्गाः / तथा सुभाषिते सुलपिते सुप्रव्याहृते ऽधिमुक्तिस्तद्यथा सूत्रं गेयं व्याकरणादिषु धर्मेषु /
तत्रास्मिन्नष्टविधे ऽधिमुक्त्याधिष्ठाने बोधिसत्त्वस्य द्वाभ्यां कारणाभ्यामधिमुक्तिबहुलता वेदितव्या / अधिमुक्त्यभ्यासबहुलीकारतश्च तीव्रक्षान्तिसन्निवेशतश्च /
तत्र धर्मं बोधिसत्त्वः पर्येषमाणः किं पर्येषते / कथं पर्येषते / किमर्थं (dutt 68) पर्येषते / समासतो बोधिसत्त्वो बोधिसत्त्वपिटकञ्च पर्येषते श्रावकपिटकञ्च / वाह्यकानि च शास्त्राणि लौकिकानि च शिल्पकर्मपस्थानानि पर्येषते /
तत्र द्वादशाङ्गाद्वचोगताद्यद्वैपुल्यं तद्वोधिसत्त्वपिटकम् / अवशिष्टं श्रावकपिटकं वेदितव्यम् / बाह्यकानि पुनः शास्त्राणि समासतस्त्रीणि / हेतुशास्त्रं शब्दशास्त्रं चिकित्सक शास्त्रञ्च / तत्र लौकिकानि शिल्पकर्मस्थानान्यनेकविधानि बहुनानाप्रकाराणि / सुवर्णकारायस्कारमणिकारकर्मज्ञानप्रभृतीनि / तान्येतानि सर्वविद्यास्थानपरिगृहीतानि पञ्चविद्यास्थानानि भवन्ति / अध्यात्मविद्या हेतुविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थानविद्या च / इतीमानि पञ्च विद्यास्थानानि यानि बोधिसत्त्वः पर्येषते / एवमनेन सर्वविद्यास्थानानि पर्येषितानि भवन्ति /
तत्र बुद्धवचनमध्यात्मशास्त्रमित्युच्यते / तत्पुनः कत्याकारं प्रवर्तते / एवं यावल्लौकिकानि शिल्पकर्मस्थानानि कत्याकाराणि प्रवर्तन्ते / बुद्धवचनं समासतो द्व्याकारं प्रवर्तते / सम्यघेतुफलपरिदीपनाकारं कृताविप्रहाणा कृतानभ्यागमपरिदीपनाकारञ्च / हेतुशास्त्रमपि द्व्याकारम् / परोपारंभकथानुशंसपरिदीपनाकारं परतश्चेतिवादविप्रमोक्षानुशंसपरिदीपनाकारञ्च / शब्दशास्त्रमपि द्व्या कारम् / धातुरूपसाधनव्यवस्थानपरिदीपनाकारं वाक्संस्कारानुशंसपरिदीपनाकारञ्च / चिकित्साशास्त्रञ्चतुराकारं प्रवर्तते / आवाधकोशलपरिदीपनाकरम् / आवाधसमुत्थानकौशलपरिदीपनाकारम् / उत्पन्नस्यावाधस्य प्रहाणकौशलपरिदीपनाकारम् / प्रहाणस्य चावाधस्यायत्यामनुत्पादकौशलपरिदीपनाकारम् / लौकिकानि शिल्पकर्मस्थानज्ञानानि स्वकस्वकशिल्पकर्मस्थानानुष्ठानकार्यपरिनिष्पत्तिपरिदीपनाकाराणि /
कथञ्च बुद्धवचनमविपरीतं हेतुफलं परिदीपयति / दशेमे हेतवः अविपरीतं हेतुव्यवस्थानं सर्वहेतुसंग्रहे वेदितव्याः संक्लेशाय वा व्यवदानाय वा लौकिनामपि च तेषां सस्यादीनामव्याकृतानां प्रवृत्तये / दश हेतवः (dutt 69) कतमे / अनुव्यवहारहेतुः / अपेक्षाहेतुः / आक्षेपहेतुः / परिग्रहहेतुः / अभिनिर्वृत्तिहेतुः / आवाहकहेतुः प्रतिनियमहेतुः / सहकारिहेतुः विरोधहेतुः / अविरोधहेतुश्च /
तत्र सर्वधर्माणां यन्नाम नामपूर्विका च संज्ञा संज्ञापूर्वकश्चाभिलापः / अयमुच्यते तेषां धर्माणामनुव्यवहारहेतुः / तत्र यदपेक्षं यद्धेतुकं यस्मिन् वस्तुन्यर्थित्वमुपादानञ्च भवत्ययमस्योच्यते ऽपेक्षाहेतुः / तद्यथा हस्तापेक्षं हस्तहेतुकमादानकर्म / पादापेक्षं पादहेतुकमभिक्रमप्रतिक्रमकर्म / पर्वापेक्षं पर्वहेतुकं समिञ्जितप्रसारितकर्म / जिघत्सापिपासापेक्षं जिघत्सापिपासाहेतुकं भोजनपानादानं पर्येषणता च / इत्येवंभागीयो ऽप्रमाण-नयानुगतः अपेक्षाहेतुर्वेदितव्यः / तत्र बीजमावसानिकस्य स्वफलस्याक्षेपहेतुः / बीजनिर्मुक्तः तदन्यः प्रत्ययः परिग्रहहेतुः / तदेव बीजं स्वफलस्य निर्वृत्तिहेतुः / तत्पुनर्बीजनिर्वृत्तं फलमुत्तरस्य बीजाक्षिप्तस्य फलस्यावाहकहेतुः नानाविजातीय-विभिन्नकारणत्वं प्रतिनियमहेतुः / यश्चापेक्षाहेतुः यश्चाक्षेपहेतुः यश्च परिग्रहहेतुर्यश्च निर्वृत्तिहेतुर्यश्चावाहकहेतुर्यश्च प्रतिनियमहेतुरित्येतान् सर्वान् हेतून् एकध्यमभिसंक्षिप्य सहकारिहेतुरित्युच्यते / उत्पत्तावान्तरायिको हेतुविरोधहेतुः / अन्तरायवैकल्यमविरोधहेतुः /
तत्र विरोधः समासतः षड्विधः / वाग्विरोधः / तद्यथा शास्राणि पूर्वापरविरुद्धानि भवन्ति तदेकत्यानां श्रमणब्राह्मणानाम् युक्तिविरोधः / साध्यस्य ज्ञेयस्यार्थस्य साधनायोपपत्तिसाधनयुक्तिरयुज्यमाना भवति / उत्पतिविरोधः / तद्यथा उत्पत्ति प्रत्ययवैकल्पादुत्पत्त्यान्तरायिकधर्मसान्निध्याच्चोपत्तिर्न भवति / सहवस्थान विरोधः / तद्यथा आलोकतमसो रागद्वेषयोः सुखदुःखयोः / विप्रत्यनीकविरोधः / तद्यथा अहिनकुलयोर्मार्जारमूषिकयोरन्योन्यप्रत्यर्थिकयोश्च प्रत्यमित्रयोः / विपक्षप्रातिपक्षिकश्च विरोधः / तद्यथा ऽशुभभावना-कामरागयोः मैत्रीभावना-व्यापादयोः करुणाभावनाविहिंसयोः बोध्यङ्गार्याष्टाङ्गमार्गभावनायाः सर्वक्लेशानाञ्च त्रैधातुकावचराणाम् अस्मिंस्त्वर्थे उत्पत्तिविरोध एवाभिप्रेतः /
पुनः सर्वेषामेषां हेतूनां द्वाभ्यां हेतुभ्यां संग्रहः / जनकेन च हेतुना (dutt 70) उपायहेतुना च / यदाक्षेपकं निर्वर्तकञ्च बीजं तज्जनको हेतुः / अवशिष्टा हेतव उपायहेतुर्वेदितव्यः /
चत्वारः प्रत्ययाः हेतुप्रत्ययः समनन्तरप्रत्ययः आलम्बनप्रत्ययः अधिपतिप्रत्ययश्च / तत्र यो जनको हेतुः सः हेतुप्रत्ययः / यः पुनरुपायहेतुः सो ऽधिपतिप्रत्ययो वेदितव्यः / समनन्तरप्रत्ययश्चालम्बनप्रत्ययश्च चित्तचैतसिकानामेव धर्माणाम् / तथा हि चित्तचैतसिका धर्माः प्रागुत्पन्नावकाशदानपरिगृहीता आलम्बनपरिगृहीताश्च प्रादुर्भवन्ति प्रवर्तन्ते च / तस्मात्समनन्तरप्रत्यय आलम्बनप्रत्ययश्च परिग्रहहेतुना संगृहीतौ वेदितव्यौ /
तत्र कथमेभिर्दशभिर्हेतुभिः सर्वलौकिका भावाःप्रवर्तन्ते / कथञ्च संक्लेशो भवति / कथञ्च व्यवदानम् / यानीमानि विविधानि सस्यानि धान्यसंख्यातानि लोके यैरयं लोको जीविकां कल्पयति तेषां तावद्यदिदं नाम संज्ञा व्याग्व्याहारो विविधस्तद् यथा यवशालिगोधूमतिलमुद्गमाषकुलत्थादिकः / अयमेषामनुव्यवहारहेतुः यवा आनीयन्तां दीयन्तां पिष्यन्तां स्थाप्यन्तामित्येवमादिकस्य व्यवहारस्य यथा यवा एवमवशिष्ठेष्वपि वेदितव्यम् जिघत्सापिपासादौर्बल्यं कायस्थित्यपेक्षं कवडीकाराहारास्वादापेक्षञ्च / तेष्वर्थित्वं पर्येषणा उपनादानमुपभोगश्च भवति / अयमेषामपेक्षाहेतुः / यतो यतः स्वबीजाद् यस्य [यस्य] सस्यस्य प्रादुर्भावो भवति तद्बीजं तस्याक्षेपहेतुः / पृथिवीवृष्ट्यादिकः प्रत्ययो ऽड्कुरप्रादुर्भावाय परिग्रहहेतुः तद्बीजं तस्याङ्कुरस्याभिनिर्वृत्तिहेतुः / स खल्वङ्कुरकाण्ड पत्रपरंपरासन्तानस्तस्याः सस्यनिष्पत्तेः सस्यपरिपाकग्यावाहकहेतुः / यवबीजाच्च यवाङ्कुरस्य यवसस्यस्य च प्रादुर्भावो भवति नान्यस्य / एवं परिशिष्टेभ्यो वेदितव्यम् / अयमेषां प्रतिनियमहेतुः / सर्वे चैते अपेक्षाहेतुमुपादाय प्रतिनियमहेत्वन्ताहेत वः सस्यस्याभिनिष्पत्तये सहकारिहेतुः / न हि तद्धान्यमन्यतमहेतुवैकल्यान्निष्पद्यते / तस्मात्सर्वा सा सामग्री सहकारिहेतुरित्युच्यते / अशनि-सस्यरोगनिपातादयो ऽन्तराया विरोधहेतुः / तद्वैकल्यं नानन्तरायः अविरोधहेतुः / एवमेते दश हेतवस्तदन्येष्वपि लौकिकेषु भावेषु यथायोगं वेदितव्याः / तद्यथा धान्यपरिग्रहे /
तत्र सर्वस्य प्रतीत्यसमुत्पादस्य यदिदं नामसंज्ञा-वाग्व्याहारः तद्यथा अविद्या संस्कारा विज्ञानं नामरूपंविस्तरेण यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः / इत्ययन्तावत् संक्लेशस्यानुव्यवहारहेतुः / अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणमित्येवमादिकस्य अनुव्यवहारस्य विषयास्वादापेक्षा चैषु भवाङ्गेषु प्रवृतिः / अयमस्य संक्लेशस्यापेक्षाहेतुः / अविद्यादीनां धर्माणां दृष्टे धर्मे यानि बीजानि जातस्य भूतस्येह तान्यन्यजान्मिकस्य जातिजरामरणस्याक्षेपहेतुः / असत्पुरुषसंसेवा ऽसद्धर्मश्रवणमयोनिशोमनस्कारः पूर्वाभ्यासावेधश्चाविद्यादीनामुत्पत्तये परिग्रहहेतुः / स्वकस्वकं बीजमविद्यादीनां निर्वृंत्तिहेतुः / ते पुनरविद्यादयो भवपर्यवसाना उत्तरोत्तरावाहनपारंपर्येण तस्यान्यजान्मिकस्य जातिजरामरणस्यावाहकहेतुः / अन्ये सह स्ववीर्यैरविद्यादयो भवपर्यवसाना नरकोपपत्तये संवर्तन्ते / अन्ये तिर्यक्प्रेतमनुष्यदेवोपपत्तये / इत्येयं संक्लेशस्य प्रतिनियमहेतुः / अपेक्षाहेतुमादिं कृत्वा सर्व एते हेतवः प्रतिनियमहेतुपर्यवसानाः सहकारिहेतुरित्युच्यते / तस्य पुनः संक्लेशस्य विरोधहेतुः गोत्रसंपद् बुद्धानामुत्पादः सद्धर्मस्य देशना सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशो मनस्कारो धर्मानुधर्मप्रतिपत्तिः सर्वे च बोधिपक्ष्या धर्माः / अविरोधहेतुरेषामेव यथोद्दिष्टानां धर्माणां वैकल्यं विरहितत्वम् / एवमेभिर्दशभिर्हेतुभिः सर्वः संक्लेशः सर्वसत्त्वानां वेदितव्यः / तत्र यः सर्वेषु व्यवदानपक्ष्येषु धर्मेंषु निरोधे च निर्वाणे नामसंज्ञावाग्व्याहारः / अयं व्यवदानस्यानुव्यवहारहेतुः /
इतीमानि स्मृत्युपस्थानानि सम्यक् प्रहाणानि यावदार्याष्टाङ्गो मार्गंः / अविद्यानिरोधाच्च संस्कारनिरोधो विस्तरेण यावज्जातिनिरोधाज्जरामरणनिरोध इत्यस्यैवंभागीयस्यानुव्यवहारस्य / तत्र या संस्कारादीनवापेक्षा व्यवदानपर्येषणा व्यवदानपरिग्रहो व्यवदानपरिनिष्पत्तिः अयमस्यापेक्षाहेतुः / या गोत्रस्थस्य पुद्गलस्य गोत्रसंपत् सोपधिशेष [निरूपधिशेष] निर्वाणाधिगमाय पूर्वङ्गमाय / [अयं] व्यवदानस्याक्षेपहेतुः / सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनस्कारः पूर्वकृतश्चेन्द्रियपरिपाकः परिग्रहहेतुः / तानि गोत्रसंगृहीतान्यनास्रवबोधिपक्ष्यधर्मबीजानि तेषां बोधिपक्ष्याणां धर्माणामभिनिर्वृत्तिहेतुः ते पुनः स्वबीजान्निर्वृत्ता बोधिपक्ष्या धर्माः सोपधिशेष-निरुपधिशेषनिर्वाणधात्वोः क्रमेणावाहकहेतुः / (dutt 72) तत्र यच्छ्रावकगोत्रं श्रावकयानेन परिनिर्वाणाय संवर्तते प्रत्येकबुद्धगोत्रं प्रत्येकबुद्धयानेन परिनिर्वाणाय संवर्तते महायानगोत्रं महायानेन परिनिर्वाणाय संवर्तते अयं व्यवदानस्य प्रतिनियमहेतुः / यश्चापेक्षाहेतुर्व्यवदानपक्ष्यो यश्च यावत् प्रतिनियमहेतुरयमस्य सहकारिहेतुरित्युच्यते / गोत्रासम्पन्नता बुद्धानामनुत्पादः अक्षणेपपत्तिरसत्पुरुषसंसेवा ऽसद्धर्मश्रवणमयोनिशोमनस्कारो मिथ्याप्रतिपत्तिः विरोधहेतुः / अस्यैव विरोधहेतोर्यद्वैकल्यविरहितत्वमयमुच्यते ऽविरोधहेतुः / तत्र यः संक्लेशपक्ष्यो विरोधहेतुः स व्यवदानहेतुर्द्रष्टव्यः / यो व्यवदानपक्ष्यो विरोधहेतुः स संक्लेशहेतुर्द्रष्टव्यः /
एवं एभिर्दशभिर्हेतुभिः संक्लेशो दशभिरेव व्यवदानं भवत्यतीते ऽप्यध्वन्यभूदनागते ऽप्यध्वनि भविष्यति संक्लेशाय वा व्यवदानाय वा न एभ्य उत्तरि न एभ्यो भूयानन्यो हेतुर्विद्यते /
तत्र फलं कतमत् / समासतः पञ्च फलानि / विपाकफलं निष्यन्दफलं विसंयोगफलं पुरुषकारफलमधिपतिफलञ्च /
अकुशलानां धर्माणामपायेषु विपाको विपच्यते / कुशलसास्रवाणां सुगतौ / तद्विपाकफलम् / यत्पुनरकुशलाभ्यासादकुशलारामता संतिष्ठते अकुशलबहुलता कुशलाभ्यासात्कुशलारामता कुशलबहुलता पूर्वकर्मसादृश्येन वा पश्चात्फलानुवर्तनता तन्निष्यन्दफलम् / आर्याष्टाङ्गस्य मार्गस्य क्लेशनिरोधो विसंयोगफलम् / यः पुनलौकिकेन मार्गेण क्लेशनिरोधः स नात्यन्तमनुवर्तते पृथग्जनानाम् / तस्मात्तन्न विसंयोगफलम् / यत्पुनरेकत्यदृष्टे धर्मे ऽन्यतमान्यतमेन शिल्पकर्मस्थानसन्निश्रितेन पुरुषकारेण यदि वा कृष्या यदि वा वणिज्यया यदि वा राजपौरुष्टेण लिपि-गणन-न्यसन-संख्या-मुद्रया सस्यादिकं लाभादिकञ्च फलमभिनिर्वर्तयति इदमुच्यते पुरुषकारफलम् / चक्षुविज्ञानञ्चुक्षुरिन्द्रियस्याधिपतिफलम् / एवं यावन्मनोविज्ञानं मनैन्द्रियस्य / तथा प्राणैरवियोगो जीवितेन्द्रियस्य / इति सर्वेषामिन्द्रियस्य / इति सर्वेषामिन्द्रियाणां द्वाविंशतीनां स्वेन स्वेनाधिपत्येन यत्फलं निर्वर्तते तदधिपतिफलं वेदितव्यम् / तच्चाधिपत्यं द्वाविंशतीनामिन्द्रियाणां वेदितव्यम् / तद्यथा वस्तु संग्रहण्याम् / (dutt 73) एवं हि बोधिसत्त्वो बुद्धवचनं सम्यघेतुफलपरिदीपनाकारं विदित्वा स्थानास्थानज्ञानबलगोत्रमासेवनान्वयात् क्रमेण विशोधयति विवर्धयति च /
न चाकृतमन्यकृतं वा कस्यचिद्विपच्यते / न च स्वयं कृतानां कर्मणां कल्पशतैरपि प्रणाशो भवति फलदानं प्रति / एवमकृतानभ्यागमकृताविप्रणाशं बुद्धवचनं परिदीपितं बोधिसत्त्वो यथाभूतं ज्ञात्वा कर्म-स्वकता-ज्ञानबलगोत्रं क्रमेण विशोधयति विवर्धयति च /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
