Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिसत्त्वभूमि
- Thông tin
- GRETIL — Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
बोधिसत्त्वभूमि
योगाचारभूमौ बोधिसत्त्वभूमिः
आधारयोगस्थानम् (book 1)
गोत्र-पटलम् (छप्तेर् 1.1)
ओम् नमो बुद्धाय // दशेमे धर्माः सफलस्य बोधिसत्त्वमार्गस्य महायानस्य संग्रहाय संवर्तन्ते / कतमे दश / आधारो लिङ्गं पक्षो ऽध्याशयो विहार उपपत्तिः परिग्रहो भूमिश्चर्या प्रतिष्ठा च /
उद्दानम् /
आधारो लिङ्ग-पक्षाध्याशय-विहारा उपपत्तिः / परिग्रहो भूमिश्चर्या प्रतिष्ठा पश्चिमा भवेत् //
तत्राधारः कतमः / इह बोधिसत्त्वस्य स्वगोत्रं प्रथमश्चित्तोत्पादः सर्वे च बोधिपक्ष्या धर्मा आधार इत्युच्यते / तत्कस्य हेतोः / इह बोधिसत्त्वो गोत्रं निश्रित्य प्रतिष्ठापयितव्यो भवति / प्रतिबलो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / तस्मात् सभागतया गोत्रमाधार इत्युच्यते / इह बोधिसत्त्वः प्रथमचित्तोत्पादं निश्रित्य प्रतिष्ठाय दाने ऽपि प्रयुज्यते शीले क्षान्तौ वीर्यें ध्याने प्रज्ञायामपि प्रयुज्यते इति / यद्वा पारमितासु पुण्यसंभारे ज्ञानसंभारे सर्वेषु च बोधिपक्ष्येषु धर्मेषु प्रयुज्यते / तस्मात्प्रथमचित्तोत्पादस्य बोधिसत्त्वस्य चर्याप्रयोगस्याधार इत्युच्यते / इह बोधिसत्त्वस्तमेव बोधिसत्त्वचर्याप्रयोगं निश्रित्य प्रतिष्ठायानुत्तरां सम्यक्संबोधिं परिपूरयति / तस्मात्स बोधिसत्त्वचर्याप्रयोगस्तस्य महाबोधिपरिपूरेराधार इत्युच्यते / अगोत्रस्थ पुद्गलो गोत्रे ऽसति चित्तोत्पादे ऽपि यत्नसमाश्रये सत्यभव्यश्चानुत्तरायाः सम्यक्संबोधेः परिपूरये / तदनेन पर्यायेण वेदितव्यमनुत्पादितचित्तस्यापि बोधिसत्त्वस्य अकृते ऽपि बोधिसत्त्वचर्याप्रयोगे गोत्रमाधार इति / स चेत् पुनर्गोत्रस्थश्चित्तं नोत्पादयति बोधिचर्यासु न प्रयुज्यते न क्षिप्रं बोधिमारागयति तास्वपि (dutt 2) विपर्ययात् क्षिप्रमारागयतीति वेदितव्यम् / तत्पुनरेतद्गोत्रमाधार इत्युच्यते / उपस्तम्भो हेतुर्निश्रय उपनिषत्पूर्वङ्गमो निलय इत्यप्युच्यते / यथागोत्रमेवं प्रथमश्चित्तोत्पादः सर्वा च बोधिसत्त्वचर्या /
तत्र गोत्रं कतमत् / समासतो गोत्रं द्विविधम् / प्रकृतिस्थं समुदानीतञ्च / तत्र प्रकृतिस्थं गोत्रं यद्बोधिसत्त्वानां षडायतनविशेषः / स तादृशः परंपरागतो ऽनादिकालिको धर्मताप्रतिलब्धः / तत्र समुदानीतं गोत्रं यत्पूर्वकुशलमूलाभ्यासात्प्रतिलब्धम् / तदस्मिन्नर्थे द्विविधमप्यभिप्रेतम् / तत्पुनर्गोत्रं बीजमित्यप्युच्यते / धातुः प्रकृतिरित्यपि / तत्पुनरसमुदागतफलं सूक्ष्मं विना फलेन / समुदागतफलमौदारिकं सह फलेन /
तेन खलु गोत्रेण समन्वागतानां बोधिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धानतिक्रम्य प्रागेवान्यान् सत्त्वान्निरुत्तरो विशेषो वेदितव्यः / तत्कस्य हेतोः / द्वे इमे समासतो विशुद्धी / क्लेशावरणविशुद्धिर्ज्ञेयावरणविशुद्धिश्च / तत्र सर्वश्रावकप्रत्येकबुद्धानां तद्गोत्रं क्लेशावरणविशुद्ध्या विशुध्यति न तु ज्ञेयावरणविशुद्ध्या / बोधिसत्त्वगोत्रं पुनरपि क्लेशावरणविशुद्ध्या अपि ज्ञेयावरणविशुद्ध्या विशुध्यति / तस्मात्सर्वप्रतिविशिष्टं निरुत्तरमित्युच्यते /
अपि च चतुर्भिराकारैर्बोधिसत्त्वस्य श्रावकप्रत्येकबुद्धेभ्यो विशेषो वेदितव्यः / कतमैश्चतुर्भिः / इन्द्रियकृतः प्रतिपत्तिकृतः कौशल्यकृतः फलकृतश्च / तत्रायमिन्द्रियकृतो विशेषः / प्रकृत्यैव बोधिसत्त्वस्तीक्ष्णेन्द्रियो भवति / प्रत्येकबुद्धो मध्येन्द्रियः श्रावको मृद्विन्द्रियः / तत्रायं प्रतिपत्तिकृतो विशेषः / श्रावकप्रत्येकबुद्धश्चात्महिताय प्रतिपन्नो भवति / बोधिसत्त्वः अप्यात्म हिताय अपि परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम् / तत्रायं कौशल्यकृतो विशेषः / श्रावकः प्रत्येकबुद्धश्च स्कन्धधात्वायतनप्रतीत्यसमुत्पाद-स्थानास्थानसत्यकौशल्यं करोति बोधिसत्त्वस्तत्र चान्येषु च सर्वविद्यास्थानेषु / तत्रायं फलकृतो विशेषः / श्रावकः श्रावकबोधिफलमधिगच्छति / प्रत्येकबुद्धः प्रत्येकबोधिमधिगच्छति / बोधिसत्त्वो ऽनुत्तरं सम्यक्संबोधिफलमधिगच्छति /
षडिमानि बोधिसत्त्वस्य पारमितानां गोत्रलिङ्गानि संपद्यन्ते / यैरेवं परे संजानते बोधिसत्त्वो ऽयमिति / दानपारमिताया गोत्रलिङ्गं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया गोत्रलिङ्गम् / तत्रेदं बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गम् / इह बोधिसत्त्वः प्रकृत्यैव दानरुचिर्भवति / सत्सु च संविद्यमानेषु देयधर्मेषु सततसमितं परेषां संविभागशीलो भवति प्रमुदितचित्तश्च ददाति न विमनस्कः / अल्पादपि च संविभागस्य कर्त्ता भवति / विशदञ्च दानमनुप्रयच्छति / न हीनम् / अदानेन च जिह्रेति / परेषाञ्च दानस्य वर्णं भाषते / दाने चैनानुपच्छन्दयति / दातारञ्च दृष्ट्वा आत्तमना भवति सुमनस्कः / गुरुभ्यो वृद्धतरकेभ्यो दक्षिणीयेभ्यः सत्कारार्हेभ्य उत्थायासनमनुप्रयच्छति / पृष्टो ऽपृष्टो वा तेषु तेषु सत्त्वकृत्येष्वनपायमिहलोके परलोके न्यायोपदेशमनुप्रयच्छति / राजचौरामित्राण्युदकादिभयभीतानाञ्च सत्त्वानामभयमनुप्रयच्छति / यथाशक्त्या चैनान् परित्रायते तस्माद्विचित्रात् प्रततादुग्राद्भयात् / निक्षिप्तञ्चास्य हस्ते परधनं नाभिद्रुह्यति / ऋणं गृहीत्वा परेभ्यो न विसंवादयति नाभिद्रुह्यति / स्वदायादं न वञ्चयते न विप्रलम्भयति / मणिमुक्तावैदूर्यशंखशिलाप्रवालजातरूपरजताश्मगर्भमुसारगल्वलोहितिकादक्षिणावर्तप्रभृतिषूपकरणजातेषु मूढं विपर्यस्यचित्तं सम्यक्संबोधयति / यथास्यान्यतो ऽपि न विप्रलम्भः स्यात् / कुतः पुनः स्वयमेनं विप्रलम्भयिष्यति / प्रकृत्या चोदारभोगाधिमुक्तो भवति / उदारेष्वस्य सर्वभोगपरिभोगेषु चित्तं क्रामति / उदारेषु च कर्मान्तेष्वधिमुक्तो भवति न परीत्तायद्वारेषु / सन्ति चेमानि लोके व्यसनानि / तद्यथा स्त्रीव्यसनम् / मद्यव्यसनम् / द्यूतव्यसनम् / नट-नर्तक-हासक-लासकादिसंदर्शनव्यसनमित्येवंरूपेभ्योव्यसनेभ्यो लघु लध्वेव वैराग्यं प्रतिलभते / ह्रीव्यपत्राप्यं प्राविष्करोति विपुले ऽपि च भोगप्रतिलम्भे नाधिमात्रलोलुपो भवति प्रागेवाल्पे / इतिमान्येवं भागीयानि बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तत्रेमानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि / इह बोधिसत्त्वः प्रकृत्या मृदुना कायवाङ्मनस्कर्मणा समन्वागतो भवत्यकुशलेन नात्यर्थरौद्रेण नात्यर्थसत्त्वोपघातकेन / कृत्वापि च पापकं कर्म लघु लध्वेव विप्रतिसारं प्रतिलभते / तञ्च जेह्रीयमाणः समाचरति न नन्दीजातः / पाणिलोष्टदण्डशस्त्रादिभिश्च सत्त्वानामविहेठनजातीयो भवति / प्रकृतिवत्सलश्च भवति सत्त्वप्रियः / सत्कारार्हेषु च कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मणा प्रत्युपस्थितो भवति / दक्षिणश्च भवति / नागरिकः परचित्तानुवर्ती / स्मितपूर्वङ्गमश्च भवत्युत्तानमुखवर्णविगतभ्रूकुटिः पूर्वाभिभाषी / उपकारिषु च सत्त्वेषु कृतज्ञो भवति कृतवेदी / अर्थिकेषु च सत्त्वेषु ऋजुतां प्रतिपद्यते / न मायाशाठ्येनैतान् विलोभयति / धर्मेणासाहसेन च भोगान् समुदानयति नाधर्मेण / प्रकृत्यैव च पुण्यकामो भवति / परपुण्य क्रियास्वपि व्यापारं गच्छति प्रागेवात्मनः / परबाधया चात्त्यर्थ बाध्यते यदुत परेषां वधबन्धनच्छेदनताडनकुत्सनतर्जनादिकया दृष्ट्वा वा श्रुत्वा वा / धर्मसमादानगुरुकश्च भवति संपरायगुरुकः / अणुमात्रे ऽप्यवद्ये भयदर्शी प्रागेव प्रभूते / परकृत्येषु च परकरणीयेषु सहायीभावं गच्छति यदुत कृषिवणिज्यागोरक्ष्यराजपौरुष्यलिपिगणनन्यसनसंख्यामुद्रायां भर्तृप्रसादने कुलप्रसादने राजकुलप्रसादने मित्रामित्रप्रसादने भोगानामर्जने रक्षणे सन्निधौ प्रयोगे विसर्गे आवाहविवाहाभक्षणसंभक्षणेष्वेवंभागीयेषु सत्त्वकृत्येषु सहायीभावं गच्छति /
न कलहभण्डनविग्रहविवादेषु च परविहेठनकरणीयेषु ये आत्मनः परेषाञ्चानर्थायाहिताय दुःखाय संवर्तन्ते / अकृत्याच्चैतां निवारयति यदुत दशभ्यः पापकेभ्यो ऽकुशलेभ्यः / कर्मपथेभ्यः / परवश्यश्च भवति परविधेयः / समानक्षान्तिशीलतया अपहाय स्वकार्यं परैरात्मकार्ये यथाकामं नियोज्यते / आर्द्रचित्तश्च भवति पेशलचित्तो न च चिरमाघातचित्ततां प्रतिघचित्ततामुद्वहति नान्यत्र तत्क्षण एवास्य तच्चित्तं भद्रतायां परिवर्तते / सत्यगुरुकश्च भवति नाभूतवचनेन परान् विसंवादयति / न च परेषां मित्रभेदं रोचयति न करोति / (dutt 5) न चासम्बद्धमपार्थ निरर्थ सहसा प्रलपति / प्रियंवदश्च भवत्यपरकटुकः अपि स्वकस्य दासादिपरिजनस्य प्रागेव परेषाम् गुणप्रियश्च भवति परेषां भूतस्य वर्णस्याहर्ता / इतीमान्येवंभागीयानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तत्रेमानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि / इह बोधिसत्त्वः प्रकृत्या परेषामन्तिकादपकारं लब्ध्वा नाघातचित्ततां प्राविष्करोति नाप्यपकाराय प्रपद्यते / संज्ञप्यमानश्चाशु संज्ञप्तिं प्रतिगृह्णाति / न च खिलं धारयति न चिरकालिकं वैराशयं वहति / इतीमान्येवंभागीयानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तत्रेमानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि / इह बोधिसत्त्वः प्रकृत्या उत्थानवान् भवति / काल्योत्थायी सायं निपाती न निद्रासुखं शयनसुखं पार्श्वसुखमत्यर्थं स्वीकरोति / प्रत्युपस्थिते च कृत्ये अभिभूयाकर्तुकामतामालस्यं प्रतिसंख्याय प्रयुज्यते तस्य कृत्यस्याभिनिष्पत्तये / सर्वकृत्यसमारम्भेषु च दृढनिश्चयो भवति नाकृत्वा नापरिप्राप्य सर्वेण सर्वं वीर्यस्रंसयति अन्तरा वा विषादमापद्यते / उदारेषु च परमेष्वर्थेषु न चेतसा संकोचमापद्यते / नाप्यात्मानं परिभवति / शक्तो ऽहं प्रतिबलमेषामधिगमायेत्युत्साहजातः / वीरश्च भवति महासभाप्रवेशे वा परैः सहाभिप्रयोग प्रत्यभियोगे वा तदन्यत्र वा दुष्करकर्मणि महाव्यवसायेष्वपि चार्थोपसंहितेषु नात्यर्थं खेदमापद्यते प्रागेव परीत्तेषु / इतीमान्येवंभागीयानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तत्रेमानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि / इह बोधिसत्त्वः प्रकृत्या धर्मार्थोपनिध्याने अविक्षेपबहुलो भवति / अरण्यवनप्रस्थानानि / च प्रान्तानि शयनासनानि मनुष्यरहःसेवितानि विगतपापकानि प्रतिसंलयनसारूप्यकाणि दृष्ट्वा श्रुत्वा सुखं तन्नैष्क्रम्यं प्राविवेक्यमिति (dutt 6) नैष्क्रम्यप्राविवेक्ये तीव्रमौत्सुक्यमुत्पादयति / प्रकृत्या च मन्दक्लेशो भवति मन्दनिवरणो मन्ददौष्ठुल्यः / प्रविवेकगतस्य चास्य स्वार्थं परितुलयतः पापकाः असद्वितर्का नात्यर्थं चित्तं क्षोभयन्ति न पर्यादाय तिष्ठन्ति / [सः] अमित्रपक्षे ऽपि त्वरितं त्वरितं मैत्रचित्ततामुपस्थापयति प्रागेव मित्रोदासीनपक्षे / विचित्रैश्च दुःखैर्दुःखितानां सत्त्वानां दुःखं श्रुत्वा वा दृष्ट्वा वा महत्कारुण्यचित्तमुत्पादयति / दुःखापनयाय च तेषां सत्त्वानां यथाशक्त्या यथाबलं व्यापारं गच्छति / प्रकृत्या च सत्त्वेषु हितकामो भवति सुखकामः / धृतिमांश्च भवत्यापत्सु ज्ञातिव्यसने वा भोगव्यसने वा वधे वा बन्धने वा प्रवासे वा इत्येवंभागीयास्वापत्सु / मेधावी च धर्माणां ग्रहणधारणोहनसमर्थः स्मृतिबलेन च समन्वागतो भवति / स चिरकृतचिरभाषितमप्यनुस्मर्त्ता भवति परेषाञ्चानुस्मारयिता / इतीमान्येवंभागीयानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तत्रेमानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि / इह बोधिसत्त्वः सर्वविद्यास्थानज्ञेयप्रवेशाय सहजया प्रज्ञया समन्वागतो भवति / अधन्धश्च भवत्यमन्दः अमोमुहजातीयः / तासु तासु च प्रमादस्थानविरतिषु प्रतिसंख्यानबलिको भवति / इतीमान्येवंभागीयानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि वेदितव्यानि /
तानीमानि बोधिसत्त्वस्य औदारिकाण्यानुमानिकानि गोत्रलिङ्गानि वेदितव्यानि / भूतार्थनिश्चये तु बुद्धा एव भगवन्तः प्रत्यक्षदर्शिनः /
यस्माच्च तद्गोत्रं बोधिसत्त्वानां प्रकृत्यैव गुणयुक्तं भद्रं कल्याणं शुक्लधर्मसमन्वागतं तस्मात्तावद् दुरभिसंभवस्य श्रेष्ठस्याचिन्त्यस्याचलस्यानुत्तरस्य तथागतस्य पदस्यावाप्तये हेतुभावेन युज्यते ऽन्यथा न युज्यते / तावच्च बोधिसत्त्व एभिः शुक्लधर्मैः प्रकृत्यैव युक्तो भवति यावन्न शुक्लधर्मवैरोधिकैश्चतुर्भिरुपक्लेशैः सकलविकलैरुपक्लिष्टो भवति / यदा चोपक्लिष्टो भवति स तदा एषु च शुक्लेषु धर्मेषु न संदृश्यते / अपायेषु चैकदा उपपद्यते / अपायोपपत्तावपि बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो (dutt 7) गोत्रकृतो महान् विशेषो वेदितव्यः / इह बोधिसत्त्वो दीर्घेण कालेन कदाचित् कर्हिचिदपायेषूपपद्यते / उपपन्नश्चाशु परिमुच्यते अपायेभ्यः / न च तथा तीव्रामापायिकीं दुःखां वेदनां वेदयते तद्यथा ऽन्ये ऽपायोपपन्नाः सत्त्वाः / तया च तन्व्या दुःखया वेदनया स्पृष्टो ऽधिमात्रं संवेगमुत्पादयति / तेषु च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारुण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारूण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण बुद्धमहाकरुणाहेतुना चोद्यमानः / इत्येवंभागीयः अपायोपपत्तौ बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो विशेषो वेदितव्यः /
तत्र कतमे ते बोधिसत्त्वस्य चत्वारः शुक्लधर्मवैरोधिका उपक्लेशाः / पूर्वं प्रमत्तस्य क्लेशाभ्यासात्तीव्रक्लेशता आयतक्लेशता चायं प्रथम उपक्लेशः / मूढस्याकुशलस्य पापमित्रसंश्रयो ऽयं द्वितीय उपक्लेशः / गुरुभर्तृराजचौरप्रत्यर्थिकद्यभिभूतस्यास्वातन्त्र्यं चित्तविभ्रमश्चायं तृतीय उपक्लेशः / उपकरणविकलस्य जीविकापेक्षा अयं चतुर्थ उपक्लेशः /
चतुर्भिः कारणैरेवं गोत्रसंपन्नो ऽपि बोधिसत्त्वो न शक्नोत्यनुत्तर सम्यक्संबोधिमभिसंबोद्धुम् / कतमैश्चतुर्भिः / इह बोधिसत्त्वः आदित एव कल्याणमित्रं न लभते अविपरीतबोधिमार्गदैशिकं बुद्धं वा बोधिसत्त्वं वा / इदं प्रथमं कारणम् / पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रं विपरीतग्राही विपरीतं शिक्षते बोधिसत्त्वशिक्षासु / इदं द्वितीयं कारणम् / पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिन् प्रयोग शिथिलप्रयोगो भवति कुसीदो नोदग्रप्रततवीर्यसमन्वागतः / इदं तृतीयं कारणम् / पुनरपरं बोधिसत्त्वो लब्ध्वा कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिंश्च प्रयोगे आरब्धवीर्यः अपरिपक्वेन्द्रियो भवत्यपरिपूर्णबोधिसंभारः दीर्घकालापरिजयाद्वोधिपक्ष्य धर्माणाम् / इदञ्चतुर्थ कारणम् / गोत्रे सत्येतत्कारणवैकल्याद्वोधेरप्राप्तिः / सान्निध्यात्तु प्राप्तिर्भवति / असति तु गोत्रे सर्वेण सर्व सर्वथा बोधरप्राप्तिरेव वेदितव्या /
बोधिसत्त्वभूमौ आधारे योगस्थाने प्रथमं गोत्रपटलं समाप्तम् //
चित्तोत्पादपटलम् (छप्तेर् 1.2)
इह बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः सर्वबोधिसत्त्वसम्यक्प्रणिधानानामाद्यं सम्यक्प्रणिधानं तदन्यसम्यक्प्रणिधानसंग्राहकम् / तस्मात् स आदितः सम्यक्प्रणिधानस्वभावः / स खलु बोधिसत्त्वो बोधाय चित्तं प्रणिदधदेवं चित्तमभिसंस्करोति वाचञ्च भाषते / अहो बताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सर्वसत्त्वानाञ्चार्थकरः स्यामत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयेयं तथागतज्ञाने च / स एवमात्मनश्च बोधिं सत्त्वार्थञ्च प्रार्थयमानश्चित्तमुत्पादयति / तस्मात्स चित्तोत्पादः प्रार्थनाकारः / तां खलु बोधिं सत्त्वार्थञ्चालम्व्य स चित्तोत्पादः प्रार्थयते नानालम्ब्य / तस्मात्स चित्तोत्पादो बोध्यालम्बनः सत्त्वार्थालम्बनश्च / स च चित्तोत्पादः सर्वबोधिपक्ष्यकुशलमूलसंग्रहाय पूर्वङ्गमत्वात्कुशलः परमकौशल्यगुणयुक्तः भद्रः परमभद्रः कल्याणः परमकल्याणः सर्वसत्त्वाधिष्ठानकायवाङ्मनोदुश्चरितवैरोधिकः / यानि च कानिचित्तदन्यानि लौकिकलोकोत्तरेष्वर्थेषु कुशलानि सम्यक्प्रणिधानानि तेषां सर्वेषामग्र्य मेतत्सम्यक्प्रणिधानं निरुत्तरं यदुत बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः / एवमयं प्रथमश्चित्तोत्पादः स्वभावतो ऽपि वेदितव्यः / आकारतो ऽप्यालम्बनतो ऽपि गुणतो ऽप्युत्कर्षतो ऽति पञ्चलक्षणो वेदितव्यः /
तस्य च बोधिचित्तस्य सहोत्पादादेवावतीर्णे भवति बोधिसत्त्वो ऽनुत्तरे बोधिमहायाने / बोधिसत्त्वो बोधिसत्त्व इति च संख्यां गच्छति यदुत संकेतव्यवहारनयेन / तस्मात्स चित्तोत्पादः अवतारसंगृहीतः / उत्पाद्य च बोधिसत्त्वस्तच्चित्तं क्रमेणानुत्तरां सम्यक्संबोधिमधिगच्छति नानुत्पाद्य / तस्मादनुत्तरायाः सम्यक्संबोधेः स चित्तोत्पादो मूलम् / दुःखितेषु च सत्त्वेषु स कारुणिको बोधिसत्त्वः परित्राणाभिप्रायस्तच्चित्तमुत्पादयति / तस्मात्स चित्तोत्पादः करुणानिष्यन्दः / (dutt 9) तञ्च चित्तोत्पादं निश्रित्य प्रतिष्ठाय बोधिसत्त्वो बोधिपक्ष्येषु धर्मेषु सत्त्वार्थ क्रियायाञ्च बोधिसत्त्वशिक्षायां प्रयुज्यते / तस्मात्स चित्तोत्पादो बोधिसत्त्वशिक्षायाः सन्निश्रयः / एवमसौ प्रथमश्चित्तोत्पादः संग्रहतो ऽपि मूलतो ऽपि निष्यन्दतो ऽपि सन्निश्रयतो ऽपि वेदितव्यः /
स च बोधिसत्त्वस्य प्रथमचित्तोत्पादः समासेन द्विविधः / नैर्याणिकश्चानैर्याणिकश्च / तत्र नैर्याणिको य उत्पन्नो ऽत्यन्तमनुवर्तते न पुनर्व्यावर्तते / अनैर्याणिकः पुनर्य उत्पन्नो नात्यन्तमनुवर्तते पुनरेव व्यावर्तते / तस्य च चित्तोत्पादस्य व्यावृत्तिरपि द्विविधा / आत्यन्तिकी चानात्यन्तिकी च / तत्रात्यन्तिकी यत्सकृद्व्यावृत्तं चित्तं न पुनरुत्पद्यते बोधाय / अनात्यन्तिकी पुनः यद्व्यावृत्तं चित्तं पुनः पुनरुत्पद्यते बोधाय /
तस्य खलु चित्तस्योत्पादः चतुर्भिः प्रत्ययैश्चतुर्भिर्हेतुभिश्चतुर्भिर्बलैर्वेदितव्यः / चत्वारः प्रत्ययाः कतमे / इह कुलपुत्रो वा कुलद्रुहिता वा तथागतस्य वा बोधिसत्त्वस्य वा अचिन्त्यमत्यद्भुतं प्रातिहार्यं प्रभावं पश्यति संप्रत्ययितस्य वा ऽन्तिकाच्छृणोति / तस्य दृष्ट्वा वा श्रुत्वा वा एवं भवति / महानुभावा बतेयं बोधिर्यस्यां स्थितस्य वा प्रतिपन्नस्य वा ऽयमेवरूपः प्रभा[वः] इदमेवंरूपं प्रातिहार्यं दृश्यते च श्रूयते च स तदेव प्रभावदर्शनं श्रवणं वाधिपतिं कृत्वा महाबोध्यधिमुक्तो महाबोधौ चित्तमुत्पादयति / अयं प्रथमः प्रत्ययश्चित्तस्योत्पत्तये / स न हैव प्रभावं पश्यति वा शृणोति वा अपरित्वनुत्तरां बोधिमारभ्य सद्धर्मं शृणोति बोधिसत्त्वपिटकं देश्यमानं श्रुत्वा च पुनरभिप्रसीदति / अभिप्रसन्नश्च सद्धर्मश्रवणमधिपतिं कृत्वा तथागतज्ञानाधिमुक्तः तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति / अयं द्वितीयः प्रत्ययश्चित्तस्योत्पत्तये / स न हैव धर्म शृणोत्यपि तु बोधिसत्त्वः सद्धर्मान्तर्धानिमामुखामुपगतां पश्यति / दृष्ट्वा च पुनरस्यैवं भवति अप्रमेयाणां बत सत्त्वानां दुःखापगमाय बोधिसत्त्वसद्धर्मस्थितिः संवर्तते / यन्न्वहं बोधिसत्त्व-सद्धर्मचिरस्थितये चित्तमुत्पादयेयं यदुत एषामेव सत्त्वानां दुःखापकर्षणाय / [स] सद्धर्मधारणमेवाधिपतिं कृत्वा तथागतज्ञानाधिमुक्तस्तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति / अयं (dutt 10) तृतीयः प्रत्ययश्चित्तस्योत्पत्तये /
स न हैव सद्धर्मान्तर्धानिं प्रत्युपस्थितां पश्यति अपित्वन्तयुगे ऽन्तकाले प्रत्यवरान्तयुगिकान् सत्त्वाश्रयान् पश्यति यदुत दशभिरुपक्लेशैरुपक्लिष्टान् / तद्यथा मोहबहुलानाह्रीक्यानपत्राप्यबहुलानीर्ष्यामात्सर्यबहुलान् दुःखबहुलान् दौष्ठुल्यबहुलान् क्लेशबहुलान् दुश्चरितबहुलान् प्रमादबहुलान् कौसीद्यबहुलान् आश्रद्ध्यबहुलांश्च / दृष्ट्वा च पुनरस्यैवं भवति / महान् बतायं कषायकालः प्रत्युपस्थितः / अस्मिन्नेवमुपक्लिष्टे काले न सुलभो निहीनः श्रावकप्रत्येकबोधावपि तावच्चित्तोत्पादः प्रागेवानुत्तरायां सम्यक्संबोधौ / यन्न्वहमपि तावच्चित्तमुत्पादयेयम् अप्येव [नाम] ममानुशिक्षमाणा अन्ये ऽप्युत्पादयेयुरिति / सो ऽन्तकाले चित्तोत्पाददुर्लभतामधिपतिं कृत्वा महाबोधावधिमुक्तो महाबोधौ चित्तमुत्पादयति / अयं चतुर्थः प्रत्ययश्चित्तस्योत्पत्तये /
चत्वारो हेतवः कतमे / गोत्रसंपद्वोधिसत्त्वस्य प्रथमो हेतुश्चित्तस्योत्पत्तये / बुद्धबोधिसत्त्वकल्याणमित्रपरिग्रहो द्वितीयो हेतुश्चित्तस्योत्पत्तये / सत्त्वेषु कारुण्यं बोधिसत्त्वस्य तृतीयो हेतुश्चित्तस्योत्पत्तये / संसारदुःखाद् दुष्करचर्यादुःखादपि दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादभीरुता चतुर्थो हेतुश्चित्तस्योत्पत्तये /
तत्र गोत्रसंपद्वोधिसत्त्वस्य धर्मताप्रतिलब्धैव वेदितव्या /
चतुर्भिराकारैर्बोधिसत्त्वस्य मित्रसंपद्वेदितव्या / इह बोधिसत्त्वस्य मित्रमादित एवाजडं भवत्यधन्धजातीयं पण्डितं विलक्षणं न च कुदृष्टिपतितम् / इयं प्रथमा मित्रसंपत् / न चैनं प्रमादे विनियोजयति / न प्रमादस्थानमस्योपसंहरति / इयं द्वितीया मित्रसंपत् / न चैनं दुश्चिरिते विनियोजयति न दुश्चरितस्थानमस्योपसंहरति / इयं तृतीया मित्रसंपत् / न चैनमुत्कृष्टतरेभ्यः श्रद्धाच्छन्दसमादानवीर्योपायगुणेभ्यो विच्छन्दयित्वा निहीनतरेषु श्रद्धाच्छन्दसमादानवीर्योपायगुणेषु समादापयति / तद्यथा महायानाद्विच्छन्दयित्वा श्रावकयाने वा प्रत्येकबुद्धयाने वा भावनामयाद् विच्छन्दयित्वा चिन्तामये चिन्तामयाद्विच्छन्दयित्वा श्रुतमये श्रुतमयाद्विच्छन्दयित्वा वैयावृत्त्यकर्मणि शीलमयाद् विच्छन्दयित्वा दानमये इत्येवंभागीयेभ्य उत्कृष्टतरेभ्यो गुणेभ्यो न विच्छन्दयित्वा एवंभागीयेषु निहीनतरेषु गुणेषु समादापयति / इयं चतुर्थी मित्रसंपत् /
चतुर्भिराकारै र्बोधिसत्त्वः करुणाबहुलो भवति सत्त्वेषु / सन्ति ते लोकधातवो येषु दुःखं नोपलभ्यते दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु / स च बोधिसत्त्वः सदुःखे लोक धातौ प्रत्याजातो भवति यत्र दुःखमुपलभ्यते नादुःखे / परञ्चान्यतमेन दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति / आत्मना चा ऽन्यतमेन दुःखेन स्पृष्टो भवत्युपद्रुतो ऽभिभूतः / पुनश्च परमात्मानं वा तदुभयं वा दीर्घकालिकेन विचित्रेण तीव्रेण निरन्तरेण दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति / इति तस्य बोधिसत्त्वस्य स्वगोत्रसन्निश्रयेण प्रकृतिभद्रतया एभिश्चतुर्भिरालम्बनैरधिष्ठानैः करुणामृदुमध्याधिमात्रा प्रवर्वते अन्यत्राभ्यासतः //
चतुर्भिः कारणैर्बोधिसत्त्वः सत्त्वेषु करुणां संपुरस्कृत्य संसारदुःखाद्दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादपि न बिभेति नोत्त्रस्यति प्रागेव निहीनात् / प्रकृत्या सात्त्विको भवति धृतिमान् बलवान् / इदं प्रथमं कारणम् / पण्डितो भवति सम्यगुपनिध्यानशीलः प्रतिसंख्यानबलिकः / इदं द्वितीयं कारणम् / अनुत्तरायां सम्यक्संबोधावधिमात्रया ऽधिमुक्त्या समन्वागतो भवति / इदं तृतीयं कारणम् / सत्त्वेषु चाधिमात्रया करुणया समन्वागतो भवति इदं चतुर्थ कारणम् /
चत्वारि बलानि कतमानि / अध्यात्मबलं परबलं हेतुबलं प्रयोगबलञ्च / तत्र स्वशक्तिपतिता या रुचिरनुत्तरायां सम्यक्संबोधौ इदमुच्यते बोधिसत्त्वस्याध्यात्मबलं चित्तस्योत्पत्तये / परशक्तिसमुत्पादिता तु रुचिरनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वस्य परबलम् इत्युच्यते चित्तस्योत्पत्तये / पूर्वको बोधिसत्त्वस्य महायानप्रतिसंयुक्तकुशलधर्माभ्यास एतर्हि बुद्धबोधिसत्त्वसन्दर्शन मात्रकेण तद्वर्णश्रवणमात्रकेण वा आशु चित्तस्योत्त्पत्तये प्रागेव सद्धर्मश्रवणेन वा प्रभावदर्शनेन वा हेतुबलम् इत्युच्यते चित्तस्योत्त्पत्तये / दृष्टधार्मिको बोधिसत्त्वस्य सत्पुरुषसंसेवा-सद्धर्मश्रवणचिन्तादिको दिर्घकालिकः कुशलधर्माभ्यासः प्रयोगबलम् इत्युच्यते चित्तस्योत्पत्तये /
तत्र बोधिसत्त्वस्य समस्तव्यस्तांश्चतुरः प्रत्ययांश्चतुरो हेतूनागम्य सचेदध्यात्मबलेन हेतुबलेन च समस्ताभ्यां द्वाभ्यां बलाभ्यां तच्चित्तमुत्पद्यते / (dutt 12) एवन्तद् दृढंञ्च सारञ्च निश्चलं चोत्पद्यते / परबलप्रयोगबलाभ्यां तु तच्चित्तमदृढोदयं वेदितव्यम् /
चत्वारि बोधिसत्त्वस्य चित्तव्यावृत्तिकारणानि / कतमानि चत्वारि / न गोत्रसंपन्नो भवति / पापमित्रपरिगृहीतो भवति / सत्त्वेषु मन्दकरुणो भवति / संसारदुःखाच्च दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तराद् भीरुर्भवति अत्यर्थ बिभेत्युत्तस्यति संत्रासमापद्यते / चतुर्णां चित्तोत्पत्तिहेतूनां विपर्ययेण चत्वार्येतानि चित्तव्यावृत्तिकारणानि विस्तरेण पूर्ववद्वेदितव्यानि /
द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य लोकासाधारणावाश्चर्याद्भूतौ धर्मौ / कतमौ द्वौ / सर्वसत्त्वांश्च कडत्रभावेन परिगृह्णाति / न च पुनः कडत्रपरिग्रहदोषेण लिप्यते / तत्रायं कडत्रपरिग्रहदोषः / कडत्रस्यानुग्रहोपघाताभ्यां क्लिष्टानुरोधविरोधौ / तौ च बोधिसत्त्वस्य न विद्येते / द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य सत्त्वेषु कल्याणाध्याशयौ प्रवर्तेते / हिताध्याशयश्च सुखाध्याशयश्च / तत्र हिताध्याशयो या अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनकामता सुखाध्याशयो या विघातिनामनाथानामप्रतिशरणानां सत्त्वानां क्लिष्टवर्जितानुग्राहकवस्तूषसंहरणकामता /
द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रयोगौ / अध्याशयप्रयोगः प्रतिपत्तिप्रयोगश्च / तत्राध्याशयप्रयोगो या तस्यैव हितसुखाध्याशयस्य प्रतिदिवसमनुबृंहणा / प्रतिपत्तिप्रयोगः प्रतिदिवसमात्मनश्च बुद्धधर्मपरिपाकप्रयोगः सत्त्वानाञ्च यथाशक्ति यथावलमध्याशयप्रयोगमेव निश्रित्य हितसुखोपसंहारप्रयोगः /
द्वे इमे दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महती कुशलधर्मायद्वारे / स्वार्थप्रयोगश्चानुत्तरायाः सम्यक्संबोधेः समुदागमाय / परार्थप्रयोगश्च सर्वसत्त्वानां सर्वदुःखनिर्मोक्षाय / यथा द्वे आयद्वारे एवं द्वौ महान्तौ कुशलधर्मसन्निचयौ द्वावप्रमेयौ कुशलधर्मस्कन्धौ / पेयालम् /
द्वे इमे प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रथमं चित्तोत्पादमुपादाय (dutt 13) बोधाय कुशलपरिग्रहवैशेष्ये तदन्यं कुशलपरिग्रहमुपनिधाय / हेतुवैशेष्यं फलवैशेष्यञ्च / स खलु बोधिसत्त्वस्य कुशलपरिग्रहो ऽनुत्तनुरायाः सम्यक्संबोधेर्हेतुः सा च तस्य फलम् / न तदन्यः सर्वश्रावकप्रत्येकबुद्धकुशलपरिग्रहः प्रागेव तदन्येषां सत्त्वानाम् / तस्माद्वोधिसत्त्वानां कुशलपरिग्रहस्तदन्यस्मात्सर्वकुशलपरिग्रहाद्धेतुभावतः फलतश्च प्रतिविशिष्टः /
द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य चित्तोत्पादानुशंसौ / सहचित्तोत्पादाच्च सर्वसत्त्वानां दक्षिणीयभूतो भवति गुरुभूतः पुण्यक्षेत्रं पितृकल्पः प्रजानामव्याबाध्यस्य च पुण्यस्य परिग्रहं करोति / तत्रेदमव्याबाध्यं पुण्यम् / येन समन्वागतो बोधिसत्त्वश्चक्रवर्ति-द्विगुणोनारक्षेणारक्षितो भवति / यस्मिन्नारक्षे सदा प्रत्युपस्थिते न शक्नुवन्ति सुप्तमत्तप्रमत्तस्यापि व्याडा वा यक्षा वा अमनुष्या वा नैवासिका वा विहेठां कर्तुम् / परिवृत्तजन्मा पुनरयं बोधिसत्त्वस्तेन पुण्यपरिग्रहेणाल्पाबाधो भवत्यरोगजातीयः / न च दीर्घेण खरेण वा आबाधेन स्पृश्यते / सत्त्वार्थेषु च सत्त्वकरणीयेष्वस्य व्यायच्छमानस्य कायेन वाचा धर्मञ्च देशयतः नात्यर्थं कायः क्राम्यति न स्मृतिः प्रमुष्यते न चित्तमुपहन्यते / प्रकृत्यैव तावद्गोत्रस्थो बोधिसत्त्वो मन्ददौष्ठुल्यो भवति / उत्पादित चित्तस्तु भूयस्या मात्रया मन्दतर दौष्ठुल्यो भवति यदुत कायदौष्ठुल्येन चित्तदौष्ठुल्येन च / असिद्धान्यपि च तदन्य हस्तगतानि सत्त्वानामीत्युपद्रवोपसर्गसंशमकानि मन्त्रपदानि विद्यापदानि तद्धस्तगतानि सिध्यन्ति / कः पुनर्वादः सिद्धानि / अधिकेन च क्षान्तिसौरत्येन समन्वागतो भवति / परत-उपतापसहः अपरोपतापी च / परेणापि च परमुपताप्यमानमुपलभ्यात्यर्थ बाध्यते / क्रोधेर्ष्याशाठ्यम्रक्षादयश्चास्योपक्लेशाहतवेगा मन्दायमानाः कदाचित्समुदाचरन्त्याशु च विगच्छन्ति / यत्र च ग्रामक्षेत्रे प्रतिवसति तस्मिन् भयभैरवदुर्भिक्षदोषा अमनुष्यकृताश्चोपद्रवा अनुत्पन्नाश्च नोत्पद्यन्ते उत्पन्नाश्च व्युपशाम्यन्ति / स चेत्पुनः स प्रथमचित्तोत्पादिको बोधिसत्त्वः एकदा (dutt 14) नरकेष्वपायभूमावुपपद्यते स भूयस्या मात्रया आशुतरं च मुच्यते नरकेभ्यः / तनुतराञ्च दुःखां वेदनां वेदयते भृशतरञ्च संवेगमुत्पादयति तेषाञ्च सत्त्वानामन्तिके करुणाचित्ततामव्याबाध्य पुण्यपरिग्रहहेतोः / इत्येवंभागीयान् बहूननुशंसानव्याबाध्य पुण्यपरिग्रहात्प्रथमचित्तोत्पादिको बोधिसत्त्वः प्रत्यनुभवति / बोधिसत्त्वभूमावाधारे योगस्थाने द्वितीयं चित्तोत्पादपटलं [समाप्तम्*] //
स्वपरार्थपटलम् (छप्तेर् 1.3)
एवमुत्पादितचित्तानां बोधिसत्त्वानां बोधिसत्त्वचर्या कतमा / समासतो बोधिसत्त्वा यत्र शिक्षन्ते यथा च शिक्षन्ते यच्च शिक्षन्ते तत् सर्वमैकध्यमभिसंक्षिप्य बोधिसत्त्वचर्येत्युच्यते /
कुत्र पुनर्बोधिसत्त्वाः शिक्षन्ते / सप्तसु स्थानेषु शिक्षन्ते / सप्त स्थानानि कतमानि / स्वार्थः परार्थः तत्त्वार्थः प्रभावः सत्त्वपरिपाकः आत्मनो बुद्धधर्मपरिपाकः अनुत्तरा च सम्यक्संबोधिः सप्तमं स्थानम् /
उद्दानम् /
स्व-परार्थश्च तत्त्वार्थः प्रभावः परिपाचने / सत्त्व स्वबुद्धधर्माणां परा बोधिश्च सप्तमी //
स्वपरार्थः कतमः समासतो दशविधः स्वपरार्थो वेदितव्यः / केवलं परसम्बद्धः हितान्वयः सुखान्वयः हेतुसंगृहीतः फलसंगृहीतः एहिकः आमुत्रिकः आत्यन्तिकः अनात्यन्तिकश्च /
तत्र केवलः स्वार्थः परार्थश्च बोधिसत्त्वेन परिज्ञाय प्रहातव्यः बोधिसत्त्वविधेः समतिक्रान्तत्वादननुरूपत्वाच्च / परिशिष्टे च शिक्षितव्यः / तत्रायं केवलः स्वार्थो बोधिसत्त्वस्य यो ऽनेन परिज्ञाय प्रहातव्यो भवति / आत्मनः सुखकामस्य भोगानां पर्येषणा उपभोगश्च / धर्ममत्सरिणो वा पुनः सतो धर्माणां बुद्धबोधिसत्त्वभाषितानां पर्येंषणा धारणा च / स्वर्गकामस्य स्वर्गार्थ शीलं वीर्यारम्भं ध्यानं प्रज्ञां समादाय वर्तना / लोकामिषफलाभिलाषिणो वा पुनः लोकामिषनिमित्तं तथागतचैत्यपूजा / लाभकामस्य वा लाभनिमित्तं लाभनिर्वर्तकं ममार्थं परेषामुत्प्लावकं विचित्राभूतगुणाख्यानम् / आत्मनः परिचर्यास्वीकरणकामस्य परिचर्यास्वीकरणार्थमधर्मेण गणसंग्रहो न धर्मेण / परतो दासभूतान् सत्त्वान् दासभावाद्धि प्रमोक्षयति यावदेवात्मनो दासभावाय / (dutt 16) बन्धनबद्धान् सत्त्वान् बन्धनाद्विमोक्ष्य स्वयमेव बध्नाति यावदेवात्मनः कृत्यनिष्पत्तये / दण्डादिभयभीतांश्च सत्त्वान् परतो दण्डादिभयाद्विप्रमोक्षयति यावदेव स्वयमेव भयग्रहणार्थम् / दृष्टधर्मसुखविहारश्च बोधिसत्त्वस्य सत्त्वार्थनिध्यानविरहितः केवलः स्वार्थो वेदितव्यः / इत्येवंभागीयो बोधिसत्त्वस्य केवलः स्वार्थो वेदिव्तयो यो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः /
दानं पुनः बोधिसत्त्वस्य क्षान्तिश्च कारुण्यपूर्वकं वा बोधिपरिणतं वा स्वर्गनिमित्तं वा नित्यकालं परसम्बद्ध एव स्वार्थो वेदितव्यः /
इत्येतान् यथानिर्दिष्टानाकारान् स्थापयित्वा तदन्य एतद्विपर्ययात्स्वार्थो बोधिसत्त्वानां सर्व एव परार्थसम्बद्धो वेदितव्यः /
तत्रायं बोधिसत्त्वस्य केवलः परार्थो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः / विपन्न दृष्टेर्दानम् अनागमदृष्टेरफलदर्शिनः भ्रष्टशीलस्य प्रतिपत्तिविरहितस्य परेषां धर्मदेशना / अधोभूमिसमतिक्रान्तस्याधोभूमिकशुक्लधर्मोपसंहारो ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य / तथाहि स ध्यानैर्विहृत्य ध्यानं व्यावर्त्त्य प्रणिधाय यत्र कामं तत्र कामधातावुपपद्यते / वशिताप्राप्तस्य च बोधिसत्त्वस्य दशसु निक्षु विचित्रैर्निर्माणैः विचित्राणां सत्त्वानामर्थक्रिया / च स्वकृतार्थस्य मुनेस्तथागतस्य बलवैशारद्यादिसर्वावेणिकबुद्धधर्मसंनिश्रयेणाप्रमाणेषु सत्त्वेष्वप्रमाणार्थक्रिया / सो ऽपि परार्थः केवलो वेदितव्यः / तत्र पूर्वको द्विविधः परार्थः केवलो यथा निर्दिष्टो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः / तदन्यत्र च केवले परार्थे भूयस्या मात्रया शिक्षितव्यम् / इत्येतानाकारान् स्थापयित्वा एतद्विपर्ययाच्च बोधिसत्त्वानां सर्वः परार्थः स्वार्थः सम्बद्धः / तत्रापि बोधिसत्त्वेन शिक्षितव्यम् /
हितान्वयः स्वपरार्थो बोधिसत्त्वस्य कतमः / समासतः पञ्चाकारो वेदितव्यः / अनवद्यलक्षणः अनुग्राहकलक्षणः ऐहिकः आमुत्रिकः औपशमिकश्च / तत्र यत्किंचिद् बोधिसत्त्वः आत्मना वा परीत्तं प्रभूतं वा कुशलपरिग्रहं कुशलोपचयं करोति परं वा परीत्ते प्रभूते वा कुशलपरिग्रहे कुशलोपचये समादापयति विनयति (dutt 17) निवेशयति प्रतिष्ठापयति / अयमनवद्यलक्षणो बोधिसत्त्वस्य हितान्वयः स्वपरार्थो वेदितव्यः / यत्किंचिद्वोधिसत्त्वः आत्मनो वा परस्य वा क्लिष्ट वर्जितं सुखमुपसंहरति उपकरणसुखं वा ध्यानसुखं वा अयं बोधिसत्त्वस्यानुग्राहकलक्षणो हितान्वयः स्वपरार्थो वेदितव्यः / अस्ति बोधिसत्त्वस्य स्वपरार्थ इह-हितो नामुत्र / अस्त्यमुत्र नेह / अस्त्यमुत्र चैह च / अस्ति नैवामुत्र नेह-हितः / स पुनरेष चतुर्विधः स्वपरार्थः चतुर्षु धर्मसमादनेष्वनुपूर्व यथायोगं दृष्टव्यः / चत्वारि धर्मसमादानानि कतमानि / अस्ति धर्मसमादानं प्रत्युत्पन्न-सुखामायत्यां दुःखविपाकम् / अस्ति प्रत्युत्पन्नदुःखमायत्यां सुखविपाकम् / अस्ति प्रत्युत्पन्नसुखमायत्यां सुखविपाकम् / अस्ति प्रत्युत्पन्नदुःखमायत्यां दुःखविपाकम् / विभङ्गा एषां यथासूत्रमेव वेदितव्याः / तत्र निर्वाणं निर्वाणंसंप्रापकश्च निर्वाणपक्ष्या लौकिकलोकोत्तरा धर्मा इत्येष समासतो बोधिसत्त्वस्य हितान्वय औपशमिकः स्वपरार्थः सर्वप्रतिविशिष्टो निरुत्तरो वेदितव्यः /
सुखान्वयो बोधिसत्त्वस्य स्वपरार्थः कतमः / समासतः पञ्चविधेन सुखेन संगृहीतो वेदितव्यः / तत्रेदं पञ्चविधं सुखम् / हेतुसुखं वेदितसुखं दुःखप्रातिपक्षिकं सुखं वेदितोपच्छेदसुखमव्यबाध्यञ्च पञ्चम् सुखम् / तत्र सुखपक्ष्यद्वय मिन्द्रियं विषयश्च / तद्धेतुकश्च यः स्पर्शः सुखवेदनीयः यच्च किञ्चिदिष्टफलं कर्म दृष्टे धर्मे अभिसंपराये वा तत्सर्वमैकध्यमभिसंक्षिप्य हेतुसुखमित्युच्यते / नास्त्यत उत्तरि नास्त्यतो भूयः / दुःखप्रशमनापेक्षः एभिरेव हेतुसुखसंगृहीतैस्त्रिभिः कारणैः संभूतः कायचित्तानुग्रहकरो ऽनुभवो वेदितसुखमित्युच्यते / तत्पुनः समासतो द्विविधं सास्रवमनास्रवञ्च / तत्र यदनास्रवं तच्छैक्षमशैक्षञ्च / सास्रवं पुनः त्रैधातुकं कामरूपारूप्यप्रतिसंयुक्तम् / तत्पुनः सर्व त्रैधातुकं यथायोगं षड्विधमायतनभेदेन चक्षुःसंस्पर्शजं यावन्मनःसंस्पर्शजम् / तत्पुनः षड्विधं द्विविधम् / कायिकं चैतसिकञ्च / तत्र पञ्चविज्ञानकायसंप्रयुक्तं कायिकं मनोविज्ञानसंप्रयुक्तं चैतसिकम् / शीतोष्णक्षुत्पिपासादिकानामनेकविधानां दुःखानां बहुनानाप्रकाराणामुत्पन्नोत्पन्नानां (dutt 18) शीतोष्णक्षुत्पिपासादिदुःखप्रतिकारेण प्रशमात् तस्मिन्नेव दुःखोपशममात्रके या सुखबुद्धिरुत्पद्यते इदमुच्यते दुःखप्रातिपक्षिकं सुखम् / संज्ञावेदितनिरोधसमापत्तिर्वेदितोपच्छेदसुखमित्युच्यते / अव्याबाध्यसुखं पुनः समासतश्चतुराकारं वेदितव्यम् / नैष्क्रम्यसुखंप्रविवेकसुखमुपशमसुखं संबोधिसुखञ्च / सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजितस्य आगारिकविचित्रव्यासङ्गदुःखनिर्मोक्षान्नैष्क्रम्यसुखमित्युच्यते / कामपापकाकुशलधर्मप्रहाणविवेकात्प्रथमे ध्याने विवेकजं प्रीतिसुखं प्रविवेकसुखमित्युच्यते / द्वितीयादिषु ध्यानेषु वितर्कविचारोपशमादु पशमसुखमित्युच्यते / सर्वक्लेशात्यन्तविसंयोगाज्ज्ञेयवस्तुयथाभूताभिसंबोधाच्च यत्सुखमिदमुच्यते संबोधिसुखम् /
तत्र हेतुसुखं सुखहेतुत्वात् सुखं न स्वभावतः / वेदितसुखं न हेतुभावादपि तु स्वभावत एव / दुःख-प्रातिपक्षिकं सुखं न च हेतुभावान्नापि स्वभावतः अपि तु दुःखोपशम-मात्रद् दुःखापकर्षणात् सुखम् / वेदितोपच्छेदसुखं न हेतुभावान्न स्वाभाव्यान्न दुःखापकर्षणादपि तु यत्किंचिद्वेदितम् / इदमत्र दुःखस्येति कृत्वा पारमार्थिकस्य दुःखस्य तावत्कालिक्वविहार-व्युपशमात् सुखम् / अव्याबाध्य-सुख-संगृहीतं पश्चिमं संबोधिसुखमायत्यां च तस्यैव पारमार्थिकस्य दुःखस्यात्यन्त-व्युपशमाद् दृष्टे च धर्मे सर्व-क्लेश-पक्ष्यस्य दौष्ठुल्यग्याश्रयगतस्यात्यन्तोपरमात् सुखम् / तदवशिष्टमव्याबाध्य-सुखं तस्यैव पश्चिमस्यानुकूलत्वात् तत्पक्ष्यत्वात् तदावाहकत्वात् अव्याबाध्यसुखं वेदितव्यम् /
तत्र बोधिसत्त्वो यदेव हितपक्ष्यं सुखं तदेव सत्त्वानामुपसंहरेत् नतु अहितपक्ष्यम् / अहितपक्ष्यं पुनः सुखं यथाभूतं सम्यक्प्रज्ञया परिज्ञाय तस्मात् सत्त्वान् विच्छन्दयेच्छक्तितश्च तस्यापकर्षापहाराय व्यायच्छेत / दुःखानुगतमपि यद्धितं स्यात् तद्वोधिसत्त्वेन सहैव दुःखेन सहैव दौर्मनस्येनाकामकानां सत्त्वानामुपसंहर्तव्यमुपायकौशल्य-संनिश्रयेण / सुखानुगतञ्चापि यदहितं स्यात्तदपि सहैव सुखेन सह सौमनस्येन कामकानां सत्त्वानामपहर्तव्यमपकर्षितव्य मुपायकौशल्य-संनिश्रयेण / तत्कस्य हेतौः / सुखायैव स (dutt 19) आयत्यां सत्त्वानां नियतो वेदितव्यः / यो ऽसौ दुःखेन सह हितोपसंहारः सुखेन च सहाहितापकर्षः / अतएव बोधिसत्त्वः सत्त्वेषु यो हितकामः अर्थतः सुखकामो ऽपि स ज्ञेयः / यो हितप्रदः सुखप्रदो ऽपि स ज्ञेयः / तथा हि हितं हेतुस्थानीयं सुखं फलस्थानीयम् / तस्मात्सुखानुगत एव स सत्त्वेषु वेदितव्यः / यः कश्चिद्धितानुगतः तत्र यच्चेष्टफलं कर्म दृष्टे धर्मे अभिसंपराये च हेतुसुखसंगृहीतं यच्च दुःखप्रातिपक्षिकं यच्च वेदितो पच्छेदसुखं यच्चाव्याबाध्यसुखम् एतदेकान्तेन निर्विमर्षो बोधिसत्त्वः सत्त्वेषूपसंहरेत् / एतद्ध्यनुग्राहकं चानवद्यञ्च / वेदित सुखमिन्द्रियविषयस्पर्शसंगृहीतञ्च हेतुसुखं यत्संक्लेशाय वा क्लिष्टं वा सावद्यमहितमपथ्यं तन्नोपसंहरेत् / यत्पुनरसंक्लेशायासंक्लिष्टं वा ऽनवद्यं हितं पथ्यं च तद्वोधिसत्त्वः सत्त्वेषूपसंहरेद् यथाशक्ति यथाबलम् / अपि चात्मना तथैव समाचरेच्छिक्षेत प्रत्यनुभवेदित्ययं बोधिसत्त्वानां हितसुखान्वयः स्वपरार्थो वेदितव्यः / नात उत्तरि नातो भूयः /
तत्र कतमो बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थः / समासतस्त्रिविधो हेतुस्त्रिविधमेव च फलं वेदितव्यम् / विपाकहेतुः विपाकफलं पुण्यहेतुः पुण्यफलं ज्ञानहेतुः ज्ञानफलम् /
विपाकः कतमः / समासतो ऽष्टविधो विपाकः / आयुःसंपत् वर्णसंपत् कुलसंपत् ऐश्वर्यसंपत् आदेयवाक्यता महेशाख्यता मनुष्यत्वं बलमेव चाष्टमम् / दीर्घायुष्कं चिरस्थितिकता बोधिसत्त्वस्यायुःसंपत् / अभिरूपता दर्शनीयता प्रासादिकत्वं वर्णसंपत् / उच्चेषु कुलेषु प्रत्याजातिः कुलसंपत् / महाभोगता महापक्षता महापरिवारिता च ऐश्वर्यसंपत् / यत्पुनः श्रद्धेयो भवति प्रत्ययितः सत्त्वानामुत्पन्नोत्पन्नेष्वधिकरणेषु प्रामाणिकत्वेन रथेयः कांसकूटतूलाकूटादिभिनिर्मायाशाठ्येन / निक्षिप्यस्य च द्रविणस्यानभिद्रोहो भवत्यविसंवादकः / तन्निदानञ्च सत्त्वानां गृहीतवाक्यो भवति / इयमुच्यते आदेयवचनता / महद्यशः ख्यातिश्चास्य लोके प्रथिता भवति यदुत शौर्यं वा वीर्य वा धैर्यं वा वैचक्षण्यं वा नैपुण्यं वा सौशील्यं वा विचित्रशिल्पकर्मस्थानातिरेकतरतम-कौशल्यं वा आरभ्य / (dutt 20) तन्निदानञ्च गुरुर्भवति महाजनकायस्य सत्करणीयो गुरुकरणीयो माननीयः पूजनीयः / इयमुच्यते महेशाख्यता / पुरुषभावः पुरुषेन्द्रियेण समन्वागतो मनुष्यत्वम् / अल्पाबाधता अरोगजातीयता महोत्साहता च प्रकृत्या बलसंपत् /
विपाकहेतुः कतमः अहिंसा सत्त्वेष्वहिंसाशयश्चायुःसंपदो हेतुः / आलोकशुचिवस्त्रदानं वर्णसंपदो हेतुः / निहतमानता सत्त्वेषु कुशलसंपदो हेतुः / दानमर्थिषु चोपकरणविकलेषु चैश्वर्यसंपदो हेतुः / सत्यवचनो ऽपिशुना ऽपरुषा ऽसंभिन्नप्रलापाभ्यासः आदेयवचनताया हेतुः / आयत्यामात्मनि विचित्रगुणाधानप्रणिधानवतो रत्नत्रयपूजा गुरुपूजा महेशाख्यताया हेतुः / मनुष्यभावे चाभिरतिः स्त्रीभावे विद्वेषश्च / तत्रादीनवदर्शिनः / परेषाञ्च मनुष्यत्वोपसंहारौ द्वाभ्यां कारणाभ्याम् / विच्छन्दनतया च स्त्रीणां स्त्रीभावाभिरतानां [च] स्त्रीभावात् / विनिर्मोक्षणतया च धर्मेण पुरुषेन्द्रियविप्रलोपायोपात्तानामुपनीतानां मनुष्याणां मनुष्यत्वस्य हेतुः / कायेन सत्त्वानां वैयावृत्य क्रिया सहायक्रिया उत्पन्नोत्पन्नेषु कृत्येषु यथाशक्ति यथाबलं धर्मेणासाहसेन भक्त-तर्पण-यवागुपानानां च वृष्याणामुत्साहकराणामन्नपानानां सत्त्वेषूपसंहारो बलसम्पदो हेतुः / इत्यष्टविधस्य विपाकस्यायमष्टविधो हेतुर्वेदितव्यः /
स पुनरयं हेतुः समासतस्त्रिभिः कारणैः पुष्टो भवति परिपूर्णस्य पुष्टस्योदारस्य विपाकस्याभिनिर्वृत्तये / त्रीणि कारणानि कतमानि / चित्तशुद्धिः प्रयोग शुद्धिः क्षेत्रशुद्धिश्च / तत्र या च शुद्धाशयता अनुत्तरायां सम्यक्संबोधौ तेषां कुशलमूलानां परिणमनाद् या च तीव्राशयता घनरसेनोदारेण प्रसादेनाध्याचरणाद् या च सहधार्मिकस्य दर्शनेनाभिप्रमोदना या च प्रतिदिवसं प्रतिक्षणं तदनुधर्ममेव बहुलमनुवितर्कणानुविचारणा / इयमुच्यते चित्तशुद्धिः / तत्र यो दीर्घकालाभ्यासो निरन्तरकारिता [च] निपुणकारिता च परेषाञ्चासमात्ते तस्मिन् कुशले समादापनाय वर्णवादिता समात्ते वा पुनः संहर्षणाय वर्णवादिता तेषामेव च तस्मिन् कुशलमूले सन्निवेशना प्रतिष्ठापना / (dutt 21) इयमुच्यते प्रयोगशुद्धिः / तत्र समासतः प्रयोगस्य सम्यक्सम्पादनात्तस्यैव च सम्यक्प्रयोगस्य फले ऽवस्थापना त्क्षेत्रशुद्धिर्वेदितव्या /
तत्र विपाकफलं कतमत् / आयुःसंपन्नो बोधिसत्त्वो दीर्घकालं कुशलपक्षे प्रयुज्यते प्रभूतञ्च कुशलमूलोपचयं करोति स्वार्थ परार्थञ्चारभ्य / इदमायुःसंपदः फलम् / वर्णसंपन्नो बोधिसत्त्वः प्रियो भवति महाजनकायस्य / प्रियत्वाच्चाभिगमनीयो भवति / तया च मनोज्ञरूपतया सम्मुखीभावोपगमनाच्चास्य महाजनकायो वचनं श्रोतव्यं कर्तव्यं मन्यते / इदं वर्णसंपदः फलं बोधिसत्त्वस्य वेदितव्यम् / कुलसंपन्नो बोधिसत्त्वः सम्मतो भवति महाजनकायस्य पूज्यश्च प्रशस्यश्च / सम्मतत्वाच्च पूज्यत्वात्प्रशस्यत्वाद् यत्र यत्र वस्तुनि सत्त्वान् समादापयति ते तेजोग्रस्तास्तत्र तत्राशु प्रतिपद्यन्ते न विवदन्ते न विचेष्टन्ते ऽक्रियायै / इदं कुलसंपदः फलं बोधिसत्त्वस्य वेदितव्यम् / ऐश्वर्यसंपन्नो बोधिसत्त्वो दानेन सत्त्वान् संगृह्णाति परिपाचयति / इदमैश्वर्यसंपदो बोधिसत्त्वस्य फलं वेदितव्यम् / आदेयवचनो बोधिसत्त्वः प्रियवादितया अर्थचर्यया समानार्थतया च सत्त्वान् गृह्णाति परिपाचयति / इदमादेयवचनताया बोधिसत्त्वस्य फलं वेदितव्यम् / महेशाख्यो बोधिसत्त्वः सत्त्वानां विचित्रैः कृत्यकरणीयैः सहायीभावं गच्छन्नुपकारी भवति / येनोपकारे णावबद्धचित्ताः सत्त्वा अस्य गौरवात् कृतज्ञतया च लघुलध्वेवाज्ञामनुवर्तन्ते सत्कृत्यादरेण / इदं महेशाख्यताया बोधिसत्त्वस्य फलं वेदितव्यम् / मनुष्यभूतो बोधिसत्त्वः पुरूषेन्द्रियेण समन्वागतो भाजनभूतो भवति सर्वगुणानां सर्वव्यवसायानां सर्वज्ञेयप्रविचयानाम् /
विशारदश्च भवत्यनावृतगतिः सर्वसत्त्वसर्वकालोपसंक्रमणसंभाषणसंवाससंभोगरहो विहाराणम् इदं पुरुषत्व फलं बोधिसत्त्वस्य वेदितव्यम् / बलसंपन्नो बोधिसत्त्वः अखिन्नो भवति कुशलधर्मार्जनप्रयोगेण सत्त्वानुग्रहप्रयोगेण च / आरब्धवीर्यश्च भवति दृढवीर्यः क्षिप्राभिज्ञश्च भवति / इदं बलसंपदो बोधिसत्त्वस्य फलं वेदितव्यम् / इतीदं बोधिसत्त्वानामष्टविधस्य विपाकस्याष्टविधं फलं यद्भवति सत्त्वानां (dutt 22) चोपकाराय बुद्धधर्माणाश्चोदयायानुकूलमनुगुणम् / अस्मिन् खलु बोधिसत्त्वो विपाकफले व्यवस्थितः स्वयञ्च शक्तो भवति प्रतिबलः सत्त्वानां विचित्रप्रभूतार्थकरणे / ते ऽपि चास्य विनेया नियोज्या भवन्ति यथाकामकरणीयाय यदुत स्वार्थक्रियामारभ्य / स्वयञ्चेदयं बोधिसत्त्वः प्रतिबलः स्याद्विनेयाश्चास्य न नियोज्या भवेयुः / एवमस्य न प्रचुरा स्यान्न प्रदक्षिणा परार्थक्रिया येनायं न शक्नुयात् परार्थं कर्तुम् / स्वयञ्चेदयं बोधिसत्त्वः अशक्तः स्यादप्रतिबलो विनेयाश्चास्य नियोज्याः स्युः स्वार्थक्रियामारभ्यैवमपि बोधिसत्त्वस्य परार्थक्रिया न प्रचुरा न प्रदक्षिणा स्याद् येनायं न शक्नुयात् परार्थ कर्तुम् / तस्मादुभयसान्निध्ये उभयसंपदिं सत्यां बोधिसत्त्वस्य सत्त्वार्थक्रिया प्रचुरा भवति प्रदक्षिणा येन शक्नोति परार्थं कर्तुम् / तथाभूतश्चासौ बोधिसत्त्वः आत्मनश्च बुद्धधर्मान् सत्त्वांश्च त्रिषु यानेषु क्षिप्रमेव परिपाचयति / आत्मना चानुत्तरां सम्यक्संबोधिमधिसंबुध्यते / परिपक्वांश्च सत्त्वान् विमोचयति /
तदनेन पर्यायेण बोधिसत्त्वानां यस्मादष्टविधं विपाकफलं हितसुखाय सत्त्वानां संवर्तते / तस्माद् यः सर्वसत्त्वानां बन्ध्यो निरर्थः संसारः स तेषामवन्ध्यश्च महार्थश्च भवति /
तत्र कतमत् पुण्यम् / कतमज्ज्ञानम् / पुण्यमुच्यते समासतस्तिस्रः पारमिताः / दानपारमिता शीलपारमिता क्षान्तिपारमिता च / ज्ञानं पुनरेका पारमिता यदुत प्रज्ञापारमिता / वीर्यपारमिता ध्यानपारमिता च पुण्यपक्ष्या ज्ञानपक्ष्या च वेदितव्या / यद्वीर्य निश्रित्य दानं ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति / इदमेवंभागीयं पुण्यपक्ष्यं वीर्यम् / यत्पुनर्वीर्यं निश्रित्य श्रुतचिन्ताभावनामय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा करोति धातुकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकुशल्यं स्थानास्थानकौशल्यं दुःखं वा दुःखतः समुदयं वा समुदयतो निरोधं वा निरोधतो मार्गं वा मार्गतः प्रत्यवेक्षते / कुशलाकुशलान्धर्मान् सावद्याननवद्यान् हीनप्रणीतान् कृष्णशुक्लसप्रविभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रविचिनोति प्रत्यवेक्षते / इदमुच्यते ज्ञानपक्ष्यं वीर्यम् / यद्ध्यानं निश्रित्यं दानं वा ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति / इदमेवंभागीयं पुण्यपक्ष्यं ध्यानम् / (dutt 23) यत्पुनर्ध्यानं निश्रित्य श्रुतचिन्ताभावनाय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा पूर्ववत् सर्वं वक्तव्यं तद्यथा वीर्ये / इदमुच्यते ज्ञानपक्ष्यं ध्यानम् / तच्चैतत् पुण्यज्ञानं समासतः षड्विधं भवति / अप्रमाणं त्वेतदेकैकप्रभेदतो वेदितव्यम् /
पुण्यज्ञानहेतुः कतमः / समासतस्त्रयः पुण्यज्ञानहेतवो वेदितव्याः / पुण्यज्ञानप्रतिलम्भस्थानोपचयाय यच्छन्दः अनुकूलो ऽविधुरः प्रत्ययः पूर्वकश्च पुण्यज्ञानाभ्यासः / तत्रायमविधुरः प्रत्ययः या विपरीतस्य च प्रत्ययस्याप्रत्युपस्थानमसन्निहितता / अविपरीतस्य च प्रत्ययस्य प्रत्युपस्थानं सन्निहितता / तत्र या पापमित्रमागम्य विपरीता पुण्यज्ञानदेशना विपरीतेन वा मनस्कारेण विपरीतग्राहिता / इदमुच्यते विपरीतप्रत्यसान्निध्यम् / एतद्विपर्ययेण शुक्लपक्षेण अविपरीतप्रत्ययसान्निध्यं वेदितव्यम् / ये च पुण्यज्ञानप्रतिलम्भस्थित्युपचयाय प्रयुक्तस्यान्तरायाः / तेषाञ्च विवर्जनमनुत्पादः प्रत्ययो ऽविधुर इत्युच्यते बोधिसत्त्वस्य पुण्यज्ञानयोः / एषां त्रयाणां हेतूनामन्यतमवैकल्यान्नापि पुण्यस्य नापि ज्ञानस्य प्रसूतिर्वेदितव्या /
पुण्यज्ञानफलं कतमत् / पुण्यमाश्रित्य बोधिसत्त्वो ऽक्षतः संसारे संसरति नात्यर्थं दुःखैर्बाध्यमानः / यथेप्सितञ्च सत्त्वार्थं सत्त्वानुग्रहं शक्नोति कर्तुम् / ज्ञानमाश्रित्य बोधिसत्त्वः सम्यक् पुण्यपरिग्रहं करोति न मिथ्या विचित्राप्रमेयकौशल्यक्रियया च यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / इतीदं समासेन पुण्यज्ञानफलं यथायोगं चतुर्विधं वेदितव्यम् / अप्रमाणन्त्वे तत्प्रकारप्रभेदतः /
तत्र यश्च विपाको यश्च विपाकहेतुर्यच्च विपाकफलं सर्वमेतत्पुण्याश्रितं पुण्यप्रभवम् / पुण्यं पुनर्ज्ञानाश्रितं ज्ञानप्रभवम् तस्मादुभयमेतत्प्रधानमनुत्तरायै सम्यक्संबोधये / पुण्यं प्रधानं ज्ञानं पुनर्निरूत्तरम् पुण्यज्ञानं तदन्यतरवैकल्यादयं बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिं नाधिगच्छेत् / इत्ययं बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थो वेदितव्यः /
तत्र कतमो बोधिसत्त्वस्य दृष्टधार्मिकः स्वपरार्थः / कतमः सांपरायिकः / युक्तेन शिल्पस्थानकर्मस्थानेन पुरुषकारेण या भोगानामर्जना / तेषामेव चोपार्जितानां भोगानां मात्रयोपभोगः / पूर्वकस्य चेष्टफलस्य कर्मणो विपक्वविपाकस्य (dutt 24) यो दृष्टे धर्मे फलोपभोगः / ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य दृष्टधर्मसुखविहारार्थं दृष्ट एव च धर्मे तत्सन्निश्रयो न परार्थप्रसाधनार्थं ध्यानसन्निश्रयः / यच्च दृष्टधर्मनिर्वाणं तथागतभूतस्य ये च लौकिकलोकोत्तरा दृष्टधर्मनिर्वाणसंप्रापकाः संस्कृता धर्माः / अयमुच्यते बोधिसत्त्वस्य दृष्टधार्मिका एव स्वार्थः / यथा बोधिसत्त्वस्यैवं परेषामपि परार्थो वेदितव्यः / ये सत्त्वा बोधिसत्त्वविनीताः / तत्र या च कामधातौ भोगसंपत्परत्र या चात्मभावसंपत् परत्र / या च परत्र ध्यानारूप्योपपत्तिः तस्याश्च परत्र भोगात्मभावसंपदो ध्यानारूप्योपपत्तेश्च या दृष्टे धर्मे सहैव दुःखेन सहैव दौर्मनस्येन प्रतिसंख्याय प्रतिसंख्याय हेत्वासेवना / अयं सांपरायिक एव बोधिसत्त्वस्य स्वपरार्थो वेदितव्यः / या पुनर्दृष्टे धर्मे सहैव सुखेन सहैव सौमनस्येन भोगात्मभावसंपदो हेत्वासेवना / या चेहाहानभागीया ध्यानारूप्यसमापत्तिः / दृष्टधर्मसांपरायिकः स्वपरार्थो वेदितव्यः /
आत्यन्तिकः स्वपरार्थः कतमः / कतमश्चानात्यन्तिकः / कामधातौ भोगात्मभावसंपत्तिः सहेतुफला लौकिकी च पृथग्जनानां शुद्धिः सहेतुफला अनात्यन्तिकः स्वपरार्थः / सर्वात्यन्तक्लेशप्रहाणमार्याष्टाङ्गश्च मार्गः तदाश्रयेण च ये लौकिकाः कुशला धर्माः प्रतिलब्धाः / अयमुच्यते आत्यन्तिकः स्वपरार्थः /
तत्र त्रिभिः कारणैरात्यन्तिकता अनात्यन्तिकता च वेदितव्या / स्वभावतः परिहाणितः फलोपभोग परिक्षयतश्च / तत्र स्वभावतो निर्वाणमात्यन्तिकम् / संस्कृतं सर्वमेवानात्यन्तिकम् / आर्याष्टाङ्गो मार्गः अपरिहाणीयत्वादफलोप भोगापरिक्षयादात्यन्तिकः / तदन्ये कुशलसास्त्रवा धर्माः परिहाणितः फलोपभोगपरिक्षयतश्चानात्यन्तिकाः /
इत्ययं बोधिसत्त्वानां दशविधः स्वपरार्थः समासविस्तरतः यत्र बोधिसत्त्वैर्यथाशक्ति यथाबलं शिक्षितव्यम् नात ऊत्तरि नातो भूयः / अतीते ऽप्यध्वन्यनागते ऽपि ये स्वपरार्थे शिक्षितवन्तः शिक्षिष्यन्ते सर्वे ते ऽस्मिन्नेव दशविधे स्वपरार्थे / नात उत्तरि नातो भूयः /
बोधिसत्त्वभूमावाधारे योगस्थाने स्वपरार्थपटलं तृतीयं समाप्तम् /
तत्त्वार्थ-पटलम् (छप्तेर् 1.4)
तत्त्वार्थः कतमः / समासतो द्विविधः / यथावद्भाविकताञ्च धर्माणामारभ्य या धर्माणां भूतता यावद्भाविकताञ्चारभ्य या धर्माणां सर्वता / इति भूतता सर्वता च धर्माणां समस्तस्तत्त्वार्थो वेदितव्यः / स पुनरेव तत्त्वार्थः प्रकारभेदतश्चतुर्विधः / लोकप्रसिद्धो युक्तिप्रसिद्धः क्लेशावरणविशुद्धिज्ञानगोचरो ज्ञेयावरणविशुद्धिज्ञानगोचरश्च /
तत्र लौकिकानां सर्वेषां यस्मिन् वस्तुनि संकेतसंवृतिसंस्तवनागमप्रविष्टया बुद्ध्या दर्शनतुल्यता भवति तद्यथा पृथिव्यां पृथिव्यैवेयं नाग्निरिति / यथा पृथिव्यामेवमग्नावप्सु वायौ रूपेषु शब्देषु गन्धेषु रसेषु स्प्रष्टव्येषु भोजने पाने याने वस्त्रे अलङ्कारोपविचारे भाण्डोपस्करे गन्धमाल्यविलेपने नृत्यगीतवादित्रे आलोके स्त्रीपुरुषपरिचर्यायां क्षेत्रापणगृहवस्तुनि सुखदुःखे दुःखमिदं न सुखं सुखमिदं न दुःखमिति / समासत इदमिदं नेदम् / एवमिदं नान्यथेति निश्चिताधिमुक्तिगोचरो यद्वस्तु सर्वेषामेव लौकिकानां परंपरागतया संज्ञया स्वविकल्प-प्रसिद्वं न चिन्तयित्वा तुलयित्वोपपरीक्ष्योद्गृहीतम् / इदमुच्यते लोकप्रसिद्धतत्त्वम् /
युक्तिप्रसिद्धतत्त्वं कतमत् / सतां युक्तार्थपण्डितानां विचक्षणानां तार्किकाणां मीमांसकानां तर्कपर्यापन्नायां भूमौ स्थितानां स्वयं प्रातिभानिक्यां पार्थग्जनिक्यां मीमांसानुचरितायां प्रत्यक्षमनुमानमाप्तागमं प्रमाणं निश्रित्य सुविदित-सुविनिश्चितज्ञानगोचर-ज्ञेयं वस्तूपपत्तिसाधनयुक्त्या प्रसाधितं व्यवस्थापितम् / इदमुच्यते युक्तिप्रसिद्धं तत्त्वम् /
क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत् / सर्वश्रावकप्रत्येकबुद्धानामनास्रवेणानास्रवावाहकेन चानास्रवपृष्टलब्धेन च लौकिकेन ज्ञानेन यो गोचरविषयः / इदमुच्यते क्लेशावरणविशुद्विज्ञानगोचरस्तत्त्वम् / तेनालम्बनेन क्लेशावरणाज् (dutt 26) ज्ञानं विशुध्यति / अनावरणत्वे चायत्यां सन्तिष्ठते / तस्मात्क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वमित्युच्यते /
तत्पुनस्तत्वं कतमत् / चत्वार्यार्यैसत्यानि दुःखं समुदयो निरोधो मार्गश्च / इत्येतानि चत्वार्यार्यसत्यानि प्रविचिन्वतो ऽभिसमागच्छतो ऽभिसमागतेषु च तज्ज्ञानमुत्पद्यते / स पुनः सत्याभिसमयः श्रावकप्रत्येकबुद्धानां स्कन्धमात्रमुपलभमानानां स्कन्धेभ्यश्चान्यमर्थान्तरमात्मानमनुपलभमानानां प्रतीत्यसमुत्पन्नसंस्कारोदयव्ययप्रतिसंयुक्तया प्रज्ञया स्कन्धविनिर्मुक्तपुद्गलाभावदर्शनाभ्यासादुत्पद्यते /
ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत् / ज्ञेये ज्ञानस्य प्रतिघात आवरणमित्युच्यते / तेन ज्ञेयावरणेन विमुक्तस्य ज्ञानस्य यो गोचरविषयस्तज्ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं वेदितव्यम् /
तत्पुनः कतमत् / बोधिसत्त्वानां बुद्धानाञ्च भगवतां धर्मनैरात्म्यप्रवेशाय प्रविष्टेन सुविशुद्धेन च सर्वधर्माणां निरभिलाप्यस्वभावतामारभ्य प्रज्ञप्तिवाद स्वभावनिर्विकल्पज्ञेयसमेन ज्ञानेन यो गोचरविषयः सासौ परमा तथता निरुत्तरा ज्ञेयपर्यन्तगता यस्याः सर्व सम्यग्धर्मप्रविचया निवर्तन्ते नाभिवर्तन्ते /
तत्पुनस्तत्त्वलक्षणं व्यवस्थानतः अद्वयप्रभावितं वेदितव्यम् / द्वयमुच्यते भावश्चाभावश्च /
तत्र भावो यः प्रज्ञप्तिवादस्वभावो व्यवस्थापितः / तथैव च दीर्घकालमभिनिविष्टो लोकेन / सर्वविकल्पप्रपञ्चमूलं लोकस्य / तद्यथा रूपमिति वा वेदना संज्ञा संस्कारा विज्ञानमिति वा / चक्षुरिति वा स्रोत्रं घ्राणं जिह्वा कायो मन इति वा / पृथिवीति वा आपस्तेजो वायुरिति वा / रूपमिति वा शब्दो गन्धो रसः स्प्रष्टव्यमिति वा / कुशलमिति वा अकुशलमिति वा अव्याकृतमिति वा / उत्पाद इति वा व्यय इति वा प्रतीत्यसमुत्पन्न इति वा / अतीतमिति वा अनातगमिति वा प्रत्युत्पन्नमिति वा / संस्कृतमिति वा [असंस्कृतमिति वा /] अयं लोकः परो लोकः / उभौ सूर्याचन्द्रमसौ / यदपि दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसा ऽनुवितर्कितमनुविचारितमिति वा / अन्ततो यावन्निर्वाणमिति वा / इत्येवंभागीयः प्रज्ञप्तिवादनिरूढः स्वभावो धर्माणां लोकस्य भाव इत्युच्यते /
तत्राभावो या अस्यैव रूपमिति प्रज्ञप्तिवादस्य यावदन्ततो निर्वाणमिति प्रज्ञप्तिवादस्य निर्वस्तुकता निर्निमित्तता प्रज्ञप्तिवादाश्रयस्य सर्वेण सर्वं नास्तिकता असंविद्यमानता यामाश्रित्य प्रज्ञप्तिवादः प्रवर्तते / अयमुच्यते ऽभावः /
यत्पुनः पूर्वकेण च भावेनानेन चाभावेन उभाभ्यां भावाभावाभ्यां विनिर्मुक्तं धर्मलक्षणसंगृहीतं वस्तु / तदद्वयंम् यदद्वयम् तन्मध्यमा-प्रतिपदन्तद्वयवर्जितम् / निरुत्तरेत्युच्यते / तस्मिंश्च तत्त्वे बुद्धानां भगवतां सुविशुद्धं ज्ञानं वेदितव्यम् / बोधिसत्त्वानां पुनः शिक्षामार्गप्रभावितं तत्र ज्ञानं वेदितव्यम् /
सा च प्रज्ञा महानुपायो बोधिसत्त्वस्यानुत्तरायाः सम्यक्संबोधेः प्राप्तये / तक्तस्य हेतो / तथा हि बोधिसत्त्वस्तेन शून्यताधिमोक्षेण तासु तासु जातिषु प्रयुज्यमानः सत्त्वेषु बुद्धधर्मपरिपाकाय संसारे संसरन् तञ्च संसारं यथाभूतं परिजानाति / न च पुनस्तस्मात्संसारादनित्यादिभिराकारैर्मानसमुद्वेजयति / स
चेत्संसारं यथाभूतं न परिजानीयान्नशक्नुयाद्रागद्वेषमोहादिकात् सर्वसंक्लेशाच्चित्तमध्युपेक्षितुम् / अनध्युपेक्षमाणश्चसंक्लिष्टचित्तः संसारे संसरेत् संक्लिष्टचित्तः संसरन्नैव बुद्धधर्मान् परिपाचयेन्नापि सत्त्वान् / स चेत् पुनरनित्यादिभिराकारैः संसारान्मानसमुद्वेजयेदेवं सति बोधिसत्त्वो लघु लध्वेव परिनिर्वायात् / लघु लध्वेव च परिनिर्वायन् बोधिसत्त्व एवमपि नैव बुद्धधर्मान्नैव सत्त्वान् परिपाचयेत् / कुतः पुनरनुत्तरां सम्यक्सम्बोधिमभिसंभोत्स्यते / तेनैव च शून्यताधिमोक्षेण बोधिसत्त्वः प्रयुज्यमानः न निर्वाणादुत्त्रस्यति नापि निर्वाणं प्रार्थयते / स चेद्वोधिसत्त्वो निर्वाणादुत्त्रस्येत् परत्र निर्वाणसंभारो ऽस्य न परिपूर्येत यथापि च तदुत्त्रस्तमानसत्वान्निर्वाणे ऽननुशंसदर्शिनस्तद्गतगुणदर्शनप्रसादाधिमुक्तिविवर्जितस्य बोधिसत्त्वस्य / स चेत्पुनर्बोधिसत्त्वो निर्वाणो प्रार्थनाबहुलविहारी भवेदाश्वेव परिनिर्वायात् / आशु परिनिर्वायम् नैव बुद्धधर्मान्न सत्त्वान् परिपाचयेत् / तत्र या च संसारं यथाभूतमपरिजानतः संक्लिष्टचित्तस्य संसारसंसृतिः / या च संसारादुद्विग्नमानसस्याशुनिर्वृतिः / या च निर्वाणादुत्त्रस्तमानसस्य तत्संभारापरिपूरिः / या च निर्वाणप्रार्थनाबहुलविहारिण (dutt 28) आशु परिनिर्वृतिः अयमनुपायो बोधिसत्त्वस्य वेदितव्यो ऽनुत्तरायाः सम्यक्संबोधेः / या पुनः संसारं यथाभूतं परिजानतो ऽसंक्लिष्टचित्तस्य संसारसंसृतिः / या च संसारादनित्यादिभिराकारैरनुद्विग्नमानसस्यानाशुनिर्वृतिः / या च निर्वाणादनुत्त्रस्तमानसस्य तत्संभारपरिपूरिर्या च निर्वाणे गुणानुशंसदर्शिनो न चात्यर्थमुत्कण्ठाप्राप्तस्याशु निर्वृतिः / अयं बोधिसत्त्वस्य महानुपायो ऽनुत्तरायाः सम्यक्सम्बोधेरनु प्राप्तये / स चायमुपायस्तस्मिन् परमशून्यताधिमोक्षे सन्निश्रितः /
तस्मात्सा परमन्शूयताधिमोक्षभावना बोधिसत्त्वस्य शिक्षामार्गसंगृहीतो महानुपाय इत्युच्यते यदुत तथागतज्ञानाधिगमाय / स खलु बोधिसत्त्वस्तेन दूरानुप्रविष्टे न धर्मनैरात्म्यज्ञानेन निरभिलाप्यस्वभावतां सर्वधर्माणां यथाभूतं विदित्वा न किञ्चिद्विकल्पयति नान्यत्र वस्तुमात्रं गृह्णाति तथतामात्रम् / न चास्यैवं भवति वस्तुमात्रं वा एतत्तथतामात्रं चैति / अर्थे तु स बोधिसत्त्वश्चरति / अर्थे परमे चरन् सर्वधर्मांस्तया तथतया समसमान् यथाभूतं प्रज्ञया पश्यति / सर्वत्र च समदर्शी समचित्तः सन् परमामुपेक्षां प्रतिलभते / यामाश्रित्य सर्वविद्यास्थानकौशलेषु प्रयुज्यमानो बोधिसत्त्वः सर्वपरिश्रमैः सर्वदुःखोपनिपातैः न निवर्तते / क्षिप्रञ्चाक्लान्तकायः अक्लान्तचित्तः तत्कौशलं समुदायनयति / महास्मृतिबलाधानप्राप्तश्च भवति / न च तेन कौशलेनोन्नतिं गच्छति / न च परेषामाचार्यमुष्टिं करोति / सर्वकौशलेषु चासंलीनचित्तो भवति / उत्साहवानव्याहतगतिश्च भवति / दृढसन्नाहप्रयोगः यथा यथा संसारे संसरन् दुःखविशेषं लभते तथा तथोत्साहं बर्धयत्यनुत्तरायां सम्यक्संबोधौ / यथा यथा समुच्छ्रयविशेषमधिगच्छति तथा तथानिर्मानतरो भवति सत्त्वानामन्तिके / यथा यथा ज्ञानविशेषमधिगच्छति तथा तथा भूयस्या मात्रया परोपारम्भविवादप्रकीर्णलपिताक्लेशोपक्लेशेभ्यश्च वृत्तस्ख लितसमुदाचारेभ्यः परिज्ञाय परिज्ञाय चित्तमध्युपेक्षते / यथा यथा गुणैर्वि[व]र्धते तथा तथा प्रतिच्छन्नकल्याणो भवति / न परतो ज्ञातुं समन्वेषते न लाभ सत्कारम् /
इमा (dutt 29) एवंभागीया बहवो ऽनुशंसा भवन्ति बोधिसत्त्वस्य बोधिपक्ष्या बोध्यनुकूलास्तज्ज्ञानसन्निश्रितस्य / तस्माद् ये केचिद्बोधिमनुप्राप्तवन्तो ये च केचित्प्राप्स्यन्ति ये च प्राप्नुवन्ति सर्वे त एतदेव ज्ञानं निश्रित्य नान्यन्न्यूनं प्रतिविशिष्टं वा / एवं निष्प्रपञ्चनयारूढो बोधिसत्त्व एवं चं बह्वनुशंस आत्मनश्च बुद्धधर्मपरिपाकाय परेषाञ्च यानत्रयधर्मपरिपाकाय सम्यक् प्रतिपन्नो भवति / एवञ्च पुनः सम्यक् प्रतिपन्नो भवति / भोगेष्वात्मभावे च निस्तृष्णो भवति / निस्तृष्णतायाञ्च शिक्षते सत्त्वेषु भोगात्मभावपरित्यागाय सत्त्वानामेवार्थाय / संवृतश्च भवति सुसंवृतः / कायेन वाचा सम्बरेण च शिक्षते प्रकृत्या पापारुचितायै प्रकृतिभद्रकल्याणतायै च / क्षमो भवति परतः सर्वोपतापकिप्रतिपत्तीनाम् / क्षमित्वं च शिक्षते मन्दक्रोधतायै च अ-परोपतापनतायै च / सर्वविद्यास्थानेषु चाभियुक्तो भवति कुशलश्च सत्त्वानां विचिकित्साप्रहाणायानुग्रहोपसंहाराय च आत्मनश्च सर्वज्ञत्वहेतुपरिग्रहाय / अध्यात्मस्थितचित्तश्च भवति सुसमाहितचित्तः / चित्तस्थितये च शिक्षते चतुर्ब्राह्मविहारपरिशोधनतायै पञ्चाभिज्ञाविक्रीडनतायै च सत्त्वकृत्यानुष्ठानतायै सर्वकौशल्याभियोगजक्लेश-विनोदनतायै च / विचक्षणश्च भवति परमतत्त्वज्ञः / परमतत्त्वज्ञतायै च शिक्षते महायाने चायत्यामात्मनः परिनिर्वाणाय / स खलु बोधिसत्त्व एवं सम्यक्प्रयुक्तो गुणवत्सु सत्त्वेषु पूजालाभसत्कारेण प्रत्युपस्थितो भवति / दोषवत्सु सत्त्वेषु परमेण कारुण्यचित्तेनानुकम्पाचित्तेन प्रत्युपस्थितो भवति /
यथाशक्त्या च यथाबलं दोषप्रहाणायैषां प्रयुज्यते / अपकारिषु सत्त्वेषु मैत्रचित्ततया प्रत्युपस्थितो भवति / यथाशक्त्या च यथाबलम् अशठो भूत्वा अमायावी तेषां हितसुखमुपसंहरति / तेषामपकारिणां स्वेनाशयप्रयोगदोषेण वैरचित्ततायाः प्रहाणार्थमुपकारिषु सत्त्वेषु कृतज्ञतया तुल्याधिकेन प्रत्युपकारेण प्रत्युपस्थितो भवति / आशाञ्च धार्मिकी परिपूरयत्यस्य यथाशक्त्या यथाबलम् / अप्रतिबलो ऽपि च याचितः सन् तेषु तेषु कृत्यकरणीयेष्वादरं व्यायाममुपदर्शयति न सकृदेव निराकरोति / कथमयं संज्ञाप्येता ऽशक्तो ऽहं नाकर्त्तुकाम इति / इत्ययमेवंभागीयो बोधिसत्त्वस्य निष्प्रपञ्चनयारूढस्य परमतत्त्वज्ञान-सन्निश्रितस्य सम्यक्प्रयोगो वेदितव्यः /
तत्र कया युक्त्या निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या / येयं स्वलक्षणप्रज्ञप्तिर्धर्माणां यदुत रूपमिति वा वेदनेति वा पूर्ववदन्ततो यावन्निर्वाणमिति वा प्रज्ञप्तिमात्रमेव तद्वेदितव्यम् / न स्वभावो नापि च तद्विनिर्मुक्तस्तदन्यो वाग्गोचरो वागविषयः / एवं सति न स्वभावो धर्माणां तथा विद्यते यथाभिलप्यते / न च पुनः सर्वेंण सर्वं न विद्यते / स पुनरेवमविद्यमानो न च सर्वेण सर्वमविद्यमानः / कथं विद्यते / असद्भू तसमारोपासंग्राहविवर्जितश्च भूतापवादासंग्राहविवर्जितश्च विद्यते / स पुनः पारमार्थिकः स्वभावः सर्वधर्माणां निर्विकल्पस्यैव ज्ञानस्य गोचरो वेदितव्यः / स चेत्पुनर्यथैवाभिलापो येषु धर्मेषु यस्मिन्वस्तुनि प्रवर्तते तदात्मकास्ते धर्मा वा तद्वस्तु स्यात् / एवं सति बहुविधा बहवः स्वभावा एकस्य धर्मस्यैकस्य वस्तुनो भवेयुः / तत् कस्य हेतोः / तथा ह्येकस्मिन्धर्मे एकस्मिन्वस्तुनि बहुविधा बहवो बहुभिरभिलापैः प्रज्ञप्तय उपचाराः क्रियन्ते / न च बहुविधानाञ्च बहूनां प्रज्ञप्तिवादानां नियमः कश्चिदुपलभ्यते / यदन्यतमेन प्रज्ञप्तिवादेनैकेन तस्य धर्मस्य तस्य वस्तुनः तादात्म्यं तन्मयता तत्स्वभावता स्यान्नान्यैरवशिष्टैः प्रज्ञप्तिवादैः / तस्मात्सकलविकलैः सर्वप्रज्ञप्तिवादैः सर्वधर्माणां सर्ववस्तूनां नास्ति तादात्म्यं नास्ति तन्मयता नास्ति तत्स्वभावता / अपि च स चेद्रूपादयो धर्मा यथापूर्वनिर्दिष्टाः प्रज्ञप्तिवादस्वभावा भवेयुः / एवं सति पूर्व तावद्वस्तु पश्चात्तत्र छन्दतः प्रज्ञप्तिवादोपचारः /
प्राक्प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु निःस्वभाव एव स्यात् / सति निःस्वभावत्वे निर्वस्तुकः प्रज्ञप्तिवादो न युज्यते / प्रज्ञप्तिवादोपचारे चासति प्रज्ञप्तिवादस्वभावता धर्मस्य वस्तुनो न युज्येत / स चेत्पुनः पूर्वमेव प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु तदात्मकं स्यात् / एवं सति विना तेन रूपमिति प्रज्ञप्तिवादोपचारेण रूपसंज्ञके धर्मे रूपसंज्ञके वस्तुनि रूपबुद्धिः प्रवर्तेत / न च प्रवर्तते / तदनेन कारणोनानया युक्त्या निरभिलाप्यः स्वभावः सर्वधर्माणां प्रत्यवगन्तव्यः / यथारूपमेवं वेदनादयो यथानिर्दिष्टा धर्मा अन्ततो यावन्निर्वाणपर्यन्ता वेदितव्याः /
द्वाविमावस्माद्धर्मविनयात्प्रनष्टौ वेदितव्यौ / यश्च रूपादीनां धर्माणां रूपादिकस्य वस्तुनः प्रज्ञप्तिवादस्वभावं स्वलक्षणमसद्भूतसमारोपतो ऽभिनिविशते / यश्चापि प्रज्ञप्तिवादनिमित्ताधिष्ठानं प्रज्ञप्तिवादनिमित्तसन्निश्रयं (dutt 31) निरभिलाप्यात्मकतया परमार्थसद्भूतं वस्त्वपदमानो नाशयति सर्वेण सर्वं नास्तीति / असद्भूतसमारोपे तावद्ये दोषास्ते पूर्वमेव निरूपिता उत्ताना विशदिताः प्रकाशिताः / यैर्दोषै रूपादिके वस्तुनयसद्भूतसमारोपात्प्रनष्टो भवत्यस्माद्धर्मविनयादिति वेदितव्यः / यथा पुना रूपादिकेषु धर्मेषुवस्तुमात्रमप्यपवदमानः सर्ववैनाशिकः प्रनष्टो भवत्यस्माद्धर्मविनयात् तथा वक्ष्यामि रूपादीनां धर्मानां वस्तुमात्रमपवदतो नैव तत्त्वं नापि प्रज्ञप्तिस्तदुभयमेतन्न युज्यते / तद्यथा सत्सु रूपादिषु स्कन्धेषु पुद्गलप्रज्ञप्तिर्युज्यते / नासत्सु / निर्वस्तुकापुद्गलप्रज्ञप्तिः / एवं सति रूपादीनां धर्माणां वस्तुमात्रे [स] रूपादिधर्मप्रज्ञप्तिवादोपचारो युज्यते / नासति / निर्वस्तुकः प्रज्ञप्तिवादोपचारः / तत्र प्रज्ञप्तेर्वस्तु नास्तीति निरधिष्ठाना प्रज्ञप्तिरपि नास्ति / अतो य एकत्या दुर्विज्ञेयान् सूत्रान्तान्महायानप्रतिसंयुक्तान् गम्भीरान् शून्यताप्रतिसंयुक्तानाभिप्रायिकार्थनिरूपितान् श्रुत्वा यथाभूतं भाषितस्यार्थमविज्ञायायोनिशो विकल्प्यायोगविहितेन तर्कमात्रकेणैवं दृष्टयो भवन्त्येवंवादिनः / प्रज्ञप्तिमात्रमेव सर्वमेतच्च तत्त्वम् / यश्चैवं पश्यति स सम्यक् पश्यतीति / तेषां प्रज्ञप्त्यधिष्ठानस्य वस्तुमात्रस्याभावात्सैव प्रज्ञप्तिः सर्वेण सर्वं न भवति / कुतः पुनः प्रज्ञप्तिमात्रं तत्त्वं भविष्यतीति /
तदनेन पर्यायेण तैस्तत्त्वमपि प्रज्ञप्तिरपि तदुभयमप्यपवादितं भवति / प्रज्ञप्तितत्त्वापवादाच्च प्रधानो नास्तिको वेदितव्यः / स एवं नाष्टिकः सन्नकथ्यो भवत्यसंवास्यो भवति विज्ञानां सब्रह्मचारिणाम् / स आत्मानमपि विपादयति / लोको ऽपि यो ऽस्य दृष्ट्यनुमत आपाद्यते / इदञ्च सन्धायोक्तं भगवता- वरमिहैकत्यस्य पुद्गलदृष्टिर्न त्वेवैकत्यस्य दुर्गृहीता शून्यतेति / तक्तस्य हेतोः / पुद्गलदृष्टिको जन्तुर्ज्ञेये केवलं मुह्येन्नतु सर्व ज्ञेयमपवदेत / न ततो निदानमपायेषूपपद्येत / नापि धर्मार्थिकं दुःखविमोक्षार्थिकञ्च परं विसंवादयेन्न विप्रलम्भयेत् / धर्मे (dutt 32) सत्ये च प्रतिष्ठापयेत् / [न च शैथिलिको भवेच्छिक्षापदेषु / दुर्गृहीतया पुनः शून्यतया ज्ञेये वस्तुनि मुह्येत् / अप्यपवदेत् ज्ञेयं सर्वम् / तन्निदानं चापायेषूपपद्यते / धार्मिकं च दुःखविमोक्षार्थिकं परं विपादयेत् / शैथिलिकश्च स्याच्छिक्षापदेषु / एवंभूतं वस्तु अपवदमानः प्रणष्टो भवत्यस्माद् धर्मविनयात् /
कथं पुनर्दुर्गृहीता भवति शून्यता / यः कश्चि] च्छ्रमणो वा ब्राह्मणो वा तच्च नेच्छति येन शून्यम् / तदपि नेच्छति यत् शून्यम् / इयमेवंरूपा दुर्गृहीता शून्यतेत्युच्यते / तक्तस्य हेतोः / येन हि शून्यं तदसद्भावात् / यच्च शून्यं तत्सद्भावाच्छून्यता युज्येत / सर्वाभावाच्च कुत्र किं केन शून्यं भविष्यति / न च तेन तस्यैव शून्यता युज्यते / तस्मादेवं दुर्गृहीता शून्यता भवति /
कथञ्च पुनः सुगृहीता शून्यता भवति / यतश्च यद् यत्र न भवति तत् तेन शून्यमिति समनुपश्यति / यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति / इयमुच्यते शून्यतावक्रान्तिर्यथाभूता अविपरीता / तद्यथा रूपादिसंज्ञके यथा निर्दिष्टे वस्तुनि रूपमित्येवमादिप्रज्ञप्तिवादात्मको धर्मो नास्ति / अतस्तद्रूपादिसंज्ञकं वस्तु तेन रूपमित्येवमादिप्रज्ञप्तिवादात्मना शून्यम् / किं पुनस्तत्र रूपादिसंज्ञके वस्तुनयवशिष्टम् / यदुत तदेव रूपमित्येवमादिप्रज्ञप्तिवादाश्रयः / तच्चोभयं यथाभूतं प्रजानाति यदुत वस्तमात्रञ्च विद्यमानं वस्तमात्रे च प्रज्ञप्तिमात्रं च चासद्भूतं समारोपयति / न भूतमपवदते नाधिकं करोति न न्यूनीकरोति नोत्क्षिपति न प्रतिक्षिपति / यथाभूतञ्च तथतां निरभिलाप्यस्वभावतां यथाभूतं प्रजानाति / इयमुच्यते सुगृहीता शून्यता सम्यक् प्रज्ञया सुप्रतिविद्धेति / इयं तावदुपपत्तिसाधनयुक्तिरानुलोमिकी यया निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या /
आप्तागमतो ऽपि निरभिलाप्यस्वभावाः सर्वधर्मा वेदितव्याः / यथोक्तं भगवता एवमेवार्थं गाथाभिगीतेन परिदीपयता भवसंक्रान्तिसूत्रे /
येन येन हि नाम्ना वै यो यो धर्मो ऽभिलप्यते / न स संविद्यते तत्र धर्माणां सा हि धर्मता // इति /
कथञ्च पुनरियं गाथा एतमेवार्थं परिदीपयति / रूपादिसंज्ञकस्य धर्मस्य यद्रूपमित्येवमादि नाम / येन रूपमित्येवमादिना नाम्ना ते रूपादिसंज्ञका धर्मा अभिलप्यन्ते ऽनुव्यवह्रियन्ते रूपमिति वा वेदनेति वा विस्तरेण यावन्निर्वाणमिति वा / तत्र न च रूपादिसंज्ञका धर्माः स्वयं रूपाद्यात्मकाः / न च तेषु तदन्यो रूपाद्यात्मको धर्मो विद्यते / या पुनस्तेषां रूपादिसंज्ञकानां धर्माणां निरभिलाप्येनार्थेन विद्यमानता सैषा परमार्थतः स्वभावधर्मता वेदितव्या / उक्तञ्च भगवता अर्थवर्गीयेषु /
याः काञ्चन संवृतयो हि लोके सर्वा हि ता मुनिर्नो उपैति / अनुपगो ह्यसौ केन उपाददीत दृष्टश्रुते कान्तिमसंप्रकुर्वन् /
कथमियं गाथा एतमेवार्थं परिदीपयति / रूपादिसंज्ञके वस्तुनि या रूपमित्येवमाद्याः प्रज्ञप्तयः / ताः संवृतय इत्युच्यन्ते / ताभिः प्रज्ञप्तिभिस्तस्य वस्तुनस्तादात्म्यमित्येवं नोपैति ताः संवृतीः / तत्कस्य हेतोः / समारोपापवादिका दृष्टिरस्य नास्ति / अतो ऽसौ तस्या विपर्यासप्रत्युपस्थानाया दृष्टेरभावादनुपग इत्युच्यते / स एवमनपगः सन् केनोपाददीत / तया दृष्ट्या विना तद्वस्तुसमारोपतो वापवादतो वा अनुपाददानः सम्यग्दर्शी भवति ज्ञेये तदस्य दृष्टम् / यस्तस्यैव ज्ञेयस्याभिलापानुश्रवस्तदस्य श्रुतम् / तस्मिन् दृष्टश्रुते तृष्णां नोत्पादयति न विवर्धयति / नान्यत्र तेनावलम्बनेन प्रजहात्युपेक्षकश्च विहरति / एवं कान्तिं करोति / पनश्चोक्तं भगवता संथकात्यायनमारभ्य-इह संथ भिक्षुर्न पृथिवीं निश्रित्य ध्यायति / नापः / न तेजः / न वायुम् / (dutt 34) नाकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनं नेमं लोकं न परं लोकं नोभौ सूर्याचन्द्रमसौ न दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसानुवितर्कितमनुविचारितम् / तत्सर्वं न निश्रित्य ध्यायति / कथं ध्यायी / पृथिवीं न निश्रित्य ध्यायति विस्तरेण यावत् सर्वं न निश्रित्य ध्यायति / इह संथ भिक्षोर्या पृथिव्यां पृथिवीसंज्ञा सा विभूता भवति / अप्सु अप्संज्ञा विस्तरेण यावत् सर्वत्र या संज्ञा सा विभूता भवति / एवंध्यायी भिक्षुर्न पृथिवीं निश्रित्य ध्यायति विस्तरेण यावन्न सर्वं सर्वमिति निश्रित्य ध्यायति / एवं ध्यायिनं भिक्षुं सेन्द्रा देवाः सेशानाः सप्रजापतय आरान्नमष्यन्ति /
नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम / यस्य ते नाभिजानीमः किं त्वं निश्रित्य ध्यायसि // इति /
कथञ्च पुनरेतत्सूत्रपदमेतमेवार्थं परिदीपयति पृथिव्यादिसंज्ञके वस्तुनि या पृथिवीत्येवमादिका नामसंकेतप्रज्ञप्तिः सा पृथिव्यादिसंज्ञेत्युच्यते / सा पुनः संज्ञा पृथिव्यादिसंज्ञके वस्तुनि समारोपिका चापवादिका च / तन्मयस्वभाववस्तुग्राहिका समारोपिका / वस्तुमात्रपरमार्थनाशग्राहिका चापवादिका संज्ञेत्युच्यते / सा च संज्ञास्य विभूता भवति / विभव उच्यते प्रहाणं त्यागः / तस्मादागमतो ऽपि तथागतात् परमाप्तागमाद्वेदितव्यं निरभिलाप्यस्वभावाः सर्वधर्मा इति / एवं निरभिलाप्यस्वभावेषु सर्वधर्मेषु कस्मादभिलापः प्रयुज्यते तथा हि विनाभिलापेन सा निरभिलाप्यधर्मता परेषां वक्त मपि न शक्यते श्रोतुमपि / वचने श्रवणे चासति सा निरभिलाप्यस्वभावता ज्ञातुमपि न शक्यते / तस्मादभिलापः प्रयुज्यते श्रवणज्ञानाय /
तस्या एव तथताया एवमपरिज्ञातत्वाद्वालानां तन्निदानो ऽष्टविधो विकल्पः प्रवर्तते त्रिवस्तुजनकः / सर्वसत्त्वभाजनलोकानां निर्वर्तकः / तद्यथा स्वभाव विकल्पो विशेषविकल्पः पिण्डग्राहविकल्पः अहमिति विकल्पः ममेति विकल्पः प्रियविकल्पः अप्रियविकल्पः तदुभयविपरीतश्च विकल्पः / स पुनरयमष्टविधो विकल्पः कतमेषां त्रयाणां वस्तूनां जनको भवति / यश्च (dutt 35) स्वभावविकल्पो यश्च विशेषविकल्पो यश्च पिण्डग्राहविकल्प इतीमे त्रयो विकल्पा विकल्पप्रपञ्चाधिष्ठानं विकल्पप्रपञ्चालम्बनं वस्तु जनयन्ति रूपादिसंज्ञकम् / यद्वस्त्वधिष्ठाय स नामसंज्ञाभिलापपरिगृहीतो नामसंज्ञाभिलापपरिभावितो विकल्पः प्रपञ्चयन् तस्मिन्नेव वस्तुनि विचरत्यनेकविधो बहुनानाप्रकारः / तत्र यञ्चाहमिति विकल्पो यश्च ममेति विकल्पः इतीमौ द्वौ विकल्पौ सत्कायदृष्टिश्च तदन्यसर्वदृष्टि[-मूलं मान-]मूलमस्मिमानञ्च तदन्यसर्वमानमूलं जनयतः / तत्र प्रियविकल्पो ऽप्रियविकल्पस्तदुभयविपरीतश्च विकल्पो यथायोगं रागद्वेषमोहान् जनयन्ति / एवमयमष्टविधो विकल्पः अस्य त्रिविधस्य वस्तुनः प्रादुर्भावाय संवर्तते यदुत विकल्पाधिष्ठानस्य प्रपञ्चवस्तुनः दृष्ट्यस्मिमानस्य रागद्वेषमोहानाञ्च / तत्र विकल्पप्रपञ्चवस्त्वाश्रया सत्कायदृष्टिरस्मिमानश्च / सत्कायदृष्ट्यस्मिमानाश्रिता रागद्वेषमोहाः / एभिश्च त्रिभिर्वस्तुभिः सर्वलोकानां प्रवृत्तिपक्षो निरवशेषः परिदीपितो भवति /
तत्र स्वभावविकल्पः कतमः / रूपादिसंज्ञके वस्तुनि रूपमित्येवमादिर्यो विकल्पः / अयमुच्यते स्वभावविकल्पः /
विशेषविकल्पः कतमः / तस्मिन्नेव रूपादिसंज्ञके वस्तुनि अयं रूपी अयमरूपी अयं सनिदर्शनो ऽयमनिदर्शन एवं सप्रतिघो ऽप्रतिघः / सास्रवो ऽनास्रवः संस्कृतो ऽसंस्कृतः कुशलो ऽकुशलो व्याकृतो ऽव्याकृतः अतीतो ऽनागतः प्रत्युत्पन्न इत्येवंभागीयेनाप्रमाणेन प्रभेदनयेन या स्वभावविकल्पाधिष्ठाना तद्विशिष्टार्थविकल्पना / अयमुच्यते विशेषविकल्पः /
पिण्डग्राहविकल्पः कतमः / यस्तस्मिन्नेव रूपादिसंज्ञके वस्तुनि आत्मसत्त्व जीवजन्तुसंज्ञासंकेतोपसंहितः पिण्डितेषु बहुषु धर्मेषु पिण्डग्राहहेतुकः प्रवर्तते गृहसेनावनादिषु भोजनपानयानवस्त्रादिषु च तत्संज्ञासंकेतोपसंहितः / अयमुच्यते पिण्डग्राहविकल्पः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
