Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

बुद्धचरित

Tác giả
अश्वघोष
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवं प्रवृत्तान् भवतः शरण्यान् अतीव संदर्शितपक्षपातान् यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस् त्यजतस् तथैव // BC_7.47

स्वर्गाय युष्माकम् अयं तु धर्मो ममाभिलाषस् त्व् अपुनर्भवाय अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः // BC_7.48

तन् नारतिर् मे न परापचारो वनाद् इतो येन परिव्रजामि धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्2षिकल्पाः // BC_7.49

ततो वचः सूनृतम् अर्थवच् च सुश्लक्ष्णम् ओजस्वि च गर्वितं च श्रुत्वा कुमारस्य तपस्विनस् ते विशेषयुक्तं बहुमानम् ईयुः // BC_7.50

कश्चिद् द्विजस् तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः आपिङ्गलाक्षस् तनुदीर्घघोणः (कुण्डैकच्कुण्डोद)हस्तो गिरम् इत्य् उवाच // BC_7.51

धीमन्न् उदारः खलु निश्चयस् ते यस् त्वं युवा जन्मनि दृष्टदोषः स्वर्गापवर्गौ हि विचार्य सम्यग् यस्यापवर्गे मतिर् अस्ति सो ऽस्ति // BC_7.52

यज्ञैस् तपोभिर् नियमैश् च तैस् तैः स्वर्गं यियासन्ति हि रागवन्तः रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः // BC_7.53

तद्बुद्धिर् एषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्याकोष्ठम् असौ मुनिस् तत्र वसत्य् अराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः // BC_7.54

तस्माद् भवाञ् छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ संप्रतिपत्स्यते च यथा तु पश्यामि मतिस् (तथैषा च्तवैषा तस्यापि यास्यत्य् अवधूय बुद्धिम् // BC_7.55

(स्पष्टोच्चच्पुष्टाश्व)घोणं विपुलायताक्षं ताम्राधरौष्ठं सिततीक्ष्णदंष्ट्रम् इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नम् एव // BC_7.56

गम्भीरता या भवतस् त्व् अगाधा या दीप्तता यानि च लक्षणानि आचार्यकं प्राप्स्यसि तत् प्र्ठिव्यां यन् नर्7षिभिः पूर्वयुगे ऽप्य् अवाप्तम् // BC_7.57

परमम् इति ततो नृपात्मजस् तम् ऋषिजनं प्रतिनन्द्य निर्ययौ विधिवद् अनुविधाय ते ऽपि तं प्रविविशुर् आश्रमिणस् तपोवनम् // BC_7.58

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये तपो-वन-प्रवेशो नाम सप्तमः सर्गः -- 7 --]]

ततस् तुरंगावचरः स दुर्मनास् तथा वनं भर्तरि निर्ममे गते चकार यत्नं पथि शोक(निग्रहे च्विग्रहे तथापि चैवाश्रु न तस्य (चिक्षिये च्चिक्षिपे ) // BC_8.1

यम् एकरात्रेण तु भर्तुर् आज्ञया जगाम मार्गं सह तेन वाजिना इयाय भर्तुर् विरहं विचिन्तयंस् तम् एव पन्थानम् अहोभिर् अष्टभिः // BC_8.2

हयश् च (सौजा विचचार च्सौजस्वि चचार )कन्थकस् तताम भावेन बभूव निर्मदः अलंकृतश् चापि तथैव भूषणैर् अभूद् गतश्रीर् इव तेन वर्जितः // BC_8.3

निवृत्य चैवाभिमुखस् तपोवनं भृशं जिहेषे करुणं मुहुर् मुहुः क्षुधान्वितो ऽप्य् अध्वनि शष्पम् अम्बु वा यथा पुरा नाभिननन्द नाददे // BC_8.4

ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना क्रमेण तौ शून्यम् इवोपजग्मतुर् दिवाकरेणेव विनाकृतं नभः // BC_8.5

सपुण्डरीकैर् अपि शोभितं जलैर् अलंकृतं पुष्पधरैर् नगैर् अपि तद् एव तस्योपवनं वनोपमं गतप्रहर्षैर् न रराज नागरैः // BC_8.6

ततो भ्रमद्भिर् दिशि दीनमानसैर् अनुज्ज्वलैर् (बाष्पच्वाष्प)हतेक्षणैर् नरैः निवार्यमाणाव् इव ताव् उभौ पुरं (शनैर् अपस्नातम् च्शनै रजःस्नातम् )इवाभिजग्मतुः // BC_8.7

(निशाम्य च्निशम्य )च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्1षभेण तौ मुमोच (बाष्पं च्वाष्पं )पथि नागरो जनः पुरा रथे दाशरथेर् इवागते // BC_8.8

अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्छन्दकम् आगताश्रवः क्व राजपुत्रः (पुरच्कुल)राष्ट्र(नन्दनो च्वर्धनो ) हृतस् त्वयासाव् इति पृष्ठतो ऽन्वयुः // BC_8.9

ततः स तान् भक्तिमतो ऽब्रवीज् जनान् नरेन्द्रपुत्रं न परित्यजाम्य् अहम् रुदन्न् अहं तेन तु निर्जने वने गृहस्थवेशश् च विसर्जिताव् इति // BC_8.10

इदं वचस् तस्य निशम्य ते जनाः सुदुष्करं खल्व् इति निश्चयं ययुः पतद् (धि जह्रुः च्विजह्रुः )सलिलं न नेत्रजं मनो निनिन्दुश् च (फलोत्थम् च्फलार्थम् )आत्मनः // BC_8.11

अथोचुर् अद्यैव विशाम तद् वनं गतः स यत्र द्विपराजविक्रमः जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् // BC_8.12

इदं पुरं तेन विवर्जितं वनं वनं च तत् तेन समन्वितं पुरम् न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् // BC_8.13

पुनः कुमारो विनिवृत्त इत्य् अथो गवाक्षमालाः प्रतिपेदिरे ऽङ्गनाः विविक्तपृष्ठं च (निशाम्य च्निशम्य )वाजिनं पुनर् गवाक्षाणि पिधाय चुक्रुशुः // BC_8.14

प्रविष्टदीक्षस् तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः जजाप देवायतने नराधिपश् चकार तास् ताश् च (यथाशयाः च्यथाश्रयाः )क्रियाः // BC_8.15

ततः स (बाष्पच्वाष्प)प्रतिपूर्णलोचनस् तुरंगम् आदाय तुरं(गमानुगः च्गमानसः ) विवेश शोकाभिहतो नृ(पक्षयं च्पालयं (युधापिनीते च्क्षयं विनीते )रिपुणेव भर्तरि // BC_8.16

विगाहमानश् च नरेन्द्रमन्दिरं विलोकयन्न् अश्रुवहेन चक्षुषा स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्न् इव // BC_8.17

ततः खगाश् च क्षयमध्यगोचराः समीपबद्धास् तुरगाश् च सत्कृताः हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोर् उपयान(शङ्किनः च्शङ्किताः ) // BC_8.18

जनाश् च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसंनिकर्षगाः यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे // BC_8.19

अतिप्रहर्षाद् अथ शोकमूर्छिताः कुमारसंदर्शनलोललोचनाः गृहाद् विनिश्चक्रमुर् आशया स्त्रियः शरत्पयोदाद् इव विद्युतश् चलाः // BC_8.20

विलम्ब(केश्यो च्वेश्यो )मलिनांशुकाम्बरा निरञ्जनैर् (बाष्पच्वाष्प)हतेक्षणैर् मुखैः (स्त्रियो न रेजुर् मृजया च्कृष्णा विवर्णाअञ्जनया )विनाकृता दिवीव तारा रजनीक्षयारुणाः // BC_8.21

अरक्तताम्रैश् चरणैर् अनूपुरैर् अकुण्डलैर् आर्जव(कन्धरैर् च्कर्णिकैर् )मुखैः स्वभावपीनैर् जघनैर् अमेखलैर् अहारयोक्त्रैर् मुषितैर् इव स्तनैः // BC_8.22

(निरीक्ष्य ता बाष्पच्निरीक्षिता वाष्प)परीत(लोचना च्लोचनं निराश्रयं छन्दकम् अश्वम् एव च (विषण्णच्विवर्ण)वक्त्रा रुरुदुर् वराङ्गना वनान्तरे गाव इवर्7षभोज्झिताः // BC_8.23

ततः स(बाष्पा च्वाष्पा )महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी // BC_8.24

हतत्विषो ऽन्या (शिथिलांसच्शिथिलात्म)बाहवः स्त्रियो विषादेन विचेतना इव न चुक्रुशुर् नाश्रु जहुर् न शश्वसुर् न (चेलुर् आसुर् लिखिता च्चेतना उल्लिखिता )इव स्थिताः // BC_8.25

अधीरम् अन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर् मुखैः स्त्रियः सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैर् इवोपलान् // BC_8.26

मुखैश् च तासां नयनाम्बु(ताडितै च्ताडितैः रराज तद् राजनिवेशनं तदा नवाम्बुकाले ऽम्बुदवृष्टिताडितैः स्रवज्जलैस् तामरसैर् यथा सरः // BC_8.27

सुवृत्तपीनाङ्गुलिभिर् निरन्तरैर् अभूषणैर् गूढसिरैर् वराङ्गनाः उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर् वातचला लता इव // BC_8.28

करप्रहारप्रचलैश् च ता (बभुस् च्बभुर् (तथापि च्यथापि )नार्यः सहितोन्नतैः स्तनैः वनानिलाघूर्णितपद्मकम्पितै रथाङ्गनाम्नां मिथुनैर् इवापगाः // BC_8.29

यथा च वक्षांसि करैर् अपीडयंस् तथैव वक्षोभिर् अपीडयन् करान् अकारयंस् तत्र परस्परं व्यथाः कराग्रवक्षांस्य् अबला दयालसाः // BC_8.30

ततस् तु रोषप्रविरक्तलोचना विषाद(संबन्धिच्संबन्ध)कषायगद्गदम् उवाच (निश्वासच्निःश्वास)चलत्पयोधरा विगाढशोकाश्रुधरा यशोधरा // BC_8.31

निशि प्रसुप्ताम् अवशां विहाय मां गतः क्व स च्छन्दक मन्मनोरथः उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः // BC_8.32

अनार्यम् अस्निद्घम् अमित्रकर्म मे नृशंस कृत्वा किम् इहाद्य रोदिषि नियच्छ (बाष्पं च्वाष्पं )भव तुष्टमानसो न संवदत्य् अश्रु च तच् च कर्म ते // BC_8.33

प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा गतो ऽर्यपुत्रो ह्य् अपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस् तव // BC_8.34

वरं मनुष्यस्य विचक्षणो रिपुर् न मित्रम् अप्राज्ञम् अयोगपेशलम् सुहृद्ब्रुवेण ह्य् अविपश्चिता त्वया कृतः कुलस्यास्य महान् उपप्लवः // BC_8.35

इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्त(बाष्पाविलच्वाष्पाविल)रक्तलोचनाः स्थिते ऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः // BC_8.36

इमाश् च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः विनाकृतास् तेन (सहावरोधनैर् च्सहैव रोधनैर् भृशं रुदन्तीव विमानपङ्क्तयः // BC_8.37

अनर्थकामो ऽस्य जनस्य सर्वथा तुरंगमो ऽपि ध्रुवम् एष कन्थकः जहार सर्वस्वम् इतस् तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् // BC_8.38

यदा समर्थः खलु सोढुम् आगतान् इषुप्रहारान् अपि किं पुनः कशाः गतः कशापातभयात् कथं (न्व् च्त्व् )अयं श्रियं गृहीत्वा हृदयं च मे समम् // BC_8.39

अनार्यकर्मा भृशम् अद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्न् इव यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस् तुरगाधमो ऽभवत् // BC_8.40

यदि ह्य् अहेषिष्यत (बोधयन् च्बोधयञ् )जनं खुरैः क्षितौ वाप्य् अकरिष्यत ध्वनिम् हनुस्वनं वाजनिष्यद् उत्तमं न चाभविष्यन् मम दुःखम् ईदृशम् // BC_8.41

इतीह देव्याः परिदेविताश्रयं निशम्य (बाष्पच्वाष्प)ग्रथिताक्षरं वचः अधोमुखः साश्रुकलः कृताञ्जलिः शनैर् इदं छन्दक उत्तरं जगौ // BC_8.42

विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुम् अर्हसि अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् // BC_8.43

अहं हि जानन्न् अपि राजशासनं बलात् कृतः कैर् अपि दैवतैर् इव उपानयं तूर्णम् इमं तुरंगमं तथान्वगच्छं विगतश्रमो ऽध्वनि // BC_8.44

व्रजन्न् अयं वाजिवरो ऽपि नास्पृशन् महीं खुराग्रैर् विधृतैर् इवान्तरा तथैव दैवाद् इव संयताननो हनुस्वनं नाकृत नाप्य् अहेषत // BC_8.45

(यतो बहिर् च्यदा वहिर् )गच्छति पार्थिवात्म(जे च्जस् तदाभवद् द्वारम् अपावृतं स्वयम् तमश् च नैशं रविणेव पाटितं ततो ऽपि दैवो विधिर् एष गृह्यताम् // BC_8.46

(यद् अच्यदा)प्रमत्तो ऽपि नरेन्द्रशासनाद् गृहे पुरे चैव सहस्रशो जनः तदा स नाबुध्यत निद्रया हृतस् ततो ऽपि दैवो विधिर् एष गृह्यताम् // BC_8.47

यतश् च वासो वनवाससंमतं (निसृष्टम् च्विसृष्टम् )अस्मै समये दिवौकसा दिवि प्रविद्धं मुकुटं च तद् धृतं ततो ऽपि दैवो विधिर् एष गृह्यताम् // BC_8.48

तद् एवम् आवां नरदेवि दोषतो न तत् प्रयातं (प्रति गन्तुम् च्प्रतिगन्तुम् )अर्हसि न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर् गतः // BC_8.49

इति प्रयाणं (बहुदेवम् च्बहुधैवम् )अद्भुतं निशम्य तास् तस्य महात्मनः स्त्रियः प्रनष्टशोका इव विस्मयं ययुर् मनोज्वरं प्रव्रजनात् तु लेभिरे // BC_8.50

विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च // BC_8.51

महोर्मिमन्तो मृदवो ऽसिताः शुभाः पृथक्(पृथङ्च्पृथग्)मूलरुहाः समुद्गताः (प्रवेरितास् च्प्रचेरितास् )ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः // BC_8.52

प्रलम्बबाहुर् मृगराजविक्रमो महर्2षभाक्षः कनकोज्ज्वलद्युतिः विशालवक्षा घनदुन्दुभिस्वनस् तथाविधो ऽप्य् आश्रमवासम् अर्हति // BC_8.53

अभागिनी नूनम् इयं वसुंधरा तम् आर्यकर्माणम् अनुत्तमं (पतिम् च्प्रति ) गतस् ततो ऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते // BC_8.54

सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ (बिसच्विष)पुष्पकोमलौ वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः // BC_8.55

विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् कथं नु शीतोष्णजलागमेषु तच् छरीरम् ओजस्वि वने भविष्यति // BC_8.56

कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः प्रदातुम् (एवाभ्युचितो चेवाभ्युदितो )न याचितुं कथं स भिक्षां परतश् चरिष्यति // BC_8.57

शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः कथं (बत च्वत )स्वप्स्यति सो ऽद्य मे व्रती पटैकदेशान्तरिते महीतले // BC_8.58

इमं (प्रलापं च्विलापं )करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः विलोचनेभ्यः सलिलानि तत्यजुर् मधूनि पुष्पेभ्य इवेरिता लताः // BC_8.59

ततो धरायाम् अपतद् यशोधरा विचक्रवाकेव रथाङ्गसाह्वया शनैश् च तत् तद् विललाप विक्लवा मुहुर् मुहुर् गद्गदरुद्धया गिरा // BC_8.60

स माम् अनाथां सहधर्मचारिणीम् अपास्य धर्मं यदि कर्तुम् इच्छति कुतो ऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुम् इच्छति // BC_8.61

शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान् वनानि पत्नीसहितान् उपेयुषस् तथा (हि च्स )धर्मं मदृते चिकीर्षति // BC_8.62

मखेषु वा वेदविधानसत्कृतौ न दंपती पश्यति दीक्षिताव् उभौ समं बुभुक्षू परतो ऽपि तत्फलं ततो ऽस्य जातो मयि धर्ममत्सरः // BC_8.63

ध्रुवं स जानन् मम धर्मवल्लभो मनः (प्रियेर्ष्याकलहं च्प्रिये ऽप्य् आकलहं )मुहुर् मिथः सुखं विभीर् माम् अपहाय रोसणां महेन्द्रलोके ऽप्सरसो जिघृक्षति // BC_8.64

इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिम् एव च // BC_8.65

न खल्व् इयं स्वर्गसुखाय मे स्पृहा न तज् जनस्यात्मवतो ऽपि दुर्लभम् स तु प्रियो माम् इह वा परत्र वा कथं न जह्याद् इति मे मनोरथः // BC_8.66

अभागिनी यद्य् अहम् आयतेक्षणं शुचिस्मितं भर्तुर् उदीक्षितुं मुखम् न मन्दभाग्यो ऽर्हति राहुलो ऽप्य् अयं कदाचिद् अङ्के परिवर्तितुं पितुः // BC_8.67

अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः कलप्रलापं द्विषतो ऽपि हर्षणं शिशुं सुतं यस् त्यजतीदृशं (बत च्स्वतः ) // BC_8.68

ममापि कामं हृदयं सुदारुणं शिलामयं वाप्य् (अयसो ऽपि चयसापि )वा कृतम् अनाथवच् छ्रीरहिते सुखोचिते वनं गते भर्तरि यन् न दीर्यते // BC_8.69

इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् // BC_8.70

ततस् तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुंधरागताम् महारविन्दैर् इव वृष्टिताडितैर् मुखैः स(बाष्पैर् च्वाष्पैर् )वनिता विचुक्रुशुः // BC_8.71

समाप्तजाप्यः कृतहोममङ्गलो नृपस् तु देवायतनाद् विनिर्ययौ जनस्य तेनार्तरवेण चाहतश् चचाल वज्रध्वनिनेव वारणः // BC_8.72

निशाम्य च च्छन्दककन्थकाव् उभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् पपात शोकाभिहतो महीपतिः शचीपतेर् वृत्त इवोत्सवे ध्वजः // BC_8.73

ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः // BC_8.74

बहूनि कृत्वा समरे प्रियाणि मे महत् त्वया कन्थक विप्रियं कृतम् गुणप्रियो येन वने स मे प्रियः प्रियो ऽपि सन्न् अप्रियवत् (प्रवेरितः च्प्रचेरितः ) // BC_8.75

तद् अद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनर् एनम् आनय ऋते हि तस्मान् मम नास्ति जीवितं विगाढरोगस्य सदौषधाद् इव // BC_8.76

सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन् न ममार (संजयः च्सृञ्जयः ) अहं पुनर् धर्मरतौ सुते गते (मुमुक्षुर् चमुमुक्षुर् )आत्मानम् अनात्मवान् इव // BC_8.77

विभोर् दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद् धि मनो मनोर् अपि // BC_8.78

अजस्य राज्ञस् तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा गते वनं यस् तनये दिवं गतो न मोघ(बाष्पः च्वाष्पः )कृपणं जिजीव ह // BC_8.79

प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस् त्वया यत्र स मे जलाञ्जलिः इमे परीप्सन्ति हि (तं च्ते )पिपासवो ममासवः प्रेतगतिं यियासवः // BC_8.80

इति तनयवियोगजात(दुःखः च्दुःखं क्षितिसदृशं सहजं विहाय धैर्यम् दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसंज्ञकल्पः // BC_8.81

श्रुतविनयगुणान्वितस् ततस् तं मतिसचिवः प्रवयाः पुरोहितश् च (समधृतम् चवधृतम् )इदम् ऊचतुर् यथावन् न च परितप्तमुखौ न चाप्य् अशोकौ // BC_8.82

त्यज नरवर शोकम् एहि धैर्यं कुधृतिर् इवार्हसि धीर नाश्रु मोक्तुम् स्रजम् इव मृदिताम् अपास्य लक्ष्मीं भुवि बहवो (छिच्) नृपा वनान्य् अतीयुः // BC_8.83

अपि च नियत एष तस्य भावः स्मर वचनं तद् ऋषेः पुरासितस्य न हि स दिवि न चक्रवर्तिराज्ये क्षणम् अपि वासयितुं सुखेन शक्यः // BC_8.84

यदि तु नृवर कार्य एव यत्नस् त्वरितम् उदाहर यावद् अत्र यावः बहुविधम् इह युद्धम् अस्तु तावत् तव तनयस्य विधेश् च तस्य तस्य // BC_8.85

नरपतिर् अथ तौ शशास तस्माद् द्रुतम् इत एव युवाम् अभिप्रयातम् न हि मम हृदयं प्रयाति शान्तिं वनशकुनेर् इव पुत्रलालसस्य // BC_8.86

परमम् इति नरेन्द्रशासनात् तौ ययतुर् अमात्यपुरोहितौ वनं तत् कृतम् इति सवधूजनः सदारो नृपतिर् अपि प्रचकार शेषकार्यम् // BC_8.87

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये ऽन्तः-पुर-विलापो नामा7ष्टमः सर्गः -- 8 --]]

ततस् तदा मन्त्रिपुरोहितौ तौ (बाष्पप्रतोदाभिहितौ च्वाष्पप्रतोदाभिहतौ )नृपेण विद्धौ सदश्वाव् इव सर्वयत्नात् सौहार्दशीघ्रं ययतुर् वनं तत् // BC_9.1

तम् आश्रमम् जातपरिश्रमौ ताव् उपेत्य काले सदृशानुयात्रौ राजर्1द्धिम् उत्सृज्य विनीतचेष्टाव् उपेयतुर् भार्गवधिष्ण्यम् एव // BC_9.2

तौ न्यायतस् तं प्रतिपूज्य विप्रं तेनार्चितौ ताव् अपि चानुरूपम् कृतासनौ भार्गवम् आसनस्थं छित्त्वा कथाम् ऊचतुर् आत्मकृत्यम् // BC_9.3

शुद्धौजसः शुद्धविशालकीर्तेर् इक्ष्वाकुवंशप्रभवस्य राज्ञः इमं जनं वेत्तु भवान् (अधीतं चधीरं श्रुतग्रहे मन्त्रपरिग्रहे च // BC_9.4

तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः इहाभ्युपेतः किल तस्य हेतोर् आवाम् उपेतौ भगवान् अवैतु // BC_9.5

तौ सो ऽब्रवीद् अस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः धर्मो ऽयम् आवर्तक इत्य् अवेत्य यातस् त्व् अराडाभिमुखो मुमुक्षुः // BC_9.6

तस्मात् ततस् ताव् उपलभ्य तत्त्वं तं विप्रम् (आमन्त्र्य चामन्त्त्य )तदैव सद्यः खिन्नाव् अखिन्नाव् इव राज(भक्त्या च्पुत्रः प्रसस्रतुस् तेन यतः स यातः // BC_9.7

यान्तौ ततस् तौ (मृजया च्सृजया )विहीनम् अपश्यतां तं (वपुषोज्ज्वलन्तम् च्वपुषा ज्वलन्तम् ) (उपोपविष्टं च्नृपोपविष्टं )पथि वृक्षमूले सूर्यं घनाभोगम् इव प्रविष्टम् // BC_9.8

यानं विहायोपययौ ततस् तं पुरोहितो मन्त्रधरेण सार्धम् यथा वनस्थं सहवामदेवो रामं दिदृक्षुर् मुनिर् और्वशेयः // BC_9.9

ताव् अर्चयाम् आसतुर् अर्हतस् तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् प्रत्यर्चयाम् आस स चार्हतस् तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः // BC_9.10

कृताभ्यनुज्ञाव् अभितस् ततस् तौ (निषेदतुः च्निषीदतुः )शाक्यकुलध्वजस्य विरेजतुस् तस्य च संनिकर्षे पुनर्वसू योगगताव् इवेन्दोः // BC_9.11

तं वृक्षमूलस्थम् अभिज्वलन्तं पुरोहितो राजसुतं बभाषे यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् // BC_9.12

त्वच्छोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् कुमार राजा नयनाम्बुवर्षो यत् त्वाम् अवोचत् तद् इदं निबोध // BC_9.13

जानामि धर्मं प्रति निश्चयं ते परैमि ते (भाविनम् चच्याविनम् )एतम् अर्थम् अहं त्व् अकाले वनसंश्रयात् ते शोकाग्निनाग्निप्रतिमेन दह्ये // BC_9.14

तद् एहि धर्मप्रिय मत्प्रियार्थं धर्मार्थम् एव त्यज बुद्धिम् एताम् अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलम् इवाभिहन्ति // BC_9.15

मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् तां वृत्तिम् अस्मासु करोति शोको विकर्षणोच्छोषणदाहभेदैः // BC_9.16

तद् भुङ्क्ष्व तावद् वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे अनिष्टबन्धौ कुरु (मय्य् अपेक्षां च्माप्य् उपेक्षां सर्वेषु भूतेषु दया हि धर्मः // BC_9.17

न चैष धर्मो वनए एव सिद्धः पुरे ऽपि सिद्धिर् नियता यतीनाम् बुद्धिश् च यत्नश् च निमित्तम् अत्र वनं च लिङ्गं च हि भीरुचिह्नम् // BC_9.18

मौलीधरैर् अंसविषक्तहारैः केयूरविष्टब्ध(भुजैर् च्स्रजैर् )नरेन्द्रैः लक्ष्म्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैर् अपि मोक्षधर्मः // BC_9.19

ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजम् आषाढम् अथान्तिदेवम् videharājaṃ janakaṃ tathaiva (xx drumaṃ cpākadrumaṃ )senajitaś ca rājñaḥ // BC_9.20

एतान् गृहस्थान् नृपतीन् अवेहि नैःश्रेयसे धर्मविधौ विनीतान् (उभौ चुभे )अपि तस्माद् युगपद् भजस्व (वित्ताधिपत्यं च्चित्ताधिपत्यं )च नृपश्रियं च // BC_9.21

इच्छामि हि त्वाम् उपगुह्य गाढं कृताभिषेकं सलिलार्द्रम् एव (धृतातपत्त्रं च्धृतातपत्रं. )समुदीक्षमाणस् तेनैव हर्षेण वनं प्रवेष्टुम् // BC_9.22

इत्य् अब्रवीद् भूमिपतिर् भवन्तं वाक्येन (बाष्पच्वाष्प)ग्रथिताक्षरेण श्रुत्वा भवान् अर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहम् अनुप्रयातुम् // BC_9.23

शोकाम्भसि त्वत्प्रभवे ह्य् अगाधे दुःखार्णवे मज्जति शाक्यराजः तस्मात् तम् उत्तारय नाथहीनं निराश्रयं मग्नम् इवार्णवे (नौः च्गाम् ) // BC_9.24

भीष्मेण गङ्गोदरसंभवेन रामेण रामेण च भार्गवेण श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस् त्वम् अप्य् अर्हसि कर्तुम् इष्टम् // BC_9.25

संवर्धयित्रीं (समवेहि च्च समेहि )देवीम् अगस्त्यजुष्टां दिशम् अप्रयाताम् प्रनष्टवत्साम् इव वत्सलां गाम् अजस्रम् आर्तां करुणं रुदन्तीम् // BC_9.26

हंसेन हंसीम् इव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् (आर्तां चार्त्तां )सनाथाम् अपि नाथहीनां त्रातुं वधूम् अर्हसि दर्शनेन // BC_9.27

एकं सुतं बालम् अनर्हदुःखं (संतापम् अन्तर्गतम् उद्वहन्तम् च्संतापसंतप्त) तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गाद् इव पूर्णचन्द्रम् // BC_9.28

शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन त्वद्(दर्शनाम्ब्व् इच्छति दह्यमानम् च्दर्शनायर्7छति दह्यमानः (अन्तःच्सो ऽन्तः)पुरं चैव पुरं च कृत्स्नम् // BC_9.29

स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस् तस्य पुरोहितस्य ध्यात्वा मुहूर्तं गुणवद् गुणज्ञः प्रत्युत्तरं प्रश्रितम् इत्य् उवाच // BC_9.30

अवैमि भावं (तनये पितॄणां च्तनयप्रसक्तं विशेषतो यो मयि भूमिपस्य जानन्न् अपि व्याधिजराविपद्भ्यो भीतस् त्व् अगत्या स्वजनं त्यजामि // BC_9.31

द्रष्टुं प्रियं कः स्वजनं हि नेच्छेन् (नान्ते च्नासौ )यदि स्यात् प्रियविप्रयोगः यदा तु भूत्वापि (चिरं च्भवेद् )वियोगस् ततो गुरुं स्निग्धम् अपि त्यजामि // BC_9.32

मद्धेतुकं यत् तु नराधिपस्य शोकं भवान् (आह न तत् चर्हति न )प्रियं मे यत् स्वप्नभूतेषु समागमेषु संतप्यते भाविनि (विप्रयोगे च्विप्रयोगैः ) // BC_9.33

एवं च ते निश्चयम् एतु बुद्धिर् दृष्ट्वा विचित्रं (जगतः प्रचारम् च्विविधप्रचारम् ) संतापहेतुर् न सुतो न बन्धुर् अज्ञाननैमित्तिक एष तापः // BC_9.34

(यथाध्वच्यदाध्व)गानाम् (इह चिव )संगतानां काले वियोगो नियतः प्रजानाम् प्राज्ञो जनः को नु भजेत शोकं बन्धु(प्रतिज्ञातजनैर् विहीनः च्प्रियः सन्न् अपि बन्धुहीनः ) // BC_9.35

इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति गत्वापि तत्राप्य् अपरत्र गच्छत्य् एवं (जने त्यागिनि च्जनो योगिनि )को ऽनुरोधः // BC_9.36

yadā ca garbhāt prabhṛti (pravṛttaḥ cprajānāṃ (sarvāsv avasthāsu vadhāya cxx nubadhāya )mṛtyuḥ कस्माद् अकाले वनसंश्रयं मे पुत्रप्रियस् (तत्रभवान् च्तत्र भवान् )अवोचत् // BC_9.37

भवत्य् अकालो विषयाभिपत्तौ कालस् (तथैवार्थविधौ च्तथैवाभिविधौ )प्रदिष्टः कालो जगत् कर्षति सर्वकालान् (निर्वाहके चर्चार्हके )श्रेयसि (नास्ति कालः च्सर्वकालः ) // BC_9.38

राज्यं मुमुक्षुर् मयि यच् च राजा तद् अप्य् उदारं सदृशं पितुश् च प्रतिग्रहीतुं मम न क्षमं तु लोभाद् अपथ्यान्नम् इवातुरस्य // BC_9.39

कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण सोद्वेगता यत्र मदः श्रमश् च (परापचारेण च्परोपचारेण )च धर्मपीडा // BC_9.40

जाम्बूनदं हर्म्यम् इव प्रदीप्तं विषेण संयुक्तम् इवोत्तमान्नम् grāhākulaṃ (cāmbv iva sāravindaṃ cca sthitaṃ xx ((crājyaṃ hi ramyaṃ vyasanāśrayaṃ ca c)) // BC_9.41

((चित्थं च राज्यं न सुखं न धर्मः च्) ((च्पूर्वे यथा जातघृणा नरेन्द्राः ((च्वयःप्रकर्षे ऽपरिहार्यदुःखे च्) ((च्राज्यानि मुक्त्वा वनम् एव जग्मुः च्)) // BC_9.42

((च्वरं हि भुक्तानि तृणान्य् अरण्ये च्) ((च्तोषं परं रत्नम् इवोपगुह्य च्)) ((च्सहोषितं श्रीसुलभैर् न चैव च्) ((च्दोषैर् अदृश्यैर् इव कृष्णसर्पैः च्)) // BC_9.43

((च्श्लाघ्यं हि राज्यानि विहाय राज्ञां च्) ((च्धर्माभिलाषेण वनं प्रवेष्टुम् च्)) ((च्भग्नप्रतिज्ञस्य न तूपपन्नं च्) ((च्वनं परित्यज्य गृहं प्रवेष्टुम् च्)) // BC_9.44

((च्जातः कुले को हि नरः ससत्त्वो च्) ((च्धर्माभिलाषेण वनं प्रविष्टः च्)) ((च्काषायम् उत्सृज्य विमुक्तलज्जः च्) ((च्पुरंदरस्यापि पुरं श्रयेत च्)) // BC_9.45

((च्लोभाद् धि मोहाद् अथवा भयेन च्) ((च्यो वान्तम् अन्नं पुनर् आददीत च्)) ((च्लोभात् स मोहाद् अथवा भयेन च्) ((च्संत्यज्य कामान् पुनर् आददीत च्)) // BC_9.46

((च्यश् च प्रदीप्ताच् छरणात् कथंचिन् च्) ((च्निष्क्रम्य भूयः प्रविशेत् तद् एव च्)) ((च्गार्हस्थ्यम् उत्सृज्य स दृष्टदोषो च्) ((च्मोहेन भूयो ऽभिलषेद् ग्रहीतुम् च्)) // BC_9.47

((च्या च श्रुतिर् मोक्षम् अवाप्तवन्तो च्) ((च्नृपा गृहस्था इति नैतद् अस्ति च्)) ((च्शमप्रधानः क्व च मोक्षधर्मो च्) ((च्दण्डप्रधानः क्व च राजधर्मः च्)) // BC_9.48

((च्शमे रतिश् चेच् छिथिलं च राज्यं च्) ((च्राज्ये मतिश् चेच् छमविप्लवश् च च्)) ((च्शमश् च तैक्ष्ण्यं च हि नोपपन्नं च्) ((च्शीतोष्णयोर् ऐक्यम् इवोदकाग्न्योः च्)) // BC_9.49

((च्तन् निश्चयाद् वा वसुधाधिपास् ते च्) ((च्राज्यानि मुक्त्वा शमम् आप्तवन्तः च्)) ((च्राज्याङ्गिता वा निभृतेन्द्रियत्वाद् च्) ((चनैष्ठिके मोक्षकृताभिमानाः च्)) // BC_9.50

((च्तेषां च राज्ये ऽस्तु शमो यथावत् च्) ((च्प्राप्तो वनं नाहम् अनिश्चयेन च्)) ((च्छित्त्वा हि पाशं गृहबन्धुसंज्ञं च्) ((च्मुक्तः पुनर् न प्रविविक्षुर् अस्मि च्)) // BC_9.51

इत्य् आत्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमद् ऊर्जितं च श्रुत्वा नरेन्द्रात्मजम् उक्तवन्तं प्रत्युत्तरं मन्त्रधरो ऽप्य् उवाच // BC_9.52

यो निश्चयो (धर्मविधौ च्मन्त्रवरस् )तवायम् नायं न युक्तो न तु कालयुक्तः शोकाय (दत्त्वा छित्वा )पितरं वयःस्थं स्याद् धर्मकामस्य हि ते न धर्मः // BC_9.53

नूनं च बुद्धिस् तव नातिसूक्ष्मा धर्मार्थकामेष्व् अविचक्षणा वा हेतोर् अदृष्टस्य फलस्य यस् त्वं प्रत्यक्षम् अर्थं परिभूय यासि // BC_9.54

पुनर्भवो ऽस्तीति च केचिद् आहुर् नास्तीति केचिन् नियतप्रतिज्ञाः एवं यदा संशयितो ऽयम् अर्थस् तस्मात् क्षमं भोक्तुम् उपस्थिता श्रीः // BC_9.55

भूयः प्रवृत्तिर् यदि काचिद् अस्ति रंस्यामहे तत्र यथोपपत्तौ अथ प्रवृत्तिः परतो न काचित् सिद्धो ऽप्रयत्नाज् जगतो ऽस्य मोक्षः // BC_9.56

अस्तीति केचित् परलोकम् आहुर् मोक्षस्य योगं न तु वर्णयन्ति अग्नेर् यथा ह्य् (औष्ण्यम् चुष्णम् )अपां द्रवत्वं तद्वत् प्रवृत्तौ प्रकृतिं वदन्ति // BC_9.57

केचित् स्वभावाद् इति वर्णयन्ति शुभाशुभं चैव भवाभवौ च स्वाभाविकं सर्वम् इदं च यस्माद् अतो ऽपि मोघो भवति प्रयत्नः // BC_9.58

यद् इन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव संयुज्यते यज् (जरयार्तिभिश् च्जरयार्त्तिभिश् )च कस् तत्र यत्नो ननु स स्वभावः // BC_9.59

अद्भिर् हुताशः शमम् अभ्युपैति तेजांसि चापो गमयन्ति शोषम् भिन्नानि भूतानि शरीरसंस्थान्य् ऐक्यं च (गत्वा च्दत्त्वा )जगद् उद्वहन्ति // BC_9.60

यत् पाणिपादोदरपृष्ठ(मूर्ध्नां च्मूर्ध्ना निर्वर्तते गर्भगतस्य भावः यद् आत्मनस् तस्य च तेन योगः स्वाभाविकं तत् कथयन्ति तज्ज्ञाः // BC_9.61

कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा स्वभावतः सर्वम् इदं प्रवृत्तं न कामकारो ऽस्ति कुतः प्रयत्नः // BC_9.62

सर्गं वदन्तीश्वरतस् तथान्ये तत्र प्रयत्ने पुरुषष्य को ऽर्थः य एव हेतुर् जगतः प्रवृत्तौ हेतुर् निवृत्तौ नियतः स एव // BC_9.63

केचिद् वदन्त्य् आत्मनिमित्तम् एव प्रादुर्भवं चैव भवक्षयं च प्रादुर्भवं तु प्रवदन्त्य् अयत्नाद् यत्नेन मोक्षाधिगमं ब्रुवन्ति // BC_9.64

नरः पितॄणाम् अनृणः प्रजाभिर् वेदैर् ऋषीणां क्रतुभिः सुराणाम् उत्पद्यते सार्धम् ऋणैस् त्रिभिस् तैर् यस्यास्ति मोक्षः किल तस्य मोक्षः // BC_9.65

इत्य् एवम् एतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः प्रयत्नवन्तो ऽपि हि विक्रमेण मुमुक्षवः खेदम् अवाप्नुवन्ति // BC_9.66

तत् सौम्य मोक्षे यदि भक्तिर् अस्ति न्यायेन सेवस्व विधिं यथोक्तम् एवं भविष्यत्य् उपपत्तिर् अस्य संतापनाशश् च नराधिपस्य // BC_9.67

या च प्रवृत्ता (तव दोषच्भवदोष)बुद्धिस् तपोवनेभ्यो भवनं प्रवेष्टुम् तत्रापि चिन्ता तव तात मा भूत् पूर्वे ऽपि जग्मुः स्व(गृहान् च्गृहं )वनेभ्यः // BC_9.68

तपोवनस्थो ऽपि वृतः प्रजाभिर् जगाम राजा पुरम् अम्बरीषः तथा महीं विप्रकृताम् अनार्यैस् तपोवनाद् एत्य ररक्ष रामः // BC_9.69

तथैव शाल्वाधिपतिर् (द्रुमाख्यो च्द्रुमाक्षो वनात् ससूनुर् (नगरं विवेश च्स्वपुरं प्रविश्य ) ब्रह्मर्1षिभूतश् च मुनेर् (वसिष्ठाद् च्वशिष्ठाद् दध्रे श्रियं सांकृतिर् अन्तिदेवः // BC_9.70

एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्य् (अतीयुः चभीयुः ) तस्मान् न दोषो ऽस्ति गृहं (प्रयातुं च्प्रवेष्टुं तपोवनाद् धर्मनिमित्तम् एव // BC_9.71

ततो वचस् तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः अनूनम् अव्यस्तम् असक्तम् अद्रुतं धृतौ स्थितो राजसुतो ऽब्रवीद् वचः // BC_9.72

इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर् न ममात्र निश्चयः अवेत्य तत्त्वं तपसा शमेन (च च्वा स्वयं ग्रहीष्यामि यद् अत्र निश्चितम् // BC_9.73

न मे क्षमं (संशयजं च्सङ्गशतं )हि दर्शनं ग्रहीतुम् अव्यक्त(परस्पराहतम् च्परं पराहतम् ) (बुधः च्बुद्धः )परप्रत्ययतो हि को व्रजेज् जनो ऽन्धकारे ऽन्ध इवान्ध(देशिकः च्देशितः ) // BC_9.74

अदृष्टतत्त्वस्य सतो ऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः वृथापि खेदो (हि चपि )वरं शुभात्मनः सुखं न तत्त्वे ऽपि विगर्हितात्मनः // BC_9.75

इमं तु दृष्ट्वागमम् अव्यवस्थितं यद् उक्तम् आप्तैस् तद् अवेहि साध्व् इति प्रहीणदोषत्वम् अवेहि चाप्ततां प्रहीणदोषो ह्य् अनृतं न वक्ष्यति // BC_9.76

गृहप्रवेशं प्रति यच् च मे भवान् उवाच रामप्रभृतीन् निदर्शनम् न ते प्रमाणं न हि धर्मनिश्चयेष्व् अलं प्रमाणाय परिक्षतव्रताः // BC_9.77

तद् एवम् अप्य् एव रविर् महीं पतेद् अपि स्थिरत्वं हिमवान् गिरिस् त्यजेत् अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्व् एव गृहान् पृथग्जनः // BC_9.78

अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयम् आलयम् इति प्रतिज्ञां स चकार गर्वितो यथेष्टम् उत्थाय च निर्ममो ययौ // BC_9.79

ततः स(बाष्पौ च्वाष्पौ )सचिवद्विजाव् उभौ निशम्य तस्य स्थिरम् एव निश्चयम् विषण्णवक्त्राव् अनुगम्य दुःखितौ शनैर् अगत्या पुरम् एव जग्मतुः // BC_9.80

तत्स्नेहाद् अथ नृपतेश् च भक्तितस् तौ सापेक्षं प्रतिययतुश् च तस्थतुश् च दुर्धर्षं रविम् इव दीप्तम् आत्मभासा तं द्रष्टुं न हि पथि शेकतुर् न मोक्तुम् // BC_9.81

तौ ज्ञातुं परमगतेर् गतिं तु तस्य प्रच्छन्नांश् चरपुरुषाञ् छुचीन् विधाय राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथम् इति जग्मतुः कथंचित् // BC_9.82

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये कुमारा1न्वेषणो नाम नवमः सर्गः -- 9 --]]

स राजवत्सः पृथुपीनवक्षास् तौ हव्यमन्त्राधिकृतौ विहाय उत्तीर्य गङ्गां प्रचलत्तरंगां श्रीमद्गृहं राजगृहं जगाम // BC_10.1

शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस् तपोदैः पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयंभूर् इव नाकपृष्ठम् // BC_10.2

गाम्भीर्यम् ओजश् च निशाम्य तस्य वपुश् च दीप्तं पुरुषान् अतीत्य विसिस्मिये तत्र जनस् तदानीं स्थानुव्रतस्येव वृषध्वजस्य // BC_10.3

तं प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ (यस् तत्र च्यश् चात्र )तस्थौ पथि सो ऽन्वगच्छत् द्रुतं ययौ (यः स जगाम धीरं च्सदयं सधीरं यः कश्चिद् आस्ते स्म स चोत्पपात // BC_10.4

कश्चित् तम् आनर्च जनः कराभ्यां सत्कृत्य कश्चिच् छिरसा ववन्दे स्निग्धेन कश्चिद् वचसाभ्यनन्दन् (नैनं च्नैवं )जगामाप्रतिपूज्य कश्चित् // BC_10.5

तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनम् ईयुः धर्मस्य साक्षाद् इव (संनिकर्षे च्संनिकर्षान् न कश्चिद् अन्यायमतिर् बभूव // BC_10.6

अन्यक्रियाणाम् अपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् (तं देवकल्पं च्तद् एव कल्पं )नरदेव(सूनुं च्सूत्रं निरीक्षमाणा न (ततर्प च्तु तस्य )दृष्टिः // BC_10.7

भ्रुवौ ललाटं मुखम् (ईक्षणे चीक्षणं )वा वपुः करौ वा चरणौ गतिं वा यद् एव यस् तस्य ददर्श तत्र तद् एव (तस्याथ बबन्ध च्तस्यानुबबन्ध )चक्षुः // BC_10.8

दृष्ट्वा (च सोर्णच्शुभोर्ण)भ्रुवम् आयताक्षं ज्वलच्छरीरं शुभजालहस्तम् तं भिक्षु(वेषं च्वेशं )क्षितिपालनार्हं संचुक्षुभे राजगृहस्य लक्ष्मीः // BC_10.9

श्रेण्यो ऽथ भर्ता मगधाजिरस्य (बाह्याद् च्वाह्याद् )विमानाद् विपुलं जनौघम् ददर्श पप्रच्छ च तस्य हेतुं ततस् तम् अस्मै पुरुषः शशंस // BC_10.10

ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर् य उक्तो ऽधिगमिष्यतीति स (एष चेव )शाक्याधिपतेस् तनूजो निरीक्ष्यते प्रव्रजितो जनेन // BC_10.11

ततः श्रुतार्थो (मनसागतास्थो च्मनसा गतार्थो राजा बभाषे पुरुषं तम् एव विज्ञायतां क्व प्रतिगच्छतीति तथेत्य् अथैनं पुरुषो ऽन्वगच्छत् // BC_10.12

अलोलचक्षुर् युगमात्रदर्शी निवृत्तवाग् यन्त्रितमन्दगामी चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः // BC_10.13

आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् न्यायेन तत्राभ्यवहृत्य चैनन् महीधरं पाण्डवम् आरुरोह // BC_10.14

तस्मिन् नवौ लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः // BC_10.15

(तत्रैनम् च्तत्रैवम् )आलोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार संश्रुत्य राजा स च बाहुमान्यात् तत्र प्रतस्थे निभृतानुयात्रः // BC_10.16

स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा मौलीधरः सिंहगतिर् नृसिंहश् चलत्सटः सिंह इवारुरोह // BC_10.17

(ततः स्म च्चलस्य )तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् पर्यङ्कम् आस्थाय विरोचमानं शशाङ्कम् उद्यन्तम् इवाभ्र(कुञ्जात् च्कूटात् ) // BC_10.18

तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणम् इवोपविष्टम् सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयंभुवं शक्र इवोपतस्थे // BC_10.19

तं न्यायतो (न्यायविदां वरिष्ठं च्न्यायवतां वरिष्ठः समेत्य पप्रच्छ च धातुसाम्यम् स चाप्य् अवोचत् सदृशेन साम्ना नृपं मनःस्वास्थ्यम् अनामयं च // BC_10.20

ततः शुचौ वारणकर्णनीले शिलातले (संनिषसाद चसौ निषसाद )राजा (उपोपविश्यानुमतश् च्नृपोपविश्यानुमतश् )च तस्य भावं विजिज्ञासुर् इदं बभाषे // BC_10.21

प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च जाता विवक्षा (स्ववयो च्सुत या )यतो मे तस्माद् इदं स्नेहवचो निबोध // BC_10.22

आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तम् इदं वपुश् च कस्माद् इयं ते मतिर् अक्रमेण भैक्षाकए एवाभिरता न राज्ये // BC_10.23

गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषम् अनर्हम् एतत् हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तम् अन्नम् // BC_10.24

तत् सौम्य राज्यं यदि पैतृकं त्वं स्नेहात् पितुर् नेच्छसि विक्रमेण न च (क्रमं च्क्षमं )मर्षयितुं मतिस् ते (भुङ्क्ष्वार्धम् च्भुक्त्वार्धम् )अस्मद्विषयस्य शीघ्रम् // BC_10.25

एवं हि न स्यात् स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः तस्मात् कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः // BC_10.26

अथ त्व् इदानीं कुलगर्वितत्वाद् अस्मासु विश्रम्भगुणो न ते ऽस्ति (व्यूढान्य् अनीकानि च्व्यूहान्य् अनेकानि )विगाह्य (बाणैर् च्वाणैर् मया सहायेन (परान् च्पराञ् )जिगीष // BC_10.27

तद् बुद्धिम् अत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद् भजस्व व्यत्यस्य (रागाद् इह च्रागादि ह )हि त्रिवर्गं प्रेत्येह च (भ्रंशम् च्विभ्रंशम् )अवाप्नुवन्ति // BC_10.28

यो ह्य् अर्थधर्मौ परिपीड्य कामः स्याद् धर्म(कामौ च्काम्ये )परिभूय चार्थः कामार्थयोश् चोपरमेण धर्मस् त्याज्यः स कृत्स्नो यदि (काङ्क्षितो ऽर्थः च्काङ्क्षितार्थः ) // BC_10.29

तस्मात् त्रिवर्गस्य निषेवणेन त्वं रूपम् एतत् सफलं कुरुष्व धर्मार्थकामाधिगमं ह्य् अनूनं नृणाम् अनूनं पुरुषार्थम् आहुः // BC_10.30

तन् निष्फलौ नार्हसि कर्तुम् एतौ पीनौ भुजौ चापविकर्षणार्हौ मान्धातृवज् जेतुम् इमौ हि योग्यौ (लोकान् अपि त्रीन् इह च्लोकानि हि त्रीणि हि )किं पुनर् गाम् // BC_10.31

स्नेहेन खल्व् एतद् अहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन इमं हि दृष्ट्वा तव भिक्षु(वेषं च्वेशं जातानुकम्पो ऽस्म्य् अपि चागताश्रुः // BC_10.32

यावत् स्ववंशप्रति(रूप रूपं च्रूपरूपं न ते जराभ्येत्य् अभिभूय भूयः tad bhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam [pādas ab and cd are exchanged in c.] // BC_10.33

शक्नोति जीर्णः खलु धर्मम् आप्तुं कामोपभोगेष्व् अगतिर् जरायाः अतश् च यूनः कथयन्ति कामान् मध्यस्य वित्तं स्थविरस्य धर्मम् // BC_10.34

धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि संरक्ष्यमानान्य् अपि दुर्ग्रहाणि कामा यतस् तेन (पथा च्यथा )हरन्ति // BC_10.35

वयांसि जीर्णानि (विमर्शवन्ति च्विमर्शयन्ति धीराण्य् अवस्थानपरायणानि अल्पेन यत्नेन शमात्मकानि भवन्त्य् अ(गत्यैव च्गत्येव )च लज्जया च // BC_10.36

अतश् च लोलं विषयप्रधानं प्रमत्तम् अक्षान्तम् अदीर्घदर्शि बहुच्छलं यौवनम् अभ्यतीत्य निस्तीर्य कान्तारम् इवाश्वसन्ति // BC_10.37

तस्माद् अधीरं चपलप्रमादि नवं वयस् तावद् इदं व्यपैतु कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुम् इन्द्रियेभ्यः // BC_10.38

अथो चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः यज्ञैर् अधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वान् अपि नाकपृष्ठम् // BC_10.39

सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः नृपर्1षयस् तां हि गतिं गता मखैः श्रमेण याम् एव महर्2षयो ययुः // BC_10.40

इत्य् एवं मगधपतिर् ((च्वचो च्))बभाषे यः सम्यग् वलभिद् इव (ब्रुवन् बभासे च्ध्रुवं बभाषे ) // तच् छ्रुत्वा न स (विचचाल च्विचचार )राजसूनुः कैलासो गिरिर् इव नैकचित्रसानुः // BC_10.41

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये ऽश्व-घोष-कृते श्रेण्या1भिगमनो नाम दशमः सर्गः -- 10 --]]

अथैवम् उक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलम् अर्थम् स्वस्थो ऽविकारः कुलशौचशुद्धः शौद्धोदनिर् वाक्यम् इदं जगाद // BC_11.1

नाश्चर्यम् एतद् भवतो (विधानं चभिधातुं जातस्य हर्यङ्ककुले विशाले यन् मित्रपक्षे तव मित्रकाम स्याद् वृत्तिर् एषा परिशुद्धवृत्तेः // BC_11.2

असत्सु मैत्री स्व(कुलानुवृत्ता च्कुलानुरूपा न तिष्ठति श्रिर् इव विक्लवेषु पूर्वैः कृतां प्रीतिपरंपराभिस् ताम् एव सन्तस् तु विवर्धयन्ति // BC_11.3

ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्व् इह को हि न स्यात् // BC_11.4

एवं च ये द्रव्यम् अवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् // BC_11.5

सुहृत्तया चार्यतया च राजन् (खल्व् एष यो मां प्रति निश्चयस् च्विभाव्य माम् एव विनिश्चयस् )ते अत्रानुनेष्यामि सुहृत्तयैव ब्रूयाम् अहं नोत्तरम् अन्यद् अत्र // BC_11.6

अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्मम् इमं प्रपन्नः बन्धून् प्रियान् अश्रुमुखान् विहाय प्राग् एव कामान् अशुभस्य हेतून् // BC_11.7

नाशीविषेभ्यो (हि चपि )तथा बिभेमि नैवाशनिभ्यो गगनाच् च्युतेभ्यः न पावकेभ्यो ऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य (एव चेभ्यः ) // BC_11.8

कामा ह्य् अनित्याः कुशलार्थचौरा रिक्ताश् च मायासदृशाश् च लोके आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनर् आत्मसंस्थाः // BC_11.9

कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं (बत च्वत )मर्त्यलोके कामैः सतृष्णस्य हि नास्ति तृप्तिर् यथेन्धनैर् वातसखस्य वह्नेः // BC_11.10

जगत्य् अनर्थो न समो ऽस्ति कामैर् मोहाच् च तेष्व् एव जनः प्रसक्तः तत्त्वं विदित्वैवम् अनर्थभीरुः प्राज्ञः स्वयं को ऽभिलषेद् अनर्थम् // BC_11.11

समुद्रवस्त्राम् अपि गाम् अवाप्य पारं जिगीषन्ति महार्णवस्य लोकस्य कामैर् न वितृप्तिर् अस्ति पतद्भिर् अम्भोभिर् इवार्णवस्य // BC_11.12

देवेन वृष्टे ऽपि हिरण्यवर्षे द्वीपान् (समग्रांश् च्समुद्रांश् )चतुरो ऽपि जित्वा शक्रस्य चार्धासनम् अप्य् अवाप्य मान्धातुर् आसीद् विषयेष्व् अतृप्तिः // BC_11.13

भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात् प्रनष्टे दर्पान् महर्2षीन् अपि वाहयित्वा कामेष्व् अतृप्तो नहुषः पपात // BC_11.14

ऐडश् च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशम् उर्वशीं ताम् लोभाद् ऋषिभ्यः कनकं जिहीर्षुर् जगाम नाशं विषयेष्व् अतृप्तः // BC_11.15

बलेर् महेन्द्रं नहुषं महेन्द्राद् इन्द्रं पुनर् ये नहुषाद् उपेयुः स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद् भाग्यकुलाकुलेषु // BC_11.16

चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तो ऽपि भुजंगदीर्घाः यैर् (नान्यचन्य)कार्या मुनयो ऽपि भग्नाः कः कामसंज्ञान् मृगयेत शत्रून् // BC_11.17

उग्रायुधश् चोग्रधृतायुधो ऽपि येषां कृते मृत्युम् अवाप भीष्मात् चिन्तापि तेषाम् अशिवा वधाय (सद्च्तद्)वृत्तिनां किं पुनर् अव्रतानाम् // BC_11.18

आस्वादम् अल्पं विषयेषु मत्वा संयोजनोत्कर्षम् अतृप्तिम् एव सद्भ्यश् च गर्हां नियतं च पापं कः कामसंज्ञं विषम् (आददीत चाससाद ) // BC_11.19

कृष्यादिभिः (कर्मभिर् अर्दितानां च्धर्मभिर् अन्वितानां कामात्मकानां च निशम्य दुःखम् स्वास्थ्यं च कामेष्व् अकुतूहलानां कामान् विहातुं क्षमम् आत्मवद्भिः // BC_11.20

ज्ञेया विपत्कामिनि कामसंपत् सिद्धेषु कामेषु मदं ह्य् उपैति मदाद् अकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिम् अभ्युपैति // BC_11.21

यत्नेन लब्धाः परिरक्षिताश् च ये विप्रलभ्य प्रतियान्ति भूयः तेष्व् आत्मवान् याचितकोपम् एषु कामेषु विद्वान् इह को रमेत // BC_11.22

अन्विष्य चादाय च जाततर्षा यान् अत्यजन्तः परियान्ति दुःखम् लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.23

अनात्मवन्तो हृदि यैर् विदष्टा विनाशम् अर्छन्ति न यान्ति शर्म क्रुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.24

अस्थि (क्षुधार्ता च्क्षुधार्त्ता )इव सारमेया भुक्त्वापि यान् नैव भवन्ति तृप्ताः जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.25

ये राजचौरोदकपावकेभ्यः साधारणत्वाज् जनयन्ति दुःखम् तेषु प्रविद्धामिषसंनिभेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.26

यत्र स्थितानाम् अभितो विपत्तिः शत्रोः सकाशाद् अपि बान्धवेभ्यः हिंस्रेषु तेष्व् आयतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.27

गिरौ वने चाप्सु च सागरे च (यान् च्यद् )भ्रंशम् (अर्छन्ति विलङ्घमानाः चर्छन्त्य् अभिलङ्घमानाः ) तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.28

(तीव्रैः च्तीर्थैः )प्रयत्नैर् विविधैर् अवाप्ताः क्षणेन ये नाशम् इह प्रयान्ति svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt [verses 11.29 and 11.30 are exchanged in ed. c.] // BC_11.29

यान् अर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा अङ्गार(कर्षूच्कर्ष)प्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.30

विनाशम् ईयुः कुरवो यदर्थं वृष्ण्यन्धका (मेखलच्मैथिल)दण्डकाश् च (सूनासिच्शूलासि)काष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.31

सुन्दोपसुन्दाव् असुरौ यदर्थम् अन्योअन्यवैरप्रसृतौ विनष्टौ सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.32

(येषां कृते वारिणि पावके च्कामान्धसंज्ञाः कृपया व के [सिच्] )च क्रव्यात्सु (चात्मानम् च्नात्मानम् )इहोत्सृजन्ति सपत्नभूतेष्व् अशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् // BC_11.33

(कामार्थम् अज्ञः च्कामान्धसंज्ञः )कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि कामार्थम् आशाकृपणस् तपस्वी (मृत्युं श्रमं चार्छति च्मृत्युश्रमं चार्हति )जीव(लोकः च्लोके ) // BC_11.34

गीतैर् ह्रियन्ते हि मृगा वधाय रूपार्थम् अग्नौ शलभाः पतन्ति मत्स्यो गिरत्य् आयसम् आमिषार्थी तस्माद् अनर्थं विषयाः फलन्ति // BC_11.35

कामास् तु भोगा इति (यन् मतिः च्यन् मतं )स्याद् (भोगा च्भोग्या )न केचित् परिगण्यमानाः वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः // BC_11.36

इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोर् अशनं तथैव वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः // BC_11.37

निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय // BC_11.38

दुःखप्रतीकारनिमित्तभूतास् तस्मात् प्रजानां विषया न (भोगाः च्भोग्याः ) अश्नामि भोगान् इति को ऽभ्युपेयात् प्राज्ञः प्रतीकारविधौ (प्रवृत्तः च्प्रवृत्तान् ) // BC_11.39

यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात् स हि भोगसंज्ञाम् // BC_11.40

कामेष्व् अनैकान्तिकता च यस्माद् अतो ऽपि मे तेषु न भोगसंज्ञा यए एव भावा हि सुखं दिशन्ति तए एव दुःखं पुनर् आवहन्ति // BC_11.41

गुरूणि वासांस्य् अगुरूणि चैव सुखाय (शीते च्गीते )ह्य् असुखाय (घर्मे च्धर्मे ) चन्द्रांशवश् चन्दनम् एव चोष्णे सुखाय दुखाय भवन्ति शीते // BC_11.42

द्वंद्वानि सर्वस्य यतः प्रसक्तान्य् अलाभलाभप्रभृतीनि लोके अतो ऽपि नैकान्तसुखो ऽस्ति कश्चिन् नैकान्तदुःखः पुरुषः प्र्ठिव्याम् // BC_11.43

दृष्ट्वा (विमिश्रां च् च मिश्रां )सुखदुःकतां मे राज्यं च दास्यं च मतं समानम् नित्यं हसत्य् एव हि नैव राजा न चापि संतप्यतए एव दासः // BC_11.44

आज्ञा नृपत्वे ऽभ्यधिकेति (यत् स्यान् च्यस्मात् महान्ति दुःखान्य् अत एव राज्ञः आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदम् एति // BC_11.45

राज्ये नृपस् त्यागिनि (बह्वच्वङ्क)मित्रे विश्वासम् आगच्छति चेद् विपन्नः अथापि विश्रम्भम् उपैति नेह किं नाम सौख्यं चकितस्य राज्ञः // BC_11.46

यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरम् एकम् एव तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः // BC_11.47

राज्ञो ऽपि (वासोयुगम् च्वासे युगम् )एकम् एव क्षुत्संनिरोधाय तथान्नमात्रा शय्या तथैकासनम् एकम् एव शेषा विशेषा नृपतेर् मदाय // BC_11.48

तुष्ट्यर्थम् एतच् च फलं यदीष्टम् ऋते ऽपि राज्यान् मम तुष्टिर् अस्ति तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः // BC_11.49

तन् नास्मि कामान् प्रति संप्रतार्यः (क्षेमं च्क्षेमे )शिवं मार्गम् अनुप्रपन्नः स्मृत्वा सुहृत्त्वं तु पुनः पुनर् मां ब्रूहि प्रतिज्ञां खलु (पालयेति च्पालयन्ति ) // BC_11.50

न ह्य् अस्म्य् अमर्षेण वनं प्रविष्टो न शत्रुबाणैर् अवधूतमौलिः कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद् वचनं यतस् ते // BC_11.51

यो दन्दशूकं कुपितं भुजंगं मुक्त्वा व्यवस्येद् धि पुनर् ग्रहीतुम् दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान् स पुनर् भजेत // BC_11.52

अन्धाय यश् च स्पृहयेद् अनन्धो बद्धाय मुक्तो विधनाय (चाढ्यः च्वाढ्यः ) उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद् विषयात्मकाय // BC_11.53

(भैक्षोपभोगीति च च्भिक्षोपभोगी वर )नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि // BC_11.54

लक्ष्म्यां महत्याम् अपि वर्तमानस् तृष्णाभिभूतस् त्व् अनुकम्पितव्यः प्राप्नोति यः शान्तिसुखं न चेह परत्र (दुःखैः च्दुःखं )प्रतिगृह्यते च // BC_11.55

एवं तु वक्तुं भवतो ऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव // BC_11.56

अहं हि संसार(शरेण च्रसेन )विद्धो विनिःसृतः (शान्तिम् च्शान्तम् )अवाप्तुकामः नेच्छेयम् आप्तुं त्रिदिवे ऽपि राज्यं निरामयं किं (बत च्वत )मानुषेषु // BC_11.57

त्रिवर्गसेवां नृप यत् तु कृत्स्नतः परो मनुष्यार्थ इति त्वम् आत्थ माम् अनर्थ इत्य् (एव ममात्र दर्शनं चात्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः // BC_11.58

पदे तु यस्मिन् न जरा न (भीर् न रुङ् च्भीरुता न जन्म नैवोपरमो न (चाधयः च्वाधयः ) तम् एव मन्ये पुरुषार्थम् उत्तमं न विद्यते यत्र पुनः पुनः क्रिया // BC_11.59

यद् अप्य् अवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियाम् इति अनिश्चयो ऽयं चपलं हि दृश्यते जराप्य् अधीरा धृतिमच् च यौवनम् // BC_11.60

स्वकर्मदक्षश् च (यदान्तको च्यदा तु को )जगद् वयःसु (सर्वेष्व् अवशं विकर्षति च्सर्वेषु च संविकर्षति ) विनाशकाले कथम् अव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना // BC_11.61

जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध (इवाशिवः चिवाश्रितः )स्थितः प्रजामृगान् भाग्यवनाश्रितांस् तुदन् वयःप्रकर्षं प्रति को मनोरथः // BC_11.62

(अतो च्सुतो )युवा वा स्थविरो ऽथवा शिशुस् तथा त्वरावान् इह कर्तुम् अर्हति यथा भवेद् धर्मवतः (कृतात्मनः च्कृपात्मनः प्रवृत्तिर् इष्टा विनिवृत्तिर् एव वा // BC_11.63

यद् आत्थ (चापीष्टच्वा दीप्त)फलां कुलोचितां कुरुष्व धर्माय मखक्रियाम् इति नमो मखेभ्यो न हि कामये सुखं परस्य दुःख(क्रियया यद् इष्यते च्क्रिययापदिश्यते ) // BC_11.64

परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः क्रतोः फलं यद्य् अपि शाश्वतं भवेत् तथापि कृत्वा किम् (उ यत् क्षयात्मकम् चुपक्षयात्मकम् ) // BC_11.65

भवेच् च धर्मो यदि नापरो विधिर् व्रतेन शीलेन मनःशमेन वा तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परम् उच्यते फलम् // BC_11.66

इहापि तावत् पुरुषस्य तिष्ठतः प्रवर्तते यत् परहिंसया सुखम् तद् अप्य् अनिष्टं सघृणस्य धीमतो भवान्तरे किं (बत च्वत )यन् न दृश्यते // BC_11.67

न च प्रतार्यो ऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः // BC_11.68

इहागतश् चाहम् इतो दिदृक्षया मुनेर् अराडस्य विमोक्षवादिनः प्रयामि चाद्यैव नृपास्तु ते शिवं वचः (क्षमेथा मम तत्त्वच्क्षमेथाः शमतत्त्व)निष्ठुरम् // BC_11.69

(अवेन्द्रवद् चथेन्द्रवद् )दिव्य् अव शश्वद् अर्कवद् गुणैर् अव श्रेय इहाव गाम् अव अवायुर् आर्यैर् अव सत्सुतान् अव श्रियश् च राजन्न् अव धर्मम् आत्मनः // BC_11.70

हिमारिकेतूद्भव(संभवान्तरे च्संप्लवान्तरे यथा द्विजो याति विमोक्षयंस् तनुम् हिमारि(शत्रुक्षयच्शत्रुं क्षय)शत्रु(घातने च्घातिनस् तथान्तरे याहि (विमोक्षयन् च्विमोचयन् )मनः // BC_11.71

नृपो ऽब्रवीत् साञ्जलिर् आगतस्पृहो यथेष्टम् (आप्नोतु चाप्नोति )भवान् अविघ्नतः अवाप्य काले कृतकृत्यताम् इमां ममापि कार्यो भवता त्व् अनुग्रहः // BC_11.72

स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरम् आश्रमं ययौ परिव्रजन्तं (तम् उदीक्ष्य च्समुदीक्ष्य )विस्मितो नृपो ऽपि (वव्राज पुरिं गिरिव्रजम् च्च प्रापुर् इमं गिरिं व्रजन् ) // BC_11.73

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये (चश्व-घोष-कृते च्)काम-विगर्हणो नामै7का-दशः सर्गः -- 11 --]]

ततः शमविहारस्य मुनेर् इक्ष्वाकुचन्द्रमाः अराडस्याश्रमं भेजे वपुषा पूरयन्न् इव // BC_12.1

स कालामसगोत्रेण तेनालोक्यैव दूरतः उच्चैः स्वागतम् इत्य् उक्तः समीपम् उपजग्मिवान् // BC_12.2

ताव् उभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् दारव्योर् मेध्ययोर् वृष्योः शुचौ देशे (निषेदतुः च्निषीदतुः ) // BC_12.3

तम् आसीनं नृपसुतं सो ऽब्रवीन् मुनिसत्तमः बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्न् इव // BC_12.4

विदितं मे यथा सौम्य निष्क्रान्तो भवनाद् असि छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः // BC_12.5

सर्वथा धृतिमच् चैव प्राज्ञं चैव मनस् तव यस् त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलाम् इव // BC_12.6

नाश्चर्यं जीर्णवयसो यज् जग्मुः पार्थिवा वनम् अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टाम् इव स्रजम् // BC_12.7

इदं मे मतम् आश्चर्यं नवे वयसि यद् भवान् अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे // BC_12.8

तद् विज्ञातुम् इमं धर्मं परमं भाजनं भवान् ज्ञान(प्लवम् च्पूर्वम् )अधिष्ठाय शीघ्रं दुःखार्णवं तर // BC_12.9

शिष्ये यद्य् अपि विज्ञाते शास्त्रं कालेन (वर्ण्यते च्वर्तते ) गाम्भीर्याद् व्यवसायाच् च (न परीक्ष्यो च्सुपरीक्ष्यो )भवान् मम // BC_12.10

इति वाक्यम् अराडस्य विज्ञाय स (नरर्1षभः च्नराधिपः ) बभूव परमप्रीतः प्रोवाचोत्तरम् एव च // BC_12.11

विरक्तस्यापि यद् इदं सौमुख्यं भवतः परम् अकृतार्थो ऽप्य् अनेनास्मि कृतार्थ इव संप्रति // BC_12.12

दिदृक्षुर् इव हि ज्योतिर् यियासुर् इव दैशिकम् त्वद्(दर्शनम् च्दर्शनाद् )अहं मन्ये तितीर्षुर् इव च प्लवम् // BC_12.13

तस्माद् अर्हसि तद् वक्तुं वक्तव्यं यदि मन्यसे जरामरणरोगेभ्यो यथायं परिमुच्यते // BC_12.14

इत्य् अराडः कुमारस्य माहात्म्याद् एव चोदितः संक्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् // BC_12.15

श्रूयताम् अयम् अस्माकं सिद्धान्तः शृण्वतां वर यथा भवति संसारो यथा (चैव निवर्तते च्वै परिवर्तते ) // BC_12.16

प्रकृतिश् च विकारश् च जन्म मृत्युर् जरैव च तत् तावत् सत्त्वम् इत्य् उक्तं स्थिरसत्त्व परेहि (तत् च्नः ) // BC_12.17

तत्र तु (प्रकृतिं च्प्रकृतिर् )नाम विद्धि प्रकृतिकोविद पञ्च भूतान्य् अहंकारं बुद्धिम् अव्यक्तम् एव च // BC_12.18

विकार इति (बुध्यस्व च्बुद्धिं तु विषयान् इन्द्रियाणि च पाणिपादं च वादं च पायूपस्थं तथा मनः // BC_12.19

अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति संज्ञि च क्षेत्रज्ञ इति चात्मानं कथयन्त्य् आत्मचिन्तकाः // BC_12.20

सशिष्यः कपिलश् चेह (प्रतिबुद्धिर् च्प्रतिबुद्ध )इति स्मृतिः स(पुत्रो ऽप्रतिबुद्धस् तु च्पुत्रः प्रतिबुद्धश् च प्रजापतिर् इहोच्यते // BC_12.21

जायते जीर्यते चैव (बाध्यते च्बुध्यते )म्रियते च यत् तद् व्यक्तम् इति विज्ञेयम् अव्यक्तं तु विपर्ययात् // BC_12.22

अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः स्थितो ऽस्मिंस् त्रितये (जन्तुस् च्यस् तु तत् सत्त्वं (नातिवर्तते च्नाभिवर्तते ) // BC_12.23

विप्रत्ययाद् अहंकारात् संदेहाद् अभिसंप्लवात् अविशेषानुपायाभ्यां सङ्गाद् अभ्यवपाततः // BC_12.24

तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते अन्यथा कुरुते कार्यं मन्तव्यं मन्यते ऽन्यथा // BC_12.25

ब्रवीम्य् अहम् अहं वेद्मि गच्छाम्य् अहम् अहं स्थितः इतीहैवम् अहंकारस् त्व् अनहंकार वर्तते // BC_12.26

यस् तु (भावान् असंदिग्धान् च्भावेन संदिग्धान् एकीभावेन पश्यति मृत्पिण्डवद् असंदेह संदेहः स इहोच्यते // BC_12.27

य एवाहं स एवेदं मनो बुद्धिश् च कर्म च यश् (चैवैष च्चैवं स )गणः सो ऽहम् इति यः सो ऽभिसंप्लवः // BC_12.28

अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः प्रकृतीनां च यो वेद सो ऽविशेष इति स्मृतः // BC_12.29

नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः अनुपाय इति प्राज्ञैर् उपायज्ञ प्रवेदितः // BC_12.30

सज्जते येन दुर्मेधा मनो(वाग्बुद्धिकर्मभिः च्वाक्कर्मबुद्धिभिः ) विषयेष्व् अनभिष्वङ्ग सो ऽभिष्वङ्ग इति स्मृतः // BC_12.31

ममेदम् अहम् अस्येति यद् दुःखम् अभिमन्यते विज्ञेयो ऽभ्यवपातः स संसारे येन पात्यते // BC_12.32

इत्य् अ(विद्यां च्विद्या )हि (विद्वान् स च्विद्वांसः [??] पञ्च(पर्वां च्पर्वा )समीहते तमो मोहं महामोहं तामिस्रद्वयम् एव च // BC_12.33

तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च महामोहस् त्व् असंमोह काम इत्य् (एव गम्यताम् चवगम्यताम् ) // BC_12.34

यस्माद् अत्र च भूतानि प्रमुह्यन्ति महान्त्य् अपि तस्माद् एष महाबाहो महामोह इति स्मृतः // BC_12.35

तामिस्रम् इति चाक्रोध क्रोधम् एवाधिकुर्वते विषादं चान्धतामिस्रम् अविषाद प्रचक्षते // BC_12.36

अनयाविद्यया बालः संयुक्तः पञ्चपर्वया संसारे दुःखभूयिष्ठे जन्मस्व् अभिनिषिच्यते // BC_12.37

द्रष्टा श्रोता च मन्ता च (कार्यकरणम् च्कार्यं करणम् )एव च अहम् इत्य् एवम् आगम्य संसारे परिवर्तते // BC_12.38

(इहैभिर् चित्य् एभिर् )हेतुभिर् धीमन् (जन्मच्तमः)स्रोतः प्रवर्तते हेत्व(भावात् च्भावे )फलाभाव इति विज्ञातुम् अर्हसि // BC_12.39

तत्र (सम्यङ्च्सम्यग्)मतिर् विद्यान् मोक्षकाम चतुष्टयम् प्रतिबुद्धाप्रबुद्धौ च व्यक्तम् अव्यक्तम् एव च // BC_12.40

यथावद् एतद् विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् (आजवंजवतां चार्जवं जवतां )हित्वा प्राप्नोति पदम् अक्षरम् // BC_12.41

इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च // BC_12.42

इति वाक्यम् इदं श्रुत्वा मुनेस् तस्य नृपात्मजः अभ्युपायं च पप्रच्छ पदम् एव च नैष्ठिकम् // BC_12.43

ब्रह्मचर्यम् इदं चर्यं यथा यावच् च यत्र च धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुम् अर्हति // BC_12.44

इत्य् अराडो यथाशास्त्रं विस्पष्टार्थं समासतः तम् एवान्येन कल्पेन धर्मम् अस्मै व्यभाषत // BC_12.45

अयम् आदौ गृहान् मुक्त्वा भैक्षाकं लिङ्गम् आश्रितः समुदाचारविस्तीर्णं शीलम् आदाय वर्तते // BC_12.46

संतोषं परम् आस्थाय येन तेन यतस् ततः विविक्तं सेवते वासं निर्द्वंद्वः शास्त्रवित्कृती // BC_12.47

ततो रागाद् भयं दृष्ट्वा वैराग्याच् च परं शिवम् निगृह्णन्न् इन्द्रियग्रामं यतते मनसः (शमे च्श्रमे ) // BC_12.48

अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च विवेकजम् अवाप्नोति पूर्वध्यानं वितर्कवत् // BC_12.49

तच् च (ध्यानसुखं च्ध्यानं सुखं )प्राप्य तत् तद् एव वितर्कयन् अपूर्वसुखलाभेन ह्रियते बालिशो जनः // BC_12.50

शमेनैवंविधेनायं कामद्वेषविगर्हिणा ब्रह्मलोकम् अवाप्नोति परितोषेण वञ्चितः // BC_12.51

ज्ञात्वा विद्वान् वितर्कांस् तु मनःसंक्षोभकारकान् तद्वियुक्तम् अवाप्नोति ध्यानं प्रीतिसुखान्वितम् // BC_12.52

ह्रियमाणस् तया प्रीत्या यो विशेषं न पश्यति स्थानं भास्वरम् आप्नोति देवेष्व् (आभास्वरेषु सः चाभासुरेष्व् अपि ) // BC_12.53

यस् तु प्रीतिसुखात् तस्माद् विवेचयति मानसम् tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam [ed. c reads 12.57 after 12.54.] // BC_12.54

यस् तु तस्मिन् सुखे मग्नो न विशेषाय यत्नवान् शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः // BC_12.55

तादृशं सुखम् आसाद्य यो न (रज्यत्य् उपेक्षकः च्रज्यन्न् उपेक्षते ) चतुर्थं ध्यानम् आप्नोति सुखदुःखविवर्जितम् // BC_12.56

तत्र केचिद् व्यवस्यन्ति मोक्ष इत्य् (अभिमानिनः चपि मानिनः ) सुखदुःखपरित्यागाद् अव्यापाराच् च चेतसः // BC_12.57

अस्य ध्यानस्य तु फलं समं देवैर् बृहत्फलैः कथयन्ति (बृहत्कालं $ बृहत्च्वृहत्फलं वृहत्)प्रज्ञापरीक्षकाः // BC_12.58

समाधेर् व्युत्थितस् तस्माद् दृष्ट्वा दोषांश् छरीरिणाम् ज्ञानम् आरोहति प्राज्ञः शरीरविनिवृत्तये // BC_12.59

ततस् तद् ध्यानम् उत्सृज्य विशेषे कृतनिश्चयः कामेभ्य इव (स प्राज्ञो च्सत्प्राज्ञो रूपाद् अपि विरज्यते // BC_12.60

शरीरे खानि यान्य् अस्मिन् तान्य् आदौ परिकल्पयन् घनेष्व् अपि ततो द्रव्येष्व् आकाशम् अधिमुच्यते // BC_12.61

आकाश(गतम् च्समम् )आत्मानं संक्षिप्य त्व् अपरो बुधः (तद् एवान्च्तदैवान्)अन्ततः पश्यन् विशेषम् अधिगच्छति // BC_12.62

अध्यात्म(कुशलस् त्व् च्कुशलेष्व् )अन्यो निवर्त्यात्मानम् आत्मना किंचिन् नास्तीति संपश्यन्न् आकिंचन्य इति स्मृतः // BC_12.63

ततो मुञ्जाद् इषीकेव शकुनिः पञ्जराद् इव क्षेत्रज्ञो निःसृतो देहान् मुक्त इत्य् अभिधीयते // BC_12.64

एतत् तत् परमं ब्रह्म निर्लिङ्गं ध्रुवम् अक्षरम् यन् मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः // BC_12.65

इत्य् उपायश् च मोक्षश् च मया संदर्शितस् तव यदि ज्ञातं यदि (रुचिर् च्रुचि यथावत् प्रतिपद्यताम् // BC_12.66

जैगीषव्यो ऽथ जनको वृद्धश् चैव पराशरः इमं पन्थानम् आसाद्य मुक्ता ह्य् अन्ये च मोक्षिणः // BC_12.67

इति तस्य स तद् वाक्यं गृहीत्वा (तु च्न )विचार्य च पूर्वहेतुबलप्राप्तः प्रत्युत्तरम् उवाच (ह च्सः ) // BC_12.68

श्रुतं ज्ञानम् इदं सूक्ष्मं परतः परतः शिवम् (क्षेत्रज्ञस्याच्क्षेत्रेष्व् अस्या)परित्यागाद् अवैम्य् एतद् अनैष्ठिकम् // BC_12.69

विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तम् अप्य् अहम् मन्ये प्रसवधर्माणं (बीजच्वीज)धर्माणम् एव च // BC_12.70

विशुद्धो यद्य् अपि ह्य् आत्मा निर्मुक्त इति कल्प्यते ((च्भूयः प्रत्ययसद्भावाद् अमुक्तः स भविष्यति च्)) // BC_12.71

((चृतुभूम्यम्बुविरहाद् यथा बीजं न रोहतिच्)) ((च्रोहति प्रत्ययैस् तैस् तैस् तद्वत् सो ऽपि मतो मम च्)) // BC_12.72

((च्यत् कर्माज्ञानतृष्णानां त्यागान् मोक्षश् च कल्प्यतेच्)) अत्यन्तस् तत्परित्यागः सत्य् आत्मनि न विद्यते // BC_12.73

हित्वा हित्वा त्रयम् इदं विशेषस् तूपलभ्यते आत्मनस् तु स्थितिर् यत्र तत्र सूक्ष्मम् इदं त्रयम् // BC_12.74

सूक्ष्मत्वाच् चैव दोषाणाम् अव्यापाराच् च चेतसः दीर्घत्वाद् आयुषश् चैव मोक्षस् तु परिकल्प्यते // BC_12.75

अहंकारपरित्यागो यश् चैष परिकल्प्यते सत्य् आत्मनि परित्यागो नाहंकारस्य विद्यते // BC_12.76

संख्यादिभिर् अमुक्तश् च निर्गुणो न भवत्य् अयम् तस्माद् असति नैर्गुण्ये नास्य मोक्षो ऽभिधीयते // BC_12.77

गुणिनो हि गुणानां च व्यतिरेको न विद्यते रूपोष्णाभ्यां विरहितो न ह्य् अग्निर् उपलभ्यते // BC_12.78

प्राग् देहान् न भवेद् देही प्राग् गुणेभ्यस् तथा गुणी (तस्माद् च्कस्माद् )आदौ विमुक्तः (सन् च्सञ् शरीरी बध्यते पुनः // BC_12.79

क्षेत्रज्ञो विशरीरश् च ज्ञो वा स्याद् अज्ञ एव वा यदि ज्ञो ज्ञेयम् अस्यास्ति ज्ञेये सति न मुच्यते // BC_12.80

अथाज्ञ इति सिद्धो वः कल्पितेन किम् आत्मना विनापि ह्य् आत्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् // BC_12.81

परतः परतस् त्यागो यस्मात् तु गुणवान् स्मृतः तस्मात् सर्वपरित्यागान् मन्ये कृत्स्नां कृतार्थताम् // BC_12.82

इति धर्मम् अराडस्य विदित्वा न तुतोष सः अकृत्स्नम् इति विज्ञाय ततः प्रतिजगाम ह // BC_12.83

विशेषम् अथ शुश्रूषुर् उद्रकस्याश्रमं ययौ आत्मग्राहाच् च तस्यापि जगृहे न स दर्शनम् // BC_12.84

संज्ञासंज्ञित्वयोर् दोषं ज्ञात्वा हि मुनिर् उद्रकः आकिंचिन्यात् परं लेभे (असंज्ञासंज्ञात्मिकां च्संज्ञासंज्ञात्मिकां )गतिम् // BC_12.85

यस्माच् चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परम् नासंज्ञी नैव संज्ञीति तस्मात् (तत्रगतच्तत्र गत)स्पृहः // BC_12.86

यतश् च बुद्धिस् तत्रैव स्थितान्यत्राप्रचारिणी (सूक्ष्मापट्वी च्सूक्ष्मापादि )ततस् तत्र नासंज्ञित्वं न संज्ञिता // BC_12.87

यस्माच् च (तद् च्तम् )अपि प्राप्य पुनर् आवर्तते जगत् बोधिसत्त्वः परं प्रेप्सुस् तस्माद् उद्रकम् अत्यजत् // BC_12.88

ततो हित्वाश्रमं तस्य श्रेयोअर्थी कृतनिश्चयः भेजे गयस्य राजर्1षेर् नगरीसंज्ञम् आश्रमम् // BC_12.89

अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः चकार वासम् एकान्त(विहाराभिरतिर् च्(विहाराभिव्रती )मुनिः // BC_12.90

((cxxx tatpūrvaṃ pañcendriyavaśoddhatānc)) ((ctapaḥ xx vratino bhikṣūn ... pañca niraikṣata c)) // BC_12.91

(ते चोपतस्थुर् च्पञ्चोपतस्थुर् )दृष्ट्वात्र भिक्षवस् तं मुमुक्षवः पुण्यार्जितधनारोग्यम् इन्द्रियार्था इवेश्वरम् // BC_12.92

संपूज्यमानस् तैः प्रह्वैर् (विनयाद् अनुवर्तिभिः च्विनयानतमूर्तिभिः ) तद्वशस्थायिभिः शिष्यैर् लोलैर् मन इवेन्द्रियैः // BC_12.93

मृत्युजन्मान्तकरणे स्याद् उपायो ऽयम् इत्य् अथ दुष्कराणि समारेभे तपांस्य् अनशनेन सः // BC_12.94

उपवासविधीन् नैकान् कुर्वन् नरदुराचरान् वर्षाणि षट् (शमच्कर्म)प्रेप्सुर् अकरोत् कार्श्यम् आत्मनः // BC_12.95

अन्नकालेषु चैकैकैः (स कोलच्सकोल)तिलतण्डुलैः अपारपारसंसारपारं प्रेप्सुर् अपारयत् // BC_12.96

देहाद् अपचयस् तेन तपसा तस्य यः कृतः स एवोपचयो भूयस् तेजसास्य कृतो ऽभवत् // BC_12.97

कृशो ऽप्य् अकृशकीर्तिश्रीर् ह्लादं चक्रे ऽन्य(चक्षुषाम् च्चक्षुषम् ) कुमुदानाम् इव शरच्छुक्लपक्षादिचन्द्रमाः // BC_12.98

त्वगस्थिशेषो निःशेषैर् मेदःपिशितशोणितैः क्षीणो ऽप्य् अक्षीणगाम्भीर्यः समुद्र इव स व्यभात् // BC_12.99

अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर् मुनिः भवभीरुर् इमां चक्रे बुद्धिम् बुद्धत्वकाङ्क्षया // BC_12.100

नायं धर्मो विरागाय न बोधाय न मुक्तये जम्बुमूले मया प्राप्तो यस् तदा स विधिर् ध्रुवः // BC_12.101

न चासौ दुर्बलेनाप्तुं शक्यम् इत्य् आगतादरः शरीरबलवृद्ध्यर्थम् इदं भूयो ऽन्वचिन्तयत् // BC_12.102

क्षुत्पिपासाश्रमक्लान्तः श्रमाद् अस्वस्थमानसः प्राप्नुयान् मनसावाप्यं फलं कथम् अनिर्वृतः // BC_12.103

निर्वृतिः प्राप्यते सम्यक् सततेन्द्रियतर्पणात् संतर्पितेन्द्रियतया मनःस्वास्थ्यम् अवाप्यते // BC_12.104

स्वस्थप्रसन्नमनसः समाधिर् उपपद्यते समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते // BC_12.105

ध्यानप्रवर्तनाद् धर्माः प्राप्यन्ते यैर् अवाप्यते दुर्लभं शान्तम् अजरं परं तद् अमृतं पदम् // BC_12.106

तस्माद् आहारमूलो ऽयम् उपाय इतिनिश्चयः (आहारचसूरि)करणे धीरः कृत्वामितमतिर् मतिम् // BC_12.107

स्नातो नैरञ्जनातीराद् उत्ततार शनैः कृशः भक्त्यावनतशाखाग्रैर् दत्तहस्तस् तटद्रुमैः // BC_12.108

अथ गोपाधिपसुता दैवतैर् अभिचोदिता उद्भूतहृदयानन्दा तत्र नन्दबलागमत् // BC_12.109

सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी सफेनमालानीलाम्बुर् यमुनेव सरिद्वरा // BC_12.110

सा (श्राद्धावर्धितच्श्रद्धावर्धित)प्रीतिर् विकसल्लोचनोत्पला शिरसा प्रणिपत्यैनं ग्राहयाम् आस पायसम् // BC_12.111

कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् बोधिप्राप्तौ समर्थो ऽभूत् संतर्पितषडिन्द्रियः // BC_12.112

पर्याप्ताप्यान(मूर्तिश् च्मूर्तश् )च (सार्थं स्वच्सार्धं सु)यशसा मुनिः कान्ति(धैर्ये बभारैकः $ शशाङ्कार्णवयोर् द्वयोः च्धैर्यैकभारैकः शशाङ्कार्णववल् बभौ ) // BC_12.113

आवृत्त इति विज्ञाय तं जहुः (पञ्च भिक्षवः च्पञ्चभिक्षवः ) मनीषिणम् इवात्मानं निर्मुक्तं (पञ्च धातवः च्पञ्चधातवः ) // BC_12.114

व्यवसायद्वितीयो ऽथ शाद्वलास् तीर्णभूतलम् सो ऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः // BC_12.115

ततस् तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः महामुनेर् आगतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् // BC_12.116

यथा मुने त्वच्चरणावपीडिता मुहुर् मुहुर् निष्टनतीव मेदिनी यथा च ते राजति सूर्यवत् प्रभा ध्रुवं त्वम् इष्टं फलम् अद्य भोक्ष्यसे // BC_12.117

यथा भ्रमन्त्यो दिवि (चाषच्वाय)पङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते यथा च सौम्या दिवि वान्ति वायवस् त्वम् अद्य बुद्धो नियतं भविष्यसि // BC_12.118

ततो भुजंगप्रवरेण संस्तुतस् तृणान्य् उपादाय शुचीनि लावकात् कृतप्रतिज्ञो निषसाद बोधये महातरोर् मूलम् उपाश्रितः शुचेः // BC_12.119

ततः स पर्यङ्कम् अकम्प्यम् उत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् भिनद्मि तावद् भुवि नैतद् आसनं न यामि यावत् कृतकृत्यताम् इति // BC_12.120

tato yayur mudam atulāṃ divaukaso (vavāśire cvavāsire )na mṛga(gaṇāḥ cgaṇā [wrong sandhi in ed. ejh.])na pakṣiṇaḥ न सस्वनुर् वनतरवो ऽनिलाहताः कृतासने भगवति (निश्चितात्मनि च्निश्चलात्मनि ) // BC_12.121

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये (चश्व-घोष-कृते च्)अराड-दर्शनो नाम द्वा-दशः सर्गः -- 12 --]]

तस्मिन् विमोक्षाय कृतप्रतिज्ञे राजर्1षिवंशप्रभवे महर्2षौ तत्रोपविष्टे प्रजहर्ष लोकस् तत्रास सद्धर्मरिपुस् तु मारः // BC_13.1

यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव कामप्रचाराधिपतिं तम् एव मोक्षद्विषं मारम् उदाहरन्ति // BC_13.2

तस्यात्मजा विभ्रमहर्षदर्पास् तिस्रो (अरतिच्रति)प्रीतितृषश् च कन्याः पप्रच्छुर् एनं मनसो विकारं स तांश् च ताश् चैव वचो (अभ्युवाच च्बभाषे ) // BC_13.3

असौ मुनिर् निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य जिगीषुर् आस्ते विषयान् मदीयान् तस्माद् अयं मे मनसो विषादः // BC_13.4

यदि ह्य् असौ माम् अभिभूय याति लोकाय चाख्यात्य् अपवर्गमार्गम् शून्यस् ततो ऽयं विषयो ममाद्य वृत्ताच् च्युतस्येव विदेहभर्तुः // BC_13.5

तद् यावद् एवैष न लब्धचक्षुर् मद्गोचरे तिष्ठति यावद् एव यास्यामि तावद् व्रतम् अस्य भेत्तुं सेतुं नदीवेग (इवातिवृद्धः चिवाभिवृद्धः ) // BC_13.6

ततो धनुः पुष्पमयं गृहीत्वा (शरान् जगन्मोहच्शरांस् तथा मोह)करांश् च पञ्च सो ऽश्वत्थमूलं ससुतो ऽभ्यगच्छद् अस्वास्थ्यकारी मनसः प्रजानाम् // BC_13.7

अथ प्रशान्तं मुनिम् आसनस्थं पारं तितीर्षुं भवसागरस्य विषज्य सव्यं करम् आयुधाग्रे (क्रीडन् च्क्रीडञ् )शरेणेदम् उवाच मारः // BC_13.8

उत्तिष्ठ भोः क्षत्रिय मृत्युभीत (चर स्वधर्मं च्वरस्व धर्मं )त्यज मोक्षधर्मम् (bāṇaiś cvāṇaiś )ca (yajñaiś ca cxxx )vinīya (lokaṃ clokān (lokāt padaṃ clokān parān )prāpnuhi vāsavasya // BC_13.9

पन्था हि निर्यातुम् अयं यशस्यो यो वाहितः पूर्वतमैर् नरेन्द्रैः जातस्य राजर्1षिकुले विशाले भैक्षाकम् अश्लाघ्यम् इदं प्रपत्तुम् // BC_13.10

अथाद्य नोत्तिष्ठसि (निश्चितात्मन् च्निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् मयोद्यतो ह्य् एष शरः स एव यः (शूर्पके च्सूर्यके )मीनरिपौ विमुक्तः // BC_13.11

(स्पृष्टः च्पृष्टः )स चानेन कथंचिद् ऐडः सोमस्य नप्ताप्य् अभवद् विचित्तः स चाभवच् (छंतनुर् च्छांतनुर् )अस्वतन्त्रः क्षीणे युगे किं (बत च्वत )दुर्बलो ऽन्यः // BC_13.12

तत् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञां (बाणो च्वाणो )ह्य् अयं तिष्ठति लेलिहानः प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्व् (इव चपि )नोत्सृजामि // BC_13.13

इत्य् एवम् उक्तो ऽपि यदा निरास्थो नैवासनं शाक्यमुनिर् बिभेद शरं ततो ऽस्मै विससर्ज मारः कन्याश् च कृत्वा पुरतः सुतांश् च // BC_13.14

तस्मिंस् तु (बाणे च्वाणे )अपि स विप्रमुक्ते चकार नास्थां न धृतेश् चचाल दृष्ट्वा तथैनं विषसाद मारश् चिन्तापरीतश् च शनैर् जगाद // BC_13.15

शैलेन्द्रपुत्रीं प्रति येन विद्धो देवो ऽपि शंभुश् चलितो बभूव न चिन्तयत्य् एष तम् एव (बाणं च्वाणं किं स्याद् अचित्तो न शरः स एषः // BC_13.16

तस्माद् अयं नार्हति पुष्प(बाणं च्वाणं न हर्षणं नापि रतेर् नियोगम् अर्हत्य् अयं भूतगणैर् अ(सौम्यैः च्शेषैः संत्रासनातर्जनताडनानि // BC_13.17

सस्मार मारश् च ततः स्वसैन्यं (विघ्नं शमे च्विध्वंसनं )शाक्यमुनेश् चिकीर्षन् नानाश्रयाश् चानुचराः परीयुः (शलच्शर)द्रुमप्रासगदासिहस्ताः // BC_13.18

वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्1क्षसिंहद्विरदाननाश् च एकेक्षणा नैकमुखास् त्रिशीर्षा लम्बोदराश् चैव पृषोदराश् च // BC_13.19

(अजानुसक्था चजासु सक्ता )घटजानवश् च दंष्ट्रायुधाश् चैव नखायुधाश् च (करङ्कवक्त्रा च्कबन्धुहस्ता )बहुमूर्तयश् च भग्नार्धवक्त्राश् च महामुखाश् च // BC_13.20

(भस्मारुणा च्ताम्रारुणा )लोहित(बिन्दुच्विन्दु)चित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः लम्बस्रजो वारणलम्बकर्णाश् चर्माम्बराश् चैव निरम्बराश् च // BC_13.21

श्वेतार्धवक्त्रा हरितार्धकायास् ताम्राश् च धूम्रा हरयो ऽसिताश् च (व्यालोत्तरासङ्गच्व्याडोत्तरासङ्ग)भुजास् तथैव प्रघुष्टघण्टाकुलमेखलाश् च // BC_13.22

तालप्रमाणाश् च गृहीतशूला दंष्ट्राकरालाश् च शिशुप्रमाणाः उरभ्रवक्त्राश् च विहं(गमाक्षा च्गमाश् च मार्जारवक्त्राश् च मनुष्यकायाः // BC_13.23

प्रकीर्णकेशाः शिखिनो ऽर्धमुण्डा (रक्ताम्बरा च्रज्ज्वम्बरा )व्याकुलवेष्टनाश् च प्रहृष्टवक्त्रा भृकुटीमुखाश् च तेजोहराश् चैव मनोहराश् च // BC_13.24

केचिद् व्रजन्तो भृशम् आववल्गुर् अन्योअन्यम् आपुप्लुविरे तथान्ये चिक्रीडुर् आकाशगताश् च केचित् केचिच् च चेरुस् तरुमस्तकेषु // BC_13.25

ननर्त कश्चिद् भ्रमयंस् त्रिशूलं कश्(चिद् विपुस्फूर्ज च्चिद् ध पुस्फूर्ज )गदां विकर्षन् हर्षेण कश्चिद् वृषवन् (ननर्द च्ननर्त कश्चित् प्रजज्वाल तनूरुहेभ्यः // BC_13.26

एवंविधा भूतगणाः समन्तात् तद् बोधिमूलं परिवार्य तस्थुः जिघृक्षवश् चैव जिघांसवश् च भर्तुर् नियोगं परिपालयन्तः // BC_13.27

तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्1षभस्यैव च युद्धकालम् न द्यौश् चकाशे पृथिवी चकम्पे प्रजज्वलुश् चैव दिशः सशब्दाः // BC_13.28

(विष्वग् च्विश्वग् )ववौ वायुर् उदीर्णवेगस् तारा न रेजुर् न बभौ शशाङ्कः तमश् च भूयो (विततान रात्रिः च्विततार रात्रेः सर्वे च संचुक्षुभिरे समुद्राः // BC_13.29

महीभृतो धर्मपराश् च नागा महामुनेर् विघ्नम् अमृष्यमाणाः मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश् चैव जजृम्भिरे च // BC_13.30

शुद्धाधिवासा विबुधर्1षयस् तु सद्धर्मसिद्ध्यर्थम् (अभिप्रवृत्ताः चिव प्रवृत्ताः ) मारे ऽनुकम्पां मनसा प्रचक्रुर् विरागभावात् तु न रोषम् ईयुः // BC_13.31

तद् बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन धर्मात्मभिर् लोकविमोक्षकामैर् बभूव हाहाकृतम् (अन्तरीक्षे चन्तरीक्षम् ) // BC_13.32

(उपप्लवं चुपप्लुतं )धर्म(विधेस् च्विदस् )तु तस्य दृष्ट्वा स्थितं मारबलं महर्2षिः न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः // BC_13.33

मारस् ततो भूतचमूम् उदीर्णाम् आज्ञापयाम् आस भयाय तस्य स्वैः स्वैः प्रभावैर् अथ सास्य सेना तद्धैर्यभेदाय मतिं चकार // BC_13.34

केचिच् चलन् नैकविलम्बिजिह्वास् (तीक्ष्णाग्रच्तीक्ष्णोग्र)दंष्ट्रा हरिमण्डलाक्षाः विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः // BC_13.35

तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः न विव्यथे नोद्विविजे महर्2षिः (क्रीडत्सुच्क्रीडन् सु)बालेभ्य इवोद्धतेभ्यः // BC_13.36

कश्चित् ततो (रोषच्रौद्र)विवृत्तदृष्टिस् तस्मै गदाम् उद्यमयां चकार तस्तम्भ बाहुः सगदस् ततो ऽस्य पुरंदरस्येव पुरा सवज्रः // BC_13.37

केचित् समुद्यम्य शिलास् तरूंश् च विषेहिरे नैव मुनौ विमोक्तुम् पेतुः सवृक्षाः सशिलास् तथैव वज्रावभग्ना इव विन्ध्यपादाः // BC_13.38

कैश्चित् समुत्पत्य नभो विमुक्ताः शिलाश् च वृक्षाश् च परश्वधाश् च तस्थुर् नभस्य् एव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः // BC_13.39

चिक्षेप तस्योपरि दीप्तम् अन्यः कडङ्गरं पर्वतशृङ्गमात्रम् यन् मुक्तमात्रं गगनस्थम् एव तस्यानुभावाच् छतधा (पफाल च्बभूव ) // BC_13.40

कश्चिज् जलन्न् अर्क इवोदितः खाद् अङ्गारवर्षं महद् उत्ससर्ज चूऋनानि चामीकरकन्दराणां कल्पात्यये मेरुर् इव प्रदीप्तः // BC_13.41

तद् बोधिमूले प्रविकीर्यमाणम् अङ्गारवर्षं तु सविस्फुलिङ्गम् मैत्रीविहाराद् ऋषिसत्तमस्य बभूव रक्तोत्पल(पत्त्रच्पत्र)वर्षः // BC_13.42

शरीरचित्तव्यसनातपैस् तैर् एवंविधैस् तैश् च निपात्यमानैः नैवासनाच् छआक्यमुनिश् चचाल (स्वनिश्चयं च्स्वं निश्चयं )बन्धुम् इवोपगुह्य // BC_13.43

अथापरे (निर्जिगिलुर् च्निर्जगलुर् )मुखेभ्यः सर्पान् विजीर्णेभ्य इव द्रुमेभ्यः ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर् (नोत्ससृपुर् च्नलुत्ससृजुर् )न चेलुः // BC_13.44

भूत्वापरे वारिधरा (बृहन्तः च्वृहन्तः सविद्युतः साशनिचण्डघोषाः तस्मिन् द्रुमे तत्यजुर् अश्मवर्षं तत् पुष्.पवर्षं रुचिरं बभूव // BC_13.45

चापे ऽथ (बाणो च्वाणो )निहितो ऽपरेण जज्वाल तत्रैव न निष्पपात अनीश्वरस्यात्मनि (धूयमानो च्धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः // BC_13.46

पञ्चेषवो ऽन्येन तु विप्रमुक्तास् तस्थुर् (नभस्य् च्नयत्य् )एव मुनौ न पेतुः संसारभीरोर् विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य // BC_13.47

जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्2षेः सो ऽप्राप्त(कामो च्कालो )विवशः पपात दोषेष्व् इवानर्थकरेषु लोकः // BC_13.48

स्त्री मेघकाली तु कपालहस्ता कर्तुं महर्2षेः किल (चित्तमोहम् च्मोहचित्तम् ) बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिर् इवागमेषु // BC_13.49

कश्चित् प्रदीप्तं प्रणिधाय चक्षुर् नेत्राग्निनाशीविषवद् दिधक्षुः तत्रैव (नासीनम् च्नासीत् तं )ऋषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् // BC_13.50

गुर्वीं शिलाम् उद्यमयंस् तथान्यः शश्राम मोघं विहतप्रयत्नः निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर् धर्मम् इवाप्तुकामः // BC_13.51

तरक्षुसिंहाकृतयस् तथान्ये प्रणेदुर् उच्चैर् महतः प्रणादान् सत्त्वानि यैः संचुकुचुः समन्ताद् वज्राहता द्यौः फलतीति मत्वा // BC_13.52

मृगा गजाश् (चार्तच्चार्त्त)रवान् सृजन्तो विदुद्रुवुश् चैव निलिल्यिरे च रात्रौ च तस्याम् अहनीव दिग्भ्यः खगा रुवन्तः परिपेतुर् (आर्ताः चार्त्ताः ) // BC_13.53

तेषां प्रणादैस् तु तथाविधैस् तैः सर्वेषु भूतेष्व् अपि कम्पितेषु मुनिर् न तत्रास न संचुकोच रवैर् गरुत्मान् इव वायसानाम् // BC_13.54

भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर् बिभाय तथा तथा धर्मभृतां सपत्नः शोकाच् च रोषाच् च (ससाद च्ससार )मारः // BC_13.55

भूतं ततः किंचिद् अदृश्यरूपं विशिष्ट(भूतं च्रूपं )गगनस्थम् एव दृष्ट्वर्9षये द्रुग्धम् अवैररुष्टं मारं बभाषे महता स्वरेण // BC_13.56

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.