Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

बुद्धचरित

Tác giả
अश्वघोष
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मताम् उत्सृज गच्छ शर्म नैष त्वया कम्पयितुं हि शक्यो महागिरिर् मेरुर् इवानिलेन // BC_13.57

अप्य् उष्णभावं ज्वलनः प्रजह्याद् आपो द्रवत्वं पृथिवी स्थिरत्वम् अनेककल्पाचितपुण्यकर्मा न त्व् एव जह्याद् व्यवसायम् एषः // BC_13.58

यो निश्चयो ह्य् अस्य पराक्रमश् च तेजश् च यद् या च दया प्रजासु अप्राप्य नोत्थास्यति तत्त्वम् एष तमांस्य् अहत्वेव सहस्ररश्मिः // BC_13.59

काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम् निर्बन्धिनः किं(चन नास्त्य् असाध्यं च्च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् // BC_13.60

तल् लोकम् (आर्तं चार्त्तं )करुणायमानो रोगेषु रागादिषु वर्तमानम् महा(भिषङ् च्भिषग् )नार्हति विघ्नम् एष ज्ञानौषधार्थं परिखिद्यमानः // BC_13.61

हृते च लोके बहुभिः कुमार्गैः सन्मार्गम् अन्विच्छति यः श्रमेण स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थए इव प्रनष्टे // BC_13.62

सत्त्वेषु नष्टेषु महान्ध(कारे च्कारैर् ज्ञानप्रदीपः क्रियमाण एषः आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस् तमसीव दीपः // BC_13.63

दृष्ट्वा च संसारमये महौघे मग्नं जगत् पारम् अविन्दमानम् यश् चेदम् उत्तारयितुं प्रवृत्तः (कश् चिन्तयेत् च्कश्चिन् नयेत् )तस्य तु पापम् आर्यः // BC_13.64

क्षमाशिफो धैर्यविगाढमूलश् चारित्रपुष्पः स्मृतिबुद्धिशाखः ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्य् अर्हति वर्धमानः // BC_13.65

बद्धां दृढैश् चेतसि मोहपाशैर् यस्य प्रजां मोक्षयितुं मनीषा तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः // BC_13.66

बोधाय कर्माणि हि यान्य् अनेन कृतानि तेषां नियतो ऽद्य कालः स्थाने तथास्मिन्न् उपविष्ट एष यथैव पूर्वे मुनयस् तथैव // BC_13.67

एषा हि नाभिर् वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना भूमेर् अतो ऽन्यो ऽस्ति हि न प्रदेशो (वेगं च्वेशं )समाधेर् (विषहेत यो ऽस्य च्विषयो हितस्य ) // BC_13.68

तन् मा कृथाः शोकम् उपेहि शान्तिं मा भून् महिम्ना तव मार मानः विश्रम्भितुं न क्षमम् अध्रुवा श्रीश् चले पदे (विस्मयम् च्किं पदम् )अभ्युपैषि // BC_13.69

ततः स संश्रुत्य च तस्य तद् वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् जगाम मारो वि(मनो च्मना )हतोद्यमः शरैर् जगच्चेतसि यैर् (विहन्यते च्विहन्यसे ) // BC_13.70

गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा दिशः प्रदुद्राव ततो ऽस्य सा चमूर् हताश्रयेव द्विषता द्विषच्चमूः // BC_13.71

द्रवति स(परिपक्षे च्परपक्षे )निर्जिते पुष्पकेतौ जयति जिततमस्के नीरजस्के महर्2षौ युवतिर् इव सहासा द्यौश् चकाशे सचन्द्रा सुरभि च जलगर्भं पुष्पवर्षं पपात // BC_13.72

x(ctathāpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśākaraḥ xdivo nipetur bhuvi puṣpavṛṣṭayo rarāja yoṣeva vikalmaṣā niśāc) // BC_13.73

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये ऽश्व-घोष-कृते मार-विजयो नाम त्रयो-दशः सर्गः -- 13 --]]

ततो मारबलं जित्वा धैर्येण च शमेन च परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः // BC_14.1

सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यम् उत्तमम् सस्मार प्रथमे यामे पूर्वजन्मपरंपराम् // BC_14.2

अमुत्राहम् अयं नाम च्युतस् तस्माद् इहागतः इति जन्मसहस्राणि सस्मारानुभवन्न् इव // BC_14.3

स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः // BC_14.4

कृत्वेह स्वजनोत्सर्गं पुनर् अन्यत्र च क्रियाः अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् // BC_14.5

इत्य् एवं स्मरतस् तस्य बभूव नियतात्मनः कदलीगर्भनिःसारः संसार इति निश्चयः // BC_14.6

द्वितीये त्व् आगते यामे सो ऽद्वितीयपराक्रमः दिव्यं (लेभे च्चक्षुः )परं (चक्षुः च्लेभे सर्वचक्षुष्मतां वरः // BC_14.7

ततस् तेन स दिव्येन परिशुद्धेन चक्षुषा ददर्श निखिलं लोकम् आदर्शए इव निर्मले // BC_14.8

सत्त्वानां पश्यतस् तस्य निकृष्टोत्कृष्टकर्मणाम् प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता // BC_14.9

इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे // BC_14.10

उपपन्नाः प्रतिभये नरके भृशदारुणे अमी दुःखैर् बहुविधैः पीड्यन्ते कृपणं (बत च्वत ) // BC_14.11

पाय्यन्ते क्वथितं केचिद् अग्निवर्णम् अयोरसम् आरोप्यन्ते रुवन्तो ऽन्ये निष्टप्तस्तम्भम् आयसम् // BC_14.12

पच्यन्ते पिष्टवत् केचिद् अयस्कुम्भीष्व् अवाङ्मुखाः दह्यन्ते करुणं केचिद् दीप्तेष्व् अङ्गारराशिषु // BC_14.13

केचित् तीक्ष्णैर् अयोदंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः केचिद् धृष्टैर् अयस्तुण्डैर् वायसैर् आयसैर् इव // BC_14.14

केचिद् दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः असि(पत्त्रवनं च्पत्रं वनं )नीलं बद्धा इव विशन्त्य् अमी // BC_14.15

पाट्यन्ते दारुवत् केचित् कुठारैर् (बद्धच्बहु)बाहवः दुःखे ऽपि न (विपच्यन्ते च्विपद्यन्ते कर्मभिर् धारितासवः // BC_14.16

सुखं स्याद् इति यत् कर्म कृतं दुःखनिवृत्तये फलं तस्येदम् अवशैर् दुःखम् एवोपभुज्यते // BC_14.17

सुखार्थम् अशुभं कृत्वा यए एते भृशदुःखिताः आस्वादः स किम् एतेषां करोति सुखम् अण्व् अपि // BC_14.18

हसद्भिर् यत् कृतं कर्म कलुषं कलुषात्मभिः एतत् परिणते काले क्रोशद्भिर् अनुभूयते // BC_14.19

यद्य् (एवं चेव )पापकर्माणः पश्येयुः कर्मणां फलम् वमेयुर् (उष्णं रुधिरं चुष्णरुधिरं मर्मस्व् अभिहता इव // BC_14.20

x(cśārīrebhyo 'pi duḥkhebhyo nārakebhyo manasvinaḥ xanāryaiḥ saha saṃvāso mama kṛcchramatamo mataḥ // 14.*20

इमे ऽन्ये कर्मभिश् चित्रैश् चित्तविस्पन्दसंभवैः तिर्यग्योनौ विचित्रायाम् उपपन्नास् तपस्विनः // BC_14.21

मांसत्वग्बालदन्तार्थं वैराद् अपि मदाद् अपि हन्यन्ते (कृपणं च्कृपणा )यत्र बन्धूनां पश्यताम् अपि // BC_14.22

अशक्नुवन्तो ऽप्य् अवशाः क्षुत्तर्षश्रमपीडिताः गोअश्वभूताश् च वाह्यन्ते प्रतोदक्षतमूर्तयः // BC_14.23

वाह्यन्ते गजभूताश् च बलीयांसो ऽपि दुर्बलैः अङ्कुशक्लिष्टमूर्धानस् ताडिताः पादपार्ष्णिभिः // BC_14.24

सत्स्व् अप्य् अन्येषु दुःखेषु दुःखं यत्र विशेषतः परस्परविरोधाच् च पराधीनतयैव च // BC_14.25

खस्थाः खस्थैर् हि बाध्यन्ते जलस्था जलचारिभिः स्थलस्थाः स्थलसंस्थैश् (च $ प्राप्य चैवेतरेतरैः च्तु प्राप्यन्ते चेतरेतरैः ) // BC_14.26

उपपन्नास् तथा चेमे मात्सर्याक्रान्तचेतसः पितृलोके निरालोके कृपणं भुञ्जते फलम् // BC_14.27

सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः क्षुत्तर्षजनितैर् दुःखैः पीड्यन्ते दुःखभागिनः // BC_14.28

आशया (समतिक्रान्ता च्समभिक्रान्ता धार्यमाणाः स्वकर्मभिः labhante na hy amī bhoktuṃ praviddhāny aśucīny api [this verse is placed after 14.30 in ed. c.] // BC_14.29

पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् सर्वथा (शिबिवद् च्शिविवद् )दद्याच् छरीरावयवान् अपि // BC_14.30

इमे ऽन्ये (नरकप्रख्ये च्नरकं प्राप्य गर्भसंज्ञे ऽशुचिह्रदे उपपन्ना मनुष्येषु दुःखम् अर्छन्ति जन्तवः // BC_14.31

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.