Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

बुद्धचरित

Tác giả
अश्वघोष
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अश्वघोष: बुद्धचरित

x(c śriyaṃ parārdhyāṃ vidadhad vidhātṛjit tamo nirasyann abhibhūtabhānubhṛt xnudan nidāghaṃ jitacārucandramāḥ sa vandyate 'rhann iha yasya nopamā c) // BC_1.1

x(cāsīd viśālonnatasānulakṣmyā payodapaṅktyeva parītapārśvaṃ xudagradhiṣṇyāṃ gagane 'vagāḍhaṃ puraṃ mahar2ṣeḥ kapilasya vastu c) // BC_1.2

x(csitonnateneva nayena hṛtvā kailāsaśailasya yad abhraśobhām xbhramād upetān vahadambuvāhān saṃbhāvanāṃ vā saphalīcakāra c) // BC_1.3

x(cratnaprabhodbhāsini yatra lebhe tamo na dāridryam ivāvakāśam xparārdhyapauraiḥ sahavāsatoṣāt kṛtasmitevātirarāja lakṣmīḥ c) // BC_1.4

तस्मिन् वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा शय्यां वितानोपहितां प्रपेदे नारीसहस्रैर् अभिनन्द्यमाना // BC_1.8

ततः प्रसन्नश् च बभूव पुष्यस् तस्याश् च देव्या व्रतसंस्कृतायाः पार्श्वात् सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च // BC_1.9

ऊरोर् यथौर्वस्य पृथोश् च हस्तान् मान्धातुर् इन्द्रप्रतिमस्य मूर्ध्नः कक्षीवतश् चैव भुजांसदेशात् तथाविधं तस्य बभूव जन्म // BC_1.10

x(cprātaḥ payodād iva tigmabhānuḥ samudbhavan so 'pi ca matṛkukṣeḥ xsphuran mayūkhair vihatāndhakāraiś cakāra lokaṃ kanakāvadātam c) // BC_1.26

x(ctaṃ jātamātram atha kāñcanayūpagauraṃ prītaḥ sahasranayaṇaḥ śanakair gṛhṇāt xmandārapuṣpanikaraiḥ saha tasya mūrdhni khān nirmale ca vinipetatur ambudhāre c) // BC_1.27

x(csurapradhānaiḥ paridhāryamāṇo dehāṃśujālair anurañjayaṃs tān xsaṃdhyābhrajāloparisaṃniviṣṭaṃ navoḍurājaṃ vijigāya lakṣmyā c) // BC_1.28

क्रमेण गर्भाद् अभिनिःसृतः सन् बभौ (च्युतः च्गतः )खाद् इव योन्यजातः कल्पेष्व् अन्(एकेषु च चेकेष्व् इव )भावितात्मा यः संप्रजानन् सुषुवे न मूढः // BC_1.11

दीप्त्या च धैर्येण (च यो च्श्रिया )रराज बालो रविर् भूमिम् इवावतीर्णः तथातिदीप्तो ऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः // BC_1.12

स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन् मुमोष महार्हजाम्बूनदचारुवर्णो विद्योतयाम् आस दिशश् च सर्वाः // BC_1.13

(अनाकुलान्युब्जचनाकुलान्य् अब्ज)समुद्गतानि (निष्पेषवद्व्यायतच्निष्पेषवन्त्य् आयत)विक्रमाणि तथैव धीराणि पदानि सप्त सप्तर्1षितारासदृशो जगाम // BC_1.14

बोधाय जातो ऽस्मि जगद्धितार्थम् अन्त्या (भवोत्पत्तिर् च्तथोत्पत्तिर् )इयं ममेति चतुर्दिशं सिंहगतिर् विलोक्य वाणीं च भव्यार्थकरीम् उवाच // BC_1.15

खात् प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये (शरीरसंस्पर्शसुखान्तराय च्शरीरसौख्यार्थम् अनुत्तरस्य निपेततुर् मूर्धनि तस्य सौम्ये // BC_1.16

श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् यद्गौरवात् काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः // BC_1.17

(च च्मायातनूजस्य )दिवौकसः खे यस्य प्रभावात् प्रणतैः शिरोभिः आधारयन् पाण्दरम् आतपत्रं बोधाय जेपुः परमाशिषश् च // BC_1.18

महोरगा धर्मविशेषतर्षाद् बुद्धेष्व् अतीतेषु कृताधिकाराः यम् अव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश् च // BC_1.19

तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश् च विशुद्धसत्त्वाः देवा ननन्दुर् विगते ऽपि रागे मग्नस्य दुःखे जगतो हिताय // BC_1.20

(यस्य प्रसूतौ च्यस्मिन् प्रसूते )गिरिराजकीला वाताहता नौर् इव भूश् चचाल सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर् (गगनाद् च्गगणाद् )अनभ्रात् // BC_1.21

वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्य् अवपातयन्तः सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिर् अनीरितो ऽग्निः // BC_1.22

प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुर् अभूत् सिताम्बुः अन्तःपुराण्य् आगतविस्मयानि यस्मिन् क्रियास् तीर्थए इव प्रचक्रुः // BC_1.23

धर्मार्थिभिर् भूतगणैश् च दिव्यैस् तद्दर्शनार्थं (वनम् आपुपूरे च्बलम् आप पूरः ) kautūhalenaiva ca pāda(pebhyaḥ cpaiś ca ) (puṣpāṇy akāle 'pi xxxxx cprapūjayām āsa sagandhapuṣ.paiḥ ) // BC_1.24

xxxx निदर्शनान्य् अत्र च नो निबोध // BC_1.40

यद् राजशास्त्रं भृगुर् अङ्गिरा वा न चक्रतुर् वंशकराव् ऋषी तौ तयोः सुतौ सौम्य ससर्जतुस् तत् कालेन शुक्रश् च बृहस्पतिश् च // BC_1.41

सारस्वतश् चापि जगाद नष्टं वेदं पुनर् यं ददृशुर् न पूर्वे व्यासस् तथैनं बहुधा चकार न यं वसिष्ठः कृतवान् अशक्तिः // BC_1.42

वाल्मीकिर् आदौ च ससर्ज पद्यं जग्रन्थ यन् न च्यवनो महर्2षिः चिकित्सितं यच् च चकार नात्रिः पश्चात् तद् आत्रेय ऋषिर् जगाद // BC_1.43

यच् च द्विजत्वं कुशिको न लेभे तद् गाधिनः सूनुर् अवाप राजन् वेलां समुद्रे सगरश् च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः // BC_1.44

आचार्यकं योगविधौ द्विजानाम् अप्राप्तम् अन्यैर् जनको जगाम ख्यातानि कर्माणि च यानि शौरेः शूरादयस् तेष्व् अबला बभूवुः // BC_1.45

तस्मात् प्रमाणं न वयो न (वंशः च्कालः कश्चित् क्वचिच् छ्रैष्ठ्यम् उपैति लोके राज्ञाम् ऋषीणां च (हि तानि छितानि )तानि कृतानि पुत्रैर् अकृतानि पूर्वैः // BC_1.46

एवं नृपः प्रत्ययितैर् द्विजैस् तैर् आश्वासितश् चाप्य् अभिनन्दितश् च शङ्काम् अनिष्टां विजहौ मनस्तः प्रहर्षम् एवाधिकम् आरुरोह // BC_1.47

प्रीतश् च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि भूयाद् अयं भूमिपतिर् यथोक्तो यायाज् जराम् एत्य वनानि चेति // BC_1.48

अथो निमित्तैश् च तपोबलाच् च तज् जन्म जन्मान्तकरस्य बुद्ध्वा शाक्येश्वरस्यालयम् आजगाम सद्धर्मतर्षाद् असितो महर्2षिः // BC_1.49

तं ब्रह्मविद्ब्रह्म(विदं च्विदां )ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च राज्ञो गुरुर् गौरवसत्क्रियाभ्यां प्रवेशयाम् आस नरेन्द्रसद्म // BC_1.50

स पार्थिवान्तःपुरसंनिकर्षं कुमारजन्मागतहर्ष(वेगः च्वेगं ) विवेश धीरो (वनसंज्ञयेव च्बलसंज्ञयैव तपःप्रकर्षाच् च जराश्रयाच् च // BC_1.51

ततो नृपस् तं मुनिम् आसनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक् निमन्त्रयाम् आस यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः // BC_1.52

धन्यो ऽस्म्य् अनुग्राह्यम् इदं कुलं मे यन् मां दिदृक्षुर् भगवान् उपेतः आज्ञाप्यतां किं करवाणि सौम्य शिष्यो ऽस्मि विश्रम्भितुम् अर्हसीति // BC_1.53

एवं नृपेणोपमन्त्रितः सन् सर्वेण भावेन मुनिर् यथावत् (स विस्मयोत्फुल्लच्सविस्मयोत्फुल्ल)विशालदृष्टिर् गम्भीरधीराणि वचांस्य् उवाच // BC_1.54

महात्मनि त्वय्य् उपपन्नम् एतत् प्रियातिथौ त्यागिनि धर्मकामे सत्त्वान्वयज्ञानवयोअनुरूपा स्निग्धा यद् एवं मयि ते मतिः स्यात् // BC_1.55

एतच् च तद् येन नृपर्1षयस् ते धर्मेण (सूक्ष्मेण धनान्य् अवाप्य च्सूक्ष्माणि धनान्य् अपास्य ) नित्यं त्यजन्तो विधिवद् बभूवुस् तपोभिर् आढ्या विभवैर् दरिद्राः // BC_1.56

प्रयोजनं यत् तु ममोपयाने तन् मे शृणु प्रीतिम् उपेहि च त्वम् दिव्या (मयादित्यच्मयादिव्य)पथे श्रुता वाग् बोधाय जातस् तनयस् तवेति // BC_1.57

श्रुत्वा वचस् तच् च मनश् च युक्त्वा ज्ञात्वा निमित्तैश् च ततो ऽस्म्य् उपेतः दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य // BC_1.58

इत्य् एतद् एवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिर् नरेन्द्रः आदाय धात्र्यङ्कगतं कुमारं संदर्शयाम् आस तपोधनाय // BC_1.59

चक्राङ्कपादं स (ततो च्तथा )महर्2षिर् जालावनद्धाङ्गुलिपाणिपादम् सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श // BC_1.60

धात्र्यङ्कसंविष्टम् अवेक्ष्य चैनं देव्यङ्कसंविष्टम् इवाग्निसूनुम् बभूव (पक्ष्मान्तविचञ्चिताश्रुर् च्पक्ष्मान्तर् इव अञ्चिताश्रुर् निश्वस्य चैव त्रिदिवोन्मुखो ऽभूत् // BC_1.61

दृष्ट्वासितं त्व् अश्रुपरिप्लुताक्षं स्नेहात् (तनूजस्य च्तु पुत्रस्य )नृपश् चकम्पे सगद्गदं बाष्पकषायकण्ठः पप्रच्छ (स च्च )प्राञ्जलिर् आनताङ्गः // BC_1.62

अल्पान्तरं यस्य वपुः (सुरेभ्यो च्मुनेः स्याद् बह्वद्भुतं यस्य च जन्म दीप्तम् यस्योत्तमं भाविनम् आत्थ चार्थं तं प्रेक्ष्य कस्मात् तव धीर बाष्पः // BC_1.63

अपि स्थिरायुर् भगवन् कुमारः कच्चिन् न शोकाय मम प्रसूतः (लब्धा च्लब्धः )कथंचित् सलिलाञ्जलिर् मे न खल्व् इमं पातुम् उपैति कालः // BC_1.64

अप्य् अक्षयं मे यशसो निधानं कच्चिद् ध्रुवो मे कुलहस्तसारः अपि प्रयास्यामि सुखं परत्र (सुप्तो ऽपि च्सुप्ते ऽपि )पुत्रे ऽनिमिषैकचक्षुः // BC_1.65

कच्चिन् न मे जातम् अफुल्लम् एव कुल(प्रवालं च्प्रबालं )परिशोषभागि क्षिप्रं विभो ब्रूहि न मे ऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् // BC_1.66

इत्य् आगतावेगम् अनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर् बभाषे मा भून् मतिस् ते नृप काचिद् अन्या निःसंशयं तद् यद् अवोचम् अस्मि // BC_1.67

नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवो ऽस्मि कालो हि मे यातुम् अयं च जातो जातिक्षयस्यासुलभस्य बोद्धा // BC_1.68

विहाय राज्यं विषयेष्व् अनास्थस् तीव्रैः प्रयत्नैर् अधिगम्य तत्त्वम् जगत्य् अयं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः // BC_1.69

दुःखार्णवाद् व्याधिविकीर्णफेनाज् जरातरङ्गान् मरणोग्रवेगात् उत्तारयिष्यत्य् अयम् उह्यमानम् (आर्तं चार्त्तं )जगज् ज्ञानमहाप्लवेन // BC_1.70

प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः // BC_1.71

दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः आख्यास्यति ह्य् एष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः // BC_1.72

विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन प्रह्लादम् आधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते // BC_1.73

तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानाम् अपयानहेतोः विपाटयिष्यत्य् अयम् उत्तमेन सद्धर्मताडेन दुरासदेन // BC_1.74

स्वैर् मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षम् एषः // BC_1.75

तन् मा कृथाः शोकम् इमं प्रति त्वम् (अस्मिन् स शोच्यो ऽस्ति च्तत् सौम्य शोच्ये हि )मनुष्यलोके मोहेन वा कामसुखैर् मदाद् वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् // BC_1.76

भ्रष्टस्य तस्माच् च गुणाद् अतो मे ध्यानानि लब्ध्वाप्य् अकृतार्थतैव धर्मस्य तस्या श्रवणाद् अहं हि मन्ये विपत्तिं त्रिदिवे ऽपि वासम् // BC_1.77

इति श्रुतार्थः ससुहृत् सदारस् त्यक्त्वा विषादं मुमुदे नरेन्द्रः एवंविधो ऽयं तनयो ममेति मेने स हि स्वाम् अपि (सारवत्ताम् च्सारमत्ताम् ) // BC_1.78

(आर्षेण चार्येण )मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार न खल्व् असौ न प्रियधर्मपक्षः संताननाशात् तु भयं ददर्श // BC_1.79

अथ मुनिर् असितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे सबहुमतम् उदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम // BC_1.80

कृत(मितिर् च्मतिर् )अनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च बहुविधम् अनुकम्पया स साधुः प्रियसुतवद् विनियोजयां चकार // BC_1.81

नरपतिर् अपि पुत्रजन्मतुष्टो विषय(गतानि च्मतानि )विमुच्य बन्धनानि कुलसदृशम् अचीकरद् यथावत् प्रिय(तनयस् च्तनयं )तनयस्य जातकर्म // BC_1.82

दशसु परिणतेष्व् अहःसु (चैव च्चैवं प्रयतमनाः परया मुदा परीतः अकुरुत जपहोममङ्गलाद्याः (परमभवाय च्परमतमाः स )सुतस्य देवतेज्याः // BC_1.83

अपि च शतसहस्रपूऋनसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः अनुपगतजराः पयस्विनीर् गाः स्वयम् अददात् सुतवृद्धये द्विजेभ्यः // BC_1.84

बहुविधविषयास् ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय गुणवति (नियते च्दिवसे )शिवे मुहूर्ते मतिम् अकरोन् मुदितः पुरप्रवेशे // BC_1.85

द्विरदरदमयीम् अथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम् अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः // BC_1.86

पुरम् अथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगताम् अपत्यनाथाम् नृपतिर् अपि जगाम पौरसंघैर् दिवम् अमरैर् मघवान् इवार्च्यमानः // BC_1.87

भवनम् अथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः इदम् इदम् इति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त // BC_1.88

इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् धनदपुरम् इवाप्सरसो ऽवकीर्णं मुदितम् अभून् नल(कूबरच्कूवर)प्रसूतौ // BC_1.89

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये भगवत्-प्रसूतिर् नाम प्रथमः सर्गः -- 1 --]]

आ जन्मनो जन्म(जरान्तगस्य च्जरान्तकस्य तस्यात्मजस्यात्मजितः स राजा अहन्य् अहन्य् अर्थगजाश्वमित्रैर् वृद्धिं ययौ सिन्धुर् इवाम्बुवेगैः // BC_2.1

धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य तदा हि (नैकान् स निधीन् अवाप च्नैकात्मनिधीन् अवापि मनोरथस्याप्य् अतिभारभूतान् // BC_2.2

ये पद्मकल्पैर् अपि च द्विपेन्द्रैर् न मण्डलं शक्यम् इहाभिनेतुम् मदोत्कटा हैमवता गजास् ते विनापि यत्नाद् उपतस्थुर् एनम् // BC_2.3

नानाङ्कचिह्नैर् नवहेमभाण्डैर् (विभूषितैर् चभूषितैर् )लम्बसटैस् तथान्यैः संचुक्षुभे चास्य पुरं तुरंगैर् बलेन मैत्र्या च धनेन चाप्तैः // BC_2.4

पुष्टाश् च तुष्टाश् च (तथास्य च्तदास्य )राज्ये साध्व्यो ऽरजस्का गुणवत्पयस्काः उदग्रवत्सैः सहिता बभूवुर् बह्व्यो बहुक्षीरदुहश् च गावः // BC_2.5

मध्यस्थतां तस्य रिपुर् जगाम मध्य(स्थच्स्व)भावः प्रययौ सुहृत्त्वम् विशेषतो दार्ढ्यम् इयाय मित्रं द्वाव् अस्य पक्षाव् अपरस् तु (नास च्नाशम् ) // BC_2.6

तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डल(मण्डिताभ्रः च्मण्डिताङ्गः ) विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः // BC_2.7

रुरोह (सस्यं च्संयक् )फलवद् यथर्2तु तदाकृतेनापि कृषिश्रमेण ता एव (चास्यौषधयो च्चैवौषधयो )रसेन सारेण चैवाभ्यधिका बभूवुः // BC_2.8

शरीरसंदेहकरे ऽपि काले संग्रामसंमर्दए इव प्रवृत्ते स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे (कालवशेन च्गर्भधराश् च )नार्यः // BC_2.9

(पृथग् व्रतिभ्यो च्यच् च प्रतिभ्वो )विभवे ऽपि (गर्ह्ये च्शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः अभ्यर्थितः सूक्ष्मधनो ऽपि (चार्यस् च्चायं तदा न कश्चिद् विमुखो बभूव // BC_2.10

(नागौरवो च्नाश वधो )बन्धुषु नाप्य् अदाता नैवाव्रतो नानृतिको न हिंस्रः आसीत् तदा कश्चन तस्य राज्ये राज्ञो ययातेर् इव नाहुस्.अस्य // BC_2.11

उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् चक्रुः क्रियास् तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गम् इवोपलभ्य // BC_2.12

मुक्तश् च दुर्भिक्षभयामयेभ्यो हृष्टो जनः (स्वर्गए च्स्वर्गम् )इवाभिरेमे पत्नीं पतिर् वा महिषी पतिं वा परस्परं न व्यभिचेरतुश् च // BC_2.13

कश्चित् सिषेवे रतये न कामं कामार्थम् अर्थं न जुगोप कश्चित् कश्चिद् धनार्थं न चचार धर्मं धर्माय कश्चिन् न चकार हिंसाम् // BC_2.14

स्तेयादिभिश् चाप्य् (अरिभिश् चभितश् )च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् क्षेमं सुभिक्षं च बभूव तस्य (पुरानरण्यस्य च्पुराण्य् अरण्यानि )यथैव राष्ट्रे // BC_2.15

तदा हि तज्जन्मनि तस्य राज्ञो मनोर् इवादित्यसुतस्य राज्ये चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम // BC_2.16

एवंविधा राज(कुलस्य संपत् च्सुतस्य तस्य सर्वार्थसिद्धिश् च यतो बभूव ततो नृपस् तस्य सुतस्य नाम सर्वार्थसिद्धो ऽयम् इति प्रचक्रे // BC_2.17

देवी तु माया विबुधर्1षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् जातं प्रहर्षं न शशाक सोढुं ततो (निवासाय चविनाशाय )दिवं जगाम // BC_2.18

ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् मातृष्वसा मातृसमप्रभावा संवर्धयाम् आत्मजवद् बभूव // BC_2.19

ततः स बालार्क इवोदयस्थः समीरितो वह्निर् इवानिलेन क्रमेण सम्यग् ववृधे कुमारस् ताराधिपः पक्षए इवातमस्के // BC_2.20

ततो महार्हाणि च चन्दनानि रत्नावलीश् चौषधिभिः सगर्भाः मृगप्रयुक्तान् रथकांश् च हैमान् आचक्रिरे ऽस्मै सुहृदालयेभ्यः // BC_2.21

वयोअनुरूपाणि च भूषणानि (हिरण्मयान् छिरण्मया )हस्ति(मृगाश्वकांश् च्मृगाश्वकाश् )च (रथांश् च्रथाश् )च (गोपुत्रकसंप्रयुक्तान् च्गावो वसनप्रयुक्ता (पुत्रीश् च्गन्त्रीश् )च चामीकररूप्यचित्राः // BC_2.22

एवं स तैस् तैर् विषयोपचारैर् वयोअनुरूपैर् उपचर्यमाणः बालो ऽप्य् अबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च // BC_2.23

वयश् च कौमारम् अतीत्य (सम्यक् च्मध्यं संप्राप्य (काले प्रतिपत्तिकर्म च्बालः स हि राजसूनुः ) अल्पैर् अहोभिर् बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः // BC_2.24

नैःश्रेयसं तस्य तु भव्यम् अर्थं श्रुत्वा पुरस्ताद् असितान् महर्2षेः कामेषु सङ्गं जनयां बभूव (वनानि यायाद् इति शाक्यराजः च्वृद्धिर् भवच्छाक्यकुलस्य राज्ञः ) // BC_2.25

कुलात् ततो ऽस्मै स्थिरशील(युक्तात् च्संयुतात् साध्वीं वपुर्ह्रीविनयोपपन्नाम् यशोधरां नाम यशोविशालां (वामाभिधानं च्तुल्याभिधानं )श्रियम् आजुहाव // BC_2.26

(विद्योतमानो वपुषा परेण चथापरं भूमिपतेः प्रियो ऽयं सनत्कुमारप्रतिमः कुमारः सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे // BC_2.27

किंचिन् मनःक्षोभकरं प्रतीपं (कथं न च्कथंच )पश्येद् इति सो ऽनुचिन्त्य वासं नृपो (व्यादिशति छ्य् आदिशति )स्म तस्मै हर्म्योदरेष्व् एव न भूप्रचारम् // BC_2.28

ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्व् इव राञ्जितेषु हर्म्येषु सर्वर्1तुसुखाश्रयेषु स्त्रीणाम् उदारैर् विजहार तूर्यैः // BC_2.29

कलैर् हि चामीकरबद्धकक्षैर् नारीकराग्राभिहतैर् मृदङ्गैः वराप्सरोनृत्यसमैश् च नृत्यैः कैलासवत् तद् भवनं रराज // BC_2.30

वाग्भिः कलाभिर् ललितैश् च (हावैर् छारैर् मदैः सखेलैर् मधुरैश् च हासैः तं तत्र नार्यो रमयां बभूवुर् भ्रूवञ्चितैर् अर्धनिरीक्षितैश् च // BC_2.31

(ततः स च्ततश् च )कामाश्रयपण्डिताभिः स्त्रीभिर् गृहीतो रतिकर्कशाभिः विमानपृष्ठान् न महीं जगाम विमानपृष्थाद् इव पुण्यकर्मा // BC_2.32

नृपस् तु तस्यैव विवृद्धिहेतोस् तद्भाविनार्थेन च चोद्यमानः शमे ऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून् // BC_2.33

नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् धृत्येन्द्रियाश्वांश् चपलान् विजिग्ये बन्धूंश् च पौरांश् च गुणैर् जिगाय // BC_2.34

नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत् तु तद् अध्यगीष्ट स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवम् आशशंसे // BC_2.35

(भं च्तं )भासुरं चाङ्गिरसाधिदेवं यथावद् आनर्च तदायुषे सः जुहाव हव्यान्य् अकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश् च // BC_2.36

सस्नौ शरीरं पवितुं मनश् च तीर्थाम्बुभिश् चैव गुणाम्बुभिश् च वेदोपदिष्टं समम् आत्मजं च सोमं पपौ शान्तिसुखं च हार्दम् // BC_2.37

सान्त्वं बभाषे न च नार्थवद् यज् जजल्प तत्त्वं न च विप्रियं यत् सान्त्वं ह्य् अतत्त्वं परुषं च तत्त्वं ह्रियाशकन् नात्मन एव वक्तुम् // BC_2.38

इष्टेष्व् अनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे शिवं सिषेवे (व्यवहारशुद्धं चव्यवहारलब्धं यज्ञं हि मेने न तथा (यथा तत् च्यथावत् ) // BC_2.39

आशावते चाभिगताय सद्यो देयाम्बुभिस् तर्षम् (अचेछिदिष्ट चचेच्छिदिष्ट ) युद्धाद् ऋते वृत्तपरश्वधेन द्विड्दर्पम् उद्वृत्तम् अबेभिदिष्ट // BC_2.40

एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् // BC_2.41

कृतागसो ऽपि प्रतिपाद्य वध्यान् नाजीघनन् नापि रुषा ददर्श बबन्ध सान्त्वेन फलेन चैतांस् त्यागो ऽपि तेषां ह्य् (अनयाय दृष्टः चनपायदृष्टः ) // BC_2.42

आर्षाण्य् अचारीत् परमव्रतानि वैराण्य् अहासीच् चिरसंभृतानि यशांसि चापद्गुणगन्धवन्ति रजांस्य् (अहार्षीन् चहासीन् )मलिनीकराणि // BC_2.43

न चाजिहीर्षीद् बलिम् अप्रवृत्तं न चाचिकीर्षीत् परवस्त्वभिध्याम् न चाविवक्षीद् द्विषताम् अधर्मं न (चाविवक्षीद् च्चादिधक्षीद् )धृदयेन मन्युम् // BC_2.44

तस्मिंस् तथा भूमिपतौ प्रवृत्ते भृत्याश् च पौराश् च तथैव चेरुः शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि // BC_2.45

काले ततश् चारुपयोधरायां यशोधरायां (स्वच्सु)यशोधरायाम् शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना // BC_2.46

अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द // BC_2.47

(पुत्रस्य च्पौत्रस्य )मे पुत्रगतो (ममेव च्ममैव स्नेहः कथं स्याद् इति जातहर्षः काले स तं तं विधिम् आललम्बे पुत्रप्रियः स्वर्गम् इवारुरुक्षन् // BC_2.48

स्थित्वा पथि प्राथमकल्पिकानां राजर्1षभाणां यशसान्वितानाम् शुक्लान्य् अमुक्त्वापि तपांस्य् अतप्त (यज्ञैश् च्यज्ञे )च हिंसारहितैर् अयष्ट // BC_2.49

अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च कुलेन वृत्तेन धिया च दीप्तस् तेजः सहस्रांशुर् इवोत्सिसृक्षुः // BC_2.50

स्वायंभुवं चार्चिकम् अर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले // BC_2.51

तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे वशीव कंचिद् विषयं न भेजे पितेव सर्वान् विषयान् ददर्श // BC_2.52

बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु स्वर्गाय शब्दं दिवम् आत्महेतोर् धर्मार्थम् आत्मस्थितिम् आचकाङ्क्ष // BC_2.53

एवं स धर्मं विविधं चकार सद्भिर् निपातं श्रुतितश् च सिद्धम् दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायाद् इति नाथमानः // BC_2.54

रिरक्षिषन्तः श्रियम् आत्म(संस्थां च्संस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद् (विषयेषु मुञ्चन् च्विषयेष्व् अमुञ्चत् ) // BC_2.55

वनम् अनुपमसत्त्वा बोधिसत्त्वास् तु सर्वे विषयसुखरसज्ञा जग्मुर् उत्पन्नपुत्राः अत उपचितकर्मा रूढमूले ऽपि हेतौ स रतिम् उपसिषेवे बोधिम् (आपन् न यावत् चापन्नयावत् ) // BC_2.56

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये ऽन्तः-पुर-विहारो नाम द्वितीयः सर्गः -- 2 --]]

ततः कदाचिन् मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि शुश्राव पद्माकरमण्डितानि (गीतैर् च्शीते )निबद्धानि स काननानि // BC_3.1

श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् बहिःप्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः // BC_3.2

ततो नृपस् तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य स्नेहस्य लक्ष्म्या वयसश् च योग्याम् आज्ञापयाम् आस विहारयात्राम् // BC_3.3

निवर्तयाम् आस च राजमार्गे संपातम् आर्तस्य पृथग्जनस्य मा भूत् कुमारः सुकुमारचित्तः संविग्नचेता (इति चिव )मन्यमानः // BC_3.4

प्रत्यङ्गहीनान् विकलेन्द्रियांश् च जीर्णातुरादीन् कृपणांश् च (दिक्षु च्भिक्षून् ) ततः समुत्सार्य परेण साम्ना शोभां (परां च्परा )राजपथस्य चक्रुः // BC_3.5

ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः प्रासादपृष्ठाद् अवतीर्य काले कृताभ्यनुज्ञो नृपम् अभ्यगच्छत् // BC_3.6

अथो नरेन्द्रः सुतम् आगताश्रुः शिरस्य् उपाघ्राय चिरं निरीक्ष्य गच्छेति चाज्ञापयति स्म वाचा स्नेहान् न चैनं मनसा मुमोच // BC_3.7

ततः स जाम्बूनदभाण्डभृद्भिर् युक्तं चतुर्भिर् निभृतैस् तुरंगैः अक्लीब(विद्वच्च्विद्युच्)छुचिरश्मिधारं हिरण्मयं स्यन्दनम् आरुरोह // BC_3.8

ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् मार्गं प्रपेदे सदृशानुयात्रश् चन्द्रः सनक्षत्र इवान्तरीक्षम् // BC_3.9

कौतूहलात् स्फीततरैश् च नेत्रैर् (नीलोत्पलार्धैर् च्नीलोत्पलाभैर् )इव (कीर्यमाणम् च्कीर्यमाणः ) शनैः शनै राजपथं जगाहे पौरैः समन्ताद् अभिवीक्ष्यमाणः // BC_3.10

तं तुष्टुवुः सौम्यगुणेन केचिद् ववन्दिरे दीप्ततया तथान्ये सौमुख्यतस् तु श्रियम् अस्य केचिद् वैपुल्यम् आशंसिषुर् आयुषश् च // BC_3.11

निःसृत्य कुब्जाश् च महाकुलेभ्यो व्यूहाश् च कैरातकवामनानाम् नार्यः कृशेभ्यश् च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः // BC_3.12

ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात् प्रवृत्तिम् दिदृक्षया हर्म्यतलानि जग्मुर् जनेन मान्येन कृताभ्यनुज्ञाः // BC_3.13

ताः स्रस्तकाञ्चीगुणविघ्निताश् च सुप्तप्रबुद्धाकुललोचनाश् च वृत्तान्तविन्यस्तविभूषणाश् च (कौतूहलेनानिभृताः च्कौतूहलेनापि भृताः )परीयुः // BC_3.14

प्रासादसोपानतलप्रणादैः काञ्चीरवैर् नूपुरनिस्वनैश् च (वित्रासयन्त्यो च्विभ्रामयन्त्यो )गृहपक्षिसंघान् अन्योअन्यवेगांश् च समाक्षिपन्त्यः // BC_3.15

कासांचिद् आसां तु वराङ्गनानां जातत्वराणाम् अपि सोत्सुकानाम् गतिं गुरुत्वाज् जगृहुर् विशालाः श्रोणीरथाः पीनपयोधराश् च // BC_3.16

शीघ्रं समर्थापि तु गन्तुम् अन्या गतिं निजग्राह ययौ न तूर्णम् (ह्रियाप्रगल्भा विनिगूहमाना छ्रिया प्रगल्भानि निगूहमाना (रहःप्रयुक्तानि च्रहः प्रयुक्तानि )विभूषणानि // BC_3.17

परस्परोत्पीडनपिण्डितानां संमर्द(संक्षोभितच्संशोभित)कुण्डलानाम् तासां तदा सस्वनभूषणानां वातायनेष्व् अप्रशमो बभूव // BC_3.18

वातायनेभ्यस् तु विनिःसृतानि परस्(परायासितच्परोपासित)कुण्डलानि स्त्रीणां विरेजुर् मुखपङ्कजानि सक्तानि हर्म्येष्व् इव पङ्कजानि // BC_3.19

ततो विमानैर् युवती(करालैः च्कलापैः कौतूहलोद्घाटितवातयानैः श्रीमत् समन्तान् नगरं बभासे वियद्विमानैर् इव साप्सरोभिः // BC_3.20

वातायनानाम् अविशालभावाद् अन्योअन्यगण्डार्पितकुण्डलानाम् मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलापा इव पङ्कजानाम् // BC_3.21

(तं ताः च्तस्मिन् )कुमारं पथि वीक्षमाणाः स्त्रियो बभुर् गाम् इव गन्तुकामाः ऊर्ध्वोन्मुखाश् चैनम् उदीक्षमाणा नरा बभुर् द्याम् इव गन्तुकामाः // BC_3.22

दृष्ट्वा च तं राजसुतं स्त्रियस् ता जाज्वल्यमानं वपुषा श्रिया च धन्यास्य भार्येति शनैर् अवोचञ् शुद्धैर् मनोभिः खलु नान्यभावात् // BC_3.23

अयं किल व्यायतपीनबाहू रूपेण साक्षाद् इव पुष्पकेतुः त्यक्त्वा श्रियं धर्मम् उपैष्यतीति तस्मिन् (हि ता छिता )गौरवम् एव चक्रुः // BC_3.24

कीर्णं तथा राजपथं कुमारः पौरैर् विनीतैः शुचिधीरवेषैः तत् पूर्वम् आलोक्य जहर्ष किंचिन् मेने पुनर्भावम् इवात्मनश् च // BC_3.25

पुरं तु तत् स्वर्गम् इव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य // BC_3.26

ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् उवाच संग्राहकम् आगतास्थस् तत्रैव निष्कम्पनिविष्टदृष्टिः // BC_3.27

क एष भोः सूत नरो ऽभ्युपेतः केशैः सितैर् यष्टिविषक्तहस्तः भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर् यदृच्छा // BC_3.28

इत्य् एवम् उक्तः स रथप्रणेता निवेदयाम् आस नृपात्मजाय संरक्ष्यम् अप्य् अर्थम् अदोषदर्शी तैर् एव देवैः कृतबुद्धिमोहः // BC_3.29

रूपस्य (हन्त्री छर्त्री )व्यसनं बलस्य शोकस्य योनिर् निधनं रतीनाम् नाशः स्मृतीनां रिपुर् इन्द्रियाणाम् एषा जरा नाम ययैष भग्नः // BC_3.30

पीतं ह्य् अनेनापि पयः शिशुत्वे कालेन भूयः (परिसृप्तम् च्परिमृष्टम् )उर्व्याम् क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जराम् उपेतः // BC_3.31

इत्य् एवम् उक्ते चलितः स किंचिद् राजात्मजः सूतम् इदं बभाषे किम् एष दोषो भविता ममापीत्य् अस्मै ततः सारथिर् अभ्युवाच // BC_3.32

आयुष्मतो ऽप्य् एष वयः(प्रकर्षो च्प्रकर्षान् निःसंशयं कालवशेन भावी एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति (चैव च्चैष )लोकः // BC_3.33

ततः स पूर्वाशयशुद्धबुद्धिर् विस्तीर्णकल्पाचितपुण्यकर्मा श्रुत्वा जरां संविविजे महात्मा महाशनेर् घोषम् इवान्तिके गौः // BC_3.34

निःश्वस्य दीर्घं (स्वशिरः च्स शिरः )प्रकम्प्य तमिंश् च जीर्णे विनिवेश्य चक्षुः तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स (संविग्न च्संविग्नम् )इदं जगाद // BC_3.35

एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च न चैव संवेगम् उपैति लोकः प्रत्यक्षतो ऽपीदृशम् ईक्षमाणः // BC_3.36

एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्य् एव भवान् प्रयातु उद्यानभूमौ हि कुतो रतिर् मे जरा(भये च्भवे )चेतसि वर्तमाने // BC_3.37

अथाज्ञया भर्तृसुतस्य तस्य निवर्तयाम् आस रथं नियन्ता ततः कुमारो भवनं तद् एव चिन्तावशः शून्यम् इव प्रपेदे // BC_3.38

यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर् जगाम // BC_3.39

अथापरं व्याधिपरीतदेहं तए एव देवाः ससृजुर् मनुष्यम् दृष्ट्वा च तं सारथिम् आबभाषे शौद्धोदनिस् तद्गतदृष्टिर् एव // BC_3.40

स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्दुगात्रः अम्बेति वाचं करुणं ब्रुवाणः परं (समाश्रित्य च्समाश्लिष्य )नरः क एषः // BC_3.41

ततो ऽब्रवीत् सारथिर् अस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः रोगाभिधानः सुमहान् अनर्थः (शक्तो च्शक्रो )अपि येनैष कृतो ऽस्वतन्त्रः // BC_3.42

इत्य् ऊचिवान् राजसुतः स भूयस् तं सानुकम्पो नरम् ईक्षमाणः asyaiva (jāto cjātaḥ [sic; wrong sandhi in ehj])pṛthag eṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // BC_3.43

ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः एवं हि रोगैह् परिपीड्यमानो रुजातुरो हर्षम् उपैति लोकः // BC_3.44

इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण // BC_3.45

इदं च रोगव्यसनं प्रजानां पश्यंश् च विश्रम्भम् उपैति लोकः (विस्तीर्णम् अज्ञानम् च्विस्तीर्णविज्ञानम् )अहो नराणां हसन्ति ये रोगभयैर् अमुक्ताः // BC_3.46

निवर्त्यतां सूत (बहिःच्वहिः)प्रयाणान् नरेन्द्रसद्मैव रथः प्रयातु श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः // BC_3.47

ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश (वेश्म च्सद्म ) तं द्विस् तथा प्रेक्ष्य च संनिवृत्तं (पर्येषणं च्पुर्य् आगमं )भूमिपतिश् चकार // BC_3.48

श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तम् आत्मानम् अनेन मेने मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टो ऽपि च नोग्रदण्डः // BC_3.49

भूयश् च तस्मै विदधे सुताय विशेषयुक्तं विषय(प्रचारम् च्प्रकारम् ) चलेन्द्रियत्वाद् अपि (नाम सक्तो च्नापि शक्तो नास्मान् विजह्याद् इति नाथमानः // BC_3.50

यदा च शब्दादिभिर् इन्द्रियार्थैर् अन्तःपुरे नैव सुतो ऽस्य रेमे ततो (बहिर् च्वहिर् )व्यादिशति स्म यात्रां रसान्तरं स्याद् इति मन्यमानः // BC_3.51

स्नेहाच् च भावं तनयस्य बुद्ध्वा (स रागच्संवेग)दोषान् अविचिन्त्य कांश्चित् योग्याः समाज्ञापयति स्म तत्र कलास्व् अभिज्ञा इति वारमुख्याः // BC_3.52

ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च (व्यत्यस्य च्व्यत्यास्य )सूतं च रथं च राजा प्रस्थापयाम् आस बहिः कुमारम् // BC_3.53

ततस् तथा गच्छति राजपुत्रे तैर् एव देवैर् विहितो गतासुः तं चैव मार्गे मृतम् उह्यमानं सूतः कुमारश् च ददर्श नान्यः // BC_3.54

अथाब्रवीद् राजसुतः स सूतं नरैश् चतुर्भिर् ह्रियते क एषः dīnair manuṣyair anugamyamāno (x bhūṣitaś cāpy cyo bhūṣito 'śvāsy )avarudyate ca // BC_3.55

ततः स शुद्धात्मभिर् एव देवैः शुद्धाधिवासैर् अभिभूतचेताः अवाच्यम् अप्य् अर्थम् इमं नियन्ता (प्रव्याजहारार्थवदीश्वराय च्प्रव्याजहारार्थविद् ईश्वराय ) // BC_3.56

बुद्धीन्द्रियप्राणगुणैर् वियुक्तः सुप्तो विसंज्ञस् तृणकाष्ठभूतः (संवर्ध्य च्संबध्य )संरक्ष्य च यत्नवद्भिः (प्रियप्रियैस् च्प्रियाप्रियैस् )त्यज्यतए एष को ऽपि // BC_3.57

इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिद् उवाच चैनम् किं (केवलो ऽस्यैव च्केवलस्यैव )जनस्य धर्मः सर्वप्रजानाम् अयम् ईदृशो ऽन्तः // BC_3.58

ततः प्रणेता वदति स्म तस्मै सर्वप्रजानाम् (इदम् चयम् )अन्त(कर्म च्कर्मा ) हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः // BC_3.59

ततः स धीरो ऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण // BC_3.60

इयं च निष्ठा (नियता च्नियतं )प्रजानां प्रमाद्यति त्यक्तभयश् च लोकः मनांसि शङ्के कठिनानि नॄणां स्वस्थास् तथा ह्य् अध्वनि वर्तमानाः // BC_3.61

तस्माद् (रथः च्रथं )सूत निवर्त्यतां नो विहार(भूमेर् च्भूमौ )न हि देशकालः जानन् विनाशं कथम् (आर्तिचार्त्ति)काले सचेतनः स्याद् इह हि प्रमत्तः // BC_3.62

इति ब्रुवाणे ऽपि नराधिपात्मजे निवर्तयाम् आस स नैव तं रथम् विशेषयुक्तं तु नरेन्द्रशासनात् स पद्मषण्डं वनम् एव निर्ययौ // BC_3.63

ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् विमानवत् (स कमलच्सकमल)चारुदीर्घिकं ददर्श तद् वनम् इव नन्दनं वनम् // BC_3.64

वराङ्गनागणकलिलं नृपात्मजस् ततो बलाद् वनम् (अतिनीयते चभिनीयते )स्म तत् वराप्सरो(वृतम् च्नृत्यम् )अलकाधिपालयं नवव्रतो मुनिर् इव विघ्नकातरः // BC_3.65

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये संवेगो1त्पत्तिर् नाम तृतीयः सर्गः -- 3 --]]

ततस् तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः $ प्रत्युज्जग्मुर् नृपसुतं प्राप्तं वरम् इव स्त्रियः // BC_4.1

अभिगम्य च तास् तस्मै विस्मयोत्फुल्ललोचनाः चक्रिरे समुदाचारं पद्मकोशनिभैः करैः // BC_4.2

तस्थुश् च परिवार्यैनं मन्मथाक्षिप्तचेतसः निश्चलैः प्रितिविकचैः पिबन्त्य इव लोचनैः // BC_4.3

तं हि ता मेनिरे नार्यः कामो विग्रहवान् इति शोभितं लक्षणैर् दीप्तैः सहजैर् भूषणैर् इव // BC_4.4

सौम्यत्वाच् चैव धैर्याच् च काश्चिद् एनं प्रजज्ञिरे अवतीर्णो महीं साक्षाद् (गूढांशुश् च्सुधांशुश् )चन्द्रमा (इति चिव ) // BC_4.5

तस्य ता वपुषाक्षिप्ता (निगृहीतं च्निर्ग्रहीतुं )जजृम्भिरे अन्योअन्यं दृष्टिभिर् (हत्वा च्गत्वा शनैश् च विनिशश्वसुः // BC_4.6

एवं ता दृष्टिमात्रेण नार्यो ददृशुर् एव तम् न व्याजह्रुर् न जहसुः प्रभावेणास्य यन्त्रिताः // BC_4.7

तास् तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः पुरोहितसुतो धीमान् उदायी वाक्यम् अब्रवीत् // BC_4.8

सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः रूपचातुर्यसंपन्नाः स्वगुणैर् मुख्यतां गताः // BC_4.9

(शोभयेत च्शोभयेत )गुणैर् एभिर् अपि तान् उत्तरान् कुरून् कुवेरस्यापि (चाक्रीडं च्च क्रीडं प्राग् एव वसुधाम् इमाम् // BC_4.10

शक्ताश् चालयितुं यूयं वीतरागान् ऋषीन् अपि अप्सरोभिश् च कलितान् ग्रहीतुं विबुधान् अपि // BC_4.11

भावज्ञानेन हावेन (रूपचातुर्यच्चातुर्या रूप)संपदा स्त्रीणाम् एव च शक्ताः स्थ संरागे किं पुनर् नृणाम् // BC_4.12

तासाम् एवंविधानां वो (वियुक्तानां च्नियुक्तानां )स्वगोचरे इयम् एवंविधा चेष्टा न तुष्टो ऽस्म्य् आर्जवेन वः // BC_4.13

इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम् सदृशं चेष्टितं हि स्याद् अपि वा गोपयोषिताम् // BC_4.14

(यद् च्यद्य् )अपि स्याद् अयं (धीरः च्वीरः श्रीप्रभावान् महान् इति स्त्रीणाम् अपि महत् तेज इतः कार्यो ऽत्र निश्चयः // BC_4.15

पुरा हि काशिसुन्दर्या वेशवध्वा महान् ऋषिः ताडितो ऽभूत् (पदा व्यासो च्पदन्यासाद् दुर्धर्षो (देवतैर् च्दैवतैर् )अपि // BC_4.16

मन्थालगौतमो भिक्षुर् जङ्घया (वारच्बाल)मुख्यया पिप्रीषुश् च तदर्थार्थं व्यसून् निरहरत् पुरा // BC_4.17

गौतमं दीर्घतपसं महर्2षिं दीर्घजीविनम् योषित् संतोषयाम् आस वर्णस्थानावरा सती // BC_4.18

ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्व् अपण्डितम् उपायैर् विविधैः शान्ता जग्राह च जहार च // BC_4.19

विश्वामित्रो महर्2षिश् च विगाढो ऽपि (महत् तपः च्महत्तपाः ) (दश वर्षाण्य् अहर् मेने च्दशवर्षाण्य् अरण्यस्थो घृताच्याप्सरसा हृतः // BC_4.20

एवमादीन् ऋषींस् तांस् तान् अनयन् विक्रियां स्त्रियः ललितं पूर्ववयसं किं पुनर् नृपतेः सुतम् // BC_4.21

तद् एवं सति विश्रब्धं प्रयतध्वं तथा यथा इयं नृपस्य वंशश्रीर् इतो न स्यात् पराङ्मुखी // BC_4.22

या हि काश्चिद् युवतयो हरन्ति सदृशं जनम् nikṛṣṭotkṛṣṭayor bhāvaṃ yā gṛhṇanti (tā tu [wrong sandhi in ehj??] ctu tāḥ )striyaḥ // BC_4.23

इत्य् उदायिवचः श्रुत्वा ता विद्धा इव योषितः समारुरुहुर् आत्मानं कुमारग्रहणं प्रति // BC_4.24

ता भ्रूभिः प्रेक्षितैर् (हावैर् च्भावैर् हसितैर् (लडितैर् च्ललितैर् )गतैः चक्रुर् आक्षेपिकाश् चेष्टा भीतभीता इवाङ्गनाः // BC_4.25

राज्ञस् तु विनियोगेन कुमारस्य च मार्दवात् (जहुः च्जह्रुः )क्षिप्रम् अविश्रम्भं मदेन मदनेन च // BC_4.26

अथ नारीजनवृतः कुमारो व्यचरद् वनम् वासितायूथसहितह् करीव हिमवद् वनम् // BC_4.27

स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः आक्रीडए इव (विभ्राजे च्बभ्राजे विवस्वान् अप्सरोवृतः // BC_4.28

मदेनावर्जिता नाम तं काश्चित् तत्र योषितः कठिनैः पस्पृशुः पीनैः (संहतैर् च्संघट्टैर् )वल्गुभिः स्तनैः // BC_4.29

स्रस्तांसकोमलालम्बमृदुबाहुलताबला अनृतं स्खलितं काचित् कृत्वैनं सस्वजे बलात् // BC_4.30

काचित् ताम्राधरौष्ठेन मुखेनासवगन्धिना विनिशश्वास कर्णे ऽस्य रहस्यं श्रूयताम् इति // BC_4.31

काचिद् आज्ञापयन्तीव प्रोवाचार्द्रानुलेपना इह भक्तिं कुरुष्वेति (हस्तसंश्लेषलिप्सया छस्तं संश्लिष्य लिप्सया ) // BC_4.32

मुहुर् मुहुर् मदव्याजस्रस्तनीलांशुकापरा आलक्ष्यरशना रेजे स्फुरद्विद्युद् इव क्षपा // BC_4.33

काश्चित् कनककाञ्चीभिर् मुखराभिर् इतस् ततः बभ्रमुर् दर्शयन्त्यो ऽस्य श्रोणीस् तन्वंशुकावृताः // BC_4.34

चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् // BC_4.35

काचित् पद्मवनाद् एत्य सपद्मा पद्मलोचना पद्मवक्त्रस्य पार्श्वे ऽस्य पद्मश्रीर् इव तस्थुषी // BC_4.36

मधुरं गीतम् अन्वर्थं काचित् साभिनयं जगौ तं स्वस्थं चोदयन्तीव वञ्चितो ऽसीत्य् अवेक्षितैः // BC_4.37

शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा प्रावृत्यानुचकारास्य चेष्टितं (धीरच्वीर)लीलया // BC_4.38

पीनवल्गुस्तनी काचिद् (धासाघूर्णितच्वाताघूर्णित)कुण्डला उच्चैर् अवजहासैनं समाप्नोतु भवान् इति // BC_4.39

अपयान्तं तथैवान्या बबन्धुर् माल्यदामभिः काश्चित् साक्षेपमधुरैर् जगृहुर् वचनाङ्कुशैः // BC_4.40

प्रतियोगार्थिनी काचिद् गृहीत्वा चूतवल्लरीम् इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा // BC_4.41

काचित् पुरुषवत् कृत्वा गतिं संस्थानम् एव च उवाचैनं जितः स्त्रीभिर् जय भो पृथिवीम् इमाम् // BC_4.42

अथ लोलेक्सणा काचिज् जिघ्रन्ती नीलम् उत्पलम् किंचिन्मदकलैर् वाक्यैर् नृपात्मजम् अभाषत // BC_4.43

पश्य भर्तश् चितं चूतं कुसुमैर् मधुगन्धिभिः हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति // BC_4.44

अशोको दृश्यताम् एष कामिशोकविवर्धनः रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना // BC_4.45

चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया // BC_4.46

फुल्लं (कुरुबकं च्कुरुवकं )पश्य (निर्भुक्तालक्तकच्निर्मुक्तालक्तक)प्रभम् यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः // BC_4.47

बालाशोकश् च निचितो दृश्यताम् एष पल्लवैः यो ऽस्माकं हस्तशोभाभिर् लज्जमान इव स्थितः // BC_4.48

दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः पाण्डुरांशुकसंवीतां शयानां प्रमदाम् इव // BC_4.49

दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्य् असौ जले पृष्ठतः प्रेष्यवद् भार्याम् अनुवर्त्य् अनुगच्छति // BC_4.50

मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः अपरः कोकिलो (अन्वक्षं प्रतिश्रुत्केव चनुत्कः प्रतिश्रुत्येव )कूजति // BC_4.51

अपि नाम विहंगानां (वसन्तेनाहृतो च्वसन्तेनाहितो )मदः न तु (चिन्तयतो ऽचिन्त्यं च्चिन्तयतश् चित्तं जनस्य प्राज्ञमानिनः // BC_4.52

इत्य् एवं ता युवतयो मन्मथोद्दामचेतसः कुमारं विविधैस् तैस् तैर् उपचक्रमिरे नयैः // BC_4.53

एवम् आक्षिप्यमाणो ऽपि स तु धैर्यावृतेन्द्रियः मर्तव्यम् इति सोद्वेगो न जहर्ष न (विव्यथे च्सिस्मिये ) // BC_4.54

तासां (तत्त्वे ऽनवस्थानं च्तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः (समं विग्नेन च्ससंविग्नेन )धीरेण चिन्तयाम् आस चेतसा // BC_4.55

किं (व् इमा च्विना )नावगच्छन्ति चपलं यौवनं स्त्रियः यतो रूपेण (संमत्तं जरा यन् च्संपन्नं जरेयं )नाशयिष्यति // BC_4.56

नूनम् एता न पश्यन्ति कस्यचिद् रोगसंप्लवम् तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि // BC_4.57

अनभिज्ञाश् च सुव्यक्तं मृत्योः सर्वापहारिणः (ततः च्तथा )स्वस्था निर्(उद्विग्नाः चुद्वेगाः क्रीडन्ति च हसन्ति च // BC_4.58

जरां (व्याधिं च मृत्युं च्मृत्युं च व्याधिं )च को हि जानन् सचेतनः स्वस्थस् तिष्ठेन् निषीदेद् वा (शयेद् च्सुपेद् )वा किं पुनर् हसेत् // BC_4.59

यस् तु दृष्ट्वा परं जीर्णं व्याधितं मृतम् एव च स्वस्थो भवति नोद्विग्नो यथाचेतास् तथैव सः // BC_4.60

वियुज्यमाने (हि चपि )तरौ पुष्पैर् अपि फलैर् अपि पतति च्छिद्यमाने वा तरुर् अन्यो न शोचते // BC_4.61

इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् उदायी नीतिशास्त्रज्ञस् तम् उवाच सुहृत्तया // BC_4.62

अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल यस्मात् त्वयि विवक्षा मे तया प्रणयवत्तया // BC_4.63

अहितात् प्रतिषेधश् च हिते चानुप्रवर्तनम् व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणम् // BC_4.64

सो ऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात् पराङ्(मुखः च्मुखम् ) यदि (त्वा समुपेक्षेय च्त्वां समुपेक्षेयं न भवेन् मित्रता मयि // BC_4.65

तद् ब्रवीमि सुहृद् भूत्वा तरुणस्य वपुष्मतः इदं न प्रतिरूपं ते स्त्रीष्व् अदाक्षिण्यम् ईदृशम् // BC_4.66

अनृतेनापि नारीणां युक्तं समनुवर्तनम् तद्व्रीडापरिहारार्थम् आत्मरत्यर्थम् एव च // BC_4.67

संनतिस् चानुवृत्तिश् च स्त्रीणां हृदयबन्धनम् स्नेहस्य हि गुणा योनिर् मानकामाश् च योषितः // BC_4.68

तद् अर्हसि विशालाक्ष हृदये ऽपि पराङ्मुखे रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् // BC_4.69

दाक्षिण्यम् औषधं स्त्रीणां दाक्षिण्यं भूषणं परम् दाक्षिण्यरहितं रूपं निष्पुष्पम् इव काननम् // BC_4.70

किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः विषयान् दुर्लभांल् लब्ध्वा न ह्य् अवज्ञातुम् अर्हसि // BC_4.71

कामं परम् इति ज्ञात्वा देवो ऽपि हि पुरंदरः गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा // BC_4.72

अगस्त्यः प्रार्थयाम् आस सोमभार्यां च रोहिणीम् तस्मात् तत्स(दृशीं च्दृशं )लेभे लोपामुद्राम् इति श्रुतिः // BC_4.73

(उतथ्यस्य चौतथ्यस्य )च भार्यायां ममतायां महा(तपः च्तपाः ) मारुत्यां जनयाम् आस भरद्वाजं (बृहस्च्वृहस्)पतिः // BC_4.74

(बृहस्च्वृहस्)पतेर् महिष्यां च जुह्वत्यां जुह्वतां वरः बुधं विबुध(कर्माणं च्धर्माणं जनयाम् आस चन्द्रमाः // BC_4.75

कालीम् चैव पुरा कन्यां जलप्रभवसंभवाम् जगाम यमुनातीरे जातरागः पराशरः // BC_4.76

मातङ्ग्याम् अक्षमालायां गर्हितायां रिरंसया कपिञ्जलादं तनय्.अम् वसिष्ठो ऽजनयन् मुनिः // BC_4.77

ययातिश् चैव राजर्1षिर् वयस्य् अपि विनिर्गते विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने // BC_4.78

स्त्रीसंसर्गं विनाशान्तं पाण्डुर् ज्ञात्वापि कौरवः माद्रीरूपगुणाक्षिप्तः सिषेवे कामजम् सुखम् // BC_4.79

करालजनकश् चैव हृत्वा ब्राह्मणकन्यकाम् अवाप भ्रंशम् अप्य् (एवं चेव न तु (सेजे न च्त्यजेच् च )मन्मथम् // BC_4.80

एवमाद्या महात्मानो विषयान् गर्हितान् अपि रतिहेतोर् बुभुजिरे प्राग् एव गुणसंहितान् // BC_4.81

त्वं पुनर् न्यायतः प्राप्तान् बलवान् रूपवान् युवा विषयान् अवजानासि यत्र सक्तम् इदं जगत् // BC_4.82

इति श्रुत्वा वचस् तस्य श्लक्ष्णम् आगमसंहितम् मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत // BC_4.83

उपपन्नम् इदं वाक्यं सौहार्दव्यञ्जकं त्वयि अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे // BC_4.84

नावजानामि (विषयान् च्विषयाञ् जाने लोकं तदात्मकम् अनित्यं तु जगन् मत्वा नात्र मे रमते मनः // BC_4.85

जरा व्याधिश् च मृत्युश् च यदि न स्याद् इदं त्रयम् ममापि हि मनोज्ञेषु विषयेषु रतिर् भवेत् // BC_4.86

नित्यं यद्य् अपि हि स्त्रीणाम् एतद् एव वपुर् भवेत् (दोषवत्स्व् अपि च्ससंवित्कस्य )कामेषु (कामं रज्येत मे मनः च्तथापि न रतिः क्षमा ) // BC_4.87

यदा तु (जरयापीतं च्जरया पीतं रूपम् आसां भविष्यति आत्मनो ऽप्य् अनभिप्रेतं मोहात् तत्र रतिर् भवेत् // BC_4.88

मृत्युव्याधिजरा(धर्मा च्धर्मो मृत्युव्याधिजरात्मभिः रममाणो (ह्य् चप्य् )असंविग्नः समानो मृगपक्षिभिः // BC_4.89

यद् अप्य् आत्थ महात्मानस् ते ऽपि कामात्मका इति संवेगो (अत्रैव चत्र न )कर्तव्यो यदा तेषाम् अपि क्षयः // BC_4.90

माहात्म्यं न च तन् मन्ये यत्र सामान्यतः क्षयः विषयेषु प्रसक्तिर् वा युक्तिर् वा नात्मवत्तया // BC_4.91

यद् अप्य् आत्थानृतेनापि स्त्रीजने वर्त्यताम् इति अनृतं नावगच्छामि दाक्षिण्येनापि किंचन // BC_4.92

न चानुवर्तनं तन् मे रुचितं यत्र नार्जवम् सर्वभावेन संपर्को यदि नास्ति धिग् अस्तु तत् // BC_4.93

(अध्र्टेः चनृते )श्रद्दधानस्य सक्तस्यादोषदर्शिनः किं हि वञ्चयितव्यं स्याज् जातरागस्य चेतसः // BC_4.94

वञ्चयन्ति च यद्य् (एवं चेव जातरागाः परस्परम् ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः // BC_4.95

तद् एवं सति दुःखार्तं जरामरण(भागिनम् च्भोगिनम् ) न मां कामेष्व् अनार्येषु प्रतारयितुम् अर्हसि // BC_4.96

अहो ऽतिधीरं बलवच् च ते मनश् चलेषु कामेषु च सारदर्शिनः भये (अतितीव्रे चपि तीव्रे )विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः // BC_4.97

अहं पुनर् भीरुर् अतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तम् इवाग्निना जगत् // BC_4.98

असंशयं मृत्युर् इति प्रजानतो नरस्य रागो हृदि यस्य जायते अयोमयीं तस्य परैमि चेतनां महाभये (रज्यति च्रक्षति )यो न रोदिति // BC_4.99

अथो कुमारश् च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तम् इयाय भास्करः // BC_4.100

ततो वृथाधारितभूषणस्रजः कलागुणैश् च प्रणयैश् च निष्फलैः स्वए एव भावे विनिगृह्य मन्मथं पुरं ययुर् भग्नमनोरथाः स्त्रियः // BC_4.101

ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः // BC_4.102

ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सो ऽन्यत् कामेभ्यो नियमनम् अपश्यत् सुतमतेः // BC_4.103

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये स्त्री-विघातनो नाम चतुर्थः सर्गः -- 4 --]]

स तथा विषयैर् विलोभ्यमानः (परमार्हैर् च्परमोहैर् )अपि शाक्यराजसूनुः न जगाम (धृतिं च्रतिं )न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः // BC_5.1

अथ मन्त्रिसुतैः क्षमैः कदाचित् सखिभिश् चित्रकथैः कृतानुयात्रः वनभूमिदिदृक्षया शमेप्सुर् नरदेवानुमतो (बहिः च्वहिः )प्रतस्थे // BC_5.2

नवरुक्मखलीनकिङ्किणीकं प्रचलच्चामरचारुहेमभाण्डम् अभिरुह्य स (कन्थकं च्कण्ठकं )सदश्वं प्रययौ केतुम् इव द्रुमाब्जकेतुः // BC_5.3

स (विकृष्टतरां च्निकृष्टतरां )वनान्तभूमिं वनलोभाच् च ययौ मही(गुणाच् च च्गुणेच्छुः ) सलिलोउर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् // BC_5.4

हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमि(कीटच्काण्ड)जन्तुकीर्णाम् समवेक्ष्य रसां तथाविधां तां स्वजनस्येव (वधे च्बधे )भृशं शुशोच // BC_5.5

कृषतः पुरुषांश् च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान् वहनक्लमविक्लवांश् च धुर्यान् परमार्यः परमां कृपां चकार // BC_5.6

अवतीर्य ततस् तुरंगपृष्ठाच् छनकैर् गां (व्यचरच् छुचा च्व्यचरत् शुचा )परीतः जगतो जननव्ययं विचिन्वन् कृपणं खल्व् इदम् इत्य् उवाच (चार्तः च्चार्त्तः ) // BC_5.7

मनसा च विविक्तताम् अभीप्सुः सुहृदस् तान् अनुयायिनो निवार्य (अभितश् चलचभितारल)चारुपर्णवत्या विजने मूलम् उपेयिवान् स जम्ब्वाः // BC_5.8

निषसाद (स यत्र शौचवत्यां च्च पत्रखोरवत्यां भुवि (वैडूर्यच्वैदूर्य)निकाशशाद्वलायाम् जगतः प्रभवव्ययौ (विचिन्वन् च्विचिन्त्य मनसश् च स्थितिमार्गम् आललम्बे // BC_5.9

समवाप्तमनःस्थितिश् च सद्यो विषयेच्छादिभिर् आधिभिश् च मुक्तः सवितर्कविचारम् आप शान्तं प्रथमं ध्यानम् अन्(आस्रवचाश्रव)प्रकारम् // BC_5.10

अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं ((च्मनःच्))समाधिम् इदम् एव ततः परं प्रदध्यौ मनसा लोकगतिं (निशाम्य च्निशम्य )सम्यक् // BC_5.11

कृपणं (बत च्वत )यज् जनः स्वयं सन्न् अ(वशो च्रसो )व्याधिजराविनाश(धर्मा च्धर्मः ) जरयार्दितम् आतुरं मृतं वा परम् अज्ञो विजुगुप्सते मदान्धः // BC_5.12

इह चेद् अहम् ईदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम् न भवेत् सदृशं हि तत् क्षमं वा परमं धर्मम् इमं विजानतो मे // BC_5.13

इति तस्य विपश्यतो यथावज् जगतो व्याधिजराविपत्तिदोषान् बलयौवनजीवित(प्रवृत्तो च्प्रवृत्तौ विजगामात्मगतो मदः क्षणेन // BC_5.14

न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे न च कामगुणेषु संररञ्जे न (विदिद्वेष च्च दिद्वेष )परं न चावमेने // BC_5.15

इति बुद्धिर् इयं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा पुरुषैर् अपरैर् अदृश्यमानः पुरुषश् चोपससर्प भिक्षु(वेषः च्वेशः ) // BC_5.16

नरदेवसुतस् तम् अभ्यपृच्छद् वद को ऽसीति शशंस सो ऽथ तस्मै (नरपुंच्स च पुं)गव जन्ममृत्युभीतः श्रमणः प्रव्रजितो ऽस्मि मोक्षहेतोः // BC_5.17

जगति क्षयधर्मके मुमुक्षुर् मृगये ऽहं शिवम् अक्षयं पदं तत् स्व(जने ऽन्यजने च तुल्यच्जनो ऽन्यजनैर् अतुल्य)बुद्धिर् विषयेभ्यो विनि.व्र्त्तरागदोषः // BC_5.18

निवसन् क्वचिद् एव वृक्षमूले विजने वायतने गिरौ वने वा विचराम्य् अपरिग्रहो निराशः परमार्थाय यथोपपन्न(भैक्षः च्भिक्षुः ) // BC_5.19

इति पश्यत एव राजसूनोर् इदम् उक्त्वा स नभः समुत्पपात स हि तद्वपुर् अन्य(बुद्धच्बुद्धि)दर्शी स्मृतये तस्य समेयिवान् दिवौकाः // BC_5.20

गगनं खगवद् गते च तस्मिन् नृवरः संजहृषे विसिस्मिये च उपलभ्य ततश् च धर्मसंज्ञाम् अभिनिर्याणविधौ मतिं चकार // BC_5.21

तत इन्द्रसमो (जितेन्द्रियाश्वः च्जितेन्द्रियश् च प्रविविक्षुः (पुरम् अश्वम् च्परमाश्वम् )आरुरोह (परिवारजनं च्परिवर्त्य जनं )त्व् अवेक्षमाणस् तत एवाभिमतं वनं न भेजे // BC_5.22

स जरामरणक्षयं चिकीर्षुर् वनवासाय मतिं स्मृतौ निधाय प्रविवेश पुनः पुरं न कामाद् वनभूमेर् इव मण्डलं द्विपेन्द्रः // BC_5.23

सुखिता (बत च्वत )निर्वृता च सा स्त्री पतिर् ई(दृक्ष इहायताक्ष च्दृक् त्वम् इवायताक्ष )यस्याः इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर् जगाद // BC_5.24

अथ घोषम् इमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे (श्रुतवान् स च्श्रुतवांश् च )हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार // BC_5.25

अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्1षभबाहुनिस्वनाक्षः क्षयम् अक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे // BC_5.26

मृगराजगतिस् ततो ऽभ्यगच्छन् नृपतिं मन्त्रिगणैर् उपास्यमानम् समितौ मरुताम् इव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः // BC_5.27

प्रणिपत्य च साञ्जलिर् बभाषे दिश मह्यं नरदेव साध्व् अनुज्ञाम् परिविव्रजिषामि मोक्षहेतोर् नियतो ह्य् अस्य जनस्य विप्रयोगः // BC_5.28

इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश् चचाल कमलप्रतिमे ऽञ्जलौ गृहीत्वा वचनं चेदम् उवाच (बाष्पच्वाष्प)कण्ठः // BC_5.29

प्रतिसंहर तात बुद्धिम् एतां न हि कालस् तव धर्मसंश्रयस्य वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् // BC_5.30

विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्व् असमर्थनिश्चयस्य तरुणस्य मनश् चलत्य् अरण्याद् अनभिज्ञस्य विशेषतो (विवेके चविवेकम् ) // BC_5.31

मम तु प्रियधर्म धर्मकालस् त्वयि लक्ष्मीम् अवसृज्य (लक्ष्मच्लक्ष्य)भूते स्थिरविक्रम विक्रमेण धर्मस् तव हित्वा तु गुरुं भवेद् अधर्मः // BC_5.32

तद् इमं व्यवसायम् उत्सृज त्वं भव तावन् निरतो गृहस्थधर्मे पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः // BC_5.33

इति वाक्यम् इदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे यदि मे प्रतिभूश् चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये // BC_5.34

न भवेन् मरणाय जीवितं मे विहरेत् स्वास्थ्यम् इदम् च मे न रोगः न च यौवनम् आक्षिपेज् जरा मे न च संपत्तिम् (इमां हरेद् चपाहरेद् )विपत्तिः // BC_5.35

इति दुर्लभम् अर्थम् ऊचिवांसं तनय्.अम् वाक्यम् उवाच शाक्यराजः त्यज बुद्धिम् (इमाम् अतिचिमां गति)प्रवृत्ताम् अवहास्यो ऽतिमनो(रथो ऽच्रथ)क्रमश् च // BC_5.36

अथ मेरुगुरुर् गुरुं बभाषे यदि नास्ति क्रम एष (नास्मि च्नास्ति )वार्यः शरणाज् ज्वलनेन दह्यमानान् न हि (निश्चिक्रमिषुः च्निश्चिक्रमिषुं )क्षमं ग्रहीतुम् // BC_5.37

जगतश् च (यदा च्यथा )ध्रुवो वियोगो (ननु च्न तु )धर्माय वरं (स्वयंवियोगः च्त्व् अयं वियोगः ) अवशं ननु विप्रयोजयेन् माम् अकृतस्वार्थम् अतृप्तम् एव मृत्युः // BC_5.38

इति भूमिपतिर् निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः अभिधाय न यास्यतीति भूयो विदधे रक्षणम् उत्तमांश् च कामान् // BC_5.39

सचिवैस् तु निदर्शितो यथावद् बहुमानात् प्रणयाच् च शास्त्रपूर्वम् गुरुणा च निवारितो ऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् // BC_5.40

चलकुण्दलचुम्बिताननाभिर् घननिश्वासविकम्पितस्तनीभिः वनिताभिर् अधीरलोचनाभिर् मृगशावाभिर् इवाभ्युदीक्ष्यमाणः // BC_5.41

स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम् श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर् जहार // BC_5.42

विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः तिमिरं विजिघांसुर् आत्मभासा रविर् उद्यन्न् इव मेरुम् आरुरोह // BC_5.43

कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनम् आसनं सिषेवे // BC_5.44

तत उत्तमम् (उत्तमाङ्गनास् तं चुत्तमाश् च नार्यो निशि तूर्यैर् उपतस्थुर् इन्द्रकल्पम् हिमवच्छिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजम् अप्सरोगणौघाः // BC_5.45

परमैर् अपि दिव्यतूर्यकल्पैः स तु तैर् नैव रतिं ययौ न हर्षम् परमार्थसुखाय तस्य साधोर् अभिनिश्चिक्रमिषा यतो न रेमे // BC_5.46

अथ तत्र सुरैस् तपोवरिष्ठैर् अकनिष्ठैर् व्यवसायम् अस्य बुद्ध्वा युगपत् प्रमदाजनस्य निद्रा विहितासीद् विकृताश् च गात्रचेष्टाः // BC_5.47

अभवच् छयिता हि तत्र काचिद् विनिवेश्य प्रचले करे कपोलम् दयिताम् अपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् // BC_5.48

विबभौ करलग्नवेणुर् अन्या स्तनविस्रस्तसितांशुका शयाना ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव // BC_5.49

नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसंगताङ्गदाभ्याम् स्वपिति स्म (तथापरा च्तथा पुरा )भुजाभ्यां परिरभ्य प्रियवन् मृदङ्गम् एव // BC_5.50

नवहाटकभूषणास् तथान्या वसनं पीतम् अनुत्तमं वसानाः अवशा (घननिद्रया च्वत निद्रया )निपेतुर् गजभग्ना इव कर्णिकारशाखाः // BC_5.51

अवलम्ब्य गवाक्षपार्श्वम् अन्या शयिता चापविभुग्नगात्रयष्टिः विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव // BC_5.52

मणिकुण्डलदष्टपत्त्रलेखं मुखपद्मं विनतं तथापरस्याः शतपत्त्रम् इवार्ध(वक्रच्चक्र)नाडं स्थितकारण्डवघट्टितं चकाशे // BC_5.53

अपराः शयिता यथोपविष्टाः स्तनभारैर् अवनम्यमानगात्राः उपगुह्य परस्परं विरेजुर् भुजपाशैस् तपनीयपारिहार्यैः // BC_5.54

महतीं परिवादिनीं च काचिद् वनितालिङ्ग्य सखीम् इव प्रसुप्ता विजुघूर्ण चलत्सुवर्ण(सूत्रा च्सूत्रां वदनेनाकुल(योक्त्रकेण च्कर्णिकोज्ज्वलेन ) // BC_5.55

पणवं युवतिर् भुजांसदेशाद् अवविस्रंसितचारुपाशम् अन्या सविलासरतान्ततान्तम् ऊर्वोर् विवरे कान्तम् इवाभिनीय शिश्ये // BC_5.56

अपरा बभुर् निमीलिताक्ष्यो विपुलाक्ष्यो ऽपि शुभभ्रुवो ऽपि सत्यः प्रतिसंकुचितारविन्दकोशाः सवितर्य् अस्तम् इते यथा नलिन्यः // BC_5.57

शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना (प्रतियातनाङ्गनेव च्प्रतिपातिताङ्गनेव ) // BC_5.58

अपरास् त्व् अवशा ह्रिया वियुक्ता धृतिमत्यो ऽपि वपुर्गुणैर् उपेताः विनिशश्वसुर् (उल्बणं चुल्वणं )शयाना (विकृताः क्षिप्तच्विकृताक्षिप्त)भुजा जजृम्भिरे च // BC_5.59

व्यपविद्धविभूषणस्रजो ऽन्या (विसृताग्रन्थनच्विसृताग्रन्थन)वाससो विसंज्ञाः अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः // BC_5.60

विवृतास्यपुटा विवृद्ध(गात्री च्गात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या अपरा मदघूर्णितेव शिश्ये न (बभासे च्बभाषे )विकृतं वपुः पुपोष // BC_5.61

इति सत्त्व(कुलान्वयानुरूपं च्कुलानुरूपरूपं विविधं स प्रमदाजनः शयानः सरसः सदृशं बभार रूपं पवनावर्जित(रुग्नच्रुग्ण)पुष्करस्य // BC_5.62

समवेक्ष्य (तथा तथा च्ततश् च ताः )शयाना विकृतास् ता युवतीर् अधीरचेष्टाः गुणवद्वपुषो ऽपि वल्गु(भाषा च्भासो नृपसूनुः स विगर्हयां बभूव // BC_5.63

अशुचिर् विकृतश् च जीवलोके वनितानाम् अयम् ईदृशः स्वभावः वसनाभरणैस् तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागम् एति // BC_5.64

विमृशेद् यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारम् ईदृशं च ध्रुवम् अत्र न वर्धयेत् प्रमादं गुणसंकल्पहतस् तु रागम् एति // BC_5.65

इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव अवगम्य मनस् ततो ऽस्य देवैर् भवनद्वारम् अपावृतं बभूव // BC_5.66

अथ सो ऽवततार हर्म्यपृष्ठाद् युवतीस् ताः शयिता विगर्हमाणः अवतीर्य ततश् च निर्विशङ्को गृहकक्ष्यां (प्रथमां च्प्रथमं )विनिर्जगाम // BC_5.67

तुरगावचरं स बोधयित्वा जविनं छन्दकम् इत्थम् इत्य् उवाच हयम् आनय कन्थकं त्वरावान् अमृतं प्राप्तुम् इतो ऽद्य म यियासा // BC_5.68

हृदि या मम तुष्टिर् अद्य जाता व्यवसायश् च यथा (मतौ च्धृतौ )निविष्टः विजने ऽपि च नाथवान् इवास्मि ध्रुवम् अर्थो ऽभिमुखः (समेत च्स मे य )इष्टः // BC_5.69

ह्रियम् एव च संनतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः विवृते च यथा स्वयं कपाटे नियतं यातुम् (अतो ममाद्य चनामयाय )कालः // BC_5.70

प्रतिगृह्य ततः स भर्तुर् आज्ञां विदितार्थो ऽपि नरेन्द्रशासनस्य मनसीव परेण चोद्यमानस् तुरगस्यानयने मतिं चकार // BC_5.71

अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् बलसत्त्व(जवान्वयोपपन्नं च्जवत्वरोपपन्नं स वराश्वं तम् उपानिनाय भर्त्रे // BC_5.72

प्रततत्रिकपुच्छमूलपार्ष्णिं (निभृतह्रस्वच्निभृतं ह्रस्व)तनूज(पुच्छच्पृष्ठ)कर्णम् विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् // BC_5.73

उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण मधुराक्षरया गिरा शशास ध्वजिनीमध्यम् इव प्रवेष्टुकामः // BC_5.74

बहुशः (किल शत्रवो च्कलिशत्रवो )निरस्ताः समरे त्वाम् अधिरुह्य पार्थिवेन अहम् अप्य् अमृतं (पदं च्परं )यथावत् तुरगश्रेष्ठ लभेय तत् कुरुष्व // BC_5.75

सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा // BC_5.76

इह चैव भवन्ति ये सहायाः कलुषे (कर्मणि च्धर्मणि )धर्मसंश्रये वा अवगच्छति मे यथान्तरात्मा नियतं ते ऽपि जनास् तदंशभाजः // BC_5.77

तद् इदं परिगम्य धर्मयुक्तं मम निर्याणम् (इतो चतो )जगद्धिताय तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च // BC_5.78

इति सुहृदम् इवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः सितम् असितगतिद्युतिर् वपुष्मान् रविर् इव शारदम् अभ्रम् आरुरोह // BC_5.79

अथ स परिहरन् निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः विगतहनुरवः प्रशान्तहेषश् चकितविमुक्तपद(क्रमो च्क्रमा )जगाम // BC_5.80

कनकवलयभूषितप्रकोष्ठैः कमलनिभैः (कमलान् इव च्कमलानि च )प्रविध्य अवनततनवस् ततो ऽस्य यक्षाश् चकित(गतैर् च्गतेर् )दधिरे खुरान् कराग्रैः // BC_5.81

गुरुपरिघकपाटसंवृता या न सुखम् अपि द्विरदैर् अपाव्रियन्ते व्रजति नृपसुते गतस्वनास् ताः स्वयम् अभवन् विवृताः पुरः प्रतोल्यः // BC_5.82

पितरम् अभिमुखं सुतं च बालं जनम् अनुरक्तम् अनुत्तमां च लक्ष्मीम् कृतमतिर् अपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम // BC_5.83

अथ स (विमलच्विकच)पङ्कजायताक्षः पुरम् अवलोक्य ननाद सिंहनादम् जननमरणयोर् अदृष्टपारो न (पुरम् च्पुनर् )अहं कपिलाह्वयं (प्रवेष्टा च्प्रविष्टा ) // BC_5.84

इति वचनम् इदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः प्रमुदितमनसश् च देवसङ्घा व्यवसितपारणम् आशशंसिरे ऽस्मै // BC_5.85

हुतवहवपुषो दिवौकसो ऽन्ये व्यवसितम् अस्य (सुदुष्च्च दुष्)करं विदित्वा (अकृषत चकुरुत )तुहिने पथि प्रकाशं घनविवरप्रष्र्ता इवेन्दुपादाः // BC_5.86

अरुणपरुष(तारम् अन्तरिक्षं च्भारम् अन्तरीक्षं (स च सुबहूनि च्सरसबहूनि )जगाम योजनानि // BC_5.87

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये ऽभिनिष्क्रमणो नाम पञ्चमः सर्गः -- 5 --]]

ततो (मुहूर्ताभ्युदिते च्मुहूर्ते ऽभ्युदिते जगच्चक्षुषि भास्करे भार्गवस्याश्रमपदं स ददर्श नृणां वरः // BC_6.1

सुप्तविश्वस्तहरिणं स्वस्थस्थितविहंगमम् विश्रान्त इव यद् (दृष्ट्वा च्दृष्टा [सिच्] कृतार्थ इव चाभवत् // BC_6.2

स विस्मयनिवृत्त्यर्थं तपःपूजार्थम् एव च स्वां चानुवर्तितां रक्षण्न् अश्वपृष्ठाद् अवातरत् // BC_6.3

अवतीर्य च पस्पर्श निस्तीर्णम् इति वाजिनम् छन्दकं चाब्रवीत् प्रीतः स्नापयन्न् इव चक्षुषा // BC_6.4

इमं तार्क्ष्योपमजवं तुरंगम् अनुगच्छता दर्शिता सौम्य मद्भक्तिर् विक्रमश् चायम् आत्मनः // BC_6.5

सर्वथास्म्य् अन्यकार्यो ऽपि गृहीतो भवता हृदि भर्तृस्नेहश् च यस्यायम् ईदृशः (शक्तिर् च्शक्त )एव च // BC_6.6

अस्निग्धो ऽपि समर्थो ऽस्ति निःसामर्थ्यो ऽपि भक्तिमान् भक्तिमांस् चैव शक्तश् च दुर्लभस् त्वद्विधो भुवि // BC_6.7

तत् प्रीतो ऽस्मि तवानेन महाभागेन कर्मणा (यस्य ते च्दृश्यते )मयि भावो ऽयं फलेभ्यो ऽपि पराङ्(मुखः च्मुखे ) // BC_6.8

को जनस्य फलस्थस्य न स्याद् अभिमुखो जनः जनीभवति भूयिष्ठं स्वजनो ऽपि विपर्यये // BC_6.9

कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता (आशयाच् छ्लिष्यति चाशयाश्लिष्यति )जगन् नास्ति निष्(कारणा स्वता च्कारणास्वता ) // BC_6.10

किम् उक्त्वा बहु संक्षेपात् कृतं मे सुमहत् प्रियम् निवर्तस्वाश्वम् आदाय संप्राप्तो ऽस्मीप्सितं (पदम् च्वनम् ) // BC_6.11

इत्य् उक्त्वा स महाबाहुर् अनुशंसचिकीर्षया भूषणान्य् अवमुच्यास्मै संतप्तमनसे ददौ // BC_6.12

(मुकुटाद् दीपच्मुकुटोद्दीप्त)कर्माणं मणिम् आदाय भास्वरम् ब्रुवन् वाक्यम् इदं तस्थौ सादित्य इव मन्दरः // BC_6.13

अनेन मणिना छन्द प्रणम्य बहुशो नृपः विज्ञाप्यो ऽमुक्तविश्रम्भं संतापविनिवृत्तये // BC_6.14

(जन्मच्जरा)मरणनाशार्थं प्रविष्टो ऽस्मि तपोवनम् न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना // BC_6.15

तद् एवम् अभिनिष्क्रान्तं न मां शोचितुम् अर्हसि भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति // BC_6.16

ध्रुवो यस्माच् च विश्लेषस् तस्मान् मोक्षाय मे मतिः विप्रयोगः कथं न स्याद् भूयो ऽपि स्व(जनाद् इति च्जनादिभिः ) // BC_6.17

शोकत्यागाय निष्क्रान्तं न मां शोचितुम् अर्हसि शोकहेतुषु कामेषु सक्ताः शोच्यास् तु रागिणः // BC_6.18

अयं च किल पूर्वेषाम् अस्माकं निश्चयः स्थिरः इति (दायाद्यच्दायाद)भूतेन न शोच्यो ऽस्मि पथा व्रजन् // BC_6.19

भवन्ति ह्य् अर्थदायादाः पुरुषस्य विपर्यये पृथिव्यां धर्मदायादाः दुर्लभास् तु न सन्ति वा // BC_6.20

यद् अपि स्याद् असमये यातो वनम् असाव् इति अकालो नास्ति धर्मस्य जीविते चञ्चले सति // BC_6.21

तस्माद् अद्यैव मे श्रेयश् चेतव्यम् इति निश्चयः जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते // BC_6.22

एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः प्रयतेथास् तथा चैव यथा मां न स्मरेद् अपि // BC_6.23

अपि नैर्गुण्यम् अस्माकं वाच्यं नरपतौ त्वया नैर्गुण्यात् त्यज्यते स्नेहः स्नेहत्यागान् न शोच्यते // BC_6.24

इति वाक्यम् इदं श्रुत्वा छन्दः संतापविक्लवः (बाष्पच्वाष्प)ग्रथितया वाचा प्रत्युवाच कृताञ्जलिः // BC_6.25

अनेन तव भावेन बान्धवायासदायिना भर्तः सीदति मे चेतो नदीपङ्कए इव द्विपः // BC_6.26

कस्य नोत्पादयेद् (बाष्पं च्वाष्पं निश्चयस् ते ऽयम् ईदृशः अयोमये ऽपि हृदये किं पुनः स्नेहविक्लवे // BC_6.27

विमानशयनार्हं हि सौकुमार्यम् इदं क्व च खरदर्भाङ्कुरवती तपोवनमही क्व च // BC_6.28

श्रुत्वा तु व्यवसायं ते यद् अश्वो ऽयं (मयाहृतः च्मया हृतः ) बलात्कारेण तन् नाथ दैवेनैवास्मि कारितः // BC_6.29

कथं ह्य् आत्मवशो जानन् व्यवसायम् इमं तव उपानयेयं तुरगं शोकं कपिल(वास्तुनः च्वस्तुनः ) // BC_6.30

तन् नार्हसि महाबाहो विहातुं पुत्रलालसम् स्निग्धं वृद्धं च राजानं सद्धर्मम् इव नास्तिकः // BC_6.31

संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् (देवीं च्देव )नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् // BC_6.32

बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम् देवीम् अर्हसि न त्यक्तुं (क्लीबः च्क्लीवः )प्राप्ताम् इव श्रियम् // BC_6.33

पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां (वरम् च्वरः ) बालम् अर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः // BC_6.34

अथ बन्धुं च राज्यं च त्यक्तुम् एव कृता मतिः मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर् मम // BC_6.35

नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा त्वाम् अरण्ये परित्यज्य सु(मन्त्र च्मित्र )इव राघवम् // BC_6.36

किं हि वक्ष्यति (मां राजा च्राजा मां त्वदृते नगरं गतम् वक्ष्याम्य् उचितदर्शित्वात् किं तवान्तःपुराणि वा // BC_6.37

यद् अप्य् आत्थापि नैर्गुण्यं वाच्यं नरपताव् इति किं तद् वक्ष्याम्य् अभूतं ते निर्दोषस्य मुनेर् इव // BC_6.38

हृदयेन सलज्जेन जिह्वया सज्जमानया अहं यद्यपि वा ब्रूयां कस् तच् छ्रद्धातुम् अर्हति // BC_6.39

यो हि चन्द्रमसस् (तैक्ष्ण्यं च्तैक्ष्ण्य [सिच्] कथयेच् छ्रद्दधीत वा स दोषांस् तव दोषज्ञ कथयेच् छ्रद्दधीत वा // BC_6.40

सानुक्रोशस्य सततं नित्यं करुणवेदिनः स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे // BC_6.41

इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् स्वस्थः परमया धृत्या जगाद वदतां वरः // BC_6.42

मद्वियोगं प्रति च्छन्द संतापस् त्यज्यताम् अयम् नानाभावो हि नियतं पृथग्जातिषु देहिषु // BC_6.43

स्वजनं यद्यपि स्नेहान् न (त्यजेयम् अहं स्वयम् च्त्यजेयं मुमुक्षया ) मृत्युर् अन्योअन्यम् अवशान् अस्मान् संत्याजयिष्यति // BC_6.44

महत्या तृष्णया दुःखैर् गर्भेणास्मि यया धृतः तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम // BC_6.45

वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः नियतं विप्रयोगान्तस् तथा भूतसमागमः // BC_6.46

समेत्य च यथा भूयो व्यपयान्ति (बलाहकाः च्वलाहकाः ) संयोगो विप्रयोगश् च तथा मे प्राणिनां मतः // BC_6.47

यस्माद् याति च लोको ऽयं विप्रलभ्य परंपरम् ममत्वं न क्षमं तस्मात् स्वप्नभूते समागमे // BC_6.48

सहजेन वियुज्यन्ते पर्णरागेण पादपाः अन्येनान्यस्य विश्लेषः किं पुनर् न भविष्यति // BC_6.49

तद् एवं सति संतापं मा कार्षीः सौम्य गम्यताम् लम्बते यदि तु स्नेहो गत्वापि पुनर् आव्रज // BC_6.50

ब्रूयाश् (चास्मत्कृतापेक्षं च्चास्मास्व् अनाक्षेपं जनं कपिल(वास्तुनि च्वस्तुनि ) त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः // BC_6.51

क्षिप्रम् एष्यति वा कृत्वा जन्ममृत्युक्षयं किल अकृतार्थो निर्(आरम्भो चालम्बो निधनं यास्यतीति वा // BC_6.52

इति तस्य वचः श्रुत्वा कन्थकस् तुरगोत्तमः जिह्वया लिलिहे पादौ (बाष्पम् च्वाष्पम् )उष्णं मुमोच च // BC_6.53

जालिना स्वस्तिकाङ्केन (चक्रच्वक्र)मध्येन पाणिना आममर्श कुमारस् तं बभाषे च वयस्यवत् // BC_6.54

मुञ्च कन्थक मा (बाष्पं च्वाष्पं दर्शितेयं सदश्वता मृष्यतां सफलः शीघ्रं श्रमस् ते ऽयं भविष्यति // BC_6.55

मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा कोशाद् असिं काञ्चनभक्तिचित्रं (बिलाद् च्विलाद् )इवाशीविषम् उद्बबर्ह // BC_6.56

निष्कास्य तं चदुत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् विकीर्यमाणांशुकम् अन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् // BC_6.57

पूजाभिलाषेण च बाहुमान्याद् दिवौकसस् तं जगृहुः प्रविद्धम् यथावद् एनं दिवि देवसङ्घा दिव्यैर् विशेषैर् महयां च चक्रुः // BC_6.58

मुक्त्वा त्व् अलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश् च कृत्वा दृष्ट्वांशुकं काञ्चनहंस(चिह्नं च्चित्रम् वन्यं स धीरो ऽभिचकाङ्क्ष वासः // BC_6.59

ततो मृगव्याधवपुर् दिवौका भावं विदित्वास्य विशुद्धभावः काषायवस्त्रो ऽभिययौ समीपं तं शाक्यराजप्रभवो ऽभ्युवाच // BC_6.60

शिवं च काषायम् ऋषिध्वजस् ते न युज्यते हिंस्रम् इदं धनुश् च तत् सौम्य यद्य् अस्ति न सक्तिर् अत्र मह्यं प्रयच्छेदम् इदं गृहाण // BC_6.61

व्याधो ऽब्रवीत् कामद कामम् आराद् अनेन विश्वास्य मृगान् (निहन्मि च्निहत्य ) अर्थस् तु शक्रोपम यद्य् अनेन हन्त प्रतीच्छानय शुक्लम् एतत् // BC_6.62

परेण हर्षेण ततः स वन्यं जग्राह वासो ऽंशुकम् उत्ससर्ज व्याधस् तु दिव्यं वपुर् एव बिभ्रत् तच् छुक्लम् आदाय दिवं जगाम // BC_6.63

ततः कुमारश् च स चाश्वगोपस् तस्मिंस् तथा याति विसिस्मियाते आरण्यके वाससि चैव भूयस् तस्मिन्न् अकार्ष्टां बहुमानम् आशु // BC_6.64

छन्दं ततः साश्रुमुखं विसृज्य काषाय(संभृद् धृतिच्संविद् वृत)कीर्तिभृत् सः येनाश्रमस् तेन ययौ महात्मा संध्याभ्रसंवीत (इवोडुचिवाद्रि)राजः // BC_6.65

ततस् तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि भुजौ समुत्क्षिप्य ततः स वाजिभृद् भृशं विचुक्रोश पपात च क्षितौ // BC_6.66

विलोक्य भूयश् च रुरोद सस्वरं हयं भुजाभ्याम् उपगुह्य कन्थकम् ततो निराशो विलपन् मुहुर् मुहुर् ययौ शरीरेण पुरं न चेतसा // BC_6.67

क्वचित् प्रदध्यौ विललाप च क्वचित् क्वचित् प्रचस्खाल पपात च क्वचित् अतो व्रजन् भक्तिवशेन दुःखितश् चचार बह्वीर् (अवसः चवशः )पथि क्रियाः // BC_6.68

[[इति (च्श्री-च्)बुद्ध-चरिते महा-काव्ये छन्दक-(निवर्तनो च्निवर्तनं )नाम षष्ठः सर्गः -- 6 --]]

ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः सर्वार्थसिद्धो वपुषाभिभूय तम् आश्रमं (सिद्ध च्सिद्धम् )इव प्रपेदे // BC_7.1

स राजसूनुर् मृगराजगामी मृगाजिरं तन् मृगवत् प्रविष्टः लक्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार // BC_7.2

स्थिता हि हस्तस्थयुगास् तथैव कौतूहलाच् चक्रधराः सदाराः तम् इन्द्रकल्पं ददृशुर् न जग्मुर् धुर्या इवार्धावनतैः शिरोभिः // BC_7.3

विप्राश् च गत्वा बहिर् इध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः तपःप्रधानाः कृतबुद्धयो ऽपि तं द्रष्टुम् ईयुर् न मठान् अभीयुः // BC_7.4

हृष्टाश् च केका मुमुचुर् मयूरा दृष्ट्वाम्बुदं नीलम् (इवोन्नमन्तः चिवोन्नमन्तं ) शष्पाणि हित्वाभिमुखाश् च तस्थुर् मृगाश् चलाक्षा मृगचारिणश् च // BC_7.5

दृष्ट्वा तम् इक्ष्वाकुकुलप्रदीपं ज्वलन्तम् उद्यन्तम् इवांशुमन्तम् कृते ऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर् होमदुहश् च गावः // BC_7.6

कश्चिद् वसूनाम् अयम् अष्टमः स्यात् स्याद् अश्विनोर् अन्यतरश् च्युतो (वा चत्र ) उच्चेरुर् उच्चैर् इति तत्र वाचस् तद्दर्शनाद् विस्मयजा मुनीनाम् // BC_7.7

लेखर्1षभस्येव वपुर् द्वितीयं धामेव लोकस्य चराचरस्य स द्योतयाम् आस वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः // BC_7.8

ततः स तैर् आश्रमिभिर् यथावद् अभ्यर्चितश् चोपनिमन्त्रितश् च प्रत्यर्चयां धर्मभृतो बभूव स्वरेण (साम्भोअम्बुच्भाद्राम्बु)धरोपमेन // BC_7.9

कीर्णं (तथा च्ततः )पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः तम् आश्रमं सो ऽनुचचार धीरस् तपांसि चित्राणि निरीक्षमाणः // BC_7.10

तपोविकारांश् च निरीक्ष्य सौम्यस् तपोवने तत्र तपोधनानाम् तपस्विनं कंचिद् अनुव्रजन्तं तत्त्वं विजिज्ञासुर् इदं बभाषे // BC_7.11

तत्पूर्वम् अद्याश्रमदर्शनं मे यस्माद् इमं धर्मविधिं न जाने तस्माद् भवान् अर्हति भाषितुं मे यो निश्चयो (यत् च्यं )प्रति वः प्रवृत्तः // BC_7.12

ततो द्विजातिः स तपोविहारः शाक्यर्1षभायर्7षभविक्रमाय क्रम्.एन तस्मै कथयां चकार तपो(विशेषांस् च्विशेषं )तपसः फलं च // BC_7.13

अग्राम्यम् अन्नं सलिले प्ररूढं पर्णानि तोयं फलमूलम् एव यथागमं वृत्तिर् इयं मुनीनां भिन्नास् तु ते ते तपसां विकल्पाः // BC_7.14

उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन् मृगवच् चरन्ति केचिद् भुजंगैः सह वर्तयन्ति वल्मीकभूता (वनमारुतेन चिव मारुतेन ) // BC_7.15

अश्मप्रयत्नार्जितवृत्तयो ऽन्ये केचित् स्वदन्तापहतान्नभक्षाः कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषम् अस्ति // BC_7.16

केचिज् जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम् मीनैः समं केचिद् अपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः // BC_7.17

एवंविधैः कालचितैस् तपोभिः परैर् दिवं यान्त्य् अपरैर् नृलोकम् दुःखेन मार्गेण सुखं (ह्य् उपैति च्क्षियन्ति (सुखं च्दुःखं )हि धर्मस्य वदन्ति मूलम् // BC_7.18

इत्य् एवमादि द्विपेन्द्रवत्सः श्रुत्वा वचस् तस्य तपोधनस्य अदृष्टतत्त्वो ऽपि न संतुतोष शनैर् इदं चात्मगतं (बभाषे च्जगाद ) // BC_7.19

दुःखात्मकं नैकविधं तपश् च स्वर्गप्रधानं तपसः फलं च लोकाश् च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्व् अयम् आश्रमाणाम् // BC_7.20

(प्रियांश् च्श्रियं )च बन्धून् विषयांश् च हित्वा ये स्वर्ग(हेतोर् छेतौ )नियमं चरन्ति ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं (बन्धनम् च्स्वं वनम् )एव भूयः // BC_7.21

कायक्लमैर् यश् च तपोअभिधानैः प्रवृत्तिम् आकाङ्क्षति कामहेतोः संसारदोषान् अपरीक्षमाणो दुःखेन सो ऽन्विच्छति दुःखम् एव // BC_7.22

त्रासश् च नित्यं मरणात् प्रजानां यत्नेन चेच्छन्ति (पुनःप्रसूतिम् च्पुनः प्रसूतिम् ) सत्यां प्रवृत्तौ नियतश् च मृत्युस् तत्रैव (मग्ना च्मग्नो )यत एव (भीताः च्भीतः ) // BC_7.23

इहार्थम् एके प्रविशन्ति खेदं स्वर्गार्थम् अन्ये श्रमम् आप्नुवन्ति सुखार्थम् आशाकृपणो ऽकृतार्थः पतत्य् अनर्थे खलु जीवलोकः // BC_7.24

न खल्व् अयं गर्हित एव यत्नो यो हीनम् उत्सृज्य विशेषगामी प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद् यत्र पुनर् न कार्यम् // BC_7.25

शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्य् अधर्मः धर्मेण चाप्नोति सुखं परत्र तस्माद् अधर्मं फलतीह धर्मः // BC_7.26

यतः शरीरं मनसो वशेन प्रवर्तते (चापि च्वापि )निवर्तते (च च्वा ) युक्तो दमश् चेतस एव तस्माच् चित्ताद् ऋते काष्ठसमं शरीरम् // BC_7.27

आहारशुद्ध्या यदि पुण्यम् इष्टं तस्मान् मृगाणाम् अपि पुण्यम् अस्ति ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्(मुखार्थाः च्मुखत्वात् ) // BC_7.28

दुःखे ऽभिसंधिस् त्व् अथ पुण्यहेतुः सुखे ऽपि कार्यो ननु सो ऽभिसंधिः अथ प्रमाणं न सुखे ऽभिसंधिर् दुःखे प्रमाणं ननु नाभिसंधिः // BC_7.29

तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्य् अपस् तीर्थम् इति प्रवृत्ताः तत्रापि तोषो हृदि केवलो ऽयं न पावयिस्.यन्ति हि पापम् आपः // BC_7.30

स्पृष्टं हि यद् यद् गुणवद्भिर् अम्भस् तत् तत् पृथिव्यां यदि तीर्थम् इष्टम् तस्माद् गुणान् एव परैमि तीर्थम् आपस् तु निःसंशयम् आप एव // BC_7.31

इति स्म तत् तद् बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश // BC_7.32

अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्1षिजनावकीर्णम् जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तम् इव प्रवृत्तम् // BC_7.33

काश्चिन् निशास् तत्र निशाकराभः परीक्षमाणश् च तपांस्य् उवास सर्वं परिक्षेप्य तपश् च मत्वा तस्मात् तपःक्षेत्रतलाज् जगाम // BC_7.34

अन्वव्रजन्न् आश्रमिणस् ततस् तं तद्रूपमाहात्म्यगतैर् मनोभिः देशाद् अनार्यैर् अभिभूयमानान् महर्2षयो धर्मम् इवापयान्तम् // BC_7.35

ततो जटावल्कलचीरखेलांस् तपोधनांश् चैव स तान् ददर्श तपांसि चैषाम् (अनुरुध्यमानस् चनुबुध्यमानस् तस्थौ शिवे श्रीमति (वृक्षमूले च्मार्गवृक्षे ) // BC_7.36

अथोपसृत्याश्रमवासिनस् तं मनुष्यवर्यं परिवार्य तस्थुः वृद्धश् च तेषां बहुमानपूर्वं कलेन साम्ना गिरम् इत्य् उवाच // BC_7.37

त्वय्य् आगते पूर्ण इवाश्रमो ऽभूत् संपद्यते शून्य इव प्रयाते तस्माद् इमं नार्हसि तात हातुं जिजीविषोर् देहम् इवेष्टम् आयुः // BC_7.38

ब्रह्मर्1षिराजर्1षिसुरर्1षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः तपांसि तान्य् एव तपोधनानां यत्संनिकर्षाद् बहुलीभवन्ति // BC_7.39

तीर्थानि पुण्यान्य् अभितस् तथैव सोपानभूतानि नभस्तलस्य जुष्टानि धर्मात्मभिर् आत्मवद्भिर् देवर्1षिभिश् चैव महर्2षिभिश् च // BC_7.40

इतश् च भूयः क्षमम् उत्तरैव दिक् सेवितुं धर्मविशेषहेतोः न (तु छि )क्षमं दक्षिणतो बुधेन पदं भवेद् एकम् अपि प्रयातुम् // BC_7.41

तपोवने ऽस्मिन्न् अथ निष्क्रियो वा संकीर्ण(धर्मापतितो च्धर्मा पतितो )अशुचिर् वा दृष्टस् त्वया येन न ते विवत्सा तद् ब्रूहि यावद् रुचितो ऽस्तु वासः // BC_7.42

इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम् वासस् त्वया हीन्द्रसमेन सार्धं बृहस्पतेर् अभ्युदयावहः स्यात् // BC_7.43

इत्य् एवम् उक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः भवप्रणाशाय कृतप्रतिज्ञः स्वं भावम् अन्तर्गतम् आचचक्षे // BC_7.44

ऋज्वात्मनां धर्मभृतां मुनीनाम् इष्टातिथित्वात् स्वजनोपमानाम् एवंविधैर् मां प्रति भावजातैः प्रीतिः (परा मे च्परात्मा )जनितश् च (मानः च्मार्गः ) // BC_7.45

स्निग्धाभिर् आभिर् हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः रतिश् च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव // BC_7.46

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.