Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तस्य खलु पुनः सुभूते मारः पायीयान् कदाचिद्भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद्भिक्षुणीवेषेण, कदाचिदुपासकवेषेण, कदाचिदुपासिकावेषेण, कदाचिद्ब्राह्मणवेषेण, कदाचिद्गृहपतिवेषेण, कदाचिन्मातृवेषेण, कदाचित्पितृवेषेण, कदाचिद्भ्रातृवेषेण, कदाचिद्भगिनीवेषेण, कदाचिन्मित्रामात्यज्ञातिसालोहितवेषेण उपसंक्रमिष्यति / उपसंक्रम्यैवं वक्ष्यति - व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ / तत्कस्य हेतोः? तथा हि ते एवंरूपा धुतगुणाः संविद्यन्ते, ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणाः / ये खलु पुनः सुभूते मया अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणा आख्याताः आकारा लिङ्गानि निमित्तानि चाख्यातानि, तानि तस्य न भविष्यन्ति / वेदितव्यमेतत्सुभूते ततो ऽन्यैर्बोधिसत्त्वैर्महासत्त्वैः - माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्व इति / तत्कस्य हेतोः? ये आकारा यानि लिङ्गानि यानि निमित्तानि अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, तानि तस्य न भविष्यन्ति / स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनेन नामाधिष्ठानेन अभिमानमुत्पादयिष्यति / अभिमानमुत्पाद्य मानाभिभूतः स्तम्भाभिभूतो माराधिष्ठानेनाभिभूतस्तदन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्घयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम् //
(वैद्य 193) पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम् / कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम्? इह सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं व्याकरिष्यति - तवानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भविष्यतीति यदेव तेन चित्तेनानुवर्तितमनुवितर्कितमनुविचारितं भवति - अहो बत मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदमेवंरूपं नामधेयं भवेदिति, तदेव नामधेयं व्याकरिष्यति / तत्र दुष्प्रज्ञजातीयस्य अनुपायकुशलस्य बोधिसत्त्वस्यैवं भविष्यति - यथा मया नामधेयमनुवर्तितमनुवितर्कितमनुविचारितम्, अहो बत मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भवेदिति, तथा तेन भिक्षुणा निर्दिष्टमिति / स एवं यच्च नामधेयं स्वयमनुविचिन्तितम्, यच्च तेन मारेण पापीयसा मारकायिकाभिर्वा देवताभिरभिनिर्मितेन माराधिष्ठितेन वा भिक्षुणा नामधेयमुदीरितम्, तदुभयं तुलयित्वा यथा च मम चित्तोत्पाद उत्पन्नः, यथा च अनेन भिक्षुणा निर्दिष्टं मम नामधेयं समेति नाम्ना, नामव्याकृतो ऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति मंस्यते / यानि च मया सुभूते अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानामाकारा लिङ्गानि निमित्तानि आख्यातानि, तानि तस्य न भविष्यन्ति / स तैर्विरहितो ऽनेन नामापदेशेन नामव्याकरणेन मन्यनामुत्पादयिष्यति /
स मन्यनामुत्पाद्य ततो ऽन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते - अहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, नैते व्याकृता अनुत्तरायां सम्यक्संबोधाविति / एवं स तेन मानेन अतिमानेन मानातिमानेन अभिमानेन मिथ्यामानेन च तदन्यान् बोधिसत्त्वान् महासत्त्वानवमन्यमानो दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यति बुद्धज्ञानम् / तस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / सचेत्पुनश्चिरं सुचिरं संधाव्य संसृत्य एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो भवेत्, यदि चासावुपसर्पेत् कल्याणमित्राणि, अभीक्ष्णं च तान्युपसंक्रमिष्यति, तेनैव चात्मभावप्रतिलम्भेन तावत्पूर्वकांश्चित्तोत्पादान् विगर्हिष्यति, वान्तीकरिष्यति, जुगुप्सिष्यति, प्रतिनिः - स्रक्ष्यति, प्रतिदेशयिष्यति, तथापि बुद्धभूमिस्तस्य दुर्लभा भविष्यति / तत्कस्य हेतोः? तावद्गुरुतरं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मननापत्तिस्थानम् / तद्यथापि नाम सुभूते भिक्षोः श्रावकयानिकस्य श्रावकभूमौ चतस्रो मूलापत्तयो गुर्व्यो भवन्ति, यतो ऽन्यतरान्यतरा मापत्तिमध्यापद्य अभिक्षुर्भवत्यश्रमणो ऽशाक्यपुत्रीयः, इयमेव ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरा आपत्तिः, यो ऽयं मानचित्तोत्पादः, यदुत नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्यावमाननया महानकुशलश्चित्तोत्पाद उत्पन्नः / अयं ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः //
तिष्ठन्तु सुभूते चतस्रो गुर्व्यो मूलापत्तयः / पञ्चभ्यो ऽपि सुभूते आनन्तर्येभ्यः (वैद्य 194) कर्मभ्यो गुरुतरो ऽयं चित्तोत्पादः, यो ऽयं बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मानसहगतश्चित्तोत्पाद उत्पन्नः / अयं तेभ्यः पञ्चभ्य आनन्तर्येभ्यः कर्मभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः / इति हि सुभूते अनेनापि नामापदेशेन सूक्ष्मसूक्ष्माणि मारकर्माण्युत्पत्स्यन्ते / तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि / अन्येभ्यश्चावबोधयितव्यानि, बुद्ध्वा च विवर्जयितव्यानि //
पुनरपरं सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति / कथं च सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति? इह सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यति, उपसंक्रम्यैवं वक्ष्यति - विवेकस्य तथागतो वर्णवादी अरण्यवनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादिषु विहर्तव्यमिति / न चाहं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवंविधं विवेकं वदामि, यदुत आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि, विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि //
सुभूतिराह - कतमः पुनः स भगवन् बोधिसत्त्वस्य महासत्त्वस्य अन्यो विवेको यदि वा आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि? यदि तानि नाध्यावसति, कियद्रूपः पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेकः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - सचेत्सुभूते बोधिसत्त्वो महासत्त्वो विविक्तो भवति श्रावकप्रतिसंयुक्तैर्मनसिकारैः, विविक्तो भवति प्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः, एवं स बोधिसत्त्वो महासत्त्वो विविक्तो विहरति / ग्रामान्ते ऽपि हि विहरन् प्रज्ञापारमितोपायकौशल्यपरिगृहीतः सर्वसत्त्वमैत्रीमहाकरुणाविहारेण विहरेत् / अनेन विहारेण विहरन् विविक्त एव स विहरति / अयं खलु पुनः सुभूते मया बोधिसत्त्वस्य महासत्त्वस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविवेको ऽनुज्ञातः / अनेन विवेकेन विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिवान्यतिनामयति, विविक्तो विहरति / सचेद्बोधिसत्त्वो महासत्त्वो ऽरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनेष्वनेन विहारेण विहरति, विविक्तो बोधिसत्त्वो महासत्त्वो विहरति / यं पुनः सुभूते मारः पापीयान् विवेकमुपदेक्ष्यति अरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनविहारान्, स तेन विवेकेन श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः संकीर्ण एव सन् प्रज्ञापारमितायामनभियुज्यमानो न सर्वज्ञज्ञानं परिपूरयति / एवं स संकीर्णविहारेण विहरन् सो ऽपरिशुद्धेन मनसिकारेण विहरन् अपरिशुद्धकायवाङ्मनःकर्मान्तः एव भविष्यति /
अपरिशुद्धकायवाङ्मनःकर्मान्त एव संस्ततो ऽन्यान् अपि बोधिसत्त्वान् महासत्त्वान् ग्रामान्तविहारिणो ऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः प्रज्ञोपायमहाकरुणाविहारविहारिणो ऽवमंस्यते / अरण्ये ऽपि विहरन् सो ऽपरिशुद्धकायवाङ्मनःकर्मान्तः सन् संकीर्णविहार्येव भवति, न विविक्तविहारी / स प्रज्ञोपायमहाकरुणाविहारविहारिणो (वैद्य 195) ग्रामान्ते विहरतः परिशुद्धकायवाङ्मनःकर्मसमुदाचारान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविविक्तानसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तांस्तावत्सो ऽवमन्यमानो न ध्यानसमाधिसमापत्तिविमोक्षाभिज्ञानां लाभी भविष्यति / न चास्य ताः परिपूरिं गमिष्यन्ति / तत्कस्य हेतोः? तथा हि सो ऽनुपायकुशलो भवति //
किंचापि सुभूते बोधिसत्त्वो महासत्त्वो योजनशतिकेष्वटवीकान्तारेषु विहरेदपगतव्यालमृगपक्षिसंघेषु अपगतक्षुद्रमृगव्यालयक्षराक्षसानुविचरितेषु अपगतचौरकान्तारभयभैरवोपद्रवेषु संतिष्ठेत्, वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा वर्षकोटीनियुतशतसहस्रं वा, ततो वा उपरि / इमं च विवेकं मयोपदिष्टं न जानीयात्, येन विवेकेन बोधिसत्त्वो महासत्त्वो ऽध्याशयसंप्रस्थितो ऽध्याशयसंपन्नो विहरति / तं सो ऽनुपायकुशलो बोधिसत्त्वो महासत्त्वो ऽजानन्नरण्यपरमो विहरति / तत्र च विवेके निश्रितः आलीनो ऽध्यवसितो ऽध्यवसायमापन्नः / नैव मे सुभूते एतावता स बोधिसत्त्वश्चित्तमाराधयति / तत्कस्य हेतोः? यः सुभूते विवेको बोधिसत्त्वानां महासत्त्वानां मया आख्यातः, तेन विवेकेन विहरन्नस्मिन् विवेके न संदृश्यते / तमेनं मारः पापीयानुपसंक्रम्य उपर्यन्तरीक्षे विहायसि स्थित्वा एवं वक्ष्यति - साधु साधु कुलपुत्र, एष बोधिसत्त्वानां महासत्त्वानां तथागतेन विवेक आख्यातः / अनेनैव त्वं कुलपुत्र विवेकेन विहर / एवं त्वं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / स ततो विवेकात्पुनरेव अरण्याद्ग्रामान्तमवतीर्य तदन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् भिक्षून् सब्रह्मचारिणः कल्याणधर्मणो ऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः परिशुद्धकायवाङ्मनःकर्मान्तान् जीवानवमंस्यते / स एवं वक्ष्यति - संकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण /
आकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण विहरन्तीति / ये ते बोधिसत्त्वा महासत्त्वा विविक्तविहारेण विहरन्ति, तान् संकीर्णविहारेण चोदयिष्यति, आकीर्णविहारेण चोदयिष्यति / ये च ते संकीर्णविहारेण विहरन्ति, तान् स विविक्तविहारेण समुदाचरिष्यति, तत्र गौरवमुत्पादयिष्यति / यत्र च गौरवमुत्पादयितव्यम्, तत्र मानमुत्पादयिष्यति / तत्कस्य हेतोः? अहममनुष्यैश्चोद्ये, अहममनुष्यैः स्मार्ये / एष सुभूते विहारो येनाहं विहारेण विहरामि / कं ग्रामान्तविहारिणममनुष्याश्चोदयिष्यन्ति, कं ग्रामान्तरे विहरन्तममनुष्याः स्मारयिष्यन्ति, इत्येवं हि बोधिसत्त्वयानिकान् पुद्गलानवमंस्यते / अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिरूपको वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, बोधिसत्त्वकारण्डवको वेदितव्यः, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकानां पुद्गलानाम्, चौरः सदेवकस्य लोकस्य / तज्जातीयः खलुः पुनः सुभूते पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः / तत्कस्य हेतोः? अभिमानपतिता हि ते तथारूपाः पुद्गला वेदितव्याः / अन्येषाम् अपि तथारूपाणामल्प (वैद्य 196) स्थामानाचिरयानसंप्रस्थितानां संदूषणं कुर्युः / अविशुद्धधर्माणो हि ते तथारूपाः पुद्गलाः वेदितव्याः / अनार्या हि ते तथारूपाः पुद्गला वेदितव्याः / अनार्यधर्माणो हि ते तथारूपाः पुद्गला वेदितव्याः /
यस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरित्यक्ताः सर्वसत्त्वाः, अपरित्यक्ता सर्वज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिः, तेन बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामर्थं कर्तुकामेन तज्जातीयाः पुद्गला न सेवितव्याः, न भक्तव्याः, न पर्युपासितव्याः / अपि तु खलु पुनः सुभूते सर्वसत्त्वानामर्थाय अभ्युत्थितेन एतेषां च अन्येषां च मारकर्मणामवबोधाय नित्यमेवोद्विग्नचित्तेन भवितव्यं सर्वसत्त्वानां मार्गमप्रतिलभमानानामुपदेष्टुमुत्रस्तमानसेन असंसृष्टेन त्रैधातुकेन / तत्रापि तावन्मैत्रायमाणेन करुणायमानेन महाकरुणामुत्पाद्य अनुकम्पामुपादाय सम्यक्प्रतिपन्नेषु सत्त्वेषु मुदितचित्तेनानुपलब्धिधर्मतया धर्माणामुपेक्षकेण एवं चित्तमुत्पादयितव्यम् - तथा करिष्यामि यथा सर्वे मारकर्मदोषाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र सर्वदा च न भविष्यन्ति, नोत्पत्स्यन्ते / सचेदुत्पत्स्यन्ते, क्षिप्रमेव प्रतिगमिष्यन्ति, एवं शिक्षिष्ये इति / अयम् अपि बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विवेकगुणेन मारकर्म वेदितव्यमिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नाम एकविंशतितमः //
asp_22: कल्याणमित्रपरिवर्तो द्वाविंशतितमः / अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म - इह सुभूते बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एवं कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि / सुभूतिराह - कतमानि तानि पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि, यानि बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एव कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - बुद्धा एव सुभूते भगवन्तः, ये च ते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वा बोधिसत्त्वचर्याकुशलाः, य एनं पारमितास्वववदन्ति अनुशासति, ये ऽस्मै प्रज्ञापारमितां देशयन्त्युपदिशन्ति / इमानि तानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि / प्रज्ञापारमितैव सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रं वेदितव्यम् / सर्वा एव च सुभूते षट् पारमिता बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि / षडेव पारमिताः शास्ता, षट् पारमिता मार्गः, षट् पारमिता आलोकः, षट् पारमिता उल्का, षट् पारमिताः अवभासः, षट् पारमितास्त्राणम्, षट् पारमिताः शरणम्, षट् पारमिता लयनम्, षट् पारमिताः परायणम्, षट् पारमिताः द्वीपः, षट् पारमिता माता, षट् पारमिताः पिता, षट् पारमिता ज्ञानाय बोधाय अनुत्तरायै सम्यक्संबोधये संवर्तन्ते / तत्कस्य हेतोः? अत्र हि सुभूते प्रज्ञापारमिता परिनिष्ठिता भवति यदुत षट्पारमितासु / ये ऽपि ते सुभूते अतीते
ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य परिनिर्वृताः, तेषाम् अपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः / ये ऽपि ते सुभूते भविष्यन्त्यनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेषाम् अपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः / ये ऽपि ते सुभूते अप्रमेयेष्वसंख्येयेष्वपरिमाणेष्वचिन्त्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धास्तिष्ठन्ति, ध्रियन्ते, यापयन्ति, धर्मं च देशयन्ति, तेषाम् अपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः / अहम् अपि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / ममापि हि सुभूते इतोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः / तत्कस्य हेतोः? आसु हि सुभूते षट्सु पारमितासु सप्तत्रिंशद्बोधिपक्षा धर्मा अन्तर्गताः, चत्वारो ब्रह्मविहाराः, चत्वारि संग्रहवस्तूनि / यावांश् च कश्चिद्बुद्धधर्मो बुद्धज्ञानं स्वयंभूज्ञानमचिन्त्यज्ञानमतुल्यज्ञानमप्रमेयज्ञानमसंख्येयज्ञानमसमज्ञानमसमसमज्ञानं सर्वज्ञज्ञानम्, सर्वं तत् षट्सु पारमितास्वन्तर्गतम् / तस्मात्तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट् पारमिता एव कल्याणमित्राणि वेदितव्यानि, षडेव पारमिताः शास्ता, षट् पारमिता मार्गः, षट् पारमिता आलोकः, षट् पारमिता उल्का, षट् पारमिता अवभासः, षट् पारमितास्त्राणम्, षट् (वैद्य 198) पारमिताः शरणम्, षट् पारमिता लयनम्, षट् पारमिताः
परायणम्, षट् पारमिता द्वीपः, षट् पारमिता माता, षट् पारमिताः पिता, षट् पारमिता ज्ञानाय बोधाय सर्वज्ञतायै अनुत्तरसम्यक्संबोधिप्राप्तये संवर्तन्ते / सर्वसत्त्वानामप्रत्युपकारिणाम् अपि उपकारिभूतो भवति, यदा बोधिसत्त्वो महासत्त्वः षट्पारमितासु शिक्षते //
आसु खलु पुनः सुभूते षट्सु पारमितासु शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या, अर्थतश् च धर्मतश् च नयतश्चोपपरीक्षितव्या उपनिध्यातव्या परिप्रष्टव्या परिप्रश्नयितव्या / तत्कस्य हेतोः? एषा हि प्रज्ञापारमिता षण्णां पारमितानां पूर्वंगमा नायिका परिणायिका संदर्शिका अवदर्शिका जनयित्री धत्री / तत्कस्य हेतोः? प्रज्ञापारमिताविरहिता हि पञ्च पारमिता न प्रज्ञायन्ते, नापि पारमितानामधेयं लभन्ते / तस्मात्तर्हि सुभूते अपरप्रणेयतां गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतायां स्थातुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम् //
सुभूतिराह - किंलक्षणा भगवन् प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - असङ्गलक्षणा सुभूते प्रज्ञापारमिता / सुभूतिराह - स्याद्भगवन् पर्यायो येन पर्यायेण येनैवासङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्येरन्? भगवानाह - एवमेतत्सुभूते, एवम् एतत् / स्यात्सुभूते पर्यायो येन पर्यायेण येनैव असङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्यन्ते / तत्कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ताः / सर्वधर्मा हि सुभूते शून्याः / तस्मात्तर्हि सुभूते येनैव असङ्गलक्षणेन प्रज्ञापारमिता विविक्ता शून्या, तेनैव असङ्गलक्षणेन सर्वधर्मा विविक्ताः शून्याः / सुभूतिराह - यदि भगवन् सर्वधर्मा विविक्ताः, सर्वधर्माः शून्याः, कथं भगवन् सत्त्वानां संक्लेशः प्रज्ञायते, कथं भगवन् सत्त्वानां व्यवदानं प्रज्ञायते? न च भगवन् विविक्तं संक्लिश्यते, न भगवन् विविक्तं व्यवदायति / न च भगवन् शून्यं संक्लिश्यते, न च भगवन् शून्यं व्यवदायति / न च भगवन् विविक्तं वा शून्यं वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / अन्यत्रापि भगवन् शून्यतायाः सर्वधर्मो नोपलभ्यते, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा / कथं वा वयं भगवन् अस्य भाषितस्यार्थमाजानीमः? देशयतु भगवन्, देशयतु सुगत / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तत्किं मन्यसे दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति? सुभूतिराह - एवमेतद्भगवन्, एवमेतत्सुगत /
दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति / भगवानाह - तत्किं मन्यसे सुभूते अपि नु अहंकारममकारौ शून्यौ? सुभूतिराह - शून्यौ भगवन्, शून्यौ सुगत / भगवानाह - तत्किं मन्यसे सुभूते अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति? सुभूतिराह - एवमेतद्भगवन्, एवमेतत्सुगत / अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति / भगवानाह - एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते / यथा सत्त्वानामुद्ग्रहो ऽभिनिवेशः, तथा संक्लेशः / न चात्र (वैद्य 199) कश्चित्संक्लिश्यते / यथा च सुभूते अनुद्गहो ऽनभिनिवेशः, तथा नाहंकारममकारौ प्रज्ञायेते / एवं खलु सुभूते सर्वसत्त्वानां व्यवदानं प्रज्ञायते / यथा सत्त्वानामनुद्ग्रहो ऽनभिनिवेशः, तथा व्यवदानम् / न चात्र कश्चिद्व्यवदायति / एवं खलु सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् / एवं खलु सुभूते सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते / सुभूतिराह - आश्चर्यं भगवन् यावद्यदिदं सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते / एवं च भगवंश्चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् / एवं हि चरन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति / एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो ऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन /
एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते / तत्कस्य हेतोः? अनभिभूतं हि भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् / अनेनापि भगवन् मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येत / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् / एवं हि चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति / एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन / एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते / तत्कस्य हेतोः? अनभिभूतं हि सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् / अनेनापि सुभूते मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत //
सचेत्खलु पुनः सुभूते ये जम्बूद्वीपे सत्त्वाः, ते सर्वे ऽपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन्, मानुष्यकमात्मभावं प्रतिलभ्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेरन्, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य यावज्जीवं तिष्ठेयुः, यावज्जीवं तिष्ठन्तो यावज्जीवं सर्वतथागतान् सत्कुर्युर्गुरुकुर्युर्मानयेयुः पूजयेयुरर्चयेयुरपचायेयुः, एवं सर्वसत्त्वेभ्यो ऽपि दानं दद्युः, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयेयुः / तत्किं मन्यसे सुभूते अपि नु ते बोधिसत्त्वा महासत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? सुभूतिराह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, यो बोधिसत्त्वो महासत्त्वो ऽन्ततः एकदिवसम् अपि प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरति / (वैद्य 200) तत्कस्य हेतोः? यथा यथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवं विहरति, तथा तथा सर्वसत्त्वानां दक्षिणीयतां गच्छति / तत्कस्य हेतोः? तथा हि सुभूते नास्ति तदन्येषां सत्त्वानां तादृशं मैत्रीसहगतं चित्तम्, यथा तस्य बोधिसत्त्वस्य महासत्त्वस्य, स्थापयित्वा बुद्धान् भगवतः / तत्कस्य हेतोः? अप्रतिपुद्गला हि सुभूते तथागताः / निरुपमा हि सुभूते तथागताः / अचिन्त्यधर्मसमन्वागता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः //
कथं च सुभूते स कुलपुत्रो वा कुलदुहिता वा तावत्तत्पुण्यमभिनिर्हरति? तादृश्या सुभूते प्रज्ञया समन्वागतः स बोधिसत्त्वो महासत्त्वो भवति, यादृश्या प्रज्ञया समन्वागतो वध्यगतानिव सर्वसत्त्वान् पश्यति / तेन तस्यां वेलायां महाकरुणापरिगृहीतो भवति / स दिव्येन चक्षुषा व्यवलोकयन् अप्रमेयानसंख्येयानपरिमेयानपरिमाणान् सत्त्वानानन्तर्यकर्मसमन्वागतान् पश्यति, अक्षणप्राप्तांश् च विहन्यमानांश् च दृष्टिजालप्रतिच्छन्नांश् च मार्गमप्रतिलभमानान् / अपरांश् च क्षणप्राप्तान् पश्यति, क्षणांश् च विरागयतः पश्यति / तस्य तस्यां वेलायां महान् संवेग उत्पद्यते / ते चास्य सर्वसत्त्वास्तया महामैत्र्या तया च महाकरुणया स्फारित्वा मनसिकृता भवन्ति - अहमेतेषां सर्वेषां सत्त्वानां नाथो भविष्यामि, अहमेनान् सर्वसत्त्वान् सर्वदुःखेभ्यो मोचयिष्यामीति / न च तेन वा अन्येन वा निमित्तेन सार्धं संवसति / अयम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महान् प्रज्ञालोको ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / अनेन हि सुभूते विहारेण विहरन्तो बोधिसत्त्वा महासत्त्वाः सर्वलोकस्य दक्षिणीयतां परिगृह्णन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः / येषां च दायकानां दानपतीनां च परिभुञ्जते चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, अस्यां प्रज्ञापारमितायां सूपस्थितचित्ताः, तेषां दायकानां दानपतीनां च दानदक्षिणां विशोधयन्ति / सर्वज्ञता चैषामासन्नीभवति /
तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अमोघं राष्ट्रं पिण्डं परिभोक्तुकामेन सर्वसत्त्वानां मार्गमुपदेष्टुकामेन विपुलमवभासं कर्तुकामेन संसारगतान् सत्त्वान् संसारात्परिमोचयितुकामेन सर्वसत्त्वानां चक्षुर्विशोधयितुकामेन अनेन प्रज्ञापारमिताप्रतिसंयुक्तेन मनसिकारेण विहर्तव्यम् / सचेदनेन मनसिकारेण विहर्तुमिच्छति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता मनसिकाराः समन्वाहर्तव्याः / तत्कस्य हेतोः? यो ह्येनान् समन्वाहर्तव्यान् मंस्यते, स एवास्य मनसिकारो भविष्यति / ततो ऽन्येषां मनसिकाराणां प्रज्ञापारमिताविरहितानामवकाशो न दातव्यः / तथा च कर्तव्यं यथायं प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानि क्षपयेत् / तद्यथापि नाम सुभूते केनचिदेव पुरुषेण मणिरत्नज्ञाने वर्तमानेन मणिरत्नजातिज्ञेन अप्रतिलब्धपूर्वं महामणिरत्नं प्रतिलब्धं भवेत् / स तन्महामणिरत्नं प्रतिलभ्य महतोदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत् / तस्य तन्महामणिरत्नं पुनरेव प्रणश्येत् / स ततोनिदानं महता दुःखदौर्मनस्येन संयुज्येत / तस्य सततसमितं तन्महामणिरत्नं प्रति संयुक्ता एव मनसिकाराः प्रवर्तेरन् - अहो बताहं तेन (वैद्य 201) महामणिरत्नेन विप्रयुक्त इति हि स पुरुषस्तस्य महामणिरत्नस्य न विस्मरेत् यावत् तद्वा अन्यद्वा तद्गुणं तज्जातिकं तेन महामणिरत्नं प्रतिलब्धं भवेत् /
एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितामहामणिरत्नपरिभ्रष्टेन महामणिरत्नपरिभ्रष्टेनेव महामणिरत्नेन रत्नसंज्ञिना प्रज्ञापारमितामनसिकाराविप्रयुक्तेन प्रज्ञापारमितामनसिकाराविरहितसर्वज्ञताचित्तेन तावदन्वेष्टव्या, यावत्सा वा अन्या वा प्रतिलब्धा भवति / तावत्तेन प्रज्ञापारमितामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञतामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैरविरहितेन भवितव्यम् //
सुभूतिराह - यत्पुनर्भगवन् सर्वधर्माः सर्वमनसिकाराः स्वभावेन विरहिताः शून्या उक्ता भगवता, तत्कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - सचेत्सुभूते बोधिसत्त्वो महासत्त्व एवं मनसि करोति - सर्वधर्माः स्वभावेन विविक्ताः, सर्वधर्माः स्वभावेन शून्या इति, एवमेतन्मनसि कुर्वन् प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति / तत्कस्य हेतोः? प्रज्ञापारमिता हि सुभूते शून्या / सा नैव विवर्धते, न च परिहीयते / सुभूतिराह - सचेद्भगवन् प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽविवर्धमानया प्रज्ञापारमितया बोधये समुदागच्छति, कथं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा / यथैव सुभूते प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः / स नैव विवर्धते, न च परिहीयते / यतः सुभूते यथैव प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः / स नैव विवर्धते, न च परिहीयते / ततो बोधिसत्त्वो महासत्त्वो बोधये समुदागच्छति, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / सचेत्सुभूते बोधिसत्त्वो महासत्त्वः एवं भाष्यमाणे नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते न संसीदति, वेदितव्यमेतत्सुभूते चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामिति //
सुभूतिराह - किं पुनर्भगवन् प्रज्ञापारमिता चरति प्रज्ञापारमितायाम्? भगवानाहनो हीदं सुभूते / आह - किं पुनर्भगवन् या प्रज्ञापारमितायाः शून्यता, सा चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् अन्यत्र प्रज्ञापारमिताशून्यतायाः स कश्चिद्धर्म उपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् शून्यता चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् शून्यतायां स कश्चिद्धर्म उपलभ्यते यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् शून्यता चरति शून्यतायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् रूपं चरति प्रज्ञापारमितायाम्? (वैद्य 202) भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् वेदना संज्ञा संस्काराः, किं पुनर्भगवन् विज्ञानं चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् अन्यत्र रूपात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / आह - किं पुनर्भगवन् अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते / सुभूतिराह - कथं पुनर्भगवन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्? एवमुक्ते - भगवानायुष्मन्तं सुभूतिमेतदवोचत् - किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यश्चरति प्रज्ञापारमितायाम्? सुभूतिराह - नो हीदं भगवन् /
भगवानाह - समनुपश्यसि त्वं सुभूते तां प्रज्ञापारमितां यत्र प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वश्चरति? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यो धर्मो ऽनुपलम्भः, तं धर्मं समनुपश्यसि? अपि नु स एव धर्म उत्पन्नो वा उत्पत्स्यते वा उत्पद्यते वा, निरुद्धो वा निरोत्स्यते वा निरुध्यते वा? आह - नो हीदं भगवन् / भगवानाह - एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकेषु धर्मेषु क्षान्तिरेवंरूपा भवति / एवंरूपया च सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ / इयं सुभूते तथागतस्य वैशारद्यप्रतिपद् यां प्रतिपद्यमानो बोधिसत्त्वो महासत्त्वः एवं चरन् एवं घटमानः एवं व्यायच्छमानो ऽनुत्तरं बुद्धज्ञानं सर्वज्ञज्ञानं महासार्थवाहज्ञानं नानुप्राप्स्यतीति नैतत्स्थानं विद्यते //
सुभूतिराह - या भगवन् सर्वधर्माणामनुत्पत्तिकधर्मता, सा व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ? भगवानाह - नो हीदं सुभूते / सुभूतिराह - कथमस्येदानीं भगवन् धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? भगवानाह - किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यस्य धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? सुभूतिराह - नो हीदं भगवन् / नाहं भगवंस्तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो व्याकरिष्यते व्याक्रियते वा अनुत्तरायां सम्यक्संबोधौ / तमप्यहं भगवन् धर्मं न समनुपश्यामि, यो धर्मो ऽभिसंबुध्यते, यो धर्मो ऽभिसंबोद्धव्यः, येन वा धर्मेणाभिसंबुध्यते / तत्कस्य हेतोः? सर्वधर्मेषु भगवन् अनुपलभ्यमानेषु न मे एवं भवति - अयं धर्मो ऽभिसंबुध्यते, अयं धर्मो ऽभिसंबोद्धव्यः, अनेन वा धर्मेणाभिसंबुध्यते इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः //
asp_23: शक्रपरिवर्तस्त्रयोविंशतितमः / तेन खलु पुनः समयेन शक्रो देवानामिन्द्रस्तस्यामेव पर्षदि संनिपतितः संनिषण्णो ऽभूत् / अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - गम्भीरेयं भगवन् प्रज्ञापारमिता / दुर्द्दशा दुरनुबोधा बतेयं भगवन् प्रज्ञापारमिता / एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / गम्भीरेयं कौशिक प्रज्ञापारमिता / दुर्दृशा दुरनुबोधा बतेयं कौशिक प्रज्ञापारमिता / आकाशगम्भीरतया गम्भीरेयं प्रज्ञापारमिता / विविक्तत्वाद्दुर्दृशा / शून्यत्वाद्दुरनुबोधेयं प्रज्ञापारमिता / एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति / श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति / एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति / श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति / यावन्तः कौशिक जम्बूद्वीपे सत्त्वाः, ते सर्वे दशकुशलकर्मपथसमन्वागता भवेयुः, तत्किं मन्यसे कौशिक अपि नु ते सत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा
बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां श्रोष्यति / श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति / अस्य कौशिक पुण्यस्कन्धस्य असौ पौर्वकाणां जाम्बूद्वीपकानां सर्वसत्त्वानां शीलमयः पुण्यस्कन्धः शततमीम् अपि कलां नोपैति / सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति / संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते, येन कुशलमूलेन स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भवति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति / श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति //
अथ खल्वन्यतरो भिक्षुः शक्रं देवानामिन्द्रमेतदवोचत् - अभिभूतो ऽसि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति / श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति / एवमुक्ते शक्रो देवानामिन्द्रस्तं भिक्षुमेतदवोचत् - एकचित्तोत्पादेनैव अहमार्य तेन कुलपुत्रेण वा कुलदुहित्रा वा अभिभूतः / कः पुनर्वादो य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति / श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति (वैद्य 204) देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति / कः पुनर्वादो ये श्रुत्वा उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते / ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः / न केवलं ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति, ये ऽपि ते स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः सम्यक्संबुद्धाः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः / न केवलं स्रोतआपन्नान् सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धानभिभवन्तो गमिष्यन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा महादानपतयः प्रज्ञापारमितोपायकौशल्यविरहिताः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः /
न केवलं तान् महादानपतीन् बोधिसत्त्वानभिभवन्तो गमिष्यन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा परिशुद्धशीला अखण्डेन शीलस्कन्धेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः / न केवलमखण्डेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागतान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वाः क्षान्तिसंपन्ना उपशमसंपन्ना अप्रतिहतचित्ता अन्ततो दग्धस्थूणायामप्याघातचित्तं नोत्पादयन्ति प्रज्ञापारमितोपायकौशल्यविरहिताः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः / न केवलं क्षान्तिसंपन्नानुपशमसंपन्नानप्रतिहतचित्तान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा आरब्धवीर्या अनिक्षिप्तधुरा अकुसीदा अनवलीनकायवाङ्मनःकर्मान्ताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः / न केवलमारब्धवीर्याननिक्षिप्तधुरानकुसीदाननवलीनकायवाङ्मनःकर्मान्तान् बोधिसत्त्वान् महासत्त्वानभिभवन्तो गमिष्यन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा ध्यानारामा ध्यानरता ध्यानबलिनो ध्यानबलवन्तो ध्यानप्रतिष्ठिता ध्यानवशिनः प्रज्ञापारमितोपायकौशल्यविरहिताः, तान् अपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः /
यथानिर्दिष्टायां हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरलोकं सर्वान् श्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश् च बोधिसत्त्वान् महासत्त्वानभिभवति, तेषां चानभिभूतो भवति / तत्कस्य हेतोः? यो हि बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां चरति, प्रज्ञापारमितामनुवर्तते, अयं बोधिसत्त्वो महासत्त्वः सर्वज्ञवंशस्यानुपच्छेदाय स्थितो भवति / अयं बोधिसत्त्वो महासत्त्वस्तथागतान् न दूरीकरिष्यति / अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो नचिराद्गमिष्यति बोधिमण्डम् / अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणः सत्त्वान् क्लेशपङ्के संसीदमानानुद्धरिष्यति / अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते, न श्रावकशिक्षायां शिक्षते, न प्रत्येकबुद्धशिक्षायां शिक्षते / एवं शिक्षमाणं च प्रज्ञापारमितायां बोधिसत्त्वं महासत्त्वं (वैद्य 205) चत्वारो लोकपाला महाराजान उपसंक्रम्यैवं वक्ष्यन्ति - क्षिप्रं त्वं कुलपुत्र अस्यां बोधिसत्त्वचर्यायां शिक्षस्व, लघु शिक्षस्व / इमानि ते चत्वारि पात्राणि यानि त्वया बोधिमण्डे निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन प्रतिग्रहीतव्यानीति / एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं यथानिर्दिष्टायां प्रज्ञापारमितायां न केवलं चत्वारो लोकपाला महाराजान उपसंक्रमितव्यं मंस्यन्ते, अहम् अपि भगवंस्तं बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यामि, कः पुनर्वादस्तदन्ये देवपुत्राः / तथागतैर् अपि सो ऽर्हद्भिः सम्यक्संबुद्धैर्नित्यमेव समन्वाहृतो भविष्यति बोधिसत्त्वो महासत्त्वः /
एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य यानि कानिचिल्लौकिकानि दुःखानि परोपक्रमिकाणि वा अन्यानि वा उत्पद्येरन्, तान्यस्य सर्वेण सर्वं सर्वथा सर्वं नोत्पत्स्यन्ते / अयम् अपि भगवन् दृष्टधार्मिको गुणस्तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भवति //
अथ खल्वायुष्मत आनन्दस्यैतदभवत् - किमयं शक्रो देवानामिन्द्रः स्वकेन प्रतिभानेन भाषते, उताहो बुद्धानुभावेनेति? अथ खलु बुद्धानुभावेन शक्रो देवानामिन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत् - बुद्धानुभावो ऽयमार्यानन्द वेदितव्यः, बुद्धाधिष्ठानमिदम् अपि आर्यानन्द वेदितव्यम्, अप्रतिबलो ह्यहमार्यानन्द बोधिसत्त्वान् महासत्त्वानारभ्य व्याहर्तुम् / अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - एवमेतदानन्द, एवम् एतत् यथा शक्रेण देवानामिन्द्रेण भाषितम् / तथागतस्यैषो ऽनुभावः, तथागतस्यैतदधिष्ठानम्, यच्छक्रेण देवानामिन्द्रेण भाषितमिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शक्रपरिवर्तो नाम त्रयोविंशतितमः // asp_24: अभिमानपरिवर्तश्चतुर्विंशतितमः / अथ खलु भगवान् पुनरप्यायुष्मन्तमानन्दमामन्त्रयते स्म - यस्मिन् खलु पुनरानन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिन् आनन्द समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः, ते सर्वे संशयिता भवन्ति - किमयं बोधिसत्त्वो महासत्त्वो ऽन्तरा भूतकोटिं साक्षात्करिष्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा, उताहो अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते इति / पुनरपरमानन्द तस्मिन् समये माराः पापीयांसः शोकशल्यविद्धा भवन्ति यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति / पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिन् समये माराः पापीयांसो बोधिसत्त्वस्य महासत्त्वस्य विहेठामुपसंहरन्ति, भयं संजनयन्ति, उल्कापातान् दिशि दिश्युत्सृजन्ति, दिग्दाहानुपदर्शयन्ति - अप्येव नाम अयं बोधिसत्त्वो महासत्त्वो ऽवलीयेत वा रोमहर्षो वा अस्य भवेत्, येनास्यैकचित्तोत्पादो ऽपि क्षीयेत अनुत्तरायां सम्यक्संबोधेरिति / तत्र आनन्द न सर्वस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अपि तु कस्यचिदुपसंक्रामति, कस्यचिन्नोपसंक्रामति //
आनन्द आह - कियद्रूपस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य उपसंक्रामति मारः पापीयान् विहेठनाभिप्रायः? भगवानाह - येन आनन्द बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततः प्रज्ञापारमितायां भाष्यमाणायामधिमुक्तिचित्तं नोत्पादितं भवति, अस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते //
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां संशयप्राप्तो भवति, विमतिमुत्पादयति - स्याद्वेयं प्रज्ञापारमिता, एवं न वा स्यादिति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते //
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वः कल्याणमित्रविरहितो भवति, पापमित्रपरिगृहीतश् च भवति, स गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमितायां भाष्यमाणायां न शृणोति, अशृण्वन्न जानाति, अजानन्न परिपृच्छति - कथं प्रज्ञापारमिता भावयितव्येति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते //
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो ऽसद्धर्मपरिग्राहकमालीनो भवति - एष मम सहायकः, सर्वार्थेषु मां न परित्यजति, बहवो ऽपि बोधिसत्त्वा महासत्त्वा ममान्ये ऽपि सहायकाः सन्ति / न च पुनस्ते ममाभिप्रायं परिपूरयन्ति / अयं तु मया प्रतिरूपः सहायो लब्धः / अयं ममाभिप्रायं परिपूरयिष्यति / अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते //
(वैद्य 207) पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायामन्यं बोधिसत्त्वमेवं वदेत् - गम्भीरा बतेयं प्रज्ञापारमिता / किं तवैनया श्रुतया? न ह्येवमत्र युज्यमानमन्येषु सूत्रान्तेषु यथा तथागतेन भाषितम् / अहमप्यस्यामगाधमास्वादं न लभे / किं तवैनया श्रुतया लिखितया वेति? एवमन्यान् अपि बोधिसत्त्वान् महासत्त्वान् विवेचयते / अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते //
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वो ऽन्यान् बोधिसत्त्वानवमन्यते - अहं विवेकविहारेण विहरामि, नान्ये विवेकविहारेण विहरन्ति, नान्येषां विवेकविहाराः संविद्यन्ते इति / तस्मिन्नानन्द समये मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, संहर्षजातो हर्षितचित्तः प्रीतिप्रामोद्यजातो भवति / तत्कस्य हेतोः? दूरीकरोत्येषो ऽनुत्तरां सम्यक्संबोधिमिति //
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा धुतगुणपरिकीर्तनं वा भवति, एवं स तावन्मात्रकेण ततो ऽन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् कल्याणधर्मणो ऽवमन्यते / ते च तस्य गुणा न संविद्यन्ते, ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां गुणाः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि तस्य न संविद्यन्ते / सो ऽसंविद्यमानेष्वविनिवर्तनीयगुणेषु क्लेशमुत्पादयति, यदुत आत्मानमुत्क्रोशयति, परान् पंसयति - न खल्वेते तेषु धर्मेषु संदृश्यन्ते, यत्राहं संदृश्य इति / तत्र माराणां पापीयसामेवं भवति - न शून्यानि मारभवनानि भविष्यन्ति, उत्सदानि भविष्यन्ति / महानिरयास्तिर्यञ्चः प्रेतविषया आसुराश् च काया उत्सदा भविष्यन्तीति / तथा च मारः पापीयानधिष्ठास्यति, यथा ते बोधिसत्त्वा महासत्त्वा एवं प्रवृत्ता अध्याक्रान्ता लाभसत्कारेण भविष्यन्ति, आदेयवचनाश् च भविष्यन्ति / ते तया आदेयवचनतया बहुजनं ग्राहयिष्यन्ति / तेषां च स महाजनः श्रोतव्यं श्रद्धातव्यं मंस्यते / ते दृष्ट्वा श्रुत्वा च तेषामनुकृतिमापत्स्यन्ते / ते दृष्टश्रुतानुकृतिमापद्यमाना न तथत्वाय शिक्षिष्यन्ते, न तथत्वाय प्रतिपत्स्यन्ते, न तथत्वाय योगमापत्स्यन्ते / एवं ते न तथतायां शिक्षमाणा न तथतायां प्रतिपद्यमाना न तथतायां योगमापद्यमानाः संक्लेशं विवर्धयिष्यन्ति / एवं ते विपर्यस्तया चित्तसंतत्या यद्यदेव कर्म आरप्स्यन्ते कायेन वा वाचा वा मनसा वा, तत्सर्वमनिर्दिष्टत्वाय अकान्तत्वाय अप्रियत्वाय अमनआपत्वाय संवर्त्स्यते / एवं ते महानिरया उत्सदा भविष्यन्ति, तिर्यञ्चः प्रेतविषया आसुराश् च कायाः, मारभवनानि चोत्सदानि भविष्यन्ति / इममप्यानन्द अर्थवशं संपश्यन् मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति //
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः श्रावकयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशेत् परिभाषेत व्यापद्येत दोषमुत्पादयति, तस्मिन् (वैद्य 208) समये मारस्य पापीयस एवं भवति - दूरीकरिष्यति बतायं कुलपुत्रः सर्वज्ञताम्, अतिदूरे स्थास्यति सर्वज्ञतायाः सचेत्पुनर्बोधिसत्त्वयानिकः पुद्गलो ऽन्येन बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशति परिभाषते व्यापद्यते दोषमुत्पादयति, तत्र मारः पापीयान् भूयस्या मात्रया तुष्टो भवति, उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति / एवं चास्य भवति - उभावप्येतौ बोधिसत्त्वौ दूरे स्थास्यतः सर्वज्ञताया इति //
पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो व्याकृतो ऽव्याकृतेन बोधिसत्त्वेन महासत्त्वेन सार्धं कलहायेत् विवदेत् विगृह्णीयात् आक्रोशेत् परिभाषेत व्यापद्येत दोषमुत्पादयेत्, चित्तं चाघातयेत्, तेन बोधिसत्त्वेन महासत्त्वेन चित्तोत्पादे तावत एव कल्पान् संनाहः संनाह्यः, सचेदस्यापरित्यक्ता सर्वज्ञता //
एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - अस्ति भगवंस्तेषां चित्तोत्पादानां किंचिन्निःसरणम्, उताहो तावत एव कल्पानवश्यं तेन बोधिसत्त्वेन महासत्त्वेन संनाहः संनह्यः? भगवानाह - सनिःसरणमानन्द मया धर्मो देशितः श्रावकयानिकानां प्रत्येकबुद्धयानिकानां बोधिसत्त्वयानिकानां च पुद्गलानाम् / तत्र आनन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य न प्रतिदेशयति, नायत्यां संबराय प्रतिपद्यते, अनुशयं वहति, अनुशयबद्धो विहरति, नाहमानन्द तस्य पुद्गलस्य निःसरणं वदामि / अवश्यं तेन आनन्द पुद्गलेन पुनरेव तावत एव कल्पान् संनाहः संनह्यः / यः पुनरानन्द बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य प्रतिदेशयति, प्रतिदेश्य आयत्यां संवराय प्रतिपद्यते, एवं च चित्तमुत्पादयति - येन मया सर्वसत्त्वानां विग्रहा विवादा विरोधा उत्सारयितव्या निध्यापयितव्याः प्रशमयितव्याः, सो ऽहं नाम स्वयमेव विवदामि / लाभा मे दुर्लब्धा न सुलब्धाः, यो ऽहं जल्पिते प्रतिजल्पामि / येन मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम्, सो ऽहं परेषु त्वमित्य् अपि वाचं भाषे, परुषं वा कर्कशं वा प्रतिवचो ददामि / इदम् अपि मया नैव वक्तव्यम् / जडसदृशेन एडमूकसमेन मया कलहविग्रहविवादेषु भवितव्यम्, परतो दुरुक्तानि दुरागतानि दुर्भाषितानि भाष्यमाणानि शृण्वता चित्तं नाघातयितव्यम् /
परेषामन्तिके न ममैतत्साधु, न चैतन्ममां प्रतिरूपम्, यो ऽहं परस्य दोषान्तरं संजाने / एतद् अपि मे न प्रतिरूपम्, यदहं परेष दोषान्तरम् अपि श्रोतव्यं मन्ये / तत्कस्य हेतोः? न मया अध्याशयो विकोपयितव्यः, येन मया सर्वसत्त्वाः सर्वसुखोपधानैः सुखयितव्याः, परिनिर्वापयितव्याश् च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य, स नामाहं व्यापद्ये / न च मया स्वपराद्धेष्व् अपि परेषु व्यापत्तव्यम् / स नामाहं क्षोभं गच्छामि / इदं मया न करणीयम् / दृढपराक्रमतया पराक्रान्तव्यम् / न च मया जीवितान्तराये ऽपि क्रियमाणे क्षोभः करणीयः, न भ्रुकुटिर्मुखे उत्पादयितव्येति / अस्याहमानन्द (वैद्य 209) बोधिसत्त्वस्य महासत्त्वस्य निःसरणं वदामि / एवं चानन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकानाम् अपि पुद्गलानामन्तिके स्थातव्यम्, यथा न कस्यचित्सत्त्वस्यान्तिके क्षुभ्येत, एवमेव च सर्वसत्त्वानामन्तिके स्थातव्यम् / कथं चानन्द बोधिसत्त्वेन महासत्त्वेन अपरेषां बोधिसत्त्वयानिकानां पुद्गलानामन्तिके स्थातव्यम्? तद्यथापि नाम आनन्द शास्तरि / एते मम बोधिसत्त्वा महासत्त्वाः शास्तार इत्येवं स्थातव्यम् / एकयानसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, एकमार्गसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, समानाभिप्राया बतेमे मम बोधिसत्त्वा महासत्त्वाः, समयानसंप्रस्थिता बतेमे मम बोधिसत्त्वा महासत्त्वाः / यत्रैभिः शिक्षितव्यम्, तत्र मया शिक्षितव्यम् / यथैव चैभिः शिक्षितव्यम्, तथैव मया शिक्षितव्यम् / सचेत्पुनरेषां कश्चिद्व्यवकीर्णविहारेण विहरिष्यति, न मया व्यवकीर्णविहारेण विहर्तव्यम् /
सचेत्पुनरेते ऽव्यवकीर्णविहारेण विहरिष्यन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः, मयाप्येवं शिक्षितव्यम् / एवं सर्वज्ञतायां शिक्षमाणस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य अन्तरायो न भवत्यनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामभिमानपरिवर्तो नाम चतुर्विंशतितमः //
asp_25: शिक्षापरिवर्तः पञ्चविंशतितमः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - क्व पुनर्भगवन् शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते? भगवानाह - सचेत्सुभूते बोधिसत्त्वो महासत्त्वः क्षये शिक्षते, सर्वज्ञतायां शिक्षते / एवमनुत्पादे ऽनिरोधे ऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ / सचेत्सुभूते बोधिसत्त्वो महासत्त्वो निर्वाणे शिक्षते, सर्वज्ञतायां शिक्षते / सुभूतिराह - किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम्, एवमनुत्पादे ऽनिरोधे ऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायाम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - यत्सुभूते एवं वदसि - किं कारणं बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम् / एवमनुत्पादे ऽनिरोधे ऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायामिति? तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा क्षीयते? सुभूतिराह - नो हीदं भगवन् / तत्कस्य हेतोः? न हि भगवन् क्षयः क्षीयते / अक्षयो हि भगवन् क्षयः / भगवानाह - तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा उत्पद्यते वा निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा विरज्यते वा आकाशीभवति वा धर्मीभवति वा? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति
प्रभाव्यते, अपि नु सा निर्वाति? आह - नो हीदं भगवन् / भगवानाह - तस्मात्तर्हि सुभूते एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः न तथता क्षीयते इत्येवं शिक्षते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते सर्वज्ञतायाम् / एवं शिक्षमाणः शिक्षते प्रज्ञापारमितायाम्, शिक्षते बुद्धभूमौ, शिक्षते बलेषु, शिक्षते वैशारद्येषु, शिक्षते सर्वबुद्धधर्मेषु, शिक्षते सर्वज्ञज्ञाने / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापारमितामनुप्राप्स्यति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यो मारेण वा मारपर्षदा वा मारकायिकाभिर्वा देवताभिरभिमर्दितुम् / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रमविनिवर्तनीयधर्मतामनुप्राप्स्यति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रं बोधिमण्डे निषत्स्यति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके गोचरे चरति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते नाथकरकेषु धर्मेषु, शिक्षते महामैत्र्याम्, महाकरुणायां शिक्षते, महामुदितायां शिक्षते, महोपेक्षायां शिक्षते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते त्रिपरिवर्तस्य द्वादशाकारस्य धर्मचक्रस्य प्रवर्तनाय / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधातुं नोनीकरिष्यामीति शिक्षते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस्तथागतवंशस्यानुपच्छेदाय शिक्षते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो ऽमृतधातुद्वारं विवरिष्यामीति शिक्षते / नेयं सुभूते उदारा (वैद्य 211) शिक्षा शक्या हीनसत्त्वेन शिक्षितुम् / न हि अल्पस्थाम्ना शक्यमस्यां
शिक्षायां शिक्षितुम् / तत्कस्य हेतोः? सर्वसत्त्वसारा हि ते सुभूते, सर्वसत्त्वनाथकामा हि ते सुभूते, ये ऽस्यां शिक्षायां शिक्षन्ते / सर्वसत्त्वाभ्युद्गततां ते ऽनुप्राप्तुकामाः, य इह शिक्षन्ते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न निरयेषूपपद्यते, न तिर्यग्योनिषूपपद्यते, न प्रेतविषयेषूपपद्यते, नासुरेषु कायेषूपपद्यते, न प्रत्यन्तजनपदेषूपपद्यते, न चण्डालकुलेषूपपद्यते, न शाकुनिककुलेषूपपद्यते, न निषादधीवरौरभ्रिककुलेषूपपद्यते, नाप्यन्येष्वेवंरूपेषु हीनजातिकेषु हीनकर्मसेविषु वा कुलेषूपपद्यते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नान्धो भवति, न बधिरो भवति, न काणो भवति, न कुण्ठो भवति, न कुब्जो भवति, न कुणिर्भवति, न लङ्गो भवति, न खञ्जो भवति, न जडो भवति, न लोलो भवति, न लोल्लो भवति, न कल्लो भवति, न हीनाङ्गो भवति, न विकलाङ्गो भवति, न विकृताङ्गो भवति, न दुर्बलो भवति, न दुर्वर्णो भवति, न दुःसंस्थानो भवति, न हीनेन्द्रियो भवति, न विकलेन्द्रियो भवति / सर्वाकारपरिपूर्णेन्द्रियो भवति, स्वरसंपन्नो भवति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न प्राणातिपाती भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न पिशुनवाग्भवति, न परुषवाग्भवति, न संभिन्नप्रलापी भवति, नाभिध्यालुर्भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिको भवति, न मिथ्याजीवेन जीविकां कल्पयति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते, न दुःशीलपरिग्राहको भवति, नाभूतधर्मपरिग्राहको
भवति, न ध्यानसमापत्तिवशेनोपपद्यते / तत्कस्य हेतोः? अस्ति हि तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते / तत्पुनः सुभूते उपायकौशल्यं बोधिसत्त्वस्य महासत्त्वस्य कतमत्? यदुत इयमेव प्रज्ञापारमिता / तथा च अत्रोपायकौशल्ये योगमापद्यते, यथा अन्येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति //
आयुष्मान् सुभूतिराह - यदा भगवन् सर्वधर्मा एवं प्रकृतिपरिशुद्धाः, तत्कतमस्य भगवन् धर्मस्य बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / तत्कस्य हेतोः? सर्वधर्मा हि सुभूते प्रकृत्यैव परिशुद्धाः / एवं सुभूते प्रकृतिपरिशुद्धेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या असंसीदनता अनवलीनता, इयं सा सुभूते प्रज्ञापारमिता / एवं सुभूते बालपृथग्जना एनान् धर्मानजानन्तो ऽपश्यन्तो धर्माणां धर्मतां न जानन्ति, न पश्यन्ति / तेषां सत्त्वानां (वैद्य 212) कृतशः सुभूते बोधिसत्त्वा महासत्त्वा व्यायच्छन्ते, वीर्यमारभन्ते - वयमेवमजानकान् सत्त्वान् जानयिष्यामः, वयमेवमपश्यकान् सत्त्वान् पश्ययिष्यामः इत्यत्र शिक्षायां शिक्षन्ते / अत्र शिक्षायां शिक्षमाणा बोधिसत्त्वा महासत्त्वा बलान्यनुप्राप्नुवन्ति, वैशारद्यान्यनुप्राप्नुवन्ति / सर्वबुद्धधर्माननुप्राप्नुवन्ति / एवं शिक्षमाणाः सुभूते बोधिसत्त्वा महासत्त्वाः परसत्त्वानां परपुद्गलानां चित्तचरितविस्पन्दितानि यथाभूतं प्रजानन्ति / यथाभूतं प्रजानन्तः परचित्तचरितज्ञतायाः पारं गच्छन्ति / तद्यथापि नाम सुभूते अल्पकास्ते महापृथिव्यां पृथिवीप्रदेशाः ये ऽपगतपाषाणाः, यत्र सुवर्णं वा जातरूपं वा रजतं वोत्पद्यते / अथ खलु पुनर्बहुतरकास्ते महापृथिव्यां पृथिवीप्रदेशाः, य ऊषरा उज्जङ्गला विविधतृणकाण्डकण्टकाधानाः / एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ऽस्यां सर्वज्ञताशिक्षायां शिक्षन्ते यदुत प्रज्ञापारमिताशिक्षायाम् / अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते //
पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते / अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये कोट्टराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते / एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये इमं मार्गमारूढा यदुत प्रज्ञापारमितामार्गम्, अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे इति / अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धमार्गमारूढाः //
पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये शक्रसंवर्तनीयं कर्म समादाय वर्तन्ते / अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये देवलोकसंवर्तनीयं कर्म समादाय वर्तन्ते / एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ऽस्यां प्रज्ञापारमिताशिक्षायां शिक्षन्ते / अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते //
पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मसंवर्तनीयं कर्म समादाय वर्तन्ते / अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मपार्षद्यसंवर्तनीयं कर्म समादाय वर्तन्ते / एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः / अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः / तस्मात्तर्हि सुभूते अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः / तेभ्यो ऽपि सुभूते अल्पेभ्यो ऽल्पतरकास्ते सत्त्वाः, ये तथत्वाय प्रतिपद्यन्ते / (वैद्य 213) तेभ्यो ऽपि सुभूते अल्पतरकेभ्यस्तथत्वाय प्रतिपद्यमानेभ्यो ऽल्पतमास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते / तेभ्यो ऽपि सुभूते अल्पतमेभ्यः प्रज्ञापारमितायां योगमापद्यमानेभ्यो ऽल्पतमास्ते बोधिसत्त्वा महासत्त्वाः, ये ऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः / तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन य एते ऽल्पतमेभ्यो ऽल्पतमा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः, तेषु गणनां गन्तुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्, योगमापत्तव्यम् //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं प्रज्ञापारमितायां शिक्षमाणस्य न खिलसहगतं चित्तमुत्पद्यते, न विचिकित्सासहगतं चित्तमुत्पद्यते, नेर्ष्यामात्सर्यसहगतं चित्तमुत्पद्यते, न दौःशील्यसहगतं चित्तमुत्पद्यते, न व्यापादसहगतं चित्तमुत्पद्यते, न कौसीद्यसहगतं चित्तमुत्पद्यते, न विक्षेपसहगतं चित्तमुत्पद्यते, न दौष्प्रज्ञसहगतं चित्तमुत्पद्यते / एवं हि सुभूते प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिता संगृहीता भवन्ति, सर्वाः पारमिता उद्गृहीता भवन्ति, सर्वाः पारमिता अनुगता भवन्ति / सर्वाः पारमिता अन्तर्गता भवन्ति / तद्यथापि नाम सुभूते सत्कायदृष्टौ द्वाषष्टिदृष्टिगतान्यन्तर्गतानि भवन्ति, एवमेव सुभूते प्रज्ञापारमितायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य तस्यां सर्वाः पारमिता अन्तर्गता भवन्ति / तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये प्रवर्तमाने सर्वाणीन्द्रियाण्यन्तर्गतानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य सर्वकुशला धर्मा अन्तर्गता भवन्ति / तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य अज्ञाने निरुद्धे सर्वे ऽकुशला धर्मा निरुद्धा भवन्ति, सर्वाश् च तदन्याः पारमिता अन्तर्गताः परिगृहीता भवन्ति / तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः परिग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम् /
प्रज्ञापारमितायां शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामग्रतायां शिक्षते / तत्कस्य हेतोः? पुण्याग्रत्वात् / तत्किं मन्यसे सुभूते यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः सत्त्वसंग्रहेण संगृह्यमाणाः, अपि नु ते बहवो भवन्ति? सुभूतिराह - जाम्बूद्वीपका एव तावद्भगवन् बहवः सत्त्वा भवन्ति, कः पुनर्वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः / भगवानाह - यः सुभूते एको बोधिसत्त्वो महासत्त्वो यावज्जीवं तिष्ठंस्तान् सर्वसत्त्वान् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैश्चोपतिष्ठेत्, तत्किं मन्यसे सुभूते अपि नु स बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति? सुभूतिराह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स सुभूते बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामन्तशो ऽच्छटासंघातमात्रकम् अपि भावयेत् / तत्कस्य हेतोः? एवं महार्थिका हि सुभूते प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरायाः सम्यक्संबोधेराहारिका / तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामनुत्तरतां गन्तुकामेन सर्वसत्त्वानामनाथानां नाथेन भवितुकामेन (वैद्य 214) बुद्धविषयमनुप्राप्तुकामेन बुद्धवृषभितामनुगन्तुकामेन बुद्धविक्रीडितं विक्रीडितुकामेन बुद्धसिंहनादं नदितुकामेन बुद्धसंपत्तिमनुप्राप्तुकामेन त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मसांकथ्यं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् /
प्रज्ञापारमितायां सुभूते शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य नाहं तां संपत्तिं समनुपश्यामि, या तेन न शिक्षिता भवति / सुभूतिराह - किं पुनर्भगवन् श्रावकसंपत्तिर् अपि तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति? भगवानाह - श्रावकसंपत्तिर् अपि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति / न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकसंपत्यां स्थास्यामीति शिक्षते, श्रावकसंपत्तिर्वा मे भविष्यतीति नैवं शिक्षते / ये ऽपि ते सुभूते श्रावकगणाः, तान् अपि स जानाति, न च तत्रावतिष्ठते / एवं च व्यवचारयति, न च प्रतिवहति - मयाप्येते श्रावकगुणा देशयितव्याः प्रकाशयितव्या इति शिक्षते / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वांस्ततो ऽन्यान् दक्षिणीयान् श्रावकप्रतिसंयुक्तान् प्रत्येकबुद्धप्रतिसंयुक्तांश्चाभिभवति, सर्वज्ञता चास्य आसन्नीभवति / एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति, प्रज्ञापारमितां चरति प्रज्ञापारमितायामविरहितः प्रज्ञापारमिताविहारेण / एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽपरिहाणधर्मा अपरिहाणधर्मेति वेदितव्यः / सर्वज्ञताया दूरीकरोति श्रावकभूमिम्, प्रत्येकबुद्धभूमिं च, आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः / सचेत्पुनरस्यैवं भवति - इयं सा प्रज्ञापारमिता इमां सर्वज्ञतामाहरिष्यति, इत्येवं संजानीते, चरति प्रज्ञापारमिताम् /
अथ ताम् अपि प्रज्ञापारमितां न संजानीते - इयं सा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमिता सर्वज्ञतामाहरिष्यतीति वा, एवम् अपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, न समनुपश्यति / सचेदेवं चरति बोधिसत्त्वो महासत्त्वः, चरति प्रज्ञापारमितायामिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शिक्षापरिवर्तो नाम पञ्चविंशतितमः // asp_26: मायोपमपरिवर्तः षड्विंशतितमः / अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - चरन्नेव तावदयं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानभिभवति, कः पुनर्वादो यदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यति / लाभास्तेषां सत्त्वानां सुलब्धाः, सुजीवितं च ते सत्त्वा जीवन्ति, येषां सर्वज्ञतायां चित्तं क्रामति / कः पुनर्वादो यैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / स्पृहणीयास्ते सत्त्वा ये सत्त्वसारा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते //
अथ खलु शक्रो देवानामिन्द्रो मान्दारवाणि पुष्पाण्यभिनिर्माय पुष्पाणामञ्जलिं कृत्वा तथागतमर्हन्तं सम्यक्संबुद्धमभ्यवाकिरत्, एवं च वाचमभाषत - यैर्बोधिसत्त्वयानिकैः पुद्गलैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् - अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे, अभिसंबुध्य सर्वसत्त्वान् महता संसारार्णवेनोह्यमानान् समे पारिमे तीरे प्रतिष्ठापयिष्याम इति, समृध्यन्तां तेषामभीप्सिताः परिचिन्तिताः, परिगृहीताश्चित्तोत्पादाः एतेषामेव बुद्धधर्माणां परिपूरणाय भवन्तु, एतेषामेव सर्वज्ञताप्रतिसंयुक्तानां धर्माणां परिपूरणाय भवन्तु, एतेषामेव स्वयंभूधर्माणां परिपूरणाय भवन्तु, एतेषामेव असंहार्यधर्माणां परिपूरणाय भवन्तु / न मे भगवन् एकचित्तोत्पादो ऽप्युत्पद्यते, यत्ते बोधिसत्त्वा महासत्त्वा महाकरुणया समन्वागता विवर्तेरन् अनुत्तरायाः सम्यक्संबोधेरिति / न मे भगवन् एकचित्तोत्पादो ऽप्युत्पद्यते यत्ते बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः, ततो विवर्तेरन् / इति यद्भूयस्या मात्रया प्रणिधिं जनयिष्यन्त्यनुत्तरायां सम्यक्संबोधौ इमानि संसारावचराणि दुःखानि सत्त्वानां संपश्यन्तः / तत्कस्य हेतोः? तया महाकरुणया अर्थकामा हितकामा हि ते सदेवमानुषासुरस्य लोकस्यानुकम्पकाः, ये इमैरेवंरूपैश्चित्तोत्पादैः समन्वागताः किमिति वयं तीर्णाः सत्त्वांस्तारयेम, मुक्ता मोचयेम, आश्वस्ता आश्वासयेम, परिनिर्वृताः परिनिर्वापयेम, इत्येतैश्चित्तोत्पादैर्विहरन्ति /
यस्तेषां भगवन् प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां चित्तोत्पादाननुमोदते, अविनिवर्तनीयानामप्यविनिवर्तनीयधर्मतामनुमोदते, एकजातिप्रतिबद्धानाम् अपि बोधिसत्त्वानां महासत्त्वानामेकजातिप्रतिबद्धधर्मतामनुमोदते, कियत्स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - स्यात्खलु पुनः कौशिक शक्येत सुमेरोः पर्वतराजस्य पलाग्रेण तुल्यमानस्य प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् / स्यात्खलु पुनः कौशिक शक्येत चातुर्महाद्वीपके लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् / स्यात्खलु पुनः कौशिक शक्येत साहस्रे चूलिके लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् / स्यात्खलु पुनः कौशिक शक्येत (वैद्य 216) द्विसाहस्रे मध्यमे लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् / स्यात्खलु पुनः कौशिक शक्येत त्रिसाहस्रमहासाहस्रे लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् //
एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - माराधिष्ठितास्ते भगवन् सत्त्वा वेदितव्याः, ये बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादमुपादाय यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धानामेवमप्रमेयमनुमोदनासहगतस्य चित्तोत्पादस्य पुण्यमिति न शृण्वन्ति, न जानन्ति, न पश्यन्ति, तामनुमोदनां न समन्वाहरन्ति / मारपक्षिका भगवंस्ते सत्त्वा भविष्यन्ति, ये बोधिसत्त्वानां महासत्त्वानामिमांश्चित्तोत्पादान्नानुमोदिष्यन्ते / मारभवनेभ्यश् च ते भगवन् सत्त्वाश्च्युता भविष्यन्ति, य इमांश्चित्तोत्पादांस्तेषां बोधिसत्त्वानां महासत्त्वानां नानुमोदिष्यन्ते / तत्कस्य हेतोः? मारभवनविध्वंसनकरा हि तैर्भगवन् इमे चित्तोत्पादा अभिनिर्हृताः, यैरमी चित्तोत्पादा अनुत्तरायां सम्यक्संबोधौ परिणामिताः, अनुमोदिता वा अमी चित्तोपादाः / अनुमोदितव्या भगवंस्तेषां बोधिसत्त्वानां महासत्त्वानाममी चित्तोत्पादाः, यैर्बोधिसत्त्वैर्महासत्त्वैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / येषां भगवंस्तथागतो ऽपरित्यक्तः, धर्मो ऽपरित्यक्तः, संघो ऽपरित्यक्तः, तैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदितव्याः //
evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / yeṣāṃ kauśika tathāgato 'parityaktaḥ, dharmo 'parityaktaḥ, saṃgho 'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ / yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittopādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti / evamukte śakro devānāmindro bhagavantametadavocat - evametadbhagavan, evametatsugata / yaiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti / evaṃ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāś ca bhaviṣyanti, gurukṛtāś ca bhaviṣyanti, mānitāś ca bhaviṣyanti, pūjitāś ca bhaviṣyanti, arcitāś ca bhaviṣyanti, apacāyitāś ca bhaviṣyanti / na ca te amanaāpāni rūpāṇi drakṣyanti [note: conze translates "nor hear any unpleasant sounds"] / na ca te amanaāpān gandhān ghrāsyanti / na ca te amanaāpān rasān paribhokṣyante / na ca te amanaāpāni spraṣṭavyāni sprakṣyanti / na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā / svargopapattisteṣāṃ pratikāṅkṣitavyā /
तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वसत्त्वसुखावहान्यप्रमेयाणामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि यैर् अपि भगवंश्छन्दमुत्पाद्य बोधये बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, तेषां ते चित्तोत्पादा (वैद्य 217) विवर्धमाना अनुत्तरायाः सम्यक्संबोधेराहारका भविष्यन्ति / ते ऽप्यनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यन्ति / भगवानाह - एवमेतत्कौशिकः, एवमेतत्, यथा त्वया वाग्भाषिता तथागतस्यैवानुभावेन / येन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां तांश्चित्तोत्पादाननुमोद्य अप्रमेयाणां सत्त्वानामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि भवन्ति, अवरोपितानि अभिनिर्हृतानि च भवन्ति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
