Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सचेत्खलु पुनर्मारः पापीयान् बुद्धवेषेणोपसंक्रामेत्, तमुपसंक्रम्यैवं वदेत् - इहैव त्वमर्हत्त्वं साक्षात्कुरु / न त्वं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / न तव ते आकारास्तानि लिङ्गानि तानि निमित्तानि वा संविद्यन्ते, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / किं वात्र त्वं चरसीति? सचेत्पुनर्बोधिसत्त्वस्य महासत्त्वस्य अन्यथा चित्तं भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति / सचेत्पुनरेवं समन्वाहरति - मारो बतायं पापीयान् बुद्धवेषमभिनिर्मायोपसंक्रान्तः, माराधिष्ठितो वा मारनिर्मितो वेति, नायं तथागतः / यथोक्तं तथागतेनार्हता सम्यक्संबुद्धेन तथा तन्नान्यथा / सचेदेवं प्रत्यवेक्षते, एवं समन्वाहरति - मारो बतायं पापीयान् बुद्धाधिष्ठानं कृत्वा मां विवेचयितुकामो ऽनुत्तरायाः सम्यक्संबोधित इति / सचेन्मारः प्रत्युदावर्तते, वेदितव्यमेतत्सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः / स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां बोधिसत्त्वभूमौ / सचेत्सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमे आकारा इमानि लिङ्गानि इमानि निमित्तानि संविद्यन्ते, वेदितव्यमेतत्सुभूते यथा अस्येमे गुणाः / अद्धा बतायं बोधिसत्त्वो महासत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः / स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां बोधिसत्त्वभूमौ /
तत्कस्य हेतोः? तथा ह्यस्य ते आकारास्तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यानि अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतशः आत्मपरित्यागम् अपि करोति, जीवितपरित्यागम् अपि करोति / तस्माद्बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयः सद्धर्मपरिग्रहाय परमुद्योगमापद्यते अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रेम्णा च गौरवेण च / धर्मकाया बुद्धा भगवन्त इति धर्मे प्रेम च गौरवं चोपादाय (वैद्य 169) सद्धर्मपरिग्रहं करोति / नायं केवलमतीतानामेव बुद्धानां भगवतां सद्धर्मपरिग्रहः, प्रत्युत्पन्नानाम् अपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः, अनागतानाम् अपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः - अहम् अपि तत्र तेषामनागतानां बुद्धानां भगवतां संख्यां गणनां प्रविष्ट इति, अहम् अपि तत्र व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, ममाप्येष एव सद्धर्मपरिग्रह इति / स इममप्यर्थवशं संपश्यन् सद्धर्मपरिग्रहस्य कृतश आत्मपरित्यागम् अपि करोति, जीवितपरित्यागम् अपि करोति / न च तत्र संसीदति, न च कौसीद्यमापद्यते / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति, न विचिकित्सति / सुभूतिराह - किं तथागतस्यैव भगवन् धर्मं देशयतो न काङ्क्षति न विचिकित्सति, न श्रावकस्य? भगवानाह - श्रावकस्यापि सुभूते धर्मं देशयतो न काङ्क्षति न विचिकित्सति / तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा / तेन सर्वधर्माणां धर्मतामविरुद्धां शृणोति / शृण्वंश् च न काङ्क्षति, न विचिकित्सति / एभिः सुभूते गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवति / इमान्य् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारलिङ्गनिमित्तानि वेदितव्यान्यनुत्तरायाः सम्यक्संबोधेरिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः // asp_18: शून्यतापरिवर्तो ऽष्टादशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आश्चर्यं भगवन् महागुणसमन्वागतो बोधिसत्त्वो महासत्त्वः / अप्रमाणगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः / अपरिमितगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / तत्कस्य हेतोः? अविनिवर्तनीयेन हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनन्तमपर्यन्तं ज्ञानं प्रतिलब्धमसंहार्यं सर्वश्रावकप्रत्येकबुद्धैः //
सुभूतिराह - प्रतिबलो भगवन् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पानाकारान् लिङ्गानि निमित्तानि निर्देष्टुम् / अत एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि सूचयितव्यानि / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते यस्त्वं गम्भीराणि गम्भीराणि स्थानान्यारभ्य निगमयितुकामः / गम्भीरमिति सुभूते शून्यताया एतदधिवचनम् / आनिमित्तस्य अप्रणिहितस्य अनभिसंस्कारस्य अनुत्पादस्य अजातेरभावस्य विरागस्य निरोधस्य निर्वाणस्य विगमस्यैतत्सुभूते अधिवचनं यदुत गम्भीरमिति //
सुभूतिराह - एतेषामेव भगवन् केवलमेतद्धर्माणामधिवचनं न पुनः सर्वधर्माणाम्? भगवानाह - सर्वधर्माणामप्येतत्सुभूते अधिवचनं यदुत गम्भीरमिति / तत्कस्य हेतोः? रूपं हि सुभूते गम्भीरम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं हि सुभूते गम्भीरम् / कथं च सुभूते रूपं गम्भीरम्? कथं वेदना संज्ञा संस्काराः? कथं च सुभूते विज्ञानं गम्भीरम्? यथा सुभूते तथता, तथा गम्भीरं रूपम् / एवं वेदना संज्ञा संस्काराः / यथा सुभूते तथता, तथा गम्भीरं विज्ञानम् / तत्र सुभूते यथा रूपतथता, तथा गम्भीरं रूपम् / यथा वेदनातथता संज्ञातथता संस्कारतथता / तत्र सुभूते यथा विज्ञानतथता, तथा गम्भीरं विज्ञानम् / यत्र सुभूते न रूपम्, इयं रूपस्य गम्भीरता / यत्र सुभूते न वेदना न संज्ञा न संस्कारा न विज्ञानम्, इयं वेदनासंज्ञासंस्काराणाम्, इयं विज्ञानस्य गम्भीरता //
सुभूतिराह - आश्चर्यं भगवन् यावत्सूक्ष्मेणोपायेन रूपतश् च निवारितो निर्वाणं च सुचितम् / एवं वेदना संज्ञा संस्काराः / यावत्सूक्ष्मेणोपायेन विज्ञानतश् च निवारितो निर्वाणं च सूचितम् / भगवानाह - इमानि सुभूते गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि यश्चिन्तयिष्यन्ति तुलयिष्यति उपनिध्यास्यति - एवं मया स्थातव्यं यथा प्रज्ञापारमितायामाज्ञप्तम् / एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायामाख्यातम् / एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायामुपदिष्टम् / तथा संपादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान एकदिवसमप्यत्र योगमापद्यते / अयं बोधिसत्त्वो महासत्त्वस्तेनैकदिवसेन कियत्कर्म करोति? तद्यथापि नाम सुभूते कश्चिदेव पुरुषो रागचरितो वितर्कचरितः / तस्य पुरुषस्य रागचरितस्य वितर्कचरितस्य स्त्रिया अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतो भवेत् / सा खलु पुनः स्त्री (वैद्य 171) परपरिगृहीता भवेत् / न वशयेदात्मानमगारान्निष्क्रमितुम् / तत्किं मन्यसे सुभूते किंप्रतिसंयुक्तास्तस्य पुरुषस्य वितर्काः प्रवर्तेरन्? सुभूतिराह - स्त्रीप्रतिसंयुक्ता एव भगवंस्तस्य पुरुषस्य वितर्काः प्रवर्तेरन् - इयमागच्छति, इयमागता / तया सार्धमेवं करिष्यामि, एवं रमिष्यामि, एवं क्रीडिष्यामि, एवं प्रविचारयिष्यामीति / भगवानाह - तत्किं मन्यसे सुभूते दिवसस्यात्ययेन तस्य पुरुषस्य कियन्तो वितर्का उत्पद्येरन्? सुभूतिराह - बहवो भगवन् दिवसस्यात्ययेन तस्य पुरुषस्य वितर्का उत्पद्येरन् /
भगवानाह - यावन्तः सुभूते तस्य पुरुषस्य दिवसस्यात्ययेन वितर्का उत्पद्येरन्, इयतः सुभूते कल्पान् बोधिसत्त्वो महासत्त्वश्छोरयति विपृष्ठीकरोति संसाराद्व्यन्तीकरोति, य इह प्रज्ञापारमितायां यथाज्ञप्तं यथाख्यातं यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं तिष्ठति शिक्षते प्रतिपद्यते उपनिध्यायति योगमापद्यते, तांश् च दोषान् विवर्जयति, यैर्दोषैर्बोधिसत्त्वो महासत्त्वो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः / एवं हि सुभूते यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायोगमनुयुक्तः, अनेन विहारेण विहरन् यदुत प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः, एकदिवसेन तावत्कर्म करोति / यश् च प्रज्ञापारमिताविरहितो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, अयमेव ततो विशिष्यते यो ऽयं बोधिसत्त्वो महासत्त्व एवमेकदिवसम् अपि प्रज्ञापारमितायां योगमापद्यते //
पुनरपरं सुभूते यश् च बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेभ्यो दानं दद्यात्, प्रतिष्ठापयेत्, एवं सकृदागामिष्वनागामिष्वर्हत्सु दानं दद्यात्, प्रतिष्ठापयेत् / प्रत्येकबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत् / तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, विरहितश् च प्रज्ञापारमिताया / यश् च बोधिसत्त्वो महासत्त्वो यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं प्रज्ञापारमितायां तथैव योगमापद्येत एकदिवसम् अपि / अयं बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वद्बहुतरं पुण्यं प्रसवति //
पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, विरहितश् च प्रज्ञापारमितया भवेत् / यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकाराद्व्युत्थाय धर्मं देशयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति //
पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, क्षान्त्या च समन्वागतो भवेत्, विरहितश् च प्रज्ञापारमितया / यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकारद्व्युत्थाय धर्मदानं दद्यात्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति //
(वैद्य 172) पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु परिपूर्णकारी क्षान्त्या च समन्वागतः, आरब्धवीर्यः सन् ध्यानेषु बोधिपक्षेषु च धर्मेषु योगमापद्येत, विरहितश् च प्रज्ञापारमितया / यश् च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति //
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयं ततो बहुतरं पुण्यं प्रसवति //
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, परिणाम्य च प्रतिसंलाने न पुनरेव योगमापद्येत / यश् च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानमेव दद्यात्, न पुनः प्रतिसंलाने योगमापद्येत, स बोधिसत्त्वो महासत्त्वो न तावत्पुण्यं प्रसवति, यावद्य एवं धर्मदानं ददद् बोधिसत्त्वो महासत्त्वः प्रतिसंलाने च पुनरेव योगमापद्यमानः प्रज्ञापारमितया च परिगृहीतस्तत्प्रतिसंलानमविरहितं करोति प्रज्ञापारमितया, अयं बोधिसत्त्वो महासत्त्वो बहुतरं पुण्यं प्रसवति //
सुभूतिराह - यदा भगवन् अभिसंस्कारो विकल्प इत्युक्तं भगवता, तदा कथं बहुतरं पुण्यं प्रसवतीत्युच्यते? भगवानाह - सो ऽपीदानीं सुभूते पुण्याभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक इत्येवाख्यायते, रिक्तक इत्येवाख्यायते, तुच्छक इत्येवाख्यायते, असारक इत्येवाख्यायते / यथा यथा खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मान् प्रत्यवेक्षते, तथा तथा सुभूते बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति प्रज्ञापारमितया / यथा यथा च सुभूते बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति प्रज्ञापारमितया, तथा तथा अप्रमेयमसंख्येयं पुण्यं प्रसवति //
सुभूतिराह - अप्रमेयस्य च भगवन् असंख्येयस्य च किं नानाकरणं वा, कः प्रतिविशेषो वा? भगवानाह - अप्रमेयमिति सुभूते यत्र प्रमाणान्युपरमन्ते / असंख्येयमिति सुभूते यन्न शक्यं संख्ययापि क्षपयितुम् //
सुभूतिराह - स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः / स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेत्? भगवानाह - यत्सुभूतिरेवमाह - स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः / स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेदिति / स्यात्सुभूते पर्यायो येन रूपमेवाप्रमेयं भवेत्, एवं वेदनैव संज्ञैव संस्कारा एव / स्यात्सुभूते पर्यायो येन विज्ञानमेवाप्रमेयं भवेत् / सुभूतिराह - कस्य पुनर्भगवन् एतदधिवचनमप्रमेयमिति? भगवानाह - शून्यतायाः सुभूते एतदधिवचनमप्रमेयमिति / आनिमित्तस्यैतदधिवचनम् / अप्रणिहितस्य सुभूते एतदधिवचनमप्रमेयमिति //
(वैद्य 173) सुभूतिराह - किं शून्यताया एव भगवन् केवलमेतदधिवचनमप्रमेयमिति, आनिमित्तस्यैव अप्रणिहितस्यैव भगवन् केवलमेतदधिवचनमप्रमेयमिति, नान्येषां धर्माणाम्? भगवानाह - तत्किं मन्यसे सुभूते ननु मया सर्वधर्माः शून्या इत्याख्याताः? सुभूतिराह - शून्या एव भगवन् सर्वधर्मास्तथागतेनाख्याताः / भगवानाह - ये च सुभूते शून्याः, अक्षया अपि ते / या च शून्यता, अप्रमेयतापि सा / तस्मात्तर्हि सुभूते एषां धर्माणामर्थतो विशेषो वा नानाकरणं वा नोपलभ्यते / अभिलापा एते सुभूते तथागतेनाख्याताः अभिलपिताः - अप्रमेयमिति वा, असंख्येयमिति वा, अक्षयमिति वा, शून्यमिति वा, आनिमित्तमिति वा, अप्रणिहितमिति वा, अनभिसंस्कार इति वा, अनुत्पाद इति वा, अजातिरिति वा अभाव इति वा, विराग इति वा, निरोध इति वा, निर्वाणमिति वा / देशनाभिनिर्हारनिर्देश एष सुभूते तथागतेनार्हता सम्यक्संबुद्धेनाख्यातः //
सुभूतिराह - आश्चर्यं भगवन् यावद्यदियं तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्माणां धर्मता देशिता, सा च सर्वधर्माणां धर्मता अनभिलाप्या / यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा सर्वधर्मा अपि भगवन् अनभिलाप्याः / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / सर्वधर्मा अपि सुभूते अनभिलाप्याः / तत्कस्य हेतोः? या च सुभूते सर्वधर्माणां शून्यता, न सा शक्या अभिलपितुम् / सुभूतिराह - किं पुनर्भगवन् अनभिलप्यस्यार्थस्य वृद्धिर्वास्ति, परिहाणिर्वा विद्यते? भगवानाह - नो हीदं सुभूते / सुभूतिराहसचेद्भगवन् अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिः, दानपारमिताया अपि भगवन् न वृद्धिर्न परिहाणिर्भविष्यति / एवं शीलपारमिताया अपि, क्षान्तिपारमिताया अपि, वीर्यपारमिताया अपि, ध्यानपारमिताया अपि, प्रज्ञापारमिताया अपि भगवन् न वृद्धिर्न परिहाणिर्भविष्यति / सचेद्भगवन् आसां षण्णां पारमितानां न वृद्धिर्न परिहाणिः, कथं भगवन् विवर्धमानानां षण्णां पारमितानां बलेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? कथं च अनुत्तरायाः सम्यक्संबोधेरभ्यासन्नीभवति? न च भगवन् अप्रतिपूरयन् पारमितां बोधिसत्त्वो महासत्त्वो ऽभ्यासन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / न खलु पुनः सुभूते पारमितार्थस्य काचिद्वृद्धिर्वास्ति परिहाणिर्वा विद्यते / अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति - इयं दानपारमिता विवर्धते, इयं दानपारमिता परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत दानपारमितेति / स दानं ददत् तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं शीलपारमिता विवर्धते, इयं शीलपारमिता (वैद्य 174) परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत शीलपारमितेति / स शीलं समादाय वर्तमानस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं क्षान्तिपारमिता विवर्धते, इयं क्षान्तिपारमिता परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत क्षान्तिपारमितेति / स क्षान्त्या संपादयंस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति - इयं वीर्यपारमिता विवर्धते, इयं वीर्यपारमिता परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत वीर्यपारमितेति / स वीर्यमारभमाणस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायै सम्यक्संबोधये परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं ध्यानपारमिता विवर्धते, इयं ध्यानपारमिता परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत ध्यानपारमितेति / स ध्यानानि समापद्यमानस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं प्रज्ञापारमिता विवर्धते, इयं प्रज्ञापारमिता परिहीयते इति / अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत प्रज्ञापारमितेति / स प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयंस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति / यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - का पुनरेषा भगवन् अनुत्तरा सम्यक्संबोधिः? भगवानाह - तथतैषा सुभूते अनुत्तरा सम्यक्संबोधिः / न च सुभूते तथता विवर्धते, वा, परिहीयते वा / सचेद्बोधिसत्त्वो महासत्त्वस्तत्प्रतिसंयुक्तैर्मनसिकारैरभीक्ष्णं बहूलं विहरति, एवं स आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तैश् च मनसिकारैर्न परिहीयते / एवं खलु सुभूते अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिर्भवति / एवं पारमितानां न वृद्धिर्न परिहाणिर्भवति / एवं सर्वधर्माणाम् अपि सुभूते न वृद्धिर्न परिहाणिर्भवति / एवं हि सुभूते बोधिसत्त्वो महासत्त्व एभिरेवंरूपैर्मनसिकारैर्विहरन् आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेरिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शून्यतापरिवर्तो नामाष्टादशः // asp_19: गङ्गदेवीभगिनीपरिवर्त एकोनविंशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - किं पुनर्भगवन् प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, उताहो पश्चिमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? पौर्वको भगवंश्चित्तोत्पादः पश्चिमकेन चित्तोत्पादेन असमवहितः, पश्चिमकश्चित्तोत्पादः पौर्वकेण चित्तोत्पादेन असमवहितः / कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानामुपचयो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तत्किं मन्यसे सुभूते तैलप्रद्योतस्य ज्वलतो ऽर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा? सुभूतिराह - नो हीदं भगवन् / न हि भगवन् अर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा / न च प्रथमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा / न च भगवन् पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा, न च पश्चिमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा / भगवानाह - तत्किं मन्यसे सुभूते अपि नु सा वर्तिर्दग्धा? सुभूतिराह - दग्धा भगवन्, दग्धा सुगत / भगवानाह - एवमेव सुभूते न च प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च पश्चिमचित्तोत्पादेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च तैश्चित्तोपादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्यो ऽभिसंबुध्यते / अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरो ऽयं भगवन् प्रतीत्यसमुत्पादः / न च नाम भगवन् प्रथमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च नाम पश्चिमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम तैश्चित्तोत्पादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्यो ऽभिसंबुध्यते / अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् //
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तत्किं मन्यसे सुभूते यच्चित्तं निरुद्धम्, अपि नु तत्पुनरुत्पत्स्यते? सुभूतिराह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह - निरोधधर्मि भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यच्चित्तमनुत्पादानिरोधधर्मि, (वैद्य 176) अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते यो धर्मः प्रकृत्या स्वभावनिरुद्ध एव, स धर्मो निरोत्स्यते? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते या धर्माणां धर्मता सा निरोत्स्यते? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते तथैव स्थास्यति यथा तथता? आह - तथैव भगवन् स्थास्यति यथा तथता / भगवानाह - तत्किं मन्यसे सुभूते यदि तथैव स्थास्यति यथा तथता, तदा मा कुटस्था भूत्? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते गम्भीरा तथता? आह - गम्भीरा भगवन् / भगवानाह - तत्किं मन्यसे तथतायां चित्तम्? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते चित्तं तथता? आह - नो हीदं भगवन् /
भगवानाह - तत्किं मन्यसे सुभूते अन्यत्तथतायाश्चित्तम्? आह - नो हीदं भगवन् / भगवानाह - समनुपश्यसि त्वं सुभूते तथताम्? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते य एवं चरति स गम्भीरे चरति? आह - यो भगवन् एवं चरति, स न क्वचिच्चरति / तत्कस्य हेतोः? तथा ह्यस्य ते समुदाचारा न प्रवर्तन्ते, न समुदाचरन्ति / भगवानाह - यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति, स क्व चरति? आह - चरति भगवन् परमार्थे / भगवानाह - तत्किं मन्यसे सुभूते यो बोधिसत्त्वो महासत्त्वः परमार्थे चरति, स निमित्ते चरति? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते अपि नु तस्य निमित्तमविभावितम्? आह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते अपि नु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो निमित्तं विभावितं भवति? सुभूतिराह - न स भगवन् बोधिसत्त्वो महासत्त्व एवं प्रयुज्यते - कथमहं बोधिसत्त्वचर्यां चरन्निहैव निमित्तप्रहाणमनुप्राप्नुयामिति / सचेत्पुनरनुप्राप्नुयात्, अप्रतिपूर्णैः सर्वबुद्धधर्मैः श्रावको भवेत् / एतत्तद्भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं यत्, तच्च निमित्तं जानाति, यल्लक्षणं यन्निमित्तमानिमित्ते च परिजयं करोति //
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस्त्रीणि विमोक्षमुखानि भावयति - शून्यतामानिमित्तमप्रणिहितं च, अपि नु तस्य प्रज्ञापारमिता विवर्धते? सुभूतिराह - सचेदायुष्मन् शारिपुत्र दिवसभावनया विवर्धते, एवं स्वप्नान्तरगतस्यापि विवर्धते / तत्कस्य हेतोः? अविकल्पो हि आयुष्मन् शारिपुत्र स्वप्नश् च दिवसश्चोक्तो भगवता / सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितालाभी दिवसे दिवसे प्रज्ञापारमितायां चरति, ततो ऽस्य प्रज्ञापारमिताभ्यासतः स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितावैपुल्येन भवितव्यम् / शारिपुत्र आह - यत्पुनरायुष्मन् सुभूते स्त्री वा पुरुषो वा स्वप्नान्तरगतः कर्म शुभमशुभं वा करोति, किं भवति तस्य कर्मण आचयो वा उपचयो वा? सुभूतिराह - यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा न तस्य कर्मणो भवत्याचयो वा उपचयो वा / अथ पुनरायुष्मन् शारिपुत्र स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति, (वैद्य 177) भवति तस्य कर्मण आचयो वा उपचयो वा / कथं च आयुष्मन् शारिपुत्र विकल्पयन् हतसंज्ञामुत्पादयति? सचेत्स्वप्नान्तरगतः प्राणातिपातं कृत्वा प्रतिविबुद्धः सन्नेवं विकल्पयति - अहो हतः, साधु हतः, सुष्ठु हतः, मया हतः, इत्येवं विकल्पयन् हतसंज्ञामुत्पादयति /
शारिपुत्र आह - सचेदायुष्मन् सुभूते स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति - अहो हतः, साधु हतः, सुष्ठु हतः, मया हत इति, भवति तस्य कर्मण आचयो वा उपचयो वा? बुद्धो भगवान् अपि विकल्पयन् क्षयसंज्ञामुत्पादयति / तस्यापि कर्मण आचयो वा उपचयो वा भवेत्? सुभूतिराह - नो हीदमायुष्मन् शारिपुत्र / तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणो हि तथागतः / तद्यथापि नाम आकाशमेव आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते, नानारम्बणं चित्तमुत्पद्यते / तस्मात्तर्ह्यायुष्मन् शारिपुत्र सारम्बणमेव कर्मोत्पद्यते, न अनारम्बणम् / सारम्बणमेव चित्तमुत्पद्यते, न अनारम्बणम् / दृष्टश्रुतमतविज्ञातेष्वायुष्मन् शारिपुत्र धर्मेषु बुद्धिः प्रवर्तते / तत्र काचिद्बुद्धिः संक्लेशं परिगृह्णाति, काचिद्बुद्धिर्व्यवदानं परिगृह्णाति / तस्मात्तर्हि आयुष्मन् शारिपुत्र सारम्बणैव चेतनोत्पद्यते न अनारम्बणा, सारम्बणमेव कर्मोत्पद्यते न अनारम्बणम् / शारिपुत्र आह - यदायुष्मन् सुभूते सर्वारम्बणानि विविक्तानि आख्यातानि भगवता, तदा कस्मादायुष्मन् सुभूते सारम्बणैव चेतनोत्पद्यते न अनारम्बणा? सुभूतिराह - निमित्तीकृत्य आयुष्मन् शारिपुत्र विद्यमानमेवारम्बणमारम्बणीकृत्य सारम्बणैव चेतनोत्पद्यते, न अनारम्बणा / चेतनाप्यायुष्मन् शारिपुत्र विविक्ता, निमित्तम् अपि विविक्तम् / एवमविद्याप्रत्ययाः संस्कारा अपि विविक्ताः, संस्कारप्रत्ययं विज्ञानमपि, यावज्जातिप्रत्ययं जरामरणम् अपि विविक्तम् / एवमेव आयुष्मन् शारिपुत्र सर्वारम्बणानि विविक्तानि / निमित्तेन विविक्ता चेतना लोकव्यवहारमुपादायोत्पद्यत इति //
शारिपुत्र आह - यदायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्यात्, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयति / परिणामितं किं तद्दानं वक्तव्यम्? सुभूतिराह - अयमायुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूतः / एष तथागतेन व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / एषो ऽत्रार्थे कायसाक्षी / एष प्रष्टव्यः / एष एनमर्थं विसर्जयिष्यति / अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - अयमायुष्मन् मैत्रेय सुभूतिः स्थविर एवमाह - मयं मैत्रेयो बोधिसत्त्वो महासत्त्वः / एष एनमर्थं विसर्जयिष्यतीति / विसर्जय आयुष्मन्नजित एनमर्थम् / अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिमेतदवोचत् - यदायुष्मान् सुभूतिरेवमाह - अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः / एष एनमर्थं विसर्जयिष्यतीति / किं पुनरायुष्मन् सुभूते यदेतन्नामधेयं मैत्रेय इति? एतदेनमर्थं विसर्जयिष्यति, उत रूपं विसर्जयिष्यति, उत वेदना संज्ञा संस्काराः, अथ विज्ञानं विसर्जयिष्यति, उताहो वर्णो विसर्जयिष्यति, अथ संस्थानं विसर्जयिष्यति, उताहो या रूपस्य शून्यता, सा विसर्जयिष्यति? एवं या वेदनायाः संज्ञायाः संस्काराणाम्, (वैद्य 178) या विज्ञानस्य शून्यता, सा विसर्जयिष्यति? या खलु पुनरायुष्मन् सुभूते रूपस्य शून्यता, न सा प्रतिबला विसर्जयितुम् / एवं वेदनायाः संज्ञायाः संस्काराणाम् / या खलु पुनरायुष्मन् सुभूते विज्ञानस्य शून्यता, न सा प्रतिबला विसर्जयितुम् / तमप्यहमायुष्मन् सुभूते धर्मं न समनुपश्यामि, यो धर्मो विसर्जयेत् / तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो विसर्जयितव्यः / तमप्यहं धर्मं न समनुपश्यामि, येन धर्मेण विसर्जयेत् / तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ //
अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - कच्चित्पुनरायुष्मन् मैत्रेय त्वया एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषसे? मैत्रेय आह - न मया आयुष्मन् शारिपुत्र एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषे / एवमप्यहमेनानायुष्मन् शारिपुत्र धर्मान्न वेद्मि, नोपलभे, न समनुपश्यामि, यथा वाचा भाषे, चित्तेन वा चिन्तयामि / अपि तु खलु पुनरायुष्मन् शारिपुत्र न कायेन स्पृश्येत, न वाचा भाष्येत, न मनसा समन्वाह्रियेत / एवंस्वभावाः सर्वे धर्मा अस्वभावत्वात् / अथ खल्वायुष्मतः शारिपुत्रस्यैतदभूत् - गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वः, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितावी निर्दिशति //
अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म - कुतस्ते शारिपुत्र एतदभूत् - गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्व इति? समनुपश्यसि त्वं शारिपुत्र तं धर्मं येन धर्मेण समन्वागतो ऽर्हन्निति प्रभाव्यते? शारिपुत्र आह - न ह्येतद्भगवन् / भगवानाह - एवमेव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति - अयं धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याकरिष्यते ऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् / स चरन्नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते / लब्धबलाधानत्वान्नाहं नाभिसंभोत्स्य इत्येवं योगमापद्यते / सचेदेवं चरति, चरति प्रज्ञापारमितायाम् //
पुनरपरं शारिपुत्र व्यालकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वं परित्यक्तव्यं सर्वसत्त्वानामर्थाय / तेनैवं चित्तमुत्पादयितव्यम् - यदि चेन्मां व्याला भक्षयेयुः, तेभ्य एव तद्दानं दत्तं भवतु / मम च दानपारमितापरिपूरिर्भविष्यति / अनुत्तरा च मे सम्यक्संबोधिरासन्नीभविष्यति / तथा च करिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः तिर्यग्योनिगताः सत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र मे बुद्धक्षेत्रे न भविष्यन्ति, न प्रज्ञास्यन्ते, दिव्योपभोगपरिभोगाश् च भविष्यन्तीति //
पुनरपरं शारिपुत्र चोरकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? सर्वस्वपरित्यागकुशलाभिरता हि (वैद्य 179) बोधिसत्त्वा महासत्त्वा भवन्ति / उत्सृष्टकायेनापि च बोधिसत्त्वेन महासत्त्वेन भवितव्यं परित्यक्तसर्वपरिष्कारोपकरणेन / तेनैवं चित्तमुत्पादयितव्यम् - सचेन्मम सत्त्वाः सर्वपरिष्कारोपकरणानि हरेयुः, तेभ्य एव तद्दानं दत्तं भवतु / यदि चेन्मां केचिज्जीविताद्व्यपरोपयेयुः, तत्र न मया व्यापादक्रोधरोषा उत्पादयितव्याः / तेषाम् अपि च मया न कायेन न वाचा न मनसा अपराद्धव्यम् / एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति / अनुत्तरा च मे सम्यक्संबोधिरभ्यासन्नीभविष्यति / तथा च करिष्यामि, तथा च प्रतिपत्स्ये, यथा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतश्चोरकान्ताराण्य् अपि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा च बुद्धक्षेत्रपरिशुद्धये व्यापत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते //
पुनरपरं शारिपुत्रं पानीयकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? असंत्रस्तानुत्रस्तधर्माणो हि बोधिसत्त्वा महासत्त्वा भवन्ति / एवं चानेन चित्तमुत्पादयितव्यम् - सर्वसत्त्वानां मया सर्वतृष्णाच्छेदाय शिक्षितव्यम् / न च बोधिसत्त्वेन महासत्त्वेनोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / सचेदहं तृष्णया कालं करिष्यामि, प्रेतलोके ममोपपत्तिर्भविष्यतीति / अपि तु खलु पुनः सर्वसत्त्वानामन्तिके महाकरुणाचित्तमुत्पादयितव्यम् - अहो बत अल्पपुण्या अमी सत्त्वाः, यदेतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते / तथा पुनरहं करिष्यामि, तथा प्रतिपत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा च सर्वसत्त्वान् पुण्यैः संनियोक्ष्ये, यथा अष्टाङ्गोपेतपानीयलाभिनो ऽमी भविष्यन्ति / तथा च दृढं वीर्यमारप्स्ये सर्वसत्त्वानां कृतशः, यथा वीर्यपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति //
पुनरपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / एवं चानेन संनाहः संनाह्यः - तथा दृढं वीर्यमारप्स्ये, तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एवंरूपाणि बुभुक्षाकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / सुखिता एव ते सत्त्वा भविष्यन्ति सुखसमङ्गिनः सर्वसुखसमर्पिताः / तथा च करिष्यामि, यथा तेषां सत्त्वानां यो य एवाभिप्रायो भविष्यति, यद्यदेवाकाङ्क्षिष्यन्ति मनसा, तत्तदेव प्रादुर्भविष्यति तद्यथापि नाम देवानां त्रायस्त्रिंशानां मनसैव सर्वमुत्पद्यते, यथा तेषां सत्त्वानां मनसैव सर्वं प्रादुर्भविष्यति, मनसा सर्वमुत्पत्स्यते, तथा दृढं वीर्यमारप्स्ये / यथा तेषां सत्त्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति, अवैकल्यं च जीवितपरिष्कारैः सर्वसत्त्वानां (वैद्य 180) भविष्यति सर्वथा सर्वतः सर्वदा, तथा च स्वचित्तपरिशुद्धये व्यायंस्ये सर्वसत्त्वानां कृतशः, यथा ध्यानपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति //
पुनरपरं शारिपुत्र व्याधिकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / एवं चानेनोपपरीक्षितव्यं चिन्तयितव्यं तुलयितव्यम् - नेह स कश्चिद्धर्मो यो व्याध्या बाध्यते, नापि स कश्चिद्धर्मो यो व्याधिर्नाम / एवं तेन शून्यता प्रत्यवेक्षितव्या / न चोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / न च शारिपुत्र बोधिसत्त्वेन महासत्त्वेनैवं चित्तमुत्पादयितव्यम् - चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? यो हि चित्तक्षणः, इयती सैषा अपूर्वा कोटिर्यदुत अकोटिः / एवं तेन बोधिसत्त्वेन महासत्त्वेन न दुष्करसंज्ञोत्पादयितव्या - बह्वी दीर्घा चैषा अपूर्वा कोटिरिति, एकचित्तक्षणसमायुक्ता ह्येषा अपूर्वा कोटिर्यदुत अकोटिः / एवं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व एभ्यश्चान्येभ्यश् च दृष्टश्रुतमतविज्ञातेभ्यो भयभैरवेभ्यो नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, ज्ञातव्यमिदं शारिपुत्र भव्यो ऽयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुमिति / एवं च शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धव्यः - तथा करिष्यामि, तथा दृढं वीर्यमारप्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वसत्त्वानां सर्वेण सर्वं सर्वथा सर्वं सर्वव्याधयो न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा करिष्यामि, यथा तथागतानामुक्तवादी यथोक्तकारी च भविष्यामि / तथा च प्रज्ञापारमितायां परिजयं करिष्यामि सर्वसत्त्वानां कृतशः, यथा प्रज्ञापारमितापि मे तस्मिन् समये परिपूरिं गमिष्यतीति //
अथ खलु तत्र पर्षदि अन्यतरा स्त्री संनिपतिता संनिषण्णाभूत् / सा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - अहं भगवन् अत्र स्थाने नोत्रसिष्यामि, न संत्रसिष्यामि, न संत्रासमापत्स्ये / अनुत्रस्ता च असंत्रस्ता च सर्वसत्त्वेभ्यो धर्मं देशयिष्यामीति / अथ खलु भगवांस्तस्यां वेलायां सुवर्णवर्णस्मितं प्रादुरकरोत् / तदनन्तापर्यन्तान् लोकधातूनाभया स्फरित्वा यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत एव मूर्ध्नि अन्तरधीयत / समनन्तरं प्रादुष्कृते च भगवता तस्मिन् स्मिते अथ खलु सा स्त्री सुवर्णपुष्पाणि गृहीत्वा भगवन्तं सुवर्णपुष्पैरभ्यवाकिरदभिप्राकिरत् / अथ खलु तानि सुवर्णपुष्पाण्यसक्तानि अन्तरीक्षे विहायसि स्थितान्यभूवन् //
अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः, (वैद्य 181) कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति / एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - इयमानन्द गङ्गदेवा भगिनी अनागते ऽध्वनि सुवर्णपुष्पो नाम तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च / बुद्धो भगवांल्लोक उत्पत्स्यते, तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / सेयमानन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्त्य पुरुषभावं प्रतिलभ्य इतश्च्युत्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे अभिरत्यां लोकधातावुपपत्स्यते / तत्र चोपपन्ना अक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरिष्यति / ततश्च्युता सती बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यति अविरहिता तथागतदर्शनेन / ततो ऽपि बुद्धक्षेत्राद्बुद्धक्षेत्राणि संक्रमिष्यति / यान्यविरहितानि भविष्यन्ति बुद्धैर्भगवद्भिस्तत्र तत्र संक्रमिष्यति / तद्यथापि नाम आनन्द राजा चक्रवर्तीं प्रासादात्प्रासादं संक्रामेत्, स यावज्जीवं पादतलाभ्यां धरणीतलं नाक्रामेत्, स यावन्मरणावस्थायां भूमितलं पभ्द्यामनाक्रम्य कालं कुर्यात्, एवमेव आनन्द इयं गङ्गदेवा भगिनी बुद्धक्षेत्रं संक्रमिष्यति / तत्र च अविरहिता भविष्यति बुद्धैर्भगवद्भिर्यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुध्यते //
अथ खल्वायुष्मत आनन्दस्यैतदभूत् - ये तत्राक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके बोधिसत्त्वा महासत्त्वा भविष्यन्ति, तथागतसंनिपात एव स वेदितव्यः / अथ खलु भगवानायुष्मत आनन्दस्य इममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत् - एवमेतदानन्द, एवम् एतत् / उत्तीर्णपङ्कास्ते बोधिसत्त्वा महासत्त्वाः, ये अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति / बोधिपरिनिष्पत्युपगतास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्याः / तस्य खलु पुनरानन्द सुवर्णपुष्पस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न प्रमाणबद्धः श्रावकसंघो भविष्यति / तत्कस्य हेतोः? तावन्तो ह्यानन्द तत्र श्रावका भविष्यन्ति येषां नास्ति प्रमाणम् / अपि त्वप्रमेया असंख्येया इत्येवं संख्यां गमिष्यन्ति / तेन खलु पुनरानन्द कालेन तेन समयेन तस्मिन् बुद्धक्षेत्रे न व्यालकान्ताराणि भविष्यन्ति, न चौरकान्ताराणि न पानीयकान्ताराणि न व्याधिकान्ताराणि न दुर्भिक्षकान्ताराणि भविष्यन्ति / एतानि चान्यानि च आनन्द असातकान्ताराणि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / सुवर्णपुष्पस्य खलु पुनरानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य इमान्येवंरूपाणि भयभैरवकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं तदानीं न भविष्यन्ति, न प्रज्ञास्यन्ते //
एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - अनया भगवन् गङ्गदेवया भगिन्या कतमस्य तथागतस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमनुत्तरायां सम्यक्संबोधौ? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - अनया आनन्द गङ्गदेवया भगिन्या दीपंकरस्य (वैद्य 182) तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितम्, अनुत्तरायां सम्यक्संबोधौ परिणामितं च / स च दीपंकरस्तथागतो ऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैरेवावकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया / यदा मया पञ्चभिरुत्पलैर्दीपंकरस्तथागतो ऽर्हन् सम्यक्संबुद्धो ऽवकीर्णः, अनुत्पत्तिकेषु च मया धर्मेषु क्षान्तिः प्रतिलब्धा, ततो ऽहं दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ - भविष्यसि त्वं माणवक अनागते ऽध्वनि शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवानिति / तदा एतस्या भगिन्या मम व्याकरणं श्रुत्वा एवं चित्तमुदपादि - अहो बत अहमप्येवं व्याक्रियेय अनुत्तरायां सम्यक्संबोधौ यथायं माणवको व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ / एवं च आनन्द एतस्या भगिन्या दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमभूदनुत्तरायां सम्यक्संबोधौ / एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - कृतपरिकर्मा बतेयं भगवन् कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधौ / एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - एवमेतदानन्द, एवम् एतत् यथा वदसि - कृतपरिकर्मा बतेयं कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधाविति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गङ्गदेवीभगिनीपरिवर्तो नाम एकोनविंशतितमः //
asp_20: उपायकौशल्यमीमांसापरिवर्तो विंशतितमः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - प्रज्ञापारमितायां भगवंश्चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः, कथं वा शून्यतासमाधिः समापत्तव्यः? भगवानाह - इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यमिति प्रत्यवेक्षितव्यम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं शून्यमिति प्रत्यवेक्षितव्यम् / तथा च प्रत्यवेक्षितव्यमविक्षिप्तया चित्तसंतत्या यथा प्रत्यवेक्षमाणो रूपमिति तां धर्मतां धर्मतया न समनुपश्येत् / तां च असमनुपश्यन् धर्मतां न साक्षात्कुर्याद्भूतकोटिम् / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - न बोधिसत्त्वेन महासत्त्वेन शून्यता साक्षात्कर्तव्येति / कथं भगवन् तस्मिन् समाधौ स्थितो बोधिसत्त्वो महासत्त्वः शून्यतां न साक्षात्करोति? भगवानाह - यतः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, परिजयस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते, असमाहित एवारम्बणे चित्तमुपनिबध्नाति - प्रज्ञापारमिता च मे परिगृहीता भविष्यति, न च साक्षात्कृतेति / अत्रान्तरा बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर्धर्मैः, न च आस्रवक्षयं करोति, अत्र च परिजयं करोति / यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, तस्मिन् समये बोधिसत्त्वेन महासत्त्वेन आनिमित्तेन च समाधिना विहर्तव्यम्, न च
आनिमित्तं साक्षात्कर्तव्यम् / तत्कस्य हेतोः? एवमारूढकुशलमूलधर्मसमन्वागतो हि बोधिसत्त्वो महासत्त्वः - परिपाकस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते / प्रज्ञापारमितया च परिगृहीतो भूतकोटिं न साक्षात्करोति / तद्यथापि नाम सुभूते कश्चिदेव पुरुषः परमशूरश् च भवेत्, परमवीर्यसमन्वागतश् च भवेत्, दृढप्रतिष्ठानश् च भवेत्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेत्, परमदर्शनीयश् च भवेत्, बहुगुणसमन्वागतश् च भवेत्, परमगुणसमन्वागतश् च भवेत्, परमैश्वर्यशीलश्रुतत्यागादिगुणैश् च समन्वागतो भवेत्, मेधावी च भवेत्, वचनसमर्थश् च भवेत्, प्रतिभानसंपन्नश् च भवेत्, प्रतिपत्तिसंपन्नश् च भवेत्, कालज्ञश् च भवेत्, देशज्ञश् च भवेत्, स्थानज्ञश् च भवेत्, इष्वस्त्रे च परमगतिं गतो भवेत्, बहुप्रहरणावरणश् च भवेत्, सर्वासु च कलासु परमकुशलो भवेत्, सुपरिनिष्पन्नतया सर्वेष्वेव च शिल्पस्थानेषु परमगतिको भवेत्, स्मृतिमांश् च भवेत्, मतिमांश् च भवेत्, गतिमांश् च भवेत्, धृतिमांश् च भवेत्, नीतिमांश् च भवेत्, सर्वशास्त्रविशारदश् च भवेत्, मित्रवांश् च भवेत्, अर्थवांश् च भवेत्, बलवांश् च भवेत्, अहीनाङ्गश् च भवेत्, परिपूर्णेन्द्रियश् च भवेत्, सर्वोपकरणसंपन्नश् च भवेत्, बहुजनस्य च प्रियो मनआपश् च भवेत् / स यद्यदेव किंचित्कार्यमारभेत, तत्र तत्र सर्वत्र निस्तरणसमर्थो भवेत्, नयेन च व्यवहरेत्, सर्वत्र चास्य महालाभो भवेत् / तेन महालाभेन समन्वागतः सन् बहुजनं संविभजेत्, सत्कर्तव्यं च सत्कुर्यात्, गुरुकर्तव्यं च गुरुकुर्यात्, मानयितव्यं च
मानयेत्, (वैद्य 184) पूजयितव्यं च पूजयेत् / तत्किं मन्यसे सुभूते अपि नु स पुरुषस्ततोनिदानं भूयस्या मात्रया आत्तमनस्को भवेत्, प्रमुदितश् च भवेत्, प्रीतिसौमनस्यजातश् च भवेत्? सुभूतिराह एवमेतद्भगवन्, एवमेतत्सुगत / भगवानाह - स खलु पुनः सुभूते पुरुषस्तया महासंपत्त्या समन्वागतो मातापितृपुत्रदारान् गृहीत्वा केनचिदेव कारणसामग्रीयोगेन महाटवीकान्तारं प्रतिपन्नो भवेत् महाप्रतिभयं बालानां भीषणं रोमहर्षणम् / स तत्र प्रविष्टः संस्तान् मातापितृपुत्रदारानभयेनाभिनिमन्त्रयेत् - मा भैष्ट, मा भैष्ट, अहमितो युष्मान् महाभयभैरवादटवीकान्तारात्क्षेमेण स्वस्तिना शीघ्रमपक्रामयिष्यामि, शीघ्रं परिमोचयिष्यामीति / तत्र खलु पुनः सुभूते अटवीकान्तारे तस्य पुरुषस्य बहवः प्रत्यर्थिकाः बहवः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः / तत्किं मन्यसे सुभूते अपि नु स शूरः पुरुषस्तैः प्रत्यर्थिकैः प्रत्यमित्रैरभ्युत्थितैरविनिवर्त्यो दृढवीर्यबलसमन्वागतः प्रज्ञावानतिस्निग्धः सानुक्रोशो धीरो महासंभारसमन्वागतस्तान् मातापितृपुत्रदारान् परित्यज्य ततो महाभयभैरवादटवीकान्तारादात्मानमेकमपक्रामयितव्यं मन्येत? सुभूतिराह - नो हीदं भगवन् / तत्कस्य हेतोः? तथा हि भगवंस्तस्य पुरुषस्य तन्मातापितृपुत्रदारमपरित्यक्तम्, आध्यात्मिकश् च बाह्यश् च बलवान् संभारः / तस्य तत्र अटवीकान्तारे बहुतरकाश् च शूरतरकराश् च दृढप्रहरणतरकराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणामन्ये उदारतरकाः प्रत्यर्थिकाः प्रत्यमित्रास्तिष्ठन्ति रक्षन्ति / ते तस्य प्रत्यर्थिकाः प्रत्यमित्रा अवतारप्रेक्षिणो
ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते / तेन स भगवन् प्रतिबलः पुरुषो ऽक्षतो ऽनुपहतस्तन्मातापितृपुत्रदारमात्मानं च ततो महाभयभैरवादटवीकान्ताराच्छक्तः क्षेमेण स्वस्तिना शीघ्रमपक्रामयितुं यावद्ग्रामं वा नगरं वा निगमं वा अनुप्राप्तः स्यात् //
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेव सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वहितानुकम्पी मैत्रीविहारी करुणाविहारी मुदिताविहारी उपेक्षाविहारी उपायकौशल्येन प्रज्ञापारमितया च परिगृहीतः कुशलमूलानि सम्यग्बुद्धानुज्ञातया परिणामनया परिणाम्य किंचापि शून्यतामानिमित्तमप्रणिहितं च समाधिविमोक्षमुखान्यवतरति, न त्वेव भूतकोटिं साक्षात्करोति, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा / तत्कस्य हेतोः? तथा ह्यस्य बलवत्तमा दृढतमाश् च परिग्राहकाः, यदुत प्रज्ञापारमिता उपायकौशल्यं च / तेन अस्यापरित्यक्ताः सर्वसत्त्वाः, तेनैष प्रतिबलः स्वस्तिना क्षेमेण अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामन्तिके मैत्रीचित्तमारम्बणीकृत्य तान् परमया मैत्र्या परिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वः क्लेशपक्षं मारपक्षं चातिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य तत्र समाधाववतिष्ठते / अप्राप्तश् च स सुभूते आस्रवक्षयं परमपारमितायां शून्यतायां परिजयं करोति / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न चेदानीं नानिमित्तेन समाधिना विहरति / न चानेन आनिमित्तः समाधिः साक्षात्कृतो (वैद्य 185) भवति / तद्यथापि नाम सुभूते पक्षी शकुनिराकाशे ऽन्तरीक्षे चरति, न च भूमौ पतति, न च कंचिन्निश्रयं निश्रित्य तिष्ठति, आकाश एवान्तरीक्षे विहरति, न च तत्रापि निश्रितो न प्रतिष्ठितः /
एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यताविहारेण विहरति, शून्यतायां परिजयं करोति, आनिमित्तविहारेण च विहरति, आनिमित्ते च परिजयं करोति, अप्रणिहितविहारेण च विहरति, अप्रणिहिते च परिजयं करोति / न च शून्यतायां वा आनिमित्ते वा अप्रणिहिते वा पतत्यपरिपूर्णैर्बुद्धधर्मैः / तद्यथापि नाम सुभूते बलवानिष्वस्त्राचार्य इष्वस्त्रशिक्षायां सुशिक्षितः सुपरिनिष्ठितः / स ऊर्ध्वं काण्डं क्षिपेत् / ऊर्ध्वं काण्डं क्षिप्त्वा तदन्यैः काण्डैस्तत्काण्डं भूमौ पतत् प्रतिनिवारयेत्, वारयेत्, तस्य पौर्वकस्य काण्डस्य काण्डपरंपरया भूमौ पतनं न दद्यात्, तावत्तत्काण्डं भूमौ न पतत्, यावन्नाकाङ्क्षेत् - अहो बतेदं काण्डं भूमौ पतेदिति / एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकौशल्यपरिगृहीतः तावत्तां परमां भूतकोटिं न साक्षात्करोति, यावन्न तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि सुपरिपक्वानि / यदा तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि भवन्ति सुपरिपक्वानि, तदा तां परमां भूतकोटिं साक्षात्करोति / तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमेतेषां धर्माणां गम्भीरधर्मता प्रत्यवेक्षितव्या उपनिध्यातव्या, न च साक्षात्कर्तव्या //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः / परमदुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः, यः शून्यतायां चरति, शून्यतया च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति / अत्याश्चर्यमिदं भगवन्, परमाश्चर्यमिदं सुगत / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / दुष्करकारको बोधिसत्त्वो महासत्त्वः / परमदुष्करकारको बोधिसत्त्वो महासत्त्वः यः शून्यतायां चरति, शून्यतायां च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति / तत्कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः / तस्येमे एवंरूपाः प्रणिधानविशेषा भवन्ति - मयैते सर्वसत्त्वाः परिमोचयितव्या इति / यदा बोधिसत्त्वो महासत्त्व एवं चित्तमभिनिर्हरति - सर्वसत्त्वा ममापरित्यक्ताः, मयैते परिमोचयितव्या इति, शून्यतां च समाधिविमोक्षमुखमभिनिर्हरति, आनिमित्तं च समाधिविमोक्षमुखमभिनिर्हरति, अप्रणिहितं च समाधिविमोक्षमुखमभिनिर्हरति, तदा उपायकौशल्यसमन्वागतो बोधिसत्त्वो महासत्त्वो वेदितव्यः - नायमन्तरा भूतकोटिं साक्षात्करिष्यत्यपरिपूर्णैर्बुद्धधर्मैः / तत्कस्य हेतोः? तथा हि अस्योपायकौशल्यं रक्षां करोति / स चैवास्य चित्तोत्पादो यत्तस्य सर्वसत्त्वा अपरित्यक्ताः / स एवमनेन चित्तोत्पादेनोपायकौशल्येन समन्वागतो ऽन्तरा भूतकोटिं न साक्षात्करोति //
पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व इमानि गम्भीराणि स्थानानि प्रत्यवेक्षते, प्रत्यवेक्षितुकामो वा भवति - तद्यथा शून्यतां समाधिविमोक्षमुखम्, आनिमित्तं समाधिविमोक्षमुखम्, (वैद्य 186) अप्रणिहितं समाधिविमोक्षमुखम्, तेनैवं चित्तमभिनिर्हर्तव्यम् - दीर्घरात्रममी सत्त्वाः सत्त्वसंज्ञया उपलम्भे चरन्ति / तेषां सत्त्वानामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामि / इति संचिन्त्य शून्यतां समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / अप्रणिहितं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / एवं बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन अनेन चोपायकौशल्येन समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति, न च परिहीयते मैत्रीसमाधितो न करुणामुदितोपेक्षासमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शुक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति, बलबोध्यमार्गं च प्रतिलभते //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा धर्मसंज्ञया उपलम्भे चरन्ति / तेषामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति / सो ऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः शून्यतां समाधिविमोक्षमुखं समापद्यते / न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्रीकरुणामुदितोपेक्षासमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलबोध्यङ्गानि मार्गं च प्रतिलभते //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा निमित्तसंज्ञया निमित्ते चरन्ति / तेषां निमित्तसंज्ञाप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति / स आनिमित्तं समाधिविमोक्षमुखं समापद्यते सत्त्वानां कृतशः / सो ऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्र्याः करुणाया मुदिताया उपेक्षायाः सर्वसमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलानि बोध्यङ्गानि मार्गं च प्रतिलभते //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा नित्यसंज्ञया सुखसंज्ञया आत्मसंज्ञया शुभसंज्ञया च विपर्यस्ताः / तथा करिष्यामि यथा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य नित्यसंज्ञायाः सुखसंज्ञायाः आत्मसंज्ञायाः शुभसंज्ञाया विपर्यासस्य प्रहाणाय धर्मं देशयिष्यामि - अनित्यमेतत्सर्वं न नित्यमिति / दुःखमेतत्सर्वं न सुखमिति / अनात्मकमेतत्सर्वं नैतत्सात्मकमिति / अशुभमेतत्सर्वं नैतच्छुभमिति / सो ऽनेन चित्तोत्पादेन समन्वागतः पौर्वकेण चोपायकौशल्येन प्रज्ञापारमितया च परिगृहीतो नान्तरा भूतकोटिं साक्षात्करोति (वैद्य 187) अपरिपूर्णेषु बुद्धधर्मेषु / एवमप्रणिहितं समाधिविमोक्षमुखमुपसंपद्य विहरति / न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्रीतो वा करुणातो वा मुदितातो वा उपेक्षातो वा / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलानि बोध्यङ्गानि मार्गं च प्रतिलभते / यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्व इमं चित्तोत्पादमुत्पादयति, इत्यपीमे सत्त्वा दीर्घरात्रमुपलम्भे चरिताविनः एतर्ह्युपलम्भे चरन्ति / निमित्तसंज्ञायां चरिताविनः एतर्ह्य् अपि निमित्तसंज्ञायां चरन्ति / विपर्यासे चरिताविनः एतर्ह्य् अपि विपर्यासे चरन्ति / पिण्डसंज्ञायां चरिताविनः एतर्ह्य् अपि पिण्डसंज्ञायां चरन्ति / अभूतसंज्ञायां चरिताविनः एतर्ह्य् अपि अभूतसंज्ञायां चरन्ति / मिथ्यादृष्टौ चरिताविनः एतर्ह्य् अपि मिथ्यादृष्टौ चरन्ति /
तथा करिष्यामि यथैषामेते दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / इत्येवं सर्वसत्त्वान् समन्वाहरति / एवं च बोधिसत्त्वो महासत्त्वो ऽनेन स्मृतिसमन्वाहारेण अनेन चित्तोत्पादेन समन्वागतः उपायकौशल्येन च समन्वागतः प्रज्ञापारमितया च परिगृहीतः एवमेतेषां गम्भीराणां धर्माणां धर्मतां प्रत्यवेक्षमाणः शून्यतातो वा आनिमित्ततो वा अप्रणिहिततो वा अनभिसंस्कारतो वा अनुत्पादतो वा अजातितो वा अभावतो वा / अस्थानमेतत्सुभूते ऽनवकाशः, यत्स बोधिसत्त्वो महासत्त्व एवं ज्ञानसमन्वागतो ऽनभिसंस्कारे वा पतेत्, त्रैधातुकेन वा सार्धं संवसेत्, नैतत्स्थानं विद्यते //
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः परिप्रष्टव्यो बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन - कतमेषां धर्माणां परिजयः कर्तव्यः? कियद्रूपाणि च चित्तान्यभिनिर्हर्तव्यानि? यानि चित्तान्यभिनिर्हरन् बोधिसत्त्वो महासत्त्वो न शून्यतां साक्षात्करोति, न आनिमित्तं साक्षात्करोति, न अप्रणिहितं साक्षात्करोति, न अनभिसंस्कारं साक्षात्करोति, न अनुत्पादं साक्षात्करोति, न अजातिं साक्षात्करोति, न अभावं साक्षात्करोति, प्रज्ञापारमितां च भावयति / सचेत्सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वेन महासत्त्वेनैवं पृष्ट एवं व्याकरोति - शून्यतैव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्या / आनिमित्तमेव अप्रणिहितमेव अनभिसंस्कार एव अनुत्पाद एव अजातिरेव अभाव एव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्य इति / सचेत्तं सर्वसत्त्वापरित्यागचित्तोत्पादं नोपदर्शयेत्, उपायकौशल्यं वा न व्याकुर्यात्, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः / तत्कस्य हेतोः? यो ह्यसावविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मः, तं धर्मं न सूचयति, न प्रभावयति, नोपदर्शयति, न प्रजानाति, परिपृष्टो न व्याकरोति, न विसर्जयति, न तां भूमिमवक्रामयति, यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य भूमिरिति //
सुभूतिराह - स्यात्पुनर्भगवन् पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो (वैद्य 188) भवेत्? भगवानाह - स्यात्सुभूते स पर्यायो येन पर्यायेण स बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवेत् / सचेद्बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमितां श्रुत्वा वा अश्रुत्वा व एवं प्रतिपद्येत, एवं विसर्जयेत् - अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः / सुभूतिराह - तेन हि भगवन् बहवो बोधाय चरन्ति / अल्पकाः पुनर्य एवं विसर्जयन्ति / भगवानाह - तथा हि सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वा ये व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ / ये पुनस्ते व्याकृता भविष्यन्ति, ते एवं विसर्जयिष्यन्ति / ते ते बोधिसत्त्वा महासत्त्वा उत्तप्तावरोपितकुशलमूला वेदितव्याः / ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन / सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि स्वप्नोपमाः सर्वधर्मा इति व्यवलोकयति, न च साक्षात्करोति, इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुकाय च स्पृहामनुशंसाचित्तं नोत्पादयति, इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽप्यनेकशतायाः पर्षदो ऽनेकसहस्राया यावदनेककोटीनियुतशतसहस्रायाः पर्षदो मध्यगतं मण्डलमाले निषण्णं भिक्षुसंघपरिवृतं बोधिसत्त्वसंघपुरस्कृतं धर्मं देशयन्तं तथागतमर्हन्तं सम्यक्संबुद्धमात्मानं पश्यति / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्मं देशयति, तां च व्यामप्रभां संजानीते, तांश् च भिक्षूनभिनिर्मिमीते, ये ऽन्यासु दिक्षु गत्वा अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वन्ति, धर्मं च देशयन्ति / एवम् अपि सुभूते स्वप्नान्तरगतोअऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः संजानीते / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते / ग्रामघाते वा नगरघाते वा निगमघाते वा जनपदघाते वा राष्ट्रघाते वा अग्निदाहे वा वर्तमाने व्यालमृगान् वा ततो ऽन्यान् अपि वा क्षुद्रमृगजातीन् दृष्ट्वा शिरश्छेदे वा प्रत्युपस्थिते ततो ऽन्यान्य् अपि वा महाभयभैरवाणि दुःखदौर्मनस्यानि वा प्राप्य ततो ऽन्येषाम् अपि वा सत्त्वानां महाभयभैरवाणि दुःखानि दृष्ट्वा नास्य भयभैरवमुत्पद्यते, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते / ततश् च स्वप्नान्तरात्प्रतिविबुद्धस्य समनन्तरव्युत्थितस्यैवं भवति - स्वप्नोपममिदं सर्वं त्रैधातुकम् / एवं च मया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सम्यग्देशयता धर्मो देशयितव्य इति / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
(वैद्य 189) पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्य नैरयिकान् सत्त्वान् दृष्ट्वा एवं भवति - तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् //
तत्र सुभूते कथं विज्ञायेत अस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति? सचेत्सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि निरयगतांस्तिर्यक्प्रेतगतान् वा सत्त्वान् दृष्ट्वा स्मृतिं प्रतिलभते / स तां स्मृतिं प्रतिलभ्य एवं चिन्तयति - तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति / एवं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् / इदम् अपि सुभूते अविवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नगरदाहे वा ग्रामदाहे वा वर्तमाने प्रतिविबुद्धः संस्ततः स्वप्नादेवं समन्वाहरति यथा - मया स्वप्नान्तरगतेन ये आकाराः यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते / एतेन सत्येन सत्यवचनेन अयं नगरदाहो वा ग्रामदाहो वा वर्तमान उपशाम्यतु, शीतिभवतु, अस्तं गच्छतु / सचेत्सुभूते ग्रामदाहो वा नगरदाहो वा उपशाम्यति, शीतीभवति, अस्तं गच्छति, वेदितव्यमेतत्सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेरिति / सचेन्नोपशाम्यति, न शीतीभवति, नास्तः गच्छति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधाविति / सचेत्पुनः सुभूते सो ऽग्निदाहो ऽतिक्रम्य गृहाद्गृहं रथ्याया रथ्यामन्यतरान्यतरां रथ्यां वा गृहं वा गच्छति, दहति, नोपशाम्यति, न शीतीभवति, नास्तं गच्छति, वेदितव्यमेतत्सुभूते धर्मप्रत्याख्यानं दुष्प्रज्ञसंवर्तनीयं तेन बोधिसत्त्वेन महासत्त्वेन कर्मोपचितम् / ततो ऽस्यैतद्दृष्टधर्मसंवर्तनीयमेव कर्म विपच्यते / तत एव धर्मप्रत्याख्यानात्सावशेषं कर्मैवं विपच्यते / इत्ययं सुभूते हेतुरयं प्रत्ययो ऽस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणताया इति / अयम् अपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि / तत्साधु च सुष्ठु च शृणु, मनसि कुरु, भाषिष्ये ऽहं ते / साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् / भगवानेतदवोचत् - सचेत्सुभूते कश्चिदेव पुरुषो वा स्त्री वा दारको वा दारिका वा (वैद्य 190) अमनुष्येण गृहीतो भवेदाविष्टः / तत्र बोधिसत्त्वेन महासत्त्वेन उपसंक्रम्य एवमधिष्ठानं समन्वाहर्तव्यम् / सचेदहं हैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, परिशुद्धो मे ऽध्याशयः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / यथाहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः, परिशुद्धो मे मनसिकारो ऽनुत्तरायां सम्यक्संबोधौ / अपगतं मे श्रावकचित्तं प्रत्येकबुद्धचित्तं च, तेन मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या / नाहं नानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये / अभिसंभोत्स्य एवाहमनुत्तरां सम्यक्संबोधिम् / ये ऽपि ते अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, न तेषां तथागतानामर्हतां सम्यक्संबुद्धानां किंचिदज्ञातं वा अदृष्टं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा / यथा ते बुद्धा भगवन्तो जानन्तो ममाध्याशयम् - इत्यप्यहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति / अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा दारको वा दारिका वा येन अमनुष्यग्रहेण गृहीतो वा आविष्टो वा, सो ऽपक्रामतु / सचेत्सो ऽमनुष्यः एवं भाषमाणेन बोधिसत्त्वेन महासत्त्वेन नापक्रामति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति / सचेत्पुनः सुभूते एवं भाषमाणस्य बोधिसत्त्वस्य महासत्त्वस्य सो ऽमनुष्यो ऽपक्रामति, वेदितव्यमेतत्सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः //
asp_21: मारकर्मपरिवर्त एकविंशतितमः / तत्र खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं भाषिष्यते - येन सत्येन सत्यवचनेन अहं व्याकृतः तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचेन अयममनुष्यो ऽपक्रामत्विति / तत्र सुभूते मारः पापीयानौत्सुक्यमापत्स्यते तस्य अमनुष्यस्यापक्रमणाय / तत्कस्य हेतोः? मारो ह्यत्र पापीयांस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चिरयानसंप्रस्थितस्यान्तिके बलवत्तरं तेजोवत्तरं चोद्योगमापत्स्यते - कथमयममनुष्यो ऽपक्रामेदिति / एवं सो ऽमनुष्यो माराधिष्ठानेनापक्रमिष्यति / एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति - ममैषो ऽनुभावेन अमनुष्यो ऽपक्रान्त इति / न पुनः स एवं ज्ञास्यति - मारस्यैषो ऽनुभावेन अमनुष्यो ऽपक्रान्त इति / स तेन तावन्मात्रकेणौत्सुक्यमापत्स्यते / स तेनौत्सुक्येन ततो ऽन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्धयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति - अहं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति / स तेन तावन्मात्रकेण भूयो मानं जनयिष्यति, मानं संजनयिष्यति, मानं वर्धयिष्यति, मानं संवर्धयिष्यति, मानं स्तम्भयिष्यति, मानमुपस्तम्भयिष्यति, मानं बृंहयिष्यति, मानमुपबृंहयिष्यति, मानमुत्पादयिष्यति / स तेन मानेन अतिमानेन मानातिमानेन मिथ्यामानेन अभिमानेन दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानम्, स्वयंभूज्ञानम्, सर्वज्ञज्ञानम् / दूरीकरिष्यत्यनुत्तरां सम्यक्संबोधिम् / स तथारूपाणि कल्याणमित्राणि
कल्याणधर्मण उदाराधिमुक्तिकानध्याशयसंपन्नानुपायकुशलानविनिवर्तनीयधर्मसमन्वागतांश् च बोधिसत्त्वान् महासत्त्वान् दृष्ट्वा अभिमानमुत्पाद्य अवमन्यमानस्तथारूपाणि कल्याणमित्राणि न सेविष्यते, न भजिष्यते, न पर्युपासिष्यते, न परिप्रक्ष्यति / तदेव मारबन्धनं गाढीकरिष्यति / तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / एवं सुभूते सत्याधिष्ठानेन मारः पापीयानचिरयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य अल्पश्रद्धस्य अल्पश्रुतस्य कल्याणमित्रविरहितस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य अन्तरायं करिष्यत्यनुत्तरायाः सम्यक्संबोधेः / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारकर्म वेदितव्यम् //
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेनापि मारकर्म भविष्यति / कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापेदेशेनापि मारकर्म भविष्यति? इह सुभूते बोधिसत्त्वं महासत्त्वं नामापदेशेनापि नामाधिष्ठानेनापि मारः पापीयानुपसंक्रमिष्यति / अन्यतरान्यतरेण वेषेणोपसंक्रम्य एवं वक्ष्यति - तैर्व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? तव हीदं नामधेयम् / इदं ते मातुर्नामधेयम् / इदं ते पितुर्नामधेयम् / इदं ते भ्रातुर्नामधेयम् / इदं ते भगिन्या नामधेयम् / इदं ते मित्रामात्यज्ञातिसालोहितानां नामधेयम् / यावदासप्तमं मातामहपितामहयुगस्य नामधेयमुदीरयिष्यति - अमुष्यां दिशि त्वं जातः, अमुष्मिन् जनपदे अमुष्मिन् ग्रामे वा नगरे वा (वैद्य 192) निगमे वा जात इति / सचेत्प्रकृत्वा मृदुको भविष्यति, तमेनमेवं वक्ष्यति - पूर्वम् अपि त्वमेव मृदुको ऽभूः / सचेत्प्रकृत्या तीक्ष्णेन्द्रियो भविष्यति, ततस्तमेवं वक्ष्यति - पूर्वम् अपि त्वं तीक्ष्णेन्द्रियो ऽभूः /
सचेदारण्यको भविष्यति, सचेत्पिण्डपातिको भविष्यति, सचेत्पांसुकूलिको भविष्यति, सचेत्खलुपश्चाद्भक्तिको भविष्यति, सचेदेकासनिको भविष्यति, सचेद्याथासंस्तरिको भविष्यति, सचेत्रैचीवरिको भविष्यति, सचेत् श्मशानिको भविष्यति, सचेद्वृक्षमूलिको भविष्यति, सचेन्नैषद्यिको भविष्यति, सचेदभ्यवकाशिको भविष्यति, सचेन्नामन्तिको भविष्यति, सचेदल्पेच्छः संतुष्टः प्रविविक्तो भविष्यति, सचेदपगतपादम्रक्षणो भविष्यति, सचेन्मृदुभाषी अल्पवाग् भविष्यति, तमेनं मारः पापीयांस्तेन तेन दृष्टधार्मिकेण गुणेनादेक्ष्यति - पूर्वम् अपि त्वमनेन चानेन च गुणेन समन्वागतो ऽभूः / नियतस्तं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ / तत्कस्य हेतोः? तथा हि ते अमी एवंरूपा धुतगुणाः संविद्यन्ते / निश्चयेन त्वं पूर्वमप्येतैरेव धुतगुणैः समन्वागतो ऽभूः / एवं स तेन पौर्वकेण नामापदेशेन नामाधिष्ठानेन प्रत्युत्पन्नधुतगुणसंलेखेन च मन्यनामुत्पादयिष्यति / तस्यैवं भविष्यति - व्याकृतो ऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, यथा मे अमी गुणाः संविद्यन्ते / तं च मारः पापीयानेवं वक्ष्यति - अविनिवर्तनीयस्त्वं व्याकृतस्तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? तथा हि तव एते एवंरूपा धुतगुणा संविद्यन्ते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
