Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स च प्रज्ञापारमितया उपायकौशल्येन च अपरिगृहीतो भवति, वेदितव्यमेतत्सुभूते अयं बोधिसत्त्वो ऽन्तरा व्यध्वनि व्यवसादमापत्स्यत इति / कश् च सुभूते बोधिसत्त्वस्यान्तरा व्यध्वनि व्यवसादः - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेन नदीतो वा सरस्तो वा तडागतो वा उदपानाद्वा ततो ऽन्येभ्यो वा उदकाधारेभ्य उदकं परिवहेत्, तस्य तदुदकं परिवहतो वेदितव्यमेतत्सुभूते स्वस्तिना (वैद्य 144) अनन्तरायेण अयं घटो गृहं गमिष्यतीति / तत्कस्य हेतोः? यथापि नाम सुपरिपक्वत्वाद्धटस्य / एवमेव सुभूते यस्य बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेमः अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / स च प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतो भवति / वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यध्वनि व्यवसादमापत्स्यते / अक्षतो ऽनुपहतः सर्वज्ञतायां स्थास्यतीति / तद्यथापि नाम सुभूते दुष्प्रज्ञजातीयः पुरुषः सामुद्रिकां नावमनाकोटितामपरिकर्मकृतां चिरबन्धनबद्धामुदके ऽवतार्य समारोपितभाण्डां परिपूर्णां भारार्तामभिरूढः स्यात्, वेदितव्यमेतत्सुभूते - एवंधर्मेयं नौर्भविष्यति, यदुत उदके ऽसंतीर्णभाण्डैव संसत्स्यतीति / तस्यान्येन भाण्डं भविष्यति, अन्येन सा नौर्विपत्स्यते इति /
एवं स सार्थवाहो ऽनुपायकुशलो दौष्प्रज्ञेन महता अर्थवियोगेन समन्वागतो भविष्यति, महतश् च रत्नाकरात्परिहीणो भविष्यतीति / एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया उपायकौशल्येन च विरहितो भवति, वेदितव्यमेतत्सुभूते अप्राप्त एवायं बोधिसत्त्वः सर्वज्ञतारत्नाकरमन्तरा संसत्स्यति, व्यवसादमापत्स्यते, महतः स्वार्थात्परिहीणो भविष्यति, महतश् च परार्थरत्नराशेः परिहीणो भविष्यति, यदुत सर्वज्ञतामहार्थरत्नाकरात्परिहीणत्वादिति / का पुनः सुभूते बोधिसत्त्वस्य अन्तरा व्यध्वनि संसीदना? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / तद्यथापि नाम सुभूते पण्डितजातीयः सार्थवाहः सामुद्रिकां नावं सुबद्धां बन्धयित्वा स्वाकोटितामाकोटयित्वा सुपरिकर्मकृतां कृत्वा उदके ऽवतार्य भाण्डमारोप्य पूर्णां कृत्वा समं योजयित्वा युक्तेन वातेनाभिप्रेतां दिशमनुपूर्वेण गच्छेत्, ततस्तद्यानमिति, वेदितव्यमेतत्सुभूते नेयं नौरुदके संसत्स्यति / गमिष्यतीयं नौस्तं प्रदेशं यत्रानया गन्तव्यम् / महालाभेन चायं सार्थवाहः संयोक्ष्यते यदुत लौकिकै रत्नैरिति /
एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचि छन्दः अस्ति वीर्यम्, अस्त्यप्रमादः अस्त्यधिमुक्तिः, अस्त्याध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन चाविरहितो भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, स्थास्यत्ययं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति - यतो ऽस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति (वैद्य 145) अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / एते चास्य धर्माः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन चाविरहिता न श्रावकभूमिं न प्रत्येकबुद्धभूमिं वा प्रतिपत्स्यन्ते / अपि तु येन सर्वज्ञता, तेनैते धर्मा अभिमुखाः संप्रस्थिताः ततो ऽस्या अनुत्तरायाः सम्यक्संबोधेरभिसंबोधाय भविष्यन्तीति / तद्यथापि नाम सुभूते कश्चिदेव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य कश्चिदेव शरीरे व्याधिरुत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा / तत्किं मन्यसे सुभूते अपि नु स पुरुषो ऽपरिगृहीतो मञ्चादुत्तिष्ठेत्? सुभूतिराह - नो हीदं भगवन् /
भगवानाह - सचेत्पुनः सुभूते स पुरुषो मञ्चादुत्तिष्ठेत्, अथ च पुनर्न प्रतिबलो ऽर्धक्रोशान्तरम् अपि प्रक्रमितुम् / स तया जरया तेन च व्याधिना क्षपितो यद्य् अपि मञ्चादुत्तिष्ठेत्, तथापि पुनरप्रतिबलः स पुरुषः प्रक्रमणाय / एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / स च प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवति, किंचापि संप्रस्थितो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / अथ च पुनः सुभूते एवं वेदितव्यम् - अयं बोधिसत्त्वो ऽन्तरा व्यध्वनि संसत्स्यति, व्यवसादमापत्स्यते, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यतीति / तत्कस्य हेतोः? यथापि नाम प्रज्ञापारमितया अपरिगृहीतत्वादुपायकौशल्येन च विरहितत्वात् / तद्यथापि नाम सुभूते स एव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य शरीरे कश्चिदेव व्याधिरूत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा, स च मञ्चादुत्तिष्ठेत् / तमेनं द्वौ बलवन्तौ पुरुषौ वामदक्षिणाभ्यां पार्श्वाभ्यां स्वध्यालम्बितमध्यालम्ब्य सुपरिगृहीतं परिगृह्य एवं वदेताम् - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि यावच्चाकाङ्क्षसि गन्तुम्, अनुपरिगृहीतस्त्वमावाभ्याम्, न तवान्तरामार्गे पतनभयं भविष्यति, यावन्न त्वं तदधिष्ठानमनुप्राप्तो भविष्यसि, यत्र त्वया गन्तव्यमिति /
एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया अनुपरिगृहीतो भवति, उपायकौशल्यसमन्वागतश् च भवति / वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस्तत्स्थानमनुप्राप्तुं यदुतानुत्तरं सम्यक्संबोधिस्थानमिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामौपम्यपरिवर्तो नाम चतुर्दशः // asp_15: देवपरिवर्तः पञ्चदशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आदिकर्मिकेण भगवन् बोधिसत्त्वेन महासत्त्वेन कथं प्रज्ञापारमितायां स्थातव्यं कथं शिक्षितव्यम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि / यान्येनं प्रज्ञापारमितायामववदिष्यन्ति अनुशासिष्यन्ति, यानि चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति, तान्येव चास्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि / एवं चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति - एहि त्वं कुलपुत्र दानपारमितायां योगमापद्यस्व, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां योगमापद्यस्व / यद्यदेव त्वं कुलपुत्र दानं ददासि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय / मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः, एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः / मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः / तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता / एवं यद्यदेव त्वं कुलपुत्र शीलं रक्षसि..........पेयालं..............यद्यदेव त्वं कुलपुत्र क्षान्त्या संपादयसि, यद्यदेव त्वं कुलपुत्र वीर्यमारभसे, यद्यदेव त्वं कुलपुत्र ध्यानं समापद्यसे, यद्यदेव त्वं कुलपुत्र प्रज्ञायां परिजयं करोषि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय / मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः / एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः / मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः / तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता / मा च त्वं कुलपुत्र श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्पृहां कार्षीरिति / एवं हि सुभूते आदिकर्मिको बोधिसत्त्वो महासत्त्वो ऽनुपूर्वेण कल्याणमित्रैः प्रज्ञापारमितायामवतारयितव्यः //
सुभूतिराह - दुष्करकारका भगवन् बोधिसत्त्वाः महासत्त्वाः, ये ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः / एवंरूपं दानमागम्य, एवंरूपं शीलम्, एवंरूपां क्षान्तिम्, एवंरूपं वीर्यम्, एवंरूपं ध्यानम्, एवंरूपां प्रज्ञामागम्य स्वाधीने ऽपि परिनिर्वाणे नेच्छन्ति परिनिर्वातुम् / अपि तु परमदुःखितं सत्त्वधातुमभिसमीक्ष्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः संसारान्नोत्रस्यन्ति / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / दुष्करकारकाः सुभूते बोधिसत्त्वा महासत्त्वाः ये लोकहिताय संप्रस्थिताः, लोकसुखाय लोकानुकम्पायै संप्रस्थिताः, लोकस्य त्राणं भविष्यामः, लोकस्य शरणं भविष्यामः, लोकस्य लयनं भविष्यामः, लोकस्य परायणं भविष्यामः, लोकस्य द्वीपां भविष्यामः, लोकस्यालोका भविष्यामः, लोकस्य परिणायका भविष्याम, अनुत्तरां सम्यक्संबोधिमभिसंबुध्य लोकस्य गतिर्भविष्यामः, इत्येवंरूपमनुत्तरायां सम्यक्संबोधौ वीर्यमारभन्ते / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति? यानि तानि सुभूते संसारावचराणि दुःखानि लोकस्य, तत एनं (वैद्य 147) त्रायन्ते, तेषां दुःखानां प्रहाणाय व्यायच्छन्ते, वीर्यमारभन्ते / एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति /
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य शरणं भवन्ति? ये सुभूते सत्त्वा जातिधर्मिणो जराधर्मिणो व्याधिधर्मिणो मरणधर्मिणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्मिणः सत्त्वाः तान् सर्वान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति / एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य शरणं भवन्ति / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति? यत्सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः सत्त्वेभ्यो ऽश्लेषाय धर्मं देशयन्ति / एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवनति / सुभूतिराह - कथं भगवन् अश्लेषो भवति? भगवानाह - यः सुभूते रूपस्यासंबन्धः, स रूपस्याश्लेषः / यो रूपस्याश्लेषः, स रूपस्यासंबन्धः / यो रूपस्यासंबन्धः, स रूपस्यानुत्पादो ऽनिरोधः / यो रूपस्यानुत्पादो ऽनिरोधः, स रूपस्याश्लेषः / यो रूपस्याश्लेषः, अयं रूपस्यासंबन्धः, अयं रूपस्याश्लेषः / एवं वेदनायाः संज्ञायाः संस्काराणाम् / यः सुभूते विज्ञानस्यासंबन्धः, स विज्ञानस्याश्लेषः / यो विज्ञानस्याश्लेषः, स विज्ञानस्यासंबन्धः / यो विज्ञानस्यासंबन्धः, स विज्ञानस्यानुत्पादो ऽनिरोधः / यो विज्ञानस्यानुत्पादो ऽनिरोधः, स विज्ञानस्याश्लेषः / यो विज्ञानस्याश्लेषः अयं विज्ञानस्यासंबन्धः, अयं विज्ञानस्याश्लेषः / एवं हि सुभूते सर्वधर्मा असंश्लिष्टा असंबद्धा इति ज्ञानदर्शनादश्लेषो भवति /
एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति? यत्सुभूते रूपस्य पारं न तद्रूपम् / यथा च सुभूते पारं तथा रूपम् / एवं वेदना संज्ञा संस्काराः / यत्सुभूते विज्ञानस्य पारं न तद्विज्ञानम् / यथा च सुभूते पारं तथा विज्ञानम् / यथा च सुभूते रूपम्, एवं वेदना संज्ञा संस्काराः / विज्ञानं पारं तथा सर्वधर्माः / सुभूतिराह - यदि भगवन् यथा रूपम्, एवं वेदना संज्ञा संस्काराः विज्ञानं पारं तथा सर्वधर्माः, ननु भगवन् बोधिसत्त्वैर्महासत्त्वैरभिसंबुद्धा एवं भवन्ति सर्वधर्माः / तत्कस्य हेतोः? न ह्यत्र भगवन् कश्चिद्विकल्पः / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / यत्तत्पारं न तत्र कश्चिद्विकल्पः / अविकल्पत्वात्सुभूते बोधिसत्त्वैर्महासत्वैरभिसंबुद्धा एव भवन्ति सर्वधर्माः / इदम् अपि सुभूते परमदुष्करं बोधिसत्त्वानां महासत्त्वानाम्, य एवं च सर्वधर्मानुपनिध्यायन्ति, न च साक्षात्कुर्वन्ति, न चावलीयन्ते - एवमस्माभिरेते धर्मा अभिसंबोद्धव्याः, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एनान् धर्मान् देशयिष्यामः प्रकाशयिष्याम इत्युपनिध्यायन्ति / एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति /
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः (वैद्य 148) सन्तो लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति नदीषु वा महोदधिषु वा, ते उच्यन्ते द्वीपा इति / एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं रूपम् / एवं वेदना संज्ञा संस्काराः / एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं विज्ञानम् / एतेन सुभूते परिच्छेदेन सर्वधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः / यश् च सुभूते सर्वधर्माणां परिच्छेदः, एतच्छान्तम्, एतत्प्रणीतम्, एतत्परिनिर्वाणम्, एतद्यथावत्, एतदविपरीतम् / एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य द्वीपा भवन्ति / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य आलोका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो दीर्घरात्रमविद्याण्डकोशपटलपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञया अवभासयन्तः सर्वाज्ञानतमोन्धकारं विधुन्वन्ति / एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आलोका भवन्ति / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो रूपस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति /
पृथग्जनधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / श्रावकधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / प्रत्येकबुद्धधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / बोधिसत्त्वधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / बुद्धधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / सर्वधर्माणाम् अपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति / एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति / कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भगवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आकाशगतिकं रुपमिति धर्मं देशयन्ति / एवं वेदना संज्ञा संस्काराः / आकाशगतिकं विज्ञानमिति धर्मं देशयन्ति / एवमेव सुभूते सर्वधर्मा आकाशगतिका अनागतिका अगतिका आकाशसमाः / यथा आकाशम् अनागतमगतमकृतमविकृतमनभिसंस्कृतमस्थितमसंस्थितमव्यवस्थितमनुत्पन्नमनिरुद्धम्, एवमेव सुभूते सर्वधर्मा अनागता आगता आकृता अविकृता अनभिसंस्कृता अस्थिता असंस्थिता अव्यवस्थिता अनुत्पन्ना अनिरुद्धा आकाशकल्पत्वादविकल्पाः / तत्कस्य हेतोः? या सुभूते रूपस्य शून्यता, न सा आगच्छति वा गच्छति वा / एवं वेदनायाः संज्ञायाः संस्काराणाम् / या सुभूते विज्ञानस्य शून्यता, न सा आगच्छति वा गच्छति वा / एवमेव सुभूते या सर्वधर्माणां शून्यता, न सा आगच्छति वा गच्छति वा / तत्कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्माः /
ते तां गतिं न व्यतिवर्तन्ते / आनिमित्तगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अप्रणिहितगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अनभिसंस्कारगतिका हि सुभूते (वैद्य 149) सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अनुत्पादगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अजातिगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अभावगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / स्वप्नगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / आत्मगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अपर्यन्तगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / शान्तगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / निर्वाणगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अप्रत्युद्धारगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अनागतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अचलगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / रूपगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / एवं वेदना संज्ञा संस्काराः / विज्ञानगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते / अर्हत्प्रत्येकबुद्धत्वानुत्तरसम्यक्संबोधिगतिका हि सुभूते सर्वधर्माः / ते तां गतिं न व्यतिवर्तन्ते /
अतश् च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्त आकाशगतिकाः सर्वधर्मा इति धर्मं देशयन्ति / एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भवन्ति //
सुभूतिराह - के भगवन् इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह - ये सुभूते चरिताविनो बोधिसत्त्वा महासत्त्वा भविष्यन्ति पौर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके परिपक्वकुशलमूलाः, ते सुभूते बोधिसत्त्वा वेदितव्याः ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति / सुभूतिराह - किंस्वभावा भगवंस्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह - वैनयिकविविक्तस्वभावस्ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति //
सुभूतिराह - किं भगवन् एवंगतिका एव ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति? एनामेव गतिमभिसंबुध्य सत्त्वानामेनामेव गतिं देशयिष्यन्ति? एवं ते सत्त्वानां गतिर्भविष्यन्ति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / एवंगतिका एव ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति / एनामेव गतिमभिसंबुध्य सत्त्वानाम् एनामेव गतिं देशयिष्यन्ति / एवं ते सत्त्वानां गतिर्भविष्यन्ति / एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो ऽप्रमेयाणामसंख्येयानां सत्त्वानां गतिर्भविष्यन्ति //
सुभूतिराह - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / दुष्करकारकः स सुभूते बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः - अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति / स खलु पुनरयं सुभूते (वैद्य 150) संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य न रूपसंबद्धो न रूपस्यार्थाय संबद्धः / एवं वेदना संज्ञा संस्काराः / न विज्ञानसंबद्धो न विज्ञानस्यार्थाय संबद्धः / न श्रावकभूमिसंबद्धो न श्रावकभूमेरर्थाय संबद्धः / न प्रत्येकबुद्धभूमिसंबद्धो न प्रत्येकबुद्धभूमेरर्थाय संबद्धः / नापि बुद्धभूमिसंबद्धो नापि बुद्धभूमेरर्थाय संबद्धः / तत्कस्य हेतोः? सर्वधर्मासंनद्धो बतायं सुभूते संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य //
सुभूतिराह - अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य एवं महासंनाहसंनद्धस्य एवं गम्भीरारायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि / कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वा / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - कतमं त्वं सुभूते अर्थवशं संपश्यन्नेवं वदसि - अस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि / कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वेति? अस्थानं सुभूते ह्येतदनवकाशो ऽस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतः श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / अपि तु बुद्धभूमिरेवास्य प्रतिकाङ्क्षितव्या येनायं सर्वसत्त्वानां कृतशः संनाहः संनद्धः //
सुभूतिराह - गम्भीरा भगवन् प्रज्ञापारमिता / सा न केनचिद्भावयितव्या / तां हि न कश्चिद्भावितवान्, नापि कश्चिद्भावयति, नापि कश्चिद्भावयिष्यति, नापिं किंचिद्भावयितव्यम्, न क्वचिद्भावयितव्यम् / तत्कस्य हेतोः? न हि भगवन् प्रज्ञापारमितायां न कश्चिद्धर्मः परिनिष्पन्नः / आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / सर्वधर्मभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / असङ्गभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / अनन्तभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / असद्भावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / अपरिग्रहभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना //
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / अतो हि सुभूते गम्भीरायाः प्रज्ञापारमिताया विहारेण विहरन् बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽनुत्तरायाः सम्यक्संबोधेः - कच्चित्सुभूते बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां नाभिनिवेशं करोति / कच्चित्परभणितानि परमन्त्रितानि नाभिनिविशते / कच्चिद्बोधिसत्त्वो महासत्त्वो न परस्य श्रद्धया गच्छति / कच्चित्सुभूते बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नावलीयते न संलीयते न विपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, न काङ्क्षति न विचिकित्सति न धन्धायते अवगाहते ऽधिमुच्यते ऽभिनन्दति प्रज्ञापारमिताया दर्शनं श्रवणं च / वेदितव्यमिदं सुभूते पूर्वान्ते ऽप्यनेन प्रज्ञापारमिता परिपृष्टा / तत्कस्य हेतोः? तथा हि सुभूते गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते //
(वैद्य 151) सुभूतिराह - यो भगवन् बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, कतमेन भगवन् आकारेण तेन प्रज्ञापारमिता व्यवचारिता भवति? भगवानाह - सर्वज्ञतानिम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता व्यवचारिता भवति / सुभूतिराह - कथं भगवन् सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति? भगवानाह - आकाशनिम्नया सुभूते संतत्या आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति / या खलु पुनः सुभूते सर्वज्ञतानिम्नया संतत्या व्यवचारणा, इयं सा सुभूते व्यवचारणा / तत्कस्य हेतोः? अप्रमेया हि सुभूते सर्वज्ञता, अप्रमाणा हि सुभूते सर्वज्ञता / यत्सुभूते अप्रमेयमप्रमाणम्, न तद्रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न प्राप्तिर्नाभिसमयो नाधिगमो न मार्गो न मार्गफलं न ज्ञानं न विज्ञानं नोत्पत्तिर्न विनाशो नोत्पादो न व्ययो न निरोधो न भावना न विभावना, नापि केनचित्कृतं नापि कुतश्चिदागतं नापि क्वचिद् गच्छति नापि क्वचिद्देशे नापि क्वचित्प्रदेशे स्थितम्, अपि तु अप्रमेयप्रमाणमित्येवं संख्यां गच्छति / आकाशाप्रमेयतया सर्वज्ञताप्रमेयता / या च अप्रमेयता, न सा शक्या केनचिदभिसंबोद्धुम् / न रूपेण न वेदनया न संज्ञया न संस्कारैर्न विज्ञानेन न दानपारमितया न शीलपारमितया न क्षान्तिपारमितया न वीर्यपारमितया न ध्यानपारमितया न प्रज्ञापारमितया शक्या अभिसंबोद्धुम् / तत्कस्य हेतोः? रूपमेव हि सुभूते सर्वज्ञता / एवं वेदनैव संज्ञैव संस्कारा एव / विज्ञानमेव हि सुभूते सर्वज्ञता / दानपारमितैव हि सुभूते सर्वज्ञता / शीलपारमितैव क्षान्तिपारमितैव वीर्यपारमितैव ध्यानपारमितैव प्रज्ञापारमितैव हि सुभूते सर्वज्ञता //
अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैर्ब्रह्मापि सहापतिः सार्धं रूपावचरैर्देवपुत्रैर्येन भगवांस्तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते तस्थौ / एकान्ते स्थितश् च शक्रो देवेन्द्रः कामावचरैर्देवपुत्रैः सार्धं ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / दुरवगाहा भगवन् प्रज्ञापारमिता / दुर्दृशा भगवन् प्रज्ञापारमिता / दुरनुबोधा भगवन् प्रज्ञापारमिता / इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम् //
एवमुक्ते भगवान् शक्रं देवानामिन्द्रं कामावचरांश् च देवपुत्रान् ब्रह्माणं च सहापतिं रूपावचरांश् च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः, एवम् एतत् / गम्भीरा बतेयं देवपुत्राः प्रज्ञापारमिता / दुरवगोहयं देवपुत्राः प्रज्ञापारमिता / दुर्दृशेयं देवपुत्राः प्रज्ञापारमिता / दुरनुबोधेयं देवपुत्राः प्रज्ञापारमिता / इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य (वैद्य 152) अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम् - गम्भीरो बतायं मया धर्मो ऽभिसंबुद्ध इति, यत्र न कश्चिदभिसंबुद्धो न कश्चिदभिसंभोत्स्यते न कश्चिदभिसंबुध्यते / इयं सा धर्मस्य गम्भीरता / आकाशगम्भीरतया गम्भीरो ऽयं धर्मः / आत्मगम्भीरतया गम्भीरो ऽयं धर्मः / सर्वधर्मानागमनतया गम्भीरो ऽयं धर्मः / सर्वधर्मागमनतया गम्भीरो ऽयं धर्मो मयाभिसंबुद्ध इति //
एवमुक्ते शक्रो देवानामिन्द्रः कामावचराश् च देवपुत्राः ब्रह्मापि सहापतिः रूपावचराश् च देवपुत्रा भगवन्तमेतदवोचन् - आश्चर्यं भगवन्, अद्भुतं सुगत / सर्वलोकविप्रत्यनीको ऽयं धर्मो देश्यते / अनुग्रहाय च भगवन् धर्माणामयं धर्मो देश्यते / उद्ग्रहे च लोकश्चरतीति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां देवपरिवर्तो नाम पञ्चदशः // asp_16: तथतापरिवर्तः षोडशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - सर्वधर्मानुपलम्भो बतायं भगवन् धर्मो देश्यते / नायं भगवन् धर्मः क्वचित्प्रतिहन्यते / अप्रतिहतलक्षणो बतायं भगवन् धर्मः आकाशसमतया सर्वपदानुपलब्धितः / अप्रतिमलक्षणो बतायां भगवन् धर्मो ऽद्वितीयत्वात् / अप्रतिलक्षणो बतायं भगवन् धर्मो निष्प्रत्यर्थिकत्वात् / अपदो बतायं भगवन् धर्मो ऽनभिनिर्वृत्तत्वात् / अनुत्पादो बतायं भगवन् धर्मः सर्वोपपत्यनुपपत्तित्वात् / अपथो बतायं भगवन् धर्मः सर्वपथानुपलब्धित्वात् //
अथ खलु देवानामिन्द्रो ब्रह्मा सहापतिस्ते च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तमेतदवोचन् - अनुजातो बतायं भगवन् भगवतः श्रावक आर्यसुभूतिः स्थविरः / तत्कस्य हेतोः? तथा हि भगवन् यं यमेव अयमार्यसुभूतिः स्थविरो धर्मं देशयति, तं तमेव धर्मं शून्यतामारभ्य देशयति //
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रं ब्रह्माणं च सहापतिं तांश् च कामावचरान् रूपावचरांश् च देवपुत्रानामन्त्रयते स्म - यद्देवपुत्रा एवं वदथ - अनुजातो ऽयं सुभूतिः स्थविरस्तथागतस्येति / अजातत्वात्सुभूतिः स्थविरो ऽनुजातस्तथागतस्य / अनुजातस्तथतां सुभूतिः स्थविरस्तथागतस्य / यथा तथागततथता अनागता अगता, एवं हि सुभूतितथता अनागता अगता / एवं हि सुभूतिः स्थविरस्तथागततथतामनुजातः / आदित एव सुभूतिः स्थविरस्तथागततथतामनुजातः / तत्कस्य हेतोः? या हि तथागततथता, सा सर्वधर्मतथता / या सर्वधर्मतथता, सा तथागततथता / या च तथागततथता, या च सर्वधर्मतथता, सैव सुभूतेः स्थविरस्य तथता / तां तथतामनुजातः सुभूतिः स्थविरः / अतो ऽनुजातस्तथागतस्य / सापि च तथता अतथता / तां तथतामनुजातः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / तथागतस्य या सा तथतायाः स्थितिता, तया स्थितितया सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा, एवं हि सुभूतितथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा / एवं हि सुभूतिः स्थविरस्तया तथतया अविकारो निर्विकारो ऽविकल्पो निर्विकल्पस्तथागतस्यानुजातः / यथा च तथागततथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते, एवं सर्वधर्मतथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते / तत्कस्य हेतोः? या च तथागततथता, या च सर्वधर्मतथता, एकैवैषा तथता अद्वयाद्वैधीकारा अद्वयतथता /
न क्वचित्तथता, न कुतश्चित्तथता, न कस्यचित्तथता / यतः सा न कस्यचित्तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता / एवं हि सुभूतिः स्थविरो ऽनुजातस्तथागतस्याकृततथतया / या च अकृततथता, न सा कदाचिन्न तथता / यतश् च (वैद्य 154) सा न कदाचिन्न तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता / एवं हि सुभूतिः स्थविरो ऽनुजातस्तथागतम् / यथा तथागततथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा, एवं सुभूतितथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा / एवमेव च तथागततथतयाभिनिर्मितः सुभूतिश्चेति द्वयमप्यलुप्तमेतदभिन्नं भेदकानुपलब्धितः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता नान्यत्र सर्वधर्मतथतायाः, एवं हि सुभूतितथता नान्यत्र सर्वधर्मतथतायाः / या नान्यत्र सर्वधर्मतथतायाः, न सा कस्यचिन्न तथता / सैव सा तथता सर्वधर्मतथता / तां तथतां सुभूतिः स्थविरो ऽनन्यतथतानुगमेनोपगतः / न चात्र कश्चिन्न क्वचिदनुगतिमुपगतः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता नातीता न अनागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना / एवं हि सुभूतिः स्थविरस्तां तथतामनुजातस्तथागतमनुजात इत्युच्यते / तथागततथतयापि ह्यनुगतस्तथतां तथागततथतया अतीततथतामनुगतः / अतीततथतया तथागततथतामनुगतः / तथागततथतया अनागततथतामनुगतः / अनागततथतया तथागततथतामनुगतः / तथागततथतया प्रत्युत्पन्नतथतामनुगतः /
प्रत्युत्पन्नतथतया तथागततथतामनुगतः / तथागततथतया अतीतानागतप्रत्युत्पन्नतथतामनुगतः / अतीतानागतप्रत्युत्पन्नतथतया तथागततथतामनुगतः / इति हि सुभूतितथता च अतीतानागतप्रत्युत्पन्नतथता च तथागततथता च अद्वयमेतदद्वैधीकारम् / एवं सर्वधर्मतथता च सुभूतितथता च अद्वयमेतदद्वैधीकारम् / यैव च भगवतो बोधिसत्त्वभूतस्य तथता, सैव भगवतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तथता / इयं सा तथता, यया तथतया बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सन् तथागत इति नामधेयं लभते / अस्यां खलु पुनस्तथातगतथतायां निर्दिश्यमानायामियं महापृथिवी तस्यां वेलायां षड्विकारमष्टादशमहानिमित्तमकम्पत्, प्राकम्पत्, संप्राकम्पत्, अचलत् प्राचलत् संप्राचलत्, अवेधत् प्रावेधत् संप्रावेधत्, अरणत् प्रारणत् संप्रारणत्, अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत् तथागतस्यैवानुत्तरां सम्यक्संबोधिमभिसंबुध्यमानस्येति / पुनरपरं सुभूतिः स्थविरस्तान् देवपुत्रानामन्त्रयते स्म - एवं हि देवपुत्राः सुभूतिः स्थविरस्तथागतमनुजातः //
पुनरपरं सुभूतिः स्थविरो न रूपमनुजातो न वेदनां न संज्ञां न संस्कारान् न विज्ञानमनुजातो न स्रोतआपत्तिफलमनुजातो न सकृदागामिफलं न अनागामिफलं न अर्हत्त्वफलमनुजातो न प्रत्येकबुद्धत्वमनुजातो न बुद्धत्वमनुजातः / तत्कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यैरनुजायेत, ये चानुजायेरन् / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरचर्येयं भगवन् यदुत तथता / एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवम् एतत् / (वैद्य 155) गम्भीरचर्येयं शारिपुत्र यदुत यथता / अस्मिन् खलु पुनस्तथतानिर्देशे निर्दिश्यमाने त्रयाणां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि, पञ्चानां च भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, पञ्चभिश् च देवपुत्रसहस्रैः पूर्वपरिकर्मकृतैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, षष्टेश् च बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि //
अथ खल्वायुष्मान् शारिपुत्रस्तेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि विदित्वा भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययो यदेतेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि? भगवानाह - एतैः शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि, सर्वत्र च दानं दत्तं शीलं रक्षित्यं क्षान्त्या संपादितं वीर्यमारब्धं ध्यानान्युत्पादितानि / ते खलु पुनरिमे प्रज्ञापारमितया अपरिगृहीता उपायकौशल्येन च विरहिता अभूवन् / किंचापि शारिपुत्र एतेषां बोधिसत्त्वानामस्ति मार्गः शून्यता वा आनिमित्तचर्या वा अप्रणिहितमनसिकारता वा, अथ च पुनरेतैरुपायकौशल्यविकलत्वाद्भूतकोटिः साक्षात्कृता, श्रावकभूमौ निर्जाताः, न बुद्धभूमौ / तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर्योजनशतिको वा द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा पञ्चयोजनशतिको वा आत्मभावो भवेत् / स त्रायस्त्रिंशेषु देवेषु वर्तमानो जम्बूद्वीपमागन्तव्यं मन्येत / स खलु पुनः शारिपुत्र पक्षी शकुनिरजातपक्षो वा भवेत्, शीर्णपक्षो वा भवेत्, छिन्नपक्षो वा भवेत् / स त्रायस्त्रिंशतो देवनिकायादात्मानमुत्सृजेत् - इह जम्बूद्वीपे प्रतिष्ठास्यामीति मन्येत / अथ तस्य पक्षिणः शकुनेस्ततः पततः आकाशे अन्तरीक्षे स्थितस्य अन्तरा चित्तस्यैवं भवेत् - अहो बताहं पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठेयमिति / तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिः प्रतिबलः पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठातुम्? आयुष्मान् शारिपुत्र आह - नो हीदं भगवन् / भगवानाह - सचेत्पुनरेवं चिन्तयेत् - अहो बताहमकृतो ऽनुपहतो जम्बूद्वीपे प्रतिष्ठेयमिति / तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिरकृतो ऽनुपहतो जम्बूद्वीपे प्रतिष्ठेत्? शारिपुत्र आह - नो हीदं भगवन् / कृतश् च स भगवन् उपहतश् च भवेज्जम्बूद्वीपे च पतितः सन् मरणं वा निगच्छेत् मरणमात्रकं वा दुःखम् / तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति - यदस्य महांश्चात्मभावो भवति, पक्षौ चास्य न भवतः, उच्चाच्च प्रपतति //
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवम् एतत् / किं चापि शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, शीलं रक्षेत्, क्षान्त्या संपादयेत्, वीर्यमारभेत, ध्यानानि, समापद्येत, महच्चास्य प्रस्थानं भवेत्, महांश्चास्य चित्तोत्पादो भवेदनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / सचेदयं प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवेत्, एवं श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति //
(वैद्य 156) पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तच्छीलं तं समाधिं तां प्रज्ञां तां विमुक्तिं तद्विमुक्तिज्ञानदर्शनं समन्वाहरति, आधारयति निमित्तयोगेन, न स तथागतानामर्हतां सम्यक्संबुद्धानां शीलं न जानाति न पश्यति / न समाधिं न प्रज्ञां न विमुक्तिं न विमुक्तिज्ञानदर्शनं तथागतानामर्हतां सम्यक्संबुद्धानां जानाति, न पश्यति / सो ऽजानन्नपश्यन् शून्यतायाः शब्दं शृणोति / स तं शब्दं निमित्तीकरोति / तं शब्दं निमित्तीकृत्य अनुत्तरायां सम्यक्संबोधौ परिणामयितुमिच्छति / ततो वेदितव्यम् एतत् - स्थास्यत्ययं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वेति / तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति - यत्प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितो भवति //
शारिपुत्र आह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि - यो बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितः, किंचापि स बहुनापि पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश् च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम् / तस्मात्तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम् / एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवम् एतत् / यः शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः, उपायकौशल्येन च विरहितः, किंचापि स बहुना पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश् च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम् / तस्मात्तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम् //
अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैः, ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता, दुरभिसंभवा भगवन् अनुत्तरा सम्यक्संबोधिः / परमदुरभिसंभवा भगवन् अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् / अथ खलु भगवांस्तान् शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान् सहापतिमहाब्रह्मप्रमुखान् रूपावचरांश् च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः, एवम् एतत् / गम्भीरेयं देवपुत्राः प्रज्ञापारमिता / दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं दुष्प्रज्ञैर्हीनवीर्यैर्हीनाधिमुक्तिकैरनुपायकुशलैः पापमित्रसंसेविभिः //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति, कथं भगवन् दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः? परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्, यत्र न कश्चिदभिसंबुध्यते? तत्कस्य हेतोः? शून्यत्वाद्भगवन् सर्वधर्माणाम् / न स कश्चिद्धर्मः संविद्यते यो धर्मः शक्यो ऽभिसंबोद्धुम् / तथा हि भगवन् सर्वधर्माः शून्याः / यस्यापि भगवन् धर्मस्य प्रहाणाय धर्मो देश्यते, सो ऽपि धर्मो न संविद्यते / एवं यश्चाभिसंबुध्येत अनुत्तरां सम्यक्संबोधिम्, यच्चाभिसंबोद्धव्यम्, यश् च जानीयात्, यच्च ज्ञातव्यम्, (वैद्य 157) सर्व एते धर्माः शून्याः / अनेनापि भगवन् पर्यायेण ममैवं भवति - स्वभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं न दुरभिसंभवेति / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - असंभवत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / असद्भूतत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / अविकल्पत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / अविठपित्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् //
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - शून्यमित्यनेनाप्यायुष्मन् सुभूते पर्यायेण दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् / तत्कस्य हेतोः? न ह्यायुष्मन् सुभूते आकाशस्यैवं भवति - अहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति / एवं च आयुष्मन् सुभूते इमे धर्मा अभिसंबोद्धव्याः / तत्कस्य हेतोः? आकाशसमा ह्यायुष्मन् सुभूते सर्वधर्माः / यदि चायुष्मन् सुभूते स्वभिसंभवा भवेदनुत्तरा सम्यक्संबोधिः, न त्वेवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः / यस्मात्तर्ह्यायुष्मन् सुभूते गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तन्ते ऽनुत्तरयाः सम्यक्संबोधेः, तस्मादायुष्मन् सुभूते एवं विज्ञायते - दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः / परमदुभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति //
एवमुक्ते आयुष्मन् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत् - किं पुनरायुष्मन् शारिपुत्र रूपं विवर्तते अनुत्तरायाः सम्यक्संबोधेः? शारिपुत्र आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यो ऽन्यत्र विज्ञानात् स धर्मः, यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या रूपतथता, सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या वेदनातथता संज्ञातथता संस्कारतथता, या विज्ञानतथता, सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह - नो हीदमायुष्मन् सुभूते /
सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् (वैद्य 158) शारिपुत्र अन्यत्र रूपात्स धर्मः, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपतथता अनुत्तरां संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते /
सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो बोद्धव्यो ऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः यो बोद्धव्यो ऽनुत्तरायां सम्यक्संबोधौ ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो बोद्धव्यो ऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो बोद्धव्यो ऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - तत्किं मन्यसे आयुष्मन् शारिपुत्र तथता विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - तत्किं मन्यसे आयुष्मन् शारिपुत्र तथतायां स धर्मः, यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते /
सुभूतिराह - तत्कतमः पुनरायुष्मन् शारिपुत्र स धर्मो यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? यस्तस्यामेव धर्मतायां स्थितः सर्वधर्मास्थानयोगेन? कतमो वा पुनः स शारिपुत्र धर्मो या तथता? कच्चिद्वा पुनरायुष्मन् शारिपुत्र तथता विवर्तिष्यते? आह - नो हीदमायुष्मन् सुभूते / सुभूतिराह - एवमायुष्मन् शारिपुत्र सत्यतः स्थितितो ऽनुपलभ्यमानानां सर्वधर्माणां कतमः स धर्मः, यो विवर्तिष्यते अनुत्तरयाः सम्यक्संबोधेः? एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं (वैद्य 159) सुभूतिमेतदवोचत् - यया धर्मनयजात्या आयुष्मान् सुभूतिः स्थविरो निर्दिशति, तया न स कश्चिद्धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः / ये च खलु पुनरिमे आयुष्मन् सुभूते त्रयो बोधिसत्त्वयानिकाः पुद्गलास्तथागतेनाख्याताः, एषां त्रयाणां व्यवस्थानं न भवति / एकमेव हि यानं भवति यदुत बुद्धयानं बोधिसत्त्वयानं यथा आयुष्मतः सुभूतेर्निर्देशः //
अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - किं पुनरायुष्मन् शारिपुत्र आयुष्मान् सुभूतिः स्थविरः एकम् अपि बोधिसत्त्वं नाभ्युपगच्छति श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा / प्रष्टव्यस्तावदयमायुष्मान् सुभूतिः स्थविरः / अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - किं पुनस्त्वमायुष्मन् सुभूते एकम् अपि बोधिसत्त्वं नाभ्युपगच्छसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या तथतायास्तथता, तत्र तथतायामेकम् अपि बोधिसत्त्वं समनुपश्यसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? शारिपुत्र आह - न ह्येतदायुष्मन् सुभूते / तथतापि तावत् त्रिभिराकारैर्नोपलभ्यते, प्रागेव बोधिसत्त्वः / सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र तथता एकेनाप्याकारेणोपलभ्यते? आह - न ह्येतदायुष्मन् सुभूते / सुभूतिराह - कच्चित्पुनस्त्वमायुष्मन् शारिपुत्र तथतायामेकम् अपि बोधिसत्त्वधर्मं समनुपश्यसि? आह - न ह्येतदायुष्मन् सुभूते / सुभूतिराह - एवमायुष्मन् शारिपुत्र सत्यतः स्थितितस्तस्य बोधिसत्त्वधर्मस्यानुपलभ्यमानस्य कुतस्तवैवं भवति - अयं श्रावकयानिकः, अयं प्रत्येकबुद्धयानिकः, अयं महायानिक इति? एवमेतेषामायुष्मन् शारिपुत्र बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यम् एतत् - निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति //
अथ खलु भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते / एवमेतत्सुभूते, एवम् एतत् / प्रतिभाति ते सुभूते यथापि नाम तथागतानुभावेन बुद्धाधिष्ठानेनेदं वदसि / एवमेतेषां बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यम् एतत् - निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति / अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - कतमया भगवन् बोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः? भगवानाह - अनुत्तरया शारिपुत्र सम्यक्संबोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - अनुत्तरायां भगवन् सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन कथं स्थातव्यं कथं शिक्षितव्यम्? भगवानाह - अनुत्तरायां सुभूते सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु समं स्थातव्यम् / सर्वसत्त्वेषु समं चित्तमुत्पादयितव्यम् / न विषमचित्तेन परे आलम्बितव्याः / मैत्रचित्तेन परे आलम्बितव्याः / (वैद्य 160) हितचित्तेन परे आलम्बितव्याः / कल्याणचित्तेन परे आलम्बितव्याः / निहतमानचित्तेन परे आलम्बितव्याः / अप्रतिहतचित्तेन परे आलम्बितव्याः / अविर्हिसाचित्तेन परे आलम्बितव्याः / अविहेठनाचित्तेन परे आलम्बितव्याः / सर्वसत्त्वेषु मातृसंज्ञामुपस्थाय पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां चोपस्थाप्य परे आलम्बितव्याः / एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामन्तिके स्थातव्यम्, एवं शिक्षितव्यम् - सर्वसत्त्वानामहं नाथ इति / स्वयं च सर्वपापनिवृत्तौ स्थातव्यम् / दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यमारब्धव्यं ध्यानं समापत्तव्यं प्रज्ञायां परिजयः कर्तव्यं, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादो व्यवलोकयितव्यः, अन्येषाम् अपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम् / एवं सत्येषु यावद्बोधिसत्त्वन्यामावक्रान्तौ सत्त्वपरिपाचने च स्थित्वा अन्येषाम् अपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम् / तस्यैवं स्पृहयत एवं शिक्षमाणस्य अनावरणं रूपं यावद्धर्मस्थितिरनावरणा भविष्यतीति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां तथतापरिवर्तो नाम षोडशः // asp_17: अविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तः सप्तदशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य के आकाराः, कानि लिङ्गानि, कानि निमित्तानि? कथं वा भगवन् वयं जानीयाम अयमविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति? भगवानाह - या च सुभूते पृथग्जनभूमिः, या च श्रावकभूमिः, या च प्रत्येकबुद्धभूमिः, या च बुद्धभूमिः, इयं तथताभूमिरित्युच्यते / सर्वाश्चैतास्तथताया अद्वया अद्वैधीकारा अविकल्पा निर्विकल्पा इति तां तथतां तां धर्मतामवतरन्ति / तथतायां स्थितस्तथतां न कल्पयति न विकल्पयति, एवमवतरति / एवमवतीर्णो यथातथतां श्रुत्वापि ततो ऽपि चापक्रम्य न काङ्क्षति न विमतिं करोति, न विचिकित्सति, नैवमिति न धन्धायति, अपि तु एवमेतत्तथतैवेत्यधिमुञ्चत्यवगाहते, न च यत्किंचनप्रलापी भवति, अर्थसंहितामेव वाचं भाषते नानर्थसंहिताम्, न च परेषां कृताकृतानि व्यवलोकयति / एभिः सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नान्येषां श्रमणानां ब्राह्मणानां वा मुखमुल्लोकयति - इमे भगवन्तः श्रमणा ब्राह्मणा वा ज्ञेयं जानन्ति, दृश्यं पश्यन्तीति / न चान्यान् देवान्नमस्करोति, न चान्येभ्यो देवेभ्यः पुष्पं वा धूपं वा गन्धं वा माल्यं वा विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा दातव्यं मन्यते, न चान्यं देवं व्यपाश्रयते / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः / स खलु पुनः सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नापायेषूपपद्यते, न च स्त्रीभावं परिगृह्णाति //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते / स आत्मना च प्राणातिपातात्प्रतिविरतो भवति, परान् अपि च प्राणातिपातविरमणाय समादापयति / आत्मना च अदत्तादानात्प्रतिविरतो भवति, परान् अपि च अदत्तादानविरमणाय समादापयति / आत्मना च काममिथ्याचारात्प्रतिविरतो भवति, परान् अपि च काममिथ्याचारविरमणाय समादापयति / आत्मना च सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति, परान् अपि सुरामैरेयमद्यप्रमादस्थानविरमणाय समादापयति / आत्मना च अनृतवचनात्प्रतिविरतो भवति, परान् अपि च अनृतवचनविरमणाय समादापयति / आत्मना च पिशुनवचनात्प्रतिविरतो भवति, परान् अपि च पिशुनवचनविरमणाय समादापयति / आत्मना च परुषवचनात्प्रतिविरतो भवति, परान् अपि च परुषवचनविरमणाय समादापयति / आत्मना च संभिन्नप्रलापात्प्रतिविरतो भवति, परान् अपि च संभिन्नप्रलापविरमणाय समादापयति / आत्मना च अभिध्यातः प्रतिविरतो भवति, परान् अपि च अभिध्यानविरमणाय समादापयति / (वैद्य 162) आत्मना च व्यापादात्प्रतिविरतो भवति, परान् अपि च व्यापादविरमणाय समादापयति / आत्मना च मिथ्यादर्शनात्प्रतिविरतो भवति, परान् अपि च मिथ्यादर्शनविरमणाय समादापयति / एवं खलु सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वयं च दशकुशलान् कर्मपथान् समादाय वर्तते, परान् अपि च दशकुशलेषु कर्मपथेषु संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति प्रतिष्ठापयति दृढीकरोति / स स्वप्नान्तरगतो ऽपि दशकुशलान् कर्मपथानेकैकतो वा बाहुल्यतो वा सर्वेण सर्वं सर्वथा सर्वं नाध्यापद्यते, चित्तेनापि न समुदाचरति / तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्यापि दशकुशलाः कर्मपथा आमुखीभवन्ति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यं यं धर्मं पर्यवाप्नोति, ददाति च, तं तं एवंचित्तः पर्यवाप्नोति, ददाति च - इममहं धर्मं सर्वसत्त्वानामर्थाय पर्यवाप्नोमि ददामि च, हिताय सुखाय च / इति चैष भवतु, अनया धर्मदेशनया धार्मिका अभिप्रायाः सर्वसत्त्वानां परिपूर्यन्तामिति / तच्च धर्मदानं सर्वसत्त्वसाधारणं करोति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो गम्भीरेषु धर्मेषु भाष्यमाणेषु न काङ्क्षति, न विमतिं करोति, न विचिकित्सति न धन्धायति, हितवचनश् च भवति, मितवचनश् च भवति, स्निग्धवचनश् च भवति, अल्पस्त्यानमिद्धश् च भवति, निरनुशयश् च भवति / सो ऽभिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽभिक्रामति वा, प्रतिक्रामति वा / उपस्थितस्मृतिरभिक्रामति, उपस्थितस्मृतिः प्रतिक्रामति / न विलम्बितं पादं भूमेरुत्क्षिपति, न विलम्बितं पादं भूमौ निक्षिपति / सुखमेवोत्क्षिपति, सुखं निक्षिपति / न च सहसा पादं भूमेरुत्क्षिपति, न च सहसा पादं भूमौ निक्षिपति, पश्यन्नैव भूमिप्रदेशमाक्रामति / तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे चीवरपरिभोगो न यूकिलो भवति / स चौक्षसमुदाचारश् च भवति / अल्पाबाधश् च भवति / अल्पादीनवश् च भवति / यानि खलु पुनरन्येषां सत्त्वानामशीतिः कृमिकुलसहस्राणि काये संभवन्ति, तानि तस्य काये सर्वेण सर्वं सर्वथा सर्वं न संभवन्ति / तत्कस्य हेतोः? तथा हि तस्य तानि कुशलमूलानि सर्वलोकाभ्युद्गतानि भवन्ति //
यथा यथा च तस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिं च परिगृह्णीते, वाक्परिशुद्धिं च परिगृह्णीते, चित्तपरिशुद्धिं च परिगृह्णीते / सुभूतिराह - का पुनर्भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या? (वैद्य 163) भगवानाह - यथा यथा सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वश्चित्ताल्पकृत्यतां च परिगृह्णीते, चित्ताशाठ्यतां च चित्तामायावितां च चित्ताकुटिलतां चित्तावङ्कतां च परिगृह्णीते, यया च सुभूते चित्तपरिशुद्ध्या श्रावकप्रत्येकबुद्धभूमिमतिक्रान्तो भवति / इयं सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायां सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारश्लोकगुरुको भवति, न चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भवति, नेर्ष्यामात्सर्यबहुलो भवति / न च गम्भीरेषु धर्मेषु भाष्यमाणेषु संसीदति / स्थिरबुद्धिश् च भवति, गम्भीरबुद्धिश् च भवति, सत्कृत्य च परतो धर्मं शृणोति / यं च सत्कृत्य परतो धर्मं शृणोति, तं सर्वं प्रज्ञापारमितायां संस्यन्दयति / यानि च लौकिकानि शिल्पस्थानकर्मस्थानानि, तानि सर्वाणि प्रज्ञापारमितामागम्य धर्मतया संस्यन्दयति / न च कंचिद्धर्म समनुपश्यति, यं न धर्मधातुना योजयति / सर्वमेव च तं प्रयुज्यमानं समनुपश्यति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते मारः पापीयानष्टौ महानिरयानभिनिर्माय तत्र एकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राण्यभिनिर्माय अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमेवं वदेत् - ये तथागतेन अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा व्याकृताः, ते एतेषु महानिरयेषूपपन्नाः / त्वमप्येवं महानिरयेषु प्रपत्स्यसे, यतस्त्वमविनिवर्तनीयो व्याकृतः / पुनरेव त्वमेतद्बोधिचित्तं प्रतिदेशय, प्रतिनिःसृज / किं ते बुद्धत्वेन? एवं त्वं न निरयेषूपपत्स्यसे / एवं त्वं कुर्वन् स्वर्गोपगो भविष्यसीति / सचेदेवम् अपि बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति, न चलति, एवं जानाति - अस्थानमेतदनवकाशः, यदविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपद्यते इति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेण अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्यैवं वक्ष्यति - यदेतत्त्वया पूर्वं श्रुतं तत्प्रतिदेशय, यत्त्वया पूर्वं परिगृहीतं तत्प्रतिनिःसृज / सचेत्त्वमेवं प्रतिदेशयिष्यसि, सचेत्त्वमेवं प्रतिनिःस्रक्ष्यसि, एवं वयं त्वां पुनः पुनरुपसंक्रमिष्यामः / यदेतत्त्वयेदानीं श्रुतम्, नैतद्बुद्धवचनम् / कविकृतं काव्यम् एतत् / यत्पुनरिदमहं भाषे, एतद्बुद्धभाषितम्, एतद्बुद्धवचनमिति / एतच्छ्रुत्वा सचेद्बोधिसत्त्वः क्षुभ्यति चलति, वेदितव्यमेतत्सुभूते - नायं व्याकृतो बोधिसत्त्वस्तथागतैः / अनियतो ऽयं (वैद्य 164) बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ / नायमविनिवर्तनीयधातौ स्थित इति / सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न चलति, श्रुत्वापि चेमां वाचं मारस्य पापीयसः धर्मतामेव प्रतिसरति, अनुत्पादमेवानिरोधमेवानभिसंस्कारमेव प्रतिसरति, न परस्य श्रद्धया गच्छति / तद्यथापि नाम सुभूते अर्हन् भिक्षुः क्षीणास्रवो न परस्य श्रद्धया गच्छति धर्मतायां प्रत्यक्षकारी / असंहार्यो भवति मारेण पापीयसा / एवमेव सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽनवमर्दनीयः श्रावकयानिकैः पुद्गलैः प्रत्येकबुद्धयानिकैश् च / अप्रत्युदावर्तनीयधर्मा भवति, श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा नियतो भवति सर्वज्ञतायां सम्यक्संबोधिपरायणः / स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यदा अविनिवर्तनीयधातौ स्थितो भवति, तदा अपरप्रणेयो भवति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्य कश्चिदेवं वक्ष्यतिसंसारचारिकैषा, नैषा बोधिसत्त्वचारिका / इहैव त्वं दुःखस्यान्तं कुरु / न भूयस्तानि संसारावचराणि दुःखदौर्मनस्यानि प्रत्यनुभविष्यसीति / अहो बत तवायमिहैव तावदात्मभावो ऽनभिनिर्वृत्तो भविष्यति, कुतः पुनस्त्वमन्यमात्मभावं परिग्रहीतव्यं मन्यसे इति वा / सचेदेवम् अपि न क्षुभ्यति न चलति, तमेनं मारः पापीयान् स्वयमेवं वक्ष्यति - इच्छसि त्वं द्रष्टुं तान् बोधिसत्त्वान् महासत्त्वान् यैर्गङ्गानदीवालुकोपमान् कल्पान् बुद्धा भगवन्तः प्रत्युपस्थिताश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, गङ्गानदीवालुकोपमानां बुद्धानां भगवतामन्तिकेषु ब्रह्मचर्यं चरितम्, गङ्गानदीवालुकोपमा एव बुद्धा भगवन्तः पर्युपासिताः परिपृष्टाः परिप्रश्नीकृताश् च अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर्महासत्त्वैः स्थातव्यमिति? यथा च बोधिसत्त्वैर्महासत्त्वैः स्थातव्यम्, तथा च तैस्तथागतैरेवाख्यातम् / तथापि स्थित्वा तथा चरित्वा तथैव योगमापद्य अद्यापि तैरेव तावन्न अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा / तथा अववादानुशासन्यां स्थितैस्तथा शिक्षमाणैः सर्वज्ञता नानुप्राप्ता / कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यसीति? सचेदेवम् अपि न क्षुभ्यति न चलति, तं मारः पापीयांस्तस्मिन्नेव पृथिवीप्रदेशे भिक्षूनभिनिर्मायैवं वक्ष्यति - एते भिक्षवो ऽर्हन्तः क्षीणास्रवाः संवृत्ताः, ये बोधये संप्रस्थिता अभूवन्, तत्र तर्हि अर्हत्त्वमनुप्राप्ता अर्हत्त्वे स्थिताः /
कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यतीति? सचेत्खलु पुनरेवम् अपि भाष्यमाणे एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, अयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः / सचेद्बोधिसत्त्वस्य महासत्त्वस्य चित्तं परतः श्रुत्वैवं विवेकपदानि धर्मताया न परिहीयते, न प्रत्युदावर्तते ऽस्य मानसम्, न चान्यथाभावश्चित्तस्य भवति, तानि च सर्वाणि मारकर्माणि तथा संजानाति - अस्थानं सुभूते अनवकाशः, यत्स बोधिसत्त्वो महासत्त्वस्तथा चरन् पारमितासु न सर्वज्ञतामनुप्राप्नुयात् -(वैद्य 165) अस्थानमेतदनवकाशो यत्तथा चरतस्तथा शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य यथा तथागतैराख्यातं तया चर्यया अविरहितस्य एभिः पारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरतो मारः पापीयान्नावतारं लप्स्यते / सचेद्बोधिसत्त्वो महासत्त्वो मारकर्माणि बुध्यते, परतश् च श्रुत्वा विवेकपदानि न परिहीयते, न प्रत्युदावर्तते ऽस्य मानसम्, न चास्य चित्तमन्यथा भवति, तानि च मारकर्माणि तथा संजानाति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न रूपसंज्ञामभिसंस्कारोति, न रूपसंज्ञामुत्पादयति / एवं न वेदनासंज्ञां न संज्ञासंज्ञां न संस्कारसंज्ञाम् / न विज्ञानसंज्ञामभिसंस्करोति, न विज्ञानसंज्ञामुत्पादयति / तत्कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर्धर्मैर्बोधिसत्त्वन्यामावक्रान्तः / तम् अपि धर्मं नोपलभते नाभिसंस्कारोति नोत्पादयति / तत उच्यते अनुत्पादज्ञानक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं विच्छन्दयिष्यति - आकाशसमैषा यदुत सर्वज्ञता / असन्नेष धर्मो यदुत सर्वज्ञता / असंविद्यमान एष धर्मो यदुत सर्वज्ञता / को ऽत्राज्ञास्यति, को ऽत्राभिसंभोत्स्यते? नैतेन कश्चिन्निर्यास्यति - यश्चाभिसंबुध्येत, यच्चाभिसंबोद्धव्यम्, यश् च आजानीयात्, यच्च आज्ञातव्यम् / सर्वत्र ते धर्मा आकाशसमाः / निरर्थकं त्वं विहन्यसे / मारकर्मैर्वैतत्परिदीपितं यदुत अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति, नैतद्बुद्धभाषितमिति / तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं ज्ञातव्यमेवं समन्वाहर्तव्यमेवं वेदितव्यम् - मारकर्मैवैतत्, येयं विवेचनता / एवं चिन्तयित्वा तत्र दृढचित्तेन भवितव्यम्, अप्रकम्प्यचित्तेनासंहार्यचित्तेन भवितव्यम् / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिनिर्वृत्तः सर्वज्ञतायां प्रवृत्तो भवति / स आकाङ्क्षन् प्रथमं ध्यानं समापद्यते / तथा द्वितीयं तथा तृतीयं तथा चतुर्थं ध्यानं समापद्यते / स एभिश्चतुर्भिर्ध्यानैर्विहरति, ध्यानपरिजयं च करोति, ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते / स पुनरेव कामावचरान् धर्मानध्यालम्बते / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न नामगुरुको भवति, न कीर्तिशब्दश्लोकगुरुको भवति, न नाम्नि सज्जते / सो ऽसंक्षुभितचित्तो भवति, सर्वसत्त्वेषु (वैद्य 166) हितचित्तश् च भवति / सो ऽभिक्रामन् वा प्रतिक्रामन् वा अभ्रान्तचित्तो ऽभिक्रामति, अभ्रान्तचित्तः प्रतिक्रामति / स्मृतिमानेवाभिक्रामति, स्मृतिमानेव प्रतिक्रामति / सचेत्सो ऽगारमध्यावसति, नास्य भवत्यधिमात्रः कामेषु कामाभिष्वङ्गो वा अभिप्रायो वा / स निर्वित्संज्ञ्येव कामान् परिभुङ्क्ते / स उत्रस्तसंज्ञ्येव कामान् परिभुङ्क्ते / तद्यथापि सुभूते चौरकान्तारमध्यगतः पुरुषः आहारकृत्यं कुर्वन्नुत्रस्तसंज्ञ्येवाहारं कुर्यात्, गमनसंज्ञ्येवाहारं कुर्यात्, कदा नु खलु नाम अहमितश्चौरकान्तारादतिक्रान्तो भविष्यामीत्येवंसंज्ञी अविश्रब्धमाहारमाहरति / एवमेव सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा अगारमध्यावसन्तो यान् यानेव कामान् परिभुञ्जते, तांस्ताननर्थिका एव अगृद्धा एव असक्ता एव कामान् परिभुञ्जते / अनर्थिका एव च ते भवन्ति प्रियरूपसातरूपैः पञ्चभिः कामगुणैः / ते ऽगारमध्यावसन्तो न समविषमेण जीविकां कल्पयन्ति / धर्मेणैव जीविकां कल्पयन्ति नाधर्मेणापि / मरणमुपगच्छन्ति न त्वेव परेषामपमर्दनं कुर्वन्ति / तत्कस्य हेतोः? तथा हि तैः सत्पुरुषैर्महापुरुषैरतिपुरुषैः पुरुषप्रवरैः पुरुषशोभनैः पुरुषर्षभैः पुरुषोदारैः पुरुषशौटीरैः पुरुषपुंगवैः पुरुषधुर्यैः पुरुषपद्मैः पुरुषपुण्डरीकैः पुरुषाजानेयैः पुरुषनागैः पुरुषसिंहैः पुरुषदम्यसारथिभिः सर्वसत्त्वाः परमसुखे नियोजयितव्याः / एवं हि सुभूते अगारमध्यावसन्ति बोधिसत्त्वा महासत्त्वा यथापि नाम प्रज्ञापारमिताबलाधानप्राप्तत्वात् / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागता बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः //
पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य वज्रपाणिर्महायक्षो नित्यानुबद्धो भवति / स दुर्धर्षो भवति, अनतिक्रमणीयश् च भवति मनुष्यैर्वा अमनुष्यैर्वा, दुरासदः सर्वसत्त्वानाम् / स न विक्षिप्तचित्तो भवति, न विकलेन्द्रियो भवति, परिपूर्णैन्द्रियश् च भवति नापरिपूर्णेन्द्रियः / पुरुषवृषभेन्द्रियसमन्वागतश् च भवति नासत्पुरुषः / स यानीमानि स्त्रीणां वशीकरणानि मन्त्रजाप्यौषधिविद्याभैषज्यादीनि, तानि सर्वाणि सर्वेण सर्वं न प्रयोजयति / शुद्धाजीवश् च भवति न मिथ्याजीवः / न विग्रहविवादशीलः / ऋजुदृष्टिकश् च भवति / नात्मोत्कर्षी न परपंसकः / स एभिश्चान्यैश् च गुणैः समन्वागतो भवति / स न स्त्रियं न च पुरुषं व्याकरोति - पुत्रो वा ते भविष्यति, दुहिता वा ते भविष्यतीति / तस्यैवमादिका एवंरूपा आदेयतादोषा न भवन्ति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यो ऽनुत्तरायाः सम्यक्संबोधेः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि / ते पुनः कतमे? तद्यथा - न ते स्कन्धायतनधातुप्रतीत्यसमुत्पादयोगानुयोगमनुयुक्ता विहरन्ति, न संगणिकारामकथायोगानुयोगमनुयुक्ता विहरन्ति, न राजकथायोगानुयोगमनुयुक्ता विहरन्ति, न चौरकथायोगानुयोगमनुयुक्ता विहरन्ति, न सेनाकथायोगानुयोगमनुयुक्ता (वैद्य 167) विहरन्ति, न युद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति, नात्मकथायोगानुयोगमनुयुक्ता विहरन्ति, नामात्यमहामात्रकथायोगानुयोगमनुयुक्ता विहरन्ति, न स्त्रीपुरुषनपुंसककथायोगानुयोगमनुयुक्ता विहरन्ति, न यानोद्यानविहारप्रासादह्रदसरस्तडागपुष्करिणीवनारामशैलकथायोगानुयोगमनुयुक्ता विहरन्ति, न यक्षराक्षसप्रेतपिशाचकटपूतनकुम्भाण्डकथायोगानुयोगमनुयुक्ता विहरन्ति, नान्नपानवस्त्राभरणगन्धमाल्यविलेपनकथायोगानुयोगमनुयुक्ता विहरन्ति, न वीथीचत्वरशृङ्गाटकविशिखापणशिबिकाकुटुम्बकथायोगानुयोगमनुयुक्ता विहरन्ति, न गीतनृत्याख्यायिकानटनर्तकचारणकथायोगानुयोगमनुयुक्ता विहरन्ति, न सागरनदीद्वीपकथायोगानुयोगमनुयुक्ता विहरन्ति, न धर्मविरुद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न पृथग्जनरतिकथायोगानुयोगमनुयुक्ता विहरन्ति, अपि तु प्रज्ञापारमिताकथायोगानुयोगमनुयुक्ता विहरन्ति /
अविरहिताश् च भवन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः / न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्ति / धर्मकामा एव च ते भवन्ति, नाधर्मकामाः / अभेदवर्णवादिनश् च ते भवन्ति, न भेदवर्णवादिनः / मित्रकामाश् च ते भवन्ति, नामित्रकामाः / धर्मवादिनश् च ते भवन्ति, नाधर्मवादिनः / ते तथागतदर्शनमेवाकाङ्क्षन्त आकाङ्क्षन्ति अन्येषु लोकधातुषु ये तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामन्तिके उपपत्तये चित्तमुत्पादयन्ति / ते आकाङ्क्षन्तस्तत्रोपपद्यन्ते / एवं ते अविरहिता भवन्ति तथागतदर्शनेन तथागतपर्युपासनेन तथागतपर्युपस्थानेन च //
पुनरपरं सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामावचरेभ्यो देवेभ्यश्च्युता रूपावचरेभ्य आरूप्यावचरेभ्यो वा देवेभ्यश्च्युताः सन्तः इहैव मध्यदेशे जम्बूद्वीपे प्रत्याजायन्ते / यत्र सत्त्वाः कलासु कोविदाः, काव्येषु कोविदाः, मन्त्रेषु कोविदाः, विद्यासु कोविदाः, शास्त्रेषु कोविदाः, निमित्तेषु कोविदाः, धर्मार्थकोविदाः / अल्पकाः प्रत्यन्तजनपदेषु प्रत्याजायन्ते, यद्भूयस्त्वेन मध्यदेशे प्रत्याजायन्ते / ये ऽपि प्रत्यन्तेषु जनपदेषु प्रत्याजायन्ते, ते ऽपि महानगरेषु प्रत्याजायन्ते / एते ऽपि तेषां गुणाः संविद्यन्ते / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अविनिवर्तनीयो वाहम्, न वाहमविनिवर्तनीय इति / नास्यैवं विचिकित्सोत्पद्यते, न चास्य संशयो भवति, स्वस्यां भूमौ नाप्यस्य संसीदना भवति / तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफले स्वकायां भूमौ न काङ्क्षति न विचिकित्सति / न चास्य संशयो भवति / स्वस्यां भूमौ नाप्यस्य संसीदना भवति / उत्पन्नोत्पन्नानि च मारकर्माणि क्षिप्रमेवाबुध्यते / न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति / तद्यथापि नाम सुभूते पुरुष आनन्तर्यकारी आनन्तर्यचित्तेन अविरहितो भवति, यावन्मरणावस्थायाम्, न तच्चित्तं शक्नोति प्रतिविनोदयितुं (वैद्य 168) वा विष्कम्भयितुं वा / अनुवर्तत एवास्य तच्चित्तं यावन्मरणकालसमये ऽपि / एवमेव सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयचित्तं स्थितं भवति, स्वकायामविनिवर्तनीयायां भूमावविकम्प्यं भवति / सदेवमानुषासुरेणापि लोकेन न शक्यं चालयितुं वा कम्पयितुं वा / उत्पन्नोत्पन्नानि च मारकर्माण्येव बुध्यते / न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति / तस्य स्वस्यां भूमौ निष्काङ्क्षस्य निर्विचिकित्सस्य जातिव्यतिवृत्तस्यापि न श्रावकचित्तं न प्रत्येकबुद्धचित्तं वोत्पद्यते / जातिव्यतिवृत्तस्याप्येवं भवतिनाहं नाभिसंभोत्स्ये / अभिसंभोत्स्ये एवाहमनुत्तरां सम्यक्संबोधिं स्वस्यां भूमौ स्थितः / अपरप्रणेयो भवति, अनवमर्दनीयश् च भवति स्वस्यां भूमौ / तत्कस्य हेतोः? तथा हि स स्थितो ऽसंहार्येण चित्तेन असंहार्येण ज्ञानेन समन्वागतो भवति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
