Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - शक्या पुनर्भगवन् प्रज्ञापारमिता लिखितुम्? भगवानाह - नो हीदं सूभूते / ये केचित्सुभूते प्रज्ञापारमितां लिप्यक्षरैर्लिखित्वा प्रज्ञापारमिता लिखितेति मंस्यन्ते, असतीति वा अक्षरेषु प्रज्ञापारमितामभिनिवेक्ष्यन्ते, अनक्षरेति वा, इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् //
(वैद्य 119) पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां देशमनसिकारा उत्पत्स्यन्ते, ग्रामनगरनिगमजनपदराष्ट्रराजधानीमनसिकारा उत्पत्स्यन्ते, उद्यानमनसिकारा उत्पत्स्यन्ते, गुरुमनसिकारा उत्पत्स्यन्ते, आख्यानमनसिकारा उत्पत्स्यन्ते, चौरमनसिकारा उत्पत्स्यन्ते, गुल्मस्थानमनसिकारा उत्पत्स्यन्ते, विशिखामनसिकारा उत्पत्स्यन्ते, शिबिकामनसिकारा उत्पत्स्यन्ते, सुखमनसिकारा उत्पत्स्यन्ते, दुःखमनसिकारा उत्पत्स्यन्ते, भयमनसिकारा उत्पत्स्यन्ते, स्त्रीमनसिकारा उत्पत्स्यन्ते, पुरुषमनसिकारा उत्पत्स्यन्ते, नपुंसकमनसिकारा उत्पत्स्यन्ते, प्रियाप्रियव्यत्यस्तमनसिकारा उत्पत्स्यन्ते, मातापितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, भ्रातृभगिनीप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, मित्रबान्धवसालोहितामात्यप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, प्रजापतिपुत्रदुहितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, गृहभोजनपानप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, चैलमनसिकारा उत्पत्स्यन्ते, शयनासनमनसिकारा जीवितमनसिकारा इतिकर्तव्यतामनसिकारा रागमनसिकारा द्वेषमनसिकारा मोहमनसिकारा ऋतुमनसिकारा सुकालमनसिकारा दुष्कालमनसिकारा गीतमनसिकारा वाद्यमनसिकारा नृत्यमनसिकारा काव्यनाटकेतिहासमनसिकाराः शास्त्रमनसिकारा व्यवहारमनसिकारा हास्यमनसिकारा लास्यमनसिकाराः शोकमनसिकारा आयासमनसिकारा आत्ममनसिकाराः, इत्येतांश्चान्यांश् च सुभूते मनसिकारान् मारः पापीयानुपसंहरिष्यति अस्यां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्गृह्यमाणायां वाच्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायामन्तरायं करिष्यति, चित्तविक्षेपं करिष्यति बोधिसत्त्वानां महासत्त्वानाम् / तत्र बोधिसत्त्वेन महासत्त्वेन मारकर्माणि बोद्धव्यानि / बुद्ध्वा च विवर्जयितव्यानि / पुनरपरं सुभूते उत्पत्स्यन्ते राजमनसिकाराः कुमारमनसिकाराहस्तिमनसिकारा अश्वमनसिकारा रथमनसिकारा गुल्मदर्शनमनसिकाराः / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / पुनरपरं सुभूते उत्पत्स्यन्ते अग्निमनसिकारा इच्छामनसिकारा धनधान्यसमृद्धिमनसिकाराः / इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् //
पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामुत्पत्स्यन्ते लाभसत्कारचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामन्तराया इमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां लाभसत्कारश्लोकस्वादाश्चित्तोत्पीडा वा / इदम् अपि सुभूते बोधिसत्त्वैर्महासत्त्वैर्मारकर्म वेदितव्यम् / एतानि तैः सर्वाणि मारकर्माणि बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानि //
पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामिमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां ये ते गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः, तान् मारः पापीयान् भिक्षुवेषणोपसंक्रम्य उपसंहरिष्यति - इह शिक्षस्व, इदं लिख, इदमुद्दिश, इदं स्वाध्याय, इतः सर्वज्ञता निष्पत्स्यते इति / न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन उपायकुशलेन तेभ्यः स्पृहोत्पादयितव्या / तत्कस्य हेतोः? किं चापि सुभूते तेषु सूत्रान्तेषु शून्यतानिमित्ताप्रणिहितानि भाषितानि, (वैद्य 120) न खलु पुनरुपायकौशल्यं तत्र बोधिसत्त्वानां महासत्त्वानामाख्यातम् / तत्र ये ऽनभिज्ञा भविष्यन्ति बोधिसत्त्वा उपायकौशल्यज्ञानविशेषस्य, ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चितव्यां मंस्यन्ते / ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तेषु सूत्रान्तेषु उपायकौशल्यं पर्येषितव्यं मंस्यन्ते / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामः, धर्मभाणकश् च किलासी भविष्यति न धर्मं देशयितुकामः / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धर्मभाणकश् च अकिलासी भविष्यति प्रज्ञापारमितां दातुकामः, धार्मश्रवणिकश् च किलासी वा बहुकृत्यो वा भविष्यति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामो धारयितुकामो वाचयितुकामः पर्यवाप्तुकामः प्रवर्तयितुकामो ऽन्तशो लिखितुकामो ऽपि भविष्यति, गतिमांश् च मतिमांश् च स्मृतिमांश् च भविष्यति / धर्मभाणकश्चान्यद्देशान्तरं क्षेप्स्यते नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञः, अनभिज्ञो वा भविष्यति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां शिक्ष्यमाणायामन्तशः लिख्यमानायाम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धर्मभाणकश् च अकिलासी भविष्यत्यभिज्ञो दातुकामो वाचयितुकाम इमां प्रज्ञापारमिताम्, धार्मश्रवणिकश् च देशान्तरं प्रस्थितो भविष्यति नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञो ऽनभिज्ञो वा भविष्यति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धर्मभाणकश् च आमिषगुरुको लाभसत्कारचीवरगुरुको भविष्यति /
धार्मश्रवणिकाश् च अल्पेच्छः संतुष्टः प्रविविक्तो ऽर्थं वा न दातुकामो भविष्यति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां शिक्ष्यमाणायां लिख्यमानायाम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् / पुनरपरं सुभूते धार्मश्रवणिकश् च श्राद्धो भविष्यति इमां प्रज्ञापारमितां श्रोतुकामो ऽर्थमवबोद्धुकामो ऽर्थं दातुकामो ऽर्थं परित्यक्तुकामः / धर्मभाणकश् च अश्राद्धो भविष्यति अल्पेच्छो वा न वा भाषितुकामः / अतो ऽपि सुभूते विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धार्मश्रवणिकश् च श्राद्धो भविष्यति श्रोतुकामो ऽर्थमवबोद्धुकामः / धर्मभाणकस्य च तानि सूत्राणि धर्मान्तरायिकतया न संभविष्यन्ति नावतरिष्यन्ति / अतो ऽपि सुभूते धार्मश्रवणिकस्याप्राप्तधर्मभाणिनः प्रतिवाणी भविष्यति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतामन्तशो लिखताम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् / पुनरपरं सुभूते धर्मभाणकश् च भाषितुकामो भविष्यति / धार्मश्रवणिकश् च अच्छन्दिको भविष्यति श्रवणाय / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्ग्रहीतुं (वैद्य 121) धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुमन्तशो लिखितुम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् / पुनरपरं सुभूते धार्मश्रवणिको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति / स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न श्रोतुकामो भविष्यति /
धर्मभाणकश् च भाषितुकामो भविष्यति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् / पुनरपरं सुभूते धर्मभाणको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति / स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न भाषितुकामो भविष्यति / धार्मश्रवणिकश् च श्रोतुकामो भविष्यति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति लिखनाय वाचनाय पर्यवाप्तये वा / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां कश्चिदेव तत्रागत्य निरयाणामवर्णं भाषिष्यते, तिर्यग्योनेरवर्णं भाषिष्यते, प्रेतविषयस्यावर्णं भाषिष्यते, असुरकायानामवर्णं भाषिष्यते - एवंदुःखा निरयाः, एवंदुःखा तिर्यग्योनिः, एवंदुःखः प्रेतविषयः, एवंदुःखा आसुराः कायाः, एवंदुःखाः संस्काराः / इहैव दुःखस्यान्तः करणीय इति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् //
पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां वा कश्चिदेव तत्रागत्य देवानां वर्णं भाषिष्यते - एवंसुखिता देवाः, एवंसुखाः स्वर्गाः, एवं कामधातौ कामाः सेवितव्याः, एवं रूपधातौ ध्यानानि समापत्तव्यानि, एवमारूप्यधातौ तत्समापत्तयः समापत्तव्याः / तद् अपि च सर्वं प्रज्ञता विमृश्य सर्वैव दुःखोपपत्तिरिति / उक्तं हीदं भगवता - अच्छटासंघातमात्रकमप्यहं भिक्षवो भवाभिनिर्वृत्तिं न वर्णयामि / सर्वं हि संस्कृतमनित्यं सर्वं भयावगतं दुःखं सर्वं त्रैधातुकं शून्यं सर्वधर्मा अनात्मानः / तदेवं सर्वमशाश्वतमनित्यं दुःखं विपरिणामधर्मकं विदित्वा पण्डितैरिहैव स्रोतआपत्तिफलं प्राप्तव्यम्, सकृदागामिफलमनागामिफलम्, इहैवार्हत्त्वं प्राप्तव्यम् / मा नो भूयस्ताभिः संपत्तिविपत्तिभिर्दुःखभूयिष्ठाभिः समवधानं भूदिति / तत्रैके बोधिसत्त्वाः संवेगमापत्स्यन्ते / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् //
पुनरपरं सुभूते ये ऽपि ते भिक्षवो धर्मभाणकाः, ते एकाकिताभिरता भविष्यन्ति / ये ऽपि धार्मश्रवणिकास्ते ऽपि पर्षद्गुरुका भविष्यन्ति / ते ऽपि धर्मभाणका एवं वक्ष्यन्ति - ये मामनुवर्त्स्यन्ति, तेभ्यो ऽहमिमां प्रज्ञापारमितां दास्यामि / ये मां नानुवर्त्स्यन्ति, तेभ्यो न दास्यामीति / एवं ते कुलपुत्राः कुलदुहितरश् च अर्थिकतया छन्दिकतया धर्मगौरवेण तं धर्मभाणकमनुवर्त्स्यन्ति, न चावकाशं दास्यन्ति, स च धर्मभाणक आमिषकिंचित्काभिलाषी, ते च न दातुकामाः / स च तेन तेन गमिष्यति, येन येन दुर्भिक्षश् च अयोगक्षेमश् च जीवितान्तरायश् च भविष्यति / ते च धार्मश्रवणिकाः परेभ्यः श्रोष्यन्ति - असौ प्रदेशो (वैद्य 122) दुर्भिक्षश् च अयोगक्षेमश् च / तस्मिंश् च प्रदेशे जीवितान्तरायो भवेदिति / स च धर्मभाणकस्तान् कुलपुत्रानेवमभिव्याहरिष्यति - अमुष्मिन् कुलपुत्राः प्रदेशे दुर्भिक्षभयम् / कच्चित्कुलपुत्रा यूयमागमिष्यथ मा पश्चाद्विप्रतिसारिणो भविष्यथ दुर्भिक्षभयं प्रविष्टाः? एवं ते तेन धर्मभाणकेन सूक्ष्मेणोपायेन प्रतिक्षेप्स्यते / ते च निर्विण्णरूपा एवं ज्ञास्यन्ति - प्रत्याख्याननिमित्तान्येतानि, नैतानि दातुकामतानिमित्तानीति / नायं दातुकाम इति विदित्वा नानुवर्त्स्यन्ति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां शिक्ष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायाम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
पुनरपरं सुभूते धर्मभाणको येन जन्तुभयं येन व्यालभयं येनामनुष्यभयं तेन संप्रस्थितो भविष्यति / स तेन चरन् विहरन् येन व्यालकान्तारं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन प्रक्रमिष्यति / स तान् धार्मश्रवणिकानेवं वक्ष्यति - यत्खलु कुलपुत्रा जानीध्वं यस्मिन् प्रदेशे जन्तुभयं व्यालभयं क्रव्यादभयं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन वयं संप्रस्थिताः / जानीध्वं कुलपुत्राः - शक्यथ यूयमेतानि दुःखानि प्रत्यनुभवितुम्? एवं तान् सूक्ष्मेणोपायेन प्रत्याख्यास्यति / ततस्ते निर्वेत्स्यन्ते / निर्विण्णाः सन्तो नानुवर्त्स्यन्ति / ते पुनरेव प्रत्युदावर्त्स्यन्ते / अयम् अपि सुभूते प्रज्ञापारमितायामन्तराय उत्पत्स्यते उद्दिश्यमानायाः स्वाध्याय्यमानायाः यावल्लिख्यमानायाः / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् //
पुनरपरं सुभूते धर्मभाणको भिक्षुर्मित्रकुलभिक्षादकुलगुरुको भविष्यति / स तया मित्रकुलभिक्षादकुलगुरुकतया अभीक्ष्णं मित्रकुलभिक्षादकुलान्यवलोकयितव्यान्युपसंक्रमितव्यानि मंस्यते / स तया अभीक्ष्णावलोकनतया बहुकृत्यतया तान् धार्मश्रवणिकान् प्रत्याख्यास्यति - अस्ति तावन्मे किंचिदवलोकयितव्यम्, अस्ति तावन्ममोपसंक्रमितव्यमिति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
इति हि सुभूते मारः पापीयांस्तैस्तैः प्रकारैस्तथा तथा चेष्टिष्यते, यथेमां प्रज्ञापारमितां न कश्चिदुद्ग्रहीष्यति, न धारयिष्यति, न वाचयिष्यति, न पर्यवाप्स्यति, न प्रवर्तयिष्यति, न देशयिष्यति, नोपदेक्ष्यति, नोद्देक्ष्यति, न स्वाध्यास्यति, न लेखयिष्यति, न लिखिष्यति / तस्मात्तर्हि सुभूते यावन्तो ऽन्तराया विसामग्र्यां संवर्तन्ते, तानि सर्वाणि बोधिसत्त्वेन महासत्त्वेन मारकर्माणीति बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानीति //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - किमत्र भगवन् कारणं यदिह मारः पापीयानेवं महान्तमुद्योगमापत्स्यते? तथा तथा चोपायेन चेष्टिष्यते, यथेमां प्रज्ञापारमितां (वैद्य 123) न कश्चिदुद्ग्रहीष्यति न धारयिष्यति न वाचयिष्यति न पर्यवाप्स्यति न प्रवर्तयिष्यति न देशयिष्यति नोपदेक्ष्यति नोद्देक्ष्यति न स्वाध्यास्यति न लेखयिष्यति न लिखिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - प्रज्ञापारमितानिर्जाता हि सुभूते बुद्धानां भगवतां सर्वज्ञता / सर्वज्ञतानिर्जातं च तथागतशासनम् / तथागतशासननिर्जातं च अप्रमेयाणामसंख्येयानां सत्त्वानां क्लेशप्रहाणम् / प्रहीणक्लेशानां च मारः पापीयानवतारं न लभते / अलभमानो दुःखार्तो दुर्मनाः शोकशल्यपरिगतो भवति / अतः स प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायां महता संवेगेन महान्तमुद्योगमापद्यते / स महतोद्योगेन तथा तथोपायेन चेष्टते, यथा न कश्चिदिमां प्रज्ञापारमितां लिखेद्वा पर्यवाप्नुयाद्वेति //
पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षेप्स्यति / एवं च नवयानसंप्रस्थिताः कुलपुत्रा विवेचयिष्यन्ति नैषा प्रज्ञापारमिता यामायुष्मन्तः शृण्वन्ति / यथा पुनर्मम सूत्रागतं सूत्रपर्यापन्नम्, इयं सा प्रज्ञापारमिता / इत्येवं सुभूते मारः पापीयान् संशयं प्रक्षेप्स्यति / एवं च पुनः सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षिप्य नवयानसंप्रस्थितान् बोधिसत्त्वानल्पबुद्धिकान् मन्दबुद्धिकान् परीत्तबुद्धिकानन्धीकृतानव्याकृताननुत्तरायां सम्यक्संबोधौ संशयं पातयिष्यति / ते संशयप्राप्ता इमां प्रज्ञापारमितां नोद्ग्रहीष्यन्ति न धारयिष्यन्ति न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न लेखयिष्यन्ति न लिखिष्यन्ति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
पुनरपरं सुभूते मारः पापीयान् भिक्षून्निर्माय बुद्धवेषेणागत्य एवं मारकर्मोपसंहरिष्यति - यो बोधिसत्त्वो गम्भीरेषु धर्मेषु चरति, स भूतकोटिं साक्षात्करोति / स श्रावको भवति, न बोधिसत्त्वो यथायं बोधिसत्त्व इति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
एवं सुभूते मारः पापीयानेवमादिकानि सुबहूनि अन्यान्य् अपि मारकर्माण्युत्पादयिष्यति अस्यां प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम् / तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि / बुद्ध्वा च विवर्जयितव्यानि / न भक्तव्यानि / आरब्धवीर्येण स्मृतिमता संप्रजानता च भवितव्यम् //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - एवमेतद्भगवन्, एवमेतत्सुगत / यानि तानि भगवन् महारत्नानि, तानि बहुप्रत्यर्थिकानि भवन्ति / तत्कस्य हेतोः? यदुत दुर्लभत्वान्महार्घत्वाच्च / अग्राणि हि तानि भगवन् भवन्ति / तस्मात्तानि च बहुप्रत्यर्थिकानि भवन्ति / एवमेव भगवन् अस्याः प्रज्ञापारमितायाः प्रायेण बहवो ऽन्तराया उत्पत्स्यन्ते / तत्र ये ऽन्तरायवशेन कुसीदा भविष्यन्ति, वेदितव्यमिदं भगवन् माराधिष्ठितास्ते बोधिसत्त्वा भविष्यन्ति, नवयानसंप्रस्थिताश् च ते भगवन् भविष्यन्ति, अल्पबुद्धयश् च ते भगवन् भविष्यन्ति, (वैद्य 124) मन्दबुद्धयश् च ते भगवन् भविष्यन्ति, परीत्तबुद्धयश् च ते भगवन् भविष्यन्ति, विपर्यस्तबुद्धयश् च ते भगवन् भविष्यन्ति / नापि तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, ये इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां न देशयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्याम् अपि मंस्यन्ते //
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / माराधिष्ठितास्ते सुभूते बोधिसत्त्वा वेदितव्याः / नवयानसंप्रस्थिताश् च ते सुभूते बोधिसत्त्वा भविष्यन्ति, अल्पबुद्धयश् च ते भविष्यन्ति, मन्दबुद्धयश् च ते भविष्यन्ति, परीत्तबुद्धयश् च ते भविष्यन्ति, विपर्यस्तबुद्धयश् च ते भविष्यन्ति / न च तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, य इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्याम् अपि मंस्यन्ते //
किंचापि सुभूते इमानि मारकर्माण्युत्पत्स्यन्ते, सुबहवश्चात्र मारदोषा अन्तरायकरा उत्पत्स्यन्ते / अथ च सुभूते य इमां प्रज्ञापारमितामुद्ग्रहीतव्यां मंस्यन्ते धारयितव्यां वाचयितव्यां पर्यवाप्तव्यां प्रवर्तयितव्यामुपदेष्टव्यामुद्देष्टव्यां स्वाध्यातव्यां लेखयितव्यामन्तशो लिखितव्याम् अपि मंस्यन्ते, वेदितव्यमेतत्सुभूते बुद्धानुभावेन बुद्धाधिष्ठानेन ते मंस्यन्ते / बुद्धपरिग्रहेणोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लेखयिष्यन्त्यन्तशो लिखिष्यन्तीति / तत्कस्य हेतोः? मारो ऽपि ह्यत्र पापीयान् महान्तमुद्योगमापत्स्यते अन्तरायकरणाय / तथागतो ऽप्यर्हन् सम्यक्संबुद्ध उद्योगमापत्स्यते ऽनुपरिग्रहायेति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नामैकादशः //
asp_12: लोकसंदर्शनपरिवर्तो द्वादशः / अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म - तद्यथापि नाम सुभूते स्त्रिया बहवः पुत्रा भवेयुः, पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा / सर्वे ते मातुर्ग्लानाया उद्योगमापद्येरन् - कथमस्माकं मातुर्जीवितान्तरायो न भवेदिति, कथमस्माकं माता चिरं जीवेत्, कथमस्माकं मातुः कायो न विनश्येत्, कथमस्माकं माता चिरस्थितिका भवेत्, कथमस्माकं मातुर्नाम अविनष्टं भवेत्, कथमस्माकं मातुर्न दुःखा वेदनोत्पद्येत, न चास्या अस्पर्शविहारः अमनआपः काये उत्पद्येत / तत्कस्य हेतोः? एतया हि वयं जनिताः / दुष्करकारिकैषा अस्माकं जीवितस्य दात्री लोकस्य च संदर्शयित्री / इति ते पुत्रास्तां मातरं सर्वसुखोपधानैः सुधृतां धारयेयुः, सुगोपायितां गोपायेयुः, सुकेलायितां केलायेयुः - मा खल्वस्याः काचिद्दुःखा वेदना दुःखो वा स्पर्श उत्पद्येत, चक्षुषो वा श्रोत्रतो वा घ्राणतो वा जिह्वातो वा कायतो वा मनस्तो वा वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा दंशतो वा मशकतो वा सरीसृपतो वा मनुष्यतो वा अमनुष्यतो वा आपाततो वा उत्पाततो वा अनिष्टनिपातः शरीरे निपतेत् / एवं ते पुत्रास्तां मातरं सर्वसुखोपधानैः समन्वाहृत्य केलायेयुर्ममायेयुर्गोपायेयुः - एषास्माकं माता जनयित्री, दुष्करकारिकैषा अस्माकं जीवितस्य दात्री, लोकस्य च संदर्शयित्रीति / एवमेव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां प्रज्ञापारमितां समन्वाहरन्ति / ये ऽपि ते लिखन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति देशयन्त्युपदिशन्त्युद्दिशन्ति स्वाध्यायन्ति,
सर्वे ते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुभावेन अधिष्ठानेन समन्वाहारेण / ये ऽपि ते ऽन्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, सर्वसत्त्वानां चानुकम्पका अनुकम्पामुपादाय, ते ऽपि सर्वे इमां प्रज्ञापारमितां समन्वाहरन्ति, औत्सुक्यमापद्यन्ते - किमितीयं प्रज्ञापारमिता चिरस्थितिका भवेत्, किमित्यस्याः प्रज्ञापारमिताया नाम अविनष्टं भवेत्, किमित्यस्याः प्रज्ञापारमिताया भाष्यमाणाया लिख्यमानायाः शिक्ष्यमाणाया मारः पायीयान् मारकायिका वा देवता अन्तरायं न कुर्युरिति / एवं हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा एनां प्रज्ञापारमितां केलायन्ति ममायन्ति गोपायन्ति / तत्कस्य हेतोः? एषा हि माता जनयित्री तथागतानामर्हतां सम्यक्संबुद्धानाम् / अस्याः सर्वज्ञताया दर्शयित्री लोकस्य च संदर्शयित्री / अतोनिर्जाता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः / प्रज्ञापारमिता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामस्य सर्वज्ञज्ञानस्य जनयित्री दर्शयित्री, एवमस्य लोकस्य संदर्शयित्री / अतोनिर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता / ये ऽपि केचित्सुभूते अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / ये ऽपि ते सुभूते भविष्यन्त्यनागते ऽध्वनि तथागता अर्हन्तः (वैद्य 126) सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, ते ऽपि
सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / ये ऽपि ते सुभूते एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / अहम् अपि सुभूते एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्ध एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां जनयित्री, एवमस्य लोकस्य संदर्शयित्री //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्रीति, कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? कतमश् च भगवन् लोकस्तथागतैरर्हद्भिः सम्यक्संबुद्धैराख्यातः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - पञ्च सुभूते स्कन्धाः तथागतेन लोक इत्याख्याताः / कतमे पञ्च? यदुत रूपं वेदना संज्ञा संस्कारा विज्ञानम् / इमे सुभूते पञ्च स्कन्धास्तथागतेन लोक इत्याख्याताः //
सुभूतिराह - कथं भगवंस्तथागतानां प्रज्ञापारमितया पञ्च स्कन्धा दर्शिताः? किं वा भगवन् प्रज्ञापारमितया दर्शितम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - न लुज्यन्ते न प्रलुज्यन्ते इति सुभूते पञ्च स्कन्धा लोक इति तथागतानां प्रज्ञापारमितया दर्शिताः / तत्कस्य हेतोः न लुज्यन्ते न प्रलुज्यन्ते इति दर्शिताः? शून्यतास्वभावा हि सुभूते पञ्च स्कन्धाः, अस्वभावत्वात् / न च सुभूते शून्यता लुज्यते वा प्रलुज्यते वा / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / न च सुभूते आनिमित्तं वा अप्रणिहितं वा अनभिसंस्कारो वा अनुत्पादो वा अभावो वा धर्मधातुर्वा लुज्यते वा प्रलुज्यते वा / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हत सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति? सत्त्वास्वभावतया सुभूते अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति / यान्य् अपि तानि सुभूते अप्रमेयाणामसंख्येयानां सत्त्वानां चित्तचरितानि, तान्य् अपि सुभूते तथागतः सत्त्वासद्भावतयैव प्रजानाति / एवं खलु सुभूते प्रज्ञापारमितामागम्य तथागतो ऽप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाण्यसंख्येयानि चित्तचरितानि च यथाभूतं प्रजानाति / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री //
(वैद्य 127) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? स संक्षेपं क्षयतः क्षयं च अक्षयतो यथाभूतं प्रजानाति / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतातः सुभूते तानि चित्तानि विक्षिप्तानि / अलक्षणानि हि तानि चित्तानि अक्षीणान्यविक्षीणान्यविक्षिप्तानि तानि चित्तानीति यथाभूतं प्रजानाति / एवं हि सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तानि अप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति? तस्य सुभूते तथागतस्याधिष्ठितं भवति तच्चित्तम्, अनिरोधमनुत्पादमस्थितमनाश्रयमसममप्रमेयमसंख्येयम्, येनैव यथाभूतं प्रजानाति आकाशाप्रमेयाक्षयतया चित्ताप्रमेयाक्षयतेति / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? असंक्लेशसंक्लिष्टानि सुभूते तानि चित्तानि असंकेतानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? प्रकृतिप्रभास्वराणि सुभूते तानि चित्तानि / एवं हि सुभूते तथागत इमां (वैद्य 128) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति? अनालयलीनानि सुभूते तानि चित्तानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति? अग्राह्याणि सुभूते तानि चित्तानि प्रग्रहीतव्यानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अस्वभावानि सुभूते तानि चित्तानि असत्संकल्पानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अभावगतिकानि सुभूते तानि चित्तानि अनाभोगानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सरागता, न सा चित्तस्य यथाभूतता / या चित्तस्य यथाभूतता, न सा चित्तस्य सरागता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति //
(वैद्य 129) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सरागता / या वीतरागस्य चित्तस्य यथाभूतता, न सा चित्तस्या सरागता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सदोषता, न सा चित्तस्य यथाभूतता / या चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सदोषता / या वीतदोषस्य चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वितदोषाणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य समोहता, न सा चित्तस्य यथाभूतता / या चित्तस्य यथाभूतता, न सा चित्तस्य समोहता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य समोहता / या वीतमोहस्य चित्तस्य यथाभूतता, न सा चित्तस्य समोहता / एवं हि सुभूते तथागत इमां (वैद्य 130) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तानि अविपुलानि चित्तानीति यथाभूतं प्रजानाति? असमुत्थानयोगानि सुभूते तानि चित्तानि असमुत्थानपर्यापन्नानि / एवं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति? न हीयन्ते सुभूते तानि चित्तानि, न विवर्धन्ते तानि चित्तानि, न विगच्छन्ति तानि चित्तानि, अविगमत्वादेव चित्तानाम् / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति? अनागतिकानि सुभूते तानि चित्तानि अगतिकानि अपर्यापन्नानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति? समतासमानि सुभूते तानि चित्तानि स्वभावसमानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति? अनिश्रयत्वात्सुभूते तानि चित्तान्यप्रमाणानि / एवं हि सुभूते तथागत इमां (वैद्य 131) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तानि अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? समदर्शनानि सुभूते तानि चित्तानि चित्तस्वभावानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? अलक्षणत्वादर्थविविक्तत्वात्सुभूते अदृश्यं तच्चित्तं त्रयाणां चक्षुषां सर्वेषां वा अनवभासगतम् / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? असत्संकल्पितानि सुभूते तानि चित्तानि, शून्यान्यारम्बणवशिकानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? अद्वयभूतानि सुभूते तानि चित्तानि अभूतसंभूतानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तरानि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते सोत्तरस्य चित्तस्य यथाभूतता, न तत्रास्ति मन्यमानता / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति //
(वैद्य 132) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति? अण्व् अपि हि सुभूते चित्तमनुपलब्धम् / ततो निष्प्रपञ्चानि तानि चित्तानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति? असमसमानि हि सुभूते तानि चित्तानि असमवहितानि, एवमसमाहितानि तानि चित्तानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति? समसमानि हि सुभूते तानि चित्तानि समवहितानि / एवं समाहितानि चित्तान्याकाशसमानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति? स्वभावविमुक्तानि सुभूते तानि चित्तानि अभावस्वभावानि / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति? चित्तः हि सुभूते तथागतेन न अतीतमुपलब्धं न अनागतम्, न प्रत्युत्पन्नमुपलब्धम्, असत्त्वाच्चित्तस्य / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य (वैद्य 133) अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति? असत्त्वात्सुभूते अदृश्यं तच्चित्तम् / अभूतत्वादविज्ञेयम्, अपरिनिष्पत्तितो ऽग्राह्यं प्रज्ञाचक्षुषा दिव्येन चक्षुषा / कुतः पुनर्मांसचक्षुषा? सर्वेषामनवभासगतत्वात् / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति / कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयाणां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति? सर्वाणि तानि सुभूते रूपनिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति / एवं वेदना संज्ञा संस्काराः / सर्वाणि तानि विज्ञाननिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति / तत्र सुभूते कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति? एवं वेदना संज्ञा संस्काराः? कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति? भवति तथागतः परं मरणादिति रूपगतम् एतत् / न भवति तथागतः परं मरणादिति रूपगतम् एतत् / भवति च न भवति च तथागतः परं मरणादिति रूपगतम् एतत् / नैव भवति न न भवति तथागतः परं मरणादिति रूपगतम् एतत् / एवं वेदना संज्ञा संस्काराः / भवति तथागतः परं मरणादिति विज्ञानगतम् एतत् / न भवति तथागतः परं मरणादिति विज्ञानगतम् एतत् / भवति च न भवति च तथागतः परं मरणादिति विज्ञानगतम् एतत् / नैव भवति न न भवति तथागतः परं मरणादिति विज्ञानगतम् एतत् / शाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / अशाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / शाश्वतश् च अशाश्वत आत्मावलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् /
नैव शाश्वतो नाशाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / एवं वेदना संज्ञा संस्काराः / शाश्वत आत्मावलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / अशाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / शाश्वतश्चाशाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / नैव शाश्वतो नाशाश्वत आत्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / अन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / अनन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / अन्तवांश् च अनन्तवांश्चात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / नैवान्तवान् नानन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / एवं वेदना संज्ञा संस्काराः / अन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / अनन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / अन्तवांश् च अनन्तवांश्चात्मा अवलोकश् च इदमेव (वैद्य 134) सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / नैवान्तवान् नानन्तवानात्मा अवलोकश् च इदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / अन्यो जीवो ऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतम् एतत् / एवं वेदना संज्ञा संस्काराः / स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् / अन्यो जीवो ऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतम् एतत् /
एवं हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति / एवं वेदना संज्ञा संस्काराः / तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति //
पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणाममसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति / इह सुभूते तथागतो रूपं जानाति / कथं च सुभूते तथागतो रूपं जानाति? तथा सुभूते तथागतो रूपं जानाति, यथा तथता / एवं हि सुभूते तथागतो रूपं जानाति / एवं वेदना संज्ञा संस्काराः / इह सुभूते तथागतो विज्ञानं जानाति / कथं च सुभूते तथागतो विज्ञानं जानाति? तथा सुभूते तथागतो विज्ञानं जानाति, यथा तथता / एवं हि सुभूते तथागतो विज्ञानं जानाति / एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति / एवं हि सुभूते तथागतस्तथागततथतया च स्कन्धतथतया च उन्मिञ्जितनिमिञ्जिततथतया च तथतां प्रज्ञपयति / यैव च सुभूते स्कन्धतथता, सैव लोकस्यापि तथता / तत्कस्य हेतोः? उक्तं ह्येतत्सुभूते तथागतेन - पञ्च स्कन्धा लोक इति संज्ञाताः इति / तस्मात्तर्हि सुभूते या स्कन्धतथता, सा लोकतथता / या लोकतथता, सा सर्वधर्मतथता / या सर्वधर्मतथता, सा स्रोतआपत्तिफलतथता / या स्रोतआपत्तिफलतथता, सा सकृदागामिफलतथता / या सकृदागामिफलतथता, सा अनागामिफलतथता / या अनागमिफलतथता, सा अर्हत्त्वफलतथता / या अर्हत्त्वफलतथता, सा प्रत्येकबुद्धत्वतथता / या प्रत्येकबुद्धत्वतथता, सा तथागततथता /
इति हि तथागततथता च स्कन्धतथता च सर्वधर्मतथता च सर्वार्यश्रावकप्रत्येकबुद्धतथता च एकैवैषा तथता अनेकभावाभावापगता अनेकत्वादनानात्वादक्षयत्वादविकारत्वादद्वयत्वादद्वैधीकारत्वात् / एवमेषा सुभूते तथता तथागतेन प्रज्ञापारमितामागम्य अभिसंबुद्धा / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / एवं हि सुभूते तथागतो ऽस्य लोकस्य लोकं संदर्शयति / एवं चास्य लोकस्य दर्शनं भवति - एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री / एवं हि सुभूते तथागतस्तथतामभिसंबुध्य लोकस्य तथतां जानाति, अवितथतां जानाति, अनन्यतथतां जानाति / एवं च सुभूते तथागतस्तथतामभिसंबुद्धः संस्तथागत इत्युच्यते //
(वैद्य 135) स्थविरः सुभूतिराह - गम्भीरा भगवंस्तथता / अतो भगवंस्तथतातो बुद्धानां भगवतां बोधिः प्रभाव्यते प्रकाश्यते / को ऽत्र भगवन् अन्यो ऽधिमोक्ष्यते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽर्हन् वा परिपूर्णसंकल्पो दृष्टिसंपन्नो वा पुद्गलः? तथा हि भगवन् इमानि स्थानानि परमगम्भीराणि तथागतेनाभिसंबुध्य आख्यातानि / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / परमगम्भीराणीमानि स्थानानि तथागतेनाभिसंबुध्य आख्यातानि / तथा हि सुभूते अक्षयैषा तथता, या तथागतेनाभिसंबुद्धा, अभिसंबुध्य अक्षयाक्षयैवाख्याता //
अथ खलु शक्रदेवेन्द्रप्रमुखाः कामावचरा रूपावराश् च देवपुत्रा ब्रह्मकायिकानां च विंशतिदेवपुत्रसहस्राणि येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः / एकान्तस्थिताश् च ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तमेतदवोचन् - गम्भीरा भगवन् धर्माः प्रकाश्यन्ते / कथं भगवन् अत्र लक्षणानि स्थाप्यन्ते? भगवानाह - शून्यमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते / आनिमित्तमिति अप्रणिहितमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते / अनभिसंस्कार इति अनुत्पाद इति अनिरोध इति असंक्लेश इति अव्यवदानमिति अभाव इति निर्वाणमिति धर्मधातुरिति तथतेति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते / तत्कस्य हेतोः? अनिश्रितानि हि देवपुत्रा एतानि लक्षणानि / आकाशसदृशानि हि देवपुत्रा एतानि लक्षणानि / नैतानि लक्षणानि तथागतेनार्हता सम्यक्संबुद्धेन स्थापितानि / नैतानि लक्षणानि रूपसंख्यातानि / एवं न वेदनासंज्ञासंस्कारविज्ञानसंख्यातानि / नैतानि लक्षणानि रूपनिश्रितानि, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितानि / नैतानि लक्षणानि देवैर्वा नागैर्वा मनुष्यैर्वा अमनुष्यैर्वा स्थापितानि / नैतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यानि चालयितुम् / तत्कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोक एतल्लक्षण एव / नाप्येतानि लक्षणानि केनापि हस्तेन स्थापितानि / यो देवपुत्रा एवं वदेत् - इदमाकाशं केनापि स्थापितमिति, अपि नु स देवपुत्राः सम्यग्वदन् वदेत्? एवमुक्ते कामावचरा रूपावराश् च देवपुत्रा भगवन्तमेतदवोचन् - न भगवन् आकाशं केनचित्स्थापितम् / तत्कस्य हेतोः? असंस्कृतत्वाद्भगवन् आकाशस्य नाकाशं केनचित्स्थापितम् //
अथ खलु भगवांस्तान् कामावचरान् रूपावरांश् च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः / उत्पादाद्वा तथागतानामनुत्पादाद्वा तथैवैतानि लक्षणानि स्थितानि / तत्कस्य हेतोः? यथैतानि हि स्थितानि, तथाभूतानि तथागतेनाभिसंबुध्य आख्यातानि / तस्माद्देवपुत्रास्तथागतस्तथागत इत्युच्यते //
(वैद्य 136) अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीराणि भगवन् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि / तथागतानां चासङ्गज्ञानं यदुत प्रज्ञापारमिता / असङ्गज्ञानाय प्रज्ञापारमिता तथागतानां गोचरः / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / यथा सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां धर्मं प्रज्ञापारमितामुपनिश्रित्य विहरन्ति, तथैवैते धर्माः सदा स्थिताः, अस्थानतस्तथागतैरभिसंबुद्धाः / अतस्ते धर्ममेवोपनिश्रित्य विहरन्ति, धर्मं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति / प्रज्ञापारमितैवैषा सुभूते धर्माणां धर्मतेति तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञापारमितां सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति / तत्कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितातस्तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञतायाः प्रभावना भवति / कृतज्ञाः कृतवेदिनश् च तथागता अर्हन्तः सम्यक्संबुद्धाः / यत्खलु सुभूते सम्यग्वदन्तो वदेयुः - कृतज्ञः कृतवेदीति, तत्तथागतं हि ते सम्यग्वदन्तो वदन्ति - कृतज्ञः कृतवेदीति / यत्खलु सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो येन येन यानेनागतः, यया यया प्रतिपदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, तथागतस्तदेव यानं तामेव प्रतिपदमनुगृह्णीते अनुपरिपालयति, तयैव कृतज्ञतया कृतवेदितया / इयं सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या / पुनरपरं सुभूते तथागतेन सर्वधर्मा अकृता अकृता इत्यभिसंबुद्धाः, अविकृता अविकृता इत्यभिसंबुद्धाः, अनभिसंस्कृता अनभिसंस्कृता इत्यभिसंबुद्धाः / इयम् अपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या / प्रज्ञापारमितां ह्यागम्य सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य एवं सर्वधर्मेषु ज्ञानं प्रवृत्तम् / अनेनापि सुभूते पर्यायेण प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, तदा कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते, यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रश्नीकर्तव्यं मन्यसे / सुभूतिरेवमाह - सर्वधर्मा अजानका अपश्यका इति / एवमेतत्सुभूते, एवम् एतत् / सर्वधर्मा अजानका अपश्यकाः / कथं सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः / सर्वधर्मा हि सुभूते अनिश्रिताः / एवं हि सुभूते सर्वधर्मा अजानका अपश्यकाः / एवमेते सुभूते सर्वधर्माः प्रज्ञापारमितामागम्य तथागतैरभिसंबुद्धाः / एवम् अपि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री रूपस्यादृष्टत्वात् / एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यादृष्टत्वात्संदर्शयित्री / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री भवति //
(वैद्य 137) सुभूतिराह - कथं भगवन् रूपस्यादृष्टता भवति? कथं वेदनायाः संज्ञायाः संस्काराणाम्? कथं भगवन् विज्ञानस्यादृष्टता भवति? भगवानाह - यदि सुभूते न रूपारम्बणं विज्ञानमुत्पद्यते, एवं रूपस्यादृष्टता भवति / एवं वेदना संज्ञा संस्काराः / यदि सुभूते न विज्ञानारम्बणं विज्ञानमुत्पद्यते, एवं विज्ञानस्यादृष्टता भवति / या च सुभूते रूपस्यादृष्टता, या च वेदनायाः संज्ञायाः संस्काराणाम्, या च सुभूते विज्ञानस्यादृष्टता, सैव लोकस्य दृष्टता भवति / एवं हि सुभूते लोकस्तथागतेन दृष्टो भवति / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / कथं च सुभूते प्रज्ञापारमिता लोकं संदर्शयति? इति लोकः शून्य इति लोकं सूचयति, एवं प्रज्ञापयति, एवं लोकं संदर्शयति / इति लोको ऽचिन्त्य इति, लोकः शान्त इति, लोको विविक्त इति लोकविशुद्ध्या लोकं सूचयति / एवं लोकं प्रज्ञापयति, एवं संदर्शयतीति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां लोकसंदर्शनपरिवर्तो नाम द्वादशः // asp_13: अचिन्त्यपरिवर्तस्त्रयोदशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता / अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता / अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / न हीदं शक्यं चित्तेन चिन्तयितुम् / तत्कस्य हेतोः? न हि चित्तं वा चेतना वा चैतसिको वा अत्र धर्मः प्रवर्तते / कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न शक्यं सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वं चिन्तयितुं वा तुलयितुं वा / एवं हि सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वयंभुवः सर्वज्ञस्य समः, कुतः पुनरुत्तरः? एवं हि सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता //
स्थविरः सुभूतिराह - किं पुनर्भगवंस्तथागतत्वमेवाचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं बुद्धत्वमेव स्वयंभूत्वमेव सर्वज्ञत्वमेव अतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो रूपमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं वेदनापि संज्ञापि संस्कारा अपिः? विज्ञानमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो सर्वधर्मा अप्यचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / रूपम् अपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानम् अपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् / एवं सर्वधर्मा अपि सुभूते अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः / तत्कस्य हेतोः? रूपस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / सर्वधर्माणां हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / एवं हि सुभूते रूपमप्यचिन्त्यमतुल्यम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानमप्यचिन्त्यमतुल्यम् / एवं सर्वधर्मा अप्यचिन्त्या अतुल्याः / रूपम् अपि (वैद्य 139) सुभूते अप्रमेयम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानम् अपि सुभूते अप्रमेयम्, सर्वधर्मा अपि सुभूते अप्रमेयाः / तत्कस्य हेतोः? रूपस्य हि सुभूते प्रमाणं न प्रज्ञायते / एवं वेदनायाः संज्ञायाः संस्काराणाम् /
विज्ञानस्य हि सुभूते प्रमाणं न प्रज्ञायते / सर्वधर्माणाम् अपि हि सुभूते प्रमाणं न प्रज्ञायते / केन कारणेन सुभूते रूपस्य प्रमाणं न प्रज्ञायते? केन कारणेन वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न प्रज्ञायते? केन कारणेन सुभूते सर्वधर्माणाम् अपि प्रमाणं न प्रज्ञायते? रूपस्य हि सुभूते प्रमाणं न विद्यते / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य हि सुभूते प्रमाणं न विद्यते / सर्वधर्माणाम् अपि हि सुभूते प्रमाणं न विद्यते / केन कारणेन सुभूते रूपस्य प्रमाणं न विद्यते? एवं वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न विद्यते? केन कारेणेन सुभूते सर्वधर्माणाम् अपि प्रमाणं न विद्यते? अप्रमाणत्वात्सुभूते सर्वधर्माणाम् / रूपम् अपि सुभूते असंख्येयम् / एवं वेदना संज्ञा संस्काराः / विज्ञानम् अपि सुभूते असंख्येयम् / सर्वधर्मा अपि सुभूते असंख्येयाः, गणनासमतिक्रान्तत्वात् / रूपमपि सुभूते असमसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानम् अपि सुभूते असमसमम् / एवं सर्वधर्मा अपि सुभूते असमसमाः, आकाशसमत्वात्सुभूते सर्वधर्माणाम् / तत्किं मन्यसे सुभूते अपि तु अस्त्याकाशस्य समो वा गणना वा प्रमाणं वा तुल्यं वा चित्तं वा चैतसिका वा धर्माः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते अनेन पर्यायेण सर्वधर्मा अपि अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः / एते च सुभूते तथागतधर्मा अचिन्त्याश्चित्तोपरमत्वात्, अतुल्यास्तुलनासमतिक्रान्तत्वात् / अचिन्त्या अतुल्या इति सुभूते विज्ञानगतस्यैतद्धर्मस्याधिवचनम् /
एवमप्रमेया असंख्येया असमसमा इति सुभूते समसंख्याप्रमाणोपरमत्वादप्रमेया असंख्येया असमसमास्तथागतधर्माः / आकाशसमासंख्येयाप्रमेयतया असमसमा असंख्येया अप्रमेया एते धर्माः / आकाशतुल्यतया अतुल्या असमवहिता बतेमे धर्माः / तस्मात्सुभूते अतुल्या एते धर्मा उच्यन्ते / आकाशाचिन्त्यतया अचिन्त्या एते धर्माः / आकाशातुल्यतया अतुल्या एते धर्माः / आकाशाप्रमेयतया अप्रमेया एते धर्माः / आकाशासंख्येयतया असंख्येया एते धर्माः / आकाशासमसमतया असमसमा एते धर्माः / अस्यां खलु पुनरचिन्त्यतायामतुल्यतायामप्रमेयतायामसंख्येयतायामसमसमतायां भाष्यमाणायां पञ्चानां भिक्षुशतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि, विंशतेश् च भिक्षुणीशतानाम् अनुपादाय आस्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश्चोपासकशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, त्रिंशतेश्चोपासिकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, विंशत्या च बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत् / ते च भगवता इहैव भद्रकल्पे व्याकृता अनुत्तरायां सम्यक्संबोधौ / ये ऽपि ते उपासका उपासिकाश् च येषां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, ते ऽपि भगवता व्याकृताः / तेषामप्यनुपादायास्रवेभ्यश्चित्तं विमोक्ष्यते //
(वैद्य 140) अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / गम्भीरा सुभूते प्रज्ञापारमिता / महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता / तत्कस्य हेतोः? अत्र हि सुभूते सर्वज्ञता समायुक्ता, अत्र प्रत्येकबुद्धभूमिः समायुक्ता, अत्र सर्वश्रावकभूमिः समायुक्ता / तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य यानि तानि राजकृत्यानि, यानि च नगरकृत्यानि, यानि च जनपदकृत्यानि, सर्वाणि तानि अमात्यसमायुक्तानि भवन्ति / अल्पोत्सुकस्ततो राजा भवत्यपहृतभारः / एवमेव सुभूते ये केचिद्बुद्धधर्मा वा प्रत्येकबुद्धधर्मा वा श्रावकधर्मा वा, सर्वे ते प्रज्ञापारमितासमायुक्ताः / प्रज्ञापारमिता तत्र कृत्यं करोति / अनेन सुभूते पर्यायेण महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता रूपस्यापरिग्रहाय अनभिनिवेशाय / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्यापरिग्रहाय अनभिनिवेशाय, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय, एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यापरिग्रहायानभिनिवेशाय, प्रत्येकबोधेरपरिग्रहायानभिनिवेशाय, सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता //
सुभूतिराह - कथं भगवन् सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता? भगवानाह - तत्किं मन्यसे सुभूते समनुपश्यसि त्वमर्हत्त्वं यत्र परिग्रहं वा अभिनिवेशं वा कुर्याः? सुभूतिराह - नो हीदं भगवन् / नाहं भगवंस्तं धर्मं समनुपश्यामि यं परिगृह्णीयामभिनिवेशेयं वा अर्हत्त्वमिति / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / अहम् अपि सुभूते तथागतत्वं न समनुपश्यामि / सो ऽहं सुभूते तथागतत्वमसमनुपश्यन् न परिगृह्णामि नाभिनिवेशे / तस्मात्तर्हि सुभूते सर्वज्ञताप्यपरिग्रहा अनभिनिवेशा / सुभूतिराह - सर्वज्ञतापि भगवन् अपरिग्रहा अनभिनिवेशेति? मा भगवन् नवयानसंप्रस्थिताः परीत्तकुशलमूला बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते / अपि तु खलु पुनर्भगवन् ये बोधिसत्त्वा महासत्त्वा हेतुसंपन्नाः पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूला भविष्यन्ति, त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति / भगवानाह - एवमेतत्सुभूते, एवम् एतत् //
अथ खलु ते कामावचरा रूपावराश् च देवपुत्रा भगवन्तमेतदवोचन् - गम्भीरा भगवन् प्रज्ञापारमिता, दुर्दृशा दुरनुबोधा / पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूलास्ते भगवन् सत्त्वा भविष्यन्ति, य एनां गम्भीरां प्रज्ञापारमितामधिमोक्ष्यन्ति / सचेद्भगवंस्त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वाः, ते सर्वे श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरेयुः यश्चेह गम्भीरायां प्रज्ञापारमितायामेकदिवसम् अपि क्षान्तिं रोचयेद्गवेषेत चिन्तयेत्तुलयेदुपपरीक्षेत उपनिध्यायेत्, अयमेव भगवंस्तेभ्यः श्रेयान् / एवमुक्ते भगवांस्तान् कामावचरान् (वैद्य 141) रूपावचरांश् च देवपुत्रानामन्त्रयामास - यदि देवपुत्राः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, यावदस्य देवपुत्राः क्षिप्रतरं निर्वाणं प्रतिकाङ्क्षितव्यम्, न त्वेव तेषां श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरताम् / अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तमेतदवोचन् - महापारमितेयं भगवन् यदुत प्रज्ञापारमिता / इत्युक्त्वा भगवतः पादौ शिरसा अभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकाद् गमिष्याम इत्यारोच्य प्रक्रान्ताः / ते ऽविदूरं गत्वा अन्तर्हिताः / कामावचराश् च देवपुत्राः कामधातौ प्रातिष्ठन्तः, रूपावचराश् च देवपुत्रा ब्रह्मलोके प्रातिष्ठन्तेति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामचिन्त्यपरिवर्तो नाम त्रयोदशः // asp_14: औपम्यपरिवर्तश्चतुर्दशः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यो भगवन् बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमुच्यते नावलीयते न संलीयते नावतिष्ठते न धन्धायति न विचिकित्सति न काङ्क्षति, अभिनन्दति च प्रज्ञापारमिताम्, स भगवन् कुतश्च्युत्वा कुत्रोपपन्नः? भगवानाह - यः सुभूते बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमोक्ष्यते नावलेष्यते न संलेष्यते नावस्थास्यते न धन्धायिष्यति न विचिकित्सिष्यति न काङ्क्षिष्यति, अभिनन्दिष्यति च दर्शनं श्रवणं च, धारयिष्यति भावयिष्यत्येनां गम्भीरां प्रज्ञापारमिताम्, प्रज्ञापारमिताप्रतिसंयुक्तांश् च मनसिकारान्न विहास्यति, न विपृष्ठीकरिष्यति मानसम्, छन्दं जनयिष्यत्युद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुम्, करिष्यत्यनुबन्धम्, अनुगमिष्यति धर्मभाणकं नोत्स्रक्ष्यति / तद्यथापि नाम सुभूते तरुणवत्सा गौर्नोत्सृजति वत्सम्, एवमेव सुभूते यो बोधिसत्त्वो महासत्त्व एनां गम्भीरां प्रज्ञापारमितां श्रुत्वा तावन्न प्रहास्यति धर्मभाणकं यावदस्येयं प्रज्ञापारमिता कायगता वा भविष्यति पुस्तकगता वा, अयं सुभूते बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युतो मनुष्येष्वेवोपपन्नः //
सुभूतिराह - स्याद्भगवन् एतैरेव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश्च्युत इहोपपन्नः? भगवानाह - स्यात्सुभूते बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य परिप्रश्नीकृत्य तेभ्यश्च्युत इहोपपन्नः, एतैरेव गुणैः समन्वागतो वेदितव्यः / पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वस्तुषितेभ्यो देवेभ्यश्च्युत इहोपपन्नः, सो ऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः / येन मैत्रेयो बोधिसत्त्वो महासत्त्वः पर्युपासितः परिपृष्टः परिपृच्छितः परिप्रश्नीकृतः इमां प्रज्ञापारमितामारभ्य, सो ऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः / येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता श्रुता, न तु परिपृष्टा भवेत्, न परिपृच्छिता न परिप्रश्नीकृता, तस्य पुनर् अपि मनुष्येष्वेवोपपन्नस्य अस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनता, वेदितव्यमेतत्सुभूते, अयं बोधिसत्त्वः पूर्वान्ततो ऽप्यपरिपृच्छकजातीयो ऽभूत् / तत्कस्य हेतोः? तथा हि अस्यां अस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनतेति //
पुनरपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेनेयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि श्रुता भवति, पर्युपासिता परिपृष्टा परिपृच्छिता परिप्रश्नीकृता च भवति, एकं वा दिनं द्वे वा त्रीणि वा चत्वारि वा पञ्च वा दिनानि, तस्य तावत्कालिकी श्रद्धा भवति, संह्रियते च, पुनरेवासंहार्या च भवति परिपृच्छया / तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति - येन पूर्वं न संपरिपृष्टा भवतीयं प्रज्ञापारमिता, न संपरिपृच्छिता, (वैद्य 143) न संपरिप्रश्नीकृता, न चानुवर्तिता भवति, तस्य कंचित्कालं छन्दो ऽनुवर्तते अस्यां गम्भीरायां प्रज्ञापारमितायां श्रवणाय, कंचित्कालं छन्दो न भवति / स पुनरेवोत्क्षिप्यते ऽवसीदति / तस्य चलाचला बुद्धिर्भवति / तूलपिचूपमश् च स भवति / सो ऽयं बोधिसत्त्वो ऽचिरयानसंप्रस्थितो वेदितव्यः / नवेन यानेनागतः स बोधिसत्त्वस्तां श्रद्धां तं प्रसादं तं छन्दं प्रहास्यति, यदुतैनां गम्भीरां प्रज्ञापारमितां नानुग्रहीष्यति नानुवर्तिष्यते नानुपरिवारयिष्यति / तस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / तद्यथापि नाम सुभूते महासमुद्रगतायां नावि भिन्नायां ते तत्र काष्ठं वा न गृह्णन्ति फलकं वा, मृतशरीरं वा नाध्यालम्बन्ते, वेदितव्यम् एतत् - अप्राप्ता एवैते पारमुदके कालं करिष्यन्तीति / ये खलु पुनः सुभूते महासमुद्रगतायां नावि भिन्नायां तत्र काष्ठं वा गृह्णन्ति फलकं वा, मृतशरीरं वा अध्यालम्बन्ते, वेदितव्यमेतत्सुभूते - नैते उदके कालं करिष्यन्ति, स्वस्तिना अनन्तरायेण पारमुत्तरिष्यन्ति, अक्षताश्चानुपहताश् च स्थले स्थास्यन्तीति /
एवमेव सुभूते यो बोधिसत्त्वः श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण छन्दमात्रकेण समन्वागतः स च प्रज्ञापारमितां नाध्यालम्बते, वेदितव्यमेतत्सुभूते अन्तरैवैष व्यध्वनि व्यवसादमापत्स्यते, अप्राप्त एव सर्वज्ञतां श्रावकत्वे प्रत्येकबुद्धत्वे वा स्थास्यतीति / येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानामस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, ते च प्रज्ञापारमितामध्यालम्बन्ते / एवं तेषां सा श्रद्धा सा क्षान्तिः सा रूचिः स च्छन्दः तद्वीर्यं सो ऽप्रमादः साधिमुक्तिः सो ऽध्याशयः स त्यागः तद्गौरवं सा प्रीतिः तत्प्रामोद्यं स प्रसादः तत्प्रेम सा अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / ते च प्रज्ञापारमितां प्राप्य सर्वज्ञतायां स्थास्यन्ति / तद्यथापि नाम सुभूते स्त्री व पुरुषो वा अपरिपक्वेन घटेनोदकं परिवहेत्, वेदितव्यमेतत्सुभूते - नायं घटश्चिरमनुवर्त्स्यते, क्षिप्रमेव परिभेत्स्यते, प्रविलेष्यते इति / तत्कस्य हेतोः? यथापि नाम तदपरिपक्वत्वाद्धटस्य, स भूमिपर्यवसान एव भविष्यतीति / एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रूचिः अस्ति छन्दः अस्ति वीर्यम् अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः अस्ति त्यागः / अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
