Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टसाहस्रिका प्रज्ञापारमिता

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आयुष्मान् सुभूतिराह - एवम् अपि भगवन् संज्ञास्यते बोधिसत्त्वो महासत्त्वो रिञ्चिष्यतीमां प्रज्ञापारमितां दूरीकरिष्यतीमां प्रज्ञापारमिताम् / भगवानाह - साधु साधु सुभूते / एवम् एतत् (वैद्य 95) सुभूते, एवम् एतत् / तत्कस्य हेतोः? नामतो ऽपि हि सुभूतो सङ्गो निमित्ततो ऽपि सङ्गः / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता स्वाख्याता सुनिर्दिष्टा सुपरिनिष्ठिता, यत्र हि नाम भगवता इमे ऽपि सङ्गा आख्याताः / अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - कतमे ते आयुष्मन् सुभूते सङ्गाः? सुभूतिराह - रूपमायुष्मन् शारिपुत्र शून्यमिति सङ्गः / एवं वेदनासंज्ञासंस्काराः / विज्ञानमायुष्मन् शारिपुत्र शून्यमिति सङ्गः / अतीतेषु धर्मेष्वतीता धर्मा इति संजानीते, सङ्गः / अनागतेषु धर्मेष्वनागता धर्मा इति संजानीते, सङ्गः / प्रत्युत्पन्नेषु धर्मेषु प्रत्युत्पन्ना धर्मा इति संजानीते, सङ्गः / इयन्तं पुण्यस्कन्धं प्रसूयते बोधिसत्त्वयानिकः पुद्गलः प्रथमेन चित्तोत्पादेनेति संजानीते, सङ्गः //

अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत् - कतमेन आर्य सुभूते पर्यायेण सङ्गः? सुभूतिराह - सचेत्कौशिक तद्बोधिचित्तं संजानीते - इदं तत्प्रथमं बोधिचित्तमिति, अनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति / न च चित्तप्रकृतिः शक्या परिणामयितुं तेन कुलपुत्रेण वा कुलदुहित्रा वा महायानसंप्रस्थितेन / तस्मात्तर्हि कौशिक परं संदर्शयता समादापयता समुत्तेजयता संप्रहर्षयता अनुत्तरायां सम्यक्संबोधौ भूतानुगमेन संदर्शयितव्यं समादापयितव्यं समुत्तेजयितव्यं संप्रहर्षयितव्यम् / एवमात्मानं च न क्षिणोति, बुद्धानुज्ञातया च समादापनया परं समादापयति स कुलपुत्रो वा कुलदुहिता वा / इमाश्चास्य सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति //

अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात् - साधु साधु सुभूते, यस्त्वं बोधिसत्त्वान् महासत्त्वानिमाः सङ्गकोटीर्बोधयसि / तेन हि सुभूते अन्यान् अपि सूक्ष्मतरान् सङ्गानाख्यास्यामि, तान् शृणु, साधु च सुष्ठु च मनसि कुरु / भाषिष्ये ऽहं ते / साधु भगवन् इत्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् //

भगवानेतदवोचत् - इह सुभूते श्राद्धः कुलपुत्रो वा कुलदुहिता वा तथागतमर्हन्तं सम्यक्संबुद्धं निमित्ततो मनसि करोति / यावन्ति खलु पुनः सुभूते निमित्तानि, तावन्तः सङ्गाः / तत्कस्य हेतोः? निमित्ततो हि सुभूते सङ्गः / इति हि सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ये अनास्रवा धर्मास्ताननुमोदे इत्यनुमोद्य अनुमोदनासहगतं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति / या खलु पुनः सुभूते धर्माणां धर्मता, न सा अतीता वा अनागता वा प्रत्युत्पन्ना वा / या नातीता नानागता न प्रत्युत्पन्ना, सा त्र्यध्वनिर्मुक्ता / या त्र्यध्वनिर्मुक्ता, न सा शक्या परिणामयितुं न निमित्तीकर्तुं नारम्बणीकर्तुम् / नापि सा दृष्टश्रुतमतविज्ञाता //

सुभूतिराह - गम्भीरा भगवन् प्रकृतिर्धर्माणाम् / भगवानाह - विविक्तत्वात्सुभूते / आह - प्रकृतिगम्भीरा भगवन् प्रज्ञापारमिता / भगवानाह - प्रकृतिविशुद्धत्वात्सुभूते / प्रकृतिविविक्तत्वात्प्रकृतिगम्भीरा (वैद्य 96) प्रज्ञापारमिता / सुभूतिराह - प्रकृतिविविक्ता भगवन् प्रज्ञापारमिता / नमस्करोमि भगवन् प्रज्ञापारमितायै //

भगवानाह - सर्वधर्मा अपि सुभूते प्रकृतिविविक्ताः / या च सुभूते सर्वधर्माणां प्रकृतिविविक्तता, सा प्रज्ञापारमिता / तत्कस्य हेतोः? तथा हि सुभूते अकृताः सर्वधर्मास्तथागतेनार्हता सम्यक्संबुद्धेनाभिसंबुद्धाः / सुभूतिराह - तस्मात्तर्हि भगवन् सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन? भगवानाह - तथाहि सुभूते प्रकृत्यैव न ते धर्माः किंचित् / या च प्रकृतिः, सा अप्रकृतिः, या च प्रकृतिः, सा प्रकृतिः सर्वधर्माणामेकलक्षणत्वाद्यदुत अलक्षणत्वात् / तस्मात्तर्हि सुभूते सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन / तत्कस्य हेतोः? न हि सुभूते द्वे धर्मप्रकृती / एकैव हि सुभूते सर्वधर्माणां प्रकृतिः / या च सुभूते सर्वधर्माणां प्रकृतिः, सा अप्रकृतिः, या च अप्रकृतिः, सा प्रकृतिः / एवमेताः सुभूते सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति //

सुभूतिराह - गम्भीरा भगवन् प्रज्ञापारमिता / भगवानाह - आकाशगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता / सुभूतिराह - दुरनुबोधा भगवन् प्रज्ञापारमिता / भगवानाह - तथा हि सुभूते न कश्चिदभिसंबुध्यते / आह - अचिन्त्या भगवन् प्रज्ञापारमिता / भगवानाह - तथा हि सुभूते प्रज्ञापारमिता न चित्तेन ज्ञातव्या न चित्तगमनीया / आह - अकृता भगवन् प्रज्ञापारमिता / भगवानाह - कारकानुपलब्धितः सुभूते अकृता प्रज्ञापारमिता //

आह - तेन हि भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां कथं चरितव्यम्? भगवानाह - सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न रूपे चरति, चरति प्रज्ञापारमितायाम् / एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु / सचेन्न विज्ञाने चरति, चरति प्रज्ञापारमितायाम् / सचेद्रूपमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम् / एवं वेदनासंज्ञासंस्काराः / सचेद्विज्ञानमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम् / सचेद्रूपं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम् / एवं वेदनासंज्ञासंस्काराः / सचेद्विज्ञानं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम् / सचेद्रूपमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम् / या च रूपस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्रूपम् / एवं वेदनासंज्ञासंस्काराः / सचेद्विज्ञानमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम् / या च विज्ञानस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्विज्ञानम् / सचेदेवम् अपि न चरति, चरति प्रज्ञापारमितायाम् //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावद्यदेवं बोधिसत्त्वानां महासत्त्वानां ससङ्गता च असङ्गता च ख्याताः / भगवानाह - रूपं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम् / चक्षुः ससङ्गमसङ्गमिति न चरति, (वैद्य 97) चरति प्रज्ञापारमितायाम् / एवं यावन्मनःसंस्पर्शजा वेदना ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् / पृथिवीधातुः ससङ्गो ऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम् / यावद्विज्ञानधातुः ससङ्गो ऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम् / दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् / एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता / प्रज्ञापारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् / एवं सप्तत्रिंशद्बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो अष्टादशावेणिका बुद्धधर्माः ससङ्गासङ्गा इति न चरति, चरति प्रज्ञापारमितायाम् / स्रोतआपत्तिफलं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् / एवं सकृदागामिफलमनागामिफलमर्हत्त्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् / प्रत्येकबुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् / बुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् / सर्वज्ञतापि सुभूते ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् / एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे सङ्गं जनयति, न वेदनायां न संज्ञायां न संस्कारेषु /

न विज्ञाने सङ्गं जनयति / न चक्षुषि सङ्गं जनयति / यावन्न मनःसंस्पर्शजायां वेदनायां सङ्गं जनयति / न पृथिवीधातौ सङ्गं जनयति, यावन्न विज्ञानधातौ सङ्गं जनयति, न दानपारमितायां सङ्गं जनयति, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां सङ्गं जनयति, न बोधिपक्षेषु धर्मेषु, न बलेषु, न वैशारद्येषु, न प्रतिसंवित्सु, नाष्टादशस्वावेणिकेषु बुद्धधर्मेषु सङ्गं जनयति, न स्रोतआपत्तिफले सङ्गं जनयति, न सकृदागामिफले न अनागामिफले न अर्हत्त्वे सङ्गं जनयति, न प्रत्येकबुद्धत्वे सङ्गं जनयति, न बुद्धत्वे सङ्गं जनयति, नापि सर्वज्ञतायां सङ्ग जनयति / तत्कस्य हेतोः? असक्ता अबद्धा अमुक्ता असमतिक्रान्ता हि सुभूते सर्वज्ञता / एवं हि सुभूते सर्वसङ्गसमतिक्रमाय बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितायां चरितव्यम् //

सुभूतिराह - आश्चर्यं भगवन्, यावद्गम्भीरो ऽयं भगवन् धर्मः प्रज्ञापारमिता नाम / या देश्यमानापि न परिहीयते, अदेश्यमानापि न परिहीयते / देश्यमानापि न वर्धते / अदेश्यमानापि न वर्धते / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते / एवमेतत्सुभूते, एवम् एतत् / तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्नाकाशस्य वर्णं भाषेत, नाकाशस्य वृद्धिर्भवेत् / अभाष्यमाणे ऽपि वर्णे नैवाकाशस्य परिहानिर्भवेत् / तद्यथापि नाम सुभूते मायापुरुषो भाष्यमाणे ऽपि वर्णे नानुनीयते न संक्लिश्यते, अभाष्यमाणे ऽपि वर्णे न प्रतिहन्यते, न संक्लिश्यते / एवमेव सुभूते या धर्माणां धर्मता, सा देश्यमानापि तावत्येव, अदेश्यमानापि तावत्येव //

स्थविरः सुभूतिराह - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यो गम्भीरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन् न संसीदति नोत्प्लवते / अत्र च नाम योगमापद्यते, न च प्रत्युदावर्तते / आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / (वैद्य 98) नमस्कर्तव्यास्ते भगवन् बोधिसत्त्वा महासत्त्वाः, यैरयं संनाहः संनद्धः / तत्कस्य हेतोः? आकाशेन सार्धं स भगवन् संनद्धुकामो यः सत्त्वानां कृतशः संनाहं बध्नाति / महासंनाहसंनद्धो भगवन् बोधिसत्त्वो महासत्त्वः / शूरो भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां सत्त्वानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनद्धुकामो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः / आकाशं स भगवन् परिमोचयितुकामः / आकाशं स भगवन् उत्क्षेप्तुकामः / महावीर्यपारमितासंनाहप्राप्तः स भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनह्यते //

अथ खल्वन्यतमो भिक्षुर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - नमस्करोमि भगवन् प्रज्ञापारमितायै / तथा हि भगवन् प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति //

अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत् - य आर्य सुभूते अत्र प्रज्ञापारमितायामेव योगमापत्स्यते, क्व स योगमापत्स्यते? सुभूतिराह - आकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां योगमापत्स्यते / अभ्यवकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यं मंस्यते //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - आज्ञापयतु भगवान् / तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं करोमि य इमां प्रज्ञापारमितां धारयति / अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - समनुपश्यसि त्वं कौशिक तं धर्मं यस्य धर्मस्य रक्षावरणगुप्तिं करिष्यसि? शक्र आह - नो हीदमार्य सुभूते / सुभूतिराह - एवं कौशिक सचेद्बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां स्थास्यति, सैव तस्य रक्षावरणगुप्तिर्भविष्यति / अथ विरहितो भविष्यति प्रज्ञापारमितया, लप्स्यन्ते ऽस्य अवतारप्रेक्षिणो ऽवतारगवेषिणो मनुष्याश् च अमनुष्याश् च अवतारम् / अपि च कौशिक आकाशस्य स रक्षावरणगुप्तिं संविधातव्यां मन्येत, यो बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधातव्यां मन्येत प्रज्ञापारमितायां चरतः / तत्किं मन्यसे कौशिक प्रतिबलस्त्वं प्रतिश्रुत्काया रक्षावरणगुप्ति संविधातुम्? शक्र आह - न ह्येतदार्य सुभूते / सुभूतिराह - एवमेव कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विहरन् प्रतिश्रुत्कोपमाः सर्वधर्मा इति परिजानाति / स च तान्न मन्यते, न समनुपश्यति, न जानाति न संजानीते / ते च धर्मा न विद्यन्ते न संदृश्यन्ते न संविद्यन्ते नोपलभ्यन्ते इति विहरति / सचेदेवं विहरति, चरति प्रज्ञापारमितायाम् //

अथ खलु बुद्धानुभावेन ये त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च महाब्रह्माणः, सहापतिश् च महाब्रह्मा, ते सर्वे येन भगवांस्तेनोपसंक्रान्ताः / (वैद्य 99) उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽतिष्ठन् / एकान्ते स्थिताश् च ते महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च ब्रह्मकायिका देवा महाब्रह्माणश्च, सहापतिश् च महाब्रह्मा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धसहस्रं समान्वाहरन्ति स्म / एभिरेव नामभिरेभिरेव पदैरेभिरेवाक्षरैः सुभूतिनामधेयैरेव भिक्षुभिरियमेव प्रज्ञापारमितोपदिष्टा, अयमेव प्रज्ञापारमितापरिवर्तः / तत्रापि शक्रा एव देवेन्द्राः परिपृच्छन्ति स्म, परिप्रश्नयन्ति स्म - अस्मिन्नेव पृथिवीप्रदेशे इयमेव प्रज्ञापारमिता भाषिता / मैत्रेयो ऽपि बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य अस्मिन्नेव पृथिवीप्रदेशे एनामेव प्रज्ञापारमितां भाषिष्यते इति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां विशुद्धिपरिवर्तो नामाष्टमः // asp_9: स्तुतिपरिवर्तो नवमः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - प्रज्ञापारमितेति भगवन् नामधेयमात्रम् एतत् / तच्च नाम इदमिति नोपलभ्यते / वाग्वस्त्वेव नामेत्युच्यते / सापि प्रज्ञापारमिता न विद्यते नोपलभ्यते / यथैव नाम, तथैव प्रज्ञापारमिता / यथा प्रज्ञापारमिता तथा नाम / धर्मद्वयमेतन्न विद्यते नोपलभ्यते / किं कारणं भगवन् मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिः एभिरेव पदैः एभिरेवाक्षरैः अस्मिन्नेव पृथिवीप्रदेशे प्रज्ञापारमितां भाषिष्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तथा हि सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो न रूपं नित्यं नानित्यं न रूपं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते / एवं ना वेदनां न संज्ञां न संस्कारान् / न विज्ञानं नित्यं नानित्यम्, न विज्ञानं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते / अनेन सुभूते कारणेन मैत्रेयो बोधिसत्त्वो महासत्त्वः अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिरेभिरेव पदव्यञ्जनैरस्मिन्नेव पृथिवीप्रदेशे इमामेव प्रज्ञापारमितां भाषिष्यते //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - परिशुद्धा बतेयं भगवन् प्रज्ञापारमिता? भगवानाह - रूपविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता / एवं वेदनासंज्ञासंस्काराः / विज्ञानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता / रूपानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता / एवं वेदनासंज्ञासंस्काराः / विज्ञानानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता / आकाशविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता / रूपनिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता / एवं वेदनासंज्ञासंस्काराः / विज्ञाननिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता / आकाशप्रतिश्रुत्कावचनीयप्रव्याहारनिरुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता / सर्वोपलेपानुलेपधर्मानुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - सुलब्धा बत लाभास्तेषां भगवन् कुलपुत्राणां कुलदुहितॄणां च, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, प्रागेव य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / न तेषां चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति / न धन्धायितता भविष्यति, न ते विषमापरिहारेण कालं करिष्यन्ति / बहूनि चैषां देवतासहस्राणि पृष्ठतः पृष्ठतो ऽनुबद्धानि भविष्यन्ति / अष्टमीं चतुर्दशीं पञ्चदशीं च स धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र प्रज्ञापारमितां भाषिष्यते, तत्र तत्र बहुतरं पुण्यं प्रसविष्यति / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / बहूनि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर्वा देवतासहस्राणि (वैद्य 101) पृष्ठतः पृष्ठतो ऽनुबद्धानि भविष्यन्ति / बहूनि च देवतासहस्राणि तत्रागमिष्यन्ति सर्वाणि धर्मश्रवणार्थिकानि / तानि च रक्षावरणगुप्तिं संविधास्यन्ति तस्य धर्मभाणकस्य इमां प्रज्ञापारमितां भाषमाणस्य / तत्कस्य हेतोः? सदेवमानुषासुरस्य हि सुभूते लोकस्य प्रज्ञापारमिता अनुत्तरं रत्नम् / अतो ऽपि सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति / अपि तु खलु पुनः सुभूते बहवो ऽन्तराया भविष्यन्ति अस्या गम्भीरायाः प्रज्ञापारमिताया लिख्यमानाया उद्गृह्यमाणाया धार्यमाणाया वाच्यमानायाः पर्यवाप्यमानायाः प्रवर्त्यमानाया उपदिश्यमानाया उद्दिश्यमानायाः स्वाध्याय्यमानायाः /

तत्कस्य हेतोः? तथा हि सुभूते बहुप्रत्यर्थिकानि महारत्नानि भवन्ति / यथासारं च गुरुतरप्रत्यर्थिकानि भवन्ति / अनुत्तरं चेदं सुभूते महारत्नं लोकस्य यदुत प्रज्ञापारमिता / हिताय सुखाय प्रतिपन्ना लोकस्य / सर्वधर्माणामनुत्पादायानिरोधायासंक्लेशायाविनाशयोगेन प्रत्युपस्थिता / न च सुभूते प्रज्ञापारमिता कंचिद्धर्ममालीयते, न कंचिद्धर्मं संक्लिश्यते, न कंचिद्धर्मं परिगृह्णाति / तत्कस्य हेतोः? तथा हि सुभूते सर्वे ते धर्मा न संविद्यन्ते नोपलभ्यन्ते / अनुपलब्धितः सुभूते अनुपलिप्ता प्रज्ञापारमिता / अनुपलिप्तेति सुभूते इयं प्रज्ञापारमिता / तथा हि सुभूते रूपनिरुपलेपतया अनुपलिप्तेयं प्रज्ञापारमिता / एवं वेदनासंज्ञासंस्काराः / विज्ञाननिरुपलेपतया सुभूते अनुपलिप्तेयं प्रज्ञापारमिता / सचेदेवम् अपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, चरति प्रज्ञापारमितायाम् / सा खलु पुनरियं सुभूते प्रज्ञापारमिता न कस्यचिद्धर्मस्यावेशिका वा निवेशिका वा संदर्शिका वा निदर्शिका वा आवाहिका वा निर्वाहिका वा //

अथ खलु संबहुलानि देवपुत्रसहस्राणि अन्तरीक्षे किलकिलाप्रक्ष्वेडितेन चैलविक्षेपानकार्षुः, द्वितीयं बतेदं धर्मचक्रप्रवर्तनं जम्बूद्वीपे पश्याम इति चावोचन् / अथ खलु भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - नेदं सुभूते द्वितीयं धर्मचक्रप्रवर्तनं नापि कस्यचिद्धर्मस्य प्रवर्तनं वा निवर्तनं वा / एवमियं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - महापारमितेयं भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य, यस्यासङ्गता सर्वधर्मेषु, यो ऽसावनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो न च कंचिद्धर्ममभिसंबुध्यते, धर्मचक्रं च प्रवर्तयिष्यति, न च कंचिद्धर्मं संदर्शयिष्यति / तत्कस्य हेतोः? न हि कश्चिद्धर्मो य उपलभ्यते, यो वा धर्मः सूच्यते / नापि कश्चिद्धर्मं प्रवर्तयिष्यति / तत्कस्य हेतोः? अत्यन्तानभिनिर्वृत्ता हि भगवन् सर्वधर्माः / नापि कंचिद्धर्मं निवर्तयिष्यति / तत्कस्य हेतोः? आद्यनभिनिर्वृत्ता हि भगवन् सर्वधर्माः, प्रकृतिविविक्तत्वात्सर्वधर्माणाम् //

एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / न हि सुभूते शून्यता प्रवर्तते वा निवर्तते वा / नापि सुभूते आनिमित्तं प्रवर्तते वा निवर्तते वा / नापि सुभूते अप्रणिहितं प्रवर्तते वा निवर्तते वा / या सुभूते एवं देशना, इयं सा सर्वधर्माणां देशना / (वैद्य 102) नैव च केनचिद्देशिता, नापि केनचिच्छ्रुता, नापि केनचित्प्रतीच्छिता, नापि केनचित्साक्षात्कृता, नापि केनचित्साक्षात्क्रियते, नापि केनचित्साक्षात्करिष्यते / नाप्यनया धर्मदेशनया कश्चित्परिनिर्वृतो नापि परिनिर्वास्यति नापि परिनिर्वाति / नाप्यनया धर्मदेशनया कश्चिद्दक्षिणीयः कृतः //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - असत्पारमितेयं भगवन् आकाशसत्तामुपादाय / असमसमतापारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय / विविक्तपारमितेयं भगवन् अत्यन्तशून्यतामुपादाय / अनवमृद्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय / अपदपारमितेयं भगवन् अनामाशरीरतामुपादाय / अस्वभावपारमितेयं भगवन् अनागतिमगतिमुपादाय / अवचनपारमितेयं भगवन् सर्वधर्माविकल्पतामुपादाय / अनामपारमितेयं भगवन् स्कन्धानुपलब्धितामुपादाय / अगमनपारमितेयं भगवन् सर्वधर्मागमनतामुपादाय / असंहार्यपारमितेयं भगवन् सर्वधर्माग्राह्यतामुपादाय / अक्षयपारमितेयं भगवन् अक्षयधर्मयोगतामुपादाय / अनुत्पत्तिपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय / अकारकपारमितेयं भगवन् कारकानुपलब्धितामुपादाय / अजानकपारमितेयं भगवन् सर्वधर्माणामनात्मतामुपादाय / असंक्रान्तिपारमितेयं भगवन् च्युत्युपपत्त्यनुपत्तितामुपादाय / अविनयपारमितेयं भगवन् पूर्वान्तापरान्तप्रत्युत्पन्नार्थानुपलब्धितामुपादाय / स्वप्नप्रतिश्रुत्काप्रतिभासमरीचिमायापारमितेयं भगवन् अनुत्पादविज्ञापनतामुपादाय / असंक्लेशपारमितेयं भगवन् रागद्वेषमोहास्वभावतामुपादाय / अव्यवदानपारमितेयं भगवन् आश्रयानुपलब्धितामुपादाय / अनुपलेपपारमितेयं भगवन् आकाशानुपलेपतामुपादाय / अप्रपञ्चपारमितेयं भगवन् सर्वधर्ममननसमतिक्रमतामुपादाय / अमननपारमितेयं भगवन् अनिञ्जनतामुपादाय / अचलितपारमितेयं भगवन् धर्मधातुस्थितितामुपादाय /

विरागपारमितेयं भगवन् सर्वधर्मावितथतामुपादाय / असमुत्थानपारमितेयं भगवन् सर्वधर्मनिर्विकल्पतामुपादाय / शान्तपारमितेयं भगवन् सर्वधर्मनिमित्तानुपलब्धितामुपादाय / निर्दोषपारमितेयं भगवन् गुणपारमितामुपादाय / निःक्लेशपारमितेयं भगवन् परिकल्पासत्तामुपादाय / निःसत्त्वपारमितेयं भगवन् भूतकोटितामुपादाय / अप्रमाणपारमितेयं भगवन् सर्वधर्मसमुत्थानासमुत्थानतामुपादाय / अन्तद्वयाननुगमपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय / असंभिन्नपारमितेयं भगवन् सर्वधर्मासंभेदनतामुपादाय / अपरामृष्टपारमितेयं भगवन् सर्वश्रावकप्रत्येकबुद्धभूम्यस्पृहणतामुपादाय / अविकल्पपारमितेयं भगवन् विकल्पसमतामुपादाय / अप्रमेयपारमितेयं भगवन् अप्रमाणधर्मतामुपादाय / असङ्गपारमितेयं भगवन् सर्वधर्मासङ्गतामुपादाय / अनित्यपारमितेयं भगवन् सर्वधर्मासंस्कृततामुपादाय / दुःखपारमितेयं भगवन् आकाशसमधर्मतामुपादाय / शून्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय / अनात्मपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय / अलक्षणपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय (वैद्य 103) / सर्वशून्यतापारमितेयं भगवन् अनन्तापर्यन्ततामुपादाय / स्मृत्युपस्थानादिबोधिपक्षधर्मपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय / शून्यतानिमित्ताप्रणिहितपारमितेयं भगवन् त्रिविमोक्षमुखानुपलब्धितामुपादाय / अष्टविमोक्षपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय / नवानुपूर्वविहारपारमितेयं भगवन् प्रथमध्यानादीनामनुपलब्धितामुपादाय /

चतुःसत्यपारमितेयं भगवन् दुःखादीनामनुपलब्धितामुपादाय / दशपारमितेयं भगवन् दानादीनामनुपलब्धितामुपादाय / बलपारमितेयं भगवन् अनवमृद्यतामुपादाय / वैशारद्यपारमितेयं भगवन् अत्यन्तानवलीनतामुपादाय / प्रतिसंवित्पारमितेयं भगवन् सर्वज्ञतासङ्गाप्रतिघातितामुपादाय / सर्वबुद्धधर्मावेणिकपारमितेयं भगवन् गणनासमतिक्रमतामुपादाय / तथागततथतापारमितेयं भगवन् सर्वधर्मावितथतामुपादाय / स्वयंभूपारमितेयं भगवन् सर्वधर्मास्वभावतामुपादाय / सर्वज्ञज्ञानपारमितेयं भगवन् यदुत प्रज्ञापारमिता सर्वधर्मस्वभावसर्वाकारपरिज्ञानतामुपादायेति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां स्तुतिपरिवर्तो नाम नवमः // asp_10: धारणगुणपरिकीर्तनपरिवर्तो दशमः / अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - पूर्वजिनकृताधिकारास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति बहुबुद्धावरोपितकुशलमूलाः, कल्याणमित्रपरिगृहीताश्च भविष्यन्ति, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति / कः पुनर्वादो य एनामेवं गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते / न ते अवरमात्रकेण कुशलमूलेन समन्वागता भविष्यन्ति / बहुबुद्धपर्युपासितास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति / परिपृष्टाः परिप्रश्नीकृताश्च ते बुद्धा भगवन्तो भविष्यन्ति कुलपुत्रैः कुलदुहितृभिश्चैनामेव प्रज्ञापारमिताम् / श्रुता चेयं पौर्वकाणामपि तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्, य एनां प्रज्ञापारमितामेतर्ह्यपि श्रोष्यन्ति / श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते / बहुबुद्धावरोपितकुशलमूलास्ते कुलपुत्राः कुलदुहितरश्च वेदितव्याः, य एतस्यामेव गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते //

अथ खल्वायुष्मान् शारिपुत्रः शक्रस्य देवानामिन्द्रस्य इममेवंरूपं चैतसैव चेतःपरिवितर्कमाज्ञाय भगवन्तमेतदवोचत् - यो भगवन् इहैवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायां कुलपुत्रो वा कुलदुहिता वा अभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य एनां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति, तथत्वाय शिक्षिष्यते, तथत्वाय प्रतिपत्स्यते, तथत्वाय योगमापत्स्यते, यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथा स धारयितव्यः / तत्कस्य हेतोः? गम्भीरा भगवन् इयं प्रज्ञापारमिता / न हि भगवन् परीत्तकुशलमूलेनापरिपृच्छकजातीयेन अश्रुत्वा बुद्धानां भगवतां संमुखीभावतः पूर्वमचरितवता इहैवेयमेवं गम्भीरा प्रज्ञापारमिता अधिमोक्तुं शक्या / ये पुनरनधिमुच्य एनामनवबुध्यमानाः प्रतिक्षेप्तव्यां मंस्यन्ते, पूर्वान्ततोऽपि भगवंस्तैः कुलपुत्रैः कुलदुहितृभिश्चेयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता / तत्कस्य हेतोः? यथापि नाम परीत्तत्वात्कुशलमूलानाम् / न हि भगवन् अचरितवद्भिः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता शक्या अधिमोक्तुम् / येऽपि च प्रतिक्षेप्स्यन्ति एनां गम्भीरां प्रज्ञापारमितां भाष्यमाणाम्, तेऽप्येवं वेदितव्याः - पूर्वान्ततोऽप्येभिरियं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता / तथा ह्येषामस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नास्ति श्रद्धाः, नास्ति क्षान्तिर्नास्ति रुचिर्नास्ति च्छन्दो नास्ति वीर्यं (वैद्य 105) नास्त्यप्रमादो नास्त्यधिमुक्तिः, न चैभिः पूर्वं बुद्धा भगवन्तो बुद्धश्रावका वा परिपृष्टाः, न च परिप्रश्नीकृता इति //

अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - गम्भीरा आर्य शारिपुत्र प्रज्ञापारमिता / किमत्राश्चर्यं स्याद्यदस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पूर्वमचरितावी बोधिसत्त्वो महासत्त्वो नाधिमुच्येत? अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - नमस्करोमि भगवन् प्रज्ञापारमितायै / सर्वज्ञज्ञानस्य स भगवन्नमस्कारं करोति, यः प्रज्ञापारमितायै नमस्कारं करोति / भगवानाह - एवमेव कौशिक, एवमेतत् / सर्वज्ञज्ञानस्य स कौशिक नमस्कारं करोति यः प्रज्ञापारमितायै नमस्कारं करोति / तत्कस्य हेतोः? अतोनिर्जाता हि कौशिक बुद्धानां भगवतां सर्वज्ञता / सर्वज्ञज्ञाननिर्जाता च पुनः प्रज्ञापारमिता प्रभाव्यते / एवमस्यां प्रज्ञापारमितायां चरितव्यम् / एवमस्यां प्रज्ञापारमितायां स्थातव्यम् / एवमस्यां प्रज्ञापारमितायां प्रतिपत्तव्यम् / एवमस्यां प्रज्ञापारमितायां योगमापत्तव्यम् //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कथं भगवन् प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति? कथं प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां योगमापद्यते? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - साधु साधु कौशिक / साधु खलु पुनस्त्वं कौशिक यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेनमर्थं परिप्रष्टव्यं परिप्रश्नीकर्तव्यं मन्यसे / इदमपि ते कौशिक बुद्धानुभावेन प्रतिभानमुत्पन्नम् / इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, रूपमिति न तिष्ठति / यतः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, रूपमिति न तिष्ठति, एवं रूपे योगमापद्यते / एवं वेदनायां संज्ञायां संस्कारेषु / विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति / यतः कौशिक बोधिसत्त्वो महासत्त्वो विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते / रूपमिति कौशिक न योजयति, यतः कौशिक रूपमिति न योजयति, एवं रूपमिति न तिष्ठति / एवं वेदनासंज्ञासंस्काराः / विज्ञानमिति कौशिक न योजयति, यतः कौशिक विज्ञानमिति न योजयति, एवं विज्ञानमिति न तिष्ठति / एवं प्रज्ञापारमितायां स्थितो भवति / एवं योगमापद्यते //

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / दुरवगाहा भगवन् प्रज्ञापारमिता / दुरुद्ग्रहा भगवन् प्रज्ञापारमिता / अप्रमाणा भगवन् प्रज्ञापारमिता / भगवानाह - एवमेतच्छारिपुत्र, एवमेतत् / रूपं गम्भीरमिति शारिपुत्र न तिष्ठति / यतः शारिपुत्र रूपं गम्भीरमिति न तिष्ठति, एवं रूपे योगमापद्यते / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शारिपुत्र गम्भीरमिति न तिष्ठति / यतः शारिपुत्र विज्ञानं गम्भीरमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते / रूपं शारिपुत्र गम्भीरमिति न योगमापद्यते (वैद्य 106) / यतः शारिपुत्र रूपं गम्भीरमिति न योगमापद्यते, एवं रूपं गम्भीरमिति न तिष्ठति / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शारिपुत्र गम्भीरमिति न योगमापद्यते / यतः शारिपुत्र विज्ञानं गम्भीरमिति न योगमापद्यते, एवं विज्ञानं गम्भीरमिति न तिष्ठति //

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता अविनिवर्तनीयस्य व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या / तत्कस्य हेतोः? स हि भगवन् न काङ्क्षिष्यति, न विचिकित्सिष्यति न धंधायिष्यति न विवदिष्यति //

अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - सचेत्पुनरार्य शारिपुत्र अव्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत, को दोषो भवेत्? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत् - दूरतः स कौशिक बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः / चिरयानसंप्रस्थितः परिपक्वकुशलमूलः स कौशिक बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽव्याकृत इमां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय / श्रुत्वा च नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते / न चेदानीमसौ चिरेण व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेः / आसन्नं तस्य व्याकरणं वेदितव्यम् / स बोधिसत्त्वो महासत्त्वो नैकं वा द्वौ वा त्रीन् वा तथागतानर्हतः सम्यक्संबुद्धानतिक्रमिष्यति, ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ / अपि तु तानारागयिष्यति, आरागयित्वा तांस्तथागतानर्हतः सम्यक्संबुद्धान्न विरागयिष्यति / तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यति, तथागतदर्शनाच्च ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ / यावच्च व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ, तावदवन्ध्यं करिष्यति तथागतदर्शनवन्दनपर्युपासनोपस्थानं यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति //

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - दूरतः स भगवन् बोधिसत्त्वो महासत्त्व आगतो भविष्यति / चिरयानसंप्रस्थितः / परिपक्वकुशलमूलो हि भगवन् स बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय / कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति //

अथ खलु भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवमेतत् / दूरतः स शारिपुत्र बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः / चिरयानसंप्रस्थितः / परिपक्वकुशलमूलो हि स शारिपुत्र बोधिसत्त्वो महासत्त्वो भविष्यति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय / कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति //

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - प्रतिभाति मे भगवन्, प्रतिभाति मे सुगत औपम्योदाहरणम् / तद्यथापि नाम भगवन् योऽयं बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा स्वप्नान्तरगतोऽपि बोधिमण्डे निषीदेत्, वेदितव्यमेतद्भगवन्, अयं बोधिसत्त्वो (वैद्य 107) महासत्त्व आसन्नोऽनुत्तरायां सम्यक्संबोधेरभिसंबोधायेति / एवमेव भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, कः पुनर्वादः श्रुत्वा चोद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुं देशयितुं उपदेष्टुं उद्देष्टुं स्वाध्यापनाय / वेदितव्यमेतद्भगवन् दूरतोऽयं बोधिसत्त्वयानिकः पुद्गल आगतश्चिरयानसंप्रस्थितः / आसन्नोऽयं बोधिसत्त्वयानिकः पुद्गलो व्याकरणस्य / व्याकरिष्यन्त्येनं बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वमनुत्तरायाः सम्यक्संबोधेरभिसंबोधायेति / चिरयानसंप्रस्थितः परिपक्वकुशलमूलो हि स बोधिसत्त्वो महासत्त्वो वेदितव्यः, यस्येयं गम्भीरा प्रज्ञापारमिता उपपत्स्यतेऽन्तशः श्रवणायापि / कः पुनर्वादोऽत्र भगवन् यः कुलपुत्रो वा कुलदुहिता वा एनां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति / तत्कस्य हेतोः? भूयस्त्वेन हि भगवन् धर्मव्यसनसंवर्तनीयैः सत्त्वाः कर्मोपचयैरविहिताः, तेषां भूयस्त्वेन अस्यां गम्भीरायां प्रज्ञापारमितायां चित्तानि प्रतिकूलानि भविष्यन्ति, चित्तानि परिवेल्लयिष्यन्ति /

न ह्यनुपचितकुशलमूलाः सत्त्वा अस्यां भूयस्त्वेन भूतकोट्यां प्रस्कन्दन्ति प्रसीदन्ति / उपचितकुशलमूलाः खलु पुनस्ते भगवन् सूपचितकुशलमूलाः कुलपुत्राः कुलदुहितरश्च वेदितव्याः, येषामस्यां भूतकोट्यां चित्तं प्रस्कन्दति प्रसीदति / तद्यथापि नाम भगवन् पुरुषो योजनशतिकादटवीकान्ताराद् द्वियोजनशतिकाद्वा त्रियोजनशतिकाद्वा चतुर्योजनशतिकाद्वा पञ्चयोजनशतिकाद्वा दशयोजनशतिकाद्वा अटवीकान्तारान्निष्क्रामेत् / स निष्क्रम्य पश्येत्पूर्वनिमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामसंपदो वा वनसंपदो वा, ततोऽन्यापि व निमित्तानि, यैर्निमित्तैर्ग्रामो वा नगरं वा निगमो व सूच्येत / तस्य तानि पूर्वनिमित्तानि दृष्टैवं भवति - यथेमानि पूर्वनिमित्तानि दृश्यन्ते, तथा आसन्नो मे ग्रामो वा नगरं वा निगमो वा इति / स आश्वासप्राप्तो भवति / नास्य भूयश्चोरमनसिकारो भवति / एवमेव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते, वेदितव्यं तेन भगवन् अभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेः, नचिरेण व्याकरणं प्रतिलप्स्येऽनुत्तरायाः सम्यक्संबोधेरिति / नापि तेनोत्रसितव्यं न संत्रसितव्यं न भेतव्यं श्रावकभूमेर्वा प्रत्येकबुद्धभूमेर्वा / तत्कस्य हेतोः? तथा हि अस्येमानि पूर्वनिमित्तानि संदृश्यन्ते यदुतेमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय / एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवमेतत् / प्रतिभातु ते शारिपुत्र पुनरप्येतत्स्थानम्, यथापि नामैतद्बुद्धानुभावेन व्याहरसि व्याहरिष्यसि च //

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - तद्यथापि नाम भगवन् इह कश्चिदेव पुरुषो महासमुद्रं द्रष्टुकामो भवेत् / स गच्छेन्महासमुद्रं दर्शनाय / यथा यथा च स गच्छेन्महासमुद्रं दर्शनाय, तथा तथा सचेत्पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा (वैद्य 108) पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे तावदितो महासमुद्र इति / सचेन्न भूयः पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यम् - अभ्यासन्न इतो महासमुद्र इति / तत्कस्य हेतोः? अनुपूर्वनिम्नो हि महासमुद्रः, न महासमुद्रस्याभ्यन्तरे कश्चित्स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वेति / किंचापि स न महासमुद्रं साक्षात्पश्यति चक्षुषा, अथ च पुनः स निष्ठां गच्छति - अभ्यासन्नोऽस्मि महासमुद्रस्य, नेतो भूयो दूरे महासमुद्र इति / एवमेव भगवन् बोधिसत्त्वेन महासत्त्वेनेमां गम्भीरां प्रज्ञापारमितां शृण्वता वेदितव्यम् - किंचाप्यहं तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्न संमुखं व्याकृतः, अथ च पुनरभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य / तत्कस्य हेतोः? तथा ह्येनां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणायेति / तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु नानावृक्षेषु नानापल्लवाः प्रादुर्भवन्ति / पल्लवेषु प्रादुर्भूतेष्वात्तमनस्का भवन्ति जाम्बूद्वीपका मनुष्याः तानि पूर्वनिमित्तानि वनेषु दृष्ट्वा नचिराद्वनपुष्पाणि च फलानि च प्रादुर्भविष्यन्ति / तत्कस्य हेतो? तथा हि इमानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्त इति /

एवमेव भगवन् यदा बोधिसत्त्वो महासत्त्वो लभते इमां गम्भीरां प्रज्ञापारमितां दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, उपवर्तते तस्येयं गम्भीरा प्रज्ञापारमिता / तदा परिपक्वकुशलः स बोधिसत्त्वो महासत्त्वो वेदितव्यः - तेनैव पूर्वकेण कुशलमूलेनोपनामितेयं तस्मै गम्भीरा प्रज्ञापारमिता / तत्र या देवताः पूर्वबुद्धदर्शिन्यः, ताः प्रमुदिता भवन्ति प्रीतिसौमनस्यजाताः - पौर्वकाणामपि बोधिसत्त्वानां महासत्त्वानामिमान्येव पूर्वनिमित्तान्यभूवन्ननुत्तरायाः सम्यक्संबोधेर्व्याकरणाय / नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति / तद्यथापि नाम भगवन् स्त्री गुर्विणी गुरुगर्भा / तस्या यदा कायो वेष्टते, अधिमात्रं वा कायक्लमथो जायते, न च सा चंक्रमणशीला भवति / अल्पाहारा च भवति / अल्पस्त्यानमिद्धा च भवति / अल्पभाष्या च भवति / अल्पस्थामा च भवति / वेदनाबहुला च भवति / क्रन्दन्ती च बहुलं विहरति / न च संवासशीला भवति / पौर्वकेणायोनिशोमनसिकारेणासेवितेन निषेवितेन भावितेन बहुलीकृतेन इमामेवंरूपां कायेन वेदनां प्रत्यनुभवामीति, तदा वेदितव्यमिदं भगवन् - यथास्याः पूर्वनिमित्तानि संदृश्यन्ते, तथा नचिरेण बतेयं स्त्री प्रसोष्यते इति /

एवमेव भगवन् यदा बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, शृण्वतश्चैनां रमते चित्तमस्यां प्रज्ञापारमितायाम्, अर्थिकतया चोत्पद्यते, तदा वेदितव्यमिदं भगवन् - नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति //

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - साधु साधु शारिपुत्र / इदमपि ते शारिपुत्र बुद्धानुभावेन प्रतिभाति / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत्सुपरिगृहीताश्च सुपरीत्ताश्च सुपरीन्दिताश्च इमे बोधिसत्त्वा महासत्त्वास्तथागतेनार्हता सम्यक्संबुद्धेन / भगवानाह - तथा हि ते सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय (वैद्य 109) प्रतिपन्ना बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च / अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः / अनुत्तरां सम्यक्संबोधिमभिसंबुध्यानुत्तरं धर्मं देशयितुकामाः //

सुभूतिराह - इह भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कथं प्रज्ञापारमिताभावना परिपूरिं गच्छति? भगवानाह - यदि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम् / एवं न वेदनाया न संज्ञाया न संस्काराणाम् / न विज्ञानस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम् / न रूपस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम् / एवं न वेदनाया न संज्ञाया न संस्काराणाम् / न विज्ञानस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम् / धर्मं न समनुपश्यति, चरति प्रज्ञापारमितायाम् / अधर्ममपि न समनुपश्यति, चरति प्रज्ञापारमितायाम् / एवमस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति //

सुभूतिराह - अचिन्त्यमिदं भगवन् देश्यते / भगवानाह - रूपं हि सुभूते अचिन्त्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं हि सुभूते अचिन्त्यम् / रूपमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम् / एवं वेदनासंस्काराः / विज्ञानमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम् //

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - कोऽत्र भगवन् अधिमोक्षयिष्यति एवंगम्भीरायां प्रज्ञापारमितायाम्? भगवानाह - यः शारिपुत्र चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति प्रज्ञापारमितायाम्, सोऽत्र प्रज्ञापारमितायामधिमोक्षयिष्यति / आयुष्मान् शारिपुत्र आह - कथं भगवन् चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति, कथं चरितावीति नामधेयं लभते? भगवानाह - इह शारिपुत्र बोधिसत्त्वो महासत्त्वो बलानि न कल्पयति, वैशारद्यानि न कल्पयति, बुद्धधर्मानपि न कल्पयति, सर्वज्ञतामपि न कल्पयति / तत्कस्य हेतोः? बलानि हि शारिपुत्र अचिन्त्यानि, वैशारद्यान्यप्यचिन्त्यानि, बुद्धधर्मा अप्यचिन्त्याः सर्वज्ञताप्यचिन्त्या, सर्वधर्मा अप्यचिन्त्याः / एवं चरितावी शारिपुत्र बोधिसत्त्वो महासत्त्वो न क्वचिच्चरति, चरति प्रज्ञापारमितायाम् / एवं स चरितावीत्युच्यते, चरितावीति नामधेयं लभते //

अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / रत्नराशिर्भगवन् प्रज्ञापारमिता / शुद्धराशिर्भगवन् प्रज्ञापारमिता आकाशशुद्धतामुपादाय / आश्चर्यं भगवन् स्याद्यदेनां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च बहवोऽन्तराया उत्पद्येरन् / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवमेतत् / बहवः सुभूते अन्तराया इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च (वैद्य 110) भविष्यति / तत्कस्य हेतोः? तथा हि सुभूते इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यतेऽन्तरायं कर्तुम् / तत्र शीघ्रं लिखता सचेन्मासेन वा मासद्वयेन वा मासत्रयेण वा लिख्येत, लिखितव्यैव भवेत् / सचेत्संवत्सरेण ततो वापरेण लिखिता भवेत्, तथापि लिखितव्यैव खलु पुनः सुभूते भवति तेन कुलपुत्रेण कुलदुहित्रा वा इयं प्रज्ञापारमिता / तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति यन्महारत्नानां बहवोऽन्तराया उत्पद्यन्ते //

एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - इह भगवन् प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च मारः पापीयान् बहुप्रकारमौत्सुक्यमापत्स्यते, अन्तरायकर्मण उद्योगं च करिष्यति / भगवानाह - किंचापि सुभूते मारः पापीयानुद्योगमापत्स्यते अन्तरायकर्मणः अस्यां प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च, अथ च पुनर्न प्रसहिष्यतेऽच्छिद्रसमादानस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कर्तुम् //

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - यदा भगवन् इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यते अन्तरायकरणाय, तदा कथमेतर्हि भगवन् कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? कस्य चानुभावेन भगवंस्ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - बुद्धानां शारिपुत्र भगवतां तथागतानामर्हतां सम्यक्संबुद्धानामनुभावेन ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते / तत्कस्य हेतोः? एषा हि शारिपुत्र धर्माणां धर्मता, ये तेऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते इमां प्रज्ञापारमितां समन्वाहरिष्यन्ति परिग्रहीष्यन्ति भाष्यमाणामुद्गृह्यमाणां धार्यमाणां वाच्यमानां पर्यवाप्यमानां प्रवर्त्यमानां देश्यमानामुपदिश्यमानामुद्दिश्यमानां स्वाध्याय्यमानां लिख्यमानां च / ये चैनां प्रज्ञापारमितां कुलपुत्राः कुलदुहितरश्चोद्ग्रहीष्यन्ति (वैद्य 111) धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, तांश्च ते बुद्धा भगवन्तः समन्वाहरिष्यन्ति परिग्रहीष्यन्ति च / न हि शारिपुत्र बुद्धसमन्वाहृतानां बुद्धपरिगृहीतानां च कुलपुत्राणां कुलदुहितॄणां च शक्यमन्तरायं कर्तुम् //

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - येऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, सर्वे ते भगवन् बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, एवं च संपादयिष्यन्ति //

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवमेतत् / सर्वे ते शारिपुत्र बोधिसत्त्वा महासत्त्वा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते / ज्ञातास्ते शारिपुत्र तथागतेन / अधिष्ठितास्ते शारिपुत्र तथागतेन / दृष्टास्ते शारिपुत्र तथागतेन / व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा / ये ते बोधिसत्त्वा महासत्त्वा इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, श्रुत्वो उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षमाणास्तथत्वाय प्रतिपद्यमानास्तथत्वाय योगमापद्यमाना आसन्नीभविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः, तथत्वाय स्थास्यन्त्यनुत्तरायै सम्यक्संबोधये /

येऽपि शारिपुत्र एनां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति, न च तथत्वाय शिक्षिष्यन्ते, न च तथत्वाय प्रतिपत्स्यन्ते, न च तथत्वाय योगमापत्स्यन्ते, ते न तथत्वाय शिक्षमाणा न तथत्वाय प्रतिपद्यमाना न तथत्वाय योगमापद्यमाना न तथतायां स्थास्यन्त्यनुत्तरायां सम्यक्संबोधौ, तेऽपि शारिपुत्र तथागतेन ज्ञाताः / तेऽपि तथागतेनाधिष्ठिताः / तेऽपि तथागतेन दृष्टाः / तेऽपि तथागतेन व्यवलोकिता बुद्धचक्षुषा / तेषामपि शारिपुत्र महार्थिको महानुशंसो महाफलो महाविपाकश्च स परिश्रमः परिस्पन्दश्च भविष्यति / तत्कस्य हेतोः? तथा हि प्रज्ञापारमिता परमार्थोपसंहिता सर्वधर्माणां यथाभूतप्रतिवेधाय प्रत्युपस्थिता सर्वसत्त्वानाम् / (वैद्य 112) इमे खलु पुनः शारिपुत्र षट्पारमिताप्रतिसंयुक्ताः सूत्रान्तास्तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यन्ति, दक्षिणापथात्पुनरेव वर्तन्यां प्रचरिष्यन्ति, वर्तन्याः पुनरुत्तरपथे प्रचरिष्यन्ति / नवमण्डप्राप्ते धर्मविनये सद्धर्मस्यान्तर्धानकालसमये समन्वाहृतास्ते शारिपुत्र तथागतेन कुलपुत्राः कुलदुहितरश्च / तस्मिन् काले य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति, वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखित्वा पुस्तकगतामपि कृत्वा धारयिष्यन्ति, ज्ञातास्ते शारिपुत्र तथागतेन / अधिष्ठितास्ते शारिपुत्र तथागतेन / दृष्टास्ते शारिपुत्र तथागतेन / व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा //

शारिपुत्र आह - इयमपि भगवन् प्रज्ञापारमिता एवंगम्भीरा पश्चिमे काले पश्चिमे समये वैस्तारिकी भविष्यत्युत्तरस्यां दिशि उत्तरे दिग्भागे? भगवानाह - ये तत्र शारिपुत्र उत्तरस्यां दिश्युत्तरे दिग्भागे इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अत्र प्रज्ञापारमितायां योगमापत्स्यन्ते, ते वैस्तारिकीं करिष्यति / चिरयानसंप्रस्थितास्ते शारिपुत्र बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इमां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते //

शारिपुत्र आह - कियन्तस्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति उत्तरस्यां दिशि उत्तरे दिग्भागे, बहव उताहो अल्पकाः? य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते? भगवानाह - बहवस्ते शारिपुत्र सुबहवः उत्तरापथे उत्तरस्यां दिश्युत्तरे दिग्भागे बोधिसत्त्वा महासत्त्वा भविष्यन्ति / किंचापि शारिपुत्र बहवस्ते, तेभ्योऽपि बहुभ्योऽल्पकास्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, प्रज्ञापारमितायां च भाष्यमाणायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते, चिरयानसंप्रस्थितास्ते बोधिसत्त्वा महासत्त्वा वेदितव्याः / अनुबद्धास्तैः पौर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धाः, परिपृष्टाः परिपृच्छिताः परिप्रश्नीकृताः / पूजिताश्च तैः पौर्वकास्तथागता अर्हन्त सम्यक्संबुद्धाः कुलपुत्रैः कुलदुहितृभिश्च बोधिसत्त्वयानिकैः पुद्गलैः / शीलेषु च ते परिपूर्णकारिणो भविष्यन्ति, बहुजनस्य च तेऽर्थं करिष्यन्ति, यदुत इमामेवानुत्तरां सम्यक्संबोधिमारभ्य /

तत्कस्य हेतोः? तथा हि तेषां (वैद्य 113) कुलपुत्राणां कुलदुहितॄणां च मयैव सर्वज्ञताप्रतिसंयुक्तैव कथा कृता / तेषां जातिव्यतिवृत्तानामपि एत एव सर्वज्ञताप्रतिसंयुक्ताः प्रज्ञापारमिताप्रतिसंयुक्ताः समुदाचारा भविष्यन्ति / एनामेव च ते कथां करिष्यन्ति, एनामेव च कथामभिनन्दिष्यन्ति, यदुत अनुत्तरां सम्यक्संबोधिमारभ्य / तेषु च सुस्थिताः समाहिताश्च भविष्यन्ति अस्यां प्रज्ञापारमितायाम् / मारेणापि ते न शक्या भेदयितुम्, कुतः पुनरन्यैः सत्त्वैः, यदुत च्छन्दतो वा मन्त्रतो वा / तत्कस्य हेतोः? यथापि नाम तद्दृढस्थामत्वादनुत्तरायां सम्यक्संबोधौ / ते च कुलपुत्राः कुलदुहितरश्च श्रुत्वा एनां प्रज्ञापारमितामुदारं प्रीतिप्रामोद्यप्रसादं प्रतिलप्स्यन्ते / बहुजनस्य च ते कुशलमूलान्यवरोपयिष्यन्ति यदुतानुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? एवं हि तैः कुलपुत्रैः कुलदुहितृभिश्च ममान्तिके संमुखं वाग्भाषिता - बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो वयमनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति /

तत्कस्य हेतोः? अनुमोदितं हि शारिपुत्र मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां च चित्तेन चित्तं व्यवलोक्य यैरियं वाग्भाषिता - बोधाय चरन्तो वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः, संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति / एवं च ते कुलपुत्राः कुलदुहितरश्च उदाराधिमुक्तिका भविष्यन्ति, यदन्यान्यपि ते बुद्धक्षेत्राण्यध्यालम्बितव्यानि मंस्यन्ते / यत्र संमुखीभूतास्तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयिष्यन्ति, तत्र संमुखीभूतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्पुनरेवैनां गम्भीरां प्रज्ञापारमितां विस्तरेण श्रोष्यन्ति / तेष्वपि ते बुद्धक्षेत्रेषु बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति संप्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति //

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावदिदं तथागतेनार्हता सम्यक्संबुद्धेन अतीतानागतप्रत्युत्पन्नेषु धर्मेषु नास्ति किंचिददृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा / न स कश्चिद्धर्मो यो न ज्ञातो न स काचिच्चर्या सत्त्वानां या न विज्ञाता, यत्र हि नाम अनागतानामपि बोधिसत्त्वानां महासत्त्वानां चर्यां ज्ञाता बोधिच्छन्दिकानामध्याशयसंपन्नानामारब्धवीर्याणाम् / (वैद्य 114) ये तस्मिन् काले इमां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, ये च तस्मिन् काले आसां षण्णां पारमितानां कृतशः सर्वसत्त्वानामर्थाय उद्योगमापद्य अन्वेषिष्यन्ते पर्येषिष्यन्ते, गवेषिष्यन्ते, तेषां च कुलपुत्रानां कृलदुहितॄणां च अन्वेषमाणानां पर्येषमाणानां केचिद्गवेषमाणा बोधिसत्त्वा लप्स्यन्ते, केचिन्न लप्स्यन्ते, केचिदगवेषयन्तोऽपि लप्स्यन्ते एनां गम्भीरां प्रज्ञापारमिताम् / किमत्र भगवन् कारणम्? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - एवमेतच्छारिपुत्र, एवमेतत् / नास्ति किंचित्तथागतस्य अतीतानागतप्रत्युत्पन्नेषु धर्मेष्वदृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा / तस्मिन् खलु पुनः शारिपुत्र काले तस्मिन् समये केचिद्बोधिसत्त्वा मार्गयमाणा पर्येषमाणा गवेषमाणा अपि लप्स्यन्ते इमां प्रज्ञापारमिताम् / केचिद्बोधिसत्त्वा अमार्गयमाणा अपर्येषमाणा अगवेषयन्तोऽपि लप्स्यन्ते / तत्कस्य हेतोः? तथा हि तैर्बोधिसत्त्वैर्महासत्त्वैरियं प्रज्ञापारमिता पूर्वान्ततोऽपि अनिक्षिप्तधुरैर्मार्गिता च पर्यन्विष्टा च /

ते तेनैव पूर्वकेण कुशलमूलच्छन्देन एनां प्रज्ञापारमिताममार्गयन्तोऽपि अपर्येषमाणा अपि अगवेषयन्तोऽपि लप्स्यन्ते / यान्यपि च ततोऽन्यान्यपि सूत्राणि एनामेव प्रज्ञापारमितामभिवदन्ति, तानि चैषां स्वयमेवोपगमिष्यन्ति उपपत्स्यन्ते उपनंस्यन्ते च / तत्कस्य हेतोः? एवमेतच्छारिपुत्र भवति - य एनां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वोऽनिक्षिप्तधुरो मार्गयति च पर्येषते च, स जातिव्यतिवृत्तोऽपि जन्मान्तरव्यतिवृत्तोऽपि एनां प्रज्ञापारमितां लप्स्यते / ततोऽन्यानि च सूत्राणि प्रज्ञापारमिताप्रतिसंयुक्तानि तस्य स्वयमेवोपगमिष्यन्ति, उपपत्स्यन्ते उपनंस्यन्ते चेति //

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - इमे एव केवलं भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च षट्पारमिताप्रतिसंयुक्ताः सूत्रान्ता उपपत्स्यन्ते उपनंस्यन्ते, नान्ये? भगवानाह - ये चान्येऽपि शारिपुत्र गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति, तेऽपि तेषां कुलपुत्राणां कुलदुहितॄणां च स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते च / तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति - ये बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति प्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति, स्वयं च तत्र शिक्षिष्यन्ते, तेषां शारिपुत्र जातिव्यतिवृत्तानामपि इमे गम्भीरा गम्भीरा अनुपलम्भप्रतिसंयुक्ताः शून्यताप्रतिसंयुक्ताः षट्पारमिताप्रतिसंयुक्ताश्च सूत्रान्ताः स्वयमेवोपगमिष्यन्ति, स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते चेति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः //

asp_11: मारकर्मपरिवर्त एकादशः / अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गुणा इमे भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च भगवता परिकीर्तिताः / केचित्पुनर्भगवंस्तेषामन्तराया उत्पत्स्यन्ते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - बहूनि सुभूते तेषां मारकर्माण्यन्तरायकराण्युत्पस्यन्ते / सुभूतिराह - कियद्रूपाणि भगवंस्तेषां बहूनि मारकर्माण्यन्तरायकराण्युत्पत्स्यन्ते? भगवानाह - तेषां सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषमाणानां चिरेण प्रतिभानमुत्पत्स्यते / इदं सुभूते प्रथमं मारकर्म वेदितव्यम् / तद् अपि च प्रतिभानं जायमानमेव विक्षेप्स्यते / इदम् अपि सुभूते मारकर्म वेदितव्यम् / ते विजृम्भमाणा हसन्त उच्चग्घयन्तो लिखिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / विक्षिप्तचित्ताः पर्यवाप्स्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / अन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / स्मृतिं न प्रतिलप्स्यन्ते / इदम् अपि सुभूते मारकर्म वेदितव्यम् / परस्परमुपहसन्तो लिखिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / परस्परमुच्चग्घयमाना लिखिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / विक्षिप्तचक्षुषो लिखिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / लिखतामन्योन्यं विसामग्री भविष्यति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / न वयमत्र गाधं नास्वादं लभामहे इत्युत्थायासनात्प्रक्रमिष्यन्ति / इदम् अपि सुभूते मारकर्म वेदितव्यम् / न वयमत्र व्याकृताः प्रज्ञापारमितायामित्यप्रसन्नचित्ता उत्थायासनात्प्रक्रमिष्यन्ति / इदम् अपि सुभूते मारकर्म

वेदितव्यम् / न नो ऽत्र ग्रामस्य वा नगरस्य वा निगमस्य वा नामधेयं परिगृहीतं यत्र नो जन्म, न नो ऽत्र नाम गोत्रं वा गृहीतम्, न मातापित्रोर्नाम गोत्रं वा गृहीतम्, नापि कुलस्य यत्र नो जन्मेति, ते प्रज्ञापारमितां न श्रोतव्यां मंस्यन्ते, ततो ऽपक्रमितव्यं मंस्यन्ते / यथा यथा च अपक्रमिष्यन्ति, तैर्यावद्भिश्चित्तोत्पादैस्तथा तथा तावतः कल्पान् संसारस्य पुनः पुनः परिग्रहीष्यन्ति, यत्र तैः पुनरेव योगमापत्तव्यं भविष्यति / तत्कस्मात्? इमां हि सुभूते प्रज्ञापारमितामशृण्वन्तो बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु न निर्जायन्ते / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / पुनरपरं सुभूते बोधिसत्त्वयानिकाः पुद्गला इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां विवर्ज्य उत्सृज्य ये ते सूत्रान्ता नैव सर्वज्ञज्ञानस्याहारिकास्तान् पर्येषितव्यान् मंस्यन्ते / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / यथा खलु पुनः सुभूते न लौकिकलोकोत्तरेषु शिक्षितुकामा न लौकिकलोकोत्तरेषु धर्मेषु निर्यातुकामा इह प्रज्ञापारमितायां न शिक्षन्ते / प्रज्ञापारमितायामशिक्षमाणा न लौकिकलोकोत्तरेषु धर्मेषु निर्यान्ति / एवं ते परीत्तबुद्धयो लौकिकलोकोत्तराणां यथाभूतपरिज्ञाया मूलं प्रज्ञापारमितां विवर्ज्य उत्सृज्य प्रशाखामध्यालम्बितव्यां मंस्यन्ते / तद्यथापि नाम सुभूते कुक्कुरः स्वामिनो ऽन्तिकात्पिण्डांश्छोरयित्वा कर्मकरस्यान्तिकात्कवलं पर्येषितव्यं मन्येत, एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वयानिकाः, पुद्गलाः, ये इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्य मूलं छोरयित्वा शाखापत्रपलालभूते श्रावकप्रत्येकबुद्धयाने

(वैद्य 116) सारं वृद्धत्वं पर्येषितव्यं मंस्यन्ते / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / तत्कस्य हेतोः? न हि ते ऽल्पबुद्धयो ज्ञास्यन्ति - प्रज्ञापारमिता आहारिका सर्वज्ञज्ञानस्येति / ते प्रज्ञापारमितां विवर्ज्य उत्सृज्य छोरयित्वा ततो ऽन्ये सूत्रान्ता ये श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तानधिकतरं पर्यवाप्तव्यान् मंस्यन्ते / शाखापत्रपलालोपमाः प्रतिपन्नास्ते तथारूपा बोधिसत्त्वा वेदितव्याः / तत्कस्य हेतोः? न हि सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यं यथा श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते / कथं च सुभूते श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते? तेषां सुभूते एवं भवति - एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्यामः, इत्यात्मदमशमथपरिनिर्वाणाय सर्वकुशलमूलाभिसंस्कारप्रयोगानारभन्ते / न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम् / अपि तु खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम् - आत्मानं च तथतायां स्थापयिष्यामि सर्वलोकानुग्रहाय, सर्वसत्त्वान् अपि तथतायां स्थापयिष्यामि, अप्रमेयं सत्त्वधातुं परिनिर्वापयिष्यामीति / सर्वकुशलमूलाभिसंस्कारप्रयोगा बोधिसत्त्वेन महासत्त्वेनैवमारब्धव्याः, न च तैर्मन्तव्यम् / तद्यथापि नाम सुभूते कश्चिदेव पुरुषो हस्तिनमपश्यन् हस्तिनो वर्णसंस्थाने पर्येषेत / सो ऽन्धकारे हस्तिनं लब्ध्वा येन प्रकाशं तेनोपनिध्यायेत / तेनोपनिध्यायन् हस्तिपदं पर्येषितव्यं मन्येत / हस्तिपदाच्च हस्तिनो वर्णसंस्थाने ग्रहीतव्ये मन्येत / तत्किं

मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरूषो भवेत्? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां प्रज्ञापारमितामजानाना अपरिपृच्छन्तस्तां छोरयित्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामा ये ते सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तान् पर्येषितव्यान् मंस्यन्ते / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / तद्यथापि नाम सुभूते रत्नार्थिकः पुरुषो महासमुद्रं दृष्ट्वा नावगाहेत, रत्नानि न निध्यायेत् नाध्यालम्बेत / स रत्नहेतोर्गोष्पदं पर्येषितव्यं मन्येत / स गोष्पदोदकेन महासमुद्रं समीकर्तव्यं मन्येत / तत्किं मन्यसे सुभूते - अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां गम्भीरां प्रज्ञापारमितां लब्ध्वाप्यनवगाहमाना अविजानन्तस्तक्ष्यन्ति / ये च सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति अल्पोत्सुकविहारितया तान् पर्येषितव्यान् मंस्यन्ते / यत्र बोधिसत्त्वयानं न संवर्ण्यते, केवलमात्मदमशमथपरिनिर्वाणमेव इत्य् अपि प्रतिसंलयनमिति / स्रोतआपत्तिफलं प्राप्नुयामिति, सकृदागामिफलमित्यनागामिफलमित्यर्हत्त्वं प्राप्नुयामिति, प्रत्येकबोधिं प्राप्नुयामिति, दृष्ट एव धर्मे अनुपादाय आस्रवेभ्यश्चित्तं विमोच्य परिनिर्वापयामिति / इदमुच्यते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तमिति / नात्र बोधिसत्त्वैर्महासत्त्वैरेवं चित्तमुत्पादयितव्यम् / तत्कस्य हेतोः? महायानसंप्रस्थिता हि सुभूते

बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवन्ति / न तैः (वैद्य 117) कदाचिदल्पोत्सुकतायां चित्तमुत्पादयितव्यम् / तत्कस्य हेतोः? लोकपरिणायका हि भवन्ति ते सत्पुरुषा लोकार्थकराः / तस्मात्तैर्नित्यकालं सततसमितं षट्पारमितासु शिक्षितव्यम् / ये च खलु पुनः सुभूते अपरिपक्वकुशलमूलाः परीत्तकुबुद्धिका मृदुकाध्याशया बोधिसत्त्वयानिकाः पुद्गलाः, ते षट्पारमिताप्रतिसंयुक्तान् सूत्रान्तानजानाना अनवबुद्ध्यमाना इमां प्रज्ञापारमितां छोरयित्वा ये ते सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवन्दन्ति, तान् पर्येषितव्यान् मंस्यन्ते / इदम् अपि सुभूते मारकर्म वेदितव्यं तेषां तथारूपाणां बोधिसत्त्वयानिकानां पुद्गलानाम् तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो निर्मातुकामः स्यात् / स सूर्याचन्द्रमसोर्विमानप्रमाणं मण्डलं पर्येषेत / पर्येषमाणः स सूर्याचन्द्रमसोर्विमानं पश्येत् / स ततः प्रमाणं ग्रहीतव्यं मन्यते / तत्किं मन्यसे सुभूते वैजयन्तप्रासादप्रमाणं प्रासादं कर्तुकामेन निर्मातुकामेन सूर्याचन्द्रमसोर्विमानात्प्रमाणं ग्रहीतव्यं भवति? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, ये प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते, ये ते सूत्रान्ता एवमभिवदन्ति - एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्याम इति /

केवलमात्मदमशमथपरिनिर्वाणमेवोपनयन्ति, तथारूपान् सूत्रान्तान् पर्येष्यन्ते, तथा च शिक्षितव्यं मंस्यन्ते / तत्किं मन्यसे सुभूते अपि नु ते पण्डितजातीयाः बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / तद्यथापि नाम सुभूते कश्चिदेव पुरुषो राजानं च चक्रवर्तिनं भ्रष्टुकामो भवेत्, स राजानं चक्रवर्तिनं पश्येत् / दृष्ट्वा च ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या चेति निमित्तं गृहीत्वा कोट्टराजं पश्येत् / स तस्य कोट्टराजस्य वर्णं संस्थानं तेज ऋद्धिं च निमित्तं च गृहीत्वा अप्रतिबलो विशेषग्रहणं प्रति एवं वदेत् - ईदृश एव स राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या च निमित्तेन चेति / तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यो यश्चक्रवर्तिनं कोट्टराजेन समीकर्तव्यं मन्येत? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते / इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / न खलु पुनरहं सुभूते एभिरेवंरूपैः श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैर्बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञतां पर्येषितव्यां वदामि / अपि तु खलु पुनः सुभूते यत्तथागतेन प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानामुपायकौशल्यमाख्यातम्, तत्राशिक्षित्वा बोधिसत्त्वो

महासत्त्वो न निर्यास्यत्यनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? (वैद्य 118) धन्धको ह्यन्येषु सूत्रान्तेषु बोधिसत्त्वसमुदागमः / तस्मात्तर्हि सुभूते तथागत एनामनुशंसां प्रज्ञापारमितायां पश्यन् अनेकपर्यायेण बोधिसत्त्वान् महासत्त्वानस्यां प्रज्ञापारमितायां संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति संनिवेशयति प्रतिष्ठापयति - एवं बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति / तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वाः प्रतिभान्ति, ये अविनिवर्तनीययानं महायानमवाप्य समासाद्य पुनरेव तद्विवर्ज्य विवर्त्य हीनयानं पर्येषितव्यं मंस्यन्ते? सुभूतिराह - नो हीदं भगवन् / भगवानाह - तद्यथापि नाम सुभूते बुभुक्षितः पुरुषः शतरसं भोजनं लब्ध्वा हितविपाकं सुखविपाकं यावदायुःपर्यन्तं क्षुत्पिपासानिवर्तकम्, तदपास्य षष्टिकोदनं पर्येषितव्यं मन्येत / षष्टिकोदनं लब्ध्वा शतरसं भोजनमुत्सृज्य विवर्ज्य तं षष्टिकोदनं परिभोक्तव्यं मन्येत / तत्किं मन्यसे सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चिष्यन्ति, प्रज्ञापारमितामुत्स्रक्ष्यन्ति प्रज्ञापारमितां छोरयिष्यन्ति, प्रज्ञापारमितां दूरीकरिष्यन्ति, प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य प्रज्ञापारमितां छोरयित्वा प्रज्ञापारमितां दूरीकृत्य ततः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् सूत्रान्तान् पर्येषितव्यान् मंस्यन्ते / ये ते

सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवदन्ति, तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते / तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - इदम् अपि सुभूते तेषां मारकर्म वेदितव्यम् / तद्यथापि नाम सुभूते कश्चिदेव पुरुषो ऽनर्ध्यं मणिरत्नं लब्ध्वा अल्पार्ध्येण अल्पसारेण मणिरत्नेन सार्धं समीकर्तव्यं मन्येत / तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इदं गम्भीरं प्रभास्वरं प्रज्ञापारमितारत्नं लब्ध्वा श्रुत्वा श्रावकप्रत्येकबुद्धयानेन समीकर्तव्यं मंस्यन्ते, श्रावकप्रत्येकबुद्धभूमौ च सर्वज्ञतामुपायकौशल्यं च पर्येषितव्यं मंस्यन्ते / तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - इदम् अपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् / पुनरपरं सुभूते अस्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायामुद्गृह्यमाणायां वाच्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायाम् अपि बहूनि प्रतिभानान्युत्पत्स्यन्ते, यानि चित्तविक्षेपं करिष्यन्ति / इदम् अपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.