Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
प्रत्येकबुद्धयानिकाः पुद्गला व्याकृताः प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश् च तस्मिन् धर्मे पृथग्जनैः कुशलमूलान्यवरोपितानि, यैश् च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्वा स धर्मः श्रुतः, श्रुत्वा च कुशलमूलान्यवरोपितानि, यैश् च तिर्यग्योनिगतैर् अपि सत्त्वैः स धर्मः श्रुतः, श्रुत्वा च कुशलमूलान्यवरोपितानि, यैश् च तेषु बुद्धेषु भगवत्सु परिनिर्वापयत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपितानि, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्येकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदेत /
अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयते, परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति?
एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - सचेदार्य सुभूते बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति / एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति, यथा तच्चित्तं न संजानीते इदं तच्चित्तमिति / एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति / अथ येन चित्तेन यत्परिणामयति, तच्चित्तं संजानीते इदं तच्चित्तमिति चित्तसंज्ञी भवति / एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति / सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति, तच्चित्तमेवं संजानीते, एवं समन्वाहरति / तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते / यच्च क्षीणं न तच्छक्यं परिणामयितुम् / येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता / यैर् अपि धर्मैः परिणाम्यते, तेषाम् अपि धर्माणां सैव धर्मता / येष्व् अपि धर्मेषु परिणाम्यते, तेषाम् अपि धर्माणां सैव धर्मतेति / सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति / एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् //
पुनरपरम् आर्य सुभूते बोधिसत्त्वेन महासत्त्वेन यथा अतीतानामेवमनागतानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानां (वैद्य 73) यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, यावच्च सद्धर्मो नान्तर्धास्यति, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, ये च ते बुद्धा भगवन्तो धर्मं देशयिष्यन्ति, ये च तस्मिन् धर्मे शिक्षिष्यन्ते ऽधिमोक्षयिष्यन्ति प्रतिष्ठास्यन्ति, तेषां च यानि कुशलमूलानि यांश् च ते बुद्धा भगवन्तो बोधिसत्त्वान् महासत्त्वान् व्याकरिष्यन्ति अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यांश् च ते बुद्धा भगवन्तः प्रत्येकबुद्धयानिकान् पुद्गलान् व्याकरिष्यन्ति प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, ये च तस्मिन् धर्मे पृथग्जनाः कुशलमूलान्यवरोपयिष्यन्ति, ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः कुशलमूलान्यवरोपयिष्यन्ति, ये च तिर्यग्योनिगता अपि सत्त्वास्तं धर्मं श्रोष्यन्ति, श्रुत्वा
च कुशलमूलान्यवरोपयिष्यन्ति, ये च सत्त्वास्तेषु बुद्धेषु भगवत्सु परिनिर्वायत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपयिष्यन्ति, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्येकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदितव्यानि /
अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेद्बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति / एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति / स यथा तच्चित्तं न संजानीते इदं चित्तमिति, एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति / अथ येन चित्तेन यत्परिणामयति तच्चित्तं संजानीते - इदं तच्चित्तमिति चित्तसंज्ञी भवति / एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति / सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति तच्चित्तमेवं संजानीते एवं समान्वाहरति, तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते / यच्च क्षीणं न तच्छक्यं परिणामयितुम् / येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता / यैर् अपि धर्मैः परिणाम्यते, तेषाम् अपि धर्माणां सैव धर्मता / येष्व् अपि धर्मेषु परिणाम्यते, तेषाम् अपि धर्माणां सैव धर्मतेति / सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति / एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् //
(वैद्य 74) पुनरपरमार्य सुभूते बोधिसत्त्वेन महासत्त्वेन प्रत्युत्पन्नानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानामप्रमेयासंख्येयेषु त्रिसाहस्र महासाहस्रेषु लोकधातुषु तिष्ठतां ध्रियमाणानां यापयतां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते, यावच्च निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, यावच्च सद्धर्मो नान्तर्दधाति, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, ये च तस्मिन् धर्मे शिक्षन्ते ऽधिमोक्षयन्ति प्रतितिष्ठन्ति, तेषां च यानि कुशलमूलानि, यांश् च ते बुद्धा भगवन्तो बोधिसत्त्वान् महासत्त्वान् व्याकुर्वन्ति अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यांश् च ते बुद्धा भगवन्तः प्रत्येकबुद्धयानिकान् पुद्गलान् व्याकुर्वन्ति प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमुलानि, ये च तस्मिन् धर्मे पृथग्जनाः कुशलमूलान्यवरोपयन्ति, ये च देवानागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या वा तं धर्मं शृण्वन्ति, श्रुत्वा च
कुशलमूलान्यवरोपयन्ति, ये च तिर्यग्योनिगता अपि सत्त्वास्तं धर्मं शृण्वन्ति, श्रुत्वा च कुशलमूलान्यवरोपयन्ति, ये च तेषु बुद्धेषु भगवत्सु परिनिर्वायत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपयन्ति, तेषां च सर्वेषां यानि कुशलमुलानि, तानि सर्वाण्येकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदितव्यानि /
अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेद्बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति / एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति - यथा तच्चित्तं न संजानीते इदं तच्चित्तमिति / एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति / अथ येन चित्तेन यत्परिणामयति तच्चित्तं संजानीते इदं तच्चित्तमिति चित्तसंज्ञी भवति / एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति / सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति, तच्चित्तमेवं संजानीते एवं समन्वाहरति - तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते / यच्च क्षीणं न तच्छक्यं परिणामयितुम् / येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता / यैर् अपि धर्मैः परिणाम्यते, तेषाम् अपि धर्माणां (वैद्य 75) सैव धर्मता / येष्व् अपि धर्मेषु परिणाम्यते, तेषाम् अपि धर्माणां सैव धर्मतेति / सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति / एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् //
पुनरपरमार्य सुभूते बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च, यावच्च निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः परिनिर्वास्यन्ति परिनिर्वान्ति च, यावच्च सद्धर्मो नान्तर्हितो नान्तर्धास्यति नान्तर्दधाति च, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यैश् च तैर्बुद्धैर्भगवद्भिर्धर्मो देशितो देशयिष्यते देश्यते च, ये च तस्मिन् धर्मे शिक्षिताः शिक्षिष्यन्ते शिक्षन्ते च, अधिमुक्ता अधिमोक्षयिष्यन्ति अधिमोक्षयन्ति च, स्थिताः स्थास्यन्ति तिष्ठन्ति च, तेषां च सर्वेषां यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च अनुत्तरायां सम्यक्संबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च प्रत्येकबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश् च तस्मिन् धर्मे पृथग्जनैः
कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, यैश् च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैर्मनुष्यामनुष्यैर्वा स धर्मः श्रुतः श्रोष्यते श्रूयते च, श्रुत्वा च कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, यैश् च तिर्यग्योनिगतैर् अपि सत्त्वैः स धर्मः श्रुतः श्रोष्यते श्रूयते च, श्रुत्वा च कुशलमूलानि अवरोपितान्यवरोपयिष्यन्ते ऽवरोप्यन्ते च, यैश् च सत्त्वैस्तेषु बुद्धेषु भगवत्सु परिनिर्वृतेषु परिनिर्वास्यत्सु परिनिर्वायत्सु च कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्यकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमग्रया अनुमोदनया अनुमोदेत, श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया असमया असमसमया अनुमोदनया अनुमोदेत /
एवमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयामीति वाचं भाषेत - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति / तस्य कथं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेत्परिणामयन् एवं समन्वाहरति - ते धर्माः क्षीणा निरुद्धा विगता विपरिणताः, स च धर्मो ऽक्षयो यत्र परिणाम्यते इत्येवं परिणामितं भवत्यनुत्तरायां (वैद्य 76) सम्यक्संबोधौ / सचेत्पुनरेवमुपपरीक्षते - न धर्मो धर्मं परिणामयति, इत्य् अपि परिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ / एवं भदन्तं सुभूते परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति / तत्कस्य हेतोः? तथा हि स तां परिणामनां नाभिनिविशते / सचेत्पुनरेवं संजानीते - न चित्तं चित्तं जानाति, न धर्मो धर्मं जानाति, इत्य् अपि परिणामितं भवत्यनुत्तरायै सम्यक्संबोधये / अयं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरः परिणामः / सचेत्पुनर्बोधिसत्त्वस्तं पुण्याभिसंस्कारं संजानीते, न परिणामयत्यनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? तथा हि स तां परिणामनामभिनिविशते / सचेत्पुनरस्यैवं भवति - सो ऽपि पुण्याभिसंस्कारो विविक्तः शान्तः, यदप्यनुमोदनासहगतं पुण्यक्रियावस्तु तद् अपि विविक्तं शान्तमिति परिणामयत्यनुत्तरायां सम्यक्संबोधौ / सचेदेवम् अपि न संजानीते - सर्वसंस्काराः शान्ता विविक्ता इति, एवमियं तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् अपि तत्तेषां बुद्धानां भगवतां परिनिर्वृतानां कुशलमूलम् /
यादृश एव स परिणामस्तादृशमेव तत्कुशलमूलम्, येनापि तत्परिणामितं तद् अपि तज्जातिकं तल्लक्षणं तन्निकायं तत्स्वभावम् / सचेदेवं संजानीते, न परिणामयत्यनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? न हि बुद्धा भगवन्तो निमित्तयोगेन परिणामनामभ्यनुजानन्ति / यच्चातीतं तत्क्षीणं निरुद्धं विगतं विपरिणतम्, यदप्यनागतं तदप्यसंप्राप्तम्, प्रत्युत्पन्नस्य स्थितिर्नोपलभ्यते, यच्च नोपलभ्यते तन्नैव निमित्तं न विषयः / सचेदेवं निमित्तीकरोति, न समन्वाहरति न परिणामयत्यनुत्तरायां सम्यक्संबोधौ / अथ स्मृतिवैकल्येन न निमित्तीकरोति न समन्वाहरति न मनसि करोति स्मृतिवैकल्यादनवबोधाद्वा, एवम् अपि न परिणामयत्यनुत्तरायां सम्यक्संबोधौ / अथ तन्निमितं समन्वाहरति, न च निमित्तीकरोति, एवं परिणामितं भवति तत्कुशलमूलं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ / एवमत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् - इदं तद्बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं वेदितव्यम् / येनोपायकौशलेन कुशलमूलं परिणामयति, स आसन्नः सर्वज्ञतायाः / अत्र चोपायकौशलं शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या परिप्रश्नीकर्तव्या / तत्कस्य हेतोः? न हि प्रज्ञापारमितामनागम्य शक्येयमश्रुतवता प्रज्ञापारमितापरिणामनाक्रिया प्रवेष्टुम् /
तत्र य एवं वदेत् - शक्यमनागम्य प्रज्ञापारमितां तत्पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितुमिति, स मैवं वोचदिति स्याद्वचनीयः / तत्कस्य हेतोः? निरुद्धा हि ते आत्मभावाः, निरुद्धा हि ते संस्काराः, शान्ता विविक्ता विरहिता उपलब्धिनः / अपि तु खलु पुनः स पुद्गलो निमित्तीकृत्य विकल्प्य च यथाभूतमयथाभूते यथाभूतसंज्ञी उपलम्भमनुपलम्भे परिणामयेत्, तस्य कुशलमूलं बुद्धा भगवन्त एवं परिणामितमनुत्तरायां सम्यक्संबोधौ नाभ्यनुजानन्ति / तत्कस्य हेतोः? एष एव हि तस्य (वैद्य 77) महानुपलम्भो भवति, यत्स परिनिर्वाणम् अपि बुद्धानां भगवतां निमित्तीकरोति विकल्पयति च / आकारतश् च निर्वाणमुपलभते / न चोपलम्भसंज्ञिनस्तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामनां महार्थकरीं वदन्ति / तत्कस्य हेतोः? सविषः सशल्यो ह्येषः परिणामः / तद्यथापि नाम प्रणीतं भोजनं सविषं भवेत्, किं चापि तद्वर्णतश् च गन्धतश् च रसतश् च स्पर्शतश् च अभिलषणीयं भवति, अपि तु खलु पुनः सविषत्वात्परिवर्जनीयं भवति पण्डितानाम्, न परिभोगाय / तदेव बालजातीयो दुष्प्रज्ञजातीयः पुरुषः परिभोक्तव्यं मन्येत / तस्य तद्भोजनं परिभुञ्जानस्य वर्णतस्य गन्धतश् च रसतश् च स्पर्शतश् च स्वादेषु सुखकरं परिणामे चास्य दुःखविपाकं भवति / स ततोनिदानं मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखम् /
एवमेव आर्य सुभूते इहैके दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन सुभाषितस्यार्थमजानाना यथाभूतमर्थमनवबुध्यमाना एवमववदिष्यन्ति, एवमनुशासिष्यन्ति - एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धम् / तेषां च श्रावकाणां यैस्तत्र तेष्वतीतानागतप्रत्युत्पन्नेषु बुद्धेषु भगवत्सु कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, यावच्च सद्धर्मो नान्तर्हितो नान्तर्धास्यति नान्तर्दधाति च, एतस्मिन्नन्तरे तेषां बुद्धानां भगवतां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां भगवतां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानाम्, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च प्रत्येकबोधौ, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, ये च श्रावकयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च श्रावकबोधौ, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्ते ऽवरोप्यन्ते च, यानि च पृथग्जनानामप्रमेयासंख्येयेषु लोकधातुषु अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वलोकधातुषु तत्सर्वं कुशलमूलमेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति /
एवं स परिणामो निमित्तयोगेन परिणाम्यमानो विषत्वाय संप्रवर्तते, तद्यथापि नाम तत्सविषं भोजनमेव / नास्त्युपलम्भसंज्ञिनः परिणामना / तत्कस्य हेतोः? सविषत्वादुपलम्भस्य / तस्माद्बोधिसत्त्वयानिकेन पुद्गलेन नैवं शिक्षितव्यम् / कथं पुनरनेन शिक्षितव्यम्? कथमतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलं परिग्रहीतव्यम्? कथं च परिगृहीतं सुपरिगृहीतं भवति? कथं च परिणामयितव्यम्? कथं च परिणामितं सुपरिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ? इहानेन बोधिसत्त्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतमनभ्याख्यातुकामेन एवं तत्सर्वं कुशलमूलमनुमोदितव्यमेवं परिणामयितव्यं यथा ते (वैद्य 78) तथागता अर्हन्तः सम्यक्संबुद्धा बुद्धज्ञानेन बुद्धचक्षुषा जानन्ति पश्यन्ति तत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणम् / यया धर्मतया संविद्यते तथा अनुमोदे तत्कुशलमूलम्, यथा च ते तथागता अर्हन्तः सम्यक्संबुद्धा अभ्यनुजानन्ति परिणाम्यमानं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ, तथाहं परिणामयामीति / एवमनुमोदमान एवं परिणामयन् बोधिसत्त्वो महासत्त्वो ऽनपराद्धो भवति / बुद्धानां भगवतां सम्यक्त्वानुमोदितं परिणामितं च भवति तत्कुशलमूलमनुत्तरायै सम्यक्संबोधये, न च तांस्तथागतानर्हतः सम्यक्संबुद्धानभ्याख्याति / एवं चास्य परिणामो निर्विषः परिणामो महापरिणामो धर्मधातुपरिणामः परिपूर्णः सुपरिपूर्णो भवति अध्याशयेन अधिमुक्त्या परिणामयतः //
पुनरपरं बोधिसत्त्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा एवं परिणामयितव्यम् - यच्छीलं यः समाधिर्या प्रज्ञा या विमुक्तिर्यद्विमुक्तिज्ञानदर्शनं तद्यथा अपर्यापन्नं कामधातौ अपर्यापन्नं रूपधातौ अपर्यापन्नमारूप्यधातौ नाप्यतीतं न अनागतं न प्रत्युत्पन्नम् / तत्कस्य हेतोः? त्र्यध्वत्रैधातुकापर्यापन्नत्वात् / तथैव परिणामो ऽप्यपर्यापन्नः / यत्रापि धर्मे स परिणामः परिणाम्यते, सो ऽपि धर्मो ऽपर्यापन्नः / सचेदेवमधिमुञ्चति, एवं परिणामयतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य अविनष्टः परिणामो भवत्यपर्यापन्नो निर्विषः परिणामो महापरिणामो धर्मधातुपरिणामः परिपूर्णः सुपरिपूर्णो भवति / अथ तं परिणामयति निविशते निमित्तीकरोति, मिथ्या परिणामयति / तत्र यो ऽयं परिणामो बोधिसत्त्वस्य महासत्त्वस्य, अनया धर्मधातुपरिणामनया यथा बुद्धा भगवन्तो जानन्ति, यथा चाभ्यनुजानन्ति तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितमेवं सुपरिणामितं भवतीति, तथाहं परिणामयामि इत्ययं सम्यक्परिणामः / एवं च परिणामितं सुपरिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ //
अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात् - साधु साधु सुभूते / शास्तृकृत्यं त्वं सुभूते करोषि, यस्त्वं बोधिसत्त्वानां महासत्त्वानां धर्मं देशयसि / तत्कस्य हेतोः? यो ह्ययं सुभूते परिणामः, धर्मधातुपरिणामो ऽयं बोधिसत्त्वस्य महासत्त्वस्य / अस्यामेव धर्मतायां यथा बुद्धा भगवन्तो जानन्ति पश्यन्ति, तत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणं यया धर्मतया संविद्यते, तथा अनुमोदे / यथा च अभ्यनुजानन्ति, तथाहं परिणामयामीति / अत्र यः पुण्यस्कन्धो यश् च गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु ये सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्, तस्य यः पुण्याभिसंस्कारः, ततो ऽयमेव बोधिसत्त्वस्य महासत्त्वस्य धर्मधातुपरिणामजः पुण्यस्कन्धो ऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते, असम आख्यायते, असमसम आख्यायते /
तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वान् दशसु कुशलेषु (वैद्य 79) कर्मपथेषु प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतुर्णां ध्यानानां लाभिनो भवेयुः, तेषां च यः पुण्याभिसंस्कारः, ततो ऽयमेव बोधिसत्त्वस्य महासत्त्वस्य परिणामनासहगतः पुण्यस्कन्धो ऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते, असम आख्यायते, असमसम आख्यायते / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां चतुर्ध्याननिष्पादनसंभूतः पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतुर्णामप्रमाणानां लाभिनो भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु चतुरप्रमाणलाभिनां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतसृणामारूप्यसमापत्तीनां लाभिनो भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु चतुरारूप्यसमापत्तिलाभिनां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे पञ्चानामभिज्ञानां लाभिनो भवेयुः /
तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु पञ्चाभिज्ञानां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु स्रोतआपन्ना भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां स्रोतआपन्नानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे सकृदागामिनो भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां सकृदागामिनां पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनागामिनो भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामनागामिनां पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः ते सर्वे अर्हन्तो भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामर्हतां पुण्यस्कन्धः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे प्रत्येकबुद्धा भवेयुः / तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां प्रत्येकबुद्धानां पुण्यस्कन्धः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः /
ये सर्वे अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु ये सत्त्वाः, तान् सर्वानेकैको बोधिसत्त्वश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्गङ्गानदीवालुकोपमान् (वैद्य 80) कल्पानुपतिष्ठेत् सर्वसुखोपधानैः, सर्वैः सुखस्पर्शविहारैः, तच्च दानमुपलम्भसंज्ञिनो दद्युः / एतेन पर्यायेण तान् सर्वसत्त्वानेकैकं परिकल्प्य तांश् च सर्वबोधिसत्त्वानेकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पानुपतिष्ठेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः, सर्वैः सुखस्पर्शविहारैः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् / एवमेकैकस्तेषां सर्वेषां बोधिसत्त्वानामनेन पर्यायेण दानं दद्यात्, एवं सर्वे ऽपि ते दानं दद्युः / तत्किं मन्यसे सुभूते अपि नु ते बोधिसत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? सुभूतिराह - बहु भगवन्, बहु सुगत / अप्रमेयं भगवन्, अप्रमेयं सुगत / संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्, गणनापि उपमापि औपम्यम् अपि उपनिसापि उपनिषद् अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / सचेद्भगवन् रूपी भवेत्, स पुण्यस्कन्धो गङ्गानदीवालुकोपमेष्व् अपि त्रिसाहस्रमहासाहस्रेषु लोकधातुषु न मायेत् //
एवमुक्ते भगवानायुष्मतं सुभूतिं स्थविरमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / यत्र खलु पुनः सुभूते बोधिसत्त्वयानिकः पुद्गलः प्रज्ञापारमितोपायकौशल्यपरिगृहीतो ऽनेन धर्मधातुपरिणामेन तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत्, पुण्यं प्रसवति / अस्य सुभूते पुण्यस्कन्धस्य धर्मधातुपरिणामजस्य असौ पूर्वक उपलम्भसंज्ञिनां बोधिसत्त्वानां दानमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि तेषां पौर्वकाणामुपलम्भसंज्ञिनां बोधिसत्त्वानां सुबह्व् अपि दानं दत्तं सुबह्वित्य् अपि परिसंख्यातं भवति //
अथ खलु चातुर्महाराजकायिकानां देवपुत्राणां विंशतिसहस्राणि प्राञ्जलीनि नमस्यन्ति भगवन्तमेतदवोचन् - महापरिणामो ऽयं भगवन् बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमितोपायकौशल्यपरिगृहीतानां कुशलमूलपरिणामः सर्वज्ञतायै, यत्र हि नाम तेषामौपलम्भिकानां बोधिसत्त्वानां तावन्तं दानमयं पुण्याभिसंस्कारमभिभवति / अथ खलु त्रायस्त्रिंशकायिकानां देवपुत्राणां शतसहस्राणि दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णवर्षैर्दिव्यै रत्नवर्षैर्दिव्यैश् च वस्त्रवर्षैर्भगवन्तमभ्यवाकिरन्नभिप्राकिरन् / दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः समन्ताच्च दिव्यदीपमालाभिर्बहुविधाभिश् च दिव्याभिः पूजाभिर्भगवन्तं सत्कुर्वन्ति स्म, गुरुकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म अर्चयन्ति स्म अपचायन्ति स्म, दिव्यानि च वाद्यान्यभिप्रवादयामासुः / एवं च वाचमभाषन्त - महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयं धर्मधातुपरिणामः, यत्र हि नाम तत्तेषामौपलम्भिकानां बोधिसत्त्वानां महासत्त्वानां दानमयं पुण्याभिसंस्कारस्कन्धमभिभवति यथापि नाम प्रज्ञापारमितोपायकौशल्यपरिगृहीतत्वादस्य महापरिणामस्य / एवमन्येभ्यो ऽपि देवनिकायेभ्यो देवपुत्रा आगत्य (वैद्य 81) भगवन्तं परमेण सत्कारेण परमेण गुरुकारेण परमया माननया परमया पूजनया परमया अर्चनया परमया अपचायनया सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचाय्य एवमेव शब्दमुदीरयन्ति स्म, घोषमनुश्रावयन्ति स्म / एवं पेयालेन कर्तव्यम् /
यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, ते ऽप्येवमेवाञ्जलिं कृत्वा भगवन्तं नमस्यन्त एतदवोचन् - आश्चर्यं भगवन् यावदयं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपायकौशल्यपरिगृहीतानां कुशलमूलपरिणामः, यस्तेषामुपलम्भसंज्ञिनां बोधिसत्त्वानां तावच्चिररात्रसंचितमम् अपि तथा महाविस्तरसमुदानीतम् अपि पुण्यस्कन्धमभिभवति //
अथ खलु भगवांस्तान् शुद्धावासकायिकान् देवपुत्रानादीन् कृत्वा सर्वांस्तान् देवपुत्रानामन्त्रयते स्म - तिष्ठतु खलु पुनर्देवपुत्रा गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितानामनुत्तरायाः सम्यक्संबोधेः प्रतिलम्भाय दानं ददतां पुण्याभिसंस्कारः अनेन पर्यायेण, ये ऽपि ते देवपुत्रा अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते ऽपि सर्वे अनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृत्वा बोधाय चित्तमुत्पाद्य अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वैः सुखस्पर्शविहारैरेकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, एवं सर्वे ऽपि यावत्ते चोपलम्भसंज्ञिनो दानं दद्युः / एतेन पर्यायेण तान् सर्वसत्त्वानेकैकं परिकल्प्य तांश् च सर्वबोधिसत्त्वानेकैको बोधिसत्त्वो यावत्सर्वे ते बोधिसत्त्वा गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तस्तान् सर्वसत्त्वांश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वैः सुखस्पर्शविहारैरुपतिष्ठेयुः, तच्च दानमुपलम्भसंज्ञिनो दद्युः /
यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं तेषां च बोधिसत्त्वप्रत्येकबुद्धश्रावकयानिकानां पुद्गलानां यैश् च तत्र अन्यैर् अपि सत्त्वैः कुशलमूलान्यवरोपितान्यवरोपयिष्यन्ते ऽवरोप्यन्ते च, तत्सर्वमेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमग्रया अनुमोदनया अनुमोदते / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते / अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति / अस्यानुमोदनापरिणामनासहगतस्य पुण्यक्रियावस्तुनः सो ऽपि पौर्वक औपलम्भिकानां बोधिसत्त्वानां पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि (वैद्य 82) गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वे ऽप्युपलम्भसंज्ञिनो दानं ददति //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - अतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां बोधिसत्त्वप्रत्येकबुद्धश्रावकसंघानां सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं यन्नाम कुशलमूलं तत्सर्वमेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदते इति / तत्र कियता भगवन् अग्रानुमोदना भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - यदि सुभूते बोधिसत्त्वयानिकः पुद्गलो ऽतीतागतप्रत्युत्पन्नान् गृह्णीते न मन्यते नोपलभते न कल्पयति न विकल्पयति न पश्यति न समनुपश्यति, एवं चैनान् धर्मानुपपरीक्षते - कल्पनाविठपिताः सर्वधर्माः, अजाता अनिर्जाता अनागतिका अगतिकाः / नात्र कश्चिद्धर्म उत्पन्नो नापि कश्चिद्धर्म उत्पत्स्यते नापि कश्चिद्धर्म उत्पद्यते, नापि कश्चिद्धर्मो निरुद्धो नापि कश्चिद्धर्मो निरुत्स्यते नापि कश्चिद्धर्मो निरुध्यते / इत्येवमेतान् धर्मानुपपरीक्ष्य यथैषां धर्माणां धर्मता तथानुमोदते / अनुमोद्य तथैव परिणामयत्यनुत्तरायां सम्यक्संबोधौ / इयता सुभूते बोधिसत्त्वस्य महासत्त्वस्य अग्रा अनुमोदना भवति / अस्य सुभूते कुशलमूलपरिणामस्य तेषां पौर्वकाणां बोधिसत्त्वानामुपलम्भसंज्ञिनामुपलम्भदृष्टिकाणां तद्दानमयं पुण्यक्रियावस्तु शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते //
पुनरपरं सुभूते बोधिसत्त्वयानिकेन पुद्गलेन अतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां दानमनुमोदितुकामेन शीलमनुमोदितुकामेन क्षान्तिमनुमोदितुकामेन वीर्यमनुमोदितुकामेन ध्यानमनुमोदितुकामेन प्रज्ञामनुमोदितकामेन एवमनुमोदितव्यम् - यथा विमुक्तिस्तथा दानम्, यथा विमुक्तिस्तथा शीलं, यथा विमुक्तिस्तथा क्षान्तिः, यथा विमुक्तिस्तथा वीर्यम्, यथा विमुक्तिस्तथा ध्यानम्, यथा विमुक्तिस्तथा प्रज्ञा, यथा विमुक्तिस्तथा विमुक्तिज्ञानदर्शनम्, यथा विमुक्तिस्तथा अनुमोदना, यथा विमुक्तिस्तथा अनुमोदनासहगतं पुण्यक्रियावस्तु, यथा विमुक्तिस्तथा परिणामना, यथा विमुक्तिस्तथा बुद्धा भगवन्तः प्रत्येकबुद्धाश्च, यथा विमुक्तिस्तथा तेषां श्रावका ये परिनिर्वृताः, यथा विमुक्तिस्तथा ते धर्मा ये ऽतीता निरुद्धाः, यथा विमुक्तिस्तथा ते धर्मा ये ऽनागता अनुत्पन्नाः, यथा विमुक्तिस्तथा ते धर्मा ये एतर्हि प्रत्युत्पन्ना वर्तमानाः, यथा विमुक्तिस्तथा ते ऽतीता बुद्धा भगवन्तस्तेषां च श्रावकाः, यथा विमुक्तिस्तथा ते ऽनागता बुद्धा भगवन्तस्तेषां च श्रावकाः, यथा विमुक्तिस्तथा ते प्रत्युत्पन्ना बुद्धा भगवन्तस्तेषां च श्रावकाः, ये एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति, यथा विमुक्तिस्तथातीतानागत प्रत्युत्पन्ना बुद्धा भगवन्तः / एवमेतेषां धर्माणामबद्धानाममुक्तानामसक्तानां या धर्मता, तामनुत्तरया अनुमोदनया अनुमोदे / अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायं (वैद्य 83) सम्यक्संबोधौ परिणामयामि अपरिणामनायोगेन असंक्रान्तितो ऽविंनाशत इति /
इयता सुभूते बोधिसत्त्वस्य महासत्त्वस्य अग्रा अनुमोदना भवति / तिष्ठन्तु खलु पुनः सुभूते ते ऽपि ये ऽन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां बोधाय चित्तमुत्पाद्य सर्वे ऽप्येकैको बोधिसत्त्वः एकैकस्मै बोधिसत्त्वाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यादुपलम्भसंज्ञी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वसुखस्पर्शविहारैरुपतिष्ठन्, अनेन पर्यायेण सर्वे ऽपि ते सर्वेभ्य उपतिष्ठन्तः उपलम्भसंज्ञिनो दानं दद्युः / ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे ऽनुत्तरां सम्यक्संबोधिमभिसंप्रतिष्ठेरन् / अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितमुपलम्भसंज्ञिनः शीलं समादाय वर्तेरन् / अनेन पर्यायेण सर्वे ऽपि ते बोधिसत्त्वा एकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितमुपलम्भसंज्ञी शीलं समादाय वर्तेत / एतेन पर्यायेण सर्वे ऽपि ते बोधिसत्त्वा उपलम्भसंज्ञिनः शीलं समादाय वर्तेरन् /
यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं कुशलमूलं सर्वमेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते ऽग्रया अनुमोदनया / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्तया अनुमोदनया अनुमोदते / अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति / अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वान शीलमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनः शीलं समादाय वर्तन्त इति /
तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितं शीलं समादाय वर्तमाना उपलम्भसंज्ञिनः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनुत्तरां सम्यक्संबोधिमभिसंप्रतिष्ठेरन् / अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तो ऽन्येष्वन्येषु गङ्गानदीवालुकोपमेषु (वैद्य 84) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैरेकैको बोधिसत्त्व आक्रुष्टो ऽभिहतः परिभाषितः समान एव, सर्वे ऽपि ते उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तेरन्, यावत्सर्वे ते बोधिसत्त्वाः क्षान्तिं समादाय वर्तमानाः, एतेन पर्यायेण सर्वे ते बोधिसत्त्वा एकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् गङ्गानदीवालुकोपमान् कल्पानन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैराक्रुष्टो ऽभिहतः परिभाषितः समानः उपलम्भसंज्ञी क्षान्तिं समादाय वर्तेत / एवं सर्वे ऽपि ते सर्वैराक्रुष्टा अभिहताः परिभाषिताः समाना उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तेरन् /
यश् च बोधिसत्त्वो महासत्त्वो ऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं कुशलमूलं सर्वमेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्तया अनुमोदनया अनुमोदते / अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति / अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पौर्वकाणामौपलम्भिकानां बोधिसत्त्वानां क्षान्तिसहगतः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तन्ते / तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वाः अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः /
अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैराक्रुष्टा अभिहताः परिभाषिताः समानाः उपलम्भसंज्ञिनो गङ्गानदीवालुकोपमान् कल्पान् क्षान्तिं समादाय वर्तमानाः / ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तश्चंक्रमाभिरूढा गङ्गानदीवालुकोपमान् कल्पान् अविषीदन्तो ऽनभीभूताः स्त्यानमिद्धेनोपलम्भसंज्ञिनो वीर्यं समादाय वर्तेरन् / यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् (वैद्य 85) सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नानान् कुशलमूलाभिसंस्कारान् सर्वानेकतो ऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते / अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति /
अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वानां वीर्यमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वे ऽप्युपलम्भसंज्ञिनो वीर्यं समादाय वर्तन्ते / तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तश्चंक्रमाभिरूढा गङ्गानदीवालुकोपमान् कल्पान् अविषीदन्तो ऽनभिभूताः स्त्यानमिद्धेनोपलम्भसंज्ञिनो वीर्यं समादाय वर्तमानाः / ये ऽपि ते सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः / ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पानुपलम्भसंज्ञिनश्चत्वारि ध्यानानि समापद्येरन् /
यश् च बोधिसत्त्वो महासत्त्वो ऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतो ऽतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नान् कुशलमूलाभिसंस्कारान् सर्वानेकतो ऽभिसंक्षिप्य पीण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया / श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते / अनुमोद्य अनुमोदनासहगतं पुण्यत्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति / अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनो ऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वानां चतुर्ध्यानमयः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनो ध्यानानि समापद्यन्ते इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामनुमोदनापरिणामनापरिवर्तो नाम षष्ठः //
asp_7: निरयपरिवर्तः सप्तमः / अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - सर्वज्ञज्ञानपरिनिष्पत्तिर्भगवन् प्रज्ञापारमिता, सर्वज्ञत्वं भगवन् प्रज्ञापारमिता / भगवानाह - एवमेतच्छारिपुत्र, एवमेतद्यथा वदसि / शारिपुत्र आह - अवभासकरी भगवन् प्रज्ञापारमिता / नमस्करोमि भगवन् प्रज्ञापारमितायै / नमस्करणीया भगवन् प्रज्ञापारमिता / अनुपलिप्ता भगवन् प्रज्ञापारमिता / सर्वलोकनिरुपलेपा भगवन् प्रज्ञापारमिता / आलोककरी भगवन् प्रज्ञापारमिता / सर्वत्रैधातुकवितिमिरकरी भगवन् प्रज्ञापारमिता / सर्वक्लेशदृष्ट्यन्धकारापनेत्री भगवन् प्रज्ञापारमिता / आश्रयणीया भगवन् प्रज्ञापारमिता / अग्रकरी भगवन् प्रज्ञापारमिता बोधिपक्षाणां धर्माणाम् / क्षेमकरी भगवन् प्रज्ञापारमिता / अन्धानां सत्त्वानामालोककरी भगवन् प्रज्ञापारमिता / सर्वभयोपद्रवप्रहीणालोककरी भगवन् प्रज्ञापारमिता / पञ्चचक्षुःपरिग्रहं कृत्वा सर्वसत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता / चक्षुर्भगवन् प्रज्ञापारमिता / मोहतमस्तिमिरविकरिणी भगवन् प्रज्ञापारमिता / सर्वधर्माणामकरणी भगवन् प्रज्ञापारमिता / उत्पथप्रयातानां सत्त्वानां मार्गावतारणी भगवन् प्रज्ञापारमिता / सर्वज्ञतैव भगवन् प्रज्ञापारमिता / सर्वक्लेशज्ञेयावरणवासनानुसंधिप्रहीणतामुपादाय अनुत्पादिका भगवन् सर्वधर्माणां प्रज्ञापारमिता / अनिरोधिका भगवन् सर्वधर्माणां प्रज्ञापारमिता / अनुत्पन्नानिरुद्धा भगवन् प्रज्ञापारमिता / स्वलक्षणशून्यतामुपादाय माता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता /
सर्वबुद्धधर्मरत्नदात्रीत्वाद्दशबलकरी भगवन् प्रज्ञापारमिता / अनवमर्दनीया भगवन् प्रज्ञापारमिता / चतुर्वैशारद्यकरीत्वादनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता / संसारप्रतिपक्षा भगवन् प्रज्ञापारमिता / अकूटस्थतामुपादाय सर्वधर्मस्वभावविदर्शनी भगवन् प्रज्ञापारमिता / परिपूर्णत्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनी भगवन् बुद्धानां भगवतां प्रज्ञापारमिता / कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कथं मनसि कर्तव्या भगवन् प्रज्ञापारमिता? कथं भगवन् नमस्कर्तव्या प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - यथा शारिपुत्र शास्तरि, तथा प्रज्ञापारमितायां स्थातव्यम् / तथैव मनसि कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता / तथैव नमस्कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता //
अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - कुतो नु बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - कुत इयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत् - प्रज्ञापारमितोपायकौशल्यपरिगृहीतः कौशिक बोधिसत्त्वो महासत्त्वो ऽनुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयंस्तेषां पौर्वकाणामौपलम्भिकानां बोधिसत्त्वानां यश् च (वैद्य 87) दानमयः पुण्याभिसंस्कारः, यश् च शीलमयो यश् च क्षान्तिमयो यश् च वीर्यमयो यश् च ध्यानमयः पुण्याभिसंस्कारः, तं सर्वमभिभवतीति / ममेयमेतन्निदाना पृच्छा जाता / अपि नु खलु पुनः कौशिक प्रज्ञापारमितैव पूर्वंगमा पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय / तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा अपरिणायकमभव्यं मार्गावताराय, अभव्यं ग्रामं वा नगरं वा निगमं वा गन्तुम्, एवमेव कौशिक दानं शीलं क्षान्तिवीर्यं ध्यानं च प्रज्ञापारमितानामधेयं लभते / जात्यन्धभूतं भवति विना प्रज्ञापारमितया अपरिणायकत्वात् / अभव्यं सर्वज्ञतामार्गावताराय / कुतः पुनः सर्वज्ञतामनुप्राप्स्यति? यदा पुनः कौशिक दानं शीलं क्षान्तिर्वीयं ध्यानं च प्रज्ञापारमितापरिगृहीतं भवति, तदा पारमितानामधेयं पारमिताशब्दं लभते / तदा ह्यासां चक्षुःप्रतिलम्भो भवति पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय सर्वज्ञतानुप्राप्तये //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - रूपस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः / यः शारिपुत्र पञ्चानां स्कन्धानामभिनिर्हारः, अयं शारिपुत्र प्रज्ञापारमिताया अभिनिर्हार इत्युच्यते / एवमभिनिर्हारेण पञ्चानां स्कन्धानामभिनिर्हारः प्रज्ञापारमिताया अभिनिर्हारो ऽभिनिर्हार इत्युच्यते //
एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - एवमभिनिर्हारेण अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्ममर्पयति? भगवानाह - एवमभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद्धर्ममर्पयति / यदा सा शारिपुत्र न कंचिद्धर्ममर्पयति, तदा प्रज्ञापारमितेति संख्यां गच्छति //
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - किमियं भगवन् प्रज्ञापारमिता सर्वज्ञताम् अपि नार्पयति? भगवानाह - यत्कौशिक एवं वदसि - किमियं प्रज्ञापारमिता सर्वज्ञताम् अपि नार्पयतीति? न यथोपलम्भस्तथा अर्पयति, न यथा नाम तथार्पयति, न यथाभिसंस्कारस्तथार्पयति / शक्र आह - कथं तर्हि भगवन्नर्पयति? भगवानाह - यथा कौशिक नार्पयति तथार्पयति / शक्र आह - आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति / सर्वधर्माणामनुत्पादाय अनिरोधाय प्रत्युपस्थिता अनुपस्थिता प्रज्ञापारमिता //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - सचेदेवम् अपि भगवन् बोधिसत्त्वो महासत्त्वो संज्ञास्यते, दूरीकरिष्यति इमां प्रज्ञापारमिताम्, रिक्तीकरिष्यति इमां प्रज्ञापारमिताम्, तुच्छीकरिष्यति इमां प्रज्ञापारमिताम्, न करिष्यति इमां प्रज्ञापारमिताम् / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / अस्त्येष सुभूते पर्यायो येन (वैद्य 88) पर्यायेण दूरीकरिष्यतीमां प्रज्ञापारमिताम्, रिक्तीकरिष्यतीमां प्रज्ञापारमिताम्, तुच्छीकरिष्यतीमां प्रज्ञापारमिताम्, न करिष्यतीमां प्रज्ञापारमिताम् / तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते परिदीपितायां न रूपं परिदीपितं भवति / न वेदना न संज्ञा न संस्काराः / न विज्ञानं परिदीपितं भवति / न स्रोतआपत्तिफलं परिदीपितं भवति / न सकृदागामिफलं परिदीपितं भवति / न अनागामिफलं परिदीपितं भवति / नार्हत्त्वं परिदीपितं भवति / न प्रत्येकबुद्धत्वं परिदीपितं भवति / न बुद्धत्वं परिदीपितं भवति //
sthaviraḥ subhūtirāha - mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā / bhagavānāha - tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha - na bhagavan rūpaṃ mahatkaroti nālpīkaroti, na rūpaṃ saṃkṣipati na vikṣipati / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na bhagavan vijñānaṃ mahatkaroti nālpīkaroti, na vijñānaṃ saṃkṣipati na vikṣipati / yāny api tāni tathāgatasya tathāgatabalāni, tāny api na balīkaroti na durbalīkaroti, na saṃkṣipati na vikṣipati / yāpi sā sarvajñatā, tām api na mahatkaroti nālpīkaroti, na saṃkṣipati na vikṣipati / tatkasya hetoḥ? asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā / sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte, carati prajñāpāramitāyām [note: "na carati" according to conze's translation] / kiṃ punarevaṃ saṃjānānaḥ - evamahaṃ sarvajñajñānasamanvāgata sattvebhyo dharmaṃ deśayiṣyāmi, evamimān sattvān parinirvāpayiṣyāmīti / tatkasya hetoḥ? na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ / eṣa evāsya mahānupalambhaḥ syāt / tatkasya hetoḥ ? sattvāsvabhāvajātikā hi prajñāpāramitāveditavyā / sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā / sattvaviviktatayā prajñāpāramitāviviktatā veditavyā / sattvācintyatayā prajñāpāramitācintyatā veditavyā / sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā / sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā / sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā / sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā / anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - यो भगवन् इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वो ऽधिमोक्षयिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति न धन्धायिष्यति, कुतः स भगवंश्च्युत इहोपपन्नो वेदितव्यः, कियच्चिरचरितावी च स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां प्रज्ञापारमितामर्थतश् च धर्मतश् च अर्थनयतश् च धर्मनयतश् च अनुगमिष्यति अनुभोत्स्यते ऽनुबोधयिष्यति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - स शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य इहोपपन्नो वेदितव्यः / तत्कस्य हेतोः? यः कश्चिच्छारिपुत्र बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छय (वैद्य 89) इहोपपन्नो भवति, स इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां शृणुयात्, इमां प्रज्ञापारमितां श्रुत्वा अत्र शास्तृसंज्ञां प्रज्ञापारमितायामुत्पादयेत् - शास्ता मे संमुखीभूत् इति, शास्ता मे दृष्ट इति चित्तमुत्पादयति / प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां श्रोत्रमवदधाति, सत्कृत्य शृणोति, कथां नोपच्छिनत्ति / चिरचरितावी स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः / बहुबुद्धपर्युपासितः स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - शक्या पुनर्भगवन् प्रज्ञापारमिता श्रोतुं वा उपलक्ष्ययितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा? इयं सा प्रज्ञापारमिता, इह वा सा प्रज्ञापारमिता, अमुत्र वा सा प्रज्ञापारमिता, अनेन वा आकारेण लिङ्गेन निमित्तेनेति शक्या निर्देष्टुं वा श्रोतुं वा? भगवानाह - नो हीदं सुभूते / नेयं सुभूते प्रज्ञापारमिता स्कन्धशो वा धातुशो वा आयतनशो वा शक्या निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा / तत्कस्य हेतोः? सर्वधर्मविविक्तत्वात्सुभूते, अत्यन्तविविक्तत्वात्सुभूते सर्वधर्माणां न शक्या प्रज्ञापारमिता निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा / न चान्यत्र स्कन्धधात्वायतनेभ्यः प्रज्ञापारमिता अवबोद्धव्या / तत्कस्य हेतोः? स्कन्धधात्वायतनमेव हि सुभूते शून्यं विविक्तं शान्तम् / इति हि प्रज्ञापारमिता च स्कन्धधात्वायतनं च अद्वयमेतदद्वैधीकारं शून्यत्वाद्विविक्तत्वात् / एवं शान्तत्वान्नोपलभ्यते / यो ऽनुपलम्भः सर्वधर्माणाम्, सा प्रज्ञापारमितेत्युच्यते / यदा न भवति संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः, तदा प्रज्ञापारमितेत्युच्यते //
स्थविरः सुभूतिराह - कियच्चिरचरितावी स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यो य इह गम्भीरायां प्रज्ञापारमितायां योगमापत्स्यते? भगवानाह - विभज्य व्याकरणीयमेतत्सुभूते बोधिसत्त्वानां महासत्त्वानामिन्द्रियाधिमात्रतया / स्यात्खलु पुनः सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि दृष्ट्वा तेषामन्तिके ब्रह्मचर्यं चरित्वा इमां प्रज्ञापारमितां न श्रद्दध्युर्नाधिमुञ्चेयुः / तत्कस्य हेतोः? पूर्वम् अपि तेषां बुद्धानां भगवतामन्तिकादस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामगौरवता अभूत् / अगौरवतया अशुश्रूषणता, अशुश्रूषणतया अपर्युपासनता, अपर्युपासनतया अपरिपृच्छनता, अपरिपृच्छनतया अश्रद्दधानता, अश्रद्दधानतया ततः पर्षद्ध्यो ऽपक्रान्ताः, ते ततोनिदानं धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन एतर्ह्य् अपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामपक्रामन्ति / अगौरवतया अश्रद्दधाना अनधिमुञ्चन्तो न कायेन न चित्तेन सामग्रीं ददति / ते सामग्रीमददाना इमां प्रज्ञापारमितां न जानन्ति न पश्यन्ति न बुध्यन्ते न वेदयन्ते / एवं ते प्रज्ञापारमितां न श्रद्दधति / अश्रद्दधाना न शृण्वन्ति / (वैद्य 90) अशृण्वन्तो न जानन्ति / अजानन्तो न पश्यन्ति / अपश्यन्तो न बुध्यन्ते / अबुध्यमाना धर्मव्यसनसंवर्तनीयं कर्म कुर्वन्ति, संचिन्वन्ति आचिन्वन्ति उपचिन्वन्ति /
ते तेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन दुष्प्रज्ञसंवर्तनीयं कर्माभिसंस्करिष्यन्ति / तेन ते दुष्प्रज्ञसंवर्तनीयेन कर्मणा अभिसंस्कृतेन संचितेनाचितेनोपचितेन इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रत्याख्यास्यन्ति प्रतिक्षेप्स्यन्ति प्रतिक्रोक्ष्यन्ति, प्रतिक्षिप्य च अपक्रमिष्यन्ति / अस्याः खलु पुनः सुभूते प्रज्ञापारमितायाः प्रत्याख्यानेन प्रतिक्षेपेण प्रतिक्रोशेन अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रत्याख्याता भवति, प्रतिक्षिप्ता भवति, प्रतिक्रुष्टा भवति / ते स्वसंतानानुपहत्य दग्धाः परेषामप्यल्पबुद्धिकानामल्पप्रज्ञानामल्पपुण्यानामल्पकुशलमूलानां पुद्गलानां श्रद्धामात्रकसमन्वागतानां प्रेममात्रकसमन्वागतानां प्रसादमात्रकसमन्वागतानां छन्दमात्रकसमन्वागतानामादिकर्मिकाणामभव्यरूपाणां तद् अपि श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं छन्दमात्रकं विच्छन्दयिष्यन्ति विवेचयिष्यन्ति विवर्तयिष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नैतद्बुद्धवचनमिति वाचं भाषिष्यन्ते / एवं ते आत्मसंतानानुपहत्य विवेच्य परसंतानानप्युपहत्य विवेच्य प्रज्ञापारमितामभ्याख्यास्यन्ति / प्रज्ञापारमितायामभ्याख्यातायां सर्वज्ञता अभ्याख्याता भवति / सर्वज्ञतायामभ्याख्यातायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽभ्याख्याता भवन्ति / ते बुद्धानां भगवतामन्तिकादपक्रान्ता भविष्यन्ति, धर्मात्परिमुक्ता भविष्यन्ति, संघात्परिबाह्या भविष्यन्ति / एवं तेषां सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भविष्यति /
ते सत्त्वानां हितसुखोपच्छेदक्रियया महानिरयविपाकसंवर्तनीयं कर्म उपचेष्यन्ति / ते अनेनैवंरूपेण कर्माभिसंस्कारेणोपस्थापितेन समुत्थापितेन धर्मव्यसनसंवर्तनीयेन दुष्प्रज्ञसंवर्तनीयेन कर्मणा बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि बहूनि वर्षकोटीशतानि बहूनि वर्षकोटीसहस्राणि बहूनि वर्षकोटीशतसहस्राणि बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरयेषूपपत्स्यन्ते / ते महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तथा सुचिरं महानिरयान्महानिरयं संक्रामतां तेजःसंवर्तनी प्रादुर्भविष्यति / तेजःसंवर्तन्यां प्रादुर्भूतायां ये ऽन्येषु लोकधातुषु महानिरयाः, तत्र ते क्षेप्स्यन्ते / ते तेषु महानिरेयषु उपपत्स्यन्ते / ते तत्र विक्षिप्तास्तेषु महानिरयेषूपपन्नाः समानास्तत्रापि महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तत्रापि महानिरयान्महानिरयं संक्रामतां तत्रापि पुनरेव तथैव तेजःसंवर्तनी प्रादुर्भविष्यति / ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां ततश्च्युताः समानाः पुनरेव अन्येषु लोकधातुषु ये महानिरयास्तत्र क्षेप्स्यन्ते / ते तेषु महानिरयेषूपपत्स्यन्ते / ते तत्रापि तथैव महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तत्रापि सुचिरं महानिरयान्महानिरयं संक्रामतां तत्रापि तथैव तेजःसंवर्तनी प्रादुर्भविष्यति / ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां पुनरेव ततश्च्युतास्तेनैव अक्षीणेन सावशेषेण कर्मणा इहैव लोकधातौ पुनः क्षेप्स्यन्ते / क्षिप्ताः सन्तो महानिरयेषूपपत्स्यन्ते / ते पुनरेव तानि महानिरयेषु महान्ति महानिरयदुःखानि (वैद्य 91) प्रत्यनुभविष्यन्ति /
तावत्प्रत्यनुभविष्यन्ति, यावत्पुनरेव तेजःसंवर्तनी प्रादुर्भविष्यति / एवं ते बहुदुःखवेदनीयं कर्म प्रत्यनुभविष्यन्ति / तत्कस्य हेतोः? यथापि नाम दुर्भाषितत्वाद्वाचः //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - पञ्च भगवन् आनन्तर्याणि कर्माणि कृतान्युपचितानि अस्य मनोदुश्चरितस्य वाग्दुश्चरितस्य च न प्रतिवर्णिकान्य् अपि न अनुरूपाण्य् अपि न प्रतिरूपाण्य् अपि भवन्ति / भगवानाह - एवमेतच्छारिपुत्र, एवम् एतत् / पञ्चानन्तर्याणि शारिपुत्र कर्माणि कृतान्युपचितान्यस्य मनोदुश्चरितस्य च वाग्दुश्चरितस्य च न प्रतिवर्णिकान्य् अपि न अनुरूपाण्य् अपि न प्रतिरूपाण्य् अपि अस्य कर्मणः कृतस्य संचितस्य आचितस्य उपचितस्य / ये केचिदिमां गम्भीरा प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां प्रतिबाधितव्यां मंस्यन्ते, प्रतिक्षेप्स्यन्ति, प्रतिक्रोक्ष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नेयं तथागतभाषितेति वाचं भाषिष्यन्ते, ततो ऽन्यान् अपि सत्त्वान् विवेचयिष्यन्ति / ते स्वसंतानानुपहत्य परसंतानानुपहनिष्यन्ति / ते स्वसंतानान् सविषान् कृत्वा परसंतानान् सविषान् करिष्यन्ति / स्वयं नष्टाः परान् अपि नाशयिष्यन्ति / स्वयं गम्भीरां प्रज्ञापारमितामजानाना अनवबुध्यमानाः परान् अपि ग्राहयिष्यन्ति, नात्र शिक्षितव्यमिति वाचं भाषिष्यन्ते / नाहं शारिपुत्र एवंरूपाणां पुद्गलानां दर्शनमप्यभ्यनुजानामि, कुतस्तैः सह संवासं कुतो वा लाभसत्कारं कुतः स्थानम्? तत्कस्य हेतोः? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्या इति / कसम्बकजातास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः / कृष्णानिर्जातिकाः कृष्णाहिजातिकास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः / तेषां शारिपुत्र तथारूपाणां पुद्गालानां ये श्रोतव्यं मंस्यन्ते, सर्वे ते अनयेन व्यसनमापत्स्यन्ते /
ये च शारिपुत्र प्रज्ञापारमितां दूषयन्ति, इमे ते शारिपुत्र धर्मदूषकाः पुद्गला वेदितव्याः / शारिपुत्र आह - न भगवता तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणमाख्यातम् / भगवानाह - तिष्ठतु शारिपुत्र तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणम् / तत्कस्य हेतोः? मा तथारूपस्य पुद्गलस्य तदात्मभावस्य प्रमाणं श्रुत्वा उष्णं रूधिरं मुखादागच्छेत्, मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेत्, दह्येत वा, शोकशल्यो वा अस्याविशेत्, महाप्रपातं वा प्रपतेत्, उपशुष्येत वा म्लायेत वा / मैव महाप्रतिभयं तस्यात्मभावस्य प्रमाणमश्रौषीद्यस्येमे दोषाः संविद्यन्ते //
न भगवानायुष्मतः शारिपुत्रस्यावकाशं करोति - इयत्तस्यात्मभावस्य प्रमाणं भविष्यतीति / द्वितीयकम् अपि तृतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - आख्यातु मे भगवांस्तस्य पुद्गलस्यात्मभावस्य प्रमाणम् / पश्चिमाया जनताया आलोकः कृतो भविष्यतिअनेन वाङ्भनःकर्मणा कृतेन संचितेनोपचितेनोपचितेन एवं महान्तं महानिरयेष्वात्मभावं परिगृह्णीतेति / भगवानाह - एष एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यति, यदनेन वाङ्भनोदुश्चरितेन अकुशलेन कर्माभिसंस्कारेण अभिसंस्कृतेन संचितेनाचितेनोपचितेन इयच्चिरदुःखं प्रत्यनुभविष्यतीति / या एतस्यैव शारिपुत्र दुःखस्याप्रमेयता बहुदुःखता (वैद्य 92) व्याख्याता, एष एव शुक्लांशिकस्य कुलपुत्रस्य कुलदुहितुर्वा संवेगो भविष्यति / ततः स तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः कर्मभ्यो विनिवृत्य पुण्याभिसंस्कारमेव कुर्यात्, जीवितहेतोर् अपि सद्धर्मं न प्रतिक्षेप्स्यति - मा भूदस्माकम् अपि तादृशैर्दुःखै समवधानमिति //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - सुसंवृतकायकर्मवाक्कर्ममनस्कर्मणा भगवन् कुलपुत्रेण वा कुलदुहित्रा वा भवितव्यम् / तत्कस्य हेतोः? यत्र हि नाम भगवन् एवंरूपेण वाग्दुर्भाषितेन इयान् महापुण्यस्कन्धः प्रसूयते / कतमेन पुनर्भगवन् कर्मणा इयान् महापुण्यस्कन्धः प्रसूयते / भगवानाह - एवंरूपेण सुभूते वाग्दुर्भाषितेन इयान् महापुण्यस्कन्धः प्रसूयते / इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते, प्रतिक्षेप्तव्यां मंस्यन्ते, प्रतिबाधितव्यां मंस्यन्ते / प्रज्ञापारमितायां च प्रतिबाधितायां बुद्धानां भगवतां बुद्धबोधिः प्रतिबाधिता भवति / बुद्धबोधौ प्रतिबाधितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रतिबाधिता भवति / सर्वज्ञतायां प्रतिबाधितायां सद्धर्मः प्रतिबाधितो भवति / सद्धर्मे प्रतिबाधिते तथागतश्रावकसंघः प्रतिबाधितो भवति / तथागतश्रावकसंघे ऽपि प्रतिबाधिते एवं तस्य सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भवति, अप्रमेयासंख्येयतरश् च महानकुशलकर्माभिसंस्कारः परिगृहीतो भवति //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - को ऽत्र भगवन् हेतुः कः प्रत्ययो यत्स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधितव्यां मंस्यते? भगवानाह - माराधिष्ठितो वा सुभूते स कुलपुत्रो वा कुलदुहिता वा भविष्यति / दुष्प्रज्ञसंवर्तनीयेन वा कर्मणा गम्भीरेषु धर्मेषु नास्य श्रद्धा, नास्य प्रसादः / आभ्यां सुभूते द्वाभ्यां पापाभ्यां धर्माभ्यां समन्वागतः स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधिष्यते / पुनरपरं सुभूते स कुलपुत्रो वा कुलदुहिता वा पापमित्रहस्तगतो वा भविष्यति, अनभियुक्तो वा भविष्यति, स्कन्धाभिनिविष्टो वा भविष्यति, आत्मोत्कर्षी परेषां पंसको दोषान्तरप्रेक्षी वा भविष्यति / एभिरपि सुभूते चतुर्भिराकारैः स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति, य इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रतिबाधितव्यां मंस्यते इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां निरयपरिवर्तो नाम सप्तमः // asp_8: विशुद्धिपरिवर्तो ऽष्टमः / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - दुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / दुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन परीत्तकुशलमूलेन दुर्मेधसा अनर्थिकेन अल्पश्रुतेन हीनप्रज्ञेन पापमित्रोपस्तब्धेन अशुश्रूषणापरिपृच्छकजातीयेन कुशलेषु धर्मेष्वनभियुक्तेन //
सुभूतिराह - कियद्गम्भीरा बतेयं भगवन् प्रज्ञापारमिता दुरधिमोचतया? भगवानाह - रूपं सुभूते अबद्धममुक्तम् / तत्कस्य हेतोः? रूपास्वभावत्वात्सुभूते रूपमबद्धममुक्तम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सुभूते अबद्धममुक्तम् / तत्कस्य हेतोः? विज्ञानास्वभावत्वात्सुभूते विज्ञानमबद्धममुक्तम् / रूपस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तः / तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते रूपम् / रूपस्य सुभूते अपरान्तो ऽबद्धो ऽमुक्तः / तत्कस्य हेतोः? अपरान्तास्वभावं हि सुभूते रूपम् / प्रत्युत्पन्नं सुभूते रूपमबद्धमुक्तम् / तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं रूपम् / एवं वेदना संज्ञां संस्काराः / विज्ञानस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तः / तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते विज्ञानम् / विज्ञानस्य सुभूते अपरान्तो ऽबद्धो ऽमुक्तः / तत्कस्य हेतोः? अपरान्तास्वभावं हि सुभूते विज्ञानम् / प्रत्युत्पन्नं सुभूते विज्ञानमबद्धममुक्तम् / तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं विज्ञानम् //
सुभूतिराह - दुरधिमोचा भगवन् प्रज्ञापारमिता, परमदुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / दुरधिमोचा सुभूते प्रज्ञापारमिता, परमदुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन / तत्कस्य हेतोः? या सुभूते रूपविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः, सा रूपविशुद्धिः / इति हि सुभूते रूपविशुद्धिश् च फलविशुद्धिश् च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् / इति हि सुभूते फलविशुद्धितो रूपविशुद्धी रुपविशुद्धितः फलविशुद्धिः / एवं वेदनासंज्ञासंस्काराः / या सुभूते विज्ञानविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः सा विज्ञानविशुद्धिः / इति हि सुभूते विज्ञानविशुद्धिश् च फलविशुद्धिश् च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् / इति हि सुभूते फलविशुद्धितो विज्ञानविशुद्धिर्विज्ञानविशुद्धितः फलविशुद्धिः / पुनरपरं सुभूते या रूपविशुद्धिः सा सर्वज्ञताविशुद्धिः, या सर्वज्ञताविशुद्धिः सा रूपविशुद्धिः / इति हि सुभूते रूपविशुद्धिश् च सर्वज्ञताविशुद्धिश् च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् / इति हि सुभूते सर्वज्ञताविशुद्धितो रूपविशुद्धिः, रूपविशुद्धितः सर्वज्ञताविशुद्धिः / एवं वेदनासंज्ञासंस्काराः / या सुभूते विज्ञानविशुद्धिः सा सर्वज्ञताविशुद्धिः / या सर्वज्ञताविशुद्धिः (वैद्य 94) सा विज्ञानविशुद्धिः / इति हि सुभूते विज्ञानविशुद्धिश् च सर्वज्ञताविशुद्धिश् च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् / इति हि सुभूते सर्वज्ञताविशुद्धितो विज्ञानविशुद्धिः, विज्ञानविशुद्धितः सर्वज्ञताविशुद्धिः //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - अवभासकरी भगवन् प्रज्ञापारमिता / भगवानाहविशुद्धत्वाच्छारिपुत्र / आह - आलोको भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - अप्रतिसंधिर्भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - असंक्लेशो भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - अप्राप्तिरनभिसमयो भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - अनभिनिर्वृत्तिर्भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - अत्यन्तानुपपत्तिर्भगवन् प्रज्ञापारमिता कामधातुरूपधात्वारूप्यधातुषु / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - न जानाति न संजानीते भगवन् प्रज्ञापारमिता / भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - किं भगवन् प्रज्ञापारमिता न जानाति न संजानीते? भगवानाह - रूपं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते / तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते / तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र / आह - प्रज्ञापारमिता भगवन् सर्वज्ञताया नापकारं करोति, नोपकारं करोति? भगवानाह - विशुद्धत्वाच्छारिपुत्र / आह - प्रज्ञापारमिता भगवन् न कंचिद्धर्मं परिगृह्णाति, न परित्यजति? भगवानाह - विशुद्धत्वाच्छारिपुत्र /
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - आत्मविशुद्धितो भगवन् रूपविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मविशुद्धितो भगवन् वेदनासंज्ञासंस्कारविशुद्धिः / आत्मविशुद्धितो भगवन् विज्ञानविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मविशुद्धितो भगवन् फलविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मविशुद्धितोभगवन् सर्वज्ञताविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मविशुद्धितो भगवन् न प्राप्तिर्नाभिसमय? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मापर्यन्ततया भगवन् रूपापर्यतन्ता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारविज्ञानापर्यन्तता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आह - य एवमस्य बोधिसत्त्वस्य महासत्त्वस्य भगवन् अवबोधः, इयमस्य प्रज्ञापारमिता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते / आयुष्मान् सुभूतिराह - सा खलु पुनरियं भगवन् प्रज्ञापारमिता नापरे तीरे, न परे तीरे, नाप्युभयमन्तरेण विप्रकृता स्थिता / भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
