Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टसाहस्रिका प्रज्ञापारमिता

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भागं गृहाणेति, तत्र इमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / न खलु (वैद्य 49) पुनर्भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते / तथागतशरीराणि हि सर्वज्ञज्ञानाश्रयभूतानि / तद् अपि सर्वज्ञज्ञानं प्रज्ञापारमितानिर्जातम् / तस्मात्तर्हि भगवन् अनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / न खलु पुनर् मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवन् इतः प्रज्ञापारमितातो निर्जातानि तानि तथागतशरीराणि पूजां लभन्ते यदुत प्रज्ञापारमितापरिभावितत्वात् / तद्यथापि नाम भगवन् अनर्घं मणिरत्नमेभिरेवंरूपैर्गुणैः समन्वागतं स्यात् / तद्यथा - तद्यत्र यत्र स्थाप्येत, तत्र तत्र मनुष्या वा अमनुष्या वा अवतारं न लभेरन् / यत्र यत्र वा अमनुष्यगृहीतः कश्चिद्भवेत् पुरुषो वा स्त्री वा, तत्र तत्र तस्मिन् मणिरत्ने प्रवेशितमात्रे सो ऽमनुष्यस्ततो ऽपक्रामेत् / वातेनापि बाध्यमानस्य धम्यमाने शरीरे तन्मणिरत्नं स्थाप्येत / तस्य तं वातं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / पित्तेनापि दह्यमाने शरीरे स्थाप्येत / तस्य तद् अपि पित्तं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / श्लेष्मणापि परिगृद्धे सर्वतो बाध्यमाने शरीरे स्थाप्येत, तस्य तम् अपि श्लेष्माणं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / सांनिपातिकेनापि व्याधिना दुःखितस्य शरीरे स्थाप्येत, तस्य तम् अपि सांनिपातिकं व्याधिं

निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / अन्धकारतमिस्रायां च रात्रावप्यवभासं कुर्यात् / उष्णे चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेशः शीतलो भवेत् / शीते चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेश उष्णो भवेत् / यस्मिंश् च पृथिवीप्रदेशे आशीविषा अनुविचरेयुः, तथा अन्ये ऽपि क्षुद्रजन्तवः, तत्रापि पृथिवीप्रदेशे धार्येत, स्थापितं वा भवेत्, ते ऽप्याशीविषास्ते च क्षुद्रजन्तवस्ततो ऽपक्रामेयुः / सचेद्भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्टो भवेत्, तस्य तन्मणिरत्नं दश्येत, तस्य सहदंशनेनैव मणिरत्नस्य तद्विषं प्रतिहन्येत विगच्छेत् / एभिश्चान्यैश् च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् / येषाम् अपि केषांचिद्भगवन् अक्षिष्वर्बुदं वा तिमिरं वा अक्षिरोगो वा पटलं वा भवेत्, तेषां च तन्मणिरत्नमक्षिषु स्थाप्येत, तेषां स्थापितमात्रेणैव ते ऽक्षिदोषा निर्घातं प्रशमं गच्छेयुः / एतैश् च अन्यैश् च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् / यत्र चोदके स्थाप्येत, तदप्युदकमेकवर्णं कुर्यात्स्वकेन वर्णेन / सचेत्पाण्डरेण वस्त्रेण परिवेष्ट्य उदके प्रक्षिप्येत, तदुदकं पाण्डरीकुर्यात् / एवं सचेन्नीलेन पीतेन लोहितेन माञ्जिष्ठेन एतेषामन्येषां वा नानाप्रकाराणां वस्त्राणामन्यतमेन वस्त्रेण तन्मणिरत्नं वेष्टयित्वा वा बद्ध्वा वा उदके प्रक्षिप्येत, तेन तेन वस्त्ररागेण तत्तत्स्वभाववर्णं तदुदकं कुर्यात् / यो ऽपि तस्योदकस्य कलुषभावस्तम् अपि प्रसादयेत् / एभिर् अपि भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् //

अथ खल्वायुष्मानानन्दः शक्रं देवानामिन्द्रमेतदवोचत् - किं पुनः कौशिक देवलोक (वैद्य 50) एव तानि मणिरत्नानि सन्ति, उत जाम्बूद्वीपकानाम् अपि मनुष्याणां तानि मणिरत्नानि सन्ति? शक्र आह - देवेष्वार्यानन्द तानि मणिरत्नानि सन्ति / अपि तु खलु पुनर्जाम्बुद्वीपकानाम् अपि मनुष्याणां मणिरत्नानि सन्ति / तानि तु गुरुकाणि अल्पानि परीत्तानि गुणविकलानि, न तैस्तथारूपैर्गुणैः समन्वागतानि / तत्तेषां दिव्यानां मणिरत्नानां शततमीम् अपि कलां नोपयान्ति, सहस्रतमीमपि, शतसहस्रतमीमपि, कोटीतमीमपि, कोटीशततमीमपि, कोटीसहस्रतमीमपि, कोटीशतसहस्रतमीमपि, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपयान्ति, संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमन्ते नोपयान्ति / यानि खलु पुनर्देवेषु, तानि लघूनि सर्वाकारगुणपरिपूर्णानि / यत्र च करण्डके तन्मणिरत्नं प्रक्षिप्तं भवति उत्क्षिप्तं वा, तत उद्धृते ऽपि तस्मिन् मणिरत्ने करण्डकात् स्पृहणीय एव स करण्डको भवति / तैर्मणिरत्नगुणैः परा तत्र करण्डके स्पृहोत्पद्यते / एवमेव भगवन् प्रज्ञापारमिताया एते गुणाः सर्वज्ञज्ञानस्य च / येन परिनिर्वृतस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूजां लभन्ते - सर्वज्ञज्ञानस्येमानि तथागतशरीराणि भाजनभूतान्यभूवन्निति / यथा च भगवन् सर्वलोकधातुषु बुद्धानां भगवतां धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या, एवं धर्मभाणकस्य धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या /

यथा च भगवन् राजपुरुषो राजानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः, एवं स धर्मभाणको धर्मकायानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः / यथा च धर्मदेशना धर्मभाणकाश् च पूजां लभन्ते, एवं तानि तथागतशरीराणि पूजां लभन्ते / तस्मात्तर्हि भगवन् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, ये ऽपि भगवन् गङ्गानदीवालुकोपमा लोकधातवः, ते ऽपि सर्वे तथागतशरीराणां परिपूर्णाश्चूलिकाबद्धा एको भागः स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत / तत्र चेन्मां भगवन् कश्चिदेव प्रवारयेदन्यतरेण भागेन, प्रवार्यमाणो ऽनयोर्भागयोः स्थापितयोः - यस्ते भागो ऽभिप्रेतः तमेकं भागं परिगृह्णीष्वेति, तत्र इमामेवाहं भगवंस्तयोर्द्वयोर्भागयोः स्थापितयोर्भागं गृह्णीयां यदुत प्रज्ञापारमिताम् / न खलु पुनर्भगवन् मम तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवन् प्रज्ञापारमितापरिभाविता सर्वज्ञता, सर्वज्ञतानिर्जाता च तथागतशरीराणां पूजा भवति / तस्मात्तर्हि भगवन् प्रज्ञापारमितायां पूजितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां पूजा कृता भवति //

पुनरपरं भगवन् ये ऽप्रमेयेष्वसंख्येषु लोकधातुषु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् धर्मतया द्रष्टुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमितायां योगमापत्तव्यम् / प्रज्ञापारमिता भावयितव्या //

एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / ये ऽपि ते कौशिक अभूवन्नतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, ते ऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / (वैद्य 51) ये ऽपि ते कौशिक भविष्यन्त्यनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / ये ऽपि ते कौशिक एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि कौशिक बुद्धा भगवन्तः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / अहम् अपि कौशिक एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्धः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः //

एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - महापारमितेयं भगवन् यदुत प्रज्ञापारमिता / सर्वसत्त्वानां हि भगवंस्तथागतो ऽर्हन् सम्यक्संबुद्धश्चित्तचरितानि सम्यक् प्रजानाति संपश्यति / भगवानाह - एवमेतत्कौशिक, एवम् एतत् / तथा हि कौशिक बोधिसत्त्वो महासत्त्वो दीर्घरात्रं प्रज्ञापारमितायां चरति, तेन सर्वसत्त्वानां चित्तचरितानि प्रज्ञापारमितायां सम्यक् प्रजानाति संपश्यति //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - किं भगवन् प्रज्ञापारमितायामेव बोधिसत्त्वो महासत्त्वश्चरति नान्यासु पारमितासु? भगवानाह - सर्वासु कौशिक षट्सु पारमितासु बोधिसत्त्वो महासत्त्वश्चरति / अपि तु खलु पुनः कौशिक प्रज्ञापारमितैव अत्र पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य दानं वा ददतः, शीलं वा रक्षतः, क्षान्त्या वा संपादयमानस्य, वीर्यं वा आरभमाणस्य, ध्यानं वा समापद्यमानस्य, धर्मान् वा विपश्यतः बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितैवात्र पूर्वंगमा / न च कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां विशेषः, न च नानाकरणमुपलभ्यते / तद्यथापि नाम कौशिक जम्बुद्वीपे नानावृक्षा नानावर्णा नानासंस्थाना नानापत्रा नानापुष्पा नानाफला नानारोहपरिणाहसंपन्नाः, न च तेषां वृक्षाणां छायाया विशेषो वा नानाकरणं वा प्रज्ञायते, अपि तु छाया छायेत्येवं संख्यां गच्छति, एवमेव कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां न विशेषः, न च नानाकरणमुपलभ्यते / एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - महागुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता / अप्रमेयगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता / अपर्यन्तगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमितेति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः //

asp_5: पुण्यपर्यायपरिवर्तः पञ्चमः / अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / एवमिमं निर्देशं श्रुत्वा एवंमहार्थिका बतेयं प्रज्ञापारमिता, एवंमहानुशंसा, एवंमहाफला, एवंमहाविपाका बतेयं प्रज्ञापारमिता, एवं बहुगुणसमन्वागतेयं प्रज्ञापारमिता, अपरित्यजनीया मया प्रज्ञापारमिता, रक्षितव्या मम प्रज्ञापारमिता, गोपायितव्या मम प्रज्ञापारमिता, परमदुर्लभा हीयं प्रज्ञापारमितेत्यधिमुञ्चेत् / स्वयमेव चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः यो वा अन्यः संपूज्य परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेत्, अन्तशः पुस्तकगताम् अपि कृत्वा / कतरस्तयोर्भगवन् कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत् - यो वा परित्यागबुद्धिर्यो

वा न परित्यागबुद्धिः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि / यथा ते क्षमते व्याकुर्याः / तत्किं मन्यसे कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य शरीरं सत्कृत्य परिचरेद्धारयेत् सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत् स्वयमेव / यो वा अन्यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीरं स्वयं च सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, दद्यात् संविभजेत् वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय / कतरस्तयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? किं यः स्वयं च पूजयेत् परेभ्यश् च विस्तरेण संप्रकाशयेद्दद्यात् संविभजेत्, किं वा यः स्वयमेव प्रत्यात्मं पूजयेत्? शक्र आह - यो भगवन् कुलपुत्रो वा कुलदुहिता वा स्वयं च तथागतशरीरं सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेद्दद्यात्संविभजेत् वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय, अयमेवानयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवति / भगवानाह - एवमेतत्कौशिक, एवम् एतत् / एवमेतत्कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेदन्तशः पुस्तकगताम् अपि कृत्वा / अयमेव कौशिक तयोर्द्वयोः कुलपुत्रयोः (वैद्य 53)

कुलदुहित्रोर्वा परानुग्रहकरः कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्धिस्तन्निदानं बहुतरं पुण्यं प्रसवति //

पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र भाजनीभूताः कुलपुत्रा वा कुलदुहितरो वा स्युः अस्याः प्रज्ञापारमितायाः, तत्र तत्र गत्वा तेभ्यः इमां प्रज्ञापारमितां दद्यात् संविभागं कुर्यात्, अयमेव कौशिक ततः कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् //

पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा ये जम्बूद्वीपे सत्त्वास्तान् सर्वान् दशसु कुशलेषु कर्मपथेषु समादापयेत् प्रतिष्ठापयेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यः इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायाप्यकिलासितया संपादयेत् - उद्युक्तो ऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् /

तिष्ठन्तु खलु पुनः कौशिक जम्बूद्वीपे सर्वसत्त्वाः, एतेन कौशिक पर्यायेण ये ऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत् प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु (वैद्य 54) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशः लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तो ऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति / अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् //

पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु, सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात् अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तो ऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत् संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति / तिष्ठन्तु खलु पुनः कौशिक जम्बुद्वीपे सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा (वैद्य 55) चतुर्षु ध्यानेषु प्रतिष्ठापयेत् /

तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तो ऽमुं ग्राहयेत् संदर्शयेत् समादापयेत् समुत्तेजयेत संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / पुनरपरं कौशिक यावन्तो जम्बुद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु अप्रमाणेषु प्रतिष्ठापयेत्, एवं पेयालेन कर्तव्यम् / यथा चतुर्ष्वप्रमाणेषु, एवं चतसृष्वारूप्यसमापत्तिषु, पञ्चस्वभिज्ञासु, यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुंग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या (वैद्य 56) अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण ये ऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् /

तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, ये ऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमात्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, ये ऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, ये ऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण ये ऽपि केचित्कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति //

(वैद्य 57) पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा स्वयं च वाचयेत्, परेभ्यश् च लिखित्वा पूर्ववद्दद्यात्, अयत्नतः कौशिक पूर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामर्थकुशलो वाचयेत्, परेभ्यश् च लिखित्वा पूर्ववद्दद्यात्, सार्थां सव्यञ्जनामुपदिशेत् परिदीपयेत्, अयत्नतः कौशिक स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - इयम् अपि भगवन् प्रज्ञापारमिता उपदेष्टव्याः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - इयम् अपि कौशिक प्रज्ञापारमिता उपदेष्टव्या अबुध्यमानस्य कुलपुत्रस्य वा कुलदुहितुर्वा / तत्कस्य हेतोः? उत्पत्स्यते हि कौशिक अनागते ऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका / तत्र अबुध्यमानः कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो मा प्रणंक्षीत्तां प्रज्ञापारमिता प्रतिवर्णिकां श्रुत्वा //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कथं भगवन् अनागते ऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या - इयं सा प्रज्ञापारमिताप्रतिवर्णिकोपदिश्यत इति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - भविष्यन्ति कौशिक अनागते ऽध्वनि एके भिक्षवः अभावितकाया अभावितशीला अभावितचित्ता अभावितप्रज्ञा एडमूकजातीया प्रज्ञापरिहीणाः / ते प्रज्ञापारमितामुपदेक्ष्याम इति तस्याः प्रतिवर्णिकामुपदेक्ष्यन्ति / कथं च कौशिक प्रज्ञापारमिताप्रतिवर्णिकामुपदेक्ष्यन्ति? रूपविनाशो रूपानित्यतेत्युपदेक्ष्यन्ति / एवं वेदनासंज्ञासंस्काराः / विज्ञानविनाशो विज्ञानानित्यतेत्युपदेक्ष्यन्ति / एवं चोपदेक्ष्यन्ति - य एवं गवेषयिष्यति, स प्रज्ञापारमितायां चरिष्यतीति / इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या / न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्या / एवं वेदनासंज्ञासंस्काराः / न खलु पुनः कौशिक विज्ञानविनाशो विज्ञानानित्यता द्रष्टव्या / सचेदेवं पश्यति, प्रज्ञापारमिताप्रतिवर्णिकायां चरति / तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिताया अर्थ उपदेष्टव्यः / प्रज्ञापारमिताया अर्थमुपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् //

पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति (वैद्य 58) समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते //

तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //

तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //

तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //

तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //

तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो व कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं (वैद्य 59) चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषाम् अपि त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते //

पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्यशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समदापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते /

तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्यभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ (वैद्य 60) सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठातु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते //

पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वाननागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां (वैद्य 61) सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेवं त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते / तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चतुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् /

तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते //

(वैद्य 62) पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता व यावन्तो जम्बूद्वीपे सत्त्वाः, तान् अपि सर्वानर्हत्त्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते /

एवं चास्य उत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वानर्हत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् /

तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु (वैद्य 63) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिके अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्या अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि उपनिषद् अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते / एवं च अस्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसि / इति //

पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगतः / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति (वैद्य 64) समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते /

एवं चास्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेव स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यति, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति / तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोअकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् /

तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, ये ऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्याशयेन दद्यात्, (वैद्य 65) अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, अद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व - अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते / एवं चास्य उत्साहं वर्धयिष्यसि - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति //

पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तेषां सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तं समुत्पादयेत्, यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् / यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते / अत्रैव प्रज्ञापारमितां भावयन् वृद्धिं विरूढिं विपुलतां गतः परिपूरयिष्यति बुद्धधर्मानिति / अयं तस्मात्पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? नियतमेषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकानां सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् /

तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां (वैद्य 66) कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् / यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा दद्यात्, उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते / एवमस्येयं प्रज्ञापारमिता भूयस्या मात्रया भावनां वृद्धिं विरूढिं विपुलतां परिपूरिं गमिष्यतीति / अयं कौशिअक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् /

तत्कस्य हेतोः? नियतमेषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति //

पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, ते सर्वे अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत् / यश् च तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि उपनिषद् अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यात्, उपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकेभ्यः सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा (वैद्य 67) दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः /

तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //

भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो व कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् / अथापरः कौशिक बोधिसत्त्वो महासत्त्व उत्पद्येत, स एवं वदेत् - अहमेतेषां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति / यस्तं कौशिक कुलपुत्रो वा कुलदुहिता वा क्षिप्राभिज्ञतरं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायामववदेदनुशिष्यात्, अयं ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् //

अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - यथा यथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तथा तथा प्रज्ञापारमितायामववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायामवोद्यमानो ऽनुशिष्यमाणस्तथताया आसन्नीभवति / तथताया आसन्नीभवन् येषां परिभुङ्के चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, तेषां तान् कारान् कृतान् महाफलान् करोति महानुशंसान् / अतः स बहुतरं पुण्यं प्रसवति / (वैद्य 68) तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति - यद्बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः //

अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - साधु साधु कौशिक यस्त्वं बोधिसत्त्वयानिकानां पुद्गलानामुत्साहं ददासि अनुगृह्णीषे अनुपरिवारयसि / एवं च कौशिक त्वया करणीयम् - य आर्यश्रावकः सर्वसत्त्वानामनुग्रहं कर्तुकामः, स बोधिसत्त्वानां महासत्त्वानामनुत्तरायां सम्यक्संबोधावुत्साहं वर्धयति अनुगृह्णीते ऽनुपरिवारयति, एवमेतत्करणीयम् / तत्कस्य हेतोः? अतःप्रसूता हि बोधिसत्त्वानां महासत्त्वानामनुत्तरा सम्यक्संबोधिः / यदि हि बोधिसत्त्वा महासत्त्वा एतद्बोधिचित्तं नोत्पादयेरन्, न चैते बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ शिक्षेरन्, न षट्पारमितासु शिक्षेरन्, अशिक्षमाणा अनुत्तरां सम्यक्संबोधिं नाभिसंबुध्येरन् / यस्मात्तर्हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वशिक्षायामासु षट्पारमितासु शिक्षन्ते, तस्मादेतद्बोधिचित्तमुत्पादयन्ते, तस्मादनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त इति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः // asp_6: अनुमोदनापरिणामनापरिवर्तः षष्ठः / अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमामन्त्रयते स्म - यच्च खलु पुनः आर्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुमोदनापरिणामनासहगतं पुण्यक्रियावस्तु, यच्च सर्वसत्त्वानां दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, इदमेव ततो बोधिसत्त्वस्य महासत्त्वस्य अनुमोदनापरिणामनासहगतं पुण्यक्रियावस्तु अग्रमाख्यायते, श्रेष्ठमाख्यायते, ज्येष्ठमाख्यायते, वरमाख्यायते, प्रवरमाख्यायते, प्रणीतमाख्यायते, उत्तममाख्यायते, अनुत्तममाख्यायते, निरुत्तममाख्यायते, असममाख्यायते, असमसममाख्यायते //

एवमुक्ते आयुप्यान् सुभूतिः स्थविरं मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यत्पुनरयं मैत्रेय बोधिसत्त्वो महासत्त्वो दशदिशि लोके सर्वतः सर्वत्र गतया अप्रमेयाप्रमेयेषु असंख्येयासंख्येषु अपरिमाणापरिमाणेषु अचिन्त्याचिन्त्येषु अनन्तापर्यन्तेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु अतीते ऽध्वनि एकैकस्यां दिशि एकैकस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ अप्रमेयाप्रमेयाणायामसंख्येयासंख्येयानामपरिमाणापरिमाणानामचिन्त्याचिन्त्यानामनन्तापर्यन्तानामनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तथागतानामर्हतां सम्यक्संबुद्धानां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानां स्वपहृतभाराणामनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तचित्तानां सर्वचेतोवशिपरमपारमिप्राप्तानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच्च सद्धर्मो नान्तर्हितः, एतस्मिन्नन्तरे यस्तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धश्च, यानि च षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, बुद्धगुणसंपत्प्रतिसंयुक्तानि कुशलमूलानि, बलवैशारद्यपारमिताप्रतिसंयुक्तानि कुशलमूलानि, एवमभिज्ञापारमिताप्रतिसंयुक्तानि परिज्ञापारमिताप्रतिसंयुक्तानि प्रणिधानपारमिताप्रतिसंयुक्तानि सर्वज्ञज्ञानसंपत्प्रतिसंयुक्तानि कुशलमूलानि, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, या च अनुत्तरा सम्यक्संबोधिः, यच्च

अनुत्तरं सम्यक्संबोधिसुखम्, या च सर्वधर्मैश्वर्यपारमिता, यश् च अपरिमेयो ऽनभिभूतः सर्वाभिभूतः परमऋद्ध्यभिसंस्कारः, यच्च अनावरणमसङ्गमप्रतिहतमसममसमसममनुपममपरिमेयं तथागतयथाभूतज्ञानबलम्, यद्बुद्धज्ञानबलम्, बलानां यद्बुद्धज्ञानदर्शनम्, या च दशबलपारमिता, यश् च चतुर्वैशारद्यपरमसुखपरिपूर्णो ऽधिगमः, यश् च सर्वधर्माणां परमार्थाभिनिर्हारेण धर्माधिगमः, यच्च धर्मचक्रप्रवर्तनम्, धर्मोल्काप्रग्रहणम्, धर्मभेरीसंप्रताडनम्, धर्मशङ्खप्रपूरणम्, धर्मशङ्खप्रव्याहरणम्, धर्मखड्गप्रहरणम्, धर्मवृष्टिप्रवर्षणम्, धर्मयज्ञयजनम्, धर्मदानेन सर्वसत्त्वसंतर्पणम्, धर्मदानसंप्रवारणम्, ये च तत्र धर्मदेशनासु बुद्धधर्मेषु प्रत्येकबुद्धधर्मेषु (वैद्य 70) श्रावकधर्मेषु वा विनीताः शिक्षिता अधिमुक्ता नियताः संबोधिपरायणाः, तेषां च सर्वेषां यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि षट्पारमिताप्रतिसंयुक्तानि, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृताः प्रत्येकबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, यच्च श्रावकयानिकानां पुद्गलानां दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश् च पृथग्जनैस्तत्र धर्मकुशलमूलान्यवरोपितानि, तेषां च बुद्धानां भगवतां चतसृणां पर्षदां भिक्षूणां भिक्षुणीनां उपासकानामुपासिकानाम्, यच्च दानमयं

पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, यैश् च तत्र तेषां बुद्धानां भगवतां धर्मं देशयतां देवैर्नागैर्यक्षैर्गन्धर्वैरसुरैर्गरुडैः किन्नरैर्महोरगैर्मनुष्यामनुष्यैर्वा यैश् च तिर्यग्योनिगतैर् अपि सत्त्वैः कुशलमूलान्यवरोपितानि, यैश् च तेषां बुद्धानां भगवतां परिनिर्वापयताम् अपि कुशलमूलान्यवरोपितानि, यैश् च तत्र तेषां बुद्धानां भगवतां परिनिर्वृतानाम् अपि कुशलमूलान्यवरोपितानि, बुद्धं च भगवन्तमागम्य धर्मं चागम्य संघं चागम्य मनोभावनीयांश् च पुद्गलानागम्य तेषां च सर्वेषां यानि कुशलमूलानि, तत्सर्वं कुशलमूलं निरवशेषानिरवशेषमनवशेषमैकध्यमभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रया अनुमोदनया अनुमोदेत, श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया असमया असमसमया अनुमोदनया अनुमोदेत /

एवमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयामीति वाचं भाषेत - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति / तत्र बोधिसत्त्वयानिकः पुद्गलो यैर्वस्तुभिरनुमोदेत, यैरारम्बणैर्यैराकारैस्तच्चित्तमुत्पादयेत्, अपि नु तानि वस्तूनि तानि वा आरम्बणानि ते वा आकारास्तथोपलभ्येरन् यथा निमित्तीकरोति? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - न तानि भदन्त सुभूते वस्तूनि तानि वा आरम्बणानि ते वा आकारास्तथोपलभ्यन्ते यथा निमित्तीकरोति / एवमुक्ते आयुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यदि सो ऽसंविद्यमानं वस्तु असंविद्यमानमारम्बणमारम्बणीकुर्यात्, निमित्तीकुर्यात् तत्कथमस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो न भवेत्? तत्कस्य हेतोः? तथा हि रागो ऽप्यसंविद्यमानं वस्तु अनित्ये नित्यमिति दुःखे सुखमिति अनात्मन्यात्मेति अशुभे शुभमिति विकल्प्य संकल्प्य उत्पद्यते, संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासः / अथापि यथा वस्तु यथा आरम्बणं यथा आकारस्तथा बोधिस्तथा चित्तम्, एवं सर्वधर्माः सर्वधातवः / यदि च यथा वस्तु यथा आरम्बणं यथा आकारस्तथा बोधिस्तथा चित्तम्, तत्कतमैर्वस्तुभिःकतमैरारम्बणैः कतमैराकारैः कतमं चित्तमनुत्तरायां सम्यक्संबोधौ परिणामयति? कतमद्वा अनुमोदनासहगतं पुण्यक्रियावस्तु क्व अनुत्तरायां सम्यक्संबोधौ परिणामयति?

(वैद्य 71) अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - नेदमार्य सुभूते नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यं नोपदेष्टव्यम् / तत्कस्य हेतोः? यद् अपि हि स्यात्तस्य श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं गौरवमात्रकम्, तद् अपि तस्य सर्वमन्तर्धीयेत / अविनिवर्तनीयस्येदमार्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यमुपदेष्टव्यम् / यो वा कल्याणमित्रोपस्तब्धो सत्त्वो महासत्त्वो भवेत्, सो ऽत्र नावलेष्यते न संलेष्यते न विपत्स्यति न विषादमापत्स्यते, न विपृष्ठीकरिष्यति मानसम्, न भग्नपृष्ठीकरिष्यति, नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते / एवं च बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयितव्यम् //

अथ खल्वायुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - येन मैत्रेय चित्तेनानुमोद्य यत्परिणामयति, तच्चित्तं क्षीणं निरुद्धं विगतं विपरिणतम् / तत्कतमत्तच्चित्तं येन परिणामयति अनुत्तरायै सम्यक्संबोधये? कतमद्वा तच्चित्तमनुमोदनासहगतं पुण्यक्रियावस्तु यत्परिणामयत्यनुत्तरायै सम्यक्संबोधये? कथं वा शक्यं चित्तेन चित्तं परिणामयितुं यदा द्वयोश्चित्तयोः समवधानं नास्ति, न च तच्चित्तस्वभावता शक्या परिणामयितुम्?

अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत् - मा खल्वार्य सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते? कथं चार्य सुभूते बोधिसत्त्वेन महासत्त्वेन तदनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्? कथं च अनुमोदनासहगतं पुण्यक्रियावस्तु परिगृह्णता अनुमोदनासहगतं चित्तं परिणामयता तदनुमोदनासहगतं चित्तं सुपरिगृहीतं सुपरिणामितं भवति?

अथ खल्वायुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमारभ्य मैत्रेयं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - इह मैत्रेय बोधिसत्त्वो महासत्त्वस्तेषामतीतानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानामपहृतभाराणामनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तचित्तानां सर्वचेतोवशिपरमपारमिताप्राप्तानां दशसु दिक्षु अप्रमेयासंख्येयेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु एकैकस्यां दिशि एकैकस्मिंश् च त्रिसाहस्रमहासाहस्रे लोकधातौ अप्रमेयासंख्येयानां बुद्धानां भगवतां परिनिर्वृतानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच्च सद्धर्मो नान्तर्हितः, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां कुशलमूलानि पारमिताप्रतिसंयुक्तानि, यश् च तेषां बुद्धानां भगवतां पुण्याभिसंस्कारः कुशलमूलाभिसंस्कारः, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, (वैद्य 72) या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यश् च तैर्बुद्धैर्भगवद्भिर्धर्मो देशितः, ये च तस्मिन् धर्मे शिक्षिता अधिमुक्ताः प्रतिष्ठिताः, तेषां च यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वाव्याकृता अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि कुशलमूलानि षट्पारमिताप्रतिसंयुक्तानि, ये च

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.