Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टसाहस्रिका प्रज्ञापारमिता
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सुभूतिराह - कथं च भगवन् मायोपमं चित्तमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायोपमं चित्तम्? सुभूतिराह - नो हीदं भगवन् / भगवानाह - तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायाम्? आह - नो हीदं भगवन् / नाहं भगवन् मायोपमं चित्तं नापि मायां समनुपश्यामि / भगवानाह - तत्किं मन्यसे सुभूते यन्न मायां नापि मायोपमं चित्तं समनुपश्यसि, तत्किं त्वमन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदं भगवन् / नाहं भगवन् अन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मं समनुपश्यामि, यो धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / सो ऽहं भगवन् अन्यत्र मायाया मायोपमाद्वा चित्तात् तं धर्मसमनुश्यन् कतमं धर्ममुपदेक्ष्यामि अस्तीति वा नास्तीति वा? यश् च अत्यन्तविविक्तो धर्मः, न सो ऽस्तीति वा नास्तीति वा उपैति / यो ऽपि धर्मो ऽत्यन्ततया विविक्तः, नासावनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / तत्कस्य हेतोः? न हि भगवन् असंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / तस्मात्तर्हि भगवन् अत्यन्तविविक्ता प्रज्ञापारमिता / यश् च धर्मो ऽत्यन्तविविक्तः, नासौ धर्मो भावयितव्यः / नाप्यसौ कस्यचिद्धर्मस्यावाहको वा निर्वाहको वा / कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽत्यन्तविविक्तां प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? अनुत्तरापि नाम भगवन् सम्यक्संबोधिरत्यन्तविविक्ता /
यदा भगवन् प्रज्ञापारमिताप्यत्यन्तविविक्ता, अनुत्तरापि सम्यक्संबोधिरत्यन्तविविक्ता, तदा कथं भगवन् विविक्तेन विविक्तमभिसंबुद्धं भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते / एवमेतत्सुभूते, एवम् एतत् / अत्यन्तविविक्ता सुभूते प्रज्ञापारमिता, अत्यन्तविविक्तैव अनुत्तरा सम्यक्संबोधिः / यत एव सुभूते अत्यन्तविविक्ता प्रज्ञापारमिता, अत एव अत्यन्तविविक्ता अनुत्तरा सम्यक्संबोधिरभिसंबुध्यते / सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामत्यन्तविविक्तामिति संजानीते, न सा प्रज्ञापारमिता स्यात् / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि सुभूते प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च विवेकेन विवेकमभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् / न च प्रज्ञापारमितामनागम्याभिसंबुध्यते //
(वैद्य 218) सुभूतिराह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा गम्भीरे भगवन् अर्थे चरति बोधिसत्त्वो महासत्त्वः / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / गम्भीरे ऽर्थे सुभूते चरति बोधिसत्त्वो महासत्त्वः / दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वः, यो गम्भीरे ऽर्थे चरति, तं चार्थं न साक्षात्करोति यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा //
सुभूतिराह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा न कश्चिद्दुष्करकारको बोधिसत्त्वो महासत्त्वः / तत्कस्य हेतोः? तथा हि भगवन् स एव धर्मो नोपलभ्यते यः साक्षात्कुर्यात्, सो ऽपि धर्मो नोपलभ्यते यः साक्षात्क्रियते, सो ऽपि धर्मो नोपलभ्यते येन साक्षात्क्रियेत / सचेद्भगवन् एवं भाष्यमाणो बोधिसत्त्वो महासत्त्वो न संसीदति, नावलीयते न संलीयते, न विपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम् / सचेच्चरामीति न समनुपश्यति, चरति प्रज्ञापारमितायाम् / आसन्ना मे ऽनुत्तरा सम्यक्संबोधिरिति सचेदेवमति न समनुपश्यति, चरति प्रज्ञापारमितायाम् / दूरीकृता मे श्रावकभूमिः प्रत्येकबुद्धभूमिर्वेति सचेदस्यैवम् अपि न भवति, चरति प्रज्ञापारमितायाम् / तद्यथापि नाम भगवन् आकाशस्य नैवं भवति - कस्यचिदहमासन्नः, कस्यचिद्वा दूर इति / तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् आकाशस्य / एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरां सम्यक्सबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश् च मम दूर इति / तत्कस्य हेतोः? निर्विकल्पत्वाद्भगवन् प्रज्ञापारमितायाः / तद्यथापि नाम भगवन् मायापुरुषस्य नैवं भवति - मायाकारो ममासन्नः, यः पुनरन्यो जनकायः संनिपतितः स मम दूर इति / तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् मायापुरुषस्य / एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश् च मम दूर इति /
तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः / तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति - येनारम्बणेन प्रतिभास उत्पद्यते तन्ममासन्ने, ये तु खलु पुनरत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूर इति / तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रतिभासस्य / एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश् च मम दूर इति / तत् कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः / तद्यथापि नाम भगवंस्तथागतस्य कश्चित्प्रियो वा अप्रियो वा न संविद्यते, तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणत्वात्तथागतस्य, एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य न कश्चित्प्रियो वा अप्रियो वा संविद्यते / तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः / यथैव हि भगवन् सर्वकल्पविकल्पप्रहीणस्तथागतः, तथैव भगवन् प्रज्ञापारमितापि सर्वकल्पविकल्पप्रहीणा / तद्यथापि नाम भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन यो निर्मितको निर्मितः, न तस्यैवं भवति - श्रावकभूमिः प्रत्येकबुद्धभूमिश् च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति / तत्कस्य (वैद्य 219) हेतोः? अविकल्पत्वाद्भगवन्निर्मितस्य / एवमेव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां चरतो नैवं भवति - श्रावकभूमिः प्रत्येकबुद्धभूमिश् च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति / तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः /
तद्यथापि नाम भगवन् स निर्मितको यस्य कृत्यस्य कृतशो निर्मितः, तत्कृत्यं करोति / स च निर्मितको ऽविकल्पः / तत्कस्य हेतोः? अविकल्पत्वादेव निर्मितस्य / एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा / तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः / तद्यथापि नाम भगवन् दक्षेण पलगण्डेन वा पलगण्डान्तेवासिना वा दारुमयी स्त्री वा पुरुषो वा यन्त्रयुक्तः कृतो भवेत् / स यस्य कृत्यस्यार्थाय कृतः, तच्च कृत्यं करोति / स च दारुसंघातो ऽविकल्पः / तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् दारुसंघातस्य / एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा / तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् अस्याः प्रज्ञापारमिताया इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मायोपमपरिवर्तो नाम षड्विंशतितमः // asp_27: सारपरिवर्तः सप्तविंशतितमः / अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - सारे बतायमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति / एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत् - सारे बतायमायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति //
अथ खलु संबहुलानां कामावचराणां देवपुत्रसहस्राणामेतदभवत् - नमस्कर्तव्यास्ते सत्त्वाः, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि अभिनिर्हृतानि / ये चेह गम्भीरायां प्रज्ञापारमितायां चरन्ति, तथा चरन्तो भूतकोटिं न साक्षात्कुर्वन्ति, यदुत श्रावकभूमौ वा प्रत्यकबुद्धभूमौ वा / अनेनापि पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वा वेदितव्याः, ये धर्माणां धर्मतायां चरन्ति, न च तां धर्मतां साक्षात्कुर्वन्ति / अथ खल्वायुष्मान् सुभूतिस्तेषां संबहुलानां कामावचराणां देवपुत्रसहस्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तानि संबहुलानि कामावचराणां देवपुत्राणां सहस्राण्यामन्त्रयन्ते स्म - नेदं देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करम्, यत्ते तां भूतकोटिं न साक्षात्कुर्वन्ति / इदं तु देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करं चैव परमदुष्करं चैव, यदप्रमेयानसंख्येयानप्रमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते / ते च सत्त्वा अत्यन्ततया न संविद्यन्ते, असंविद्यमाना नोपलभ्यन्ते, सत्त्वविविक्तत्वात् / एवं वैनयिका अत्यन्ततया न संविद्यन्ते / एवं च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः सत्त्वान् विनेष्याम इति, आकाशं स देवपुत्रा विनेतव्यं मन्येत यः सत्त्वान् विनेतव्यान् मन्येत / तत्कस्य हेतोः? आकाशविविक्ततया हि देवपुत्राः सत्त्वविविक्तता वेदितव्या / अनेन देवपुत्राः पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः, ये ऽसंविद्यमानानामनुपलभ्यमानानां सत्त्वानां कृतशः संनाहं संनह्यन्ते /
आकाशेन न स देवपुत्राः सार्धं वेदितव्यं मन्येत, यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत / अयं च संनाहो बोधिसत्त्वेन महासत्त्वेन सत्त्वानां कृतशः संनद्धः / सर्वात्यन्ततया सत्त्वानुपलब्धिरुक्ता तथागतेनार्हता सम्यक्संबुद्धेन / सा च सत्त्वविविक्ततयैव वेदितव्या, वैनयिकविवक्ततया च सत्त्वविविक्तता वेदितव्या / सचेदत्रैवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, वेदितव्यमेतद्देवपुत्राः - चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् / तत्कस्य हेतोः? सत्त्वविविक्ततया हि रूपविविक्तता वेदितव्या / एवं सत्त्वविविक्ततया वेदनासंज्ञासंस्कारविविक्तता वेदितव्या / सत्त्वविविक्ततया विज्ञानविविक्तता वेदितव्या / एवं यावत्सत्त्वविविक्ततया सर्वधर्मविविक्तता वेदितव्या / एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्या / एवं देवपुत्राः सर्वधर्मविविक्ततायां भाष्यमाणायां बोधिसत्त्वो महासत्त्वो न संसीदति / यतो न संसीदति, ततश्चरति प्रज्ञापारमितायाम् //
अथ खलु भगवान् जानन्नेव आयुष्मन्तं सुभूतिमेतदवोचत् - किं कारणं सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति? सुभूतिराह - (वैद्य 221) विविक्तत्वाद्भगवन्न संसीदति / अनेन भगवन् कारनेन बोधिसत्त्वो महासत्त्वः सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति / नापि भगवन् कश्चिद्धर्मः संसीदति / तत्कस्य हेतोः? न हि भगवन् कश्चिद्धर्म उपलभ्यते, यः संसीदेत् / सो ऽपि भगवन् धर्मो नोपलभ्येत, येन धर्मेण यो धर्मः संसीदेत् / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / अपि तु खलु पुनः सुभूते सचेदेवं भाष्यमाणे देश्यमाने निर्दिश्यमाने एवमुपदिश्यमाने बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति न विषादमापद्यते, नावलीयते न संलीयते, न विपृष्ठीकरोति मानसम्, न भग्नपृष्ठीकरोति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम् / सुभुतिराह - एवमेतद्भगवन्, एवमेतत्सुगत / सचेद्भगवन् बोधिसत्त्वो महासत्त्व एवं चरति, चरति प्रज्ञापारमितायाम् / एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति /
भगवानाह - न केवलं सुभूते एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति, ये ऽपि ते सुभूते ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, ते ऽपि सुभूते तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां एवं चरन्तं नमस्यन्ति / ये ऽपि ते सुभूते अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि बुद्धा भगवन्तः प्रज्ञापारमितायामेवं चरन्तं बोधिसत्त्वं महासत्त्वं बुद्धचक्षुषा पश्यन्ति / ते च सुभूते बोधिसत्त्वं महासत्त्वां प्रज्ञापारमितायां चरन्तमनुगृह्णन्ति, समन्वाहरन्ति / ये च खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते समन्वाह्रियन्ते, ते ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः / न च तेषामन्तराया उत्पत्स्यन्ते मारतो वा अन्यतो वा / तत्कस्य हेतोः? ये सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे माराः पापीयांसो भवेयुः / एकैकश् च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते / ते ऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः /
तिष्ठन्तु खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वा माराः पापीयांसः, यावन्त सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते ऽपि सर्वे माराः पापीयांसो भवेयुः, एकैकश् च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते, ते ऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः / द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये दुर्धर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / कतमाभ्यां द्वाभ्याम्? यदुत सर्वसत्त्वाश्चास्य अपरित्यक्ता भवन्ति, सर्वधर्माश् च अनेन शून्यतातो व्यवलोकिता भवन्ति / (वैद्य 222) आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / कतमाभ्यां द्वाभ्याम्? यदुत यथावादी तथाकारी च भवति, बुद्धैश् च भगवद्भिः समन्वाह्रियते / आभ्यां सुभूते द्वाभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / एवं चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य देवा अप्युपसंक्रमितव्यं मंस्यन्ते /
उपसंक्रम्य च परिप्रष्टव्यं मंस्यन्ते, परिप्रश्नीकर्तव्यं मंस्यन्ते, पर्युपासितव्यं मंस्यन्ते, उत्साहं चास्य वर्धयिष्यन्ति - क्षिप्रं त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / तस्मात्तर्हि कुलपुत्र अनेनैव विहारेण विहर यदुत प्रज्ञापारमिताविहारेण / तत्कस्य हेतोः? एतेनैव हि त्वं कुलपुत्र विहारेण विहरन् अनाथानां सत्त्वानां नाथो भविष्यसि, अत्राणानां सत्त्वानां त्राता भविष्यसि, अशरणानां सत्त्वानां शरणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धानां सत्त्वानामालोको भविष्यसि, अपरिणायकानां सत्त्वानां परिणायको भविष्यसि, अगतिकानां सत्त्वानां गतिर्भविष्यसि, मार्गप्रनष्टानां सत्त्वानामप्रतिशरणानां मार्गप्रणेता प्रतिशरणं भविष्यसि / एवं ते देवपुत्रास्तस्य बोधिसत्त्वस्य महासत्त्वस्योत्साहं वर्धयिष्यन्ति / तत्कस्य हेतोः? एतेन हि सुभूते प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य ये ते ऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि भिक्षुसंघपरिवृता बोधिसत्त्वगणपुरस्कृताः प्रज्ञापारमितायां चरतो विहरतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य एभिरेवंरूपैर्गुणैः समन्वागतस्य यदुत प्रज्ञापारमिताविहरणगुणैः, बुद्धा भगवन्तो नाम च गोत्रं च बलं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्य /
तद्यथापि नाम सुभूते अहमेतर्हि रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य, शिखिनो बोधिसत्त्वस्य महासत्त्वस्य नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपो धर्मं देशयामि, उदानं चोदानयामि अपरेषां च बोधिसत्त्वानां महासत्त्वानाम्, य एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति / एवमेव सुभूते ते ऽपि बुद्धा भगवन्तो ये एतर्हि इह मम बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनेन च प्रज्ञापारमिताविहारेण विहरन्ति, तेषां च बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
सुभूतिराह - किं सर्वेषामेव भगवन् बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - नो हीदं सुभूते / न सुभूते सर्वेषां बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं (वैद्य 223) देशयन्ति, उदानं चोदानयन्ति, किं तर्हि सुभूते ये ते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः सर्वसङ्गविगताः, तेषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
सुभूतिराह - सन्ति भगवन् अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा ततो ऽन्ये बोधिसत्त्वा महासत्त्वाः, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - सन्ति सुभूते प्रतिपक्षबलिनो बोधिसत्त्वयानिकाः पुद्गलाः अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / ते पुनः कतमे? ये एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति, अनुशिक्षमाणरूपा विहरन्ति, इमे ते सुभूते बोधिसत्त्वयानिकाः पुद्गला अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / ये ऽपि ते सुभूते रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचर्यां चरन्ति, अनुशिक्षमाणा विहरन्ति, इमे ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वधर्मा अनुत्पत्तिका इत्यधिमुञ्चन्ति, न च तावदनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धा भवन्ति / सर्वधर्माः शान्ता इत्यधिमुञ्चन्ति, न च सर्वधर्मेष्वविनिवर्तनीयवशिताप्राप्तिमवक्रान्ता भवन्ति / अनेनापि सुभूते विहारेण विहरतां तेषां बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, प्रहीणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश् च / बुद्धभूमिरेव तेषां प्रतिकाङ्क्षितव्या / ते ऽपि व्याकरिष्यन्ते ऽनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? येषां हि सुभूते बोधिसत्त्वानां महासत्त्वानां एवं प्रज्ञापारमितायां चरतां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं न रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, ते ऽप्यविनिवर्तनीयतायां स्थास्यन्ति //
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा अधिमोक्ष्यन्ति, न धन्धायिष्यन्ति, न काङ्क्षिष्यन्ति, न विचिकित्सिष्यन्ति, एवमेतद्यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितमित्यधिमुच्य विस्तरेण श्रोष्यन्ति, एवं च चित्तमुत्पादयिष्यन्ति - (वैद्य 224) इमां वयं प्रज्ञापारमितामक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकाद्विस्तरेण शृणुयामेति, तेषां च बोधिसत्त्वयानिकानां पुद्गलानां ये चास्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति, तेषां चान्तिकादिमामेव प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति, ते ऽप्येनां प्रज्ञापारमितामधिमुच्यमाना यथा तथागतेन भाषिता तथा चाधिमोक्ष्यन्ते, तथा चाधिमुच्यमाना अविनिवर्तनीयतायां स्थास्यन्ति / एवं सुभूते बहुकरं प्रज्ञापारमितायाः श्रवणम् अपि वदामि, कः पुनर्वादो य एनामधिमोक्ष्यन्ति / अधिमुच्य तथत्वाय स्थास्यन्ति / तथत्वाय प्रतिपत्स्यन्ते / तथत्वाय स्थित्वा तथत्वाय प्रतिपद्य तिष्ठन्ति तथतायाम् / तथतायां तिष्ठन्तः सर्वज्ञतायां च धर्मं देशयन्ति //
सुभूतिराह - यदा भगवंस्तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा को ऽयं भगवन् धर्मः स्थास्यति तथतायाम्, को वा अयमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वा अयमिमं धर्मं देशयिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - यत्सुभूते एवं वदसि - यदा तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा को ऽयं भगवन् धर्मस्तथतायां स्थास्यति, को वाचमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वायमिमं धर्मं देशयिष्यतीति / न सुभूते तथताविनिर्मुक्तो ऽन्यः कश्चिद्धर्म उपलभ्यते, यो धर्मस्तथतायां स्थास्यति / तथतैव तावत्सुभूते नोपलभ्यते, कः पुनर्वादो यस्तथतायां स्थास्यति / न सुभूते तथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / सो ऽपि सुभूते धर्मो न कश्चिदुपलभ्यते, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा / न सुभूते तथता धर्मं देशयति / सो ऽपि सुभूते नोपलभ्यते, यो धर्मो देश्येत //
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वाः, ये ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः / तत्कस्य हेतोः? न च नाम भगवन् कश्चिद्धर्मस्तथतायां तिष्ठति, नापि कश्चिद्धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि कश्चिद्धर्मं देशयति / अत्र च ते नावलीयन्ते, नापि काङ्क्षन्ति, नापि धन्धायन्ते //
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - यत्कौशिक एवं वदसि - दुष्करकारका बोधिसत्त्वा महासत्त्वाः, येषामेवं गम्भीरेषु धर्मेषु भाष्यमाणेषु न भवति / काङ्क्षायितत्वं धन्धायितत्वं वेति / सर्वधर्मेषु कौशिक शून्येषु कस्यात्र काङ्क्षायितता वा भवति धन्धायितता वा भवति? शक्र आह - यद्यदेव आर्यसुभूतिर्निर्दिशति, तत्तदेव शून्यतामारभ्य निर्दिशति, न च क्वचित्सज्जति / तद्यथापि नाम अन्तरीक्षे इषुः क्षिप्तो नैव क्वचित्सज्जति, एवमेव आर्यसुभूतेर्धर्मदेशना न क्वचित्सज्जति //
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कच्चिदहं भगवन् सुभूतिं स्थविरमारभ्य एवं भाषमाणं एवं निर्दिशंस्तथागतस्योक्तवादी भवामि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोमि? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - यत्खलु (वैद्य 225) त्वं कौशिक एवं भाषसे - एवमेतत्कौशिक, एवम् एतत् / एवं भाषमाणं एवं निर्दिशंस्तथागतस्योक्तवादी भवसि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोषि / तत्कस्य हेतोः? यद्यदेव हि कौशिक सुभूतेः स्थविरस्य प्रतिभाति, तत्तदेव कौशिक शून्यतामारभ्य प्रतिभाति / तत्कस्य हेतोः? सुभूतिर्हि कौशिक स्थविरः प्रज्ञापारमिताम् अपि तावन्न समनुपश्यति, नोपलभते, कुतः पुनर्यः प्रज्ञापारमितायां चरति / बोधिमेव तावन्नोपलभते, किं पुनर्यो बोधिमभिसंभोत्स्यते / सर्वज्ञतामेव तावन्नोपलभते, कुतः पुनर्यः सर्वज्ञतामनुप्राप्स्यति / तथतामेव तावन्नोपलभते, कुतः पुनर्यस्तथागतो भविष्यति / अनुत्पादमेव तावन्नोपलभते, किं पुनर्यो ऽनुत्पादं साक्षात्करिष्यति / बोधिसत्त्वमेव तावन्नोपलभते, कुतः पुनर्यो बोधिमभिसंभोत्स्यते / बलान्येव तावन्नोपलभते, कुतः पुनर्यो बलसमङ्गी भविष्यति / वैशारद्यान्येव तावन्नोपलभते, कुतः पुनर्यो विशारदो भविष्यति / धर्ममेव तावन्नोपलभते, कुतः पुनर्यो धर्मं देशयिष्यति / सर्वधर्मविविक्तविहारेण सर्वधर्मानुपलम्भविहारेण हि कौशिक सुभूतिः स्थविरो विहरति /
यः खलु पुनरयं कौशिक सुभूतेः स्थविरस्य सर्वधर्मविविक्तविहारः सर्वधर्मानुपलम्भविहारश्च, एष कौशिक विहारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतः शततमीम् अपि कलं नोपैति / सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति / संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते / तथागतविहारं हि कौशिक स्थापयित्वा ततो ऽन्यान् सर्वान् विहारानभिभवत्ययं विहारः, यो ऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः / अयं कौशिक तेषां सर्वविहाराणामग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तर आख्यायते, असम आख्यायते, असमसम आख्यायते / सर्वश्रावकप्रत्येकबुद्धविहारानयं विहारो ऽभिभवति, यो ऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः / तस्मात्तर्हि कौशिक सर्वसत्त्वानामग्रतां गन्तुकामेन श्रेष्ठतां गन्तुकामेन ज्येष्ठतां गन्तुकामेन वरतां गन्तुकामेन प्रवरतां गन्तुकामेन प्रणीततां गन्तुकामेन उत्तमतां गन्तुकामेन अनुत्तमतां गन्तुकामेन निरुत्तरतां गन्तुकामेन असमतां गन्तुकामेन असमसमतां गन्तुकामेन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनेन विहारेण विहर्तव्यम्, यो ऽयं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां विहरतां विहार इति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सारपरिवर्तो नाम सप्तविंशतितमः // asp_28: अवकीर्णकुसुमपरिवर्तो ऽष्टाविंशतितमः / अथ खलु तस्मिन् समये ऽन्यतरो देवपुत्रस्त्रायस्त्रिंशैर्देवपुत्रैः सार्धं मान्दारवाणि महामान्दारवाणि च पुष्पाणि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः / षष्ठं शतं च भिक्षूणां तस्मिन्नेव समये तस्यामेव पर्षदि संनिपतितं संनिषण्णं चाभूत् / ते उत्थायासनेभ्य एकांसान्युत्तरासङ्गानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमयामासुः / तेषा भिक्षूणां बुद्धानुभावेन ते ऽञ्जलिप्रग्रहा मान्दारवमहामान्दारवाणां पुष्पाणां परिपूर्णा अभूवन् / ते तैर्मान्दारवैर्महामान्दारवैश् च पुष्पैस्तथागतमर्हन्तं सम्यक्संबुद्धमवाकिरन्, अभ्यवाकिरन्, अभिप्राकिरन्, एवं च वाचमभाषन्त - वयं भगवन् अस्यां प्रज्ञापारमितायां चरिष्यामः, वयं भगवन् अनेन अनुत्तरेण प्रज्ञापारमिताविहारेण विहारिष्याम इति //
अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुरकरोत् / धर्मता खलु पुनरेषां बुद्धानां भगवताम् - यदा स्मितं प्रादुष्कुर्वन्ति, अथ तदा नानावर्णा अनेकवर्णा रश्मयो भगवतो मुखद्वारान्निश्चरन्ति - तद्यथा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णवर्णाः / ते निश्चर्य अनन्तापर्यन्तान् लोकधातूनाभया अवभास्य यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्ते //
अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदवोचत् - नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति / को भगवन् हेतुः, कः प्रत्ययः स्मितस्य प्रादुष्करणाय? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - इदमानन्द भिक्षूणां षष्ठं शतमनागते ऽध्वनि तारकोपमे कल्पे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अभिसंबुध्य च सत्त्वेभ्यो धर्मं देशयिष्यति / सर्वे चैकनामानो भविष्यन्ति यदुत अवकीर्णकुसुमनामानः / तथागता अर्हन्तः सम्यक्संबुद्धाः शास्तारो लोके भविष्यन्ति / तेषां खलु पुनरानन्द अवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सर्वेषां समः श्रावकसंघो भविष्यति / सर्वेषां च तेषामवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सममेवायुःप्रमाणं भविष्यति विंशतिकल्पसहस्राणि / सर्वेषामेव चैकैकस्य वैस्तारिकं प्रवचनं भविष्यति पृथुवैपुल्यप्राप्तं देवमनुष्येषु / सर्वेषामेव च सद्धर्मः समं स्थास्यति, विंशतिमेव कल्पसहस्राण्येकैकस्य / सर्वे च ते यतो यत एव ग्रामनगरनिगमजनपदराष्ट्रराजधानीतो ऽभिनिष्क्रमिष्यन्ति, अभिनिष्क्रम्य यत्र यत्र धर्मचक्रं प्रवर्तयिष्यन्ति, प्रवर्त्य च यत्र यत्र च विहरिष्यन्ति, यतो यतश् च यत्र यत्रैव च प्रवेक्षन्ति, येन येन च यतो यत एव चाभिनिष्क्रमिष्यन्ति, ततस्ततस्तत्र तत्र तेषां प्रविशतामभिनिष्क्रामतां विहरतां च पञ्चवर्णिकानां पुष्पाणां पुष्पवर्षाः प्रवर्तिष्यन्ते /
तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैरुत्तमेन विहारेण विहर्तुकामैः प्रज्ञापारमिताविहारेण (वैद्य 227) विहर्तव्यम् / तथागतविहारेण आनन्द विहर्तुकामैः प्रज्ञापारमिताविहारेण विहर्तव्यम् / ये हि केचिदानन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरिष्यन्ति, निष्ठा तत्र गन्तव्या - मनुष्येभ्य एवैते च्युता भविष्यन्ति / ते इहोपपन्नास्तुषितेभ्य एव वा देवनिकायेभ्यश्च्युता भविष्यन्ति मनुष्येष्वेवोपपन्नाः / तत्कस्य हेतोः? तथा हि मनुष्येषु तुषितेषु च देवेषु इयं प्रज्ञापारमिता विस्तरेण प्रचरिष्यतीति / तथागतावलोकिताः खलु पुनरानन्द ते बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इह प्रज्ञापारमितायां चरिष्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति, धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य अन्तशो लिखित्वा बोधिसत्त्वान् महासत्त्वानववदिष्यन्ति अनुशासिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति / अवरोपितकुशलमूलास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्यास्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु / न केवलं श्रावकप्रत्येकबुद्धानामन्तिके तैः कुशलमूलान्यवरोपितानि इह प्रज्ञापारमितायां शिक्षितुम्, निःसंशयं खलु पुनरानन्द तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु तैः कुशलमूलान्यवरोपितानि बोधिसत्त्वैर्महासत्त्वैः, य इह प्रज्ञापारमितायां शिक्षन्ते, न चोत्रासमापद्यन्ते /
ये च आनन्द एनां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, अर्थतश् च धर्मतश् च नयतश्चानुगमिष्यन्ति, निष्ठा आनन्द तत्र गन्तव्या - संमुखीभूतास्ते अभूवन् बोधिसत्त्वा महासत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानामिति / ये चैनां प्रज्ञापारमितां न प्रतिक्रोशन्ति, न प्रतिवहन्ति, न प्रतिकोपयन्ति, न प्रतिसंहरन्ति, न प्रतिषेधयन्ति, न प्रतिक्षिपन्ति, न प्रतिबाधितव्यां मंस्यन्ते, ते ऽप्यानन्द बोधिसत्त्वा महासत्त्वाः पूर्वजिनकृताधिकारा वेदितव्याः //
किंचाप्यानन्द बोधिसत्त्वेन महासत्त्वेन तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके कुशलमूलमवरोपितम्, एवं हि तन्न श्रावकप्रत्येकबुद्धत्वाय दास्यति विपाकम् / सचेद्बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ न विसंवादयिष्यति प्रणिधानम्, अपि तु खलु पुनरानन्द प्रायेण तेन बोधिसत्त्वेन महासत्त्वेन कृतज्ञेन भवितव्यं प्रज्ञापारमितायां चरितवता / तस्मात्तर्हि ते आनन्द परीन्दामि अनुपरीन्दामि इमां प्रज्ञापारमितां भूयस्या मात्रया अक्षरसंनिपातादुद्ग्रहणाय धारणाय वाचनाय पर्यवाप्तये प्रवर्तनाय चिरस्थितये यथेयं नान्तर्धीयेत / सचेत्त्वमानन्द यो मया ते धर्मो देशितः साक्षात् स्थापयित्वा प्रज्ञापारमिताम्, तां सर्वां धर्मदेशनामुद्गृह्य पुनरेव विप्रणाशयेः, पुनरेवोत्सृजेः विस्मारयेः, न मे त्वमानन्द एतावता अपराद्धः स्याः / यत्खलु पुनस्त्वमानन्द प्रज्ञापारमिताप्रतिसंयुक्तं पदं वा पदसामन्तकं वा नाशयेः, उत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः / सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, न त्वयाहं सत्कृतो गुरुकृतः स्याम्, न मानितो न पूजितो नार्चितो नापचायितः स्याम् / ये ऽपि (वैद्य 228) ते आनन्द अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः, ते ऽपि त्वया आनन्द न सत्कृता न गुरुकृता न मानिता न पूजिता नार्चिता नापचायिता भवन्ति / सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः / तत्कस्य हेतोः? उक्तमेतदानन्द तथागतेन -
प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री सर्वज्ञताया आहारिकेति / तस्मात्तर्हि आनन्द परीन्दामि अनुपरीन्दामि ते इमां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत / उद्ग्रहीतव्येयमानन्द प्रज्ञापारमिता, धारयितव्येयमानन्द प्रज्ञापारमिता, वाचयितव्येयमानन्द प्रज्ञापारमिता, पर्यवाप्तव्येयमानन्द प्रज्ञापारमिता, प्रवर्तयितव्येयमानन्द प्रज्ञापारमिता, देशयितव्येयमानन्द प्रज्ञापारमिता, उपदेष्टव्येयमानन्द प्रज्ञापारमिता, उद्देष्टव्येयमानन्द प्रज्ञापारमिता, स्वाध्यातव्येयमानन्द प्रज्ञापारमिता, लिखितव्येयमानन्द प्रज्ञापारमिता, भावयितव्येयमानन्द प्रज्ञापारमिता / सुमनसिकृता च सुधृता च सुपर्यवाप्ता च सुप्रवर्तिता च त्वया आनन्द इयं प्रज्ञापारमिता कर्तव्या / सुपरिव्यक्तेनाक्षरपदव्यञ्जनेन सुनिरुक्ता चोद्ग्रहीतव्या / तत्कस्य हेतोः? अतीतानागतप्रत्युत्पन्नानां हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानां धर्मकायतेति तां धर्मतां प्रमाणीकृत्य / यथा तत्त्वमानन्द एतर्हि मे तथागतस्य तिष्ठतो ध्रियमाणस्य यापयतो हितैषितया प्रेमतो वा गौरवतो वा कल्याणतो वा स्पर्शविहारतो वा कर्तव्यं वा दातव्यं वा समन्वाहर्तव्यं वा मन्यसे, तथैव त्वया आनन्द इयं प्रज्ञापारमिता उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या लिखितव्या भावयितव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या, तया हितैषितया तेन प्रेम्णा तेन गौरवेण तया गुणवत्तया / एवं त्वया आनन्द अहं पूजितो भवामि, ते च
बोधिसत्त्वा महासत्त्वाः / अतीतानागतप्रत्युत्पन्नानां च बुद्धानां भगवतामन्तिके प्रेम च प्रसादश् च गौरवं चोत्पादितं भवति / यदि ते आनन्द अहं प्रियो मनआपो ऽपरित्यक्तस्तथागतः, ततस्ते आनन्द इयं प्रज्ञापारमिता प्रिया मनआपा अपरित्यजनीया भवतु, यथा ते एकपदम् अपि न प्रणश्येत्, यथा नान्तर्धीयेत / बह्व् अपि ते आनन्द अहं भाषेयं प्रज्ञापारमितायाः परीन्दनामारम्य कल्पं वा कल्पावशेषं वा कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा कल्पकोटीं वा कल्पकोटीशतं वा कल्पकोटीसहस्रं वा कल्पकोटीशतसहस्रं वा ततो वा उपरि / संक्षेपेण आनन्द यादृशस्तवाहं शास्ता, तादृशी ते प्रज्ञापारमिता शास्ता / यादृशास्ते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सदेवमानुषासुरस्य लोकस्य शास्तारः, तादृशी प्रज्ञापारमिता सदेवमानुषासुरस्य लोकस्य शास्ता / तस्मात्तर्हि आनन्द अपरिमाणा प्रज्ञापारमिता / अपरिमाणया परीन्दनया प्रज्ञापारमितां ते परीन्दाम्यनुपरीन्दामि सदेवमानुषासुरस्य लोकस्य हिताय सुखाय / यस्य आनन्द तथागतो न परित्यक्तः, धर्मो न परित्यक्तः, संघो न परित्यक्तः, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर्न परित्यक्ता, तस्य प्रज्ञापारमिता अपरित्यक्ता भवतु / इयमस्माकमनुशासनी / (वैद्य 229) यो ऽपि कश्चिदानन्द एनां प्रज्ञापारमितामुद्गृह्णीयाद्धारयेत्पर्यद्वाचयेदाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत् लिखेद्भावयेत्, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवेत् / यो हि कश्चिदानन्द एनां प्रज्ञापारमितां प्रलुज्यमानामनुपरिगृह्णीते, अतीतानागतप्रत्युत्पन्नानां बुद्धानां
भगवतां तेन बोधिरनुपरिगृहीता भवति / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द बुद्धानां भगवतां बोधिः / ये ऽपि ते आनन्द अभूवन्नतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिरभूत् / ते ऽपि ते आनन्द अनागते ऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिर्भविष्यति / ये ऽपि ते आनन्द अप्रमेयेष्वसंख्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः / तस्मात्तर्हि आनन्द बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या / इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम् / तत्कस्य हेतोः? एषा हि आनन्द प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता जननी जनयित्री / ये ऽपि केचिदानन्द बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु शिक्षित्वा निर्याताः, निर्यास्यन्ति निर्यान्ति च अनुत्तरायां सम्यक्संबोधौ, सर्वे ते आनन्द प्रज्ञापारमितामागम्य षट्सु पारमितासु शिक्षिताः / ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य षट्सु पारमितासु निर्जाताः / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द सर्वाः पारमिताः आहारिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः /
तस्मात्तर्हि आनन्द भूयस्या मात्रया एनां प्रज्ञापारमितां द्वितीयकम् अपि तृतीयकम् अपि परीन्दाम्यनुपरीन्दामि ते, यथेयं नान्तर्धीयेत / एषा हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानामक्षयो धर्मकोषः, यदुत प्रज्ञापारमिता / तत्कस्य हेतोः? यो हि आनन्द अतीते ऽध्वनि अनवराग्रे संसारे सत्त्वानां बुद्धैर्भगवद्भिर्धर्मो देशितः, सर्वः स इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः / ये ऽपि ते आनन्द अनागते ऽध्वनि बुद्धा भगवन्तो ऽपरिमिते संसारे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां धर्मं देशयिष्यन्ति, ते ऽपि बुद्धा भगवन्त इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः / ये ऽपि ते आनन्द एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, धर्मं च देशयन्ति, तेषामप्यानन्द बुद्धानां भगवतामित एव धर्मकोषात्प्रभावना भवति, यदुत प्रज्ञापारमितातः / तस्मात्तर्हि आनन्द अक्षय एष धर्मकोषो यदुत प्रज्ञापारमिताकोषः / सचेत्त्वमानन्द श्रावकयानि श्रावकयानिकानां पुद्गलानां श्रावकभूमौ धर्मं देशयेस् तस्यां च धर्मदेशनायां ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे अर्हत्वं साक्षात् कुर्युस् तथापि त्वया मे श्रावकेण धर्मचक्रप्रवर्तनानुप्रवर्तनतो धर्मदेशयता श्रावककृत्यं न कृतं स्यात् सचेत् पुनस् त्वम् आनन्द बोधिसत्वस्य महासत्वस्य एकम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयेः संप्रकाशयेः एवम् अहं त्वया श्रावकेण धर्मचक्रप्रवर्तनानुवर्तनतो धर्मं देशयनतो आराधितः स्यान्. न तु तया पौर्विकया धर्मदेशनया यया ते त्रिसाहस्रमहासाहस्रे लोकधातौ
सर्वसत्वा अर्हत्वं प्रापितास्. तेषां चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु तत् किं मन्यसे आनन्दापि नु स बहु पुण्यस्कन्धः?" / आनन्दः आह / "बहु भगवन्! बहु सुगत!" भगवान् आह / "तत स आनन्द! श्रावकयानिकः पुद्गलो बहुतरं पुण्यं प्रसवति यो बोधिसत्वानां महासत्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति. अतो ऽपि स आनन्द! बहुतरं पुण्यं प्रसवति यो बोधिसत्वो महासत्वो ऽपरस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति / अन्तश एकदिवसम् अपि तिष्ठत्व् आनन्दैकदिवसम् अन्तशः पुरोभक्तम् अपि. तिष्ठत्व् आनन्द! पुरोभक्तम् अपि. तिष्ठत्व् आनन्द! पुरोभक्तं देशितः / अन्तश एकनालिकाम् अपि एकनालिकान्तरम् अपि वा तिष्ठत्व् आनन्द! एकनालिकान्तरम् अन्तशो मुहूर्तम् अपि तिष्ठत्व् आनन्द! मुहूर्तम् अन्तश एकलवम् अपि तिष्ठत्व् आनन्द! एकलवम् अन्तश एकक्षणसंनिपातम् अपि यो ह्य् आनन्द! बोधिसत्वो महासत्वः अपरस्य बोधिसत्वस्य महासत्वस्य एकक्षणलवम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयन्त्य् अयं ततो ऽतिबहुतरं पुण्यं प्रसवति / इदं ह्य् आनन्द! तस्य बोधिसत्वस्य महासत्वस्य धर्मदानं सर्वश्रावकप्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलान्य् अभिभवति //
एवम् आनन्द! कुशलमूलसमन्वागतो बोधिसत्वो महासत्व एवम् एतत् कुशलमूलं समन्वाहरन्न् अस्थानम् एतद् आनन्दानवकाशो यत् स बोधिसत्वो महासत्वो विवर्तेतानुत्तरायाः सम्यक्संबोधेर् नैतत् स्थानं विद्यते" // अथ खलु भगवांस् तस्यां वेलायां तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेण ऋद्ध्यभिसंस्कृतेन ताश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या वा सर्वे ते बुद्धानुभावेनाक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं (वैद्य 230) धर्मं देशयन्तं सागरोपमायां गम्भीरायामक्षोभ्यायां पर्षदि बोधिसत्त्वैर्महासत्त्वैरचिन्त्यगुणसमन्वागतैः परिवृतं पुरस्कृतं सर्वैश्चार्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचितैः सर्वचेतोवशिपरमपारमिप्राप्तैः //
अथ खलु भगवांस्तमृद्ध्यभिसंस्कारं पुनरेव प्रतिसंहरति स्म / प्रतिसंहृते च भगवता तस्मिन् ऋद्ध्यभिसंस्कारे न भूयः स भगवानक्षोभ्यस्तथागतो ऽर्हन् सम्यक्संबुद्धः संदृश्यते स्म / ते च सर्वे बोधिसत्त्वा महासत्त्वाः, ते च महाश्रावकाः, तच्च बुद्धक्षेत्रं तासां चतसृणां गन्धर्वासुरगरुडकिन्नरमहोरगाणां मनुष्यामनुष्याणां च न चक्षुष आभासं भूय आगच्छन्ति स्म / तत्कस्य हेतोः? प्रतिसंहृतो हि तथागतेनार्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारः / तेन ते सर्वे सर्वेषां तेषां न भूयश्चक्षुष आभासमागच्छन्ति स्म //
अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - एवमानन्द सर्वधर्मा न चक्षुषो ऽप्याभासमागच्छन्ति, न धर्माधर्माणामाभासमागच्छन्ति, न धर्माधर्मान् पश्यन्ति, न धर्माधर्मान् जानन्ति / तत्कस्य हेतोः? सर्वधर्मा हि आनन्द अजानका अपश्यकाः, न कार्यसमर्थाः / तत्कस्य हेतोः? निरीहका हि आनन्द सर्वधर्मा अग्राह्या आकाशनिरीहकतया / अचिन्त्या ह्यानन्द सर्वधर्मा मायापुरुषोपमाः / अवेदका ह्यानन्द सर्वधर्मा असद्भावतामुपादाय / एवं चरन्त आनन्द बोधिसत्त्वा महासत्त्वाश्चरन्ति प्रज्ञापारमितायम् / न कंचिद्धर्ममभिनिविशन्ते / एवं शिक्षमाणा आनन्द बोधिसत्त्वा महासत्त्वाः शिक्षन्ते प्रज्ञापारमितायाम् / सर्वशिक्षापरमपारमितां महाबोधिं प्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / तत्कस्य हेतोः? एषा ह्यानन्द शिक्षा सर्वशिक्षाणामग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते, सर्वलोकहितावहा सर्वलोकसुखावहा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता / अस्यामानन्द प्रज्ञापारमितायां शिक्षित्वा अत्र शिक्षायां स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रं लोकधातुमेकेन पदाङ्गुष्ठेनोत्क्षिप्य पुनरेव निक्षिपेयुः / न च तेषां बुद्धानां भगवतामेवं स्यात् - उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुः निक्षिप्तो वेति / तत्कस्य हेतोः? अप्रमेयासंख्येयगुणसमन्वागता हि प्रज्ञापारमिता /
अस्यामानन्द प्रज्ञापारमिताशिक्षायां शिक्षित्वा बुद्धा भगवन्तो ऽतीतानागतप्रत्युत्पन्नेषु धर्मेष्वसङ्गतामनुप्राप्ताः / यावत्य आनन्द काश्चिच्छिक्षाः अतीतानागतप्रत्युत्पन्ने ऽध्वनि, सर्वासां तासामानन्द शिक्षाणामियमेव प्रज्ञापारमिताशिक्षा अग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते / अप्रमाणा ह्यानन्द प्रज्ञापारमिता / अक्षया ह्यानन्द प्रज्ञापारमिता / अपर्यन्ता ह्यानन्द प्रज्ञापारमिता / तत्कस्य हेतोः ? असत्त्वादेव (वैद्य 231) प्रज्ञापारमितायाः / आकाशस्य हि स आनन्द प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येतः, यः प्रज्ञापारमितायाः प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येत / तत्कस्य हेतोः? अप्रमाणा ह्यानन्द प्रज्ञापारमिता / अक्षया ह्यानन्द प्रज्ञापारमिता / अपर्यन्ता ह्यानन्द प्रज्ञापारमिता / न मया आनन्द प्रज्ञापारमितायाः प्रमाणं वा क्षयो वा पर्यन्तो वा आख्यातः / नामकायपदकायव्यञ्जनकायाः खलु पुनरानन्द प्रमाणबद्धाः / नेयमानन्द प्रज्ञापारमिता प्रमाणबद्धा / तत्कस्य हेतोः? न ह्यानन्द नामकायपदकायव्यञ्जनकायाः प्रज्ञापारमिता / न हि प्रमाणवतीयमानन्द प्रज्ञापारमिता / अपरिमाणा ह्यानन्द प्रज्ञापारमिता //
आनन्द आह - केन पुनः कारणेन भगवन् भगवता प्रज्ञापारमितायाः प्रमाणं नाख्यातम् ? भगवानाह - अक्षयत्वादानन्द प्रज्ञापारमितायास्तथागतः प्रमाणं न निर्दिशति / विविक्तत्वादानन्द प्रज्ञापारमितायाः प्रमाणं तथागतेन नाख्यातम् / न ह्यानन्द विविक्तस्य धर्मस्य विविक्तताप्युपलभ्यते, कुतः पुनरस्य प्रमाणं भविष्यति? एवमानन्द प्रज्ञापारमिता अप्रमेयत्वादप्रमाणा अपरिमाणा / ये ऽपि ते आनन्द अतीते ऽध्वन्यभूवंस्तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाविताः / न चानन्द इयं प्रज्ञापारमिता क्षीणा वा परिक्षीणा वा / ये ऽपि ते आनन्द अनागते ऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभावयिष्यन्ते / न चानन्द इयं प्रज्ञापारमिता क्षेष्यते वा परिक्षेष्यते वा / ये ऽपि ते आनन्द एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाव्यन्ते / न चेयमानन्द प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा / अहमप्यानन्द एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्धः / ममाप्यानन्द इत एव प्रज्ञापारमितातः प्रभावना / न चानन्द इयं प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा / तत्कस्य हेतोः? आकाशं हि स आनन्द क्षययितव्यं मन्येत, यः प्रज्ञापारमितां क्षययितव्यां मन्येत / तस्मात्तर्ह्यानन्द अक्षयेयं प्रज्ञापारमिता //
अथ खल्वायुष्मतः सुभूतेरेतदभवत् - गम्भीरमिदं स्थानं तथागतेन भाषितम् / यन्न्वहं तथागतं पृच्छेयमेतत्स्थानम् / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - अक्षया भगवन् प्रज्ञापारमिता? भगवानाह - अक्षया हि सुभूते प्रज्ञापारमिता यदुत आकाशाक्षयत्वात्सर्वधर्मानुत्पादतः / सुभूतिराह - कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवानाह - रूपाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं वेदनासंज्ञासंस्काराः / विज्ञानाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / अविद्याक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं संस्काराक्षयत्वेन विज्ञानाक्षयत्वेन नामरूपाक्षयत्वेन षडायतनाक्षयत्वेन स्पर्शाक्षयत्वेन (वैद्य 232) वेदनाक्षयत्वेन तृष्णाक्षयत्वेन उपादानाक्षयत्वेन भवाक्षयत्वेन जात्यक्षयत्वेन जरामरणाक्षयत्वेन शोकपरिदेवदुःखदौर्मनस्योपायासाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अन्तद्वयविवर्जिता प्रतीत्यसमुत्पादव्यवलोकना / एवं व्यवलोकयन् सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यनुत्पादमनाद्यन्तमध्यं तं व्यवलोकयति / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मो बोधिमण्डे निषण्णस्य, यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति /
एवं व्यवलोकयतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादः सर्वज्ञज्ञानप्रतिलम्भो भवति / यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्वः अनेन अक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयति, स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यति, अपि तु स्थास्यति सर्वज्ञतायाम् / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः, सचेत् इमान् मनसिकारानिदं चोपायकौशल्यमनागम्य न जानन्ति - कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या, कथं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्य इति / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवृत्ता विवर्तन्ते, विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः, सर्वे ते इदमुपायकौशल्यमनागम्य विवृत्ता विवर्तन्ते विवर्त्स्यन्ते च / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च, सर्वे ते इमां प्रज्ञापारमितामागम्य न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः / एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्यः / एवं खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद्धर्ममहेतुकमुत्पद्यमानं समनुपश्यति, न कंचिद्धर्मं नित्यं वा ध्रुवं वा शाश्वतं वा अविपरिणामधर्मकं वा समनुपश्यति /
न कंचिद्धर्मं कारकं वा वेदकं वा समनुपश्यति / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमां प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरतो ऽस्यां प्रज्ञापारमितायां चरतः प्रतीत्यसमुत्पादव्यवलोकना / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरन् प्रतीत्यसमुत्पादं व्यवलोकयति, तस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं समनुपश्यति, नाविद्यां समनुपश्यति / एवं न संस्कारान्न विज्ञानं न नामरूपं न षडायतनं न स्पर्शं न वेदनां न तृष्णां नोपादानं न भवं न जातिं न जरामरणं न शोकपरिदेवदुःखदौर्मनस्योपायासान् समनुपश्यति / इदं बुद्धक्षेत्रमिति न समनुपश्यति, अन्यद्बुद्धक्षेत्रमिति न समनुपश्यति / तम् अपि धर्मं न समनुपश्यति, येन धर्मेण इदं वा अन्यद्वा बुद्धक्षेत्रं समनुपश्येत् / इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति / (वैद्य 233) तद्यथापि नाम सुभूते पुरुषो मातापितृषु कालगतेषु परमशोकशल्यसमर्पितो भवति, एवमेव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति //
सुभूतिराह - किमेक एव भगवन् मारः पापीयान् परमशोकशल्यसमर्पितो भवति, उताहो बहवो माराः पापीयांसः परमशोकशल्यसमर्पिता भवन्ति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः ते ऽपि सर्वे तस्मिन् समये परमशोकशल्यसमर्पिता भवन्ति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ मारां पापीयांसः ते सर्वे परमशोकशल्यसमर्पिता भवन्ति, स्वकस्वकेष्वासनेषु न रमन्ते / तत्कस्य हेतोः? प्रज्ञापारमिताविहारेण हि विहरतो ऽस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोको ऽवतारं न लभते ग्रहणाय, गाधं न लभते, यत्रैनं गृहीत्वा विहेठयेद्वा विवर्तयेद्वा अनुत्तरायाः सम्यक्संबोधेः / तस्मात्तर्हिः सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमितायां चरितव्यम् / तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता भावनापरिपूरिं गच्छति / प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः षट् पारमिता भावनापरिपूरिं गच्छन्ति, सर्वाणि चोपायकौशल्यानि भावनापरिपूरिं गच्छन्ति / तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन्मारकर्माण्युत्पद्येरन्, सर्वाणि तान्युत्पद्यमानान्येव स प्रज्ञास्यति, प्रजानन् विसर्जयिष्यति /
सर्वोपायकौशल्यानि सुभूते परिग्रहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमिता भावयितव्या / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितामभिनिर्हरति, तस्मिन् समये सुभूते न बोधिसत्त्वेन महासत्त्वेन ये ऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते समन्वाहर्तव्याः / तेषाम् अपि इतोनिर्जातैव सर्वज्ञता यदुत प्रज्ञापारमितातः / एवं समन्वाहृत्य तेन बोधिसत्त्वेन महासत्त्वेन पुनरेवं चित्तमुत्पादयितव्यम् - अहमप्येतान् धर्माननुप्राप्स्यामि ये तैर्बुद्धैर्भगवद्भिरनुप्राप्ता इति / एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इमे चित्तोत्पादा उत्पादयितव्या अभिनिर्हर्तव्या दिवसस्यात्ययेन, अन्तशो ऽच्छटासंघातमात्रकम् अपि / यश् च सुभूते औपलम्भिको बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात्, अयमेव तत औपलम्भिकाद्बोधिसत्त्वान्महासत्त्वाद्बहुतरं पुण्यं प्रसवति, यो ऽयं बोधिसत्त्वो महासत्त्वो दिवसस्यात्ययेन इमां प्रज्ञापारमितामभिनिर्हरेत्, अन्तशो ऽच्छटासंघातमात्रकम् अपि / अयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयतायां स्थास्यति / तथागतसमन्वाहृतः स बोधिसत्त्वो महासत्त्वो वेदितव्यः, यो ऽस्यां प्रज्ञापारमितायां चरन् इमांश्चित्तोत्पादानुत्पादयति दिवसस्यात्ययेन (वैद्य 234) अन्तशो ऽच्छटासंघातमात्रकम् अपि / कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन् /
तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य का गतिः प्रतिकाङ्क्षितव्या? तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नान्या गतिः प्रतिकाङ्क्षितव्या अन्यत्रानुत्तरायाः सम्यक्संबोधेः / अभव्यश्चासावपायेषूपपत्तुम् / स्वर्गोपपत्तिरेव तस्य प्रतिकाङ्क्षितव्या / तत्रापि तथागतैरविरहितो भविष्यति, तथागताविरहितेषु च बुद्धक्षेत्रेषूपपत्स्यते, सत्त्वांश् च परिपाचयिष्यति / इमे ऽपि सुभूते गुणाः, इमे ऽप्यनुशंसा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, प्रज्ञापारमितामभिनिर्हरतः, इमांश्चित्तोत्पादानुत्पादयतः अन्तशो ऽच्छटासंघातमात्रकम् अपि / कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन्, तद्यथापि नाम सुभूते गन्धहस्तिनो बोधिसत्त्वस्य महासत्त्वस्य य एतर्ह्यक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरतीति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः //
asp_29: अनुगमपरिवर्त एकोनत्रिंशत्तमः / पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन एवं प्रज्ञापारमिता अनुगन्तव्या - सर्वधर्मासङ्गतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मासंभेदनतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मासंभवतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मानिर्विकारसमा इति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माणामनात्मविज्ञप्तितः प्रज्ञानुबोधनतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माश् च नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते इति प्रज्ञापारमिता अनुगन्तव्या / व्यवहारश् च न क्वचिन्न कुतश्चिन्न कश्चिद्व्यवहारः / सर्वधर्मा अव्यवहारा अव्याहारा अव्यवहृता अव्याहृता इति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या / रूपाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या / एवं वेदनाप्रमाणतः संज्ञाप्रमाणतः संस्काराप्रमाणतः / विज्ञानाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मानिमित्ततः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मनिर्वेधतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मप्रकृतिपरिशुद्धितः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मावचनतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माणामनिरोधतः प्रहाणसमतया प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माणां निर्वाणप्राप्तितस्तथतासमतया प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा नागच्छन्ति, न गच्छन्ति, अजानाना अजाता अत्यन्ताजातित इति प्रज्ञापारमिता अनुगन्तव्या / आत्मपरादर्शनतः प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा आर्यार्हन्तः प्रकृतिपरिशुद्धा इति प्रज्ञापारमिता अनुगन्तव्या / अपहृतभाराः सर्वधर्माभारानारोपणतयेति प्रज्ञापारमिता
अनुगन्तव्या / सर्वधर्मादेशाप्रदेशतः प्रज्ञापारमिता अनुगन्तव्या / तत्कस्य हेतोः ? रूपं हि सुभूते अदेशमप्रदेशं प्रकृतिस्वभावतः / एवं वेदना संज्ञा संस्काराः / विज्ञानं हि सुभूते अदेशमप्रदेशं प्रकृईतिस्वभावतः सर्वधर्मनिरोधप्रह्लादनत्वादिति प्रज्ञापारमिता अनुगन्तव्या / अरत्यविरतितः प्रज्ञापारमिता अनुगन्तव्या / अरक्ताविरक्ततया प्रज्ञापारमिता अनुगन्तव्या / तत्कस्य हेतोः? रूपं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते / एवं वेदना संज्ञा संस्काराः / विज्ञानं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते प्रकृतिपरिशुद्धत्वादिति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा असक्ताः सङ्गासङ्गविगता इति प्रज्ञापारमिता अनुगन्तव्या / बोधिः सर्वधर्मा बुद्धज्ञानावबोधनतयेति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मशून्यानिमित्ताप्रणिहिततया प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा भैषज्यमैत्रीपूर्वंगमतयेति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा मैत्रीविहारिणः करुणाविहारिणो मुदिताविहारिण उपेक्षाविहारिण इति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्मा ब्रह्मभूता दोषानुत्पादनतः सर्वदोषानुत्पादनत इति प्रज्ञापारमिता अनुगन्तव्या / सर्वधर्माणामप्रणिहिततो ऽप्रतिहतित इति प्रज्ञापारमिता अनुगन्तव्या / समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / मेरुविचित्रतया प्रज्ञापारमिताविचित्रता अनुगन्तव्या / रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता (वैद्य 236) अनुगन्तव्या / एवं वेदना संज्ञा संस्काराः / विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता
अनुगन्तव्या / सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / सर्वशब्दापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / सर्वबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / कुशलाकुशलधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या / सर्वधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या / सर्वधर्मसमाध्यपर्यन्तताप्रतिलम्भितया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / सर्वबुद्धधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / चित्तचैतसिकापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या / कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता अनुगन्तव्या / सिंहनादनदनतया प्रज्ञापारमितानदनता अनुगन्तव्या / सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यता अनुगन्तव्या / तत्कस्य हेतोः ? रूपं हि सुभूते समुद्रसमम् / एवं वेदनां संज्ञा संस्काराः / विज्ञानं हि सुभूते समुद्रसमम् / रूपं हि गगनसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं गगनसमम् / रूपं विचित्रमेरूसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं विचित्रमेरुसमम् /
रूपमपर्यन्तसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानमपर्यन्तसमम् / रूपं सूर्यमण्डलरश्म्युत्पादसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सूर्यमण्डलरश्म्युत्पादसमम् / रूपं सर्वशब्दापर्यन्तसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वशब्दापर्यन्तसमम् / रूपं सर्वसत्त्वधात्वपर्यन्तसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वसत्त्वधात्वपर्यन्तसमम् / रूपं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम् / रूपं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम् / रूपं पृथिवीसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं पृथिवीसमम् / रूपमप्समम् / एवं वेदना संज्ञा संस्काराः / विज्ञानमप्समम् / रूपं तेजःसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं तेजःसमम् / रूपं वायुसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं वायुसमम् / रूपमाकाशसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानमाकाशसमम् / रूपं विज्ञानसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं विज्ञानसमम् / रूपं कुशलाकुशलधर्मसंचयविगतम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं कुशलाकुशलधर्मसंचयविगतम् / रूपं सर्वधर्मसंचयविगतम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वधर्मसंचयविगतम् / रूपं सर्वधर्मसमाध्यपर्यन्ततासमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वधर्मसमाध्यपर्यन्ततासमम् / रूपं विगमः, रूपस्वभावो रूपतथता बुद्धधर्माः /
एवं वेदना संज्ञा संस्काराः / विज्ञानं विगमः, (वैद्य 237) विज्ञानस्वभावो विज्ञानतथता बुद्धधर्माः / रूपं सर्वधर्मापर्यन्तधर्मता / एवं वेदना संज्ञा संस्काराः / विज्ञानं सर्वधर्मापर्यन्तधर्मता / रूपं शून्यमपर्यन्तधर्मता / एवं वेदना संज्ञा संस्काराः / विज्ञानं शून्यमपर्यन्तधर्मता / रूपं चित्तचैतसिकापर्यन्तता / एवं वेदना संज्ञा संस्काराः / विज्ञानं चित्तचैतसिकापर्यन्तता / रूपं चित्तचरितोत्पत्तिः / एवं वेदना संज्ञा संस्काराः / विज्ञानं चित्तचरितोत्पत्तिः / रूपं कुशलमकुशलम्, यावदनुपलब्धिः / एवं वेदना संज्ञा संस्काराः / विज्ञानं कुशलमकुशलम्, यावदनुपलब्धिः / रूपं सिंहनादसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं सिंहनादसमम् / रूपमकोप्यम् / एवं वेदना संज्ञा संस्काराः / विज्ञानमकोप्यम् / एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अनुगन्तव्या //
यदायं सुभूते बोधिसत्त्वो महासत्त्व एवमेनां प्रज्ञापारमितामनुगमिष्यति, व्यवचारयिष्यति अवतरिष्यति अवभोत्स्यते चिन्तयिष्यति तुलयिष्यति उपपरीक्षिष्यते भावयिष्यति सर्वमायाशाठ्यविवर्जितैर्मनसिकारैः, सर्वमन्यनाविवर्जितैर्मनसिकारैः, आत्मोत्कर्षणविवर्जितैर्मनसिकारैः, सर्वकौसीद्यविवर्जितैर्मनसिकारैः, परपंसनाविवर्जितैर्मनसिकारैः, आत्मसंज्ञाविवर्जितैर्मनसिकारैः, सत्त्वसंज्ञाविवर्जितैर्मनसिकारैः, लाभसत्कारश्लोकविवर्जितैर्मनसिकारैः, पञ्चनीवरणविवर्जितैर्मनसिकारैः, ईर्ष्यामात्सर्यविवर्जितैर्मनसिकारैः, सर्वेञ्जनाविवर्जितैर्मनसिकारैः, तदा नास्य दुर्लभा भविष्यति सर्वगुणानां परिपूरिः, बुद्धक्षेत्रस्यानुत्तराणां च बुद्धधर्माणां परिपूरिरिति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामनुगमपरिवर्तो नामैकोनत्रिंशत्तमः // asp_30: सदाप्ररुदितपरिवर्तस्त्रिंशत्तमः / पुनरपरं सुभूते तथेयं प्रज्ञापारमिता पर्येष्टव्या, यथा सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पर्येषिता, य एतर्हि भीष्मगर्जितनिर्घोषस्वरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरति / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - कथं भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेनेयं प्रज्ञापारमिता पर्येषिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - सदाप्ररुदितेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन काये ऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता / तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतो ऽभूत् - गच्छ त्वं कुलपुत्र पूर्वस्यां दिशि / ततः प्रज्ञापारमितां श्रोष्यसि / तथा च गच्छ, यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, न पानीयमनसिकारमुत्पादयसि, न रात्रिमनसिकारमुत्पादयसि, न दिवसमनसिकारमुत्पादयसि, न शीतमनसिकारमुत्पादयसि, नोष्णमनसिकारमुत्पादयसि / मा च क्वचिच्चित्तं प्रणिधाः अध्यात्मं वा बहिर्धा वा / मा च कुलपुत्र वामेनालोकयन् गाः, मा दक्षिणेन, मा पूर्वेण, मा पश्चिमेन, मोत्तरेण, मोर्ध्वम्, माधः, मा च अनुविदिशमवलोकयन् गाः / तथा च कुलपुत्र गच्छ, यथा नात्मतो न सत्कायतश्चलसि / यथा न रूपतश्चलसि, यथा न वेदनातो न संज्ञातो न संस्कारतः, यथा न विज्ञानतश्चलसि / यो ह्यतश्चलति, स वितिष्ठते / कुतो वितिष्ठते? बुद्धधर्मेभ्यो वितिष्ठते / यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति / यः संसारे चरति, स न चरति प्रज्ञापारमितायाम् / स प्रज्ञापारमितां नानुप्राप्नोतीति //
एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं निर्घोषमेतदवोचत् - एवं वै करिष्यामि / तत्कस्य हेतोः? अहं हि सर्वसत्त्वानामालोकं कर्तुकामो बुद्धधर्मान् समुदानेतुकाम इति / एवमुक्ते स निर्घोषः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - साधु साधु कुलपुत्र सदाप्ररुदित //
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पुनर् अपि शब्दमश्रौषीत् / एवं चाश्रौषीत् - शून्यतानिमित्ताप्रणिहितेषु च त्वया कुलपुत्र सर्वधर्मेष्वधिमुक्तिमुत्पाद्य प्रज्ञापारमिता पर्येष्टव्या / निमित्तपरिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन च त्वया भवितव्यम् / पापमित्राणि च त्वया कुलपुत्र परिवर्जयितव्यानि / कल्याणमित्राणि च त्वया सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, यानि च शून्यतानिमित्ताप्रणिहितानुत्पादाजातानिरुद्धाभावाः सर्वधर्मा इति धर्मं देशयन्ति / एवं त्वं कुलपुत्र प्रतिपद्यमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि पुस्तकगतां वा धर्मभाणकस्य भिक्षोः कायगताम् / यस्य च त्वं कुलपुत्र अन्तिकात्प्रज्ञापारमितां शृणुयाः शास्तृसंज्ञा त्वया तत्रोत्पादयितव्या / कृतज्ञेन च त्वया भवितव्यं कृतवेदिना च - एष मम कल्याणमित्रं यस्येमां प्रज्ञापारमितामन्तिकाच्छृणोमि / यामहं शृण्वन् (वैद्य 239) क्षिप्रमेव अविनिवर्तनीयो भविष्याम्यनुत्तरायाः सम्यक्संबोधेः, आसन्नश् च भविष्यामि तथागतानामर्हतां सम्यक्संबुद्धानाम् / तथागताविरहितेषु बुद्धक्षेत्रेषूपपत्स्ये / अक्षणांश् च विवर्जयिष्यामि / क्षणसंपदं च आरागयिष्यामीति / इमास्त्वया कुलपुत्र अनुशंसाः परितुलयमानेन धर्मभाणके भिक्षौ शास्तृसंज्ञोत्पादयितव्या / न च त्वया कुलपुत्र लोकामिषप्रतिसंयुक्तया चित्तसंतत्या धर्मभाणको भिक्षुरनुबद्धव्यः / धर्मार्थिकेन च त्वया धर्मगौरवेण धर्मभाणको भिक्षुरनुबद्धव्यः / मारकर्माणि च त्वया अवबोद्धव्यानि /
अस्ति हि कुलपुत्र मारः पापीयान् धर्मभाणकस्य बोधिसत्त्वस्य महासत्त्वस्य रूपशब्दगन्धरसस्पर्शानुपसंहरति सेवितुं भक्तुं पर्युपासितुम् / तांश्चासावभिभूय उपायकौशल्येन परिसेवते भजते पर्युपास्ते / तत्र च त्वया कुलपुत्र धर्मभाणके भिक्षौ नाप्रसादचित्तमुत्पादयितव्यम् / अपि त्वेवं चित्तमुत्पादयितव्यम् - नाहं तदुपायकौशल्यं जाने, यदेष उपायकौशल्यं प्रजानाति / एष सत्त्वविनयेन सत्त्वानां कुशलमूलपरिग्रहमुपादाय एनान् धर्मान् प्रतिसेवते भजते पर्युपास्ते / न हि क्वचिद्बोधिसत्त्वानां महासत्त्वानां सङ्गो वा आरम्बणं वा संविद्यते / तत्क्षणं च त्वया कुलपुत्र धर्माणां भूतनयः प्रत्यवेक्षितव्यः / कतमश् च कुलपुत्र धर्माणां भूतनयः? यदुत सर्वधर्मा असंक्लेशा अव्यवदानाः / तत्कस्य हेतोः? सर्वधर्मा हि स्वभावेन शून्याः / सर्वधर्मा हि निःसत्त्वा निर्जीवा निष्पोषा निष्पुरुषा निष्पुद्गला मायोपमाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः / एवं त्वं कुलपुत्र सर्वधर्माणां भूतनयं प्रत्यवेक्षमाणो धर्मभाणकमनुबध्नन् नचिरेण प्रज्ञापारमितायां निर्यास्यसि / अपरम् अपि त्वं कुलपुत्र मारकर्म समन्वाहरेः / सचेत्कुलपुत्र धर्मभाणकः प्रज्ञापारमितार्थिकं कुलपुत्रमवसादयति, न समन्वाहरति, तत्र त्वया कुलपुत्र न प्रतिवाणिः कर्तव्या / अपि तु धर्मार्थिकेनैव धर्मगौरवेणैव अनिर्विण्णमानसेन धर्मभाणको भिक्षुरनुबद्धव्यः //
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्य निर्घोषस्यान्तिकादिमामनुशासनीं प्रतिगृह्य येन पूर्वा दिक् तेन प्रतिक्रामति स्म / अचिरप्रक्रान्तस्य चास्यैतदभूत् - न मया स निर्घोषः परिपृष्टः - कियद्दूरं मया गन्तव्यमिति / स तत्रैव पृथिवीप्रदेशे स्थितो ऽभूत् / तत्र रुदन् क्रन्दन् शोचन् परिदेवमानः एवं चिन्तयति स्म - अस्मिन्नेव पृथिवीप्रदेशे एकं वा रात्रिंदिवमतिनामयिष्यामि, द्वे वा, त्रीणि वा, चत्वारि वा, पञ्च वा, षड् वा, सप्त वा रात्रिंदिवान्यतिनामयिष्यामि / न कायक्लमथमनसिकारमुत्पादयिष्यामि / न स्त्यानमिद्धमनसिकारमुत्पादयिष्यामि / न भोजनमनसिकारमुत्पादयिष्यामि / न पानीयमनसिकारमुत्पादयिष्यामि / न रात्रिमनसिकारमुत्पादयिष्यामि / न दिवसमनसिकारमुत्पादयिष्यामि / न शीतमनसिकारमुत्पादयिष्यामि / नोष्णमनसिकारमुत्पादयिष्यामि, यावन्न प्रज्ञापारमितां श्रोष्यामीति / तद्यथापि नाम सुभूते कश्चिदेव पुरुषः एकपुत्रके कालगते महता दुःखदौर्मनस्येन समन्वागतो ऽभवत्, तस्य पुत्रशोकेन नान्यः कश्चिन्मनसिकारः प्रवर्तते, अपि त्वेकपुत्रकमनसिकार एव प्रवर्तते / एवमेव सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तस्मिन् (वैद्य 240) समये नान्यः कश्चिन्मनसिकारः प्रवर्तते स्म, अपि तु कदा नामाहं तां प्रज्ञापारमितां श्रोष्यामीति //
अथ खलु सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथोत्कण्ठितस्य तथागतविग्रहः पुरतः स्थित्वा साधुकारमदात् - साधु साधु कुलपुत्र, यस्त्वमेनां वाचं भाषसे / एवं हि कुलपुत्र पौर्वकैर् अपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे / तेन हि त्वं कुलपुत्र एतेनैव वीर्येण एतेनैवोत्साहेनं एतयैवार्थिकतया एतयैव च्छन्दिकतया अनुबध्य पूर्वामेव दिशं गच्छ / अस्ति कुलपुत्र इतः पञ्चभिर्योजनशतैर्गन्धवती नाम नगरी सप्तरत्नमयी, सप्तभिः प्राकारैरनुपरिक्षिप्ता, सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्ता, द्वादश योजनानि आयामेन, द्वादश योजनानि विस्तारेण, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च पञ्चभिरन्तरापणवीथिशतैरालेख्यविचित्रसदृशैर्दर्शनीयैर्निर्विद्धा असमसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापिता / समन्ततः प्राकाराश् च तस्या नगर्याः सप्तरत्नमयाः / तेषां च सप्तरत्नमयानां प्राकाराणां जाम्बूनदस्य सुवर्णस्य खोडकशीर्षाणि प्रमाणवन्त्युपोद्गतानि / सर्वस्मिंश् च खोडकशीर्षे सप्तरत्नमयो वृक्षो जातो नानाविचित्रै रत्नमयैः फलैः फलवान् / सर्वतश् च खोडकवृक्षाद्रत्नमयं सूत्रं द्वितीयं खोडकवृक्षान्तरमवसक्तम् / सर्वावती च सा नगरी सौवर्णेन किङ्किणीजालेन प्रतिच्छन्ना / तस्य च किङ्किणीजालस्य वातेनेरितस्य वल्गुर्मनोज्ञो रञ्जनीयः शब्दो निश्चरति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
