Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 11/11

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टसाहस्रिका प्रज्ञापारमिता

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तद्यथापि नाम पञ्चाङ्गिकस्य तूर्यस्य समेत्य संगीत्यां कुशलैर्गन्धर्वैः संप्रवादितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति, एवमेव तस्य किङ्किणीजालस्य वातेरितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति / तेन च शब्देन ते सत्त्वाः क्रीडन्ति रमन्ते परिचारयन्ति / समन्ताच्च तस्या नगर्याः परिखा वारिपरिपूर्णा अनुसारिवारिवाहिन्यो वारिणो नातिशीतस्य नात्युष्णस्य पूर्णाः / तस्मिंश् च वारिणि नावः सप्तानां रत्नानां विचित्रा दर्शनीयास्तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्ताः, यासु ते सत्त्वा अभिरुह्य क्रीडन्ति रमन्ते परिचारयन्ति / सर्वं च तद्वारि उत्पलपद्मकुमुदपुण्डरीकसंछादितम्, अन्यैश् च अभिजाताभिजातैः सुगन्धगन्धिभिः पुष्पैः संछादितम् / नास्ति सा काचित्त्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पजातिर्या तत्र नास्ति / समन्ताच्च तस्या नगर्याः पञ्चोद्यानशतानि / सर्वाणि तानि सप्तरत्नमयानि विचित्राणि दर्शनीयानि / एकैकस्मिंश्चोद्याने पञ्च पञ्च पुष्करिणीशतानि / क्रोशः क्रोशः प्रमाणं समन्तात्तत्पुष्करिणीनाम् / सर्वासु तासु पुष्करिणीषु सप्तरत्नमयानि विचित्राणि दर्शनीयानि उत्पलपद्मकुमुदपुण्डरीकाणि जातानि, यैस्तदुदकं संछादितम् / सर्वाणि च तान्युत्पलपद्मकुमुदपुण्डरीकानि शकटचक्रप्रमाणपरिणाहानि सुगन्धानि नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातानि अवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि / सर्वाश् च ताः पुष्करिण्यो हंससारसकारण्डवक्रौञ्चचक्रवाकोपनिकूजिताः /

(वैद्य 241) सर्वानि च तान्युद्यानानि अममान्यपरिग्रहाणि, तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्तानि, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितवतां बुद्धनेत्रीचित्रीकारानुगतसुगतश्रुतचित्तानां सत्त्वानां दीर्घरात्रं गम्भीरेषु धर्मेष्वधिमुक्तानाम् / तत्र च कुलपुत्र गन्धवत्यां नगर्यां मध्येशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य गृहं योजनं समन्तात् / सप्तानां रत्नानां चित्रं दर्शनीयम् / सप्तभिः प्राकारैः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तम् / तस्मिंश् च गृहे चत्वार्युद्यानानि गृहपरिभोगोपभोगपरिभोगाय / नित्यप्रमुदितं च नामोद्यानम् / अशोकं च नाम शोकविगतं च नाम पुष्पचित्रं च नामोद्यानम् / एकैकस्मिंश्चोद्याने ऽष्टावष्टौ पुष्करिण्यो यदुत भद्रा च नाम, भद्रोत्तमा च नाम, नन्दा च नाम, नन्दोत्तमा च नाम, क्षमा च नाम, क्षमोत्तमा च नाम, नियता च नाम, अविवाहा च नाम / तासां च खलु पुष्करिणीनामेकं पार्श्वं सौवर्णमयं द्वितीयं पार्श्वं रूप्यमयं तृतीयं पार्श्वं वैदूर्यमयं चतुर्थं पार्श्वं स्फटिकमयम् / अधोभूमिः कर्केतनमयी, सुवर्णवालुकास्तीर्णा / एकैकस्यां च पुष्करिण्यामष्टावष्टौ सोपानानि नानाविचित्रै रत्नमयैः सोपानफलकैः प्रतिमण्डितानि / सर्वस्मिंश् च सोपानफलकविवरान्तरे जाम्बूनदस्य सुवर्णस्य कदलीवृक्षो जातः / सर्वाश् च ताः पुष्करिण्यो नानोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिला हंससारसकारण्डवक्रौञ्चचक्रवाकोपकूजिताः / समन्ताच्च तासां पुष्करिणीनां नानाचित्राः पुष्पवृक्षा जाताः / तेषां पुष्पवृक्षाणां वातेनेरितानि पुष्पाणि पुष्करिणीषु पतन्ति /

सर्वासु च तासु पुष्करिणीषु चन्दनगन्धिकं वारि, वर्णोपेतं रसोपेतं स्पर्शोपेतम् / तत्र च धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सपरिवारो ऽष्टषष्टया स्त्रीसहस्रैः सार्धं पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडति रमते परिचारयति / ये ऽपि तत्र नगरे अन्ये सत्त्वा वास्तव्याः, स्त्रियश् च पुरुषाश्च, ते ऽपि सर्वे नित्यप्रमुदिता उद्यानेषु पुष्करिणीषु च पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति / स खलु पुनर्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सार्धं परिवारेण तावत्कालं क्रीडति रमते परिचारयति, ततस्त्रिकालं प्रज्ञापारमितां देशयति / ये ऽपि ते सत्त्वास्तत्र गन्धवत्यां नगर्यां वास्तव्याः ते ऽपि मध्येनगरशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य आसनं प्रज्ञपयन्ति, सुवर्णपादकं वा रूप्यपादकं वा वैडूर्यपादकं वा स्फटिकपादकं वा, तूलिकास्तीर्णं वा, गोणिकास्तीर्णं वा, उपरिगर्भोलिकं वा, काशिकवस्त्रप्रत्यास्तरणं वा अर्धक्रोशमुच्चैस्त्वेन / उपरिष्टाच्चान्तरीक्षे चैलवितानं मुक्ताविचित्रितं समं सहिता निरताः किमयं संस्थित इति सुसंस्थितविचित्रविपाकतया धारयन्ति / समन्ताच्च तं पृथिवीप्रदेशं पञ्चवर्णिकैः कुसुमैरभ्यवकिरन्ति संप्रविकिरन्ति / नानागन्धधूपधूपितं च तं पृथिवीप्रदेशं कुर्वन्ति, यथापीदं धर्माशयविशुद्ध्या तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मगौरवेण च / तत्र धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषण्णः प्रज्ञापारमितां देशयति /

एवंरूपेण कुलपुत्र धर्मगौरवेण धर्माणां संनिश्रयतया (वैद्य 242) श्रद्धेयश्रद्दधानतया श्रद्धोत्पादनेन ते सत्त्वा धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकात्प्रज्ञापारमितां शृण्वन्ति / तत्र च बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि संनिपतितानि देवमनुष्याणां शृण्वन्ति / ततो ऽन्ये केचिदुद्दिशन्ति, केचित्स्वाध्यायन्ति, केचिल्लिखन्ति, केचिद्योनिशोमनसिकारेणानुगच्छन्ति / सर्वं च ते सत्त्वा अविनिपातधर्माणो ऽविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेः / तस्य त्वं कुलपुत्र धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं गच्छ / ततः श्रोष्यसि प्रज्ञापारमिताम् / स हि तव कुलपुत्र दीर्घरात्रं कल्याणमित्रं संदर्शकः समादापकः समुत्तेजकः संप्रहर्षको ऽनुत्तरायाः सम्यक्संबोधेः / तेनापि कुलपुत्र पूर्वमेवं प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे / गच्छ त्वं कुलपुत्र रात्रिंदिवमधिष्ठितमनसिकारमुत्पादयमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः इदं श्रुत्वा तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत् / तद्यथापि नाम पुरुषः सविषेण शल्येन विद्धो नान्यं मनसिकारमुत्पादयति, अपि तु कदा नामाहं शल्यहर्तारं वैद्यं लप्स्ये यो ममेदं शल्यमुद्धरिष्यति, यो मामितो दुःखान्मोचयिष्यतीति / एवमेव सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये नान्यं कंचिद्धर्मं मनसि करोति, अपि तु कदा नामाहं तं कुलपुत्रं द्रक्ष्यामि यो मां प्रज्ञापारमितां श्रावयिष्यति, यन्मम धर्मं श्रुत्वा उपलम्भमनसिकाराः प्रहास्यन्त इति //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव पृथिवीप्रदेशे स्थितः तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां देशयतः शृणोति स्म / शृण्वंश् च सर्वधर्मेष्वनिश्रितसंज्ञामुत्पादयति स्म / तस्यानेकानि समाधिमुखान्यामुखीभूतान्यभूवन् / तद्यथासर्वधर्मस्वभावव्यवलोकनो नाम समाधिः / सर्वधर्मस्वभावानुपलब्धिर्नाम समाधिः / सर्वधर्मस्वभावज्ञाननिर्गमो नाम समाधिः / सर्वधर्मनिर्नानात्वो नाम समाधिः / सर्वधर्मनिर्विकारदर्शी नाम समाधिः / सर्वधर्मावभासकरो नाम समाधिः / सर्वधर्मतमोपगतो नाम समाधिः / सर्वधर्मज्ञानविध्वंसनो नाम समाधिः / सर्वधर्मविधूननो नाम समाधिः / सर्वधर्मानुपलब्धिर्नाम समाधिः / कुसुमाभिकीर्णो नाम समाधिः / सर्वधर्मात्मभावाभिनिर्हारो नाम समाधिः / मायाविवर्जितो नाम समाधिः / आदर्शमण्डलप्रतिभासनिर्हारो नाम समाधिः / सर्वसत्त्वरुतनिर्हारो नाम समाधिः / रजोपगतो नाम समाधिः / सर्वसत्त्वाभिप्रमोदनो नाम समाधिः / सर्वसत्त्वरुतकौशल्यानुगतो नाम समाधिः / नानारुतपदव्यञ्जनाभिनिर्हारो नाम समाधिः / अस्तम्भितो नाम समाधिः / प्रकृत्यव्यवहारो नाम समाधिः / अनावरणविमोक्षप्राप्तो नाम समाधिः / राजोपगतो नाम समाधिः / नामनिरुक्तिपदव्यञ्जनो नाम समाधिः / सर्वधर्मविपश्यनो नाम समाधिः / सर्वधर्मविषयापगतो नाम समाधिः / सर्वधर्मानावरणकोटिर्नाम समाधिः / गगनकल्पो नाम समाधिः / वज्रोपमो नाम समाधिः / आसन्नरूपराजो नाम समाधिः / असपत्नराजो नाम समाधिः / जयलब्धो नाम समाधिः /

अविवर्त्यचक्षुर्नाम समाधिः / धर्मधातुनियतो नाम समाधिः / धर्मधातुनिर्गतो नाम समाधिः / आश्वासदाता नाम समाधिः / सिंहाभिगर्जितो (वैद्य 243) नाम समाधिः / सर्वसत्त्वाभिभवनो नाम समाधिः / विगतरजो नाम समाधिः / असंक्लिष्टो नाम समाधिः / पद्मव्यूहो नाम समाधिः / काङ्क्षोच्छेदनो नाम समाधिः / सर्वसारानुगतो नाम समाधिः / सर्वधर्माभ्युद्गतो नाम समाधिः / अभिज्ञाबलवैशारद्यप्राप्तो नाम समाधिः / सर्वधर्मनिर्वेधको नाम समाधिः / सर्वधर्मविभवमुद्रा नाम समाधिः / सर्वधर्मविभवसमुद्रो नाम समाधिः / सर्वधर्मनिर्विशेषदर्शी नाम समाधिः / सर्वदृष्टिकृतगहनविवर्जितो नाम समाधिः / तमोपगतो नाम समाधिः / सर्वधर्मनिमित्तापगतो नाम समाधिः / सर्वसङ्गविमुक्तो नाम समाधिः / सर्वकौसीद्यापगतो नाम समाधिः / गम्भीरधर्मप्रभाकरो नाम समाधिः / मेरुकल्पो नाम समाधिः / असंहार्यो नाम समाधिः / मारमण्डलविध्वंसनकरो नाम समाधिः / त्रैलोक्यानभिनिविष्टो नाम समाधिः / रश्मिनिर्हारो नाम समाधिः / तथागतदर्शनो नाम समाधिः / सर्वतथागतदर्शी नाम समाधिः / स एषु समाधिषु स्थितः सन् दशदिशि लोके बुद्धान् भगवतः पश्यति स्म अप्रमेयानसंख्येयान् इमामेव प्रज्ञापारमितां प्रकाशयतो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः / ते च तथागताः साधुकारं ददति स्म, स्वासनं चास्य कुर्वन्ति स्म / एवं चावोचन् - अस्माभिर् अपि कुलपुत्र पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवमेव प्रज्ञापारमिता परिगवेषिता / परिगवेषमाणैश् च एते एव समाधयः प्रतिलब्धाः, ये त्वयैतर्हि प्रतिलब्धाः /

एनांश् च समाधीन् प्रतिलभ्य गतिंगताः संवृत्ताः, प्रज्ञापारमितायामविनिवर्तनीयेषु बुद्धधर्मेषु प्रतिष्ठिताः / ते वयमेतेषामेव समाधीनां प्रकृतिं स्वभावं व्यवलोकयन्तस्तं धर्मं न समनुपश्यामो यः समापद्यते वा व्युत्तिष्ठते वा, यो बोधाय चरेत्, यो वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत / इयं सा कुलपुत्र प्रज्ञापारमिता, या न केनचिद्धर्मेण मन्यमानता / अमन्यमानतास्थितैरस्माभिरियमेवंरूपा कायस्य सुवर्णवर्णता प्रतिलब्धा / द्वात्रिंशच्च महापुरुषलक्षणानि / अशीतिश्चानुव्यञ्जनानि / व्यामप्रभता च / अचिन्त्यं च अनुत्तरं बुद्धज्ञानं बुद्धप्रज्ञा, अनुत्तरश् च बुद्धसमाधिः, सर्वबुद्धधर्मगुणपारमिता च अनुप्राप्ता यस्या गुणपारमिताया न शक्यं तथागतैरेव तावत्प्रमाणं ग्रहीतुं पर्यन्तो वा निदर्शयितुम्, किं पुनः श्रावकप्रत्येकबुद्धैः? तस्मात्तर्हि कुलपुत्र एतेष्वेव त्वया धर्मेषु गौरवमुत्पादयितव्यं भूयस्या मात्रया अर्थिकतया छन्दिकतया च / अर्थिकस्य हि कुलपुत्र छन्दिकस्य च न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः / कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवमुत्पादयितव्यम्, प्रेम च करणीयम्, प्रसादश् च करणीयः / कल्याणमित्रपरिगृहीता हि बोधिसत्त्वा महासत्त्वाः क्षिप्रमेव अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तांस्तथागतानेतदवोचत् - को ऽस्माकं कल्याणमित्रमिति? त एनमेतदवोचन् - दीर्घरात्रं त्वं कुलपुत्र धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरायां सम्यक्संबोधौ परिपाचितः परिगृहीतश् च / प्रज्ञापारमितायामुपायकौशल्ये बुद्धधर्मेषु च शिक्षापितः / स तव कुलपुत्र परिग्राहकः कल्याणमित्रं च / तत्त्वया कृतज्ञतया कृतवेदितया च सत्कृत्य तत्कृतं धारयितव्यम् / सचेत्त्वं कुलपुत्र धर्मोद्गतं बोधिसत्त्वं (वैद्य 244) महासत्त्वमेकं वा कल्पं द्वौ वा कल्पौ त्रीन् वा कल्पान् कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा ततो वा उत्तरे चैलोण्डुकमिव शिरसा परिकर्षेः, सर्वसत्त्वसुखोपस्थानं चास्योपस्थापयेः, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ रूपशब्दगन्धरसस्पर्शाः, तान् सर्वानुपनामयेः / एवम् अपि त्वया कुलपुत्र तस्य कुलपुत्रस्य नैव कृतस्य प्रतिकृतं भवेत् / तत्कस्य हेतोः? तस्य हि कुलपुत्र कुलपुत्रस्य अनुभावेन तवैषामेवंरूपाणां समाधीनां प्रतिलम्भः संवृत्तः / प्रज्ञापारमितोपायकौशल्यश्रवश् च प्रज्ञापारमिताप्रतिलम्भश् च संवृत्तः //

अथ खलु ते तथागताः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं समाश्वास्य अन्तर्हिता अभूवन् / स च कुलपुत्रस्तेभ्यः समाधिभ्यो व्युदस्थात् / व्युत्थितस्य चास्य एतदभूत् - कुतस्ते तथागताः, क्व वा ते तथागता इति / स तांस्तथागतानपश्यन् महतीमुत्कण्ठां परितसनं चापन्नः / तस्यैतदभूत् - आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनकृताधिकारः मम संपरिग्राहकः कल्याणमित्रं च / दीर्घरात्रं च मम तेनार्थः कृतः / यन्न्वहमेतमर्थं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिगम्योपसंक्रम्य परिपृच्छेयम् - कुतस्ते तथागता आगताः, क्व वा ते तथागता गता इति //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गते बोधिसत्त्वे महासत्त्वे प्रेम च प्रसादं च चित्रीकारं च गौरवं च उपस्थापयति / उपस्थाप्य एवं प्राचिन्तयत् - कियद्रूपया नु खल्वहं सत्क्रियया तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्? दरिद्रश्चास्मि / न च मे किंचित्तथारूपं वस्त्रं वा रत्नं वा सुवर्णं वा मणयो वा मुक्ता वा वैदूर्यं वा शङ्खशिला वा प्रवालं वा रजतं वा पुष्पं वा धूपो वा गन्धो वा माल्यं वा विलेपनं वा चूर्णं वा चीवरं वा छत्रं वा ध्वजं वा घण्टा वा पताका वा संविद्यते / केनाहं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यां गुरुकुर्याम्? न च ममैतत्प्रतिरूपं भवेत्, यदहमेवमेव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम् / दरिद्रश्चास्मि / न च मे प्रीतिर्वा प्रामोधं वोत्पद्यते //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व एवंरूपैर्गुणैर्गौरवमनसिकारैर्गच्छन् अनुपूर्वेण अन्यतरं नगरमनुप्राप्तो ऽभूत् / तत्र तस्यान्तरापणमध्यगतस्य एतदभूत् - यन्न्वहमिममात्मभावं विक्रीय तेन मूल्येन धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं कुर्याम् / दीर्घरात्रं हि ममात्मभावसहस्राणि भग्नानि क्षीणानि निरुद्धानि विक्रीतानि / पुनः पुनरपरिमाणे संसारे अपरिमाणानि च निरयदुःखानि मया कामहेतोः कामनिदानमनुभूतानि / न पुनरेवंरूपाणां धर्माणां कृतश एवंरूपाणां वा सत्त्वानां सत्कारायेति / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोन्तरापणमध्यगतः शब्दमनुश्रावयामास, घोषमुदीरयति स्म - कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति //

अथ खलु मारस्य पापीयस एतदभूत् - अयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मकामतया यद्यात्मानं विक्रीय धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं करिष्यति, (वैद्य 245) प्रज्ञापारमितामुपायकौशल्यं च परिप्रक्ष्यति - कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पत्स्यते इति, तदा श्रुतसागरतां चानुप्राप्स्यति, अधृष्यश् च भविष्यति मारेण वा मारकायिकाभिर्वा देवताभिः, सर्वगुणपारमितां चानुप्राप्स्यति / तत्र च बहूनां सत्त्वानामर्थं करिष्यति / तांश् च मम विषयादतिक्रामयिष्यति अन्यांश् च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य / यन्न्वहमस्यान्तरायं कुर्यामिति //

अथ खलु मारः पापीयांस्तान् ब्राह्मणगृहपतिकांस्तथा प्रत्युत्थापयामास, यथा ते तं घोषं नाश्रौषुः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य - कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो यदा आत्मनः क्रायकं न लभते, तदा एकान्तं गत्वा प्रारोदीत्, अश्रूणि प्रावर्तयत् / एवं चावोचत् - अहो बतास्माकं दुर्लब्धा लाभाः, ये वयमात्मभावस्यापि क्रायकं न लभामहे - यद्वयमात्मभावं विक्रीय धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामेति //

अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - यन्न्वहं सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं तुलयेयम् - किं न्वयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो ऽध्याशयप्रतिपन्न आत्मभावपरित्यागं प्रति धर्मकामतया, उत नेति / अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमभिनिर्माय येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, तेनोपसंक्रामति स्म / उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - किं त्वं कुलपुत्र दीनदीनमना उत्कण्ठितमानसो ऽश्रूणि प्रवर्तयमानः स्थितः? सदाप्ररुदितस्तमेवमाह - अहं माणवक आत्मानं विक्रेतुकामः / अस्य चात्मभावस्य क्रायकं न लभे / तं माणवकरूपी शक्र आह - कस्य पुनस्त्वं कुलपुत्र अर्थाय आत्मानं विक्रेतुकामः? सदाप्ररुदितस्तमाह - अहं माणवक धर्मकामतया इममात्मानं विक्रीय धर्मपूजां कर्तुकामः, आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः / सो ऽहमस्यात्मभावस्य क्रायकं न लभे / तस्य मे एतदभूत् - अहो बताहमत्यल्पपुण्यः, यो ऽहमस्यात्मभावस्यापि क्रायकं न लभे, येन तं विक्रीय प्रज्ञापारमितायाः पूजां कुर्याम्, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति / अथ खलु माणवकः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - न खलु मम कुलपुत्र पुरुषेण कृत्यम् / अपि तु खलु पुनः पितुर्भे यज्ञो यष्टव्यः / तत्र मे पुरुषस्य हृदयेन कृत्यम्, लोहितेन च अस्थिमज्जया च /

तद्दास्यसि त्वं क्रयेण? अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - लाभा मे परमसुलब्धाः, परिनिष्पन्नं चात्मभावं जाने प्रज्ञापारमितोपायकौशल्ये बुद्धधर्मेषु च, यन्मयायं माणवकः क्रायको लब्धः हृदयस्य रुधिरस्य च अस्थिमज्जायाश्चेति / स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस्तं माणवकमेतदवोचत् - दास्यामि माणवक येन येनैव ते इति आत्मभावादर्थः / स तमेतदवोचत् - किं ते कुलपुत्र मूल्यं ददामि? स तमेतदवोचत् - यत्ते माणवक परित्यक्तम्, तद्देहीति / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निःस्रावयति स्म / दक्षिणं चोरुं विद्ध्वा निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रामति स्म / (वैद्य 246) अथ खलु अन्यतरा श्रेष्ठिदारका उपरिष्टात्प्रासादतलगताभूत् / सा अद्राक्षीत्सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं बाहुं विद्ध्वा रुधिरं निःस्राव्य ऊरुं निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तम् / तस्या एतदभूत् - किं नु खल्वयं कुलपुत्र आत्मनैवात्मनः ईदृशीं कारणां कारयति? यन्न्वहमेनं कुलपुत्रमुपसंक्रम्य परिपृच्छेयम् / अथ खलु सा श्रेष्ठिदारिका येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्ता /

उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - किं नु खलु त्वं कुलपुत्र एवंरूपामात्मनः प्राणहारिणीं कारणां कारयसि? किं चानेन रुधिरेण करिष्यसि त्वमस्थिमज्जाभ्यां च? सदाप्ररुदित आह - अस्य दारिके माणवकस्यान्तिके इदं विक्रीय प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि //

अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वतदवोचत् - का पुनस्ते कुलपुत्र ततो गुणजातिर्निष्पत्स्यते गुणविशेषो वा, यत्त्वमात्मनो हृदयं रुधिरं चास्थिमज्जानं च विक्रीय तं कुलपुत्रं सत्कर्तुकामः? स तां दारिकामेतदवोचत् - स दारिके कुलपुत्रो ऽस्माकं प्रज्ञापारमितामुपायकौशल्यं चोपदेक्ष्यति / तत्र च वयं शिक्षिष्यामहे / तत्र वयं शिक्षमाणाः सर्वसत्त्वानां प्रतिशरणं भविष्यामः / अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सुवर्णवर्णं च कायं प्रतिलप्स्यामहे / द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिं चानुव्यञ्जनानि व्यामप्रभतां च अनन्तरश्मितां च महामैत्री च महाकरुणां च महामुदितां च महोपेक्षां च / चत्वारि वैशारद्यानि प्रतिलप्स्यामहे, चतस्रश् च प्रतिसंविदः प्रतिलप्स्यामहे, अष्टादश च आवेणिकबुद्धधर्मान् प्रतिलप्स्यामहे, पञ्च च अभिज्ञाः, अचिन्त्यां च शीलविशुद्धिम्, अचिन्त्यां च समाधिविशुद्धिम्, अचिन्त्यां च प्रज्ञाविशुद्धिम्, दश च तथागतबलानि प्रतिलप्स्यामहे / अनुत्तरं च बुद्धज्ञानमभिसंभोत्स्यामहे / अनुत्तरं च धर्मरत्नं प्रतिलप्स्यामहे, येन च सर्वसत्त्वानां संविभागं करिष्याम इति //

अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - आश्चर्यं कुलपुत्र यावदुदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः / एकैकस्यापि तावत्कुलपुत्र एवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालुकोपमान् अपि कल्पानात्मभावाः परित्यक्तव्या भवेयुः, प्रागेव बहूनामर्थाय एकः / तथोदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः, यथा ममाप्येते रोचन्ते क्षमन्ते च / अपि नु खलु पुनः कुलपुत्र येन येनैवार्थेन ते कृत्यम्, तत्तत्ते दास्यामि सुवर्णं वा मणीन् वा मुक्तां वा रजतं वा वैदूर्यं वा मुसारगल्वं वा लोहितार्कं वा स्फाटिकं वा पुष्पं वा धूपं वा गन्धं वा माल्यं व विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा / तेन त्वं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि / मा च आत्मन इमामेवंरूपां कारणां कार्षीः / वयम् अपि त्वयैव सार्धं गमिष्यामः, येनार्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वः / वयम् अपि त्वयैव सार्धं कुशलमूलान्यवरोपयिष्यामः, यदुत एषामेवंरूपाणां धर्माणां प्रतिलम्भायेति //

(वैद्य 247) अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमन्तर्धापयित्वा स्वकेनात्मभावेन सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो ऽस्थात्, इदं चावोचत् - साधु साधु कुलपुत्र, यस्य ते इयमेवंरूपा दृढसमादानता / एवंरूपया च धर्मार्थिकतया पूर्वकैर् अपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमितामुपायकौशल्यं च परिपृच्छद्भिरनुत्तरा च सम्यक्संबोधिरभिसंबुद्धा, धर्मरत्नं च प्रतिलब्धम् / तन्न मम कुलपुत्र हृदयेन कार्यम्, न रुधिरेण, नास्थिमज्जाभ्याम्, अपि तु खलु पुनरहं त्वामेव मीमांसितुकाम इहागतः / वृणीष्व कुलपुत्र वरम् / कियद्रूपं ते वरं दास्यामीति? स तामाह - अनुत्तरान् मे शक्र बुद्धधर्मान् देहीति / देवेन्द्र आह - न ममात्र कुलपुत्र विषये विषयिता / बुद्धानां पुनर्भगवतामत्र विषये विषयिता / अन्यं वरं वृणीष्वेति / सदाप्ररुदित आह - अल्पोत्सुकस्त्वं देवेन्द्र भव अत्र स्थाने ममात्मभावपरिपूरिमुपादाय / स्वयमेवाहमत्र देवेन्द्र सत्याधिष्ठानं करिष्यामि / येनाहं सत्येन अविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्व्याकृतस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः, ज्ञातश्चास्म्यशाठ्येनाध्याशयेन, तेन देवेन्द्र सत्येन सत्यवचनेन मम यथापौराणो ऽयमात्मभावो भवतु / अथ खलु तत्क्षणं तल्लवं तन्मुहूर्तं सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धानुभावेन आशयपरिशुद्ध्या च यथापौराणो ऽस्य कायः संस्थितो ऽभूत्, अरोगो निरुपद्रवश् च / अथ खलु शक्रो देवानामिन्द्रो मारश् च पापीयान् निष्प्रतिभानः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योत्तरे प्रतिभानमप्रतिपद्यमानस्तत्रैवान्तर्हितो ऽभूत् //

अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - एहि त्वं कुलपुत्र / येनास्माकं निवेशनम्, तेनोपसंक्राम / अहं ते मातापितॄणामन्तिकात्तद्धनं दापयिष्यामि, येन त्वं तां प्रज्ञापारमितां पूजयिष्यसि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि, यदुत धर्मकामतया / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं तया श्रेष्ठदारिकया येनास्याः स्वकं निवेशनं तेनोपसंक्रामति स्म / उपसंक्रम्य द्वारमूले ऽस्थात् //

अथ खलु सा श्रेष्ठिदारिका स्वकं निवेशनं प्रविश्य स्वां मातरं पितरं चैतदवोचत् - अम्ब तात दद्ध्वं हिरण्यं सुवर्णं रत्नानि मणीन् वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाः / नानाविधाश् च दिव्या वाद्यप्रकृतीरुत्सृजत, माम् अपि सार्धमेभिः पञ्चभिर्दारिकाशतैर्या ममोपस्थायिका युष्मभिरेव दत्ताः / गमिष्याम्यहम् अपि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं तस्य पूजार्थं च / सो ऽस्माकं धर्मं देशयिष्यति / तेन वयं बुद्धधर्मान् प्रतिलप्स्यामहे / अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम् - कः पुनरेष दारिके सदाप्ररुदितो नाम बोधिसत्त्वो महासत्त्वः, क्व वा स एतर्हि तिष्ठति? दारिका आह - एष कुलपुत्रो ऽस्माकमेव निवेशनद्वारमूले ऽवस्थितः / एष च कुलपुत्रो ऽध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थितः, यदुत सर्वसत्त्वानपरिमाणतः संसारदुःखान्मोचयितुकामः, सर्वधर्मकामतयात्मानं (वैद्य 248) विक्रीय प्रज्ञापारमितां पूजयितुकामः, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः / तस्य चात्मभावस्य कंचित्क्रायकं न लभते / अलभमानः सन् दुःखितो दुर्मनाः प्रध्यायन् दीनमना अश्रूणि प्रवर्तयमानः स्थितः / स शक्रेण देवानामिन्द्रेण माणवकरूपमभिनिर्मायोक्तः - किं त्वं कुलपुत्र दुःखी दुर्मनाः प्रध्यायन् दीनमानसो ऽश्रूणि प्रवर्तयमानः स्थित इति? स तमाह - आत्मानं विक्रेतुकामो ऽहम् / तस्य च क्रायकं न लभे /

माणवकरूपी शक्रस्तमाह - कस्य पुनस्त्वं कुलपुत्र अर्थायात्मानं विक्रेतुकामः? सदाप्ररुदितेनोक्तः - प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतया / तत्र प्रतिबद्धाश् च मे बुद्धधर्मा इति / माणवकरूपी शक्रस्तमाह - न मम कुलपुत्र त्वयार्थः / अपि तु खलु पुनः पितुर्मे यज्ञो भविष्यति / तत्र मे पुरुषस्य हृदयेन रूधिरेण अस्थिमज्जाभ्यां च कृत्यमिति / तत एष कुलपुत्रो ऽविषण्णमानस आह - दास्यामीति / स तीक्ष्णं शस्त्रं गृहीत्वा आत्मनो बाहुं विद्ध्वा लोहितं निःस्राव्य ऊरुं च निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तः एकान्ते स्थित्वा अस्थि भित्त्वा मज्जानं च दास्यामीति / अहं चैनं कुलपुत्रमुपरिष्टात्प्रासादतलगता क्षरद्रुधिरमद्राक्षम् / तस्या ममैतदभूत् - किं नु खल्वयं पुरुष आत्मनैवात्मन एवंरूपां कारणां कारयतीति? तमेनमहमुपसंक्रम्यैवमवोचम् - किमर्थं त्वया कुलपुत्र आत्मनैवात्मन एवं क्षरद्रूधिरं शरीरं विकृतं कृतम्? तत एष मामेवमाह - अस्य दारिके माणवकस्य लोहितं हृदयमस्थि मज्जानं च दास्यामीति / तत्कस्य हेतोः? न ममान्यत्किंचिद्धनं संविद्यते / दरिद्रो ऽस्मीति / तमेनमहमेवमवोचम् - किं पुनस्त्वं तेन धनेन करिष्यसीति? स एष मामेतदवोचत् - प्रज्ञापारमितां पूजयिष्यामि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतयेति /

तमेनमहमेवमवोचम् - का पुनस्ते कुलपुत्र ततो गुणजातिर्भविष्यति गुणविशेषो वेति? ततः सो ऽचिन्त्यान् मे बुद्धगुणान् वर्णयति संप्रकाशयति, अप्रमेयांश् च बुद्धधर्मान् - एषामेवंरूपाणां बुद्धधर्माणां मे तत आगमो भविष्यतीति / तस्य मे महत्तरं प्रीतिप्रामोद्यमुत्पन्नं तानचिन्त्यान् बुद्धगुणान् श्रुत्वा / एवं च मे ऽभूत् - आश्चर्यं यावद्दुष्करकारकश्चायं कुलपुत्रो ऽतीव धर्मकामश्च, यो ऽयमेवंरूपमात्मनः शरीरस्य पीडास्थानमुत्सहते / अयं हि नाम कुलपुत्रो धर्मकामतया आत्मानं परित्यजति / कस्मादस्माभिर्धर्मो न पूजयितव्यः? एवंरूपेषु च स्थानेषु प्रणिधानं न कर्तव्यं स्यात्, येषामस्माकं प्रभूता विपुलाश् च भोगाः संविद्यन्ते इति / साहमेनं कुलपुत्रमेतदवोचम् - मा मा त्वं कुलपुत्र इमामेवंरूपामात्मनः प्राणहारिणीं कारणां कार्षीः / अहं ते प्रभूतप्रभूतं धनमनुप्रदापयिष्यामि येन तवार्थः / तेन त्वं तमार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि गुरुकरिष्यसि / अहम् अपि त्वयैव सार्धं येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रमिष्यामि / अहम् अपि तस्य कुलपुत्रस्य पूजां करिष्यामि / वयमप्येवंरूपान् धर्मान्निष्पादयिष्यामो यदुत अनुत्तरान् बुद्धधर्मान् ये त्वया परिकीर्तिता इति / तन्मामम्ब तात अनुजानीत / प्रभूतप्रभूतं च मे धनस्कन्धं दद्ध्वम्, येनाहमेतेनैव कुलपुत्रेण सार्धं गत्वा आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पूजयिष्यामि //

(वैद्य 249) अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम् - आश्चर्यं यावद्दुष्करं च त्वमेतस्य कुलपुत्रस्य स्थानमाचक्षे / एकांशेनैव ते धर्मा अचिन्त्याः, सर्वलोकविशिष्टाः सर्वसत्त्वसुखावहाश्च, येषामेष कृतशः कुलपुत्रो दुष्करं स्थानमेवमुत्सहते / अनुजानीव आवां त्वां दारिके / आवयोरप्यवकाशं कुरु, यदावाम् अपि गच्छावस्त्वयैव सार्धं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं पूजयितुं च //

अथ खलु सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थितां स्वां मातरं पितरं च विदित्वा एतदवोचत् - अम्ब तात एवं कुरुत, यथा वदत / नाहं कस्यचित्कुशलपक्षस्यान्तरायं करोमि / इत्युक्त्वा एवं सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थिता बभूव //

अथ खलु सा श्रेष्ठिदारिका पञ्च रथशतान्यलंकारयामास / तानि च पञ्च दारिकाशतान्यलंकारयामास / अलंकृत्य नानावर्णानि विचित्राणि पुष्पाणि गृहीत्वा नानारङ्गाणि वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश् च गृहीत्वा नानारत्नानि च विचित्राणि नानारत्नमयानि च विचित्राणि पुष्पाणि गृहीत्वा प्रभूतप्रभूतं खादनीयं भोजनीयं स्वादनीयं च गृहीत्वा एकं रथं सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धमभिरुह्य तैः पञ्चभी रथशतैः पञ्चदारिकाशताभिरूढैः परिवृत्ता पुरस्कृता महता च परिवारेण मातापितृपूर्वंगमा येन पूर्वा दिक् तेन प्रक्रान्ता / अनुपूर्वेण च गच्छन् सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो ऽद्राक्षीद्दूरादेव तां गन्धवतीं नगरीं सप्तानां रत्नानां चित्रां दर्शनीयां सप्तभिः प्राकारैः सप्तरत्नमयैरनुपरिक्षिप्तां सप्तभिस्तोरणैः सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तां द्वादश योजनानि विस्तारेण द्वादश योजनान्यायामेन ऋद्धां स्फीतां च क्षेमां च सुभिक्षां च आकीर्णबहुजनमनुष्यां च पञ्चभिरन्तरापणवीथीशतैरालेख्यविचित्रचित्रसदृशैर्दर्शनीयैर्निर्विद्धां समसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापितां च / मध्ये च नगरशृङ्गाटकस्य अद्राक्षीद्धर्मोद्गतं बोधिसत्त्वं महासत्त्वं धर्मासनगतमनेकशतया पर्षदा अनेकसहस्रया अनेकशतसहस्रया पर्षदा परिवृत्तं पुरस्कृतं धर्मं देशयन्तम् / सहदर्शनेनैव च तस्य एवंरूपं सुखं संप्रतिलभते स्म तद्यथापि नाम प्रथमध्यानसमापन्नो भिक्षुरेकाग्रेण मनसिकारेण / दृष्ट्वा चास्य एतदभूत् - न मम प्रतिरूपमेतद्भवेत्, यदहं रथगत एव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम् / यन्न्वहं रथादवतरेयम् / स ततो रथादवातरत् / तान्य् अपि पञ्च दारिकाशतानि श्रेष्ठिदारिकया सह रथेभ्यो ऽवतेरुः / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकापूर्वंगमैः पञ्चभिर्दारिकाशतैः परिवृतः पुरस्कृतो ऽपरिमाणपूजाव्यूहेन येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रामति स्म //

तेन खलु पुनः समयेन धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाः कृतशः सप्तरत्नमयं कूटागारं कारितमभूत् लोहितचन्दनालंकृतं मुक्ताजालपरिक्षिप्तम् / चतुर्षु कूटागारकोणेषु मणिरत्नानि स्थापितानि, यानि प्रदीपकृत्यं कुर्वन्ति स्म / चतस्रश् च धूपघटिका (वैद्य 250) रूपमय्यश्चतुर्दिशमवसक्ताः, यत्र शुद्धं कृष्णागुरु धूप्यते स्म यदुत प्रज्ञापारमितायाः पूजार्थम् / तस्य च कूटागारस्य मध्ये सप्तरत्नमयः पर्यङ्कः प्रज्ञप्तो ऽभूत् / चतुर्णां रत्नानां पेडा कृता, यत्र प्रज्ञापारमिता प्रक्षिप्ता सुवर्णपट्टेषु लिखिता विलीनेन वैदूर्येण / तच्च कूटागारं नानाचित्रपट्टदामभिः प्रलम्बमानैरलंकृतमभूत् //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकापूर्वंगमैः पञ्चदारिकाशतैः तं कूटागारमद्राक्षीदपरिमाणेन पूजाव्यूहेन प्रतिमण्डितम् / अनेकानि च तत्र देवतासहस्राण्यद्राक्षीत्, शक्रं च देवानामिन्द्रं दिव्यैर्मान्दारवपुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैश् च सुवर्णचूर्णैर्दिव्यैश् च रूप्यचूर्णैस्तं कूटागारमवकिरन्तमभ्यवकिरन्तमभिप्रकिरन्तम् / दिव्यानि च वाद्यान्यश्रौषीत् / दृष्ट्वा श्रुत्वा च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत् - किमर्थं त्वं देवेन्द्र अनेकैर्देवतासहस्रैः सार्धमिदं रत्नमयं कूटागारं दिव्यैर्मान्दारवैः पुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैः सुवर्णचूर्णैर्दिव्यैश् च रूप्यचूर्णैरवकिरसि अभ्यवकिरसि अभिप्रकिरसि? इमानि च दिव्यानि वाद्यानि देवैरुपर्यन्तरीक्षे प्रवादितानि? एवमुक्ते शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - न त्वं कुलपुत्र जानीषे? एषा हि सा प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता परिणायिका, यत्र शिक्षमाणा बोधिसत्त्वा महासत्त्वाः सर्वगुणपारमितानुगतान् सर्वबुद्धधर्मान् सर्वाकारज्ञतां च क्षिप्रमनुप्राप्नुवन्तीति / एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत् - क्वासौ कौशिक प्रज्ञापारमिता, या बोधिसत्त्वानां महासत्त्वानां माता परिणायिका? शक्र आह - एषा कुलपुत्र अस्य कूटागारस्य मध्ये सुवर्णपट्टेषु विलीनेन वैदूर्येण लिखित्वा आर्येण धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन सप्तभिर्मुद्राभिर्मुद्रयित्वा स्थापिता / सा न सुकरा अस्माभिस्तव दर्शयितुम् / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकाप्रमुखै पञ्चभिर्दारिकाशतैः समग्रीभूतैः, यान्यनेन पुष्पाणि गृहीतानि माल्यदामानि च वस्त्ररत्नानि च धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश् च सुवर्णरूप्यमयानि च पुष्पाणि, तैः प्रज्ञापारमितायाः पूजामकार्षुः, अन्यतरान्यतरं च ततः प्रत्यंशं स्थापयामासुः यदुत धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्काराय //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पुष्पधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सुवर्णरूप्यमयैश् च पुष्पैर्दिव्यैश् च वाद्यैः प्रज्ञापारमितां पूर्वं पूजयित्वा येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रम्य धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिश्चन्दनचूर्णैः सुवर्णरूप्यमयैश् च पुष्पैरवाकिरन् अभ्यवाकिरन् अभिप्राकिरन्, दिव्यानि च वाद्यानि संप्रवादयति स्म धर्मपूजामेवोपादाय //

अथ खलु तानि पुष्पाणि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्योपरिष्टान्मूर्ध्नि पुष्पकूटागारं प्रातिष्ठन् / तानि च नानावर्णानि पुष्पाणि सुवर्णरूप्यमयानि च पुष्पाणि (वैद्य 251) विहायसि वितानमिव स्थितानि / तान्य् अपि चीवराणि वस्त्ररत्नानि च अन्तरीक्षे नानारत्नमयो ऽभ्रमण्डप इव संस्थितो ऽभूत् / अद्राक्षीत्खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च पञ्च दारिकाशतानि श्रेष्ठिदारिकाप्रमुखानि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्येदमेवंरूपमृद्धिप्रातिहार्यम् / दृष्ट्वा च पुनरेषामेतदभूत् - आश्चर्यं यावन्महर्द्धिकश्चायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो यावन्महानुभावो यावन्महौजस्कः / बोधिसत्त्वचर्यामेव तावच्चरतो ऽस्य कुलपुत्रस्यैवंरूपा ऋद्धिविकुर्वणा, किं पुनर्यदायमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यतीति //

अथ खलु तानि श्रेष्ठिदारिकापूर्वंगमानि पञ्च दारिकाशतानि धर्मोद्गते बोधिसत्त्वे महासत्त्वे स्पृहामुत्पाद्य सर्वास्ताः समग्रीभूता अध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामासुः, एवं चावोचन् - अनेन वयं कुशलमूलेन अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भवेम / बोधिसत्त्वचर्यां च वयं चरन्त्य एतेषामेव धर्माणां लाभिन्यो भवेम, येषां धर्माणामयं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो लाभी / एवमेव च प्रज्ञापारमितां सत्कुर्याम गुरुकुर्याम, यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सत्करोति गुरुकरोति / बहुजनस्य च संप्रकाशयेम यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः संप्रकाशयति / एवमेव च प्रज्ञापारमितया उपायकौशल्येन च समन्वागता भवेम / परिनिष्पद्येमहि च यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया उपायकौशल्येन च समन्वागतः परिनिष्पन्नश् च //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि प्रज्ञापारमितां पूजयित्वा धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं सत्कृत्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पादौ शिरसाभिवन्द्य एकान्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीन् कृत्वातिष्ठन् / एकान्ते स्थितश् च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इहाहं कुलपुत्र प्रज्ञापारमितां गवेषमाणो ऽरण्यगतो निर्घोषमश्रौषम् - गच्छ कुलपुत्र पूर्वां दिशम् / ततः प्रज्ञापारमितां श्रोष्यसीति / सो ऽहं सम्यक् तं निर्घोषं श्रुत्वा येन पूर्वा दिक् तेन संप्रस्थितः / तस्य मे एतदभूत् - सम्यक् च मया निर्घोषः श्रुतः / न च मया स निर्घोषः परिपृष्टः - कियद्दूरं मया गन्तव्यम्, कस्य वा अन्तिकात्प्रज्ञापारमितां श्रोष्यामि लप्स्ये वेति / तस्य मे महद्दौर्मनस्यमभूत् / सो ऽहं तेन दौर्मनस्येन महतीमुत्कण्ठां परितपनं चापन्नो ऽभूवम् / तस्मिन्नेव पृथिवीप्रदेशे सप्तरात्रिंदिवान्यतिनामयामि उत्कण्ठितः / नाहारसमुदाचारमुत्पादयामि / अपि तु प्रज्ञापारमितामेव मनसि करोमि - कियद्दूरं मया गन्तव्यम्, कुतो वा प्रज्ञापारमितां लप्स्ये श्रवणाय? न च मया स निर्घोषः परिपृष्टः इति / ततो मे तथागतविग्रहः पुरतः प्रादुर्भूतः / स मामेवमाह - गच्छ कुलपुत्र इतः पञ्चभिर्योजनशतैरनुपूर्वेण गन्धवती नाम नगरी / तत्र द्रक्ष्यसि धर्मोद्गतं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितां देशयन्तं प्रकाशयन्तमिति / ततो ऽहं महतोदारेण प्रीतिप्रामोद्येन समन्वागतः /

सो ऽहं तेनैव महतोदारेण प्रीतिप्रामोद्येन स्फुटस्ततः पृथिवीप्रदेशान्न चलितः, तव च प्रज्ञापारमितां देशयतः शृणोमि / तस्य मे शृण्वतो बहूनि समाधिमुखानि प्रादुर्भूतानि / (वैद्य 252) तत्र स्थितं मां दशदिग्लोकधातुस्थिता बुद्धा भगवन्तः समाश्वासयन्ति, साधुकारं च ददति - साधु साधु कुलपुत्र, एते समाधयः प्रज्ञापारमितानिर्जाताः, यत्र स्थितैरस्माभिः सर्वबुद्धधर्माः परिनिष्पादिता इति / ते मां तथागताः साधु च सुष्ठु च संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य अन्तर्हिताः / अहं च ततः समाधेर्व्युत्थितः / तस्य मे एतदभूत् - कुतो नु ते तथागता आगताः, क्व वा ते तथागता गता इति? तस्य च मे एतदभूत् - आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनाकृताधिकारो ऽवरोपितकुशलमूलः, प्रज्ञापारमितायां उपायकौशल्ये च सुशिक्षितः / स मे एनमर्थं यथावद्विचरिष्यति, यतस्ते तथागता आगता यत्र वा ते तथागता गता इति / सो ऽहं तस्य तथागतविग्रहस्य निर्घोषं श्रुत्वा यथानुशिष्टं येन पूर्वां दिक् तेन संप्रस्थितः / आगच्छंश्चाहं दूरत एवार्यमद्राक्षं धर्मं देशयन्तम् / सहदर्शनाच्च ममेदृशं सुखं प्रादुरभूत्, तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य / सो ऽहं त्वां कुलपुत्र पृच्छामि - कुतस्ते तथागता आगताः, कुत्र ते तथागता गता इति? देशय मे कुलपुत्र तेषां तथागतानामागमनं गमनं च / यथा वयं तेषां तथागतानामागमनं गमनं च जानीम, अविरहिताश् च भवेम तथागतदर्शनेनेति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः //

asp_31: धर्मोद्गतपरिवर्त एकत्रिंशत्तमः / एवमुक्ते धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सदाप्ररुदितं बोधिसत्त्व महासत्त्वमेतदवोचत् - न खलु कुलपुत्र तथागताः कुतश्चिदागच्छन्ति वा गच्छन्ति वा / अचलिता हि तथता / या च तथता, स तथागतः / न हि कुलपुत्र अनुत्पाद आगच्छति वा गच्छति वा / यश् च अनुत्पादः, स तथागतः / न हि कुलपुत्र भूतकोट्या आगमनं वा गमनं वा प्रज्ञायते / या च भूतकोटिः, स तथागतः / न हि कुलपुत्र शून्यताया आगमनं वा गमनं वा प्रज्ञायते / या च शून्यता, स तथागतः / न हि कुलपुत्र यथावत्ताया आगमनं वा गमनं वा प्रज्ञायते / या च यथावत्ता, स तथागतः / न हि कुलपुत्र विरागस्यागमनं वा गमनं वा प्रज्ञायते / या च विरागता, स तथागतः / न हि कुलपुत्र निरोधस्यागमनं वा गमनं वा प्रज्ञायते / यश् च निरोधः, स तथागतः / न हि कुलपुत्र आकाशधातोरागमनं वा गमनं वा प्रज्ञायते / यश् च आकाशधातुः, स तथागतः / न हि कुलपुत्र अन्यत्र एभ्यो धर्मेभ्यस्तथागतः / या च कुलपुत्र एषामेव धर्माणां तथता, या च सर्वधर्मतथता, या च तथागततथता, एकैवैषा तथता / नास्ति कुलपुत्र तथताया द्वैधीकारः / एकैवैषा तथता कुलपुत्र / तथता न द्वे न तिस्रः / गणनाव्यतिवृत्ता कुलपुत्रा तथता यदुत असत्त्वात् / तद्यथापि नाम कुलपुत्र पुरुषो ग्रीष्माभितप्तो ग्रीष्माणां पश्चिमे मासे ऽभिगते मध्याह्नकालसमये मरीचिकां पश्येत् स्यन्दमानाम् / स तेन तेन प्रधावेत् - अत्रोदकं पास्यामि, अपानीयं पास्यामीति / तत्किं मन्यसे कुलपुत्र कुत एतदुदकमागतं क्व वा तदुदकं

गच्छति, पूर्वं वा महासमुद्रं दक्षिणं वा पश्चिमं वा उत्तरं वा? सदाप्ररुदित आह - न हि कुलपुत्र मरीचिकायामुदकं संविद्यते / किं पुनरस्यागमनं वा गमनं वा प्रज्ञायते? स खलु पुनः कुलपुत्र पुरुषो ग्रीष्माभितप्तो बालजातीयो दुष्प्रज्ञजातीयो मरीचिकां दृष्ट्वा अनुदके उदकसंज्ञामुत्पादयति / न पुनस्तत्रोदकं स्वभावतः संविद्यते / धर्मोद्गत आह - एवमेतत्कुलपुत्र, एवम् एतत् / एवमेव कुलपुत्र ये केचित्तथागतरूपेण वा घोषेण वा अभिनिविष्टाः, ते तथागतस्यागमनं च गमनं च कल्पयन्ति / ये च तथागतस्यागमनं च गमनं च कल्पयन्ति, सर्वे ते बालजातीया दुष्प्रज्ञजातीया इति वक्तव्याः, तद्यथापि नाम स एव पुरुषो यो ऽनुदके उदकसंज्ञामुत्पादयति / तत्कस्य हेतोः? न हि तथागतो रूपकायतो द्रष्टव्यः / धर्मकायास्तथागताः / न च कुलपुत्र धर्मता आगच्छति वा गच्छति वा / एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा / तद्यथापि नाम कुलपुत्र मायाकारनिर्मितस्य हस्तिकायस्य वा अश्वकायस्य वा रथकायस्य वा पत्तिकायस्य वा नास्त्यागमनं वा गमनं वा, एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा / तद्यथापि नाम कुलपुत्र पुरुषः सुप्तः स्वप्नान्तरगत एकं वा तथागतं पश्येत्, द्वौ वा त्रीन् वा चतुरो वा पञ्च वा षड्वा सप्त वा अष्टौ वा नव वा दश वा विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा, ततो वा उत्तरे / स प्रतिविबुद्धः सन् एकम् अपि तथागतं न पश्येत् / तत्किं मन्यसे कुलपुत्र कुतस्ते तथागता आगताः क्व वा ते तथागता गता इति? सदाप्ररुदित आह - न खलु पुनः

कुलपुत्र स्वप्ने कस्यचिद्धर्मस्य (वैद्य 254) परिनिष्पत्तिः प्रज्ञायते / मृषावादो हि स्वप्नो ऽभूत् / धर्मोद्गत आह - एवमेव कुलपुत्र सर्वधर्माः स्वप्नोपमा उक्ता भगवता / ये केचित्कुलपुत्र स्वप्नोपमान् सर्वधर्मांस्तथागतेन निर्देशितान् यथाभूतं न प्रजानन्ति, ते तथागतान् नामकायेन वा रूपकायेन वा अभिनिविश्य तथागतानामागमनं वा गमनं वा कल्पयन्ति / यथापि नाम धर्मतामप्रजानन्तो ये च तथागतानामागमनं वा गमनं वा कल्पयन्ति, सर्वे ते बालजातीयाः पृथग्जनाः / सर्वे ते षड्गतिकं संसारं गताः, गच्छन्ति गमिष्यन्ति च / सर्वे ते प्रज्ञापारमिताया दूरे / सर्वे ते बुद्धधर्माणां दूरे / ये खलु पुनः कुलपुत्र स्वप्नोपमान् सर्वधर्मान् स्वप्नोपमाः सर्वधर्मा इति तथागतेन देशितान् यथाभूतं प्रजानन्ति, न ते कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा / ये च न कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा, ते धर्मतया तथागतं प्रजानन्ति / ये च तथागतं धर्मतया प्रजानन्ति, न ते तथागतानामागमनं वा गमनं वा कल्पयन्ति / ये च तथागतस्येदृशीं धर्मतां प्रजानन्ति, ते आसन्ना अनुत्तरायाः सम्यक्संबोधेश्चरन्ति / ते च प्रज्ञापारमितायां चरन्ति / ते च भगवतः श्रावकाः अमोघं राष्ट्रपिण्डं परिभुञ्जते / ते च लोकस्य दक्षिणीयाः / तद्यथापि नाम कुलपुत्र महासमुद्रे रत्नानि न पूर्वस्या दिश आगच्छन्ति, न दक्षिणस्याः, न पश्चिमायाः, नोत्तरस्याः, न विदिग्भ्यो नाधस्तान्नोपरिष्टान्न कुतश्चिद्देशेभ्यो दिग्भ्य आगच्छन्ति, अपि तु खलु पुनः सत्त्वानां कुशलमूलान्युपादाय

महासमुद्रे रत्नान्युत्पद्यन्ते / न व तान्यहेतुकान्युत्पद्यन्ते / हेतुप्रत्ययकारणाधीनानि प्रतीत्यसमुत्पन्नानि / निरुध्यमानानि च तानि रत्नानि च क्वचिद्दशदिशि लोके संक्रामन्ति / अपि तु खलु पुनर्येषां प्रत्ययानां सतां तानि रत्नानि प्रभाव्यन्ते, तेषां प्रत्ययानामसतां न तेषां रत्नानां प्रभावना भवति / एवमेव कुलपुत्र तेषां तथागतानां कायपरिनिष्पत्तिर्न कुतश्चिद्दशदिशि लोकादागता, नापि क्वचिद्दशदिशि लोके गच्छति / न च अहेतुको बुद्धानां भगवतां कायः / पूर्वचर्यापरिनिष्पन्नो हेतुप्रत्ययाधीनः कारणसमुत्पन्नः पूर्वकर्मविपाकादुत्पन्नः / स न क्वचिद्दशदिशि लोके ऽस्ति / अपि तु खलु पुनर्येषां प्रत्ययानां सतां कायाभिनिष्पत्तिर्भवति, तेषां प्रत्ययानामसतां कायाभिनिष्पत्तिर्न प्रज्ञायते / तद्यथापि नाम कुलपुत्र वीणायाः शब्द उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो ऽपि न क्वचिद्गच्छति, न क्वचित्संक्रामति, प्रतीत्य च हेतुप्रत्ययसामग्रीमुत्पद्यते हेत्वधीनः प्रत्ययाधीनः / तद्यथापि नाम द्रोणीं च प्रतीत्य चर्म च प्रतीत्य तन्त्रीश् च प्रतीत्य दण्डं च प्रतीत्य उपधानीश् च प्रतीत्य कोणं च प्रतीत्य पुरुषस्य च तज्जव्यायामं प्रतीत्य एवमयं वीणायाः शब्दो निश्चरति हेत्वधीनः प्रत्ययाधीनः / स च शब्दो न द्रोण्या निश्चरति, न चर्मणो न तन्त्रीभ्यो न दण्डान्नोपधानीभ्यो न कोणान्न पुरुषस्य तज्जव्यायामतः शब्दो निश्चरति, अपि तु खलु पुनः सर्वेषां समायोगाच्छब्दः प्रज्ञप्यते / निरुध्यमानो ऽपि शब्दो न क्वचिद्गच्छति / एवमेव कुलपुत्र बुद्धानां भगवतां कायनिष्पत्तिर्हेत्वधीना प्रत्ययाधीना

अनेककुशलमूलप्रयोगपरिनिष्पन्ना च / न चैकतो हेतुतो न चैकतः प्रत्ययतो न चैकतः कुशलमूलतो बुद्धकायप्रभावना / न च नैर्हेतुकी / (वैद्य 255) बहुहेतुप्रत्ययसामग्र्यां समुत्पन्ना सा न कुतश्चिदागच्छति / हेतुप्रत्ययसामग्र्यामसत्यां न क्वचिद्गच्छति / एवं त्वया कुलपुत्र तेषां तथागतानामागमनं च गमनं च द्रष्टव्यम् / सर्वधर्माणाम् अपि कुलपुत्र त्वया इयमेव धर्मता अनुगन्तव्या / यतः कुलपुत्र त्वमेवं तथागतांश् च सर्वधर्मांश् च अनुत्पन्नाननिरुद्धांश् च संप्रज्ञास्यसि, ततस्त्वं नियतो भविष्यस्यनुत्तरायां सम्यक्संबोधौ / प्रज्ञापारमितायामुपायकौशल्ये च नियतं चरिष्यसि //

अस्मिन् खलु पुनस्तथागतानामनागत्यगमननिर्देशे भाष्यमाणे महान् भूमिचालो ऽभूत् / सर्वश् च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमहादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति स्म / सर्वाणि च मारभवनानि संक्षोभितानि जिह्मीभूतानि चाभूवन् / ये केचन त्रिसाहस्रमहासाहस्रे लोकधातौ तृणगुल्मौषधिवनस्पतयः, ते सर्वे येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेन प्रणता अभूवन् / अकालपुष्पाणि चोत्सृजन्ति स्म / उपरिष्टाच्च अन्तरीक्षान्महापुष्पवर्षः प्रावर्षत् / शक्रश् च देवानामिन्द्रश्चत्वारश् च महाराजानो धर्मोद्गतं बोधिसत्त्वं महासत्त्वं दिव्यैश्चन्दनचूर्णैर्दिव्यैश् च पुष्पैरवाकिरन् अभ्यवाकिरन् अभिप्राकिरन् / एवं च वाचमभाषन्त - साधु साधु कुलपुत्र / तव कुलपुत्र अनुभावेन अद्यास्माभिः परमार्थनिर्जाता कथा देश्यमाना श्रुता सर्वलोकविप्रत्यनीका, यत्राभूमिः सर्वसत्कायदृष्टिप्रतिष्ठितानां सर्वासद्दृष्ट्यभिविनिविष्टानां सत्त्वानाम् //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत् - कः पुनः कुलपुत्र अत्र हेतुः, कः प्रत्ययो ऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय? धर्मोद्गतो बोधिसत्त्वो महासत्त्व आह - इमं कुलपुत्र तथागतानामनागत्यगमननिर्देशं तव च पृच्छतो मम च निर्दिशतो ऽष्टानां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् / अशीतेश् च प्राणिनियुतानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, चतुःषष्टेश् च प्राणिसहस्राणां विरजांसि विगतमलानि धर्मेषु धर्मचक्षूंषि विशुद्धानि //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः परमोदारेण प्रीतिप्रामोद्येन समन्वागतो ऽभूत् - लाभा मे परमसुलब्धाः, यस्य मे प्रज्ञापारमितामिमं च तथागतानामनागत्यगमननिर्देशं परिपृच्छतः इयतां सत्त्वानामर्थः कृतः / एतदेवास्माकं पर्याप्तं कुशलं भवेदनुत्तरायाः सम्यक्संबोधेः परिनिष्पत्तये / न च मे भूयो विचिकित्सा प्रवर्तते ऽनुत्तरायाः सम्यक्संबोधेः / निःसंशयमहं तथागतो भविष्याम्यर्हन् सम्यक्संबुद्धः / स तेनैव प्रीतिप्रामोद्येन समन्वागतः सप्ततालं विहायसमभ्युद्गम्य सप्तताले स्थित्वा एवं चिन्तयति स्म - केनाहमेतर्हि अन्तरीक्षे स्थितः धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति? अथ खलु शक्रो देवानामिन्द्र सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमभ्युद्गतं दृष्ट्वा चेतसैव चास्य चित्तमाज्ञाय दिव्यानि चास्मै मान्दारवाणि पुष्पाण्युपनामयति स्म, एवं चावोचत् - एभिस्त्वं कुलपुत्र दिव्यैः पुष्पैर्धर्मोद्गतं बोधिसत्त्वं (वैद्य 256) महासत्त्वं सत्कुरु / सत्कर्तव्यो हि कुलपुत्र अस्माभिस्तव परिग्राहकः / तव हि कुलपुत्र अनुभावेन अद्य बहूनां प्राणिसहस्राणामर्थः कृतः / दुर्लभाः कुलपुत्र एवंरूपाः सत्त्वाः, ये सर्वसत्त्वानां कृतशो ऽप्रमेयानसंख्येयान् कल्पानुत्सहन्ते महान्तं भारमुद्वोढुं यथा त्वया उत्सोढम् //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रस्य देवानामिन्द्रस्यान्तिकान्मान्दारवाणि पुष्पाणि गृहीत्वा धर्मोद्गतं बोधिसत्त्वं महासत्त्वमवाकिरत्, अभ्यवाकिरत्, अभिप्राकिरत् / स्वकेन च कायेन धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिच्छादयति स्म / एवं च वाचमभाषत - एषो ऽहं कुलपुत्र अद्याग्रेण तवात्मानं निर्यातयामि उपस्थानपरिचर्यायै / स आत्मानं निर्यात्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः प्राञ्जलिं कृत्वास्थात् //

अथ खलु सा श्रेष्ठिदारिका तानि च पञ्च दारिकाशतानि सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - एता वयम् अपि कुलपुत्र तवात्मानं निर्यातयामः, वयमप्यनेन कुशलमूलेन एतेषामेव धर्माणां लाभिन्यो भवेम, त्वयैव च सार्धं पुनः पुनर्बुद्धांश् च भगवतो बोधिसत्त्वांश् च सत्कुर्याम गुरुकुर्याम / आसन्नीभूताश् च तवैव भवेम / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकां तानि च पञ्च दारिकाशतान्येतदवोचत् - यदि मे यूयं दारिका अध्याशयमनुवर्तध्वम्, अध्याशयेन च मह्यमात्मानं निर्यातयत, एवमहं युष्मान् प्रतीच्छेयम् / दारिका आहुः - अनुवर्तिष्यामहे तव वयमाशयेनाध्याशयेन च / वयं तवात्मानं निर्यातयामो यथेच्छाकरणीयतायै / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सर्वालंकारभूषितानि कृत्वा तानि च पञ्च रथशतान्यलंकृत्य सर्वाणि च तानि धर्मोद्गताय बोधिसत्त्वाय महासत्त्वाय निर्यातयति स्म उपस्थानपरिचर्यायैः - इमाः कुलपुत्र अहं तवोपस्थायिका निर्यातयामि, इमानि च पञ्च रथशतानि निर्यातयामि परिभोगायेति //

अथ खलु शक्रो देवानामिन्द्रस्तस्मै कुलपुत्राय साधुकारमदात् - साधु साधु कुलपुत्र / बोधिसत्त्वैर्महासत्त्वैः सर्वस्वपरित्यागिभिर्भवितव्यम् / एवंरूपेण च त्यागचित्तेन बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / एवं च धर्मभाणकाणां पूजां कृत्वा शक्यं प्रज्ञापारमितामुपायकौशल्यं च श्रोतुम् / तैर् अपि कुलपुत्र पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवंरूप एव त्यागे स्थित्वा अनुत्तरा सम्यक्संबोधिः समुदानीता प्रज्ञापारमितामुपायकौशल्यं च परिप्रश्नयद्भिरिति //

अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पञ्च रथशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य कुशलपरिपूरिमुपादाय प्रतिगृह्णीते स्म / प्रतिगृह्य च सदाप्ररुदितायैव कुलपुत्राय प्रतिनिर्यातयामास / अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्व उत्थायासनात् स्वकं गृहं प्राविक्षत् सूर्यस्य चास्तंगमनकालो ऽभूत् //

अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - नैतन्मम साधु प्रतिरूपं भवेत्, यदहं धर्मकामतया आगत्य निषीदेयम्, शय्यां च परिकल्पयेयम् / यन्न्वहं द्वाभ्यामेव (वैद्य 257) ईर्यापथाभ्यां स्थित्वा स्थानेन चंक्रमेण च कालमतिनामयेयम्, यावद्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः स्वकाद्गृहान्निर्गतो भविष्यति यदुत धर्मसंप्रकाशनायेति //

अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्त वर्षाण्येकसमाधिसमापन्न एवाभूत् / अप्रमेयैरसंख्येयैर्बोधिसत्त्वसमाधिसहस्रैः प्रज्ञापारमितोपायकौशल्यनिर्जातैर्व्याहार्षीत् / सदाप्ररुदितो ऽपि बोधिसत्त्वो महासत्त्व सप्त वर्षाणि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयन् न स्त्यानमिद्धमवक्रामयामास / सप्त वर्षाणि च कामवितर्कमुत्पादयामास, न व्यापादवितर्कं न विहिंसावितर्कमुत्पादयामास, न रसगृद्धिं न चित्तौद्बिल्यमुत्पादयामास / अपि तु कदा नाम धर्मोद्गतो बोधिसत्त्वो महासत्त्वो ऽस्मात्समाधेर्व्युत्थास्यति, यन्नु वयं धर्मोद्गतस्य बोधिसत्त्व महासत्त्वस्य धर्मासनं प्रज्ञपयिष्यामः, यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यतीति / तं च पृथिवीप्रदेशं सुसिक्तं सुमृष्टं च करिष्यामो नानापुष्पाभिकीर्णम्, यत्र पृथिवीप्रदेशे धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामुपायकौशल्यं च संप्रकाशयिष्यतीति चिन्तयामास / तान्य् अपि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयामासुः सर्वाः क्रियास्तस्यानुवर्तमानाः //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो दिव्यं निर्घोषमश्रौषीत् - इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्त्वो महासत्त्वो ऽस्मात्समाधेर्व्युत्थास्यति, व्युत्थाय च मध्येनगरस्य निषद्य धर्मं देशयिष्यतीति / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं दिव्यं निर्घोषं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं पृथिवीप्रदेशं शोधयामास सार्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चदारिकाशतैः, धर्मासनं च प्रज्ञपयामास सप्तरत्नमयम्, स्वकं चोत्तरासङ्गं कायादवतार्य तस्यासनस्योपरि प्रज्ञपयति स्म / अथ खलु ता दारिकाः स्वकस्वकानुत्तरासङ्गान् कायादवतार्य पञ्चोत्तरासङ्गशतानि तत्रासने प्रज्ञपयामासुः अत्रासने धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषद्य धर्मं देशयिष्यतीति / एवं ताश् च सर्वा दारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनमास्तीर्य तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्य जाता अभूवन् //

अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं पृथिवीप्रदेशं सेक्तुकामः / न चोदकं समन्तात्पर्येषमाणो ऽपि लभते, येन तं पृथिवीप्रदेशं सिञ्चेत् / यथापि नाम मारेण पापीयसा तत्सर्वमुदकमन्तर्धापितमभूत्, अप्येव नाम अस्य सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योदकमलभमानस्य चित्तं खिद्येत, दुःखदौर्मनस्यं च भवेत्, चित्तस्य वा अन्यथात्वं भवेत्, येनास्य कुशलमूलस्यान्तर्धानं भवेत्, न वा पूजा भ्राजेरन् //

अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - यन्न्वहमात्मनः कायं विद्ध्वा इमं पृथिवीप्रदेशं रुधिरेण सिञ्चेयम् / तत्कस्य हेतोः? अयं हि पृथिवीप्रदेश उद्धतरजस्कः / मा रजोधातुरितो भूप्रदेशाद्धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य काये निपतेत् / किं वा अनेनात्मभावेनावश्यं भेदनधर्मिणा कुर्याम्? वरं खलु पुनर्ममायं काय (वैद्य 258) एवंरूपया क्रियया विनश्यतु, न तु निःसामर्थ्यक्रियया / अपि च कामहेतोः कामनिदानं बहूनि मे आत्मभावसहस्राणि पुनः पुनः संसारे संसरतो भिन्नानि, न पुनरेवंरूपेषु स्थानेषु सद्धर्मपरिग्रहस्य कृतशः / यदि पुनर्भिद्यन्ते, काममेवंरूपेषु भिद्यन्तामिति / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं समन्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वमसिञ्चत् / तान्य् अपि श्रेष्ठिदारिकाप्रमुखानि पञ्चदारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि सर्वाणि तानि तीक्ष्णानि शस्त्राणि गृहीत्वा स्वकस्वकानि शरीराणि विद्ध्वा तं पृथिवीप्रदेशं स्वकस्वकैर्लोहितैः सर्वमसिञ्चन् / न च सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तासां वा सर्वासां दारिकाणां चित्तस्यान्यथात्वमभूत्, यत्र स मारः पापीयानवतारं लभेत् कुशलमूलान्तरायकरणाय //

अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - आश्चर्यं यावद्धर्मकामश्चायं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, यावद्दृढसमादानश् च यावन्महासंनाहसंनद्धश् च अनपेक्षः काये जीवितेषु भोगेषु च, अनुत्तरायाः सम्यक्संबोधेरधिगमाय अध्याशयसंप्रस्थितः / यदुत सर्वसत्त्वान् मोचयिष्याम्यपरिमाणतः संसारदुःखादनुत्तरां सम्यक्संबोधिमभिसंबुध्येति / अथ खलु शक्रो देवानामिन्द्रस्तत्सर्वं लोहितोदकं दिव्यं चन्दनोदकमध्यतिष्ठत्, समन्ताच्च तस्य पृथिवीप्रदेशस्य अचिन्त्यं परमोदारं गन्धं यस्य दिव्यस्य चन्दनोदकस्य परिपूर्णम् / योजनशतं गन्धो वाति //

अथ शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - साधु साधु कुलपुत्र / साधु ते कुलपुत्र अचिन्त्यं वीर्यम्, साध्वी च ते अनुत्तरा धर्मकामता धर्मपरीष्टिश् च / एवंरूपेण कुलपुत्र अध्याशयेन एवंरूपेण वीर्येण एवंरूपया च धर्मकामतया तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरा सम्यक्संबोधिः समुदानीता //

अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - प्रज्ञप्तं मया धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनम् / अयं च पृथिवीप्रदेशः सुसिक्तः सुसंमृष्टश् च कृतः / कुतो नु खल्वहं पुष्पाणि लभेयम्, यैरहमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुर्याम्, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिरेयम्? अथ खलु शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इमानि ते कुलपुत्र प्रतिगृहाण दिव्यानि मान्दारवाणि पुष्पाणि / एभिस्त्वमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुरु, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिर / स तस्मै दिव्यं खारीसहस्रं दिव्यानां मान्दारवपुष्पाणामुपनामयति स्म / अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि पुष्पाणि गृहीत्वा अन्यतरैः पुष्पैस्तं पृथिवीप्रदेशं पुष्पाभिकीर्णमकार्षीत्, अन्यतरैश् च पुष्पैर्धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभ्यवाकिरत् //

अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्तानां वर्षाणामत्ययेन ततः समाधेर्व्युत्थाय येन धर्मासनं तेनोपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्, अनेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतः प्रज्ञापारमितां देशयामास //

(वैद्य 259) अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सहदर्शनेनैव धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य तादृशं सुखं प्रतिलभते स्म, तद्यथापि नाम प्रथमध्यानसमापन्न एकाग्रमनसिकारो भिक्षुः / तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशनायदुत सर्वधर्मसमतया प्रज्ञापारमितासमता / सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता / सर्वधर्माचलनतया प्रज्ञापारमिताचलनता / सर्वधर्मामननतया प्रज्ञापारमितामननता / सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता / सवधर्मैकरसतया प्रज्ञापारमितैकरसता / सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता / सर्वधर्मानुत्पादतया प्रज्ञापारमितानुत्पादता / सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता / गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता / समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता / मेरुविचित्रतया प्रज्ञापारमिताविचित्रता / गगनाकल्पनतया प्रज्ञापारमिताकल्पनता / रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता / एवं वेदना संज्ञा संस्काराः / विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता / पृथिवीधात्वपर्यन्ततता प्रज्ञापारमितापर्यन्तता / एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता / विज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता / वज्रोपमधर्मसमतया प्रज्ञापारमितासमता / सर्वधर्मासंभेदनतया प्रज्ञापारमितासंभेदनता / सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धिता / सर्वधर्माभिभावनासमतया प्रज्ञापारमिताभिभावनासमता / सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता / सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति //

अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथानिषण्णस्यैव तस्यां बेलायां सर्वधर्मसमता नाम समाधिराजो जातः / यतः सर्वधर्मविविक्तश् च नाम समाधिः, सर्वधर्माचलनश् च नाम समाधिः, सर्वधर्मामननश् च नाम समाधिः, सर्वधर्मास्तम्भितश् च नाम समाधिः, सर्वधर्मैकरसश् च नाम समाधिः, सर्वधर्मापर्यन्तश् च नाम समाधि, सर्वधर्मानुत्पादश् च नाम समाधिः, सर्वधर्मानिरोधश् च नाम समाधिः, गगनापर्यतश् च नाम समाधिः, समुद्रापर्यन्तश् च नाम समाधिः, मेरुविचित्रश् च नाम समाधिः, गगनाकल्पश् च नाम समाधिः, रूपापर्यन्तश् च नाम समाधिः / एवं वेदना संज्ञा संस्काराः / विज्ञानापर्यन्तश् च नाम समाधिः, पृथिवीधात्वपर्यन्तश्व नाम समाधिः, एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्तश् च नाम समाधिः, विज्ञानधात्वपर्यन्तश् च नाम समाधिः, वज्रोपमश् च नाम समाधिः, सर्वधर्मासंभेदश् च नाम समाधिः, सर्वधर्मानुपलब्धिश् च नाम समाधिः, सर्वधर्माविभावनासमता च नाम समाधिः, सर्वधर्मनिश्चेष्टश् च नाम समाधिः, सर्वधर्माचिन्त्यश् च नाम समाधिः / एवंप्रमुखानि षष्टिः समाधिमुखशतसहस्राणि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन प्रतिलब्धान्यभूवन्निति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धर्मोद्गतपरिवर्तो नामैकत्रिंशत्तमः // asp_32: परीन्दनापरिवर्तो द्वात्रिंशत्तमः / सहप्रतिलब्धानां च सुभूते षष्ट्याः समाधिमुखशतसहस्राणां सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि, दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि, विदिक्षु अध ऊर्ध्वं च दिशि दशसु दिक्षु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु गङ्गानदीवालुकोपमान् बुद्धान् भगवतः पश्यति स्म भिक्षुसंघपरिवृतान् बोधिसत्त्वगुणपुरस्कृतान् एतैरेव नयैरेभिरेव नामभिरेतैरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषमाणान् / तद्यथापि नाम अहमेतर्हि अस्मिन्नेव त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मं देशयामि भिक्षुसंघपरिवृतो बोधिसत्त्वगणपुरस्कृतः, एभिरेव नयैरेभिरेव नामभिरेभिरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषे / सो ऽचिन्त्येन बाहुश्रुत्येन श्रुतसागरतया च समन्वागतो ऽभूत्, सर्वासु च जातिषु न जातु बुद्धविरहितो ऽभूत् / यत्र यत्र बुद्धा भगवन्तः संमुखीभूता भवन्ति, तत्र तत्रोपपद्यते स्म / अविरहितश् च भवति स्म बुद्धैर्भगवद्भिः, अन्ततः स्वप्नान्तरगतो ऽपि / सर्वे च अनेन अक्षणा विवर्जिताः, क्षणसंपच्चारागिता //

तत्र खलु पुनर्भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - तदनेनापि ते आनन्द पर्यायेण एवं वेदितव्यम् - इत्यपीयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वज्ञज्ञानस्याहारिकेति / तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैः सर्वज्ञज्ञानं प्रतिलब्धुकामैरस्यां प्रज्ञापारमितायां चरितव्यम् / इयं प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या / तथागताधिष्ठानेन महापुस्तके प्रव्यक्तप्रव्यक्तैरक्षरैः सुलिखितां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैश्चीवरैर्वाद्यैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः / इयमस्माकमन्तिकादानन्द अनुशासनी / तत्कस्य हेतोः? अत्र हि प्रज्ञापारमितायां सर्वज्ञज्ञानपरिनिष्पत्तिर्भविष्यति / तत्किं मन्यसे आनन्द शास्ता ते तथागतः? आनन्द आह - शास्ता मे भगवन्, शास्ता मे सुगत / एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - शास्ता ते आनन्द तथागतः / परिचरितो ऽस्म्यानन्द त्वया मैत्रेण कायकर्मणा मनआपेन, मैत्रेण वाक्कर्मणा मनआपेन, मैत्रेण मनःकर्मणा मनआपेन / तस्मात्तर्हि आनन्द यथैव त्वया ममैतर्हि तिष्ठतो ध्रियमाणस्य यापयतो ऽस्मिन् समुच्छ्रये प्रेम च प्रसादश् च गौरवं च कृतम्, तथैव त्वया आनन्द ममात्ययादस्यां प्रज्ञापारमितायां कर्तव्यम् /

द्विर् अपि त्रिर् अपि ते आनन्द परीन्दामि अनुपरीन्दामि एनां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत, यथा नास्यां त्वमन्यः पुरुषः स्याः / यावदानन्द इयं प्रज्ञापारमिता लोके प्रचरिष्यति, तावत्तथागतस्तिष्ठतीति वेदितव्यम् / तावत्तथागतो धर्मं देशयतीति वेदितव्यम् / अविरहितास्ते आनन्द सत्त्वा बुद्धदर्शनेन धर्मश्रवणेन संघोपस्थानेन च वेदितव्यम् / तथागतान्तिकावचरास्ते आनन्द सत्त्वा वेदितव्याः, य एनां प्रज्ञापारमित (वैद्य 261) श्रोष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्त्यर्चयिष्यन्त्यपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिरिति //

इदमवोचद्भगवान् आत्तमनाः / ते च मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः आयुष्मांश् च सुभूतिरायुष्मांश् च शारिपुत्रः आयुष्मांश्चानन्दः शक्रश् च देवानामिन्द्रः सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितमभ्यनन्दन्निति //

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः //

समाप्ता चेयं भगवत्या आर्याष्टसाहस्रिकायाः प्रज्ञापारमिता सर्वतथागतजननी बोधिसत्त्वप्रत्येकजिनश्रावकाणां माता, धर्ममुद्रा धर्मोल्का धर्मनाभिर्धर्मभेरी धर्मनेत्री धर्मरत्ननिधानम् अक्षयो धर्मः अचिन्त्याद्भुतदर्शननक्षत्रमाला सदेवमानुषासुरगन्धर्वलोकवन्दिता सर्वसुखहेतुरिति //

प्रज्ञापारमितां सम्यगुद्गृह्य पर्यवाप्य च धारयित्वा प्रवर्त्य एनां विहरन्तु सदार्थिन इति //

ये धर्मा हेतुप्रभावा हेतुस्तेषां तथागतो ह्यवदत् /

तेषां च यो निरोध एवंवादी महाश्रमणः //

देयधर्मो ऽयं प्रवरमहायानयायिन्याः परमोपासिकसौराज्रसुतलक्ष्मीधरस्य / यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्त्वराशेरनुत्तरज्ञानावाप्तये इति //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.