Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
महायानसूत्रालंकार
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ msa_9.42 ॥
मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते । येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते ।
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ msa_9.43 ॥
अर्थपरावृत्तौ उद्ग्रहपरावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति ।
विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ msa_9.44 ॥
विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालमव्याघाते परमं विभुत्वं लभ्यते ।
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले] पदे ॥ msa_9.45 ॥
प्रतिष्ठापरावृत्तावप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते । बुद्धानामनास्रवेधातौ ।
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यबिहारे ऽथ दारासंक्लेशदर्शने ॥ msa_9.46 ॥
मैथुनस्य परावृत्तौ द्वयोर्बुद्धसुखविहारे च दारासंक्लेशदर्शने च ।
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ msa_9.47 ॥
आकाशसंज्ञाव्यावृत्तौ द्वयोरेव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति । गतिरूपविभावेन च यथेष्टगमनादाशवशी[काशी]करणाच्च ।
इत्यमेयपरावृत्तावमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाब्दुद्धानाममलाश्रये ॥ msa_9.48 ॥
इत्यनेन मुखेनाप्रमेया परावृत्तिः ।
तत्र चाप्रमेयं विभुत्वमचिन्त्यकर्मानुष्ठानं बुद्धानामनास्रवे धातौ वेदितव्यम् ।
तस्यैव बुद्धस्य सत्त्वपरिपाकनिमित्तत्वे सप्त श्लोकाः ।
शुभे बृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै- रपक्वः पक्वो वा [न] च पुनरशेषं ध्रुवमिह ॥ msa_9.49 ॥
अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायामनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः शुभवृद्धौ परमतां व्रजन[न्] पाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति । एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् ।
तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवतीं महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् । लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा] सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि ॥ msa_9.50 ॥
अनेन द्वितीयेन परिपव्कानां बोधिसत्त्वानां परिपाकस्याश्चर्यं नाश्चर्यं लक्षणम् । सदा सर्वसमयमिति नित्यं निरन्तरं च तदनुभूय[रूप]मार्गचरणं सुविधिचरणम् ।
क्वचिद्धर्माञ्चकं[धर्म्यं चक्रं] बहुमुखशतैर्दर्शयतिः यः क्वचिज्जन्मान्तर्धि क्वचिदपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते ॥ msa_9.51 ॥
अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्त्वान् विनयति । विचित्रा जनचरी जातकभेदेन । न च स्थानाच्चलतीत्यनास्रवाद्धातोः ।
न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्र- पाच्यो ऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशि समन्तात्रयमुखम् ॥ msa_9.52 ॥
अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वमनभिसंस्कारेण दर्शयति ।
त्रयमुखमिति यानत्रयेण ।
यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते । तथा धर्मार्को ऽपि प्रशमविधिधर्माशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते ॥ msa_9.53 ॥
अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति ।
यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः । तथैकस्माद् बुद्धाद् [पाका]द्भवति सुमहान् परिपाक[पाक]निचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति[पुनरुपैति] व्ययमतः ॥ msa_9.54 ॥
अनेन षष्ठेन परंपरया परिपाचनम् ।
यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धो धातुः सततसमितैः शुद्धिविशनै- र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत् ॥ msa_9.55 ॥
अनेन सप्तमेन परिपव्कानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोरतृप्तिं चावकाशदानादवृद्धिं ध्याना[चान]धिकत्वात् ।
धर्मधातुविशुद्धौ चत्वारः श्लोकाः ।
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ msa_9.56 ॥
एष स्वभावार्थमारभ्यैकः श्लोकः ।
क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च । वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च । सर्वतस्तथताज्ञानभावना समुदागमः । सर्वसत्त्वद्वयाधानसर्वथाक्षयता फलम् ॥ msa_9.57 ॥
एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । सर्वत इति सर्वधर्मपर्यायमुखैः । सर्वसत्त्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलम् ।
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ msa_9.58 ॥
एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः ।
स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः । धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः ॥ msa_9.59 ॥
एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः ।
बुद्धकायविभागे सप्तश्लोकाः ।
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः ॥ msa_9.60 ॥
त्रिविधः कायो बुद्धानाम् । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्त्वार्थं करोति ।
सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः । क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः ॥ msa_9.61 ॥
तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोगक्रियाभिर्भिन्नः ।
समः सूक्ष्मश्च तच्छिष्टः[च्छिलष्टः] कायः स्वाभाविको मतः । संभोगाविभुताहेतुर्यथेष्टं भोगदर्शने ॥ msa_9.62 ॥
स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन संभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय ।
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ msa_9.63 ॥
नैर्माणिकस्तु कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वार्थसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्माणिके च ।
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायो ऽयं महामायो[महोपायो] विमोचने ॥ msa_9.64 ॥
स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश्चाभिसंबोधेश्च निर्वाणस्य च दर्शनैर्विमोचने महोपायत्वात्परार्थसंपत्तिलक्षणो वेदितव्यः ।
त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः ॥ msa_9.65 ॥
त्रिभिश्च कायैर्बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस्त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश्च तदाश्रितत्वाद्यथा पूर्वमुक्तम् ।
आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्यास्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ msa_9.66 ॥
ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर्निर्विशेषाः, आश्रयेण धर्मधातोरभिन्नत्वात्, आशयेन पृथग्बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास्तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभोगाविच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये[र्धाय]पुनः पुनर्निर्माणदर्शनात् ।
बुद्धज्ञानविभागे दश श्लोकाः ।
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ msa_9.67 ॥
चतुर्विधं बुद्धानां ज्ञानमादर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानमचलं त्रीणी ज्ञानानि तदाश्रितानि चलानि ।
आदर्शज्ञानममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा ॥ msa_9.68 ॥
आदर्शज्ञानममपरिच्छिन्नं देशतः सदानुगं कालतः । सएर्वज्ञेयेष्वसंमूढं सदावरणविगमात्, न च तेष्वामुखमनाकारत्वात् ।
सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत् ॥ msa_9.69 ॥
तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात्सर्वज्ञानानामाकरोपम् । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानामित्युच्यते ।
सत्त्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं [मतम्] । अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते ॥ msa_9.70 ॥
यब्दोधिसत्त्वेनाभिसमयकालेषु [सत्त्वेषु] समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बोधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते ।
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्त्वानां बुद्धबिम्बनिदर्शकम् ॥ msa_9.71 ॥
महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्त्वानां बुद्धबिम्बनिदर्शकम् । यतः केचित्सत्त्वास्तथागतं नीलवर्णं पश्यन्ति केचित्पीतवर्णमित्येवमादि ।
प्रत्यवेक्षणकं ज्ञाने [नं] ज्ञेयेष्वव्याहतं सदा । धारणीनां समाधीनां निधानोपममेव च ॥ msa_9.72 ॥
परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ msa_9.73 ॥
प्रत्यवेक्षणकं ज्ञानं यथाश्लोकम् ।
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम् ॥ msa_9.74 ॥
कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर्नानाप्रकारैरप्रमेयैरचिन्त्यैश्च सर्वसत्त्वार्थकम् ।
कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा ॥ msa_9.75 ॥
तच्च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यात [तः] क्षेत्रतश्च ।
धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः ॥ msa_9.76 ॥
तत्र धारणात् श्रुतानां धर्माणाम् । समचित्तता सर्वसत्त्वेष्वात्मपरसमतया । शेषं गतार्थम् ।
बुद्धानेकत्वापृथक्त्वेश्लोकः ।
गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः । अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ msa_9.77 ॥
एक एव बुद्ध इत्येतन्नेष्यते । किं कारणम् । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्त्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंमोत्स्यन्त इति कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्यादन्येषां बोधिसत्त्वानामनभिसंबोधान्न च युक्तं वैयर्थ्यम् । तस्मादवैयर्थ्यादपि नैक एव बुद्धः सत्त्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचिदप्रतिष्ठापनादेतच्च न युक्तम् । न च कश्चिदादिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद्विना चान्येन बुद्धेन संस्थाना [संभारा]योगादित्यनादित्वादप्येको बुद्धौ न युक्तः । बहुत्वमपि नेष्यते बुद्धानां धर्मकायस्याभेदादनास्रवे धातौ ।
बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः ।
याविद्यमानता सैव परमा विद्यमानता । सर्वथानुपलम्भश्च उपलम्भः परो मतः ॥ msa_9.78 ॥
या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश्च सर्वथानुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्न स्वभावस्य ।
भावना परमा चेष्टा भावनामविपश्यताम् । प्रतिलम्भः परश्चेष्टः प्रतिलम्भं न पश्यताम् ॥ msa_9.79 ॥
सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः ।
पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः । मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते ॥ msa_9.80 ॥
ये च गुरुत्वं बुद्धत्वं पश्यन्ति अद्भुतधर्मयुक्तम् । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं च पश्यन्ति चित्तालम्बनम् । आत्मनश्च वीर्यं वयमारब्धवीर्या बुद्धत्वं प्राप्स्याम इति ।
तेषामेवंमानिनां बोधिसत्त्वानामौपलम्भिकत्वात् दूरे बोधिर्निरूप्यते ।
पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं । अकल्पबोधिसत्त्वानां प्राप्ता बोधिर्निरूप्यते ॥ msa_9.81 ॥
कल्यनामात्रं त्वेतत्सर्वमिति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनादकल्पबोधिसत्त्वानामनुत्पत्तिकधर्मक्षान्तिलाभावस्थायामर्थतः प्राप्तैव बोधिरित्युच्यते ।
बुद्धानामन्योन्यनै[न्यै]ककार्यत्वे चत्वारः श्लोकाः ।
भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ msa_9.82 ॥
समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च । मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ msa_9.83 ॥
भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्त्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः ॥ msa_9.84 ॥
बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रैककार्याश्च महोपभोग्याः सदा महासत्त्वगणस्य ते हि ॥ msa_9.85 ॥
तत्र भिन्नाश्रया नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्यल्पानामुपभोग्याः । शेषं गतार्थम् ।
बुद्धत्वप्रोत्साहने श्लोकः ।
इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम् ॥ msa_9.86 ॥
निरूपमसुक्लधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच्च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच्च सुखविहारो विशेषतः । बुद्धिमानहीनबोधिचित्तमादातुं तत्प्रणिधानपरिग्रहात् ।
॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः ॥
दशमोधिकारः उद्दानम् ।
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च ॥ msa_10.1 ॥
एष च बोध्यधिकार आदिमारभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ ।
जाता-जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ msa_10.2 ॥
जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिका[की] ययालम्बनमधिमुच्यते । ग्राह्यभूता बाह्या याना[मा] लम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता [प्रणीता] । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् ।
हार्या कीर्णाव्यावकीर्णा विपक्षैर्हीनोदारा आवृतानावृता च । युक्तायुक्ता संभृतासंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः ॥ msa_10.3 ॥
हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैरधिमात्रा । हिनान्ययाने । उदारामहायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु ।
अधिमुक्तिपरिपन्थे त्रयः श्लोकाः ।
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बल्यमयोनिशोमनस्क्रिया ॥ msa_10.4 ॥
जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यम्, ग्राह्यग्राहकभूताया योगविभ्रमः, तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रम्, विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यम् । अभ्रान्ताया अयोनिशो अमनसिकारः [मनसिकारः] परिपन्थस्तद्विरोधित्वात् ।
प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश्च तथापरिजयो मतः ॥ msa_10.5 ॥
आमुखायाः प्रमादः, तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वम्, नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वमल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश्चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश्च । हार्याव्यवकीर्णयोरपरिजयः परिपन्थः ।
अनुद्वेगस्तथोद्वेग आवृत्तिश्चाप्ययुक्तता । असंभृतिश्च विज्ञेयाधिमुक्तिपरिपन्थता ॥ msa_10.6 ॥
हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः अनावृतायाश्चावृतिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः ।
अधिमुक्तावनुशंसे पञ्च श्लोकाः ।
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं न विशेषगमनं तथा ॥ msa_10.7 ॥
धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा । क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः ॥ msa_10.8 ॥
जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायामकौकृत्यमविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायामविप्रणाशः । स्वयमधिमुक्तौ स्थैर्यम् । भ्रा[अभ्रा]न्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनम् । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुक्लपक्षासु क्षिप्राभिज्ञत्वमनुशंसः ।
कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ msa_10.9 ॥
यथ श्वा दुःखार्तः सततमवितृप्तः क्षुधितको यथा कूर्मश्चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यमुपचकितमूर्तिर्विचरति । यथा राजा आज्ञाविषये वश[चक्र?]वर्ती विहरति ।
तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्त्या विविधया । महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात् ॥ msa_10.10 ॥
अपि खलु कामिनामधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्यास्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवताम् । एतमेवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति ।
अधिमुक्तिलयप्रतिषेधे श्लोकाः[कः] ।
मनुष[ष्य]भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्त्वा लयं नातो ऽधिवासयेत् ॥ msa_10.11 ॥
त्रिभिः कारणैर्लयो न युक्तः । यतो मनुष[ष्य]भूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश्च प्राप्नुवन्ति ।
अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ ।
यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः ॥ msa_10.12 ॥
सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते ॥ msa_10.13 ॥
यथा भोजनं ददतः पुण्यमुत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात्तेषु तेषु [महायान] सूत्रेषूक्तः पुण्योदयो महांल्लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् ।
अधिमुक्तिफलपरिग्रहे श्लोकः ।
इति विपुलगतौ महोघ[महार्य]धर्मे जनिय [परिजनयन्?] सदा मतिमान्महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च ॥ msa_10.14 ॥
यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्णाति । विस्तीर्णे महायानधर्मे ऽपरि[हा]णी[परिजननी?] ययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर्वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वम् ।
॥ महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः ॥
एकादशो ऽधिकारः
धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः ।
पिटकत्रयं द्वयं वा [च?]संग्रहतः कारणैर्नवभिरिष्टम् । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति ॥ msa_11.1 ॥
पिटकत्रयं सूत्रविनयाभिधर्माः । तदेव त्रयं हीनयानाग्र[महा?]यानभेदेन द्वयं भवति । श्रावपिटकंबोधिसत्त्वपिटकं च । तत्पुनस्त्रयं द्वयं वा [च?]केनार्थेन पिटकमित्याह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद्वेदितव्यम् । केन कारणेन त्रयम् । नवभिः कारणैः, विचिकित्साप्रतिपक्षेण सूत्रम्, यो यत्रार्थे संशयितस्तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्य, अनवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् ।
पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण[दिक्रमेण] समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर्धर्मार्थदेशना सूत्रेण । धर्मार्थमिप्पत्तिर्विनयेन क्लेशविनयसंयुक्तस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यमभिधर्मेणेति ।
एभिर्नवभिः कारणैः पिटकत्रयमिष्टम् । तच्च संसाराद्विमोचनार्थम् । कथं पुनस्तद्विमोचयति । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति । श्रूतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः ।
सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति ॥ msa_11.2 ॥
ते च सूत्रविनयभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस्तेषां ज्ञानाब्दोधिसत्त्वः सर्वज्ञतां प्राप्नोति । श्रावकस्त्वेकस्या अपि गाथाया अर्थमाज्ञायास्त्रवक्षयंप्राप्नोति ।
आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् । अभिमुखतो ऽथामीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च ॥ msa_11.3 ॥
कथं प्रत्येकं चतुर्विधार्थः । आश्रयलक्षणधर्मार्थसूचनात्सूत्रम् । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृत्तिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः ।
अभिमुखत्वादभीक्ष्णत्वादभिभवनादभिगमनाच्चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमु[सु?]खादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्यभिधर्मः परप्रवादाभिभवनाद्विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्यभिधर्मः ।
आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव ॥ msa_11.4 ॥
आपत्तितः समुत्थानतो व्युत्थानतो निसारणतश्च वेदितव्यः । तत्रापत्तिः पञ्चापत्तिनिकायाः । समुत्थानमापत्तीनामज्ञानात्प्रमादात् क्लेशप्राचुर्यादनादराच्च । व्युत्थानमाशयतो न दण्डकर्मतः । निःसरणं सप्तविधम् । प्रतिदेशना, अभ्युपगमः शिक्षादत्तकादीनाम्, दण्डकर्मणः[णाम्] । समवद्योतः [समवधातः], प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण अ[णानु] ज्ञानात्, प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्य प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर्भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनादसाधारणा वे[चे]दापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाक[का]रैः प्रत्यवेक्षावशेषः । धर्मताप्रतिलम्भश्च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्ना[त्त्य]भावे धर्म [ता]प्रतिलम्भात् । पुनश्चतुर्विधेनार्थेन विनयो वैदितव्यः । पुद्गलतो यमागम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदारोचिते पुद्गलापराधे शास्ता संनिपात्य संघ[संघं?] शिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तदुद्देशस्य विभागः । विनिश्चयतश्च तत्रापत्तिः कथं भवत्यनापत्तिर्वेति निर्धारणात् ।
आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः ।
आलम्बनं मतो धर्मः अध्यात्मं बाह्यकं[द्वयम्?] । [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः] ॥ msa_11.5 ॥
[धर्मालम्बनं यो देशितः कायादिकञ्चाध्यात्मिकं] बाह्यमाध्यात्मिकबाह्यञ्च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोरेव तथता द्वयम् । तत्र द्वयोराध्यात्मिकबाह्ययोरालम्बनयोर्द्वयार्थेन लाभो यथाक्रमम् । यदि ग्राह्यार्थद्ग्राहकार्थमभिन्नं पश्यति ग्राहकार्थाच्च ग्राह्यार्थम्, द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस्तयोरेवद्वयोरनुपलम्भाद्वेदितव्यः ।
मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः ॥ msa_11.6 ॥
धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः ॥ msa_11.7 ॥
धर्मालम्बनलाभः पुनस्त्रिभिर्ज्ञानैर्भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर्यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः, मनोजल्पैरिति संकल्पैः । प्रसन्नस्येत्यधिमुक्तस्य निश्चितस्य । प्रधारणादिति प्रविचयात् । जल्पादर्थख्यानस्य प्रधारणाच्चिन्तामयेन तल्लाभः । यदि मनोजल्पादेवायमर्थः ख्यातीति पश्यति नान्यन्मनोजल्पाद्यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद्यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस्त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः ।
मनसिकारपर्येष्टौ पञ्च श्लोकाः ।
त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः ॥ msa_11.8 ॥
हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः ॥ msa_11.9 ॥
संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तध चैव परिज्ञा पञ्चधास्य च ॥ msa_11.10 ॥
चत्वारः सप्तत्रिंशच्च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्युनुशंसः प्रतीच्छकः ॥ msa_11.11 ॥
प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ msa_11.12 ॥
अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंवाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश्च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । (म्स_बग्छि 58) च्छन्दजनको यस्तत्संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचार [रावितर्कविचार?] (निर्वितर्कसविचार?) मात्रावितर्काविचारसहगतश्च । ज्ञानसंप्रयुक्तो यो योगोपनिषद्योगसहगतः, स पुनर्यथाक्रमं श्रुतचिन्तामयो भावनामयश्च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्ग्रहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्म नैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश्च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस्तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनम् । भावनाकारप्रविष्टश्चतुराकारभावनः
सप्तत्रिंशदाकारभावनश्च । तत्रचतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश्च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावना [निर्विर्घाटना] कारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यमारभते यथाक्रमम् । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति[प्रगृह्णाति] । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति [प्रदधाति] । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश्चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस्तत्रैव विचयोत्साहसौमनस्यकर्मण्यताचित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचार[रा]कारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश्च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर्न कश्चिन्निर्देशः ।
अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्त्रोतसि बुद्धबोधिसत्त्वानामन्तिकादववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्यामुपलक्षयते । (म्स_बग्छि 59) वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिमुपलक्षयते परिमाणवृत्तिं च व्यञ्जनानामपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयमुपादाय द्वयपरिकल्पमुपलक्षयते । नामपरिकल्पमुपादायार्थपरिकल्पमर्थपरिकल्पमुपादाय नामपरिकल्पमपरिकल्पमक्षरम् । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकामर्थग्रहणप्रवृत्तिमुपलक्षयते । प्रतिवेधप्रायोगिकश्च । स पुनरेकादशविधो वेदितव्य, आगन्तुकत्वप्रतिवेधतः, संप्रख्याननिमित्तप्रतिवेधतः, अर्थानुपलम्भप्रतिवेधतः, उपलम्भानुपलम्भप्रतिवेधतः, धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतः, धर्म नैरात्म्यप्रतिवेधतः, हीनाशयप्रतिवेधतः, उदारमाहात्म्याशयप्रतिवेधतः यथाधिगमधर्मव्यवस्थानप्रतिवेधतः, व्यवस्थापितधर्मप्रतिवेधतश्च । वशवर्तिमनस्कारस्त्रिविधः, क्लेशावरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धः, गुणाभिनिर्हारसुविशुद्धश्च ।
धर्मतत्त्वपर्येष्टौ द्वौ श्लोकौ ।
तत्त्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः, शक्यं नैव च सर्वथाभिलपितुं यच्चाप्रपञ्चात्मकम् । ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम् । यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता ॥ msa_11.13 ॥
सततं द्वयेन रहितं तत्त्वं, परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्त्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस्तेन तत्परिकल्पनात् । अनभिलाप्यमप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्त्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या, यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिः । न ह्याकाशादीनि प्रकृत्या अशुद्धानि न चागन्तुकमलापगमादेषां विशुद्धिर्नेष्यत इति ।
न खलु जगति तस्माद्विद्यते किंचिदन्य- ज्जगदपि तदशेषं तत्र संमूढबुद्धि । कथमयमभिरूढो लोकमोहप्रकारो । यदसदभिनिविष्टः सत्समन्ताद्विहाय ॥ msa_11.14 ॥
न खलु तस्मादेवंलक्षणाद्धर्मधातोः किंचिदन्यल्लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थम् ।
तत्त्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः ।
यथा माया तथाभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते ॥ msa_11.15 ॥
यथा माया यन्त्र [मन्त्र]परिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकम् तथाभूतपरिकल्पः परतन्त्रः स्वभावो [स्वभावाकारो] वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्भावेन प्रतिभासिता, तथा तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेनप्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या ।
यथा[ऽ]तस्मिन्न तद्भावः परमार्थस्तथेष्यते । यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता ॥ msa_11.16 ॥
यथा[ऽ]तस्मिन्न तद्भावो मायाकृते हस्तित्वाद्यभावस्तथा तस्मिन्परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिः, तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः ।
तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते ॥ msa_11.17 ॥
यथा मायाकृतस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर्भूतार्थोपलभ्यते, तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावादभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते ।
तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् । परावृत्तावपर्यस्तः कामचारी तथा पतिः[यतिः] ॥ msa_11.18 ॥
यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः तथाऽश्रयपरावृत्तावपर्यस्त आर्यः कामचारि भवति स्वतन्त्रः ।
तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥ msa_11.19 ॥
एष श्लोको गतार्थः ।
न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च मायादिषु विधीयते ॥ msa_11.20 ॥
न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न [?]भावः । तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः, स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः ।
तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ msa_11.21 ॥
तथात्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश्च नास्ति । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु ।
न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च रूपादिषु विधीयते ॥ msa_11.22 ॥
न भावस्तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयतानास्तिता । भावाभावाविशेषश्च रूपादिषु विधीयते । य एव हि द्वयाभासताया भावः स एव द्वयस्याभाव इति ।
समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते । हीनयानेन यानस्य प्रतिषेधार्थमेव च ॥ msa_11.23 ॥
किमर्थं पुनरयं भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते । यथाक्रमम् । समारोपापवादाभ[न्तः?]प्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्यभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश्चाविशेषं विदित्वा न भावादुद्विजते तस्मान्न हिनयानेन निर्याति ।
भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते । अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा ॥ msa_11.24 ॥
रूपभ्रान्तेर्या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिरिष्यते रूपाख्या । सा तु रूपभ्रान्तिररूपिणी विज्ञप्तिः । अभावाद्रूपविज्ञप्तेरितरापि न स्यादरूपिणी विज्ञप्तिः । काएरणाभावात् ।
मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ msa_11.25 ॥
बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ msa_11.26 ॥
मायाहस्त्याकृतिग्राह्य[ह]भ्रन्तितो द्वयमुदाहृतम् । ग्राह्यं ग्राहकं च, तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं[ब?] संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर्द्वयमुदाहृतं पूर्ववत् ।
तथा भावात्तथाभावाद् भावाभाव[वा?]विशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ msa_11.27 ॥
ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास्ते सदसन्तो मायोपमाश्च । किं कारणम् । सन्तस्तथाभावादभूतपरिकल्पत्वेन । असन्तस्तथाभावात् ग्राह्यग्राहकत्वेन । तयोश्च भावाभावयोरविशिष्टत्वात् सन्तो ऽप्यसन्तो ऽपि मायापि चैवंलक्षणा स्त[त?]स्मान्मायोपमाः ।
तथाभावात्तथाभावात्तथाभावादलक्षणाः । मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ msa_11.28 ॥
ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस्ते ऽप्यलक्षणा मायाश्च निर्दिष्टाः । किं कारणम् । तथाभावाद्यथा बालैर्गृह्यन्ते । तथाभावाद्यथा देशिताः । तथाभावाद्यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवमलक्षणा अविद्यमानाश्च ख्यान्ति तस्मान्मायोपमाः ।
मायाराजेव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः ॥ msa_11.29 ॥
ये प्रातिपक्षिका धर्मास्ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्त्यात् । ये ऽपि सांक्लेशिका धर्मास्ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्तावाधिपत्यात् । अतस्तैः प्रातिपक्षिकैः संक्लेशपराजयो माया [?] राज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच्च बोधिसत्त्वा निर्मारा भवन्ति उभयपक्षे ।
औपम्यार्थे श्लोकः ।
मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः ॥ msa_11.30 ॥
यत्तूक्तं भगवता मायोपमा धर्मा यावन्निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्यायतनानि । असत्यात्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट् बाह्यान्यायतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मौ चित्तं चैतसिकाश्च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षडेवाध्यात्मिकान्यायतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षडेव बाह्यान्यायतनान्याध्यात्मिकानामायतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । (म्स_बग्छि 63) षट् द्वयं मताः षट् द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेरूदकस्थानीयत्वादच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् ।
ज्ञेयपर्येष्टौ श्लोकः ।
अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ msa_11.31 ॥
अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः, न भूतो नाभूतो यस्तदनुकूलो यावन्निर्वेधभागीयः । अकल्पस्तथता लोकोत्तरं च ज्ञानम् । न कल्पो नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानम् । एतावच्च सर्वं ज्ञेयम् ।
संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयम् ।
स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ msa_11.32 ॥
स्वधातुत इति भावाङ्गा [स्वबीजा?]दालयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश्च वृत्तिरेषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः ।
आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ msa_11.33 ॥
आलम्बनविशेषाप्तिरिति यो धर्मालम्बनलाभः पूर्वमुक्तः । स्वधातुस्थानयोगत इति स्वधातुर्विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच्चेतसः । योगत इत्यभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच्च । यथा हि स्वरत्वापगमात्तदेव चर्म मृदु भवति । अग्निसंतापनया तदेव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतः प्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्ते । इत्येव [वं?] व्यवदानं पर्येषितव्यम् ।
विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ ।
चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति ॥ msa_11.34 ॥
चित्तमात्रमेव द्वयप्रतिभासमिष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तदेवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासादन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः । यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः ।
इति चित्तं चित्राभासं चित्राकारं प्रवर्तते । तथाभासोभावाभावो न तु धर्माणां मतः ॥ msa_11.35 ॥
तत्र चित्तमेव वस्तुतच्चि[श्चि]त्राभासं प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा । तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारम् । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां [क्लिष्टानां?] कुशलानां [वा?] तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् ।
लक्षणपर्येष्टौ श्लोका अष्टौ । एकनोद्देशः शेषैर्निर्देशः ।
लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता ॥ msa_11.36 ॥
अनेनोद्देशः ।
सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः ॥ msa_11.37 ॥
तत्र चित्तं विज्ञानं रूपं च । दृष्टिश्चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता वर्माः । अविकारिता असंस्कृतमाकाशादिकं तद्विज्ञप्तेर्नित्यं तथाप्रवृत्तेः । इत्येतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणम् ।
यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं ॥ msa_11. ॥ 38 ॥
लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणम् । तत्र परिकल्पितलक्षणं त्रिविधं यथा जल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच्च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथाभिलापमर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यदालम्बनं तन्निमित्तमेवं [व] यच्च परिकल्प्यते यतश्च कारणाद्वासन[ना]तस्तदुभयं परिकल्पितलक्षणमत्राभिप्रेतम् ।
यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या । असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ msa_11.39 ॥
अपरपर्यायो यथा नाम चार्थश्च यथानामार्थमर्थस्य नाम्नश्च प्रख्यानता यथा नामार्थप्रख्यानता । यदि यथा नामार्थः ख्याति यथार्थं वा नाम इत्येतदभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद्धि परिकल्प्यते यदुत नाम वा अर्थो वेति ।
त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ msa_11.40 ॥
त्रिविधस्त्रिविधश्चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश्च । पुनस्त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानम् । तत्र प्रथमत्रि[मस्त्रि-?] विधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्ययमभूतपरिकल्पः परतन्त्रस्य लक्षणम् ।
अभावभावता या च भावाभावसमानता । अशान्तशान्ताकल्पा च परिनिष्पन्नलक्षणम् ॥ msa_11.41 ॥
परिनिष्पन्नलक्षणं पुनस्तथता सा ह्यभावता च, सर्वधर्माणां परिकल्पिताना [नां?] भावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर्भावाभावयोरभिन्नत्वात् । अशान्ता चागन्तुकैरुपक्लेशैः, शान्ता च प्रकृतिपरिशुद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्ले[सं]शव्यवदानलक्षणमविकल्पलक्षणं च उक्तं त्रिविधं लक्षणम् ।
निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ msa_11.42 ॥
लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानमादर्श आलोक आश्रयश्च । तत्राधारो निष्प[ष्य]न्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्प[ष्य]न्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर्यदेतत्पूर्वं नाम्नि स्थानमुक्तम् । आलोकः सदसत्त्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा, तथा[तया] सच्च सतो यथाभूतं पश्यत्यसच्चासतः ।
आश्रय आश्रयपरावृत्तिः ।
समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् । समं विशिष्टमन्यूनानधिकं लक्षणा मता ॥ msa_11.43 ॥
समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैरार्यैः । तच्च निर्मलमार्यगोत्रं बुद्धानाम् । समं विमुक्तिसमता श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर्विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्वविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्त्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्येषा पञ्चविधा योगभूमिर्लक्षणा । तया हि तल्लक्ष्यं लक्षणं च लक्ष्यते ।
विमुक्तिपर्येष्टौ षट्श्लोकाः ।
पदार्थदेहनिर्भासपरावृत्तिरनास्रवः । धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ msa_11.44 ॥
बीजपरावृत्तेरित्यालयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिरनास्रवो धातुर्विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः ।
चतुर्धा वशितावृतेर्मनसश्चोद्ग्रहस्य च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि ॥ msa_11.45 ॥
मनसश्चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेरित्यर्थः । चतुर्धा वशिता भवति यथाक्रममविकल्पे क्षेत्रे ज्ञानकर्मणोश्च ।
अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्यामेकैका वशिता मता ॥ msa_11.46 ॥
सा चेयमचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्यामचलायां भूमौ द्विविधा । अविकल्पे न [?] चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमावेकै[वै]का वशिता साधुमत्यां ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेघायां कर्मण्यभिज्ञाकर्मणामव्याघातात् ।
विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्त्वं ग्रहणतः । ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ msa_11.47 ॥
अपरो विमुक्तिपर्यायः ।
द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्त्वः समं तच्च ज्ञात्वा द्विविधनैरात्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात्, न तु सर्व थैवाभावतः । तत्त्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रमेतदिति । ततस्तत्र तत्त्वविज्ञप्तिमात्रस्थानान्मनसस्तदपि तत्त्वं न ख्याति विज्ञप्तिमात्रम् । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोरनुपलम्भात् ।
आधारे संभारादाधाने सति हि नाममात्रंपश्यन् । पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः ॥ msa_11.48 ॥
अपर[रः]पर्यायः आधार इति श्रुतौ संभारादिति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्नित्यभिलापमात्रमर्थरहितं । पश्यति हि नाममात्रमिति विज्ञप्तिमात्रं नाम अरूपिणश्चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस्तदपि भूयो नैव पश्यत्यर्थाभावे तद्विज्ञप्त्यदर्शनादित्ययमनुपलम्भो विमुक्तिः ।
चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् । प्रवर्त्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता ॥ msa_11.49 ॥
अपर[रः] प्रकारः चित्तमेतत्सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितमिति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितम् अतः सदौष्ठुल्यमिति । निवृत्तिस्तु तदध्यात्मस्थितेरिति तस्य चित्तस्य चित्त एवावस्थानादालम्बनानुपलम्भतः ।
निःस्वभावतापर्येष्टौ श्लोकद्वयम् ।
स्वयं स्वेनात्मनाभावात्स्वभावे चानवस्थितेः । ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते ॥ msa_11.50 ॥
स्वयमभावान्निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मनाभावान्निःस्वभावत्वं निरुद्धानां पुनस्तेना [स्वेना?]त्मनानुत्पत्तेः । स्वभाव[वे] ऽनवस्थितत्वान्निःस्वभावत्वं क्षणिकत्वादित्येतत्त्रिविधं निःस्वभावत्वम् संस्कृतलक्षणत्रयानुगं वेदितव्यम् । ग्राहवत्तदभावाच्च निःस्वभावत्वम् । तदभावादिति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशुच्यात्तो[त्मा] वान्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्मादपि निःस्वभावत्वं धर्माणामिष्यते । ..........
[निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पन्ना निरोद्धादिशान्तप्रकृतिनिर्वृताः ॥ msa_11.51 ॥]
[सिद्धा] निःस्वभावतयानुत्पादादयः । यो हि निःस्वभावः सो ऽनुत्पन्नः, यो ऽनुत्पन्नः सो ऽनिरूद्धः, यो ऽनिरूद्धः स आदिशान्तः य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्येवमुत्तरोत्तरनिश्रयैरेभिर्निःस्वभावता[दि]भिर्निःस्वभावतयानुत्पादादयः सिद्धा भवन्ति ।
अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या ।
आदौ तत्त्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे । संक्लेश ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता ॥ msa_11.52 ॥
अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति । तत्त्वे ऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः । न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति । संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति । इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता ।
एकयानतापर्येष्टौ सप्त श्लोकाः ।
धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता ॥ msa_11.53 ॥
धर्मतुल्यत्वादेकयानता, श्रावकादीनां धर्मधातोरभिन्नत्वात् यातव्यं यानमिति कृत्वा । नैरात्म्यस्य तुल्यत्वादेकयानता, श्रावकादीनामात्माभावतासामान्याद्याता यानमिति कृत्वा । विमुक्तितुल्यत्वादेकयानता, याति यानमिति कृत्वा । गोत्रभेदादेकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणात् यान्ति तेन यानमिति कृत्वा । द्व्याशयाप्ते रेकयानता । बुद्धानां च सर्वसत्त्वेष्वात्माशयप्राप्तेः, श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरितादना[नामा]त्मनि बुद्धाशयप्राप्तेरभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्येकत्वाशयलाभेनैकत्वाद् बुद्धतच्छ्रावकाणामेकयानता । निर्माणादेकयानता, यथोक्तमनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानामर्थे तथा निर्माणसंदर्शनात् । पर्यन्तादप्येकयानता यतः परेण यातव्यं नास्ति तद्यानमिति कृत्वा । बुद्धत्वमेकयानम्, एवं तत्रतत्र सूत्रे तेन तनाभिप्रायेणैकयानता वेदितव्या, न तु यानत्रयं नास्ति ।
किमर्थं पुनस्तेन तेनाभिप्रायेणैकयानता बुद्धैर्देशिता ।
आकर्षणार्थमेकेषामन्यसंघारणाय च । देशितानियतानां हि संबुद्धैरेकयानता ॥ msa_11.54 ॥
आकर्षणार्थमेकेषामिति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय, ये बोधिसत्त्वगोत्रा अनियताः ।
श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः ॥ msa_11.55 ॥
श्रावकः पुनरनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश्च यो दृष्टसत्यो महायानेन निर्याति, अदृष्टार्थयानश्च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर्वीतरागश्चावीतरागश्च कामेभ्यः । असौ च मृदुर्धन्धगतिको वेदितव्यः ।
यो दृष्टार्थो द्विविध उक्तः ।
तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ msa_11.56 ॥
तौ च दृष्टार्थौ लब्धस्यार्यमार्गस्य भवेषु परिणामनात् अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्मादचिन्त्यपरिणामिकी ।
प्रणिधानवशादेक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते ॥ msa_11.57 ॥
तयोश्चैकः प्रणिधानवशादुपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः ।
निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ msa_11.58 ॥
तौ च निर्वाणाभिरतत्वादुभावपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् ।
सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते ॥ msa_11.59 ॥
यः पुनरसाववीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थमुद्यतो भवति निर्माणार्थी । तच्च निर्माणमाश्रित्य क्रमेण परां बोधिं प्राप्नोति । तमवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश्च बुद्ध इति । अग्निदृष्टान्ते[न] च यदा च पूर्वं दृष्टसत्यावस्था[स्थो] यदा बुद्धरहिते काले स्वयं ध्यानमुत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति ।
विद्यास्थानपर्येष्टौ श्लोकः ।
विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः । इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम् ॥ msa_11.60 ॥
पञ्चविधं विद्यास्थानम् । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद्यदर्थं बोधिसत्त्वेन पर्येषितव्यं तद्दर्शयति । सर्वज्ञत्वप्राप्त्यर्थमभेदेन सर्वम् । भेदेन पुनर्हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थमन्येषां तदनधिमुक्तानाम् । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषामनुग्रहार्थं तदर्थिकानाम् । अध्यात्मविद्यां स्वयमाज्ञार्थम् ।
धातुपुष्टिपर्येष्टौ त्रयोदश श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर्गाथाभिर्देशिताः ।
हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ msa_11.61 ॥
ते पुनर्हेतूपलब्धितुष्टिउमनसिकारात् यावदग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्त्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयतीत्यतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्त्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्नेवं मनसिकरोति नियतमेताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्यस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधरणफलेच्छामनसिकार, आसां पारमितानां परसाधारणं वा फलं भवत्वन्यथा वा मा भूदित्यभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्त्वार्थं प्रतिविध्यतीत्यतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुकमो वेदितव्यः । यथा बुद्धैर्भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथाहमधिमुच्ये इत्यभिसंस्करणात् ।
चतुर्विधानुभावेन प्रीयणाखेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा ॥ msa_11.62 ॥
अनुभावप्रीयणामनसिकारश्चतुर्विधानुभावदर्शनप्रीयणा, चतुर्विधानुभावो विपक्षप्रहाणं, संभारपरिपाकः, स्वपरानुग्रह, आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्त्वस्वबुद्धधर्मपरिपाकमारभ्याखेदनिश्चयमनसिकारः, सर्वसत्त्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश्चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे पत्तिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना, प्रतिपक्षाणां च दानादीनामनुमोदना, तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना ।
प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ msa_11.63 ॥
अधिमुक्तिबलाधानतामारभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिमारभ्य संप्रतीच्छनमनसिकारस्तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । द[दे]शनामारभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषाम् । प्रतिपत्तिमारभ्य संनाहमनसिकारो दानादिपरिपूरिये संनहनात् । प्रणिधानमनसिकारस्तत्परिपूरिप्राप्तये[प्रत्यये] समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयमित्यभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् ।
शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् । परिपाके ऽथ पूजायां सेवायामनुकम्पना ॥ msa_11.64 ॥
औत्सुक्यमनसिकारश्चतुर्विधः । शक्तिलाभे च दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिरेव संग्रहवस्तुप्रयोगेण सत्त्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश्च प्रतिपत्तिपूजया ।
अविपरीतपारमितोपदेशाप[र्थ]ञ्चकल्याणमित्रसेवायामौत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश्चतुर्भिरप्रमाणैर्दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्त्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश्च उपेक्षायतः
अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ msa_11.65 ॥
हीधर्ममारभ्य लज्जामनस्कारः, अकृतेषु वा दानादिष्वपरिपूर्णमिथ्याकृतेषु वा लज्जा, लज्जायमानश्च प्रवृत्तिनिवृत्त्यर्थमनानुषङ्गिकं कौकृत्यायते । धृतिमारभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश्चित्तस्य धारणात् । अखेदमनस्कारो दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच्छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्ररचनाभिसंस्करणात् । लोकज्ञतामारभ्य उद्भावनामनस्कारस्तस्यैव शास्त्रस्य लोके यथाभाजनमुद्भावनाभिसंस्करणात् ।
दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः ॥ msa_11.66 ॥
प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान्नेश्वरादीनाम्, प्रतिसंविन्मनस्कारो मात्सर्यदानादि विपक्षप्रतिपक्षयोर्दोषगुणप्रतिसंवेदनात् ।
चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् । योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ msa_11.67 ॥
चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश्चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थमुपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक् प्रणिधानाभिसंस्करणात् ।
सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ msa_11.68 ॥
सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहः, दोषवति गुणवत्वग्राहः, गुणवत्यगुणवत्वग्राहः, सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ, सर्वधर्मेषु चात्मासद्ग्राहः, निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यता [दि]समाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा, आयतत्त्वसंज्ञा, प्रतिकारनिरपेक्षसंज्ञा, विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विध[संज्ञा]मनस्कारः । चतुर्विधमनाश्चर्यमौदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिर्वर्तनात् । अस्मिन्नेव च द्वये सति स्वपरसमचित्तावस्थापनात् [वस्थापना?]तद्विशिष्टेभ्यश्च (म्स_बग्छि 73) शरु[शक्रा]दिभ्यः पूजादिलाभे सति प्रतिकारनिरपेक्षता ..... [सर्वलोकेभ्यो विशिष्टशरीरभोग]लाभे सत्यपि विपाकनिरपेक्षता ।
समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका । परगुणप्रतिकारस्रयाशास्तिर्निरन्तरः ॥ msa_11.69 ॥
समतामनस्कारः सर्वसत्त्वेषु दानादिभिः समताप्रवृत्त्यभिसंस्करणात् । महात्मदृष्टिमनस्कारः सर्वसत्त्वोपकारतया पारमितासंदर्शनात् । प्रत्यय[प्रत्युप]काराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्त्वेषु त्रिस्थानाशंसनात् पारमितानां बोधिसत्त्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्त्वाव[र्थाच]रणाशंसनाच्च । निरन्तरमनस्कारो दानादिभिरबध्य[न्ध्य]कालकरणाभिसंस्करणात् ।
बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] । तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना ॥ msa_11.70 ॥
सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानादर्वागस्थानमनसिकरणात् । अनामोदमनस्कारो दानादिभिर्हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्त्वेषु ।
प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ msa_11.71 ॥
अरूचिमनस्कारः पारमिताप्रतिवर्णिकाभावनायाम् । रूचिमनस्कारो भूतायाम् । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश्च ।
आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा] ॥ msa_11.72 ॥
आयत्यां दर्शनाद्वृत्तिमनस्कारो यात्वा[यां यां] गतिं गत्वा बोधिसत्त्वेन सतावश्य करणीयताभिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस्तदन्यैर्बोधिसत्त्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थम् । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् ।
एते शुभमनस्कारा दशपारमितान्बयाः । सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि ॥ msa_11.73 ॥
इति निगमनश्लोको गतार्थः ।
धर्मपर्येष्टिभेदे द्वौ श्लोकौ ।
पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे । सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम् ॥ msa_11.74 ॥
असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ msa_11.75 ॥
त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्त्रोतसा । महती चित्त[विभु]त्वलाभिनाम् । सबिप्रबासा प्रथमा । अविप्रवासा द्वितीया । वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमो । लघु[लब्ध]काया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु ।
धर्महेतुत्वपर्येष्टौ श्लोकः ।
रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] । ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम् ॥ msa_11.76 ॥
रूपे लक्षणहेतुर्धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् । ऐश्वर्यहेतुरभिज्ञाभिस्तदक्षयत्वहेतुश्चानुपधिशेषनिर्वाणे ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा धर्मं पर्येषन्ते । रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नभूतानि हि लक्षणानि शोभाकरत्वादतस्तद्धेतुत्वाद्धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद्भैषज्यसंज्ञा । अभिज्ञैश्चर्यहेतुत्वादर्थसंज्ञा । तदक्षयहेतुत्वान्निर्वाणसंज्ञाक्षयनिर्भयतार्थेन ।
विकल्पपर्येष्टौ श्लोकः ।
अभावभाबाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ msa_11.77 ॥
दशविधविकल्पो बोधिसत्त्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायामिह बोधिसत्त्वो बोधिसत्त्व एव सन्निति । भावविकल्पो यस्य प्रतिपक्षेणाह । (म्स_बग्छि 75) बोधिसत्त्वं न समनुपश्यतीत्येवमादि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यमिति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपमिति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपमेव शून्यता शून्यतैव रूपमिति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रमिदं यदिदं रूपमिति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानमिति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्येवमादि । यथार्थनामाभिनिवेशविकल्पश्च यस्य प्रतिपक्षेणाह । तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यत्यसमनुपश्यन्नाभिनिविशते यथार्थतयेत्यभिप्रायः ।
इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्त्वा । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः ॥ msa_11.78 ॥
अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यमुग्रवीर्यतया संवृत्तिपरमार्थसत्यधर्मतापर्येषणतश्च तत्त्वं सत्यमित्यर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानाम् । स्वार्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् ।
॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः ॥
द्वादशो ऽधिकारः
धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः ।
प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः । प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ msa_12.1 ॥
कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात् सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयं ।
धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयं ।
धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता ॥ msa_12.2 ॥
तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात् ।
तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका ॥ msa_12.3 ॥
तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद्देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थम् ।
देशनाविभागे श्लोकः ।
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणतापि ...... ॥ msa_12.4 ॥
तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थम् ।
देशनासंपतौ श्लोकद्वयं ।
विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां ॥ msa_12.5 ॥
अयं चतुष्कार्थनिर्देशेन श्लोकः । यदुक्तं ब्रह्मपरिपृच्छायां । चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद्विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् । संशयजहा परेषां संशयच्छेदात् ।
तृतीयेनानवद्यकर्मत्त्वादादेया । चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम् ।
मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ msa_12.6 ॥
अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । गमिकाप्रतीतपदव्यञ्जनत्वात् । निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात् । सर्वत्रगा यानत्रयगतत्वात् ।
वाक्संपत्तौ श्लोकः ।
अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] । [यथार्हानामिषाचैव प्रमिता विषदा तथा] ॥ msa_12.7 ॥
अदीना पौरी पर्षत्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके] । प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात् । विषदा अपर्यात्ता ।
व्यञ्जनसंपत्तौ श्लोकद्वयं ।
उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात् ॥ msa_12.8 ॥
युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन । सहितैर्निर्देशादुद्देशाविरोधेन । यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन । श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया । प्रातीत्यादौपयिकैः (म्स_बग्छि 78) प्रतीतार्थतया चार्थोपगमनात् । याथार्हात्प्रतिरूपैर्विनेयानुरूपतया । नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया । आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् ।
व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां ॥ msa_12.9 ॥
षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्णादनकरी समाध्याबाहकत्वात् । चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीयानुप्राप्तस्वकार्थानां प्रेमकरत्वात् । अभिनन्दनीयाननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरूद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरूक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा
सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररूतरविताभी[ती]क्ष्णभङ्गुरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दासंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला[सखिला] सत्त्वानां (म्स_बग्छि 79) तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात् । सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् ।
देशनामाहात्म्ये चत्वारः श्लोकाः ।
वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु ॥ msa_12.10 ॥
आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थं । देशयत्युद्धटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु ।
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया ॥ msa_12.11 ॥
शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश्च । यथा चोद्देशादिप्रकारैः । येषु चोद्धटितविपञ्चितज्ञेषु । एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
