Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

महायानसूत्रालंकार

Tác giả
असङ्ग
Thông tin
GRETIL — S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् । संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम् ॥ msa_12.12 ॥

ते पुनरष्टौ दोषाः । कौशीद्यमनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः ।

खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि । तदभावाद्बुद्धानां निरूत्तरा देशना भवति ॥ msa_12.13 ॥

खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात् । अर्थसंपत्तौ श्लोकद्वयं ।

कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः ॥ msa_12.14 ॥

परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते ॥ msa_12.15 ॥

चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं (म्स_बग्छि 80) युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यम् । केवलं परैसाधारणात्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम् ।

अभिसंधिविभागे श्लोकद्वयम् ।

अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि ॥ msa_12.16 ॥

श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः ॥ msa_12.17 ॥

चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर्लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामनाभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर्दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषासानुशंसे[सं] गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यो यथाह ।

असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमां ॥ msa_12.इति ।

अयमत्राभिसंधिः । असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः ।

अभिप्रायविभागे श्लोकः ।

समतार्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः ॥ msa_12.18 ॥

चतुर्विधो ऽभिप्रायः । सत[म]ताभिप्रायो यदाह । अहमेव स तस्मिन्समये विपश्वी सम्यक्संबुद्धो ऽभूवमित्यविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यदाह । निः स्वभावाः सर्वधर्मा अनुत्पन्नाइत्येवमादि अयथारूतार्थत्वात् । कालन्तराभिप्रायो यदाह । ये (म्स_बग्छि 81) सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः । पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह ।

बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण । रागे माने चरितं कौकृत्यं चानियतभेदः ॥ msa_12.19 ॥

सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा । सर्वान्तरायदोषप्रहाणमेषां ततो भवति ॥ msa_12.20 ॥

यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान् ॥ msa_12.21 ॥

कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ msa_12.22 ॥

बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च ॥ msa_12.23 ॥

बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्त्वानामनियतानां महायानाद्भेदः । अग्रयानसंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहमेव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवमिति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान्पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति । अल्पमात्रसंतुष्ट्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद्दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्त्वेष्व[ष्वप]कारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस्तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तरोत्तरविशेषलाभाद्वेदितव्यः ।

देशनानुशंसेश्लोकः ।

इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः । भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः ॥ msa_12.24 ॥

पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत्प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च ।

॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः ॥

त्रयोदशो ऽधिकारः

प्रतिपत्तिविभागे षट् श्लोकाः ।

द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ msa_13.1 ॥

यथार्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्म नैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणीहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । एतत्समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वमलोकोत्तरत्वात् ।

अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते ॥ msa_13.2 ॥

एवमर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति ।

पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते ॥ msa_13.3 ॥

एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं [नैरात्म्यं तथा प्रतिविध्य यथोक्तं] तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवमनुधर्मं प्रतिपद्यते ।

ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः ॥ msa_13.4 ॥

ततो ज्ञानं स लभते लोकोत्तरमनुत्तरमिति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिरिति तद्भूमिकैरेवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्त्वसमतया ।

कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाया[हानाय] भावनायां प्रयुज्यते ॥ msa_13.5 ॥

श्लोको गतार्थः ।

व्यवस्थानविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु ॥ msa_13.6 ॥

शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनेति भूमिव्यवस्थानज्ञानेनाविकल्पेन च । सहचारिणेत्यनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं ।

प्रतिपत्तावप्रमादक्रियायां चत्वारः श्लोकाः ।

सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ msa_13.7 ॥

चतुर्भिश्चक्रैरप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश्चीवरपिण्डपातादीनां जीवितपरिष्काराणामकृच्छ्रेण लाभात् । स्वधिष्ठानो दुर्जनैर्दस्युप्रभृतिभिरनधिष्ठितत्वात् । सुभूमिरारोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् ।

बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान् ॥ msa_13.8 ॥

अनेन द्वितीयेन सत्पुरूषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् ।

स्वालम्बना मुसंभरा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव?] देशिता । सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता ॥ msa_13.9 ॥

अनेन तृतीयेन योनिशोमनस्कारसंगृहीतमात्मनः सम्यक्प्रणीधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च ।

रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं । समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता ॥ msa_13.10 ॥

अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदेशवासे ऽभिरमते । क्षणोपपत्तिहेतुत्वेन यतः सत्पुरूषायाश्रयं लभते । (म्स_बग्छि 85) आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं सम्पद्यते ।

क्लेशत एव क्लेशनिःसरणे श्लोकास्त्रयः ।

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः ॥ msa_13.11 ॥

यदुक्तं भगवता । नाहमन्यत्र रागाद्रागस्य निःसरणं वदाम्येवं द्वेषान्मोहादिति । तत्राभिसंधिं दर्शयति । यस्माद्धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद्रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनामित्येवं तत्राभिसंधिर्वेदितव्यः ।

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्मात्संक्लेशनिर्देशे स संविद्[संधिर] धीमतां मतः ॥ msa_13.12 ॥

यदुक्तं । अविद्या च बोधिश्चैकमिति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात्तदुपचारात् ।

यतस्तानेव रागादीन्योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः ॥ msa_13.13 ॥

तानेव रागादीन्योनिशः प्रतिपद्यमानस्तेभ्यो विमुच्यते तस्मात्परिज्ञातास्त एव तेषां निःसरणं भवतीत्ययमत्राभिसंधिः ।

श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं ।

न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्त्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ msa_13.14 ॥

न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति ॥ msa_13.15 ॥

अनयोः श्लोकयोरेकस्य द्वितीयः साधकः । उभौ गतार्थौ ।

निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः ।

धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ msa_13.16 ॥

यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यते ऽथ च । अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति स दृश्यते ऽथ च ॥ msa_13.17 ॥

यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः । मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि ॥ msa_13.18 ॥

मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ msa_13.19 ॥

धर्माभावश्च धर्मोपलब्धिश्चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चादिति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस्ततस्त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुति[टि]तप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नमागन्तुकेन तु कालुष्येण लुति[टि]तं भवत्येवं चित्तं प्रकृत्या प्रभास्वरं मतमागन्तुकैस्तु दौषैर्दूषितमिति । न च धर्मताचित्तादृते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच्चित्ततथतैवात्र चित्तं वेदितव्यं ।

रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः ।

बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात्सदा हितकरं मतम् ॥ msa_13.20 ॥

सत्त्वेषु हितकारित्वन्नैत्यापत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्त्वेषु सत्पथा[सर्वथा] ॥ msa_13.21 ॥

यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति । तथाविधायां प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु ॥ msa_13.22 ॥

मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं । अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं ॥ msa_13.23 ॥

यत्सत्त्वेषु बोधिसत्त्वस्य प्रेम सो ऽत्र रागो ऽभिप्रेतस्तत्कृतामापत्तिं तेषां प्रतिषेधयति । सत्त्वहितक्रियाहेतुत्वात् । कपोतीमुदाहरति तब्दहुरागत्वात् अपत्यस्नेहाधिमात्रतया (म्स_बग्छि 87) सकृपे बोधिसत्त्वे देहिषु सत्त्वेषु प्रतिघो विरुध्यते । बोधिसत्त्वानां सत्त्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ल्हादश्च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस्तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि ।

प्रतिपत्तिभेदे पञ्च श्लोकाः ।

यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्त्वेषु प्रतिपद्यते ॥ msa_13.24 ॥

अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पण्ये कामेषु प्रतिपद्यते ॥ msa_13.25 ॥

यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्त्वाहेठे प्रपद्यते ॥ msa_13.26 ॥

अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ msa_13.27 ॥

मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता ॥ msa_13.28 ॥

यथा यस्मिन्प्रतिपद्यते तदभिद्योतयति । यथेति सुभैषज्यादिष्विवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्त्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश्च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्त्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच्च ।

प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः ।

इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पगुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण ॥ msa_13.29 ॥

इति निर्विकल्पेन धर्म नैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश्चाविकल्पना त्रिमण्डलपरिशुद्धिर्वेदितव्या । द्वयपरिपाचनशोधनेषु [सु]युक्त इति सत्त्वानामात्मनश्च ।

॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः ॥

चतुर्दशो ऽधिकारः

अववादानुशासनीविभागे श्लोका एकपञ्चाशत् ।

कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा ॥ msa_14.1 ॥

अधिमुक्तिं विवर्धयन्नित्यधिमात्रावस्थानयनात् । शेषं गतार्थम् ।

तथा संभृतसंभारो ह्यादिशुद्धो जिनात्मजः । सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते ॥ msa_14.2 ॥

आदिशुद्धो बोधिसत्त्वसंवरपरिशोधनान्महायाने दृष्टिऋज्जु[जु]करणाच्चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्प[ल्य]चित्तो विनिवरणत्वात् ।

धर्मस्त्रोतसि बुद्धेभ्यो ऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ msa_14.3 ॥

श्लोको गतार्थः ।

ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः ॥ msa_14.4 ॥

ततः पदप्रभेदेषु विचरेदनुपूर्वशः । विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः ॥ msa_14.5 ॥

अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः ॥ msa_14.6 ॥

सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकमित्येवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस्त्रिभिः श्लोकैः षट् चित्तान्युपदिष्टानि । मूलचित्तमनुचरचित्तं विचारणाचित्तमवधारणाचित्तं संकलनचित्तमाशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथानित्यं दुःखं शून्यमनात्म्यं य योनिशो न चेत्यादि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदमनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिराकारैर्विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्येकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्येवमादि । तुलना संख्यावतो (म्स_बग्छि 89) धर्मस्य शमलक्ष[ण?]ग्रहणमनाध्यारोपानपवादतः । मीमांसा प्रमाणपरीक्ष । प्रत्यवेक्षणागणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्यामाकाराभ्यां विचारयति । सार्थतथा[या] च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तमवधारयति । संकलनचित्तं तद्यथा विचारितमर्थं मूलचित्ते संक्षिप्यपरिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा[ध्यर्थं वा?] तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तमेव ह्यालम्बनप्रतिभासं वर्तते न चित्तादन्यदालम्बनमस्तीति जानतो वा चित्तमात्रमजानतो वा चित्तमेवालम्बनं नान्यत् । इति षड्विधं चित्तमालम्बनं व्यवस्थाप्यते ।

एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत् ॥ msa_14.7 ॥

ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं । ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा ॥ msa_14.8 ॥

युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः ॥ msa_14.9 ॥

श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः ॥ msa_14.10 ॥

एभिश्चतुर्भिः श्लोकैरेकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यना मनस्कारः । युगनद्धमनस्कारः । [प्रग्रहनिमित्तमनस्कारः] शमथनिमित्तमनस्कारः । उपेक्षानिमित्त मनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश्च ।

निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः ॥ msa_14.11 ॥

प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् । ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात् ॥ msa_14.12 ॥

अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् । अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा ॥ msa_14.13 ॥

ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान् [रां] तद्भ्यासात्पुनर्यतिः ॥ msa_14.14 ॥

एभिश्चतुर्भिः श्लोकैर्नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति चित्तं समादघातीति नवाकाराः ।

ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस्तान्[स्तां]स विवर्धयन् ॥ msa_14.15 ॥

वृद्धिदूरंगमत्वेन मौलीं स लभते स्थितिं । तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां ॥ msa_14.16 ॥

ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति । पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च ॥ msa_14.17 ॥

अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ msa_14.18 ॥

इति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैरमेयगैरित्यप्रमेयसंख्यागतैः । शेषमेषां श्लोकानां गतार्थं ।

ततो ऽनुशंसान लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो याति निरुत्तरं ॥ msa_14.19 ॥

कृत्स्नादौस्वल्प[दौष्ठुल्य]कायो हि द्रवते ऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ msa_14.20 ॥

अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ msa_14.21 ॥

प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमानेवं हेतुपरिग्रहं ॥ msa_14.22 ॥

ततः शुद्धेः पूर्वंगमान्पञ्चानुशंसान् लभते । शुद्धेरिति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरूत्तरं यानानन्तर्यात्[नुत्तर्यात्] । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरिर्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानामनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल्लौकिकः समुदागमः ।

ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः । मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति ॥ msa_14.23 ॥

धर्म[र्मा]लोकस्य वृध्द्यर्थ वीर्यमारभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते ॥ msa_14.24 ॥

सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति । प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ ॥ msa_14.25 ॥

ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः ॥ msa_14.26 ॥

अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्त्वः समाहितचित्तो मनोजल्पाद्विनिर्मुक्तान् सर्वधर्मान्न पश्यति स्वलक्षणसामान्यलक्षणाख्यान्मनोजल्पमात्रमेव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यमधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेरेतदधिवचनमिति । स तस्यैव धर्मालोकस्य विवृध्द्यर्थमास्थितक्रियया दृढं वीर्यमारभते । सास्य मूर्धावस्था । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते । चित्तमेतदिति प्रतिवेधात् । ततश्चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्तादन्यमर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रमानन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते ।

यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं ॥ msa_14.27 ॥

इत्येतान्युष्मगतादीनि निर्वेधभागीयानि ।

द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ msa_14.28 ॥

अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण[नुत्तर्येण] । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञे[हे]यक्लेशप्रहाणात् । एतेन विरजो विगतमलमित्युक्तं भवति ।

सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते । अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ msa_14.29 ॥

श्लोको गतार्थः ।

धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा । सर्वसत्त्वेषु लभते सदात्मसमचित्ततां ॥ msa_14.30 ॥

निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्त्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः ॥ msa_14.31 ॥

धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्त्वेषु सदा आत्मसमचित्ततां प्रत्तिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोरविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्त्वसमतया च यथा तैरभिसमितं तथाभिसमयात् ।

त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्धयार्थेन पश्यति ॥ msa_14.32 ॥

स त्रैधातुकात्मसंस्कारानभूतपरिकल्पनामात्रान्पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् । अद्वयार्थेनेत्यग्राह्यग्राहकार्थेन ।

तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ msa_14.33 ॥

तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून्दर्शनप्रहातव्यैः क्लेशैर्विमुक्तं पश्यति ।

अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ msa_14.34 ॥

स च बोधिसत्त्वः शून्यज्ञ इत्युच्यते । त्रिविधशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथाभावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् ।

अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश्च तदप्रणिहितस्य हि ॥ msa_14.35 ॥

अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस्तदप्रणिधानस्य पदमालम्बनमित्यर्थः ।

तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ msa_14.36 ॥

तेन दर्शनमार्गेण सह बोधिसत्त्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां ।

संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं । विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्था ॥ msa_14.37 ॥

विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ msa_14.38 ॥

यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन । दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव ॥ msa_14.39 ॥

स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं । जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः ॥ msa_14.40 ॥

यत्प्रेम या वत्सलता प्रयोगः सत्त्वेष्वखेदश्च जिनात्मजानां । आश्चर्यमेतत्परमं भवेषु न चैव सत्त्वात्मसमानभावात् ॥ msa_14.41 ॥

एभिः पञ्चभिः श्लोकैर्दर्शनमार्गलाभिनो बोधिसत्त्वस्य माहात्म्योद्भावनम् । अनर्थमयात्मदृष्टिर्या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिरिति महार्था या सर्वसत्त्वेष्वात्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्त्वार्थक्रिंयाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर्महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्त्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश्च गाढायतबन्धनेन सर्वसत्त्वसांन्तानिकेन दुःखस्य पर्यन्तं न पश्यति स्व[सत्त्व]धातोरनन्तत्वादाकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्त्वानां करोति चैव ताम[अर्थं] प्रमेयाणां सत्त्वानां । विपर्ययात्तस्य तु बोधिसत्त्वः स हि संपिण्डितसर्वसत्त्वदुःखं यावल्लोकगतमुद्वोढुं समर्थः । या सत्त्वेषु बोधिसत्त्वस्य प्रियता या च हितसुखैषिता यश्च तदर्थं प्रयोगो यश्चित्त[यश्चतत्]प्रयुक्तस्याखेद एतत्सर्वमाश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्त्वानामात्मसमानत्वात् ।

ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ msa_14.42 ॥

निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकं ॥ msa_14.43 ॥

भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनामेत्य बोधिसत्त्वौ ऽभिषिक्तकः ॥ msa_14.44 ॥

वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ msa_14.45 ॥

सर्वकारज्ञतां चैव लभते ऽनुत्तरं पदं । यत्रस्थः सर्वसत्त्वानां हिताय प्रतिपद्यते ॥ msa_14.46 ॥

एभिर्भावनामार्गः परिदीपितः द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान्परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनामागम्यावसानगतामभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागतामाश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत्संसारमभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते ।

कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः ॥ msa_14.47 ॥

अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः । निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ च बलान्निवेश्यते ॥ msa_14.48 ॥

स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ msa_14.49 ॥

एभिस्त्रिभिः श्लोकैरववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्यववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश्चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैराप्यायितचेतसस्तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थम् ।

बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्त्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् ॥ msa_14.50 ॥

चतुर्विधामनुशासनीमेतेन श्लोकेन दर्शयति । अधिशीलमधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्त्वे प्रशंसाविधानतः । अधिचित्तमधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां (म्स_बग्छि 95) तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान्वर्ज्यासेव्येत्यन्तरायाननुकूलांश्च यथाक्रमं । योग इति शमथविपश्यनाभावनायां ।

इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्त्वः ॥ msa_14.51 ॥

निगमनश्लोको गतार्थः ।

॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः ॥

पञ्चदशो ऽधिकारः

उद्दानम्

अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने प्रतिपत्तिस्तथा सम्यगववादानुशासनं ॥ msa_15.1 ॥

उपायसहितकर्मविभागे चत्वारः श्लोकाः ।

यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ msa_15.2 ॥

अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्विति बोधिसत्त्वेषु । वनादिग्रहणमुपभोज्या स्थिरस्थिरवस्तुनिदर्शनार्थम् ।

सुदुष्करैः कर्मभिरुद्यतात्मनां विचित्ररूपैर्बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ msa_15.3 ॥

यथा विषाच्छस्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं । निहीनयानाद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं ॥ msa_15.4 ॥

आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद्यथाक्रमं । संनतिः खेद इत्यर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्न कुशलमूल[स?]स्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच्च ।

न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात् ॥ msa_15.5 ॥

अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणामनुपलम्भात् । अनन्तमित्यक्षयम् ।

॥ महायानसूत्रालंकार उपायसहितकर्माधिकारः पञ्चदशः ॥

षोडशो ऽधिकारः

पारमिताप्रभेदसंग्रहे उद्दानश्लोकः ।

सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च ॥ msa_16.1 ॥

संख्याविभागे षट् श्लोकाः ।

भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः ॥ msa_16.2 ॥

इति प्रथमः । तत्र चतसृभिः पारमिताभिश्चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः ।

सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ msa_16.3 ॥

इति द्वितीयः । सत्त्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते । तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थमात्मार्थं चारभ्य षट् पारमिताः ।

अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थं एतस्मात् ॥ msa_16.4 ॥

इति तृतीयः । दानादिभिर्बोधिसत्त्वस्य सकलः परार्थो भवति । यथाक्रमं परेषामुपकरणाविधातैः । अविहेठैः विहेठनामर्षणैः । साहाय्य क्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश्च संशयच्छेदनात् । एतस्मात्परार्थात् बोधिसत्त्वस्यात्मार्थो भवति । पराकार्यस्वकार्यत्वान्महाबोधिप्राप्तितश्च । इति सकलपरार्थाधिकारात् षट् पारमिताः । भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च । योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं ॥ msa_16.5 ॥

इति चतुर्थः । दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात् । शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः । एतावच्च समस्त [महायानम् इति?] महायानसंग्रहाधिकारात् षट् पारमिताः ।

विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः । सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः ॥ msa_16.6 ॥

इति पञ्चमः । तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः । क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्बुद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्युपायः । एवं सर्वाकारमार्गाधिकारात् षट् पारमिताः ।

शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका ॥ msa_16.7 ॥

इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् ।

दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ msa_16.8 ॥

बोधिसत्त्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं ता[मा]त्सर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्म नैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यदिच्छति तस्मै तस्य दानात् । सत्त्वपरिपाचकं त्रेधा दानेन सत्त्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् ।

शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ msa_16.9 ॥

क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा ॥ msa_16.10 ॥

वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ msa_16.11 ॥

ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ msa_16.12 ॥

प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा ॥ msa_16.13 ॥

यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम् । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात् ।

अनुक्रमविभागे श्लोकः ।

पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि ॥ msa_16.14 ॥

त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति । पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच्च । सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच्च । एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति ।

निर्वचनविभागे श्लोकः ।

दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः ॥ msa_16.15 ॥

दारिद्यमपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् । क्षयः क्रुद्धेरिति क्षान्तिस्तया क्रोधक्षयात् । वरेण योजयतीति वीर्यं कुशलधर्मयोजनात् । धारयत्यध्यात्मं मन इति ध्यानं । परमार्थ[र्थं] जानात्यनयेति प्रज्ञा ।

भावनाविभागे श्लोकः ।

भावनोपधिमाश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासामेव कथ्यते ॥ msa_16.16 ॥

पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीबालिकासमांश्चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत् । यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्त्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनादिति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशय इति । मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन्

। न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः । उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकाराशयः । न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्त्वस्य (म्स_बग्छि 101) शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्बोधिसत्त्वस्तां

शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन् । न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः । न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय । तथा हि स उपायः

सर्वमनसिकाराणामभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश्च । तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघातः । प्रभेदसंग्रहे द्वादशश्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । (म्स_बग्छि 102) षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः ।

तत्र दानप्रभेदे द्वौ श्लोकौ ।

प्रतिपादनमर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ msa_16.17 ॥

अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये । दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत् ॥ msa_16.18 ॥

अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हेतुः । भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः ।

शीलप्रभेदे द्वौ श्लोकौ ।

षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ msa_16.19 ॥

संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ msa_16.20 ॥

षडङ्गमिति स्वभावः । षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति । शमभावान्तमिति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकमिति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च । प्रतिष्ठाशान्तनिर्भीतमिति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतं । पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः ।

क्षान्तिप्रभेदे द्वौ श्लोकौ ।

मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् । पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत् ॥ msa_16.21 ॥

तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ msa_16.22 ॥

मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमं । कारूण्याद्धर्मसंश्रयादिति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश्च । पञ्चानुशंसमाख्यातमिति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्यबहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतं इदं कर्म । यथोक्तम् ।

द्वयोरर्थं स कुरूते आत्मनश्च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥

तपः प्राबल्यसंयुक्तमिति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् ।

वीर्यप्रभेदे द्वौ श्लोकौ ।

उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ msa_16.23 ॥

अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः । वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत ॥ msa_16.24 ॥

उत्साहः कुशले सम्यगिति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति । स्मृत्यादिगुणवृद्धाविति फलम् । आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तम् । आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति । अलोभादिगुणोपेत इति योगः । तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम् ।

ध्यानप्रभेदे द्वौ श्लोकौ ।

स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् ॥ msa_16.25 ॥

धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः । ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ msa_16.26 ॥

स्थितिश्चेतस अध्यात्ममिति स्वभावः । स्मृतिवीर्यप्रतिष्ठितमिति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकमिति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच्च । धर्माणां प्रमुखमिति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः । त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश्च । इयं प्रभेदवृत्तिः ।

प्रज्ञाप्रभेदे द्वौ श्लोकौ ।

सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः ॥ msa_16.27 ॥

धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः । प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत् ॥ msa_16.28 ॥

सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात्सुविमोक्षाय संक्लेशादिति फलं । तेन हि संक्लेशात्सु विमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति । सम्यग् धर्मं देशयतीति । धर्माणामुत्तर इत्युत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश्च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो महालोकोत्तरश्च । उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः ।

संग्रहविभागे श्लोकः ।

सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ msa_16.29 ॥

सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः (म्स_बग्छि 105) समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् ।

विपक्षविभागे श्लोकाः षट् ।

न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ msa_16.30 ॥

सप्तविधा सक्तिर्दानस्य विपक्षः । भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात् । विक्षेपसक्तिश्च । स पुनर्विक्षेपो द्विविधः । मनसिकारविक्षेपश्च हीनयानस्पृहणात् । विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वमुक्तम् ।

न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ msa_16.31 ॥

न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ msa_16.32 ॥

न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ msa_16.33 ॥

न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ msa_16.34 ॥

न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ msa_16.35 ॥

यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात् । विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः ।

त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा । कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता । दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम् ॥ msa_16.36 ॥

इति सुबोधः पदार्थः ।

आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता । शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ msa_16.37 ॥

त्रिविधं शीलं । संघरशीलं । कुशलधर्मसंग्राहकशीलं । सत्त्वार्थक्रियाशीलं च । एकात्मकम्[एषामेकं] यमस्वभावं । द्वे उद्यमस्वभावे ।

क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता । क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता ॥ msa_16.38 ॥

इति । ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम् ।

वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परत प्राप्तं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता । वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ msa_16.39 ॥

इति । संनाहवीर्यं प्रयोगवीर्यं च ।

ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ msa_16.40 ॥

इति । समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम् ।

ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ज्ञानं सत्त्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम् ॥ msa_16.41 ॥

इति । सतत्त्वं पर्मार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्म नैरात्म्यं । ज्ञेयं च यत्सर्वथेत्यनन्तस्वसंकेतादिलक्षणभेदभिन्नं यदज्ञे[यज्ज्ञे] (यदपरंज्ञेयं) । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्त्वपरिग्रहेण करुणया सत्त्वानामपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः ।

औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम् ॥ msa_16.42 ॥

इति । तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिपता । तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम् ।

दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ msa_16.43 ॥

याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते । अतुष्टिश्चादर्शनादपरिपूरणाच्च । आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च । अदर्शनादपरिपूरणाच्चातुष्टिः । अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात् ।

प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयेन्न कथम् ॥ msa_16.44 ॥

तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति ।

निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः ॥ msa_16.45 ॥

एतेन मृषावादाद्विरतिगुणं दर्शयति । आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर्वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर्वा लाभार्थं । बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः । समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया । निर्भयश्च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् ।

संमहितकामः सकृपः परदुःखोत्पादने ऽतिभीरुश्च । सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात् ॥ msa_16.46 ॥

बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सुकृपश्च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरूः स (म्स_बग्छि 108) कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति । सत्त्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात् पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च ।

सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च । अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम् ॥ msa_16.47 ॥

अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः ।

उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे । लभते यदा कृपालुः क्षमितव्यं ... [किं कुतस्तस्य] ॥ msa_16.48 ॥

[अपकारिणि हि क्षमितव्यं भवति । तत्र च बोधिसत्त्व अपकारिसज्ञां लभते क्षान्तिसंभारनिमित्तत्वात् दुःखञ्च क्षमितव्यं भवति । तत्र च परहितहेतुभूते दुःखे बोधिसत्त्वः सदा मोदं लभते तस्य कुतः किं क्षमितव्यं] । यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा ।

परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् । दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं ॥ msa_16.49 ॥

सकृपो बोधिसत्त्वः । तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्दुष्करं च सुदुष्करं च कथमदुष्करं । परत्र परसंज्ञापगमात् । स्वतो ऽधिकतराच्च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम् ।

अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम् ॥ msa_16.50 ॥

अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च ।

आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं । दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ msa_16.51 ॥

यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानां । यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानां । अत एव तदतुल्यम् ।

आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ msa_16.52 ॥

तत्राश्रयो बोधिसत्त्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम् । अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात् । क्षेत्रं पञ्चविधम् । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च । चतुर्णामुत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस्त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर्मनसिकारः समाधिश्च । अधिमुक्तिर्यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः । समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तं । एवमाश्रयादिपरसमयो दानं परमं । सो ऽयं चापदेशो वेदितव्यः । यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम् ।

आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ msa_16.53 ॥

[आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥

आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ msa_16.54 ॥

आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम् ॥ msa_16.55 ॥

आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥ msa_16.56 ॥

शीलस्य परमं वस्तु बोधिसत्त्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । ध्यानस्य बोधिसत्त्वसमाधयः । प्रज्ञायास्तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्वबद्धेदितव्यम् ।

एकसत्त्वसुखं दानं बहुकल्पविघातकृत । प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात् ॥ msa_16.57 ॥

यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत । तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत् । यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते ॥ msa_16.58 ॥

अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम् ।

शरीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः ॥ msa_16.59 ॥

अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितं । एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम् ।

प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिको ऽपि । सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या ॥ msa_16.60 ॥

इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत्स्वजीवितदानेन ।

संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि । सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं ॥ msa_16.61 ॥

सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल्लाभहेतोः । विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञा तेषु धीमान्यथैति ॥ msa_16.62 ॥

करुणाविशेषाद् । गतार्थौ श्लोकौ ।

स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः ॥ msa_16.63 ॥

प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः । शेषं गतार्थम् ।

प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम् ॥ msa_16.64 ॥

षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । [कर्मभेदेन] प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्योद्देशस्योत्तरैः । श्लोकैर्निर्देशः ।

वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः ॥ msa_16.65 ॥

वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते ।

वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः । वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ msa_16.66 ॥

इति । पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात् ।

पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत ॥ msa_16.67 ॥

संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ msa_16.68 ॥

इत्येष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु [द्वयोरकुशलधर्महानयेअपि?] च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यमिन्द्रियेषु । मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि । तत्त्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्य1स्थापनात् । परिवर्त्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात् । (म्स_बग्छि 112) महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यमुदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः । असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः । एभिरेव संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम् ।

निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम् ॥ msa_16.69 ॥

अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च ।]

न वीर्यवान्भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति ॥ msa_16.70 ॥

इत्ययं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस्तदाग्रहतः । क्लेशसक्तिस्तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिरल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम् ।

अन्योन्यविनिश्चयविभागे श्लोकः ।

अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च । षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ msa_16.71 ॥

अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत्प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । (म्स_बग्छि 113) ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलमपि दानादीनां । भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र ।

दानं समं प्रियाख्यानमर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिरिष्यते ॥ msa_16.72 ॥

दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः । किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां ।

उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः ॥ msa_16.73 ॥

दानमनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थतानुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते ।

आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना ॥ msa_16.74 ॥

आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्मं । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म ।

चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना] ॥ msa_16.75 ॥

यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च । ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि ।

आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस्त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम् ।

हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः ॥ msa_16.76 ॥

एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानाम् । अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात् ।

पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते ॥ msa_16.77 ॥

ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः ।

संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने ॥ msa_16.78 ॥

एतेन लोकत्रये ऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् ।

इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता ॥ msa_16.79 ॥

एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्त्वस्य संग्रहवस्तुप्रयोगं दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश्च यथाक्रमम् ।

॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः ॥

सप्तदशो ऽधिकारः ।

बुद्धपूजाविभागे सप्त श्लोकाः ।

संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । गाढप्रसन्नचित्तस्य संभारद्वयपूरये ॥ msa_17.1 ॥

अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजना ॥ msa_17.2 ॥

सत्त्वानामप्रमेयानां परिपाकाय चापरा । उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः ॥ msa_17.3 ॥

अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा । वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः ॥ msa_17.4 ॥

इत्येभिश्चतुर्भिः श्लोकैः ।

आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ msa_17.5 ॥

वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तं । परिणामना पुण्यज्ञानसंभारपरिपूरये । हेतुरबन्ध्यो मे बुद्धोत्पादः स्यादिति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रमप्रमेयाः सत्त्वाः । तत्परिपाचनाय तैस्तत्प्रयोजता[ना]त् तेषु तद्रोपणतः । निश्रय उपधिश्चित्तं च । तत्रोपधिं निश्रित्य पूजाचीवरादिभिश्चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । त [य]थोक्तैश्चाधिमुक्त्यादिभिर्यदुत महायानधर्माधिमुक्तितः बोधिचित्तोत्पादतः । प्रणिधानमेव हि निधानमत्रोक्तं श्लोकवत्त्वा[बन्धा]नुरोधात् । सत्त्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्यविपर्ययस्तत्त्वाद्वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद्वस्त्ववबोधः ।

विमुक्तितः क्लेशविमोक्षाच्छ्रावकाणां । तथात्वतो महाबोधिप्राप्तेरित्ययं पूजायाः प्रकारभेदः ।

हेतुतः फलतश्चैव आत्मना च परैरपि । लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा ॥ msa_17.6 ॥

परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता ॥ msa_17.7 ॥

इत्ययमर्था[ध्वा]दिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुरनागता फलमित्येवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्याध्यात्मिकी परैरिति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर्विछिन्नायां गतौ दूरे । समनन्तरायामन्तिके । पुनर्यां पूजामायत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर्बुद्धपूजा परमा वेदितव्येत्याह ।

बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ msa_17.8 ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.