Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

महायानसूत्रालंकार

Tác giả
असङ्ग
Thông tin
GRETIL — S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

असङ्ग: महायानसूत्रालंकार

महायानसूत्रालंकारः

॥ ओं ॥

नमः सर्वबुद्धबोधिसत्त्वेभ्यः

प्रथमो ऽधिकारः

अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै- र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्त्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् ॥ msa_1.1 ॥

अर्थज्ञो ऽर्थविभावनां प्रकुरुते.........[इत्यादि] कोषदेशमारभ्य को ऽलंकरोति । अर्थज्ञः । कमलंकारमलंकरोति अर्थविभावनां कुरुते । केन वाचा पदैश्चामलैः । अमलया वाचेतिष........[पौर्यादिना] अमलैः पदैरिति युक्तैः सहितैरिति विस्तरः । न हि विना वाचा पदव्यञ्जनैरर्थो विभावयितुं शक्यत इति । कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । दुःखितजने यत्कारुण्यं तस्मात्कारुण्यतस्तन्मय इति कारुण्यमयः । कस्यालंकारं करोति । धर्मस्योत्तमयानदेशितविधेः । उत्तमयानस्य देशितो विधिर्यस्मिन्धर्मे तस्य धर्मस्य । कस्मिन्नलंकरोति । सत्त्वेषु तद्गामिषु । निमित्तसप्तम्येषा.........[महायान]गामिसत्त्वनिमित्तमित्यर्थः । कतिविधमलंकारं करोति । पञ्चविधम् । श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् । श्लिष्टामिति युक्ताम् । निरुत्तरगतामित्यनुत्तरज्ञान[यान]गताम् ।

तामिदानीं पञ्चात्मिकामर्थगतिं द्वितीयेन श्लोकेन दर्शयति ।

घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ msa_1.2 ॥

अनेन श्लोकेन पञ्चभिर्दृष्टान्तैः स हि धर्मः पञ्चविधमर्थमधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यमचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावम् । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिमग्र्यां दधाति । यथाक्रमं घटितसुवर्णादिवत् ।

यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्यस्य चोद्यस्य परिहारार्थं तृतीयः श्लोकः ।

यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सूक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम् ॥ msa_1.3 ॥

अनेन किं दर्शयति । यथा बिम्बं भूषया प्रकृत्यैव गुणवत् आदर्शगतं दर्शनवशाद्विशिष्टं प्रामोद्यं जनयत्येवं स धर्मः सुभाषितैः प्रकृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं विशिष्टां जनयति । बुद्धिमतामतस्तुष्टिविशेषोत्पादनादलंकृत इव भवतीति ।

अतः परं त्रिभिः श्लोकैस्तस्मिन्धर्मे त्रिविधमनुशंसं दर्शयत्यादरोत्पादनार्थम् ।

आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् । धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतो ऽर्थो न च[र्थतश्च]ज्ञेयः ॥ msa_1.4 ॥

राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः । आराधितश्च तद्वद्वरगुणधनदायको भवति ॥ msa_1.5 ॥

रत्नं जात्यमनर्थं[र्घं]यथापरीक्षकजनं न तोषयति । धर्मस्तथायमबुघं विपर्ययात्तोषयति तद्वत् ॥ msa_1.6 ॥

त्रिविधो ऽनुशंसः । आवरणप्रहाणहेतुत्वमौषधोपमत्वेन । द्वयव्यवस्थ इति व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वमभिज्ञादिवैशेषिकगुणैर्श्वर्यदानाद्राजोपमत्वेन । आर्यध[ज]नोपभोगहेतुत्वं च अनर्थ[र्घ]जात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः ।

नैवेदं महायानं बुद्धवचनं कुतस्तस्यायमनुशंसो भविष्यतीत्यत्र विप्रतिपन्नास्तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यमारभ्य श्लोकः ।

आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः । भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात् ॥ msa_1.7 ॥

आदावव्याकरणात् यद्येतत्सद्धर्मान्तरायिपश्चात्केनाप्युत्पादितम् । कस्मादादौ भगवता न व्याकृतमनागतभय[भंग]वत् । समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तिरुपलभ्यते न पश्चादिति कथमस्याबुद्धवचनत्वं विज्ञायते । अगोचरान्नायमेवमुदारो गम्भीरश्च धर्मस्तार्किकाणां गोचरः । तीर्थिकशास्त्रेषु तत्प्रकारानुपलम्भादिति । नायमन्यैर्भाषितो युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । सिद्धेरथान्येनाभिसंबुध्य भाषितः । सिद्धमस्य बुद्धवचनत्वम् । स एव बुद्धो यो ऽभिसंबुध्य एवं भाषते । भावाभावे ऽभावाद्यदि महायानं किंचिदस्ति तस्य भाव[वे] सिद्धमिदं बुद्धवचनमतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्यभावात् । श्रावकयानं बुद्धवचनं न महायानमिति न युज्यते विना बुद्धयानेन बुद्धानामनुत्पादात् । प्रतिपक्षत्वात् । भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनम् । रुतान्यत्वात् । न चास्य यथारुतमर्थस्तस्मान्न यथारुतार्थानुसारेणेदमबुद्धवचनं वेदितब्यम् ।

यदुक्तमादावव्याकरणादित्यनाभोगादेतदनागतां भगवता न व्याकृतमिति कस्यचित् स्यादत उपेक्षाया अयोगे श्लोकः ।

प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्मन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ msa_1.8 ॥

अनेन किं दर्शयति । त्रिभिः कारणैरनागतस्य महतः शासनोपद्रवस्योपेक्षा न युज्यते । बुद्धानामयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षायाश्च[यां च] यत्नवत्वात् । अनागतज्ञानसमर्थ्याच्च सर्वकालाव्याहतज्ञानतयेति ।

यदुक्तं भावाभावे ऽभावादिति । एतदेव श्रावकयानं महायानमेतेनैव महाबोधिप्राप्तिरिति कस्यचित्स्यादतः श्रावकयानस्य महायानत्वायोगे श्लोकः ।

वैकल्यतो विरोधादनुपायत्वात्तथाप्यनुपदेशात् । न श्रावकयानमिदं भवति महायानधर्माख्यम् ॥ msa_1.9 ॥

वैकल्यात्परार्थोपदेशस्य । न हि श्रावकयाने कश्चित्परार्थ उपदिष्टः श्रावकाणामात्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुमर्हति । विरोधात् । स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति विरुद्धमेतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुमर्हति । अनुपायत्वात् । अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरमपि प्रयुज्यमानः प्रार्थितमर्थं प्राप्नोति । श्रृङ्गादिव दुग्धं न भस्रया[भस्रायाः] । अथान्यथाप्यत्रोपदिष्टं यथा बोधिसत्त्वेन प्रयोक्तव्यम् । तथाप्यनुपदेशान्न श्रावकयानमेव महायानं भवितुर्महति । न हि स तादृश उपदेश एतस्मिन्नुपलभ्यते ।

विरुद्धमेव चान्योन्यं श्रावकयानं महायानं चेत्यन्योन्यविरोधे श्लोकः ।

आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत् ॥ msa_1.10 ॥

कथं विरुद्धम् । पञ्चभिर्विरोधैः । आशयोपदेशप्रयोगोपस्तम्भकालविरोधैः । श्रावकयाने ह्यात्मपरिनिर्वाणायैवाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः, कालेन चाल्पेन तदर्थप्राप्तिर्यावत्त्रिभिरपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्मादन्योन्यविरोधाद् यद् यानं हीनं हीनमेव तत् । न तन्महायानं भवितुमर्हति ।

बुद्धवचनस्येदं लक्षणं यत्सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानम्, सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान्न बुद्धवचनमिति कस्यचित्स्यादतो लक्षणाविरोधे श्लोकः ।

स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि । औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता ॥ msa_1.11 ॥

अनेन श्लोकेन किं दर्शयति । अवतरत्येवेदं स्वस्मिन् महायानसूत्रे स्वस्य च क्लेशस्य[क्लेशः?] विनयः[विनये]संदृश्यते । यो महायाने बोधिसत्त्वानां क्लेशः उक्तः । विकल्पक्लेशा हि बोधिसत्त्वाः । औदार्यगाम्भीर्यलक्षणत्वाच्च । न धर्मतां विलोमयत्यथैव हि धर्मता महाबोधिप्राप्तये तस्मान्नास्ति लक्षणविरोधः ।

अगोचरादित्युक्तमतर्स्तकगोचरत्वायोगे श्लोकः ।

निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि । बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत् ॥ msa_1.12 ॥

अदृष्टसत्याश्रयो हि तर्कः कश्चिदागमनिश्रितो भवति । अनियतश्च भवति कालान्तरेणान्यथाप्रत्यवगमात् । अव्यापी च न सर्वज्ञेयविषयः । संवृतिसत्यविषयश्च न परमार्थविषयः । खेदवांश्च प्रतिभानपर्यादानात् । महायानं तु न निश्रितं यावदखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न तर्कस्य तद्विषयः ।

अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तमित्युक्तम्, अथ महायानं कथमुपायो युक्त इत्युपायत्वयोगे श्लोकः ।

औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना । देशनातो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ msa_1.13 ॥

अनेन श्लोकेन किं दर्शयति । प्रभावौदार्यदेशनया सत्त्वानां परिपाकः प्रभावाधिमुक्तितो घटनात् । गाम्भीर्यदेशनया अविकल्पना, अत एतस्य द्वयस्यास्मिन् महायाने देशना । स चोपायो निरुत्तरे ज्ञाने, ताभ्यां यथाक्रमं सत्त्वानां परिपाचनादात्मनश्च बुद्धधर्मपरिपाकादिति ।

ये पुनरस्मात् त्रसन्ति तदर्थमस्थानत्रासादीनवे कारणत्वेन श्लोकः ।

तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद्दीर्घसमयम् । अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाचित्तशुभ- स्त्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत् इह ॥ msa_1.14 ॥

त्रासास्थाने त्रासस्तदस्थानत्रासः । दाहकरणो भवत्यपायेषु । किं कारणम् । महतः अपुण्यस्कन्धप्रसवस्य करणात् । कियन्तं कालमिति दीर्घसमयम् । एवं पश्चादादीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर्वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति । पतति महतो ऽर्थादिति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति ।

त्रासकारणमुक्तमत्रासकारणं वक्तव्यमित्यत्रासकारणत्वे श्लोकः ।

तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्वहुमुखात् । यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मे ऽस्मिंस्त्रासो भवति विदुषां योनिविचयात् ॥ msa_1.15 ॥

तदन्यान्या[न्यस्या?]भावादिति ततो ऽन्यस्य महायानस्याभावात् । अथ श्रावकयानमेव महायानं स्यादन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । परमगहनत्वाच्च । सर्वज्ञज्ञानमार्गस्यानुगमाच्च तुल्यकालप्रवृत्त्या । विचित्रस्याख्यानात् । विचित्रश्चात्र संभा[सा?]रमार्ग आख्यायते न केवलं शून्यतैव । तस्माद[आ]भिप्रायिकेनानेन भवितव्यमिति । ध्रुवकथनयोगाद्, बहुमुखादभीक्ष्णं चात्र शून्यता कथ्यते बहुमिश्च पर्यायैस्तेषु तेषु सूत्रान्तेषु तस्माद्भवितव्यमत्र महता प्रयोजनेन । अन्यथा हि सत्कृत्प्रतिषेधमात्रकृतमभबिष्यदिति । यथाख्यानं नार्थात् न चास्य यथारुतमर्थो ऽस्मादपि त्रासो न युक्तः । भगवति च भावातिगहनादतिगहनश्च बुद्धानां भावो दुराज्ञेयस्तस्मान्नास्माभिस्तदज्ञानात्त्रसितव्यमिति । एवं योनिशः प्रविचयाद्विदुषां त्रासो न भवति ।

दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः ।

श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ज्ञानं प्रभवति च तत्त्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः ॥ msa_1.16 ॥

श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्यर्थः । योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिः, ततस्तत्फलस्य धर्मस्य प्राप्तिः, ततस्तस्मिन् प्राप्ते मतिर्विमुक्तिज्ञानं प्रादुर्भवति । एवं यदा प्रत्यात्मं सा मतिर्भवति, कथमसति तस्मिन्नेषा व्यवसितिर्निश्चयो भवति नैवेदं बुद्धवचनमितिए ।

अत्रासपदस्थानत्वे श्लोकः ।

अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् । कस्माद् गभीरार्थविदां च मोक्ष इत्येतदुत्त्रासपदं न युक्तम् ॥ msa_1.17 ॥

यदि तावदहमस्य न बोद्धेत्युत्त्रासपदम्, तन्न युक्तम् । अथ बुद्धो ऽपि गम्भी[भी?] रस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्युत्त्रासपदम्, तदयुक्तम् । अथ गम्भी[भी]रं कस्मादतर्कगम्यमित्युत्त्रासपदम्, तन्न युक्तम् । अथ कस्माद् गभीरार्थविदामेव मोक्षो न तार्किकाणामित्युत्त्रासपदम्, तन्न युक्तम् ।

अनधिमुक्तित एव तत्सिद्वौ श्लोकः ।

हीनाधिमुक्तेः सुनिहीनधातोर्ही नैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर्यदि नास्ति सिद्धम् ॥ msa_1.18 ॥

यस्य हीना चाधिक[चाधि]मुक्तिः, ततश्च हीन एव धातुः समुदागत आलयविज्ञानभावना । हीनैरेव सहायैः समानाधिमुक्तिधातुकैर्यः परिवारितस्तस्यास्मिन्नौदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्यधिमुक्तिर्नास्ति, अत एव सिद्धमुत्कृष्टमिदं महायानमिति ।

अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः ।

श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वाश्रुते यः प्रकरोत्यवज्ञाम् । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः ॥ msa_1.19 ॥

कामं तावदधिमुक्तिर्न स्यादश्रुतानां तु सूत्रान्तानामविशेषेण प्रतिक्षेपो न युक्तः । श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्येवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः कारणान्निश्चयमेति न तद्बुद्धवचनमिति । न हि तस्य श्रुतादन्यब्दलमस्ति तस्मादश्रुत्वा प्रतिक्षेपो न युक्तः ।

यदपि च श्रुतं तद्योनिशो मनसि कर्तव्यं नायोनिश इत्ययोनिशोमनसिकारादीनवे श्लोकः ।

यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतीघातमेव] ॥ msa_1.20 ॥

स्वप्रत्यय इति स्वयंदृष्टिपरामर्शको, न विज्ञानामन्तिकादर्थपर्येषी । हानिमुपैति बुद्धेरिति यथाभू[रु]तज्ञानादप्राप्तिपरिहानितः । धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन्निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति । धर्मे च प्रतिघातमावरणं च धर्मव्यसनसंवर्तनीयं कर्मेत्ययमत्रादीनवः ।

अयथावतश्चा[अयथारुतञ्चा]र्थमविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः ।

मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि]ह्ययुक्तरूपः । प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा ॥ msa_1.21 ॥

प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः । तस्मादुपेक्षैव वरम् । कस्मात् । सा ह्यदोषा । प्रतिघातस्तु सदोषः ।

। महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः ॥

द्वितीयो ऽधिकारः

शरणगमनविशेषसंग्रहश्लोकः ।

रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन ॥ msa_2.1 ॥

स एव परमः शरणं गतानामिति । केन कारणेन । चतुर्विधस्वभावार्थविशेषणेन । चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः । सर्वत्रगार्थः । अभ्युपगमार्थः । अधिगमार्थः । अभिभवार्थः । ते पुनरुत्तरत्र निर्देक्ष्यन्ते ।

तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन्नोत्सहन्ते । श्लोकः ।

यस्मादादौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैरपि कल्पैः । सिद्धो यस्मात्सत्त्वहिताधानमहार्थस्तस्मादग्रे यान इहाग्रशरणार्थः ॥ msa_2.2 ॥

एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण महार्थत्वम् ।

पूर्वाधिकृते सर्वत्रगार्थे श्लोकः ।

सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो याने ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणे ऽप्येकरसो ऽसौ [संसृतिशान्त्येकरसो ऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम् ॥ msa_2.3 ॥

एतेन चतुर्विधं सर्वत्रगार्थं...........................

असांकेतिकं धर्मताअप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन ।

शरणप्रतिपत्तिविशेषणे श्लोकः ।

शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सो ऽप्रमेयाम् । स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्य]धर्मम् ॥ msa_2.4 ॥

अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराप्रमेयगुणवृद्ध्या । अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम् । न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः ।

॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः ॥

तृतीयो ऽधिकारः

गोत्रप्रभेदसंग्रहश्लोकः

सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता । आदीनवो ऽनुशंसश्च द्विधौपम्यं चतुर्विधा ॥ msa_3.1 ॥

अनेन गोत्रस्यास्तित्वमग्रत्वं स्वभावो लिङ्गं भेद आदीनप्रवो ऽनुशंसो द्विधौपम्यं चेत्येष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं चतुर्विधाः ।

अनेन गोत्रास्तित्वविभागे श्लोकः ।

धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः । फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते ॥ msa_3.2 ॥

नानाधातुकत्वात्सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे । तस्मादेवंजातीयको ऽपि धातुभेदः प्रत्येतव्यः इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्त्वानामुपलभ्यते । प्रथमत एव कस्यचित् क्वचिदेव याने ऽधिमुक्तिर्भवति । सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायामपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन्निर्बोढा भवति कश्चिन्नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश्चोपलभ्यते हीनमध्यविशिष्टा बोधयः । सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य ।

अग्रत्वविभागे श्लोकः ।

उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च । शुभस्य तन्निमित्तत्वात् गोत्रग्रत्वं विधीयते ॥ msa_3.3 ॥

अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात् ।

लक्षणविभागे श्लोकः ।

प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् । सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ msa_3.4 ॥

एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतमाश्रयस्वभावमाश्रितस्वभावं च तदेव यथाक्रमम् । तत्पुनर्हेतुभावेन सत् फलभावेनासत् गुणोत्तारणार्थेन गोत्रं वेदितव्यं गुणा उत्तरन्त्यस्मादुद्भवन्तीति कृत्वा ।

लिङ्गविभागे श्लोकः ।

कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः । समाचारः शुभस्यापि गोत्रलिङ्गं निरूप्यते ॥ msa_3.5 ॥

चतुर्विधं लिङ्गं बोधिसत्त्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्त्वेषु । अधिमुक्तिर्महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश्च पारमितामयस्य कुशलस्येति ।

प्रभेदविभागे श्लोकः ।

नियतानियतं गोत्रमहार्यं हार्यमेव च । प्रत्ययैर्गोत्रभेदो ऽयं समासेन चतुर्विधः ॥ msa_3.6 ॥

समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति ।

आदीनवविभागे श्लोकः ।

क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ msa_3.7 ॥

बोधिसत्त्वगोत्रे समासेन चतुर्विध आदीनवो येन गोत्रस्थो ऽगुणेषु प्रवर्तते । क्लेशबाहुल्यम्, अकल्याणमित्रता, उपकरणविघातः, पारतन्त्र्यं च ।

अनुशंसविभागे श्लोकः ।

चिरादपायगमनमाशुमोक्षश्च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना ॥ msa_3.8 ॥

चतुर्विधो बोधिसत्त्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास्तदुपपन्नांश्च सत्त्वान्करुणायमानः परिपाचयति ।

महासुवर्णगोत्रौपम्ये श्लोकः ।

सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ msa_3.9 ॥

महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य, प्रभास्वरस्य, निर्मलस्य, कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्त्वगोत्रमप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्याप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश्च । तस्मान्महासुवर्णगोत्रोपमं वेदितव्यम् ।

महारत्नगोत्रौपम्ये श्लोकः ।

सुरत्नगोत्रवज्ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात् ॥ msa_3.10 ॥

महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्त्वगोत्रं वेदितव्यम्, महाबोधिनिमित्तत्वात्, महाज्ञाननिमित्तत्वात्, आर्यसमाधिनिमित्तत्वात्, चित्तस्य हि संस्थितिः समाधिः, महासत्त्वपरिपाकनिमित्तत्वाच्च बहुसत्त्वपरिपाचनात् ।

अगोत्रस्थविभागे श्लोकः ।

ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्यपि हेतुहीनः ॥ msa_3.11 ॥

अपरिनिर्वाणधर्मक एतस्मिन्नगोत्रस्थो ऽभिप्रेतः । स च समासतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः, समुच्छिन्नकुशलमूलः, अमोक्षभागीयकुशलमूलः, हीनकुशलमूलश्चापरिपूर्णसंभारः । अत्यन्तापरिनिर्वाणधर्मा तु हेतुहिनो यस्य परिनिर्वाणगोत्रमेव नास्ति ।

प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः ।

गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात् ॥ msa_3.12 ॥

यद्गाभी[म्भी]र्योदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्यौदार्यार्थमज्ञात्वैवाधिमुक्तिर्विपुला भवति, प्रतिपत्तौ चोत्साहः [चाखेदः] संपत्तिश्चावसाने महाबोधिर्द्वयगतायाः (म्स_बग्छि 14) संपत्तेः परमा, तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्त्वगोत्रस्य माहात्म्यं वेदितव्यम् । द्वयगता इति द्वये लौकिकाः श्रावकाश्च । परमेति विशिष्टा ।

फलतो गोत्रविशेषणे श्लोकः ।

सुविपुलगुणबोधिवृक्षवृद्ध्यै घनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत् ॥ msa_3.13 ॥

स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वमनेन बोधिसत्त्वगोत्रं संदर्शितम् ।

॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः ॥

चतुर्थो ऽधिकारः

चित्तोत्पादलक्षणे श्लोकः ।

महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः ॥ msa_4.1 ॥

महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदया महाबोधिसमुदागमत्वात् । सो ऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम् । द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते ।

चित्तोत्पादप्रभेदे श्लोकः ।

चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥ msa_4.2 ॥

चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणिको बुद्धभूमौ ।

चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः ।

करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः । धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा ॥ msa_4.3 ॥

उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना ॥ msa_4.4 ॥

शुभवृद्ध्यनुसंसो ऽसौ पुण्यज्ञानमयः स हि । सदापारमितायोगनिर्याणश्च स कथ्यते ॥ msa_4.5 ॥

भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः ॥ msa_4.6 ॥

तथायं विनिश्चयः । किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः (म्स_बग्छि 16) किंपर्यवसान इति । आह । करुणामूलः । सदासत्त्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् [नः] । उत्तरोत्तरच्छन्दयानः । बोधिसत्त्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापनाधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदापारमिताभ्यासनिर्याणः । भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस्तस्य तद्भूमिपर्यवसानः ।

समादानसांकेतिकचित्तोत्पादे श्लोकः ।

मित्रबलाद् हेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात् । अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात् ॥ msa_4.7 ॥

यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः । स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद्वा गोत्रसामर्थ्यात् । कुशलमूलद्वातीत[तद्गोत्र]पुष्टितः । श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर्मित्रबलाददृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः ।

पारमार्थिकचित्तोत्पादे सप्त श्लोकाः ।

सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य ॥ msa_4.8 ॥

धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य ॥ msa_4.9 ॥

जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ msa_4.10 ॥

धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ msa_4.11 ॥

औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् ॥ msa_4.12 ॥

आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि । आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम् ॥ msa_4.13 ॥

निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ msa_4.14 ॥

प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः] । प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्त्वेषु समचित्तता आत्मपरसमतोपगमात् । सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात् । तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम् । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च । परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम् । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् ।

औपम्यमाहात्म्ये षट् श्लोकाः ।

पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः । शुक्लनवचन्द्रसदृशो बह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः] ॥ msa_4.15 ॥

भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः ॥ msa_4.16 ॥

भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः ॥ msa_4.17 ॥

गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः ॥ msa_4.18 ॥

यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः । आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च ॥ msa_4.19 ॥

मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि । तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् ॥ msa_4.20 ॥

प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्यध्याशयः । दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च । शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयतत्वात् । शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात् । एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः । यथा मेघात्सर्वभाजनलोकसंपत्त्यः । एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः ।

चित्तानुत्पादपरिभाषायां श्लोकः ।

परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम् ॥ msa_4.21 ॥

तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम् । (म्स_बग्छि 19) यच्च परार्थोपायलाभात् । यच्च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः । यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम् ।

चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः ।

सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम् ॥ msa_4.22 ॥

तस्य चित्तवरस्य सहोदयाब्दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद् दुष्कृतादतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति ।

अकरणसंवरलाभे श्लोकः ।

यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् । परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति ॥ msa_4.23 ॥

अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात् । स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति ।

चित्ताव्यावृत्तौ श्लोकौ ।

मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः । क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले ॥ msa_4.24 ॥

स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च । विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम् ॥ msa_4.25 ॥

मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति । उद्यानयात्रोपमोपपत्तीक्षणात् विपत्तिकाले दुःखान्न बिभेति । तस्य कुतो भयाब्दोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम् । परहितात्प्रीतिर्भोजनम् । संचिन्त्योपपत्तिरुद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति । नाबोधिसत्त्वानाम् । तेषां कथं चित्तं व्यावर्तिष्यते ।

दुःखत्रासप्रतिषेधे श्लोकः ।

परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् । कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे ॥ msa_4.26 ॥

अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते । यतो ऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति ।

सत्त्वोपेक्षाप्रतिषेधे श्लोकः ।

महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना ॥ msa_4.27 ॥

यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना ।

कौशीद्यपरिभाषायां श्लोकः ।

शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः । स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम् ॥ msa_4.28 ॥

शिरसि महान्तं सत्त्वभारं विनिधाय बोधिसत्त्वः शिथिलं पराक्रममाणो न शोभते । शतगुणं हि स वीर्यं कर्तुमर्हति श्रावकवीर्यात् तथा हि स्वपरबन्धनैर्विविधैरत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः ।

॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः ॥

पञ्चमो ऽधिकारः

प्रतिपत्तिलक्षणे श्लोकः ।

महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ msa_5.1 ॥

तत्र महाश्रया चित्तोत्पादाश्रयत्वात् । महारम्भा स्वपरार्थारम्भात् । महाफलोदया महाबोधिफलत्वात् । अत एव यथाक्रमं महादाना सर्वसत्त्वोपादानात् । महाधिवासना सर्वदुःखाधिवासनात् । महार्थसंपादनकृत्यकारिका विपुलसत्त्वार्थसंपादनात् ।

स्वपरार्थनिर्विशेषत्वे श्लोकः ।

परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ msa_5.2 ॥

परत्रात्मसमानचित्ततां लब्ध्वाधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतरामिष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्त्वस्य कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः ।

परार्थविशेषणे श्लोकः ।

परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ msa_5.3 ॥

यथा स्वात्मनः परार्थो विशिष्यते तत्साधयति परार्थमात्मनो ऽत्यर्थं संतापनात् ।

परार्थप्रतिपत्तिविभागे द्वौ श्लोकौ ।

निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनतावतारणा । विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ msa_5.4 ॥

गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ msa_5.5 ॥

त्रिविधे सत्त्वनिकाये हीनमध्यविशिष्टगोत्रस्थेः त्रयोदशविधो बोधिसत्त्वस्य परार्थः । सुदेशनानुशासन्यादेशनाप्रतिहार्याभ्याम् । आवर्जना ऋद्धिप्रातिहायेर्ण । अवतारणा शासनाभ्युपगमनात् । विनीतिरर्थे ऽवतीर्णानां संशयच्छेदनम् । परिपाचना कुशले । अववादश्चित्तस्थितिः प्रज्ञाविमुक्तिः, अभिज्ञादिभिर्विशेषकैर्गुणैः समुदागमः । तथागतकुले जन्म, अष्टभ्यां भूमौ व्याकरणं दशम्यामभिषेकश्च । सह तथागतज्ञानेनेत्येष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्त्वस्य ।

परार्थप्रतिपत्तिसंपत्तौ श्लोकः ।

जनानुरूपाविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा । क्षमा च दान्ता च सुदूरगाक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा ॥ msa_5.6 ॥

यथासौ परार्थपतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थजनानुरूपाविपरीता च देशना भवति । अनुन्नता चावर्जना । अममा चावतारणा । न ऋद्धया मन्यते न चावतारितान्सत्त्वान्ममायति । विचक्षणा चार्थे विनीतिप्रतिपत्तिर्भवति । क्षमा च शुभे परिपाचनाप्रतिपत्तिः । दान्ता चाववादादिप्रतिपत्तिः । न ह्यदान्तो ऽववादादिषु परेषां समर्थः । सुदूरगा च कुलोदयादिप्रतिपत्तिः । न ह्यदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा, परार्थप्रतिपत्तिर्बोधिसत्त्वानामक्षया भवत्यभ्युपगतसत्त्वाक्षयत्वादतो ऽपि संपन्ना वेदितव्या ।

प्रतिपत्तिविशेषणे द्वौ श्लोकौ ।

महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः ॥ msa_5.7 ॥

जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम् ॥ msa_5.8 ॥

तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं विपर्याससुखं रूपारूप्यभवप्रियाणामनित्यत्वात्परमार्थदुःखत्वाच्च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखमेवाप्नोति । बोधिसत्त्वस्तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्ययमस्यापरः प्रतिपत्तिविशेषः ।

गोचरपरिणामने श्लोकः ।

यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर्हिताया सत्त्वेष्वभिसंस्करोति तत् ॥ msa_5.9 ॥

येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्त्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस्तेन तेन प्रकारेण संबद्धसादृश्यवचनैर्हितार्थं सत्त्वेषु तत्सर्वमभिसंस्करोति । यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टम् ।

सत्त्वेष्वक्षान्तिप्रतिषेधे श्लोकः ।

सदास्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ msa_5.10 ॥

सदा क्लेशैरस्वतन्त्रीकृतचेतने जने न संदोषमुपैति बोधिसत्त्वः । किं कारणम् । अकामकारेणैषां विप्रतिपत्तयो भवन्तीति विदित्वा करुणावृद्धिगमनात् ।

प्रतिपत्तिमाहात्म्ये श्लोकः ।

भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव । विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन ॥ msa_5.11 ॥

चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधामभिभूयगमनात् । यथोक्तं प्रज्ञापारमितायां, रूपं चेत्सुभूत[ते] भावो ऽभविष्यन्नाभावो नेदं महायानं सदेवमानुषासुरलोकमभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यमप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्त्वापरित्यागमाहात्म्यं चेति ।

॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः ॥

षष्ठो ऽधिकारः

परमार्थलक्षणविभागे श्लोकः ।

न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चा[ना]वहीयते । न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम् ॥ msa_6.1 ॥

अद्वयार्थो हि परमार्थः । तमद्वयार्थं पञ्चभिराकारैः संदर्शयति । न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां, न चासत्परिनिष्पन्नलक्षणेन । न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । न चान्यथा ताभ्यमेवान्यत्वाभावात् । न जायते न च व्येत्यनभिसंस्कृतत्वाद्धर्मधातोः । न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर्निरोधोत्पादे तद्[था]वस्थत्वात् । न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्येतत्पञ्चविभमद्वयलक्षणं परमार्थलक्षणं वेदितव्यम् ।

आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः ।

न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः ॥ msa_6.2 ॥

न तावदात्मदृष्टिरेवात्मलक्षणा । नापि दुःसंस्थितता । तथा हि सा विलक्षणा आत्मलक्षणात्परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्यतो द्वयादन्यदात्मलक्षणमुपपद्यते । तस्मान्नास्त्यात्मा । भ्रम एष तूत्पन्नो येयमात्मदृष्टिस्तस्मादेव चात्माभावोन्मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यः, न तु कश्चिन्मुक्तः ।

विपर्यासपरिभाषायां द्वौ श्लौकौ ।

कथं जनो विभ्रममात्रामाश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ msa_6.3 ॥

प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् । तमः प्रकारः कतमो ऽयमीदृशो यतो ऽविपश्यन्सदसन्निरीक्षते ॥ msa_6.4 ॥

कथं नामायं लोको भ्रान्तिमात्रमात्मदर्शनं निःश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । अवेदको ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन (म्स_बग्छि 25) दुःखस्या[स्य] दुःखितो दुःखस्याप्रहीणत्वात् । न दुःखिउतो दुःखयुक्तस्यात्मनो ऽसत्वात् । धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च धर्ममयो धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत्कथमेतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नमिति । कतमो ऽयमीदृशस्तमः प्रकारो लोकस्य यद्विद्यमानं प्रतीत्यसमुत्पादमविपश्यन्नविद्यमानमात्मानं निरीक्षते । शक्यं हि नाम तमसा विद्यमानमद्रष्टुं स्यान्न त्वविद्यमानं द्रष्ठुमिति ।

असत्यात्मनि शमजन्मयोगे श्लोकः ।

त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ msa_6.5 ॥

न चास्ति संसारनिर्वाणयोः किंचिन्नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । तथापि जन्मक्षयान्मोक्षप्राप्तिर्भवत्येव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा-

तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः ।

संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः । धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति ॥ msa_6.6 ॥

अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन ॥ msa_6.7 ॥

नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् । द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मधातौ ॥ msa_6.8 ॥

अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते ॥ msa_6.9 ॥

एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रि[श्चि]तत्वं समाधि[धिं]निश्रित्यभावनान्मनोजल्पाच्च तेषां धर्माणामर्थप्रख्यानावगमात्तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य (म्स_बग्छि 26) परिपूरणमित्यनन्तपारम् । द्वितीयेन मनोजल्पमात्रानर्थान्विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतो[ऽव?] गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन । इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धर्मधातुः प्रत्यक्षतामेति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षतामेति । चित्तादन्यदालम्बनं ग्राह्यं नास्तीत्यवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्य[आ]भावे ग्राहकाभावात् । द्वये चास्य [द्वयस्यास्य?] नास्तित्वं विदित्वा धर्मधाताववस्थानमतद्गतिर्ग्राह्यग्राहकलक्षणाभ्यां रहितं एवं धर्मधातुः प्रत्यक्षतामेति । चतुर्थेन भावनामार्गावस्थायामाश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूरानुप्रविष्टस्य दोषसंचस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् ।

परमार्थज्ञानमाहात्म्ये श्लोकः ।

मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ । स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ msa_6.10 ॥

बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्त्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिमुपनिविधाय या स्मृतिरूपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्रामवगच्छत्येवं गुणार्णवस्य पारंबुद्धत्वमाशु व्रजतीत्येतत्परमार्थज्ञानस्य माहात्म्यम् ।

॥ महायानसूत्रालंकारे तत्त्वाधिकारः षष्ठः ॥

सप्तमो ऽधिकारः

प्रभावलक्षणविभागे श्लोकः ।

उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः ॥ msa_7.1 ॥

परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते । चित्ते ज्ञानं चेतः पर्यायाभिज्ञा । पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा । निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थं उक्तः ।

हेत्वर्थमारभ्य श्लोकः ।

ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ msa_7.2 ॥

येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति ।

फलार्थमारभ्य श्लोकः ।

येनार्यदिव्याप्रतिमैर्विहारैर्ब्राह्मैश्च नित्यं विहरत्युदारैः । बुद्धांश्च सत्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम् ॥ msa_7.3 ॥

त्रिविधं फलमस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च ।

कर्मार्थं षड्विधमारभ्य चत्वारः श्लोकाः ।

दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः ।

मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् । संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः ॥ msa_7.4 ॥

स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् । परेषां यथेष्टं तत्संदर्शनात् । अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः । दशवशितालाभात् । यथा दशभूमिके ऽष्टम्यां भूमौ निर्दिष्टाः ।

रश्मिकर्मारभ्य श्लोकः ।

रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्त्रासयते समारान् ॥ msa_7.5 ॥

द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम् । मारभवनानां च समारकाणां कम्पनोद्वेजनम् ।

विक्रीडनकर्म चारभ्य श्लोकः ।

समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये । सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम् ॥ msa_7.6 ॥

अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम् । विनेयवशेनयथेष्टोपपत्तिनिर्माणम् । उत्तमनिर्माणं च तुषितभवनवासादिकम् ।

क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः ।

ज्ञानवसित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय । अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तन्क्षिपते ऽन्यधातौ ॥ msa_7.7 ॥

द्विविधपापविशोधनया । भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् ।

योगार्थमारभ्य श्लोकः ।

शक्तो भवत्येव च सत्त्वपाके संजातपक्षः शकुनिर्यथैव । बुद्धात्प्रशंसां लभते ऽतिमात्रामादेयवाक्यो भवति प्रजानाम् ॥ msa_7.8 ॥

त्रिविधं योगं प्रदर्शयति । सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च ।

वृत्त्यर्थमारभ्य श्लोकः ।

षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षाभिभुवस्तथाष्टौ । दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः ॥ msa_7.9 ॥

षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः ।

एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः ।

स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः ॥ msa_7.10 ॥

त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् । अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् । भवनिर्भयतामाहात्म्यं च ।

॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः ॥

अष्टमो ऽधिकारः

बोधिसत्त्वपरिपाके संग्रहः श्लोकः ।

रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ msa_8.1 ॥

रूचिर्महायानदेशनाधर्मे, प्रसादस्तद्देशिके, प्रशमः क्लेशानाम्, अनुकम्पा सत्त्वेषु, क्षमा दुष्करचर्यायां, मेधा ग्रहणधारणप्रतिवेधेषु, प्रबलत्वमधिगमे, अहार्यता मारपरप्रवादिभिः, प्राहाणिकाङ्गैः समन्वागतत्वम् । भृशमिति रूच्यादीनामधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्त्वानां नवप्रकार आत्मपरिपाको वेदितव्यः ।

रूचिपरिपाकमारभ्य श्लोकः ।

सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ msa_8.2 ॥

सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश्च । उग्रवीर्यता अधिमात्रो वीर्यारम्भः । परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता । उत्तमधर्मसंग्रहो महायानधर्मरक्षा, तत्प्रतिपन्नानामुपद्रवेभ्यो रक्षणात् ।

बोधिसत्त्वस्य महायानधर्मपरिग्रहमधिकृत्येदं रूचिपरिपाकलक्षणं वेदितव्यम् । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश्च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात्तदेतेन परिदीषितम् ।

प्रसादपरिपाकमारभ्य श्लोकः ।

गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसो ऽध्यभेद[द्य?]ता । जीनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ msa_8.3 ॥

तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । गुणज्ञता इत्यपि स भगवांस्तथागत इति विस्तरेण कारणम् । अवेत्यप्रभाव[साद]लाभादभेद्यचित्तता स्वभावः ।

आशुसमाधिलाभस्तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म ।

प्रशमपरिपाकमारभ्य श्लोकः ।

सुसंवृतिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता । जिनात्मजे क्लेशविनोदनायतन्मतं हि सम्यक्परिपाकलक्षणम् ॥ msa_8.4 ॥

क्लेशविनोदना बोधिसत्त्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणम् । क्लिष्टवितर्कवर्जना स्वभावः । प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म ।

कृपापरिपाकलक्षणमधिकृत्य श्लोकः ।

कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ msa_8.5 ॥

स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इतिकारणम् । विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्म अविनिवर्तनीयभूमौ ।

क्षान्तिपरिपाकलक्षणमारभ्य श्लोकः ।

घृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ msa_8.6 ॥

धृतिः सहनं क्षान्तिरिति पर्यायाः ततत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणम् । तीव्राणां शीतादिदुःखानामधिवासनास्वभावः । क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म ।

मेधापरिपाकमारभ्य श्लोकः ।

विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा । स्मृतेर्महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ msa_8.7 ॥

तत्र मेधानुकूला विपाकविशुद्धिः कारणम् । श्रुतचिन्तितभावितचिरकृतचिरभाषितानामसंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर्मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म ।

बलवत्वप्रतिलम्भपरिपाकमारभ्य श्लोकः ।

शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ msa_8.8 ॥

तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणम् । अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः । मनोरथसंपत्तिर्जगदग्रभूतता च कर्म ।

अहार्यतापरिपाकमारभ्य श्लोकः ।

सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ msa_8.9 ॥

तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणम् । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शन्कोत्यन्तरायं कर्तुम् । विशेषाधिगमः परपक्षदूषणं च कर्म ।

प्राहाणिकाङ्गसमन्वागमपरिपाकमधिकृत्य श्लोकः ।

शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम् ॥ msa_8.10 ॥

तत्परिपाकस्य कारणं कुशलमूलोपचयः । आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः । विवेकोत्कृष्टता कुशलाभिरामता च कर्म ।

नवविधात्मपरिपाकमाहात्म्यमारभ्य श्लोकः ।

इति नवविधवस्तुपचितात्मा परपरिपाचनयोग्यतामुपेतः । शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः ॥ msa_8.11 ॥

द्विविधं तन्माहात्म्यम् । परपरिपाके प्रतिशरणत्वम् । सततं धर्मकायवृद्धिश्च । तत एव जगतो ऽग्रबन्धुभूतः ।

सत्त्वपरिपाकविभागे एकादश श्लोकाः ।

व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रये ऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता[मुशन्तिपव्कताम्] ॥ msa_8.12 ॥

अनेन परिपाकस्वभावं दर्शयति । यथा व्रणस्य स्रावणयोग्यता परिपाकः । भोजनस्य च भोगयोग्यता । एवं सत्त्वानामाश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनम् । भोगस्थानीयश्च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षावत्र पक्षद्वयं वेदितव्यम् ।

द्वितीयश्लोकः ।

विपाचनोक्ता परिपाचना तथा परिपाचना चाप्यनुपाचनापरा । सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ msa_8.13 ॥

अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना [पाचना?] विपाचना । सर्वतो यानत्रयेण पाचना परिपाचना । बाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना । यथाविनेयधर्मदेशनात्तदनुरूपा पाचना अनुपाचना । सत्कृत्य पाचना सुपाचना । अधिगमेन पाचना अधिपाचना अविपरीतार्थेन । नित्या पाचना निपाचना अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना उत्पाचना । इत्ययमष्टप्रकारः परिपरिपाकप्रभेदः ।

तृतीयचतुर्थौ श्लोकौ ।

हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः ॥ msa_8.14 ॥

तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्त्ववत्सलो हिते सुखे चैव नियोजनान्मतः ॥ msa_8.15 ॥

आभ्यां किं दर्शयति । यादृशेनाशयेन बोधिसत्त्वः सत्त्वान्परिपाचयति तमाशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस्तु लोक आत्मानं हिते च सुखे च संनियोजयति ।

अवशिष्टैः श्लोकैर्येन प्रयोगेण सत्त्वान्परिपाचयति तं पारमिता प्रतिपत्त्या संदर्शयति ।

यादृशेन दानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।

न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते ॥ msa_8.16 ॥

त्रिविधेन दानेन पाचयति । सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण । अविघातेनेच्छापरिपूर्णात् [पूरणात्] । अनागतेन [तेन] च संगृह्य कुशलप्रतिष्ठापनात् ।

यादृशेन शीलेन यथा सत्वान्परिपाचयति तदारभ्य श्लोकः ।

सदाप्रकृत्याध्यविहिंसकः स्वयं रतो ऽप्रमत्तो ऽत्र परं निवेशयन् । परंपरानुग्रहकृदूद्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ msa_8.17 ॥

पञ्चविधेन शीलेन । ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविंहिंसकत्वात् । परिपूर्णो ह्यविहिंसको ऽध्यविहिंसको दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भूमौ । अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च (म्स_बग्छि 35) परिपाचयति । शीले संनिवेशनात् । द्विधानुग्रहक्रियया दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति । तद्विपाकनिष्यन्दयोरन्योन्यानुकूल्येनाव्यवच्छेदात् ।

यादृश्या क्षान्त्या यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।

परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् । उपायचित्तैरपकारमर्षणैः शुभे समादापयते ऽपकारिणः ॥ msa_8.18 ॥

अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यम् । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चोपायज्ञस्तैरपकारमर्षणैरावर्ज्यापकारिणां कुशले समादापनात् ।

यादृशेन वीर्येण यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।

पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः स[त्त्व]गणं प्रपाचयन्परैकचित्तस्य शुभस्य कारणात् ॥ msa_8.19 ॥

अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वमनन्तसत्त्वपरिपाचनात् । परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिरखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति ।

यादृशेन ध्यानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।

वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयते ऽत्र शासने । निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ msa_8.20 ॥

प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनादावर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति ।

यादृश्या प्रज्ञया यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः ।

स तत्त्वभावार्थनये सुनिश्चितः करोति सत्त्वान्सुविनीत संशयान् । ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ msa_8.21 ॥

स बोधिसत्त्वस्तत्त्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति । कथं परिपाचयति सत्त्वानां संशयविनयनात् । ततश्च शासनबहुमानात्तेषामात्मपरगुणसंवर्धकत्वेन ।

निय[ग]मेन श्लोकः ।

इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः । तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या ॥ msa_8.22 ॥

अनेन यत्र च विनयति, सुगतिगमने यानत्रये वा । यच्च विनयति, जगदखिलम् । येन च विनयति, कृपया । यश्च विनयति बोधिसत्त्वः । यादृशैश्च परिपाचनप्रकारै तनुपरमविमध्यमप्रकारैः । यावन्तं च कालं, तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्त्वस्य परमो ऽष्टाम्यादिषु विमध्यमः सप्तसु वेदितव्यः । यावल्लोकस्य भावस्तत्समानया गत्या अत्यन्तमित्यर्थः ।

॥ महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः ॥

नवमो ऽधिकारः

सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस्तयोरेव निर्देशभूतः । अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ msa_9.1 ॥

सर्वकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ msa_9.2 ॥

कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वंशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता ॥ msa_9.3 ॥

समुदागमतः स्वभावत औपम्यतश्च बुद्धत्वमुद्भावितम् । यावद्भिर्दुष्करशतैर्यावद्भिः कुशलसंभारैर्यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात्समुदागच्छति, अयं समुदागमः । सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः । विवृतारत्नपेटा तदौपम्यम् ।

तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ लोकौ ।

सर्वधर्माश्च बुद्धत्वं धर्मो नैव च कश्चन । शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते ॥ msa_9.4 ॥

धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् । शुभसस्यनिमित्तत्वाल्लब्धमेघोपमं मतम् ॥ msa_9.5 ॥

सर्वधर्माश्च बुद्धत्वं, तथताया अभिन्नत्वात्तद्विशुद्धिप्रभावितत्वाच्च । बुद्धत्वस्य न च कश्चिद्धर्मो ऽस्ति । परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं, पारमितादिनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस्तन्निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेरिदमद्वयलक्षणम् । रत्नाकरमेघोपमत्वमनुभावः, देशनाधर्मरत्नानां तत्प्रभवत्वात्, कुशलसस्यानां च विनेयसंतानक्षेत्रेषु ।

बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मत्नाकराभम् । भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ msa_9.6 ॥

अनेन तृतीयेन श्लोकेन तमेवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेनिमित्तत्वाद्रत्नाकराभम्, भूतानां महतः शुक्लसस्यप्रसवहेतुत्वान्मेघभूतम् । महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्वित्ययमत्र पदविग्रहो वेदितव्यः ।

तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः ।

परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा । सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च ॥ msa_9.7 ॥

अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति ।

उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः । सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम् ॥ msa_9.8 ॥

अनेन द्वितियेनोपद्रवादिपरित्राणाद्विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं यद् बुद्धानुभावेन अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोतं, विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्येवमादि । अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात्, तदगमने च प्रतिष्ठापनात् । अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् ।

हीनयानपरित्राणत्वमनियतगोत्राणां महायानैकायनीकरणात् । शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ msa_9.9 ॥

अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति ।

बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति च सत्त्वान्प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम् ॥ msa_9.10 ॥

अनेन चतुर्थेन यैः कारणैस्तत्तथानुत्तरं शरणं भवति तत्संदर्शयति । बौद्धैर्धर्मैर्बलवैशारद्यादिभिः सुसंपूर्णस्वभावत्वात् स्वार्थनिष्ठामधिकृत्य सद्धर्मसत्त्वविनयोपायज्ञानात् करुणापारगमनाच्च परार्थनिष्ठामधिकृत्य ।

आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ msa_9.11 ॥

अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्त्वानां यत्रार्थे शरणं भवति तत्समासेन दर्शयति । यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च ।

आश्रयपरावृत्तौ षट् श्लोकाः ।

क्लेशज्ञेयवृत्तीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति- स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात् ॥ msa_9.12 ॥

अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश्चाश्रयपरिवृत्तिः परिदीपिता । यथा च तत्प्राप्तिर्द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच्च । उत्कृष्टकालमित्यनादिकालं ।

सुविपुलैः सर्वहानिप्रकारैरिति भूमिप्रकारैः ।

स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा ॥ msa_9.13 ॥

अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस्तद्विशेषं दर्शयति । तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति ।

दृष्ट्वा च करूणायते श्रावकप्रत्येकबुद्धानपि प्रागेव तदन्यान् ।

प्रवृत्तिरूद्वित्तिरवृत्तिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते ॥ msa_9.14 ॥

अनेन तृतीयेन तद्दशप्रभेदंदर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिरिति प्रवृत्तिः । सर्वधर्मविशिष्टत्वादुष्कृष्टा वृत्तिरित्युद्वृत्तिः । संक्लेशहेताववृत्तिः । आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान्निवृत्तितो निवृत्तिः । आत्यन्तिकत्वादायता वृत्तिरित्यावृत्तिः । अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात्संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैरसमत्वाद्विशिष्टा वृत्तिः ।

सर्वयानोपदेशगतत्वात्सर्वगतावृत्तिः ।

यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगम् ॥ msa_9.15 ॥

अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणौद्देशनिर्देशतः पूर्वापरार्धाभ्याम् । सत्त्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्त्वोपगमने परिनिष्पत्तितो वेदितव्यम् ।

यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते ॥ msa_9.16 ॥

अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्त्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति ।

यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति । बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ msa_9.17 ॥

अनेन षष्ठेन बुद्धविनेयेषु सत्सुबुद्धोत्पादात्तद्दर्शनं । विनीतेषु परिनिर्वाणात्तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति ।

अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः ।

अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः । तथा जिने विनाभोगं देशनायाः समुद्भवः ॥ msa_9.18 ॥

यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् । बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ msa_9.19 ॥

आभ्यां श्लोकाभ्यामनाभोगेन बुद्धकार्यं साधयत्यघटिततूर्यशब्दमणिप्रभाव[स]साधर्म्येण ।

यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । तथैवानास्रवे धातौ अविच्छिन्ना जिनक्रियाः ॥ msa_9.20 ॥

यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा । तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ msa_9.21 ॥

आभ्यामप्यप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । आकाश इव लोकक्रियाणामविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस्तथैव ।

अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः ।

पौर्वापर्य[आ]विशिष्टापि सर्वावरणनिर्मला । नशुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ msa_9.22 ॥

पौर्वापर्येण[आ]विशिष्टत्वान्न शुद्धा । पश्चात्सर्वावरणनिर्मलत्वान्नाशुद्धा मलविगमात् ।

शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् ॥ msa_9.23 ॥

तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणम् । अग्रनैरात्म्यात्मकत्वात् । अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानामात्मा स्वभावार्थेन तस्यां विशुद्धायामग्रं नैरात्म्यमात्मानं बुद्धा लभन्ते शुद्धम् । अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्यनेनाभिसंधिना बुद्धानामनास्रवे धातौ परमात्मा व्यवस्थाप्यते ।

न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ msa_9.24 ॥

तेनैव कारणेन बुद्धत्वं न भाव उच्यते । पुद्गलधर्माभावलक्षणत्वात्तदात्मकत्वाच्च बुद्धत्वस्य । नाभाव उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभावप्रश्ने, भवति तथागतः परं मरणान्न भवतीत्येवमादिरव्याकृतनयोमतः ।

दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ msa_9.25 ॥

यथा च लोहे दाहशान्तिर्दर्शने च तिमिरमेत[?]स्य शान्तिर्न भावो दाहतिमिरयोरभावलक्षणात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर्न भावः शस्यते तदभावप्रभावितत्वाच्चेतः प्रज्ञाविमुक्त्या नाभावस्तेन तेन विमुक्तिलक्षणेन भावात् ।

बुद्धानाममले धातौ नैकता बहुता न च । आकाशवददेहत्वात्पूर्वदेहानुसारतः ॥ msa_9.26 ॥

बुद्धानामनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण । न बहुत्वं देहाभावादाकाशवत् ।

बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ msa_9.27 ॥

पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच्च महादित्योपमा मता ॥ msa_9.28 ॥

एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ ।

अमेया रश्मयो यद्वद्वयामिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकमालोकयन्ति च ॥ msa_9.29 ॥

तथैवानास्रवे धातौ बुद्धानामप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरामता ॥ msa_9.30 ॥

एकेन व्यामिश्ररश्म्येककार्यस्योपमतया साधारणकर्मतां दर्शयति । रश्मीनामेककार्यत्वं पाचनशोषणसमानकार्यत्वाद्वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु ।

यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः । भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ msa_9.31 ॥

एककाले सर्वरश्मिविनिःसृत्या स च [सह?]बुद्धानामेककाले ज्ञानप्रवृत्तिं दर्शयति ।

यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ msa_9.32 ॥

यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् । सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ msa_9.33 ॥

ममत्वाभावे जगज्ज्ञेयप्रभासेन[सने] च यथाक्रमं श्लोकौ गतार्थौ ।

यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानामावृतिः सत्त्वदुष्टता ॥ msa_9.34 ॥

यथा रश्मीनां मेघाद्यावरणमप्रभासेन । तथा बुद्धज्ञानानामावरणं सत्त्वानामा[म]भाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया ।

यथा पांशुवशाद्वस्त्रे रङ्गचित्राविचित्रता । तथावेधवशान्मुक्तौ ज्ञानचित्राविचित्रता ॥ msa_9.35 ॥

यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिदविचित्रता । तथैव पूर्वप्रणिधानचर्याबलाधानविशेषाद् बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति ।

श्रावकप्रत्येकबुद्धानां विमुक्तावविचित्रता ।

गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु । बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा ॥ msa_9.36 ॥

एतदनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यमेवमुत्तम् । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यंपञ्चमेनैकत्वपृथक्त्वाभ्यामस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत्पुनर्लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणमव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तम् । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्त्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तम् । सेयमनास्रवे धातौ निष्प्रपञ्चत्वादाकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैराकाशचित्रणी वेदितव्या ।

सर्वेषामविशिष्टापि तथता शुद्धिमागता । तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः ॥ msa_9.37 ॥

सर्वेषां निर्विशिष्टा तथता तद्धिशुद्धिस्वभावश्च तथागतः । अतः सर्वे सत्त्वास्तथागतगर्भा इत्युच्यते ।

विभुत्वविभागे श्लोका एकादश । श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते ॥ msa_9.38 ॥

बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ msa_9.39 ॥

आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति ।

अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते । यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते ॥ msa_9.40 ॥

अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथमप्रमेयं कथं वा चिन्त्यमित्याह । यस्य पुद्गलस्यार्थे तत्प्रवर्त्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर्यावदल्पं वा बहु वा यस्मिन्काले ।

अवशिष्टैः श्लोकैः मनो[परा]वृत्तिभेदेन विभुत्वभेदं दर्शयति ।

पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये ॥ msa_9.41 ॥

पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते । सर्वेषां पञ्चानामिन्द्रियाणां सर्वपञ्चार्थवृत्तौ । तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.