Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मसमुच्चय

Tác giả
असङ्ग
Thông tin
GRETIL — unknown source; cf. the following editions: V.V. Gokhale: Fragments from the Abhidharmasamucca of Asaṃga, Journal of the Bombay Branch of the Royal Asiatic Society, New Series, vol. 23 (1947), pp. 13-68; P. Pradhan: Abhidharmasamucca, Santiniketan 1950 (Visva-Bharati Studies, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

जन्माधिष्ठानं कतमत् / भाजनलोकः / वायुमण्डले अप्मण्डलम्प्रतिष्ठितम् / अप्मण्डले पृथिवीमण्डलम् / पृथिवीमण्डले सुमेरुः सप्तकाञ्चनपर्वताः चत्वारो द्वीपाः अष्टावन्तरद्वीपाः अभ्यन्तरः समुद्रो वाह्यसमुद्रश्चतस्रः सुमेरुपरिषण्डाः चतुर्महाराजकायिकानां वापस्त्रिंशानां स्थानान्तराणि चक्रचाडः पर्वतः आकाशे विमानानि यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्त्तिनां देवानां रूपावचराणां च असुराणां स्थानान्तराणि नारकाणां स्थानान्तराणि / उष्णनरकाःशीतनरकाः प्रत्येकनरकाश्च तदेकत्यानां च तिर्यक्प्रेतानां स्थानान्तराणि यावदादित्याः परिचरन्तो दिशो ऽवभासयन्ते वैरोचनास्तावत्साहस्रके लोके सहस्रं चन्द्राणां सहस्रं सूर्यणां सहस्रं सुमेरूणां पर्वतराजाणां सहस्रं चतुर्णां द्वीपानां सहस्रं चतुर्महाराजकायिकानां देवानां सहस्रं त्रायस्त्रिंशानां सहस्रं यामानां सहस्रं तुषितानां सहस्रं निर्माणरतीनां सहस्रं परनिर्मितवशवर्त्तिनां सहस्रं ब्रह्मलौकिकानामिदमुच्यते सहस्रचूडिको लोकधातुः // सहस्रं सहस्रचूडिकानां धातूनामुच्यते द्वितीयो (अभिध्-स् 37) मध्यमसाहस्रो लोकधातुः // सहस्रं मध्यमसाहस्रधातूनामुच्यते तृतीयो महासाहस्रो लोकधातुः / एवं स त्रिसाहस्रो महासाहस्रो लोकधातुः महाचक्रवाड पर्वतमण्डल परिवेष्टितः / स च त्रिसाहस्रमहासाहस्रो लोकधातुः सप्रसंवर्त्तविवर्त्तः / तथा च देवः चक्राकारान् वृष्टिविन्दून् निरन्तरं निरवच्छिन्न माकाशाद् वर्षति / तथा च पूर्वस्यां दिशि निरन्तरं निरवच्छिन्न मप्रमाणो लोकधातुः संवर्त्तिष्यते वा विवर्त्तिष्यते वा संवर्त्तते वा संवृत्तस्तिष्ठति वा विवर्त्तते वा विवृत्तस्तिष्ठति वा / यथा पूर्वस्यां दिशि तथा सर्वासु दशसु दिक्षु / यश्च सत्त्वलोको यश्च भाजनलोकः कर्मक्लेशः जनितः कर्मक्लेशाधिपतेयश्च सर्वमुच्यते दुःखसत्यम् / परिशुद्धलोकधातुस्तु न दुःखसत्यसंगृहीःतो न कर्मक्लेश जनितः न कर्मक्लेशाधिपतेयश्च / केवलं महाप्रणिधानेन व्यवदानकुशलमूलाधिपतिना आकृष्यते तदुत्पत्तिस्थानं चाचिन्त्यं केवलं बुद्धेन बुध्यते न ध्यायिनां ध्यानगोचरः किं पुनः चिन्तयताम् //

अपि खलु दुःखलक्षणप्रभेदा अष्टौ / "जातिर्दुःखं जरा दुःखं व्याधिदुःखं मरणं दुःखम् अप्रियसंप्रयोगो दुःखं प्रियविप्रयोगो दुःखं यदपीच्छन्न लभते तदपि दुःखं संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखम्" // जातिः किमुपादाय दुःखम् / संबाधदुःखतां तदन्यदुःखाश्रयतां चोपादाय / जरा किमुपादाय दुःखम् / काले विपरीणतिदुःखतामुपादाय // व्याधि किमुपादाय दुःखम् / भूतेषु विपरीणतिदुःखतामुपादाय // मरणं किमुपादाय दुःखम् / जीवितविप्रणाशदुःखतामुपादाय //

अप्रियसंप्रयोगः किमुपादाय दुःखम् / संयोगज दुःखतामुपादाय // प्रियविप्रयोगः किमुपादाय दुःखम् / विप्रयोगज दुःखतामुपदाय // यदपीच्छन्न लभते तत् किमुपादाय दुःखम् / काम्यफलाभावज दुःखतामुपादाय // संक्षिप्तेनपञ्चोपादानस्कन्धाः किमुपादाय दुःखम् / दौष्ठुल्यदुःखतामुपादाय // एवमष्टौ संगृहीतानि षड् भवन्ति / संवाधदुःखं विपरिणति दुःखं संप्रयोगदुःखं विप्रयोगदुःखं काम्यफलाभावदुःखं दौष्ठुल्यदुःखं च // एवं षड् बाहुल्येनाष्टौ भवन्ति / (अभिध्-स् 38) षड् समानान्यष्टौ भवन्ति // यदुक्तं तिस्रो दुःखताः / तासु अष्टौ दुःखानि संगृहितानि भवन्ति / तत्र कथं तिसृषु संगृहीतान्यष्टौ अष्टसु वा संगृहीतास्तिस्रः / पारंपर्षलक्षण संग्रहात् / जातिर्दुखं जरा दुःखं व्याधिर्दुःखं मरणं दुःखम् अप्रियसंप्रयोगो दुःखमिति सन्तानदुःखदुःखता / प्रियविप्रयोगो दुःखं यदपीच्छन्न लभते तदपि दुःखं तद्विपरिणामदुःखता / संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखं तत् संस्कारदुःखता // यदुक्तं द्विविधे दुःखे इति / तत् संवृतिसत्येन दुःखं परमार्थसत्येन दुःखं च / कतमत् संवृतिसत्येन दुःखं कतमत् परमार्थसत्येन दुःखम् / जातिर्दुःखं यावत् यदपीच्छन्न् लभते तदपि दुःखमिति संवृतिसत्येन दुःखम् / यदुक्तं संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुःखम् //

दुःखसत्यस्य सामान्यलक्षणं कतमत् / अनित्यलक्षणं दुःखलक्षणं शून्यलक्षणमनात्मलक्षणं च // अनित्यलक्षणं कतमत् / समासतो द्वादशविधम् / असल्लक्षणं विनाशलक्षणं विपरिणतिलक्षणं वियोगलक्षणं सन्निहितलक्षणंधर्मतालक्षणं क्षणलक्षणं प्रबन्धलक्षणं व्याध्यादि लक्षणं चित्तचित्ताकारवृत्तिलक्षणं भोगसंपत्तिर्विपत्ति लक्षणं भाजनलोकसंवर्त्तविवर्त्तलक्षणम् // असल्लक्षणं कतमत् / स्कन्धधात्वायतनेषु सर्वकालि कात्मात्मीयता नित्याभावः // विनाशलक्षणं कतमत् / संस्काराणामुत्पन्नानां निरोधः / तक्तालं भूत्वाभावः // विपरिणतिलक्षणं कतमत् / संस्काराणामन्यथाभावः / प्रबन्धासादृश्येन प्रवृत्तिः // वियोगलक्षणं कतमत् / संस्कारेषु वशित्वभ्रंशः परैःस्वीकरणं वा / सन्निहितलक्षणं कतमत् / समुपस्थितानित्यता / यत्तदानीमेवानुभूयमानानित्यता // धर्मतालक्षणं कतमत् / आगामिन्यनित्यता / यामावश्यमनुभविष्यति // क्षणलक्षणं कतमत् / संस्काराणां क्षणादूर्द्धमनवस्थानम् // प्रबन्धलक्षणं कतमत् / अनादिमति संस्कारे उत्पन्ननिरुद्धा नां प्रबन्धाप्रहाणम् // व्यध्यादि लक्षण कतमत् / (अभिध्-स् 39) चतुर्णां भूतानां कालोपभोगः जीवितविपरिणामः / चित्तचित्ताकार वृत्तिलक्षणं कतमत् / कदाचित् सारागं चित्तं संभवति कदाचिद् वीतरागं चित्तं संभवति / यद्वत् सद्वेषं वा वीतद्वेषं वा समोहं वा वीतमोहं वा संक्षिप्तं वा विहिसां वा निम्नं वा उन्नतं वा उद्धतं वा अनुद्धतं वा उपशान्तं वा अनुपशान्तं वा समाहित वा असमाहितं वा / एवमादि चित्तसंसारवृत्तिः //

भोगसंपत्तिविपत्ति लक्षणं कतमत् / संपत्तीनामन्ते विपत्तिर्विनाशः / भाजनलोकसंवर्त्त विवर्त्त लक्षणं कतमत् / अग्न्यम्बुवायुभिस्त्रिविधः संवर्त्तविवर्त्तः / तिसृणां संवर्त्तर्नानां शीर्षाणि द्वितीय तृतीय चतुर्थध्यानानि / चतुर्थध्याने वाह्यानां विमानानां तु वाह्याभावत् एव संवर्त्तविवर्त्तः / केवलं तैर्देवैः तानि विमानानि सह निर्वर्त्तन्ते सह निरुध्यन्ते एतदुच्यते संवर्त्त विवर्त्तः // अपि खलु त्रयो ऽन्तरकल्पाः दुर्भिक्षव्याधिशस्त्रैर्भवन्ति / हीनस्य त्रिविधकल्पास्यान्ते तैः शस्त्रादिभिर्निर्याणं भवति / यदालोकधातुः संवृत्तो भवति / एको ऽन्तरकल्प प्रथमः अपकर्षः / एकान्तरकल्पः पश्चिम उत्कर्षः / अष्टादश अन्तरकल्पा उत्कर्षापकय / एवं च विंशतिमन्तरकल्पान् लोकधातुः संवर्त्तते / विंशतिमातरकल्पात् लोकधातुर्विवर्त्तते / विंशतिमन्तरकल्पान् लोकधातुर्विवृत्तस्तिष्ठति / संकलिकाश्चैते ऽशीतिरन्तरकल्पा एको महाकल्पो भवति / तया कल्पसंख्याया रूपारूप्याचराणां देवानामायुःप्रमाणं वर्ण्यते // यदुक्तम् अन्यतरे, सत्त्वा आयुःक्षयाद् वा पुण्य क्षयाद् वा कर्मक्षयाद् वा तस्मादधिष्ठानात् च्यवन्ते इति / तत्र आयुदायः कतमः / काले मरणम् / पुण्यक्षयः कतमः / अकाले मरणम् अपुण्यमरणम् / येन सत्त्वा आस्वाद समापत्त्यां रज्यन्ते / पुण्यक्षयाच्च हेतोः ते जीविताच्च्यवन्ते / कर्मक्षयः कतमः / उपपद्यवेदनीयकर्मणः अपरपर्यावेदनीयकर्मणश्च उभयो क्षयान्मरण /

दुःखलक्षणं कतमत् / तिस्रो दुःखताः अष्टाका वा दुःखं षडाकारं वा (अभिध्-स् 40) दुःखं बाहुल्येन पूर्वमुक्तं तद् दुःखं नाम / किं प्रतीत्यसूत्रे उक्तं यदनित्यं तद् दुःखमिति / उभयांशिकीमनित्यतां प्रतीत्य दुःखलक्षणं प्रज्ञायते / उत्पादांशिकीमनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / व्ययांशिकीमनित्यतां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / उभयांशीकिमनित्यतां प्रतीत्य संस्कारदुःखता प्रज्ञायते // तथा च संस्कारानित्यतां संस्कारविपरिणामतां च संधायोक्तं भगवता मया यत्किंचिद् वेदितमिदमत्र दुःखस्येति // अपि खलु उत्पादव्ययधर्मद्वयानुगतेषु संस्कारेषु जात्यादयो ऽष्टौ दुःखानि / प्रज्ञायन्ते इत्यभिसंधाय बुद्धेन भाषितं यदनित्यं तद् दुःखमिति / अपि च अनित्येषु संस्कारेषु जात्यादिकं दुःखं प्रज्ञायते इति अनित्यतो दुःखं न सर्वे संस्कारा इत्यत्राधिसन्धिर्वेदितव्यः //

शून्यतालक्षणं कतमत् / तेषु तस्य अभावः / अनेन नयेन समनुपश्यनाशून्यता / पुनः तेषु अन्यस्य भावः / अनेन नयेन यथाभूतज्ञानभावः / एतद् वतारशून्यतोच्यते / यथाभूतज्ञानमविपरीतो ऽर्थः / तेषु अभावः कतमः / स्कन्धधात्वायतनेषु नित्यध्रुवकूटस्थाविपरिणामधर्मात्मात्मीयाभावः / अनेन नयेन तेषां शून्यता / तेषु अन्यस्य भावः कतमः / ते ष्वेव नैरात्म्यम् / तच्च आत्मनो नास्तिता अनात्मनो ऽस्तिता सती शून्यता // एतदभिसंधायोक्तं भगवता सतो यथाभूतज्ञानं भावः / असतो यथाभूतज्ञानमभावः // अपि खलु त्रिविधा शून्यता / स्वभावशून्यता तथाभावशून्यता प्रकृतिशून्यता च / आद्या परिकल्पिता द्रष्टव्या / तृतीया परिनिष्पन्नस्वभावा द्रष्टव्या //

अनात्मलक्षणं कतमत् / यथात्मवादे स्थितस्य आत्मलक्षणस्य स्कन्धधात्वायतनेषु (अभिध्-स् 41) तल्लक्षणस्याभावः / स्कन्धधात्वायतनेषु आत्मलक्षणाभावतामुपादाय / इदमुच्यते अनात्मलक्षणम् // एतदभिसंघायोक्तं भगवता सर्वे धर्मा अनात्मान इति // अपि चोक्तं भगवता नैतत् सर्वं मम नैषो ऽहमस्मि न मे स आत्मा इति / एवमेतं यथाभूतं संप्रज्ञाय द्रष्ठव्यम् इति तस्य को ऽर्थ उक्तः / बहिर्धावस्तभिसंधायोक्तं नैतत् सर्वं ममेति / कुत एतत् / बहिर्धावस्तुनि कल्पितात्मीयलक्षणम् / अतः आत्मीयनिष्कर्षणम् / अध्यात्मवस्तुनि परिकल्पितात्मात्मीयलक्षणम् / अत आत्मात्मीयोभयनिष्कर्षणम् /

पूर्वमुक्तम् अनित्यं क्षणलक्षणमिति / तत् कथं ज्ञायते / यथा चित्तचैतसिकानां क्षणिकता तथा रूपादीनामपि क्षणिकता द्रष्टव्या / चित्तोपात्ततामुपादाय चित्तैकयोगक्षेमतामुपादाय चित्तविकारतद्विकारतामुपादाय चित्ताश्रयतामुदापादाय चित्ताधिपत्यसंभूततामुपादाय चित्त्वशवर्त्तिनां चोपादाय // अपि खलु अत्यन्तविकारोपालब्धितामुपादाय उत्पन्नस्य चानपेक्ष्य प्रत्ययं स्वरसविनाशितामुपादाय रूपस्यापि क्षणिकता द्रष्टव्या //

यदुक्तं यत्किंचिद्रूपं सर्वन्तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादायेति / तत्किं सन्धायोक्तम् / संभवं सन्धायोक्तम् / एकदेशाश्रयीभावार्थ उपादायार्थः // यत्र पुनः समुदाये यद्भूतमुपलभ्यते तत्तत्रा स्तिति वक्तव्य / (अस्ति एकभौतिकः अस्ति द्विभौतिकः) अस्ति यावत्सार्वभौतिकः / उपादायरूपे ऽपि यदुपादायरूपं यस्मिन् समुदाय उपलभ्यते तत्तत्रास्तीति वेदितव्यम् // यत्पुनरूच्यते परमाणुसंचित्तो रूप समुदाय इति तत्र निःशरीरः (अभिध्-स् 42) परमाणुर्वेदितव्यः / बुद्ध्या पर्यन्तप्रभेदतस्तु परमाणुव्यवस्थानं पिण्डसंज्ञाविभाघनतामुपादाय रूपे द्रव्याः परिनिष्पत्तिप्रवेशतां चोपादाय //

तत् पुनरेतद् दुःखमस्ति विपुलमसंलिखितं संलिखितं संलिखिता संलिखितं च // अस्ति मध्यमसंलिखितम् अस्ति तनुकमसंलिखितम् अस्ति तनुत्तरं संलिखितम् अस्ति तनुतमं संलिखितम् अस्त्यदुःखं दुःखप्रतिभासं महासंलेखप्रत्युपस्थानं च // कतमद्विपुलं दुःखमसंलिखितम् / यत्कामावचरमनुपचितकुशलमूलानाम् // कतमत्संलिखितम् / तदेवोत्पन्नमोक्षभागीयानाम् // कतमत्संलिखितासंलिखितम् / तदेव लौकिकवैराग्यायावरोपितकुशलमूलानाम् // कतमन्मध्यमसंलिखितम् / रूपधातूपपन्नानां विवर्जितमोक्षभागीयानाम् / कतमत्तनुकमसंलिखितम् // आरूप्योपपन्नानां विवर्जितमोक्षभागीयानाम् // कतमत्तनुत्तरं संलिखितम् / यच्छैक्षाणाम् // कतमत्तनुतमं संलिखितम् / यदशैक्षाणां जीवितेन्द्रियप्रत्ययं षडायतनम् // कतमददुःखं दुःखप्रतिभासं महासंलेखप्रत्युपस्थानम् / यत्पारमिप्राप्तानां बोधिसत्त्वानामचिन्त्य भवोपपत्तिषु //

यदुक्तं मरणं दुःखमिति / तत्र मरणं त्रिविधम् / कुशलचित्तस्याव्याकृतचित्तस्य च // पटुके चित्तप्रकारे स्वकुशल मूलबलाधानतो (वा) परोपसंहारतो वा कुशलचित्तस्य मरणं द्रष्टव्यम् // पटुक एव चित्तप्रकारे स्वाकुशलमुलबलाधा नतो वा परोपसंहारतो वा अकुशलचित्तस्य मरणं द्रष्टव्यम् // पटुके वा चित्तप्रकारे अपटुके वा तदुभयवै कल्यादभिसंस्कारासमर्थस्य वा अव्याकृतचित्तस्य मरणं द्रष्टव्यम् // शुभकारिणः अधःकाय स्तत्प्रथमतः शीतीभवति // अशुभकारिणः पुनः ऊर्ध्वंकायः शीतीभवति // तत्राशुभकारिणो ऽन्तराभवो ऽभिनिर्वर्त्तते / तद्यथा कृष्णस्य कुतपस्य निर्भासो ऽन्धकारतमिस्राया वा रात्र्याः // अशुभकारिणस्तद्यथा शुक्लस्य परस्य निर्भासज्योत्स्नाया वा रात्र्याः / अन्तराभव(ः) कामधातौ रूपधातौ चोपपद्यमानस्यारूपधातोश्चयमानस्य / (अभिध्-स् 43) स च मनोमयो गन्धर्व इत्यपि / परं सप्ताहं तिष्ठत्यन्तरेण च्यवते / एकदा च व्यावर्त्तते / तत्रस्थश्च कर्मोपचिनोनि सभागांश्च सत्त्वान् पश्यति / यत्र चोपपद्यते तदाकृतिरप्रतिहतगतिश्च / ऋद्धिमानिव वाशुगामी उपपत्त्यायतने प्रतिहन्यते / उपपत्त्यायतने तुलावनामोन्नामयोगेन च्यवते प्रतिसन्धि च वध्नाति / अन्तराभवस्थश्चोपपत्त्यायतने रागमुत्पादयति / यदन्यश्च क्लेशः प्रत्ययो भवति / सहरागेणान्तराभवो निरुध्यते कललं च सविज्ञानकमुत्पद्यते // स च विपाकस्तत ऊर्ध्वमिन्द्रियाभिन्रिवृत्तिः यथा प्रतित्यसमुत्पादे चतृसृष्वायोनिषु / अण्डजायां जरयुजायां संस्वेदजायामुपपदुकायञ्च // 0 //

(अथ विनिश्चये सत्यपरिच्छेदे प्रथेमे द्वितीयो भागः)

समुदयसत्यं कतमत् / क्लेशः क्लेशाधिपतेयञ्च कर्म // प्राधान्यनिर्द्देशस्तु (? शास्तु) भगवता तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी समुदयसत्यनिर्देशेन निर्दिष्टा // प्राधान्यार्थः कतमः / यः सर्वत्रगार्थः // सर्वत्रगार्थः कतमः / तथ हि तृष्णा वस्तुसर्वत्रगा अवस्थासर्वत्रगा अध्वसर्वत्रगा धातुसर्वत्रगा एषणा सर्वत्रगा प्रकारसर्वत्रगा च केशः कतमः / परिसंख्यानतो ऽपि लक्षणतो ऽप्युत्थान तो ऽप्यालम्बनतो ऽपि संप्रयोगतो ऽपि पर्यायतो ऽपि विप्रतिपत्तितो ऽपि धतुतो ऽपि निकायतो ऽपि प्रहाणतो ऽपि क्लेशो द्रष्टव्यः // परिसंख्यानं कतमत् // षट् क्लेशा दश वा // षट् क्लेशाः कतमत् / रागः प्रतिघो मानो ऽविद्या विचिकित्सा दृष्टिश्च // त एव दृष्टेः पञ्चाकार्जभेदेन दश भवन्ति // लक्षणं कतमत् / यो धर्म उत्पद्यमानो ऽप्रशान्तलक्षण उत्पद्यमानेन येन काय चित्तप्रबन्धाप्रशमप्रवृत्तिः / इदं क्लेशलक्षणम् / उत्थानं कतमत् / क्लेशानुशयश्चाप्रहीणो भवति क्लेशस्थानीयश्च धर्म आभासगतो भवति / तत्र च अयोनिशो मनस्कारः प्रत्यवस्थितो भवति / एवं क्लेश उत्पद्यते / इदमुच्यते उत्थानम् // आलम्बनं कतमत् सर्वक्लेशप्रयोगः // सर्वक्लेशालम्बनं सर्वक्लेशवस्त्वालम्बनं (अभिध्-स् 44) च / अपि खलु कामावचरः क्लेशः स्थापयित्वा अविद्या दृष्टि विचिकित्सां च तदन्यः उर्ध्वभूम्यनालम्बनः / ऊर्ध्वभूमिकः क्लेशः अधोभूम्यनालम्बनः / तद्भूमितो वीतरागत्वात् / निरोधमार्गसत्या लम्बनः क्लेशो निरोधमर्गालम्बनानभिश्लिष्टः / तत्परिकल्पस्त्वस्यालम्बनमित्युच्यते // क्लेशः पुनर्द्विविधः / अवस्तुकालम्बनः सवस्तुकालम्बनश्च // अवस्तुकालम्बनः कतमः दृष्टयो दृष्टिसंप्रयुक्ताश्च धर्माः // तदन्यः सवस्तुकालम्बन इत्युच्यते //

संप्रयोगः कतमः / रागः प्रतिघेन न संप्रयुज्यते / प्रतिघवद्विचिकित्सयापि न संप्रयुज्यते / शिष्टेषु संप्रयोगो लभ्यते // यथा रागस्तथा प्रतिघो ऽपि द्रष्टव्यः // प्रतिघो रागेण मानेन दृष्ट्या च न संप्रयुज्यते // मानः प्रतिघेन विचिकित्सया च न संप्रयुज्यते // अविद्या द्विविधा / सर्वक्लेशसंप्रयुक्ता अविद्या / असामान्या अविद्या / असामान्य अविद्या कतमा / सत्येष्वज्ञानम् // दृष्टिः प्रतिघेन विचिकित्सया च न संप्रयुज्यते // क्रोधादय उपक्लेशा अन्यो ऽन्यं न संप्रयुज्यन्ते // आह्रीक्यमनपत्राप्यं च सर्वत्राकुशले सामान्येन संप्रयुज्येते // स्त्यानमौद्धत्यमाश्रद्ध्यं कौसीद्यं प्रमादश्च सर्वत्र क्लिष्टे संप्रयुज्यते //

पर्यायः कतमः / सर्वक्लेशा नानार्थाश्रया नानवस्थाः पर्यायाः / संयोजनं बन्धनं अनुशयः उपक्लेशः पर्यवस्थानम् ओघः योगः उपादानम् ग्रन्थः निवरणम् खिलः मलः निघः शल्यः किंचनः दुश्चरितम् आस्रवः विघातः परिदाहः रणः ज्वरः वनसः विबन्धः //

संयोजनानि कति कथं संयोजनं कुत्र संयोजनम् / संयोजनानि नव / अनुनयसंयोजनम् प्रतिघसंयोजनम् मानसंयोजनम् अविद्यासंयोजनम् दृष्टिसंयोजनम् परामर्शसंयोजनम् विचिकित्सासंयोजनम् ईर्ष्यासंयोजनम् मात्सर्यसंयोजनं च /

अनुनयसंयोजनं कतमत् / त्रैधातुको रागः / अनुनयसंप्रयोजनेन संप्रयुक्तः त्रैधातुकं नोद्वेजयति / अनुद्वेगेन कुशलसमुदाचारः कुशलासमुदाचारश्च / तेन आयत्यां दुःखाभिनिवृत्तो दुःखेन संयुज्यते //

प्रतिघसंयोजनं कतमत् / सत्त्वेषु दुःखे दुःखस्थानीयेषु न धर्मेषु चित्तस्य विहिंसा / प्रतिघसंयोजनेन संप्रयुक्तो प्रतिघनिमित्तेषु चित्तं नोपेक्षते / अनुपेक्षया च अकुशलसमुदाचारः कुशलासमुदाचारश्च / तेन आयत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //

मानसंयोजनं कतमत् / सप्त मानाः / मानो ऽतिमानो मानतिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च / मानः कतमः / हीनान् श्रेयानस्मि (अ) सदृशेन सदृशो ऽस्मीति वा या चित्तस्योन्नतिः / अतिमानः कतमः / सदृशात् श्रेयानस्मि श्रेयसा सदृशो ऽस्मीति वा या चित्तस्योन्नतिः / मानातिमानः कतमः / श्रेयसः श्रेयानस्मीति या चित्तस्योन्नतिः / अस्मिमानः कतमः / पञ्चसूपादानस्कन्धेष्वात्मात्मीयाभिनिवेशाद्या चित्तस्योन्नतिः / अभिमानः कतमः / अप्राप्त उत्तरे विशेषा धिगमे प्राप्तो मयेति या चित्तस्योन्नतिः / ऊनमानः कतमः / वह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीति या चित्तस्योन्नतिः / मिथ्यामानः कतमः / अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः / मानसंयोजनेन संप्रयुक्त आत्मात्मीयौ न संजानाति / असंज्ञानात् आत्मात्मीयग्रहः अकुशलसमुदाचारः कुशला समुदाचारश्च / तेनायत्यां दुःखाभिनिवृत्तौ दुःखेन संयुज्यते //

अविद्यासंयोजनं कतमत् / त्रैधातुकमज्ञानम् / अविद्यसंयोजनेन संप्रयुक्ता दुःखधर्मान् समुदयधर्मान् नाध्यवस्यति / अनध्यवसायेन अकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःस्वाभिनिवृत्तौ दुःखेन संयुज्यते //

दृष्टिसंयोजनं कतमत् / तिस्रो दृष्ठयः / सत्कायदृष्टिरन्ताग्राहदृष्टिर्मिथ्याःदृष्टिश्च / दृष्टिसंयोजनेन संप्रयुक्तो मिथ्यानिःसरणं परिकल्पितविप्रतिसारं पर्येषने अभिनिविशते / मिथ्यानिःसरणाभिनिवेशेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //

परामर्शसंयोजनं कतमत् / दृष्टिपरामर्शः शीलव्रतपरामर्शश्च / (अभिध्-स् 46) परामर्शसंयोजनेन संप्रयुक्तो मिथ्यानिःसरणोपायं कल्पयत्यभिनिविशते / मिथ्यानिःसरणोपायामिनिवेशेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //

विचिकित्सासंयोजनं कतमत् / सत्येषु विमतिः / विचिकित्सासंयोजनेन संप्रयुक्तो बुद्धधर्मसंघेषु रत्नेषु विचिकित्सते रत्नत्रयं न समुदावरति / रत्नत्रयासमुदाचारेणाकुशलसमुदाचारः कुशलासनुदाचारश्च / तेनायत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //

ईर्ष्यासंयोजनं कतमत् / लाभसत्काराध्यवसितस्य परसंपत्तावमर्षकृतश्चेतसो व्यारोषः / ईर्ष्यासंयोजनेन संप्रयुक्तो लाभसत्कारान् अनुनयति धर्मं न गुरुकरोति / लाभसत्कारगुरुकारेणा कुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //

मात्सर्यसंयोजनं कतमत् / लाभसत्काराध्यवसितस्य परिष्कारेषु चेतस आग्रहः / मात्सर्यसंयोजनेन संप्रयुक्त उपचयमनुनयति त द्वर्जनतां च न सत्करोति / उपचयानुनयेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //

बन्धनं त्रिविधम् / रागबन्धनं द्वेषबन्धनं मोहबन्धनं च / रागबन्धनेन सत्त्वानां विपरीणामदुःखतायां बन्धनम् / द्वेषबन्धनेन सत्त्वानां दुःखदुःखतायां बन्धनम् / मोहबन्धनेन सत्त्वानां संस्कारदुःखतायां बन्धनम् / अपिच रागद्वेषमोहान्निश्रित्य कुशलसमुदाचारेषु न वशवर्त्तितां लभते / अत उच्यते बन्धनम् //

अनुशयाः सप्त / कामरागानुशयः प्रतिघानुशयः भवरागानुशयः मानानुशयः अविद्यानुशयः दृष्टयनुशयः विचिकित्सानुशयश्च / कामरागानुशयः कतमः / कामरागपक्षीयं दौष्ठुल्यम् // प्रतिघानुशयः कतमः / प्रतिघपक्षीयं दौष्ठुल्यम् // भवरागानुशयः कतमः / रूपारूप्यरागपक्षीयं दौष्ठुल्यम् // मानानुशयः कतमः / मानपक्षीयं दोष्ठुल्यम् // अविद्यानुशयः कतमः अविद्यापक्षीयं दौष्ठुल्यम् // दृष्ट्यनुशयः कतमः / दृष्टिपक्षीयं दौष्ठुल्यम् // विचिकित्सानुशयः कतमः / विचिकित्सापक्षीयं दौष्ठुल्यम् // कामैषाणाया अविरतस्य कामरागप्रतिघानुशयावनुशयाते / (अभिध्-स् 47) भवेषणाया अविरतस्य भवरागानुशयो ऽनुशेते / मिथ्याब्रह्मचर्यैषणाया अविरतस्य मानाविद्यादृष्टि विचिकित्सानुशया अनुशेरते / ते सत्त्वा हीनप्रतिपक्षं लभन्ते मदो मानश्चोत्पद्यते आर्यसत्येषु संमोहश्च / मिथ्यामोक्षं मोक्षोपायं च संतोरयन्ति बुद्धशासनधर्मविनयेषु विमतिः विचिकित्सा च //

उपक्लेशस्तु यक्लेशास्ते उपक्लेशा अपि भवन्ति / उपक्लेशास्तु न क्लेशाः / क्लेशान् स्थापयित्वा तदन्यः क्लिष्टः संस्कारस्कन्धसंगृहीतः सर्वश्चैतसिको धर्मः / स पुनः कतमः / षड्रागादीन् क्लेशान् स्थापयित्वा क्लिष्टः संस्कारस्कन्धसंगृहीतः क्रोधादिकश्चैतसिको धर्मः / अपि खलु रागो द्वेषो मोहश्च चैतसिका उपक्लेशा उच्यन्ते / यैश्चित्ते उपक्लेशो न वैराग्यं न विउमोक्षो नावरणप्रहाणम् / अत उच्यन्ते उपक्लेशाः / तथा च भगवतोक्तम् दीर्घरात्रं वो रागद्वेषमोहा उपक्लिश्यन्तुइ विक्षिपन्ति चित्रं संक्लिश्यन्ति /

पर्यवस्थानान्यष्टौ / स्त्यानं मिद्धमौद्धत्यं कौकृत्यमीर्ष्या मात्सर्यमाहिक्यमनपत्राप्यं च / पुनः पुनः उद्वेगेन चित्तं पर्ययनह्यन्तीति पर्यवस्थानानि / तथाच शमथप्रग्रहनिमित्तभावनाकाले तत्सन्निश्रय ब्रह्मचर्या दिशुद्धि संगृहीतशील काले चित्तं पर्यवनह्यन्ति //

ओघश्चतुर्विधः / कामौघः मवौघः दृष्ट्चोघः अविद्यौघश्च / स्त्रोतो ऽनुकूलः प्रवाहावर्त्त ओघार्थः / संकेशान्वयतः / आद्यः कामैषणाभावना / द्वितीयः भवैषणाभावना / अपरावुभौ मिथ्याब्रह्मचर्यैषणाभावना / आश्रयाश्रितसंबन्धयोगेन //

योगश्चतुर्विधः / कामयोगः भवयोगः दृष्टियोगः अविद्यायोगश्च / विसंयोगपरिपन्थकरो योगार्थः / विशुद्धिविपर्ययतः / ते पुनर्यथायोगमेषणात्रयभावना /

उपादानानि चत्वारि / कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानं च / विवादमूलोपादानं पौनर्भविकोपादानं चोपादानं द्रष्टव्यम् / (अभिध्-स् 48) तेन किं भवति / कामरागविबन्धग्रेधासंक्लेशहेतुना गृहिणो ऽन्यो ऽन्यं विवदन्ति / तदु विवादमूलं प्रथममुपादनम् / दृष्टिरागविबन्धग्रेधा संक्लेशहेतुना प्रव्रजिता अन्यो ऽन्यं विवदन्ति / तद् विवादमूलमपरमुपादानत्रयम् // द्वाषष्टिर्दृष्टिगतयो दृष्ट्युपादानम् / नानावृतशीलैः कृच्छ्रं तपः शीलव्रतोपादानम् // तदाश्रिता च सत्कायदृष्टिः आत्मवादोपादानम् // दृष्टिशीलव्रतोपादानाभ्यां तीर्थ्या अन्यो ऽन्यं विवदन्ति / आत्मवादोपादाने तु तीर्थ्या अन्यो ऽन्यं न विवदन्ति / धार्मिकैः सार्धमन्यो ऽन्यं विवदन्ति // एवं च विवादमूले ऽभिनिवेशात् पौनर्भविकदुःखविपाकोपादानाक्षेपाच्चोपादानान्युच्यन्ते /

ग्रन्थाश्चत्वारः / अभिध्याकायग्रन्थः व्यापादकायग्रन्थः शीलव्रत परामर्शकायग्रन्थः तत्सत्याभिनिवेशोपादानकायग्रन्थश्च / समाहितमनःस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थो वेदितव्यः / तेन किं भवति / चतुर्विधं चित्तं विक्षिप्यते / वित्तादिषु अनुनयहेतोः चित्तं विक्षिप्यते / विवादस्तुषु अप्रतिपत्तिहेतोः चित्तं विक्षिप्यते / दुष्करशीलव्रतदुःखहेतोः चित्तं विक्षिप्यते / अयोनिशो ज्ञेय सन्तीरणहेतोः चित्तं विक्षिप्यतेए //

निवरणानि पञ्च / कामच्छन्दनिवरणम् व्यापादनिवरणम् स्त्यानमिद्धनिवरणम् औद्धत्यकौकृत्यनिवरणम् विचिकित्सानिवरणं च / कुशलपक्षस्यासंप्रख्यानं निवरणं द्रष्टव्यम् / तच्च प्रव्रज्यायामभिरतौ चोदनायां प्रतिपत्तौ शमथे प्रग्रहे उपेक्षायां च //

खिलस्त्रिविधः / रागखिलो द्वेषखिलो मोहखिलश्च / रागद्वेषमोहान्निश्रित्य पूर्वाभ्यासेन रागादिचर्यापरिनिष्पादनम् / चित्तस्यादान्ततया अकर्मण्यतया दुर्विमोक्षतया च सत्त्वैस्तस्याश्चर्याया दुर्भेद्यत्वात् खिल इत्युच्यते //

मलास्त्रयः / रागमलो द्वेषमलो मोहमलश्च / तच्च रागद्वेषमोहान्निश्रित्य (अभिध्-स् 49) दौशीलम् / तत् संप्रजानब्दिः सब्रह्मचारिभिर्ग्रामे वा अरण्ये वा तथा कुर्वन्तं पश्यद्भिरुच्यते अयं खल्वायुष्मान् करोत्येवं कृत्यं चरत्येवमाचरितं ग्रामकण्टक आमिषो ऽशुचिः / अतो मला नाम //

निघास्त्रयः / रागनिघो द्वेषनिघो मोहनिघश्च / रागद्वेषमोहान्निश्रित्य दीर्घकालं पुनः पुनर्जातिमरणेषु विलश्यन्ते इत्युच्यन्ते निघाः //

शल्यास्त्रयः / रागशल्यो द्वेषशल्यो मोहशल्यश्च / रागद्वेषमोहान्निश्रित्य भवे भवोपकरणेषु वा अध्येषणासमुत्पादेन प्रबन्धानुपच्छेदेन बुद्धे धर्मे संघे दुःखसमुदयनिरोधमार्गेषु वा विचिकित्सासमुत्पादेन वा शल्या नाम //

किंचनास्त्रयः / रागकिंचनो द्वेषकिंचनो मोहकिंचनश्च / रागद्वेषमोहान्निश्रित्य वित्तसंचयेषु सभयाः सवैरा भूयो विहारविक्षेपाः किंचना नाम /

दुश्चरितानि त्रीणि / रागदुश्चरितं द्वेषदुश्चरितं मोहदुश्चरितं च / रागद्वेषमोहान्निश्रित्य कायवाङ्मनोदुश्चरितानि चरन्तीति दुश्चरितानीत्युच्यते / पुनः रागद्वेषमोहान्निश्रित्योत्पन्नानां बहूनामकुशलदुश्चरितानामकुशलमूलत्वेन त्रिभिर्व्यवस्थानम् / तत् कथम् / सत्त्वा लोके आमिषकिंचित्कहतो चरन्ति / लोके ऽपकार निमित्तपरिकल्पहतोः दुश्चरितं चरन्ति / लोके मिथ्याधर्माभिनिवेशहेतोः दुश्चरितं चरन्ति / इति ते रागद्वेषमोहा दुश्चरितानि अकुशलमूलानि /

आस्रवास्रयः / कामास्रवो भवास्रवो ऽविद्यास्रवश्च / चित्तावेसारं स्त्रतं कुर्वन्ती त्यास्रवाः इत्युच्यन्ते / ते पुनः कथम् / बहिर्धा विसारं निश्रित्य कामास्रवः / अन्तर्धाविसारं निश्रित्य भवास्रवः / तदुभयाश्रयविसारं निश्रित्य अविद्यास्रवः //

विघातास्त्रयः / रागविघातो द्वेषविघातो मोहविघातश्च / रागद्वेषमोहान्निश्रित्य भवे परिष्करेषु वा एषणा / अभावे विघाते सर्वदा दारिद्य दुःखादिभिः क्लिष्टा भवन्तीति विघाताः /

परिदाहास्त्रयः / रागपरिदाहो द्वेषपरिदाहो मोहपरिदाहश्च / रागद्वेषमोहसन्निश्रयेण अयोनिशो निमित्ताभिनिवेशो ऽनुव्यञ्जनाभिनिवेशश्च / तेन निमित्तानुव्यञ्जनाभिनिवेशेन कायं चित्तं च परिदहन्तीति परिदाहाः //

उपायासास्त्रयः / रागोपायासो द्वेषोपायासो मोहोपायसश्च / रागद्वेषमोहसन्निश्रयेण तत्र तत्र रतिरध्यवसानं च / तद्विपरिणामे शोकपरिदेवनादुःखदौर्मनस्योपायसैः स्पृष्टा भवन्तीत्यु पायासाः //

रणास्त्रयः / रागरणो द्वेषरणो मोहरणश्च / रागद्वेषमोहसन्निश्रयेण शस्त्रादानदण्डादिभिः रणयन्ति नानाविधं भण्डनं कलहं कुर्वन्तीति रागादयो रणा उच्यन्ते //

ज्वरास्त्रयः / रागज्वरो द्वेषज्वरो मोह ज्वरश्च / रागद्वेषमोहसन्निश्रयेण अधर्मरागेण महादहनेन परिदहन्ति विषमलोभेन महादहनेन परिदहन्ति मिथ्याधर्मेण महादहनेन परिदहन्तीति ज्वरा नाम //

वनसास्त्रयः / रागवनसो द्वेषवनसो मोहवनसश्च / रागद्वेषमोहसन्निश्रयेण जातिमरणमूलेषु संस्कारेषु संयोजयन्ति संजनयन्ति सत्त्वान् नानाविधकायेषु पञ्चगतिसंसारेषु अभिनिर्वर्त्तयन्तीति रागादयो वनसा इत्युच्यन्ते //

विबन्धास्त्रयः / रागविबन्धो द्वेषविबन्धो मोहविबन्धश्च / रागद्वेषमोहसन्निश्रयेण कायसापेक्षता वित्तसापेक्षता बोध्यभावः कोलाहलरतिः परित्तकुशलधर्मलाभे ऽपि सन्तोषः / तैः कुशलधर्मान्न भावयन्तीति विबन्धाः उच्यन्ते / एवमादयः क्लेशार्थानां पर्याया अप्रमाणाः //

विप्रतिपत्तिः कतमा / रागः प्रतिघश्च द्वौ क्लेशौ विषये दृष्टौ च विप्रतिपन्नौ / (अभिध्-स् 51) मानः सत्त्वेषु दृष्टौ च विप्रतिपन्नः / सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः / दृष्टिपरामर्शशीलव्रतपरामर्शौ दृष्टौ विप्रतिपन्नौ / विचिकित्सा प्रतिपक्षे विप्रतिपन्ना / अविद्या सर्वत्र विप्रतिपन्ना / दश क्लेशा दुःखे समुदये च विप्रतिपन्नाः / तन्निदानपदस्थानतः / पुनः दश क्लेशा निरोधे मार्गे च विप्रतिपन्नाः / तैस्तत्रोत्राससंजननतः //

धातु कतमः / प्रतिघं स्थापयित्वा तदन्ये सर्वे त्रैधातुकप्रतिसंयुक्ताः / प्रतिघस्तु कामधातुप्रतिसंयुक्तः / अपि खलु रागः कामधातौ सुखसौमनस्योपेक्षाभि संप्रयुज्यते / यथा कामधातौ तथा प्रथमद्वितीयध्यानयोः / तृतीयध्याने सुखोपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वमुपेक्षया संप्रयुज्यते // प्रतिघो दुःखदौर्मनस्योसुखोपेक्षाभिः संप्रयुज्यते // मानः कामधातौ सौमनस्योपेक्षाभिः संप्रयुज्यते / प्रथमद्वितीयध्यानयो सुखसौमनस्योपेक्षाभिः संप्रयुज्यते / तृतीयध्याने सुखोपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वमुपेक्षयैव संप्रयुज्यते // यथा मानस्तथा सत्कायदृष्टिः अन्तग्राहदृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्शश्च // मिथ्यादृष्टिः कामधातौ दौर्मनस्यसौमनस्योपेक्षाभिः संप्रयुज्यते / रूपधातावारुप्यधातौ च यथावेदितं संप्रयुज्यते // विचिकित्सा कामधातौ दौरमनस्योपेक्षाभ्यां संप्रयुज्यते / रूपधातावारूप्यधातौ च यथावेदितं संप्रयुज्यते // अविद्या द्विविधा / संप्रयुक्ता असामान्या च / सर्वक्लेशसंप्रयोगतः संप्रयुक्ता अविद्या यथावेदितं संप्रयुज्यते / आसामान्या अविद्या कामधातौ दौर्मनस्योपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वधातौ यथावेदितं संप्रयुज्यते // कथं सर्वक्लेशा उपेक्षया संप्रयुज्यन्ते / सर्वक्लेशानामौदासीन्यमागम्यास्तगमनतामुपादाय // अपि खलु रागः कामधातौ षड्विज्ञानकायिकः // यथा रागस्तथा प्रतिघो ऽविद्या च // रागो रूपधातौ चतुर्विज्ञानकायिकाः / आरूप्यधातौ मनोविज्ञानकायिकः // यथा रागस्तथा अविद्या // मानो दृष्टिर्विचिकित्सा च सर्वत्र मनोविज्ञानकायिकाः // अपि खलु रागः प्रतिघो मानश्च कामधातौ वस्त्वेकदेशप्रवृत्तिकाः / कामधातुवद् रूपधातावारूप्यधातावपि शिष्टाः क्लेशाः सर्वत्र सर्ववस्तु प्रवृत्तिकाः //

निकायः कतमः / द्वौ क्लेशनिकायौ / दर्शनप्रहातव्यनिकायो भावनाप्रहातव्यनिकायश्च / दर्शनप्रहातव्यनिकायः पुनश्चतुर्विधः / दुःखदर्शनप्रहातव्यनिकायः समुदयदर्शनप्रहातव्यनिकायः / निरोधदर्शनप्रहातव्यनिकायः मार्गदर्शनप्रहातव्यनिकायश्च / कामधातौ दुःखदर्शनप्रहातव्या दश क्लेशाः / दुःखदर्शनप्रहातव्यवत् समुदयदर्शनप्रहातव्याः निरोधदर्शनप्रहातव्या मार्गदर्शनप्रहातव्याश्च / रूपधातौ दुःखादिचतुर्विधदर्शनप्रहातव्याः प्रत्येकं नवक्लेशाः स्थापयित्वा प्रतिघम् / रूपधातुवदारूप्यधातावपि / एवं च दर्शनप्रहातव्यक्लेशनिकाया द्वादशाधिकं शतं क्लेशाः // कामधातौ भावना प्रहातव्याः षट्क्लेशाः / सहजा सत्कायदृष्टिः अन्तप्राहदृष्टिः रागः प्रतिघो मानो ऽविद्या च / रूपधातौ भावनाप्रहातव्याः पञ्च क्लेशाः स्थापयित्वा प्रतिघम् / रूपधातुवदारूप्यधातावपि / एवं च भावनाप्रहातव्यनिकायाः षष्टिः क्लेशाः //

प्रहाणं कतमत् / तथा पर्यायप्रहाणं तेन मनस्कारेण प्रहाणम् / तस्मात् प्रतिलम्भात् प्रहाणम् / तथा पर्यायप्रहाणं कतमत् / परिज्ञानतः परिवर्जनतः प्रतिपक्षलाभतश्च / परिज्ञानं कतमत् / तन्निदानवस्तुपरिज्ञानम् स्वभावपरिज्ञानम् आदीनवपरिज्ञानं च / परिवर्जनं कतमत् / तत्कालोत्पन्नस्यानादानम् / प्रतिपक्षलाभः कतमः / अनुत्पन्नस्यानुत्पादत उत्पन्नस्य वर्जनतो वा प्रतिपक्ष लाभमार्गः // तेन मनस्कारेण प्रहाणम् / कीदृशेन मनस्कारेण किं प्रजहाति / असंभिन्नालम्बनेन मनस्कारेण सर्वधर्मा अनात्मान इति पश्यति / अनित्याकारा इति क्लेशान् प्रजहाति / अनित्याकार परिकर्मतः // तस्मात् प्रतिलम्भात् प्रहाणम् / कस्मात् प्रतिलम्भात् प्रजहाति / नातीतात् निरुद्धतः / नानागतात् अनुत्पन्नतः / न प्रत्युत्पन्नात् असहभावतः / केवलं क्लेशदौष्ठुल्यप्रतिलम्भात् प्रजहातीति प्रहाणम् / यथा यथा दौष्ठुल्यमुत्पद्यते तथा तथा प्रतिपक्ष उत्पद्यते यथा यथा प्रतिपक्ष उत्पद्यते तथा तथा दौष्ठुल्यनिरोधः / समं समम् / यथा (अभिध्-स् 53) लोके ज्योतिरुत्पद्यते तमश्च निरुध्यते / तद्विसंयोगतो यदानागतक्लेशो ऽनुत्पन्नधमषु अवतिष्ठते तत् प्रहाणमुच्यते //

क्लेशाधिपतेयं कर्म कतमत् / चेतना कर्म चेतयित्वा कर्म च / सर्वं कर्मलक्षणं नाम // पुनः कर्म पञ्चविधम् / उपलब्धिकर्म कारित्रकर्म व्यवसायकर्म परिणतिकर्म प्राप्तिकर्म च / अस्मिंस्त्वर्थे यद् भूयसा व्यवसायकर्माभिप्रेतम् // चेतनाकर्म कतमत् / पुण्यकर्म अपुण्यकर्म आनिंज्यकर्म च // चेतयित्वा कर्म कतमत् / कायकर्म वाक्कर्म मनस्कर्म च / तानि त्रीणि कायवाङ्मनस्कर्माणि अकुशलानि कुशलानि च / अकुशलानि कतमानि दशाकुशलकर्मपथाः / प्राणातिपातः अदत्तादानम् काममिथ्याचारः मृषावादः पिशुनवाक् परुषवाक् संभिन्नप्रलापः अभिद्या व्यापादः मिथ्यादृष्टिश्च / कुशलानि कतमानि / दश कुशलकर्मापथाः / प्राणातिपाताद् विरतिः अदत्तादानाद्विरतिः काममिथ्याचाराद्विरतिः मृषावादाद्विरतिः पिशुनवाचो विरतिः परुषवाचो विरतिः संभिन्नप्रलापाद्विरतिः अनभिध्या अव्यापादः सम्यग्दृष्टिश्च // अपिच प्राणातिपातादीनां यथायोगं पञ्च लक्षणप्रभेदाः / वस्तुतः आशयतः प्रयोगतः क्लेशतः निष्ठागमनतश्च //

यदुक्तं सूत्रे चेतनाकर्म / कतमानि चेतनाकर्माणि पराज्ञप्तिसंचेतनीयताकर्म परमसंज्ञप्तिसंचेततीयताकर्म अविज्ञायसंचेतनीयताकर्म मूलाभिनिवेशसचेतनीयताकर्म विपर्याससंचेतनीयताकर्म च / तेषु मूलाभिनिवेशसंचेतनीयताकर्म विपर्यासंचेतन यता कर्म च / तेषु मूलाभिनिवेशसंचेतनीयता कर्मविपर्याससंचेतनीयताकर्मभ्यां यदि कृतं भवत्युपचितं च न नास्य विपाकः प्रतिसंवेद्यते / कृतं समुदाचारसमुत्थापितम् / उपचितं च वासना समुपचितम् //

यदूक्तं सूत्रे नियतवेदनीयं कर्म इति / कतमे नियप्ताः कर्मकियानियमः विपाकपतिसंवेदनानियमः अवस्थानियमश्च //

तन्न दशानामकुशलानां कर्मपथानां विपाकफलं त्रिषु अपायेषु / मृदूमध्याधिमात्राणां तिर्यक्प्रेतनरकेषु विपाकः / निप्यन्दफलं प्रत्येकं तदानुरूप्येण मनुष्येषूपनन्नाना मात्मभावपरिग्रहयोर्विपत्तिः / अधिपतिफलं प्रत्येकं तदानुरूप्येणैव वाह्यानां भावानां विपत्तिः / यथोक्तं सूत्रे / दशानां कुशलानां कर्मपथानां विपाकफलं देवमनुष्यमतिषूपपद्यमानानां देवेषु मनुष्येषु वा विपाकः / निष्यन्दफलं तदायतनेषु प्रत्येकं तदानुरूप्येण आत्माभावपरिग्रहयोः संपत्तिरभिनिर्वर्त्तते / अधिपत्तिफलं तदायतनेषु प्रत्येकं तदानुरूप्येणैव वाह्यानां भावानां संपत्तिरभिनिर्वर्त्तते /

कुशलानामकुशलानां च कर्मणां सुगतौ दुर्गतौ च विपाको ऽभिनिर्वर्त्तते / तच्चाक्षेपकेण कर्मणा परिपूरकेण च कर्मणा / आक्षेपकं कर्म कतमत् / येन फल विपाको ऽभिनिर्वर्त्तते / परिपूरकं कर्म कतमत् / येनोपपन्न इष्टानिष्टफलं वेदयते / येन एकेन कर्मणा एकमात्मभवनाक्षिपति वा अनेकेन कर्मणा एकमात्मभावमाक्षिपति वा अनेकेन कर्मणा अनेकमात्मभावमाक्षिपति वा // एकः सत्त्वो ऽनेकेन कर्मणा समन्वागतः / तत्र विपाकफलवेदनायाः कः क्रमः / काये यद् औदारिकं पूर्वं पच्यते च्युतिकाले प्रत्युपस्थितं वा पूर्वं बहुलीकारतां गतं वा अत्रसमाचरितं वा / तद्विपाकः पूर्वं पच्यते //

यदुक्तं सूत्रे त्रिविधं कर्म पुण्यकर्म अपुण्य कर्म आनिंज्यकर्म च / पुण्यकर्म कतमत् / कामप्रतिसंयुक्तं कुशलं कर्म / अपुण्यकर्म कतमत् / अकुशलं कर्म / आनिंज्यकर्म कतमत् / रूपारूप्यप्रतिसंयुक्तं कुशलं कर्म // यदुक्तं सूत्रे अविद्यालम्बनाः संस्काराः पुण्यानिंज्या अपुण्यानिंज्याश्चेति / कतमे (अभिध्-स् 55) पुण्यानिंज्या अविद्यालम्बनाः संस्कारा उत्पद्यन्ते / द्विविधः संमूढः / फलविपाकसंमूढः तत्त्वार्थसंमूढश्च / फलविपाकसंमूढस्यापुण्याः संस्काराः / तत्त्वार्थसंमूढस्य पुण्यानिंज्याः संस्काराः /

प्राणातिपातस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / द्वेषेणैव निष्ठा / प्राणातिपातवत् परुषवागव्यापादयोरपि कर्मपथयोः / अदत्तादानस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / लोभेनैव निष्ठा / अदत्तादानवत् काममिथ्याचाराभिध्ययोः कर्मपथयोः / मृषावादस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / त्रयाणामन्यतमेन निष्ठा / मृषावादवत् संभिन्नप्रलापपिशुनवाचोः कर्मपथयोः / मिथ्यादृष्टेः कर्मपथस्य रागद्वेषमोहैः प्रयोगः / मोहेनैव निष्ठा /

यदुक्तं सूत्रे साधारणं कर्म असाधारणं कर्म वलवत्कर्म दुर्वलं कर्म च / साधारणं कर्म कतमत् / यत्कर्म भाजनलोके नानाविधं विकल्पं करोति // असाधारणं कर्म कतमत् / यत्कर्म सत्त्वलोके नानविधं विकल्पं करोति // अपि च सत्त्वानामन्योन्याधिपतेयं कर्मापि / येन कर्मबलेन सत्त्वानामन्योन्याधिपतिप्रत्ययः प्रोक्तः / तेषामन्योन्याधिपतिबलतस्तदप्युच्यते साधारणं कर्म / यतः सूत्रे उक्तम् / यथा सत्त्वानामान्यैः सत्त्वैः सह अन्योन्यं दर्शनादिकं नोपभोगो नोपलब्धिः / बलवत्कर्म कतमत् / प्रतिपक्षबलवत्पुग्दलस्य संचेतनीयमकुशलं कर्म / प्रतिपक्षवलविस्काम्भणेन वेदनीयनरककर्मप्रवृत्तेः दृष्टधर्मवेदनायाः परिनिष्पादनं दृष्टधर्मवेदनीयनरककर्मप्रवृत्तेरनुत्पादः / येन तत्कर्म बलवदित्युच्यते / प्रातिपक्षिककर्मबलवतः सर्वं संचेतनीयं कुशलं कर्म बलवदित्युच्यते / तत्कर्म निश्रित्योक्तं भगवता ममार्यश्रावका अप्रमाणवैपुल्यकर्मणि चित्तं कुशलं परिभावयन्ति अभिसंस्कृते सप्रमाणे कर्मणि नाक्षिपन्ति नावस्थापयन्ति न परिहापयन्ति तत्संख्याते / यदपि प्रतिपक्षदुर्बलपुग्दलस्य संचेतनीयमकुशलं कर्म तदपि कुशलात्कर्मणो (अभिध्-स् 56) बलवदित्युच्यते / यत् पुनः संचेतनीयं कर्म नियतविपाकमप्रहीणमपरिज्ञातं तद् बलवत् कर्म इत्युच्यते / तन्मनसि निधायोक्तं सर्वं च कुशलाकुशलं कर्म नियतविपाकमार्यमार्गेण प्रहीणं बलवत् कर्म इत्युच्यते / यदपि कामप्रतिसंयुक्तमकुशलं कर्म यदपि पूर्वमभ्यस्तं यदपि पदस्थं यदप्यसाध्यमभिसंस्कृतं कर्म अपरिनिर्वाणधर्मतः तदपि प्रकृत्या बलवत् कर्म इत्युच्यते / क्षेत्रतो ऽपि चित्ताभिसंस्कारतो ऽपि बलवत् कर्म वेदितव्यम् / पुनर्नवभिराकारैर्बलवत् कर्म वेदितव्यम् / तद्यथा क्षेत्रतः वस्तुतः स्वभावतः आश्रयतः मनसिकारतः आशयतः सहायतः बहुलीकारतः बाहुजन्यतश्च // तद्विपर्येण दुर्बलं कर्म //

भगवतोक्तं य एवं वदेद्यथायं पुरुषपुग्दलः कर्म करोत्युपचिनोति तथा तथा विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यभासो न भवत्यवकाशश्च न प्रज्ञायते सम्यग् दुःखक्षयाय दुःखस्यान्तक्रियायै / यस्त्वेवं वदेद्यथायं पुरुषपुग्दलो यथावेदनीयं कर्म करोत्युपचिनोति तथा तथा यथावेदनीयं विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यभासो भवत्यवकाशश्च प्रज्ञायते सम्यग् दुःखक्षयाय दुःखस्यान्तक्रियायै / इति यदुक्तं सूत्रे तत्र को ऽभिसंधिः / तत्र बुद्धा मनस्येवं मिथ्यावचनं प्रतिषेद्धुं कामयन्ते / यत् सुखसहगतस्य कर्मणः सुखसहगत एव विपाको ऽभिनिर्वर्त्तते दुःखसहगतस्य कर्मणो दुःखसहगत एव विपाको ऽभिनिर्वर्त्तते अदुःखासुखसहगतस्य कर्मणस्तत्सहगत एव विपाको ऽभिनिर्वर्त्तते / इत्येवमुक्तम् / सम्यग्वचनं त्वेवमनुमन्यते / सुखसहगतस्य कर्मणः सुखवेदनीयस्य सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / दुःखसहगतस्य कर्मणः सुखवेदनीयस्य सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / अदुःखासुखसहगतस्य कर्मणः सुखवेदनीयस्य (अभिध्-स् 57) सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / एषो ऽभिसन्धिः तत्र सूत्रे /

अपि खलु कर्मप्रभेदस्त्रिविधः / संवरकर्म असंवरकर्म नैवसंवरनासंवरकर्म च / संवरकर्म कतमत् / प्रातिमोक्षसंवरसंगृहीतं कर्म ध्यानसंवरसंगृहीतं कर्म अनास्रवसंवरसंगृहीतं कर्म च // प्रातिमोक्षसंवरसंगृहीतं कर्म कतमत् / सप्त संघोपपन्नानां संवराः / भिक्षुसंवरः भिक्षुणीसंवरः शिक्षमाणवसंवरः श्रामणेरसंवरः श्रामणेरी संवरः उपासकसंवरः उपासिकासंवरः उपवाससंवरश्च // कतमं पुग्दलमधिकृत्य प्रव्रजितसंवरो व्यवस्थापितः / दुश्चरितविवेकचरितं कामविवेकचरितं पुग्दलमधिकृत्य / कं पुग्दलमधिकृत्य उपासकोपासिकासंवरो व्यवस्थापितः / दुश्चरितविवेकचरितमधिकृत्य नो तु कामविवेकचरितं पुग्दलम् // कं पुग्दलमधिकृत्योपवाससंवरो व्यवस्थापितः / नैव दुश्चरितविवेकचरितं न कामविवेकचरितं पुग्दलमधिकृत्य // उपासकानामेकत्यानां शिक्षास्यानीयानां शिक्षसमवागम इत्युच्यते / उपासकसंवरो ऽसमन्वागम इत्युच्यते / उक्तः समन्वागमः शीलविपत्तिरप्युच्यते / यथा षण्डपण्डकानाम् / तेषा मुपासकसंवरः प्रतिषिध्यते न वा / तेषामुपासकसंवरो न प्रतिषिध्यते / केवलं तेषामुपासकत्वं प्रतिषिध्यते / भिक्षुभिक्षुणीनामुभयप्रव्रजितानां संघस्य पक्षस्य संसेवोपासनायोग्यत्वात् / पण्डकः पुनः पञ्चविधः / जातिपण्डकः ईर्ष्यापण्डकः पक्षपण्डकः आसेचनकपण्डकः आपत्पण्डकश्च //

ध्यानसंवरसंगृहितं कर्म कतमत् / दौःशील्यसमुत्थापकानां क्लेशानां वीजोपघाते सति कामेभ्यो वीतरागस्य या विरतिः / प्रथमध्यानवीतरागस्य या विरतिः / द्वितीयध्यनवीतरागस्य या विरतिः / तृतीयध्यानवीतरागस्य या विरतिः / सोच्यते ध्यानसंवरसंगृहीतं कायवाक्कर्म /

अनास्रवसंवरसंगृहीतं कर्म कतमत् / सत्यदर्शनेन अनास्रवमनस्कारबलेन प्रतिलब्धा अनास्रवा विरतिः / सोच्यते अनास्रवसंवरसंगृहीतं कर्म //

असंवरकर्म कतमत् / अभिजन्मतो वा तत्कर्मसमादानतो वा तत्कर्माध्याचारनिश्चयः असंवर इत्युच्यते / ते पुनरसंवराः कतमे / औरभ्रिकाः कौक्कृटिकाः शौकरिकाः शाकुनिकाः मात्स्यिकाः लुब्धकाः वागुरिकाः चोराः घातकाः गोवंधकाः नागवंधकाः माण्डलिकाः नागमण्डलिकाः कारागारिकाः सूचकाः उपघातकाः प्रभृतयः /

नैवसंवरनासंवर संगृहीतं कर्म कतमत् / नैवसंवरनासंवरविहारः कुशलाकुशलं कर्म //

पुनः कर्मप्रभेदस्त्रिविधः / सुखवेदनीयं कर्म दुःखवेदनीयं कर्म अदुःखासुखवेदनीयं कर्म च // सुखवेदनीयं कर्म कतमत् / कामावचरात् तृतीयध्यानं यावद् यत् कुशलं कर्म // दुःखवेदनीयं कर्म कतमत् / अकुशलं कर्म // अदुःखासुखवेदनीयं कर्म कतमत् / तृतीयध्यानादूर्ध्वं यत् कुशलं कर्म /

कर्मप्रभेदः पुनस्त्रिविधः / दृष्टधर्मवेदनीयं कर्म उपपद्यवेदनीयं कर्म अपरपर्यायवेदनीयं कर्म च // दृष्टधर्मवेदनीयं कर्म कतमत् / तत्कर्म दृष्टे धर्मे यस्य विपाको विपच्यते / तच्च मैत्रीसमापत्तेरुच्चलितस्यं परिहाणिं वृद्धिं वा कुर्वतः दृष्टे धर्मे विपाको लभ्यते // यथा मैत्रीसमापत्तेरुच्चलितस्य तथा अरणसमापत्तेरुच्चलितस्य निउरोधसमापत्तेरुच्चलितस्य स्त्रोतापत्तिफलादुच्चलितस्य अर्हत्त्वफलादुच्चलितस्य च / बुद्धप्रमुखे संघे कुशलमकुशलं च कुर्वतः दृष्टे धर्मे विपाको लभ्यते // अन्येषां तीव्राशयप्रयोगेण कुशलाकुशलकर्मप्रतिपन्नानामपि दृष्टे धर्मे विपाको लभ्यते // उपपद्यवेदनीयं कर्म कतमत् / तत्कर्म अनन्तरे जन्मनि यस्य विपाको विपच्यते / (अभिध्-स् 59) तद्यथा पंचनान्तर्यकर्माणि / अपि च यान्यन्यानि कुशलाकुशलानि कर्माणि येषामनन्तरे जन्मनि विपाको विपच्यते तत्सर्वमुच्यते उपपद्यवेदनीयं कर्म // अपरपर्यायवेदनीयं कर्म कतमत् / तत्कर्म यस्यानन्तरजन्मनो ऽपरपर्यायेषु विपाको विपच्यते / तदुच्यते ऽपरपर्यायवेदनीयं कर्म /

पुनः कर्मप्रभेदश्चतुर्विधः / कृष्णं कृष्णविपाकं कर्म शुक्लं शुक्लविपाकं कर्म कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म अकृष्णशुक्लाविपाकं व्यामिश्रं कर्म // कृष्णं कृष्णविपाकं कर्म कतमत् / अकुशलं कर्म // शुक्लं शुक्लविपाकं कर्म कतमत् / त्रैधातुकं कुशलं कर्म // कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म कतमत् / कामप्रतिसंयुक्तं कर्म यत् कर्म वा आशयतः प्रयोगतो वा शुक्लं यत् कर्म वा प्रयोगतः कृष्णमाशयतः शुक्लम् // अकृष्णशुक्लाविपाकं व्यामिश्रं कर्म कतमत् / प्रयोगानन्तर्यमार्गे ऽनास्रवं कर्म अविशेषेण च सर्वस्यानास्रवकर्मणः परिपन्थमानुकूल्यस्वभावमधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च कर्मणां यथाक्रमं व्यवस्थानं वेदितव्यम् / तथा च दानानि शौचेयानि कर्माणि / दानकर्म कतमत् / निदानतः उत्थानतः प्रदेशतः स्वभावतश्च दानकर्म विकल्प्यते / निदानम् अलोभो ऽद्वेषो ऽमोहश्च कुशलमूलानि // उत्थानं तान्येव चेतनासहगतानि // प्रदेशो देयानि वस्तूनि // स्वभावो दानसंपत्तिकाले कायवाङ्मनस्कर्माणि // दानसंपत् कतमा / अभीक्ष्णदानतः अपक्षपातदानतः इच्छापरिपूरणदानतश्च दानसंपद् वेदितव्या / अपि च अनिश्रितदानतः महाशुचिदानतः परम प्रहृष्टदानतः अभिक्ष्णदानतः क्षेत्रभाजनदानतः नवपुराणसंविभागदानतश्च दानसंपद् वेदितव्या // देयसंपत् कतमा / अनभिदुतदेयवस्तुतः अपरापकृतदेयवस्तुतः अकुथितविमलदेयवस्तुतः शुचिदेयवस्तुतः धर्मार्जितदेयवस्तुतश्च देयसंपद् वेदितव्या //

तथाचोक्तं सूत्रे शीलसमन्वागतः प्रातिमोक्षसंवरसंवृत आचारगोचरसंपन्नो ऽणुमात्रेष्ववद्येषु महाभयदर्शी शिक्षते शिक्षापदेषु इति // कथं शीलसमन्वागतो भवति / विशुद्धशीलनुप्क्षणोपपन्नतः // कथं प्रातिमोक्षसंवरसंवृतो भवति / नैर्याणिकशीलसंधारणतः // कथमाचारगोचरसंपन्नो भवति / विशुद्धशीलसहभावतो ऽगर्हितानाम् // कथमणुमात्रेष्ववद्येषु महाभयदर्शी भवति // तीव्रेण गौरवेण शीलशिक्षणतः // कथं शिक्षते शिक्षापदेषु / शिक्षाशीलानां शिक्षणतः //

अतः परं शीलमारभ्य यद् बुद्धेन सूत्रेषु निर्दृष्टं कायेन संवृतो भवतीत्येवमादि // कथमुच्यते कायेन वाचा संवृतो भवति / संप्रजन्यपरिगृहीततः // कथं कायवाक्संपत्त्या संपन्नो भवति / आपत्त्यनापत्तिदानतः // कथं परिशुद्धकायवाक्समुदाचारो भवति / अविप्रतिसारादीनां क्रमेण संप्रतिपत्त्या यावत् समाधिलाभसन्निश्रय तः // कथं कुशलकायवाक्समुदाचारो भवति / क्लिष्टवितर्कव्यवतीर्णतः // कथमनवद्यकायवाक्समुदाचारो भवति / मिथ्याप्रणिधिपरिवर्जनेन ब्रह्मचर्यभावनातः // कथमव्यावध्यकायवाक्समुदाचारो भवति / परेषामनवज्ञया सुखसंवासतः / कथमानुलोमिकायवाक्समुदाचारो भवति / निर्वाणप्राप्त्यनुकूलतः / कथ मनुच्छविककायवाक्समुदाचारो भवति / कुशलस्य च्छादनतो ऽकुशलस्य प्रकाशनतश्च // कथमौपयिककायवाक्समुदाचारो भवति / सब्रह्मचर्यग्रहणशीलतः // कथं प्रतिरूपकायवाक्समुदाचारो भवति / गुरुषु गुरुस्थानीयेषु चानिहितमानतः // कथं प्रदक्षिणकायायवाक्समुदाचारो भवति / अववादे प्रदक्षिणप्राहिततः // कथमतप्तकायवाक्समुदाचारो भवति / कष्टपोहीनाधिमुक्ति विवर्जिततः // कथमतनुताप्यकायवाक्समुदाचारो भवति / समुत्सृष्टभोगकर्मान्ताविप्रतिसारितः / कथमविप्रतिसारिकायवाक्समुदाचारो भवति / अल्पमात्रेणासंतुष्टाविप्रतिसारितया //

यदुक्तं भगवता यथा सत्त्वाः / कर्मस्वका कर्मदायादाः कर्मयोनीयाः कर्मप्रतिसरणाः कर्म सर्वान् सत्त्वान् विभजति उच्चनीचतया हीनप्रणीततया (अभिध्-स् 61) इति // कथं सत्त्वाः कर्मस्वका भवन्ति / स्वयंकृतकर्मनिपाकप्रतिसंवेदनातामुपादय // कथं कर्मदायादा भवन्ति / स्वयं कृतकर्मविपाकप्रतिसंवेदनतायां कुशलाकुशलानां कर्मणामन्योन्यदायादतामुपादाय // कथं कर्मयोनीया भवन्ति / सत्त्वानां महेतुविषमहेतुविवर्जितयोनितामुपादाय // कथं कर्मप्रतिसरणा भवन्ति / प्रतिपक्षकर्मविशिष्टकर्मबन्धनाश्रयतामुपादाय // कथं कर्मणा सत्त्वो उच्चनीचा भवन्ति / यत् कर्मणा सुगतौ दुर्गतौ वात्मभावप्रभेदं लभन्ते // कथं हीनप्रणीता भवन्ति / यत् सत्त्वा गुणदोषप्रभेदेन समन्वागता भवन्ति //

यदुक्तं भगवता सत्त्वानां कर्मविपाको ऽचिन्त्य इति / तत्र कथं कर्मविपाकश्चिन्त्यः कथं कर्मविपाको ऽचिन्त्यः / कुशलस्य कर्मणो देवमनुष्यगतिस्विष्ट विपाकला भश्चिन्त्यः / अकुशलस्य कर्मणो हीनासु तिसृषु दुर्गतिषु अनिष्टविपाकलाभश्चिन्त्यः / अयं चिन्त्यः // येन कर्मणा सत्त्वानामात्मभावविपाकवैचित्र्यमभुनिर्वर्त्तते सो ऽचिन्त्यः / तदेव कुशलाकुशलं कर्मस्थानवस्तुहेतुविपाकप्रकारादिप्रभेदेरचिन्त्यम् / विविधवाह्यवस्तुवैचित्र्याभिनिर्वर्त्तकं कर्माचिन्त्यम् / मणिमन्त्रौपधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम् / योगिनां प्रभावकर्मचिन्त्युअम् / बोधिसत्त्वानां वशिताभिः क्रियमाणं कर्मा चित्न्यम् / तद्यथा आयुर्वशितया चित्तवशितया परिष्कारवशितया कर्मवशितया उपपत्तिवशितया अधिमुक्तिवशितया प्रणिधानवशितया ऋद्धिवशितया ज्ञानवशितया धर्मवशितया / एवं च बोधिसत्त्वानां महासत्त्वानामेवमादिभिर्वशिताभिर्यत्कर्म क्रियते तदचिन्त्यम् / सर्वेषां बुद्धानां वुद्धकृत्यानुष्ठानं कर्माचिन्त्यम् //

तथा च समुदयसत्यं समासतो लक्षणप्रभेदेन चतुर्विधम् / हेतुलक्षणं समुदयलक्षणं प्रभवलक्षणं प्रत्यलक्षणं च / हेतुलक्षणं कतमत् / पुनर्भववासनाया आहारकं कारणं हेतुरिति हेतुलक्षणं वेदितव्यम् // समुदयलक्षणं कतमत् / तेषां तेषामुपचितवासनानां सत्त्वानां तस्मिंस्तस्मिन् सत्त्वनिकाये उदयस्य कारणमिति (अभिध्-स् 62) समुदयलक्षणं वेदितव्यम् // प्रभुवलक्षणं कतमत् / प्रत्यात्मं सन्तानानां सर्वप्रकारप्रकर्षोद्भवस्य कारणमिति प्रभवलक्षणं वेदितव्यम् // प्रत्यलक्षणं कतमत् / सत्त्वानाषान्पप्राप्त्यत्ययकारणमिति प्रत्ययकारणं वेदितव्यम् //

(अथ विनिश्चये सत्यपरिच्छेदे प्रथमे तृतीयो भागः) /

निरोधसत्यं कतमत् / लक्षणतः गाम्भीर्यतः संवृतितः परमार्थतः अपरिपूरितः परिपूरितः निरलंकारतः सालंकारतः शेषतः अशेषतः अग्रतः पर्यायतश्च निरोधसत्यं वेदितव्यम् //

लक्षणतः कतमत् / तथतायामार्य मार्गे क्लेशानामनुत्पादो यो निरोधाश्रयो निरोधको निरोधस्वभावो वा // तन्निरोधसत्यलक्षणम् // यदुक्तं भगवता चक्षुः श्रोत्रे घ्राणजिव्हाकायाः / मनश्च तेषु आयतनेषु नामरूपयोरात्यन्तिकनिरोधो न शेषः इति / यच्चोक्तं तदायतनं वेदितव्यं यथा चक्षुश्च निरुध्यते रूपसंज्ञा च विरज्यते यावत् मनश्च निरुध्यते धर्मसंज्ञा च विरज्यते इति / अनेन नयेन आलम्बनानां प्रापणं तथतायामालम्बनादूर्ध्वं सास्रवाणां धर्माणां निरोधः / तन्निरोधसत्य लक्षणम् //

गाम्भीर्यतः कतमत् / यत् तेषां संस्काराणामुपरमान्निरोधः / तथोपरमात् तेषां संस्काराणां निरोधो नान्यो वाच्यः नानन्यो वाच्यः नाप्यन्यो नाप्यनन्यो वाच्यः न नैवान्यो नानन्यो वाच्यः // कुतः / निष्प्रपञ्चतः / अस्मिंस्त्वर्थे प्रपञ्चोत्पत्तिः न संचिन्त्या न मार्गेण न न्यायेन न कुशलप्रयोगेण चिन्त्या इति / यदुक्तं भगवता तेषां षण्णां स्प्रष्टाव्ययतनानां क्षयो विरागो निरोधो व्युपशमो ऽस्तंगम इत्येवमादि / स्यादन्यः स्यादनन्यः स्यादन्यो ऽपि नान्यो ऽपि (अभिध्-स् 63) स्यान्नैवान्यो नानन्यो ऽपि इति निष्प्रपञ्च प्रपञ्च उत्पद्यते // यावत् षडायतनानि तावत् प्रपञ्चाः // यदा षडायतनानां निरोधश्छेदः तदा प्रपञ्चानां विरतिः //

संवृतितः कतमत् / लौकिकमार्गैर्वीजनिग्रहेण यो निरोधो लभ्यते / अतो भगवता तदांशिकनिर्वाणमित्युच्यते // परमार्थतः कतमत् / आर्यप्रज्ञया बीजनिर्मूलनेन यो निरोधो लभ्यते // अपरिपूरितः कतमत् / शैक्षाणां स्त्रोतापन्नफलसंग्रहेण वा सकृदागमिफलसंग्रहेण वा अनागामिफलसंग्रहेण वा यो निरोधः // परिपूरितः कतमत् / अशैक्ष्याणामर्हत्त्वफलसंग्रहेण यो निरोधः // निरलंकारतः कतमत् / प्रज्ञाविमुक्तानामर्हतां यो निरोधः // सालंकारतः कतमत् / उभयभाग विमुक्तानां त्रैविद्यानां षडभिज्ञानामर्हतां यो निरोधः // शेषतः कतमत् / सोपधिशेषो यो निरोधः // अशेषतः कतमत् / निरुपधिशेषो यो निरोधः // अग्रतः कतमत् / बुद्धानां बोधिसत्त्वानामप्रतिष्ठितनिर्वाणसंग्रहेण यो निरोधः / स्पर्शविहारिणां सर्वेषां सत्त्वानां हितसुखाधिष्ठानतः //

पर्यायतः कतमत् / अशेषप्रहाणं प्रतिनिःसर्गः व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगम इत्येवमादि // किमुपादायोच्यते अशेषप्रहाणम् / परिशिष्टानि पदान्युपादाय // किमुपादायोच्यते प्रतिनिःसर्गः / पर्यवस्थानप्रतिनिःसरणतामुपादाय // किमुपादायोच्यते क्षयः / दर्शनमार्गेण प्रतिपक्षविसंयोगलाभता मुपादाय // किमुपादायोच्यते विरागः / भावनामार्गेण प्रतिपक्षविसंयोगलाभतामुपादाय // किमुपादायोच्यते निरोधः / आयत्यां तत्फलदुःखानुत्पत्तितामुपादाय // किमुपादायोच्यते व्युपशमः / दृष्टे धर्मे तत्फलचेत्तदुःखासमुदाचारतामुपादाय // किमुपादायोच्यते ऽस्तंगमः / सोपधिशेष निरोधतामुपादाय //

किमुपादाय स निरोधः पुनरसंस्कृतमित्युच्यते / लक्षणत्रयविरहतामुपादाय // किमुपादाय स निरोधः पुनर्दुर्दर्श इत्युच्यते / चर्मचक्षुषो दिव्यचक्षुषश्च (अभिध्-स् 64) गोचरातिकमणतामुपादाय // किमुपादाय स निरोधः पुनरचलमित्युच्यते / मतिषु संचारबिरहमामुपादाय // किमुपादाय स निरोधः पुनरमत मित्युच्यते / तृष्णात्रयविरहतामुपादाय // किमुपादाय स निरोधः पुनरमृतमित्युच्यते / स्कन्धमारविरहतामुपादाय // किमुइपादाय स निरोधः पुनरनास्रवमित्युच्यते / सर्व क्लेशमारविरहतामुपादाय // किमुपादाय स निरोधः पुनर्लयनमित्युच्यते / अनवद्यप्रीतिसुखसंनिश्रयतामुपादाय // किमुपादाय स निरोधः पुनर्द्वीपमित्युच्यते / त्रैधातुकपरिच्छेदतामुपादाय // किमुपादाय स निरोधः पुनस्त्राणमित्युच्यते / सर्वमहादुःखोपद्रवापगमतामुपादाय // किमुपादाय स निरोधः पुनः शरणमित्युच्यते / आशयप्रयोगयोरवन्ध्यपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनः परायणमित्युच्यते / सर्वस्य परमार्यत्वस्यागमनपदस्थाणतामुपादाय // किमुपादाय स निरोधः पुनरच्युतमित्युच्यते / जातिविरहतामुपादाय // किमुपादाय स निरोध पुनर्निर्वारमित्युच्यते / सर्वक्लेशसन्तापविरहतां सर्वेच्छालाभदुःखमहासन्तापविरहतां चोपादाय // किमुपादाय स निरोधः पुनर्निष्पदारिदाहमिओत्युते / सर्व शोकपरिदेवनादुःखदौर्मनस्य विक्षेपविरहतामुपादाय // किमुपादाय स निरोधः पुनः क्षेममित्युच्यते / हिंसा भयरहितविहारपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनः शिवमित्युच्यते / लाभवस्तुपदस्थान तामुपादाय //

किमुपादाय स निरोधः पुनः सौवर्णिकमित्युच्यते परमार्थसुखाधिष्ठानतामुपादाय // किमुपादाय स निरोधः पुनः स्वस्त्ययनमित्युच्यते / तत्सुखप्रयोगप्राप्तिपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनरोग्यमित्युच्यते / सर्वावरणरो गविरहतामुपादाय // किमुपादाय स निरोधः पुनरार्निज्यमित्युच्यते / सर्वविक्षेपविरहतामुपादाय // किमुपादाय स निरोधः पुनर्निर्वाणमित्युच्यते / अनिमित्तशान्तमहा सुखविहारपदस्थानतामुपादाय / किमुपादाय स निरोधः पुनरजातमित्युच्यते / प्रतिसंध्युपपत्तिविरहतामुपादाय // किमुपादाय स निरोधः पुनरभूतमित्युच्यते / तदुत्तरकालोत्पत्तिविरहतामुपादाय // (अभिध्-स् 65) किमुपादाय स निरोधः पुनरस्कृतमित्युच्यते / पूर्वान्तकर्मक्लेशबलवदा वेधविरहतामुपादाय // किमुपादाय स निरोधः पुनरसंस्कृतमित्युच्यते / वर्तमानकर्म क्लेशानभिसंस्कार पदस्थानतामुपादाय / किमुपादाय स निरोधः पुनरनुत्पन्नमित्युच्यते / अनागतसन्तत्युत्पादविरहतामुपादाय //

तथा निरोधसत्यस्य समासतश्चत्वारो लक्षणप्रभेदाः / निरोधलक्षणं शान्तलक्षणं प्रणीतलक्षणं निःसरणलक्षणं च / किमुपादाय निरोधलक्षणम् / क्लेशविसंयोगतामुपादाय // किमुपादाय शान्तलक्षणम् / दुःखविसंयोगतामुपादाय / किमुपादाय प्रणीतलक्षणम् / सुखशुच्यधिष्ठानतामुपादाय // किमुपादाय निःसरणलक्षणम् / नित्यहिताधिष्ठानतामुपादाय //

(अथ विनिश्चये सत्यपरिच्छेदे प्रथमे चतुर्थो भागः)

मार्गसत्यं कतमत् / येन दुःखं परिजानीते समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति / एतत् संक्षेपेण मार्गसत्यलक्षणमित्युच्यते // पुनः मार्गः पञ्चविधः / संभारमार्गः प्रयोगमार्गः दर्शनमार्ग भावनामार्गः निष्ठामार्गश्च /

संभारमार्गः कतमः / पृथग्जनानां शीलम् इन्द्रियद्वाररक्षा भोजने मात्राज्ञता प्रथमरात्रौ तदुत्तररात्रिषु वा नित्यममिद्धं वीर्यभावना शमथविपश्यना संप्रजन्यविहारश्च // यद्वा पुनरन्यदौपनिषदं कुशलम् श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा भावनामयी प्रज्ञा // तद्भावनया अभिसमयविमोक्षस्थानभाजनां प्रतिलभते /

प्रयोगमार्गः कतमः / यः संभारमार्गः स प्रयोगमार्गः / यस्तु प्रयोगमार्गः सन संभारमार्गः / संभारमार्गोपचितानि निर्वेधभागीयानि कुशलमूलानि ऊष्मगतः मूर्धानः सत्यानुकूलक्षान्ति लौकिकाग्रधर्मश्च // ऊष्मगतं कतमत् / प्रत्यात्मं सत्ये प्वालोकलब्धः समाधिः प्रज्ञा संयोगश्च // मूर्धानं कतमत् / प्रत्यात्मं सत्येष्वालोकवृद्धः समाधिः प्रज्ञा संयोगश्च // सत्यानुकूलक्षान्तिः कतमा / प्रत्यात्मं सत्येष्वेकदेशप्रविष्टानुसृतः (अभिध्-स् 66) समाधिः प्रज्ञा संयोगश्च // लौकिकाग्रधर्मः कतमः / प्रत्यात्मं सत्येष्वानन्तर्यचित्तसमाधिः प्रज्ञा संयोगश्च //

दर्शनमार्गः कतमः / समासतो लौकिका ग्रधर्मानन्तरमनुपलम्भः समाधिः प्रज्ञा संयोगश्च // समसमालम्ब्यालम्बनज्ञामपि तत् / प्रत्यात्ममपनीतसत्त्वसंकेतधर्मसंकेतसर्वतो ऽपनीतोभयसंकेतालम्बनधर्मज्ञानमपि तत् //

प्रभेदशः शुनर्दर्शनमार्गो लौकिकाग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानक्षान्तिः दुःखे ऽन्वयज्ञानं समुदये धर्मज्ञानक्षान्तिः समुदये धर्मज्ञानं समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानं निरोधे धर्मज्ञानक्षान्तिः निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानक्षान्तिः निरोधे ऽन्वयज्ञानं मार्गे धर्मज्ञानक्षान्तिं मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानक्षान्तिः मार्गे ऽन्वयज्ञानम् // एवंच षोडश ज्ञानक्षान्तिभिर्दर्शनमार्गप्रभेदाः //

दुखं कतमत् / दुःखसत्यम् // दुःखे धर्मः कतमः / दुःखसत्याधिपतेयः शासनधर्मः // धर्मज्ञानं कतमत् / प्रयोगमार्गे सत्याधिपतेयं धर्मविचारणाज्ञानम् // ज्ञानक्षान्तिः कतमा / पूर्वाधिपतिबलविचारणामुपादाय प्रत्यात्मं दुःखसत्ये प्रत्यक्षानुभाविनी अनास्रवा प्रज्ञा / यया प्रज्ञाया दुःखदर्शनप्रहातव्यान् सर्वक्लेशान् प्रजहाति / तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति // दुःखे धर्मज्ञानं कतमत् / क्षान्त्यनन्तरं येन ज्ञानेन पूर्वोक्तेभ्यः क्लेशेभ्यो विमुक्तिं साक्षात्करोति / तस्मादुच्यते दुःखे धर्मज्ञानमिति / दुःखे अन्वयज्ञानक्षान्तिः कतमा / दुःखे धर्मज्ञानक्षान्त्यां दुःखे धर्मज्ञाने च प्रत्यात्मं प्रत्यक्षानुभाविनी अनास्रवा प्रज्ञा उत्पद्यते यदुत्तरमन्वय एष आर्यधर्माणाम् / तस्मादुच्यते दुःखे अन्वयज्ञानक्षान्तिः // दुःखे अन्वयज्ञानं कतमत् / तदनन्तरमनास्रवं ज्ञानमुत्पद्यते / येन ज्ञानेन दुःखे अन्वयज्ञानक्षान्तिमुपधारयति / तद् दुःखे ऽन्वयज्ञानमित्युच्यते // तद्वदन्येषु सत्येषु यथायोग्यम् /

क्षान्तिर्ज्ञानक्षयो ज्ञेयः / तत्र अवस्थायां धर्मक्षान्तिज्ञानैः ग्राह्यावनोघः / अन्वयक्षान्तिज्ञानैर्ग्राहकावबोधः / अपि च एषु सर्वेषु क्षान्तिज्ञानेषु अनिमित्तप्रेक्षाविहारी वेदितव्यः // इमे षोडश चित्तक्षणा दर्शनमार्ग आख्यातः // ज्ञेये ज्ञानोत्पत्तिपरिसमाप्तिरेकश्चित्तलक्षणो वेदितव्यः //

सर्वं हि मार्गसत्यं चतुर्भिः प्रकारैरनुगन्तव्यम् / व्यवस्थानतः विकल्पनतः अनुभवतः परिपूरितश्च / व्यवस्थानतः कतमत् / यथास्वमधिगमनिष्ठाप्राप्ताः श्रावकादयः / तत्पृष्ठलब्धेन ज्ञानेन प्रापणनिमित्तप्रमाणैः नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति / विकल्पनतः कतमत् / अभिसमयप्रयुक्ता लौकिकेन ज्ञानेन यथाव्यवस्थानं विकल्पोयन्तो यदभ्यस्यन्ति // अनुभवतः कतमत् / तथाभ्यस्यन्तो मया (?यदा)दितो दर्शनमार्गाख्यां लोकोत्तरां निष्प्रपञ्चावस्थां प्रत्यात्ममनुभवति // परिपूरितः कतमत् / तदूर्ध्वं यामाश्रयपरिवृत्तिं परिपूर्य यावदधिगमनिष्ठां प्राप्नुवन्ति / तेन पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति //

यदुक्तं सूत्रे विरज्ञो वीतमलं धर्मेषु धर्मचक्षुरूदपादि इति / तद्दर्शनमार्गमधिकृत्योक्तम् / तत्र धर्मक्षान्तिभिर्विरजः धर्मज्ञानैर्वीतमलम् परिज्ञया प्रहाणेन मार्गशुद्धिलाभेन च //

यदुक्तं सूत्रे दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा सर्वैः तीर्णकांक्षः तीर्णविचिकित्सः अपरप्रत्ययः शास्तुः शासनो ऽनन्यनेयः धर्मेषु वैशारद्यप्राप्त इति तदपि दर्शनमार्गमधिकृत्योक्तम् / दृष्टधर्मा धर्मक्षान्तिभिः / प्राप्तधर्मा धर्मज्ञानैः / विदितधर्मा अन्वयक्षान्तिभिः / पर्यवगाढधर्मा अन्वयज्ञानैः / सर्वैः तीर्णकांक्षः स्वाधिगमे क्षान्तिज्ञानैः कांक्षाभावेन / तीर्णविचिकित्सः पराधिगमे तदवस्थस्य विमत्यभावेन / अपरप्रत्ययः मार्गभावनायां न परतः स्वयं कुशलावर्जनेन / शास्तुः शासने ऽनन्यनेयः बुद्धशासने (अभिध्-स् 68) ऽन्यतीर्थ्यैरनेयतामुपादाय / धर्मेषु वैशारद्यप्राप्तः अधिगमनारम्य परिप्रश्नधर्मेषु अलीनचित्ततामुपादाय /

भावनामार्गः कतमः / दर्शनमार्गादूर्ध्वं लौकिको मार्गो लोकोत्तरमार्गः मृदुमार्गो मध्यमार्गो ऽधिमात्रो मार्गः प्रयोगमार्गः आनन्तर्यमार्गः विमुक्तिमार्गः विशेषमार्गश्च //

लौकिको मार्गः कतमः / लौकिकं प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थं ध्यानमाकाशानत्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चत्यायतनं नैवसंज्ञानासंज्ञायतनं च // त एते ध्यानारूप्याः संक्लेशव्यवदानव्यवस्थान विशुद्धिभिर्वेदितव्याः // कथं संक्लेशतः / चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानो ऽविद्या च // तृष्णया आस्वाद संक्लेशेन संक्लिश्यते // दृष्ट्या दृष्ट्युत्तरध्यायितया संक्लिश्यते / मानेन मानोत्तरध्यायितया संक्लिश्यते / अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते / तथा च संक्लिष्टचेतसां रूपारूप्यावचराः क्लेशोपक्लेशाः प्रवर्त्तन्ते // कथं व्यवदानतः / शुद्धका ध्यानारूप्याः कुशलत्वाद् व्यवदाता इत्युच्यन्ते // कथं व्यवस्थानतः / अङ्गव्यवस्थानतः समापत्तिव्यवस्थानतः मात्राव्यवस्थानतः संज्ञाकरणव्यवस्थानश्च // कथमङ्गव्यवस्थानतः / प्रथमं ध्यानं पञ्चाङ्गम् / पञ्चाङ्गानि वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता च // द्वितीयं ध्यानं चतुरङ्गम् / चत्वार्यङ्गानि अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाप्रता च // तृतीयं ध्यानं पञ्चाङ्गम् / पञ्चाङ्गानि उपेक्षा स्मृतिः संप्रजन्यं सुखं चित्तैकाग्रता च // चतुर्थं ध्यानं चतुरङ्गम् / चत्वार्यङ्गानि उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः अदुःखासुखा वेदना चित्तैकाग्रता च // प्रतिपक्षाङ्गमुपादाय अनुशंसाङ्गमुपादाय तदुभयाश्रयस्वभावाङ्गं चोपादाय आरुप्येष्वङ्गव्यवस्थानं नास्ति / शमथैकरसतामुपादाय // कथं समापत्तिव्यवस्थानतः / सप्तभिर्मनस्कारैः प्रथमं ध्यानं समापद्यते / एवं यावन्नैवसंज्ञानासंज्ञायतनं च //

सप्त मनस्काराः कतमे / लक्षणप्रति संवेदी मनस्कारः आधिमोक्षिकः प्राविवेजः रतिसंग्राहकः मीमांसकः प्रयोगनिष्ठः प्रयोगनिष्ठाफलश्च (अभिध्-स् 69) मनस्कारः // कथं मात्राव्यवस्थानतः / प्रथमं ध्यानं सुदुपरिभावितं मध्यपरिभावितमधिमात्रपरिभावितश्च // [तद्यथा] प्रथमं ध्यानमेत्रं शिष्टानि ध्यानान्यारूप्याश्च // मृदुमध्याधिमात्रपरिभावितस्य प्रथमस्य ध्यानस्य फलं त्रिविधा प्रथमा ध्यानोपपत्तिः / यथा प्रथमस्य ध्यानस्य एवं शिष्टानां ध्यानानां त्रिविधा ध्यानोपपत्तिः / आरूप्येषु स्थानान्तराभावमुपादायोपपत्तिभेदो नास्ति / तत्र मृदुमध्याधिमात्रपरिभावितत्वादारूप्याणामुपपत्तावुच्चनीचता हीनप्रणीतता प्रज्ञायते // कथं संज्ञाकरणव्यवस्थानतः / प्रथमध्यानसंगृहीतान्यावतः समाधीन् बुद्धबोधिसत्त्वाः समापद्यन्ते / तेषां श्रावकप्रत्येकबुद्धा नामाभिज्ञा अपि न भवन्ति / यथा प्रथमध्यानसंगृहीतानेवमवशिष्टध्यानसंगृहीतान्यदुत ध्यानपारमितां निश्रित्य // कथं विशुद्धितः / प्रान्तकोटिकं प्रथमं ध्यानं यावन्नैव संज्ञानासंज्ञायतनं विशुद्धिरित्युच्यते //

लोकोत्तरो मार्गः कतमः / भावनामार्गे दुःखसमुदयनिरोधमार्गज्ञानानि धर्मज्ञानान्वयपक्ष्याणि तैश्च संप्रयुक्तः समाधिः प्रथमं वा ध्यानं यावदाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं, लौकिकमेव अपरिस्फुटं संज्ञाप्रचारतामुपादाय / तत श्चानिमित्तमित्युच्यते // यथोक्तं भगवता यावदेव संज्ञासमापत्तिः तावदाज्ञाप्रतिवेध इति / निरोधसमापत्तिर्लोकोत्तरा मनुष्येष्वभिनिर्हियते / मनुष्येष्व भिनिर्हृता मनुष्येषुरूपधातौ वा संमुखीक्रियते / आरूप्येष्व स्याः संमुखीभावो नास्ति / शान्तविमोक्षविपाकविहारीणां तद्यत्नानारम्भतामुपादाय //

मृदुमार्गः कतमः / मृदुमृदुर्मृदुमध्यो मृद्वधिमात्रश्च येन त्रैधातुकावचराणा क्लेशानां भूमौ भूमावधिमात्राधिमात्रमधिमात्रमध्यमधिमात्रामृदुं क्लेशप्रकार प्रजहाति //

मध्यो मार्गः कतमः / मध्यमृदुर्मध्यमध्यो मध्याधिमात्रश्च येन त्रैधातुकावचराणां क्लेशानां भूमौ भूमौ मध्याधिमात्रं मध्यमध्यं मध्यमृदुं क्लेशप्रकारं प्रजहाति //

अधिमात्रो मार्गः कतमः / अधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्च येन त्रैधातुकावचराणां क्लेशानां भूमौ भूमौ मृद्वधिमात्रं मृदुमध्यं मृदुमृदुं क्लेशप्रकारं प्रजहाति //

प्रयोगमार्गः कतमः / येन क्लेशं प्रजहाति // आनन्तर्यमार्गः कतमः / यस्यानन्तरं निरन्तरः क्लेशः प्रहीणो भवति // विमुक्तिमार्गः कतमः / येन प्रहीणे क्लेशे विमुक्तिं साक्षात्करोति // विशेषमार्गः कतमः / तदन्यस्य क्लेशप्रकारस्य प्रयोगानन्तर्यविमुक्तिमार्गाः विशेषमार्गः / अपि खलु क्लेशप्रहाणप्रयोगं निराकृत्य धर्मचिन्तायां वा प्रयुक्तस्य धर्मविहारे वा समापत्तिविशेषे वा यो मार्गः / अपि खलु वैशेषिकान् गुणानभिनिर्हरतो वा यो मार्गः //

मार्गभावना कतमा / प्रतिलंभभावना निषेवणभावना निर्धावनभावना प्रतिपक्षभावना च // प्रतिलम्भभावना कतमा / अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय या भावना // निषेवणभावना कतमा / उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भूयोभावाय वृद्धिविपुलतायै या भावना / निर्धावनभावना कतमा / उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय या भावना // प्रतिपक्षभावना कतमा / अनुत्पन्नानां पापकानामकुशकुनां धर्माणामनुत्पादाय (अभिध्-स् 71) या भावना // अपि खलु मार्ग उत्पद्यमानः स्वां वासनामव स्थापयति सा प्रतिलम्भभावना / स एव संमुखीभूतो भावनां गच्छति सा निषेवणभावना / स्वमावरणं विजहाति सा निर्धावनभावना / विहीन श्चावरणमायत्यामनुत्पत्तिधर्मतायामवस्थापयति सा प्रतिपक्षभावना // अपि खलु चतुर्विधः प्रतिपक्षः विदूषणाप्रतिपक्षः प्रहाणप्रतिपक्षः आधारप्रतिपक्षः दूरीभावप्रतिपक्षश्च प्रतिपक्षभावनेत्युच्यते // विदूषणाप्रतिपक्षः कतमः / सास्रवेषु संस्कारेष्वादीनवदर्शनम् // प्रहाणप्रतिपक्षः कतमः / प्रयोगान्तर्यमार्गः // आधरप्रतिपक्षः कतमः / विमुक्तिमार्गः / दूरीभावप्रतिपक्षः कतमः // तदु परिमो मार्गः //

अपि खलु वस्तुपरीक्षामार्गः व्यावसायिको मार्गः समाधिपरिकर्ममार्गः अभिसमयप्रायोगिको मार्गः अभिसमयश्लिष्टो मार्गः अभिसमयमार्गः विशुद्धिनैर्याणिको मार्गः निश्रयेन्द्रियभिन्नो मार्गः शिक्षात्रयपरिशोधनो मार्गः सर्वगुणनिर्हारको मार्गः मार्गसंग्रहमार्गश्च मार्ग इत्युच्यते // स पुनरेष यथाक्रमं सप्तत्रिंशदबोधिपक्षा धर्माः चतस्रः प्रतिपदः चत्वारि धर्मपदानि शमथ(ऐ) विपश्यना त्रिणी चेन्द्रियाणी //

स्मृत्युपस्थानानामालम्वनं स्वभावः सहायः भावना भावनाफलञ्च वेदितव्यम् / यथा स्मृत्युपस्थानानामेवमवशिष्टानां बोधिपक्षाणाम् // स्मृत्युपस्थानानामालम्बनं कतमत् / कायो वेदना चित्तं धर्माः // अपि खल्वात्माश्रयवस्तु आत्मोपभोगवस्तु आत्मवस्तु आत्मसंक्लेशव्यवदानवस्तु च // स्वभावः कतमः / प्रज्ञा स्मृतिश्च // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः / भावना कतमा / अध्यात्मं कायादिषु कायाद्यनुपश्यना // यथा अध्यात्ममेवं बहिर्धा अध्यात्मवहिर्धा // अध्यात्मं कायः कतमः / यान्यस्मिन् काये आध्यत्मिकानि रूपीण्यायतनानि // बहिर्धाकायः कतमः / बहिर्धा रूपीण्यायतनानि // अध्यात्मवहिर्द्धा कायः कतमः / आध्यात्मिकायतनसंबद्धानि (अभिध्-स् 72) बाह्यान्यायतनानि / इन्द्रियाधिष्ठानानि पारसान्तानिकानि चाध्यात्मिकानि रूपीण्यायतयानि / काये कायानुपश्यना कतमा / या विकल्पप्रतिबिम्बकायेन प्रकृतिबिम्बकायस्य समतापश्यना / अध्यात्मं वेदना कतमा / अध्यात्मं कायमुपादायोत्पन्ना वेदना // बहिर्द्धा वेदना कतमा / बहिर्द्धा कायमुपादयोत्पन्ना वेदना // अध्यात्मबहिर्द्धा वेदना कतमा / अध्यात्माबहिर्द्धाकायमुपादायोत्पन्नावेदना // यथा वेदना एवं चित्तं धर्माः // यथा काये कायानुपश्यना एवं वेदनादिषु वेदनाद्यनुपश्यना यथायोगं वेदितव्याः / अपि खलु भावना छन्दो वीर्यं व्यायाम उत्साहः उत्सूढिरप्रतिवाणिः स्मृतिः संप्रजन्यं अप्रमादश्च // छन्दभावना अमनसिकरोपक्लेशप्रतिपक्षेण / वीर्यभावना कौसीद्योपक्लेशप्रतिपक्षेण / व्यायामभावना लयौद्धत्योपक्लेशप्रतिपक्षेण // उत्साहभावना चेतसो ऽलीनत्वोपक्लेशप्रतिपक्षेण // उत्सूढिभावना विषादपरिस्रवपरिखेदोपक्लेशप्रतिपक्षेण // अप्रतिवाणिभावना कुशलपक्षेण अल्पमात्र संतुष्ट्युपक्लेशप्रतिपक्षेण // स्मृतिभावना भगवतः शासने संमोषोपक्लेशप्रतिपक्षेण // संप्रजन्यभावना आपत्तिविप्रतिसारोपक्लेशप्रतिपक्षेण // अप्रमादभावना कुशलेषु निक्षिप्तधुरतोपक्लेशप्रतिपक्षेण // भावनाफलं कतमत् / चतु र्विपर्यासप्रहाणं चतुः सत्यावतारः कायादिविसंयोगः //

चतुः सम्यक्प्रहाणानामालम्बनं कतमत् / उत्पन्नानुत्पन्नविपक्षप्रतिपक्षाः // स्वभावः कतमः / व्यायामः // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः / भावना कतमा / तदुक्तं सूत्रे छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृण्हाति चित्तं प्रदधाति / इत्येवमादिभिः पदैस्तत्रवीर्याश्रयभावना परिदीपिता // आश्रयः छन्दः / वीर्यमुद्योगः / शमथग्रग्रहोपेक्षानिमित्तमनसिकारेषु छन्दं (जनयति) लयौद्धत्यापकर्षणे वीर्यमारभते एवं तदनन्तरं (अभिध्-स् 73) चित्तं प्रगृण्हाति प्रदधातीप्रत्युच्यते / भावना फलं कतमत् / अशेषविपक्षहानिः प्रतिपक्षप्रतिलम्भः प्रतिपक्षवृद्धिश्च // तदुच्यते भावनाफलम् /

चतुरृद्धिपादानामालम्बनं कतमत् / निष्पज्ञेन समाधिना यत्करणीयं कृत्यम् // स्वभावः कतमः / समाधिः // सहायः कतमः / छन्दोवीर्यं चित्तं मीमांसा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // छन्दसमाधिः कतमः / यत्सत्कृत्य प्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् // वीर्यसमधिः कतमः / यत्सातत्य प्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् // चित्तसमाधिः कतमः / पूर्वसमाधिभावनामागम्य स्वरसेन स्पृशति चित्तस्यैकाग्रताम् // मीमांसासमाधिः कतमः / देशनाधर्मश्रवणमागम्य प्रत्यात्मं प्रतिसंख्याय स्पृशति चित्तस्यैकाग्रताम् // पुनः छन्दसमाधिः यत् छन्दं जनयन् स्पृशति चित्तस्यैकग्रताम् // वीर्यसमाधिः यत् वीर्यमारप्रमाणः स्पृशति चित्तस्यैकाग्रताम् // चित्तसमाधिः यत् चित्तं प्रदधत् स्पृशति चित्तस्यैग्रताम् // मीमांसासमाधिः यत् चित्तं प्रगृण्हन् स्पृशति चित्तस्यैकाग्रताम् // भावना कतमा / अष्टानां प्रहाणसंस्काराणामभ्यासः / कतमे अष्टौ / छन्दः व्यायामः श्रद्धा प्रश्रब्धिः स्मृतिः संप्रजन्यं चेतना उपेक्षा च / ते पुनरष्टौ समासतश्चतुर्धा संगृह्यन्ते / व्यायसायिकः अनुग्राहकः औपनिवन्धिकः प्रातिपक्षिकश्च // छन्दवीर्यचित्तमीमांसाभावना पुनर्द्विविधा / निदानं संक्षेपविक्षेप परिवर्जनभावन अलीनत्वाविक्षेपतदुभयाश्रयानुकूलभावना च // फलं कतमत् / कुशलसमाधिपरिकर्मतः यथाकर्मं धर्माभिज्ञा यथाचित्तमभिज्ञाप्रदर्शनम् / अपि च तेषु तेषु धर्मेषु अधिगमः प्रातिः कर्मण्यता वशिता कारित्रं यथेष्टं नानाविधानामृदुध्यादीनां वस्तूनां निष्पादनमधिगुणानां निर्हारश्च //

पञ्चेन्द्रियाणामालम्बनं कतमत् / चत्वार्यार्यसत्यानि // स्वभावः कतमः / श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा च // सहाय कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः // भावना कतमा / यत् श्रद्धेन्द्रियेण सत्येषु अभिसंप्रत्ययसमुत्थानं प्रयोगभावना / वीर्येन्द्रियेण सत्येषु उत्पन्नाभिसंप्रत्ययस्याभिसंबोध्यर्थं व्यायामसमुत्थानप्रयोगभावना / स्मृतीन्द्रियेण सत्येषु आरब्धवीर्यस्य स्मृतिसंप्रयोगा धर्मसंमोपसमुत्थानप्रयोगभावना / समाधीन्द्रियेण सत्येषु संप्रयुक्त स्मृतेः चित्तैकाग्रतासमुत्थानप्रयोगभावना / प्रज्ञेन्द्रियेण सत्येषु समाहितचित्तस्य प्रविचयसमुत्थानप्रयोगभावना / भावनाफलं कतमत् / सत्याभिसमयसमुत्थानतः उष्मगतमूर्धपरिकर्मतश्च क्षान्तिलौकिकाग्रधर्मनिर्हारः //

यथा पञ्चेन्द्रियाणि तथा पञ्च बलानि / एषां विशेषः तैः विपक्षान्तरायनिर्ल्लेखो ऽनवमुद्यतेति बलानीत्युच्यन्ते //

सप्त बोध्यङ्गानामालम्बनं कतमत् / चतुर्णामार्यसत्यानां यथाभूतता / स्वभावः कतमः / स्मृतिः धर्मविचयः वीर्यं प्रीतिः प्रश्रब्धिः समाधिः उपेक्षा च // स्मृतिः संनिश्रयाङ्गम् / धर्मविचयः स्वभावाङ्गम् / वीर्यं निर्याणाङ्गम् / प्रीतिः अनुशंसाङ्गम् / प्रश्रब्धिः / समाधिः उपेक्षा चासंक्लेशाङ्गम् / असंक्लेशतः असंक्लेशाश्रयतः असंक्लेशस्वभावतश्च // सहायः कतमः / तत्संप्रयुक्ताश्रित्तचैतसिका धर्माः // भावना कतमा / विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं स्मृतिसंबोध्यङ्गम् / यथा स्मृतिसंबोध्यङ्गं तथा यावत् उपेक्षासंबोध्यङ्गम् // एभिः चतुभिः पदैर्यथाक्रमं चतुःसत्यालम्बनाबोध्यङ्गभावना परिदीपिता / भावनाफलं कतमत् / दर्शनहेयानां क्लेशानां प्रहाणम् //

अष्टानामार्यमार्गाङ्गानामालम्बनं कतमत् / तदुत्तरकालं चतुर्णामार्यसत्यानां यथाभूतता // स्वभावः कतमः / सम्यग्दृष्टिः सम्यक्कर्म्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिश्च // सम्यगदृष्टिउः परिच्छेदाङ्गम् / (अभिध्-स् 75) सम्यक्संकल्प परसंप्रापणाङ्गम् / सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्यपाङ्गम् / दर्शनशीलाजीवविशुद्धितामुपादाय / सम्यग्व्यायामः क्लेशावरणविशोधनाङ्गम् / सम्यक्समाधिः वैशेषिकगुणावरण विशोधनाङ्गम् // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिकाधर्माः // भावना कतमा / भावना तु बोध्यङ्गवत् // भावना फलं कतमत् / परिच्छेदः परसंप्रापणं परसंप्रत्ययः क्लेशावरणविशोधनमुपक्लेशावरणविशोधनं वैशेषिकगुणावरणविशोधनं च //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.