Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मसमुच्चय
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — unknown source; cf. the following editions: V.V. Gokhale: Fragments from the Abhidharmasamucca of Asaṃga, Journal of the Bombay Branch of the Royal Asiatic Society, New Series, vol. 23 (1947), pp. 13-68; P. Pradhan: Abhidharmasamucca, Santiniketan 1950 (Visva-Bharati Studies, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चतस्रः प्रतिपदः कतमाः / दुःखा प्रतिपद् धन्धाभिज्ञा दुःखा प्रतिपत् क्षिप्राभिज्ञा सुखा प्रतिपद् धन्धाभिज्ञा सुखा प्रतिपत् क्षिप्राभिज्ञा // प्रथमा मृद्विन्द्रियाणामनुपलब्धमौलध्यानम् / द्वितीया तीक्ष्णेन्द्रियाणामनुपलब्धमौलध्यानम् / तृतीया मृद्विन्द्रियाणामुपलभमौलध्यानम् / चतुर्थी तीक्ष्णेन्द्रियाणामुपलब्धमौल ध्यानम् //
चत्वारि धर्मपदानि कतमानि / अलोभाद्वेषाणां सम्यक् स्मृतिः सम्यक् समाधिः / अलोभाद्वेषाणामधिशीलशिक्षाविशुद्धिः / सम्यक्स्मृतानामधिचित्तशिक्षाविशुद्धिः / सम्यक्समाधितानामधिप्रज्ञशिक्षाविशुद्धिः //
शमथः कतमः / अध्यात्मं चित्तस्य उपनिबन्धः स्थापना संस्थापना अवस्थापना उपस्थापना दमनं शमनं व्युपशमनम् एकोतीकरणं समाधानं च // विपश्यना कतमा / या धर्मान् विचिनोति प्रविविनोति परिवितर्क्कयति परिमीमांसमापतये / च काम प्रतिपक्षदौष्ठुल्यनिमित्तसंयोजनतः कामाभिभवानां विपर्यासतः अविपर्यस्तचित्तस्यावस्थापनतश्च // अपि खलु शमथविपश्यनामागम्य चत्वारो मार्गाः / एकत्यः शमथस्य लाभी न विपश्यनायाः / तत्प्रकारं शमथं निश्रित्य विपश्यनामापना / एकत्यः विपश्यनाया लाभी न शमथस्य / तत्प्रकारां विपश्यना निश्रित्य शमथभावना / एकत्यः न शमथस्य लाभी नापि विपश्यनायाः / तत्संबद्धचित्तस्य लयौ द्धत्यापकर्षणाद् युगपदुभयमार्ग भावना / एकत्यः शमथस्य लाभी विपश्यनायाश्च / तस्य शमथविपश्यनोभयमार्ग युक्तस्य समं युगपत् प्रवृत्तिः //
त्रीणीन्द्रियाणि / अज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं (अभिध्-स् 76) च // अज्ञातमाज्ञास्यामीन्द्रियं कतमत् / प्रयोगमार्गे पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदिन्द्रियम् // आज्ञेन्द्रियं कतमत् / षोडशात् दर्शनमार्गचित्तक्षणाद्रूध्वं सर्वस्मिन् शैक्षमार्गे यदिन्द्रियम् // आज्ञातावीन्द्रियं कतमत् / अशैक्षमार्गेयदिन्द्रियम् //
प्रथमध्यानभूमिकानां भावनामार्गे कामावचराणि कुशलमूलकान्यपि भावनां गच्छन्ति / तेषु विभुत्वलाभतः / यथा प्रथमध्यानभूमिकानां कामावचराणि कुशलमूलकानि भावनां गच्छन्ति तथा सर्वेपामूर्द्वभूमिकानां भावनामार्गे अधोभूमिकानि कुशलमूलकानि भावनां गच्छन्ति / तेषु विभुत्वलाभतः //
निष्ठामार्गः कतमः / वज्रोपमः समधिः / सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेः सर्वसंयोगानां प्रहाणात् सर्वविसंयोगानामधिगमाच्च / तदनन्तरं निरन्तराश्रयप्रवृत्तिः प्राप्तक्षयज्ञानम् अनुत्पादज्ञानं दशाशैक्षा धर्माः / कतमे दश / अशैक्षस्य सम्यग्दृष्टिर्यायद शैक्षस्य सम्यक्समाधिः अशैक्षस्य सम्यग्विमोक्षः अशैक्षस्य सम्यग् ज्ञानं च // एवमादयो धर्मा निष्ठामार्ग उच्यते // कतमानि सर्वदौष्ठुल्यानि / सं क्षेपतश्चतुर्विशतिः / तद्यथा सर्वत्रगमभिलापदौष्ठुल्यं वेदितदौष्ठुल्यं क्लेशदौष्ठुल्यं कर्मदौष्ठुल्यं विपाकदौष्ठुल्यं क्लेशावरणादौष्ठुल्यं कर्मावरणदौष्ठुल्यं विपाकावरणदौष्ठुल्यं निवरणदौष्ठुल्यं वितर्क्कदौष्ठुल्यं आहारदौष्ठुल्यं मैथुनदौष्ठुल्यं स्वप्नदौष्ठुल्यं व्याधिदौष्ठुल्यं जरादौष्ठुल्यं मरणदौष्ठुल्यं परिश्रमदौष्ठुल्यं दृढदौष्ठुल्यम् औदारिकदौष्ठुल्यं मध्यदौष्ठुल्यं सूक्ष्मदौष्ठुल्यं समापत्त्यावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यं च // संयोगः कतमः / दौष्ठुल्याचितेषु संयोगलाभतेति विज्ञप्तिः // विसंयोगः कतमः / दौष्ठुल्यविक्षिप्तेषु विसंयोगलाभतेति विज्ञप्तिः // वज्रोपमः समाधिः कतमः / भावनामार्गगतस्य तदुत्तरं संयोजनप्रहाणमार्गवस्थायां यः समाधिः प्रयोगमार्गसंग्रहो वा आनन्तर्यमार्गसंग्रहो वा / प्रयोगमार्गसंग्रहस्तु ततः परं सर्वैरावरणैरच्छाद्यः सर्वावराणानां च भेदक इति / आनन्तर्यमार्गसंग्रहस्तु यदनन्तरं क्षयज्ञानानुत्पादज्ञानोत्पत्तिः / स च समाधिः निरन्तरः दृढः एकरसः व्यापी च //
एतदर्थप्रतिबिम्बनार्थं (अभिध्-स् 77) भगवतोक्तं तद्यथा महाशैलपर्वतो ऽखण्डो ऽच्छिद्रो ऽशुषिर एकघनः सुसंवृत्तो दशदिग्वाताकम्प्यश्च // कतमा नाम निरन्तराश्रयप्रवृत्तिः / अशैक्षमार्गलाभिनः त्रिविधा आश्रयप्रवृत्तिः / कतमास्तिस्रः / चित्ताश्रयमप्रवृत्तिः मार्याश्रपप्रवृत्तिः दौष्ठुल्याश्रयप्रवृत्तिश्च // क्षयज्ञानं कतमत् / हेतुक्षयेण यद् शानं लभ्यते क्षयविषया लम्बनं वा // अनुत्पादज्ञानं कतमत् / फलप्रहाणेन यद् ज्ञानं लभ्यते फलानुत्पत्तिविषयालम्बनं वा // दशाशैक्षा धर्मास्तु अशैक्षाणां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं चाधिकृत्य वेदितव्याः //
तथा च मार्गसत्यस्य चत्वारः प्रकारभेदाः / मार्गलक्षणं न्यायलक्षणं प्रतिपद्लक्षणं नैर्याणिकलक्षणं च // किमुपादाय मार्गलक्षणम् / तत्त्वार्थपरिमार्गणतामुपादाय // किमुपादाय न्यायलक्षणम् / क्लेशप्रतिपक्षतामुपादाय // किमुपादाय प्रतिपल्लक्षणम् / चित्ताविपर्यासप्रतिपादनातामुपादाय // किमुपादाय नैर्याणिकलक्षणम् / नित्यपदयानतामुपादाय //
सत्येषु षोडशाकाराः लौकिका लोकोत्तराश्च // लौकिकानां लोकोत्तराणां च कतमः प्रभेदः / ज्ञेये अकुशलप्रवेशकुशल्यप्रवेशस्त्रभावप्रभेदतः सावरणनिरावरणस्वभावप्रभेदतः सविकल्पनिर्विकल्पस्वभावप्रभेदतश्च // केन हेतुना सत्येषु अनित्यदुःखादयः षोडश लौऔकिकाकाराः / तथागत अप्रतिवेधतः क्लेशानुशयतः अभिलापमुखेन प्रपञ्चनतश्च // लोकोत्तराकाराः तद्विपर्ययेण / लोकोत्तराकारेषु वर्त्तमानो ऽनित्यार्थं पश्यति साक्षादनुभवति नोत्वनित्यं पश्यति अभिलापप्रपञ्चमुखेन / यथा अनित्याकारा अनित्यार्थे एवं शिष्ठाकराः शिष्टार्थेषु यथायोगं वेदितव्याः //
(अथ विनिश्चये धर्मपरिच्छेदो द्वितीयो भागः /)
धर्मविनिश्चयः कतमः / आर्यशासनं द्वादशाङ्गधर्मः / कतमानि द्वादशाङ्गानि / सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् अवदानम् इतिवृतकं जातकं वैपुल्यम् अद्भुतधर्मः उपदेशश्च //
1. सूत्रं कतमत् / यदभिप्रेतार्थं सूचनाकारेण गद्यभाषितम् / दशानुशंसान् संपश्यन् तथागतः सूचनाकारेण धर्मं देशयति सुखं व्यवस्थापयति सुखं देशयति / श्रोतापि सुखमुद्गृण्हाति धर्मगौरवतया क्षिप्रं बोधि संभारान् परिपूरयति आशुधर्मतां प्रतिविध्यति / बुद्धे ऽवेत्यप्रसादं लभते धर्मे संघे चावेत्य प्रसादं लभते / परमदृष्टधर्मसुखविहारं स्पृशति / सांकथ्यविनिश्चयेन सतां चित्तमाराधयति / पण्डितः पण्डित इति संख्यां गच्छति //
2. गेयं कतमत् / सूत्राणां मध्ये वा अन्ते वा गाथया यद् गीयते / सूत्रेषु अनिरूपितो ऽर्थो वा यद् व्याख्यायते / अतो गेयमित्युच्यते //
3. व्याकरणं कतमत् / तत् स्थानेषु समतिक्रान्तानामतीतानामार्य श्रावकाणां प्राप्त्युत्पत्तिप्रभेदव्याकरणम् / अपि च सूत्रेषु निरूईपितार्थस्य स्फुटीकरणम् / विवृत्याभिसन्धिव्याकरणात् //
4. गाथा कतमा / सूत्रेषु पादयोगेन देश्यते / द्विपदी त्रिपदी चतुष्पदी पंचपदी षट्पदी वा //
5. उदानं कतमत् / सूत्रेषु कदाचित् तथागतेन आत्तमनस्केन यदुदाहृतम् //
6. निदानं कतमत् / पृष्टेन यद् भाषितम् / सोत्पत्तिकं शिक्षाप्रज्ञाप्तेकं वा / अतो ऽपि निदानम् //
7. अवदानं कतमत् / सूत्रेषु सदृष्टान्तकं भाषितम् //
8. इतिवृत्तकं कतमत् / यदार्यश्रावकाणां पूर्वलौकिकं वृत्तं देशयति //
9. जातकं कतमत् / यत् बोधिसत्त्वचरितपिटकसंप्रयुक्तं वृत्तं देशयति //
10. वैपुल्यं कतमत् / बोधिसत्त्वपिटकसंप्रयुक्तं भाषितम् / यदुच्यते वैपुल्यं तद् वैदल्यमप्युच्यते वैतुल्यमप्युच्यते / किमर्थं वैपुल्यमुच्यते / सर्वसत्त्वानां हितसुखाधिष्ठानतः उदारगम्भीरधर्मदेशनातश्च // किमर्थमुच्यते वैदल्यम् / सर्वावरणविदलनतः // किमर्थमुच्यते वैतुल्यम् / उपमानधर्माणां तुलनाभावतः //
11. अद्भुतधर्मः कतमः / यत्र श्रावकबोधिसत्त्वतथागतानां परमा द्भुताश्चर्यधर्माणां देशना //
12. उपदेशः कतमः / सर्वगम्भोरगूढ धर्मलक्षणानामविपरीतं व्याख्यानम् /
एवं सूत्रादीनि द्वादशाङ्गान्यार्यशासनानि त्रिषु पिटकेषु संगृहीतानि भवन्ति / कतमानि त्रीणि / सूत्रपिटकं विनयपिटकम् अभिधर्मपिटकं च / तानि पुनर्द्विविधानि / श्रावकपिटकं बोधिसत्त्वपिटकं च / सूत्रं गेयं व्याकरणं गाथा उदानं चैतानि पञ्च श्रावकाणां पिटकस्य सूत्रपिटके संगृहीतानि भवन्ति / निदानमवदानमितिवृत्तकं जातकं चैतानि चत्वारि द्वयोः पिटकयोः सपरिवारे विनयपिटके संगृहीतानि भवन्ति / वैपुल्यमद्भुतधर्मश्च एते द्वे बोधिसत्त्वपिटकस्य सूत्रपिटके संगृहीते भवतः / उपदेश एकः श्रावकबोधिसत्त्वपिटकयोः अभिधर्मपिटके संगृहीतो भवति /
किमुपादाय तथागतस्य पिटकत्रयव्यवस्थानम् / विचिकित्सोपक्लेशप्रतिपक्षका मतामुपादाय सूत्रपिटकव्यवस्थानम् / अन्तद्वयानुयोगोपक्लेशप्रतिपक्षकामतामुपादाय विनयपिटकव्यवस्थानम् / स्वयंदृष्टिपरामर्शग्रहोपक्लेशप्रतिपक्षकामतामुपादाय अभिधर्मपिटकव्यवस्थानम् / पुनः शिक्षात्रयव्युत्पत्तिकामतामुपादाय सूत्रपिटकव्यवस्थानम् / अधिशीलाधिचित्तशिक्षानिष्पादनकामतामुपादाय विनयपिटकव्यवस्थानम् / अधिप्रज्ञशिक्षानिष्पादनकामतामुपादाय अभिधर्मपिटकव्यवस्थानम् // पुनः सम्यग् धर्मार्थव्युत्पत्तिकामतामुपादाय सूत्रपिटकव्यवस्थानम् / (अभिध्-स् 80) धर्मार्थसाक्षात्क्रियापदस्थानप्रभाविता मुपादाय विनयपिटकव्यवस्थानम् / ज्ञानिनां सांकथ्यविनिश्चयधर्मसंभोगसुख विहाराश्रयतामुपादाय अभिधर्मपिटकव्यवस्थानम् //
स एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः / श्रुतमय चिन्तामयभावनामयानां चित्तचैतसिकानां धर्माणां गोचरः // यदुक्तं सुत्रे चित्तचैतसिका धर्माः सालम्बनाः साकारः साश्रयाः ससंप्रयोगाश्च / तेषामस्मिन् धर्मे आलम्बनं कतमत् / सूत्रादिकम् // आकारः कतमः / स्कन्धादयस्तत्संप्रयुक्ताश्चार्थाः // आश्रयः कतमः / परविज्ञप्तिः स्मृतिर्वासना च // संप्रयोगः कतमः / अन्यो ऽन्यसहायभावेन आलम्बने आकारैः संप्रतिपत्तिः //
धर्मे आलम्बनप्रभेदः कतमः / संक्षेपेण चतुर्विधः आख्यातः / व्याप्यालम्बनं चरितविशोधनालम्बनं कौशल्यालम्बनं क्लेशविशोधनालम्बनं च //
व्याप्यालम्बनं पुनश्चतुर्विधम् / सविकल्पप्रतिबिम्बालम्बनं निर्विकल्पप्रतिविम्बालम्बनं वस्तुपर्यन्तालम्बनं कार्यपरिनिष्पत्त्यालम्बनं च // सविकल्पप्रतिबिम्बालम्बनं कतमत् / अधिमुक्तिमनस्कारेण यत् शमथविपश्यनाविषयालम्बनम् // निर्विकल्पप्रतिविम्बालम्बनं कतमत् / तत्त्वमनस्कारेण यत् शमथविपश्यनाविषयालम्बनम् // वस्तुपर्यन्तालम्बनं कतमत् / सर्वधर्माणां क्षयभाविकता यथावद्भाविकता च // क्षयभाविकता कतमा / स्कन्धधात्वायतनानि // यथावद्भाविकता कतमा / चत्वारि आर्यसत्यानि षोडशाकाराः तथता सर्वे अनित्याः संस्काराः सर्वे दुःखा संस्काराः सर्वे ऽनात्मानो धर्माः निर्वाणं शान्तं शून्यमप्रणिहितमनिमित्तं च // कार्यपरिनिष्पत्त्यालम्बनं कतमत् / आश्रयपरिवृत्तिः / इयमाश्रयपरिवृत्तिरचिन्त्या // षोडशाकारेषु शून्ये कति आकाराः संगृहीता भवन्ति / द्वौ / अप्रणिहिते कति आकाराः संगृहीता भवन्ति / षट् / अनिमित्ते कत्याकाराः संगृहीता भवन्ति / अष्टौ /
चरितविशोधनालम्बनं पञ्चविधम् / भूयोरागचरितानामशुभविषयालम्बनम् / भूयोद्वेषचरितानां करुणाभावना विषयालम्बनम् / भूयोमोहचरितानां निकायप्रत्ययता प्रतीत्यसमुत्पादविषयालम्बनम् / मदमानचरितानां धातुप्रभेदविषयालम्बनम् / वितर्क्कचरितानामवताराप्रतिवाणि स्मृतिविषयालम्बनम् //
कौशल्यालम्बनं पञ्चविधम् / स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्युअसमुत्पादकौशल्यं स्थानास्थानकौशल्यं च // स्थानास्थानकौशल्येन कमर्थं पश्यति / ज्ञेये प्रतित्यसमुत्पादकौशल्यं पश्यति // स्थानास्थानकौशल्यप्रतीत्यसमुत्पादकौशल्ययोः कः प्रभेदः / यत् धर्मा धर्मानभिनिष्यन्दयन्ति नह्येषां निर्हेतुको नापि विषमहेतुक उत्पाद इतीदं प्रतीत्यसमुत्पादकौशल्यम् / हेतुफलानुरूप्ये वेदयितोत्पाद इतीदं स्थानास्थानकौशल्यम् //
क्लेशविशोधनलम्बनं कतमत् / यद् अधोभूमिकानामौदरिकता ऊर्ध्वभूमिकानां शान्तता तथता चत्वार्यसत्यानि च / एतानि क्लेशविशोधनालम्बनानि नाम //
तत्र धर्ममीमांसाकामेन कतिभिर्युक्तिभिर्विचार्यते / चतसृभिर्युक्तिभिः / अपेक्षायुक्तिः कार्यकारणयुक्तिः उपपत्तिसाधनयुक्तिः धर्मतायुक्तिश्च // अपेक्षायुक्तिः कतमा / या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा / कार्यकारणयुक्तिः कतमा / पृथग्लक्षणानां धर्माणां प्रत्येकं कार्यकारणानि // उपपत्तिसाधनयुक्तिः कतमा / उपपत्तिसाधनार्थं साध्यस्यार्थस्य प्रामाणाविरुद्ध उपदेशः // धर्मतायुक्तिः कतमा / अनादिकालात् स्वलक्षणसामान्यलक्षणस्थितधर्मेषु या धर्मतापरिनिष्पत्तिः सा धर्मता // इति धर्मेषु विचारणा //
धर्मेषु कतमाः पर्येषणाः संभवन्ति / चतस्रः पर्येषणाः संभवन्ति / नामपर्येषणा वस्तुपर्येषणा स्वभावप्रज्ञप्तिपर्येषणा विशेषप्रज्ञप्तिपर्येषणा च // नामपर्येषणा कतमा / धर्मेषु नामकायपदकायव्यञ्जनकायानामपरिनिष्पन्नं स्वलक्षणमिति (अभिध्-स् 82) या सन्तीरणा // वस्तुपर्येषणा कतमा / धर्माणां स्कन्धधात्वायतनानामपरिनिष्पक्षं खलक्षणमिति या संतीरणा // स्वभावप्रज्ञप्तिपर्येषणा कतमा / धर्माणा मभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्ततासन्तीरणा // विशेषप्रज्ञप्तिपर्येषणा कतमा / धर्माणामभिधानाभिधेयसम्बन्धे विशेषप्रज्ञप्तिमात्रस्य व्यवहारनिमित्ततासन्तीरणा // इति धर्मपर्येषणाभावना //
धर्मेषु यथाभूतपरिज्ञानानि कतमानि संभवन्ति / चत्वारि यथाभूतपरिज्ञानानि / नामपर्येषितं यथाभूतपरिज्ञानं वस्तुपर्येषितं यथाभूतपरिज्ञानं स्वभावप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं विशेषप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं / नामपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य नामानुपलब्धिज्ञानम् // वस्तुपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य वस्तुलक्षणानुपलब्धिज्ञानम् // स्वभावप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य द्रव्यस्वभावानुपलब्धिज्ञानम् // विशेषप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य द्रव्यविशेषानुपलब्धिज्ञानम् /
धर्ममाश्रित्य समाधिप्रयुक्तस्य योगभूमिः कतमा ज्ञेया / पञ्चाकाराः / आधारः आधानम् आदर्शः आलोकः आश्रयश्च / आधारः कतमः / संभृतबोधिसंभारस्य ऊष्मगतादिषु आर्यसत्येषु च यद् वाहुश्रुत्यम् // आधानं कतमत् / तदालम्बनो योनिशो मनस्कारः // आदर्शः कतमः / तदालम्बनः सनिमित्तः समाधिः // आलोकः कतमः / ग्राह्यग्राहकानुपलब्धिज्ञानम् // एतदधिकृत्य सुष्ठु उक्तं बुद्धेन भगवता
प्रतिबिम्बं मनः पश्यन् बोधिसत्त्वः समाहितः / व्यावर्त्त्य विषये संज्ञा स्वसंज्ञामुपधारयन् //
एवमात्मस्थचित्तो ऽसौ ग्राह्याभावं विबोधयेत् / ततश्च ग्राहकाभावं नोपलम्भं स्पृशेत्ततः // इति /
आश्रयः कतमः / आश्रयपरिवृत्तिः //
कथं धर्मेषु धर्मकुशलो भवति / बहुश्रुततामुपादाय // कथमर्थकुशलो भवति / अभिधर्मे अभिविनये लक्षणज्ञतामुपादाय // कथं व्यञ्जनकुशलो भवति / स्व निरुक्तव्यञ्जन(ज्ञ)तामुपादाय // कथं निरुक्तिकुशलो भवति / आत्मात्मीयेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञतामुपादाय // कथं पूर्वान्तापरान्तानुसन्धिकुशलो भवति / पूर्वान्ते उद्ग्रहणं तामपरान्ते निःसरणं तामुपादाय //
कथं धर्मेषु धर्मविहारी भवति / भावनामनागम्य केवलश्रुतचिन्ताप्रयोगेण न धर्मविहारी भवति / श्रुतचिन्तामनगम्य केवलभावनाप्रयोगेण न धर्मविहारी भवति / उभयमागम्योभयविहारेण धर्मविहारी भवति // उद्ग्रहाय स्वाध्यायदेशनाभिः श्रुतमयं द्रष्टव्यम् // समधिप्रयोगासन्तुष्टिभ्यां भावनामयं द्रष्टव्यम् // प्रयोगः सातत्यसत्कृत्यप्रयोगेणाविपरीतप्रयोगेण च द्रष्टव्यः // असन्तुष्टिरनास्वादितोत्तशमयप्रयोगेण द्रष्टव्या //
केन कारणेन वैपुल्यं बोधिसत्त्वानां पारमितापिटकमुच्यते / पारमितानां संख्यानिर्द्देशतामुपादाय लक्षणनिर्द्देशतामुपादाय क्रमनिर्देशतामुपादाय निरुक्तिनिर्देशतामुपादाय भावनानिर्देशता मुपादाय प्रभेदनिर्देशतामुपादाय संग्रहनिर्देशतामुपादाय विपक्षनिर्देशतामुपादय गुणवर्णननिर्देशतामुपादाय अन्यो ऽन्यविनिश्चयतां चोपादाय //
केन कारणेन वैपुल्यं औदार्यं गाम्भीर्य च देश्यते / सर्वाकारज्ञता(म) उदारगम्भीरतामुपादय // केन कारणेन वैपुल्ये एकत्या(ः) सत्त्वा औदार्यगाम्भीर्यं नाधिमुच्यन्ते उत्त्रसन्ति / धर्मतावियुक्ततामुपादाय (अभिध्-स् 84) अनवरोपितकुशलमूलतामुपादाय पापमित्रपरिग्रहतां चोपादाय // केन कारणेन वैपुल्ये एकत्याः सत्त्वा अधिमुच्यन्ते / (अधिमुच्य)माना अपि न निर्यान्ति / स्वयंदृष्टिपरामर्श स्थापितया / इदं च सन्धायोक्तं भगवता महाधर्मादर्शे धर्मपर्याये बोधिसत्त्वस्य यथारुत मयोनिशो धर्मान्विचिन्वतः अष्टाविंशतिरसदृष्टय उत्पद्यन्ते // अष्टाविंशतिरसदृष्टयः कतमाः / निमित्तदृष्टिः प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिः तत्त्वापवाददृष्टिः परिग्रहदृष्टिः परिणतिदृष्टिः अनवद्यतादृष्टिः निःसरणदृष्टिः अवज्ञादृष्टिः प्रकोपदृष्टिः विपरीतदृष्टिः प्रसवदृष्टिः अनभ्युपगमदृष्टिः कुसृतिदृष्टिः सत्कारदृष्टि दृढमूढतादृष्टिः मूलदृष्टिः दृष्टावदृष्टदृष्टिः प्रयोगनिराकरणदृष्टिः अनैर्याणिकदृष्टिः आवरणोपचयदृष्टिः अपुण्यप्रसवदृष्टिः वैफल्यदृष्टिः निग्राह्यदृष्टिः अभ्याख्यानदृष्टिः अकथ्यदृष्टिः महादृष्टिः अभिमानदृष्टिश्च //
यदुक्तं वैपुल्ये निःस्वभावाः सर्वधर्मा इति / तत्र को ऽभिसन्धिः / स्वयमभावतामुपादाय स्वेनात्मनाभावतामुपादाय स्वे भावे ऽनवस्थितात्म (ता)मुपादाय बालग्राहवच्चालक्षणतामुपादाय // अपि खलु परिकल्पिते स्वभावे लक्षणनिःस्वभावतामुपादाय परतन्त्रे उत्पत्तिनिःस्वभावतामुपादाय परिनिष्पन्ने परमार्थनिःस्वभावतामुपादाय // अनुत्पन्ना अनिरुद्धा आदिशान्ता(ः) प्रकृतिपरिनिर्वृता इति को ऽभिसन्धिः / यथा निःस्वभावास्तथा अनुत्पन्नाः / यथा अनुत्पन्नास्तथा अनिरुद्धाः / यथा अनुत्पन्नाश्चानिरुद्धाश्च तथा आदिशान्ताः / यथा आदिशान्ता स्तथा प्रकृतिपरिनिर्वृताः //
अपि खलु चत्वारो ऽभिप्रायाः / यैर्वैपुल्ये तथागतानामभिप्रायो ऽनुगन्तव्यः / समताभिप्रायः कालान्तराभिप्रायः अर्थान्तराभिप्रायः पुग्दलाशयाभिप्रायश्च //
चत्वारो ऽभिसन्धयो यैवपुल्ये तथागतानामभिसन्धिरनुगन्तव्यः / अवतारणाभिसंधिः लक्षणाभिसन्धिः प्रतिपक्षाभिसन्धिः परिणामनाभिसन्धिश्च //
वैपुल्ये धर्मसमाधिकुशलो बोधिसत्त्वः कथं प्रत्यवगन्तव्यः / पञ्चभिः कारणैः / प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति / नानात्वसंज्ञाविगतां च धर्मारामरतिं प्रतिलभते / अपरिच्छिन्नाकारं वाप्रमाणां धर्मावभासं संज्ञानाति / विशुद्धभागीयानि चास्याविकल्पितानि निमित्तानि समुदाचरन्ति / धर्मकायपरिपूरि परिनिष्पत्तये चोत्तरादुत्तरतरं हेतुमयपरिग्रहं करोति /
तत्र पञ्चविधायां भावनायां फलं पञ्चविधं निर्वत्तिर्तमिति दर्शयति / पञ्चविधा भावना संभिन्नभावना अनिमित्तभावना अनाभोगभावना उत्तप्तभावना परिवृत्तिनिभः(?) भावना यथाक्रमम् //
केन कारणेन वैपुल्यधर्मो धूपमाल्यादिभिः पूज्यो न तथा श्रावकधर्मः सर्वसत्त्वहितसुखाधिष्ठानतामुपादाय //
अभिधर्मसमुच्चये धर्मविनिश्चयो नाम तृतीयः समुच्चयः //
(महायानाभिधर्मसमुच्चयशास्त्रे विनिश्चये प्राप्तिपरिच्छेदे तृतीये प्रथमो भागः /)
प्राप्तिविनिश्चयः कतमः / संक्षेपतो द्विविधः / पुद्गलव्यवस्थानतः अभिसमय व्यवस्थापनतश्च द्रष्टव्यः //
पुद्गलव्यवस्थानं कतमत् / समासतः सप्तविधम् / रोग चरितप्रभेदतः निर्याणप्रभेदतः आधारप्रभेदतः प्रयोगप्रभेदतः फलप्रभेदतः धातुप्रभेदतः चर्याप्रभेदतश्च //
रोगचरितप्रभेदः कतमः / सप्तविधः / रागचरितः द्वेषचरित मोहचरितः मानचरितः वितर्कचरितः समभागचरितः मन्दरजस्क चरितश्च पुद्गलप्रभेदः // निर्याणप्रभेदः कतमः / त्रिविधः / श्रावकयानिकः प्रत्येकबुद्धयानिकः महायानिकश्च पुद्गलप्रभेदः // आधारप्रभेदः कतमः / त्रिविधः / असंभृतसंभारः संभृतासंभृतसंभारः संभृतसंभारश्च पुद्गलप्रभेदः // प्रयोगप्रभेदः कतमः / श्रद्धानुसारी धर्मानुसारी च पुद्गलप्रभेदः // फलप्रभेदः कतमः / सप्तविंशतिविधः / श्रद्धाधिमुक्तः दृष्टिप्राप्तः कायसाक्षी प्रज्ञाविमुक्तः उभयतोभागविमुक्तः स्त्रोतापत्तिफलप्रतिपक्षकः स्त्रोतआपन्नः सकृदागामिफलप्रतिपन्नकः सकृदागामी अनागामिफलप्रतिपन्नकः अनागामी अर्हत्त्वफलप्रतिपन्नकः अर्हन् सप्तकृद्भवपरमः कुलंकुलः एकवीचिकः अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्द्द्वंस्त्रोताः परिहाणधर्मा अर्हन् चेतनाधर्मा अर्हन् अनुरक्षणाधर्मा अर्हन् स्थिताकम्प्यः अर्हन् प्रतिवेधधर्मा अर्हन् अकोप्यधर्मा अर्हन् च पुद्गलप्रभेदः // धातुप्रभेदः कतमः / कामावचरः पृथग्जनः शीक्षो ऽशैक्षश्च / एवं त्रिविधः कामावचरो रूपावचर आरुप्यावचरः / कामावचरो रूपावचरश्च बोधिसत्त्वः कामावचरः प्रत्येकबुद्धः अचिन्त्यश्च तथागतः पुद्गलप्रभेदः // चर्याप्रभेदः कतमः / संक्षेपतः पञ्चविधः / अधिमुक्तिचारी बोधिसत्त्वः अध्याशयचारी बोधिसत्त्वः निमित्तचारी बोधिसत्त्वः अनिमित्तचारि बोधिसत्त्वः अनभिसंस्कारचारी बोधिसत्त्वश्च पुद्गलप्रभेदः //
रागचरितः पुद्गलः कतमः / तीव्रा यतरागः / एवं द्वेषचरितो मोहचरितो मानचरितो वितर्कचरितश्च पुद्गलः तीव्रायतविशिष्टः // समभागचरितः (अभिध्-स् 87) पुद्गलः कतमः // प्रकृतिस्थक्लेशः // मन्दरजस्कचरितः पुद्गलः कतमः / प्रकृतिस्थतनुतरक्लेशः //
श्रावकयानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा श्रावकधर्मताविहारी प्रकृत्या मृद्विन्द्रियः स्वविमुक्तये प्रणिहितः वैराग्यभावनया विमुक्ताशयः श्रावकपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी दुःखस्यान्तमनुप्राप्नोति // प्रत्येकबुद्धयानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा प्रत्येकबुद्धधर्मताविहारी प्रकृत्या मध्येन्द्रियः स्वविमुक्तये प्रणिहितः वैराग्यभावनया विमुक्ताशयः केवलभावनया चाधिगतवोध्याशयः श्रावकपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी अनुत्पादितपूर्वनिर्वेधभागीयः उत्पादितपूर्वनिर्वेधभागीयः अप्राप्तपूर्वफलः अबुद्धलौकिकः अध्यात्म चेतनया आर्य मार्गसंमुखीभूतः खड्गविषाणकल्पः एकविहारी प्रत्येकजिनः वर्ग्गचारि दुःखस्यान्तमनुप्राप्नोति // महायानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा बोधिसत्त्वधर्मताविहारी प्रकृत्या तीक्ष्णेन्द्रियः सर्वसत्त्वविमोक्षाय प्रणिहितः अप्रतिष्ठितनिर्वाणाशयः बोधिसत्त्वपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी सत्त्वान् परिपाचयति शुद्धां बुद्धभूमिं भावयति व्याकरणं च प्रतिलभते सम्यक्संबोधिं च साक्षात्करोति //
असंभृतसंभारः पुद्गलः कतमः / सत्याधिपतेयं धर्ममालम्ब्य मृदुमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः मृदुमात्रामोक्षभागीयसमन्वागतः अनियतजन्मकालिकः // संभृतासंभृतसंभारः पुद्गलः कतमः / सत्याधिपतेयं धर्ममालम्ब्य मध्यमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः मध्यमात्रमोक्षभागीयसमन्वागतो नियतजन्मकालिकः // संभृतसंभारः पुद्गलः कतमः / सत्याधिपतयं धर्ममालम्ब्य अधिमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः अधिमात्रमोक्षभागीयसमन्वागतः (अभिध्-स् 88) तज्जन्मकालिकः // पुनः असंभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु मृदुमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतो मृदुमात्र निर्वेधभागीयसन्वागत अनिवतजन्मकालिकः // संभृतासंभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु मध्यमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतः मध्यमात्रनिर्वेधभागीयसमन्वागतो निथतजन्मकालिकः // संभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु अधिमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतः अधिमात्रनिर्वेधभागीयसमन्वागतः तज्जन्मकालिकः // तत्र त्रिमात्रनिर्वेधभागीयो लौकिकाग्रधर्मं स्थापयित्वा लौकिकाग्रधर्मप्रकृत्यैव क्षणिकः अप्रावन्धिकः // तज्जन्मकालिकः अभिसमयं समापद्यमानो ऽपूर्ववस्थ मृदुमध्याधिमात्रमोक्षभागीयेभ्यो [निर्वेध]भागीयेभ्यश्च परिहीयते / तच्च समुदाचारपरिहाणितो नो तु वासनापरिहाणितः /
श्रद्धानुसारी पुद्गलः कतमः / संभृतसंभारो मृद्विन्द्रियः परोपदेशमनुस्मृत्य यः सत्याभिसमयाय प्रयुज्यते // धर्मानुसारी कतमः / संभृतसंभारस्तीक्ष्णेन्द्रियः स्वयमेव सत्याधिपतेयं धर्ममनुस्मृत्य यः [सत्याभि]समयाय प्रयुज्यते //
श्रद्धाधिमुक्तः कतमः / फलकाले श्रद्धानुसारी यः पुग्दलः // दृष्टिप्राप्तः कतमः / फलकाले धर्मानुसारी यः पुद्गलः // कायसाक्षी कतमः / शैक्षः अष्टविमोक्षध्यायी यः पुद्गलः // प्रज्ञाविमुक्तः कतमः / क्षीणास्रवो भोत्वष्टविमोक्षध्यायो यः पुग्दलः // उभयतोभागविमु[क्तः कत]मः / क्षीणास्रवो ऽष्टविमोक्षध्यायी यः पुद्गलः // स्त्रोतापत्तिफलप्रतिपन्नकः कतमः / निर्वेधभागीयेषु पञ्चदशसु दर्शनमार्गचित्तक्षणेषु यः पुद्गलः // स्त्रोत आपक्षः कतमः / षोडशे दर्शनमार्गचित्तक्षणे यःपुद्गलः //
दर्शनमार्ग(ः) सत्यकत्वनियामावक्रान्तिः / धर्माभि[समये]पि सः / कामेष्ववीतरागः पुद्गलः सम्यक्त्वनियाममवक्रामन् स्त्रोतआपन्नो भवति // यद्भूयो वीतरागः सम्यक्त्वनियाममवक्रामन् सकृदागामी भवति / कामेभ्यो वीतरागः सम्यक्त्वनियाममवक्रामन्ननागामी भवति // यदा दर्शन प्रहातव्यानां क्लेशानां प्रहाणात् [स्तोत आ]पन्नो भवति // केन कारणेन त्रयाणां संयोजनानां प्रहाणात् स्त्रोतआपन्नो भवति / प्रधानसंग्रह(त) ऽभवति / प्राधान्यं किमुपादाय / अनुच्चलनकारणतामुपादाय / उच्चलितस्य मिथ्यानिर्याणकारणतामुपादाय / सम्यगनिर्याण(कारण)तां चोपादाय // अपि खलु ज्ञेयविप्र[तिपत्ति]कारणतामुपादाय दृष्टिविप्रतिपत्तिकारणतामुपादाय प्रतिपक्षविप्रतिपत्तिकारणतां चोपादाय // सकृदागामिफलप्रतिपन्नकः कतमः / भावनामार्गे कामावचराणां पञ्चप्रकाराणां क्लेशानां प्रहाणमार्गे यः पुद्गलः / सकृदागामी कतमः / भावनामार्गे कामावचरस्य षष्ठस्य क्लेशप्रका[रस्य प्र] हाणमार्गे यः पुग्दलः // अनागामिफलप्रतिपन्नकः कतमः / भावनामार्गे कामावचराणां सप्तमाष्टमानां क्लेशप्रकाराणां प्रहाणमार्गे यः पुद्गलः // अनागामी पुद्गलः कतमः / भावनामर्गे कामावचरस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः // यदा सर्वेषां कामावचरा[णां भाव]नाप्रहातव्यानां प्रहाणादनागामी भवति // केन कारणेन पञ्चानामवरभागीयानां संयोजना प्रहाणादनागामीत्युच्यते / प्रधानसंग्रहमुपादाय // प्राधान्यं किमुपादाय / गत्यवर कारणतां धात्वपरकारणतां चोपादाय //
अर्हत्त्वफलप्रतिपन्नकः कतमः / यावद्भावाग्रिकाणामष्टप्रकाराणां [क्लेशानां] प्रहाणमार्गे यः पुद्गलः // अर्हन् (अभिध्-स् 90) कतमः / भावाम्रिकस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः // यदा त्रैधातुकानां कामावचराणां सर्व्वक्लेशानां प्रहाणादर्हन् भवति // केन कारणेनोर्द्भभागीयानां प्रहाणादर्हन्नित्युच्यते / प्रधानसंग्रहमुपादाय / प्रधान संग्रहः कि[मुपादाय] / विमोक्षोपादान कारणतामुपादाय / ऊर्द्द्वा परित्यागकारणतां चोपादाय / सप्तकृद्भवरपरमः कतमः / स्त्रोतआपन्न एव पुद्गलः सप्तकृत्वो ऽपि मिश्रोमिश्र देवमनुष्येषु भवात् संसृत्य यो दुःखस्यान्तमनुप्राप्नोति // कुलंकुलः कतमः / देवेषु वा कुलात्कुलं गत्वा [मनुष्ये]षु वा यो दुःखस्यान्तमनुप्राप्नोति // एकवीचिकः कतमः / सकृदागामी देवेष्वेव यो दुःखस्यान्तमनुप्राप्नोति // अन्तरापरिनिर्वायी कतमः / उपपत्तिसंयोजने प्रहीणे अभिनिवृत्तिसंयोजने अप्रहीणे अन्तराभवमभिनिर्वर्त्तयन्नेव यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति अभिनिवृत्तो वा अन्तराभवे उपपत्तिभवगमनाय चेतयन्नेवयो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / अभिसंचेतयित्वा वा उपपत्तिभवमभिसंप्रस्थितः [भवानु]पपत्तिच्छन्दं यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // उपपद्यपरिनिर्वायी कतमः / उभयसंयोजने अप्रहीणे रूपधातावुपपन्नमात्र एव यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // अनभिसंस्कारपरिनिर्वायी कतमः / उपपन्नः अनभिसंस्कारेण यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति //
अभिसंस्कारपरिनिर्वायी कतमः / उपपन्नो ऽभिसंस्कारेण यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // ऊर्ध्वंस्त्रोताः कतमः / उपपन्नो रूपावचराणां भूमौ भूमौ यावदकनिष्ठगान् प्रविश्य तन्नानास्रव मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / पुन कश्चिद् यावद् भवाग्रगान् मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / अपि च व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य पञ्चप्रकारा प्रभेदाः / मृदुपरिभावितं मध्यपरिभावितमधिमात्रपरिभावितमधिमात्राधिमात्रापरिभावितमध्याधिमात्रपरिभावितं (अभिध्-स् 91) च / तैः व्यवकीर्णाभावितस्य चतुर्थध्यानस्य पञ्चप्रभेदैः यथाक्रमं पश्चसु शुद्धावासेषूपपत्तिः //
परिहाणधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा चेतयित्वा वा अचेतयित्वा वा दृष्टधर्मसुख विहारात् परिहाणमेति // चेतनाधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा अचेतयित्वा दृष्टधर्मसुखविहारात् परिहाणमेति चेतयित्वा न परिहाणमेति // अनुरक्षणाधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो दृष्टधर्मसुखविहारात् / परिहाणमेति अविक्षिप्तो न परिहाणमेति // स्थिताकम्प्यः अर्हन् कतमः / मृद्विन्द्रिय प्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा दृष्टधर्मसुखविहारात् न परिहाणमेति नापि इन्द्रियाण्युत्तापयति // प्रतिवेधनाधर्मा अर्हन् कतमः / मृद्विन्द्रियाप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा दृष्टधर्मसुखविहरात् न परिहाणमेति केवल मिन्द्रिया ण्युत्तापयति // अकोप्यधर्मा अर्हन् कतमः / तीक्ष्णेन्द्रियप्रकृतिको विक्षिप्तो व अविक्षिप्तो वा न दृष्टधर्मसुखविहारात् परिहाणमेति //
कामावचरः पृथग्जनः कतमः / कामधातावुपपन्नो भवति आर्यधप्राप्तः पुद्गलः च // कामावचरः शैक्षः कतमः / कामाधातावुपपन्नो भवति अधर्मं च प्राप्तः पुद्गलः / संयोजनं चावशिष्यते // कामावचरो ऽशैक्षः कतमः / कामाधातावुपपन्नो भवति आर्यधर्मं च प्राप्तः पुद्गलः / संयोजनं नावशिष्यते // यथा कामावचरास्त्रयः तथा रूपावचरा आरुप्यवचरा अपि // कामावचरो रूपावचरो बोधिसत्त्वः कतमः / आरूप्यधातुव्यवकर्षितेन ध्यानेन संप्रयुक्तो ध्यानसुखैर्विहरतीति कामधातावप्युपपन्नो रूपधातावप्युपपन्नः पुद्गल कामावचरः प्रत्येकबुद्धः कतमः / अबुद्धभवे कामधातौ स्वतः प्रत्येकबुद्धबोधिमभिसंबुद्धः // (अभिध्-स् 92) अचिन्त्यः तथागतः कतमः / कामधातौ तुषितभवनयासमारभ्य यावत् महापरिनिर्वाणं दर्शयति सर्वां बोधिसत्त्वचर्यां बुद्धचर्यां महाचर्यां दर्शयतीति पुद्गलः /
अधिमुक्तिचारी बोधिसत्त्वः पुद्गलः कतमः / अधिमुक्तिचर्याभूमौ स्थितो मृदुमध्याधिमात्रबोधिसत्त्वक्षान्तिसमन्वागतः पुद्गलः // अध्याशयचारी बोधिसत्त्वः पुद्गलः कतमः / दशसु भूमिषु स्थितो यो बोधिसत्त्वः // सनिमित्तचारी बोधिसत्त्वः पुद्गलः कतमः / प्रमुदिताविमलाप्रभाकर्यर्चिष्मतीसुदुर्जयाभिमुखीभूमिषु स्थितो यो बोधिसत्त्वः // अनिमित्तचारी बोधिसत्त्वः पुद्गलः कतमः / दुरंगमभूमौ स्थितो यो बोधिसत्त्वः // अनभिसंस्कारचारी बोधिसत्त्वः पुद्गलः कतमतः / अचला साधुमतीधर्ममेघासु भूमिषु स्थितो यो बोधिसत्त्वः //
पुनः खलु स्त्रोतआपन्नः पुग्दलो यदुक्तः स द्विविधः / क्रमनैर्याणिकः सकृन्नैर्याणिकश्च / क्रसनैर्याणिको यथा पुर्वमुक्तः // सकृन्नैर्याणिकः सत्याभिसमयमभिसंप्रविष्टः अप्राप्त समापत्तिमाश्रित्य अधिगतेन लोकोत्तरमाग्रेण सकृत त्रैधातुकावचरान् सर्वक्लेशान् प्रजहाति प्रकारशः प्रजहाति / द्वयोः फलयो स्त्रोतापत्तिफलार्हत्त्वफलयोः प्रज्ञाप्यते / स च पुद्गलो भूयो दृष्टे धर्मे मरणकाले आज्ञामारागयति / यदि नारागयति प्रणिधानवशेन / तर्हि प्रणिधानवशेन कामधातावेवोपपन्नः अवुद्धभवे प्रत्येकजिनोभवति /
(अथ विनिश्चये प्राप्तिपरिच्छेदे तृतीये द्वितीयो भागः)
अभिसमयव्यवस्थानं कतमत् / समासतो दशविधम् / धर्माभिसमयः (अभिध्-स् 93) अर्थाभिसमयः तत्त्वाभिसमयः पृष्ठाभिसमयः रत्नाभिसमयः असमुदाचाराभिसमयः निष्ठाभिसमयः श्रावकाभिसमयः प्रत्येकबुद्धाभिसमयः बोधिसत्त्वाभिसमयश्च //
धर्माभिसमयः कतमः / सत्याधिपतेयेषु धर्मेषु अधिमात्रस्य अधिमुक्तिप्रसादस्य प्रतिलम्भः यथासंप्रत्ययं चर्या च //
अर्थाभिसमयः कतमः सत्याधिपतेयेषु धर्मेषु अधिमात्रायाः सत्येषु धमनिध्यानक्षान्तेः प्रतिलम्भः / सा क्षान्ति निर्वेधभागीयावस्थां गता / सा पुनस्त्रिविधेन योनिशो मनस्कारेण प्रभाविता / स त्रिविधस्तु अधिमात्रमृदुः अधिमात्रमध्यो ऽधिमात्राधिमात्रश्च //
तत्त्वाभिसमयः कतमः / षोडशे दर्शनमार्गचित्तक्षणे य आर्यमार्गं प्रतिलभते / दर्शनमार्गे पुनः सत्ये व्यवस्थापनाद्यभिसमयान्तिकानि संमुखीकरोति / भावनामार्गे तत्संवृतिज्ञानानि प्रतिलभते न तु संमुखीकरोति / भावनामार्गे तत्संवृतिज्ञानबलेन संमुखीकरोति /
पृष्ठाभिसमयः कतमः / सर्वो भावनामार्गः //
रत्नाभिसमयः कतमः / बुद्धे ऽवेत्य प्रसादः धर्मे ऽत्य प्रसादः संघे ऽवेत्य प्रसादः //
असमुदाचाराभिसमयः कतमः / अकारणसंवरलाभात् शिक्षागतस्य यदात्मनो नरकक्षयं तिर्यग्योनिक्षयः प्रेतयोनिक्षयः अवाङ्पतनदुर्गतिक्षयः इति / न पुनरुपादाय तद् दुर्गतिकर्म दुर्गतिविपाको ऽभिनिर्वर्त्तते /
निष्ठाभिसमयः कतमः / यथा मार्गसत्ये निष्ठामार्ग उक्तः //
श्रावकाभिसमयः कतमः / पूर्वोक्तः सप्तविधो ऽभिसमयः / श्रावकाणां परतो घोषमागम्य प्रतिलम्भतः श्रावकाभिसमय इत्युच्यते //
प्रत्येकबुद्धाभिसमयः कतमः / पूर्वोक्ताः सप्ताभिसमयाः / परतो घोषमनागम्य प्रतिलम्भतः प्रत्येकबुद्धाभिसमय इत्युच्यते //
बोधिसत्त्वाभिसमयः कतमः / पूर्वोक्तेषु सप्ताभिसमयेषु या समुदागमक्षान्तिः नो तु सक्षात्किर्या / केवलं बोधिसत्त्व प्रमुदिताभूमौ बोधिसत्त्वस्य सम्यक्त्वनियामावक्रान्तिः / सा बोधिसत्त्वाभिसमयो वेदितव्याः //
श्रावकाभिसमयात् बोधिसत्त्वाभिसमयस्य को विशेषः / संक्षेपत एकादश / आलम्बनविशेषः उपस्तम्भविशेषः प्रतिवेधविशेषः अभ्युपगमविशेषः निर्याणविशेषः परिग्रहविशेषः व्यवस्थानविशेषः प्रतिष्ठापरिवारविशेषः अभिजन्मविशेषः जन्मविशेषः फलविशेषश्च / फलविशेषः पुनर्दशविधः / आश्रयपरिवृत्तिविशेषतः गुणसमृद्धिविशेषतः पञ्चाकारविशेषतः त्रिकायविशेषतः निर्वाणविशेषतः मिश्रोपमिश्रज्ञानशक्तिलाभविशेषतः आवरणविशुद्धिविशेषतः मिश्रोपमिश्रकर्मक्रियाविशेषतः अभिसंबोधिनिर्वाणसन्दर्शनोपायविशेषतः पञ्चाकारपरित्राणविशेषतश्च वेदितव्यः //
अप्रमाणादिवैशेषिकगुणानां कतमैरभिसमयैः संग्रहः / पृष्ठाभिसमयनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः // तेषां संग्रहः पुनः कतमः / अप्रमाणानि विमोक्षाः अभिभ्वायतनानि कृत्सायतनानि अरणाप्रणीधिज्ञानम् प्रतिसंविदः अभिज्ञा लक्षणानुव्यञ्जनानि परिशुद्धयः वलानि वैशारद्यानि स्मृत्युपस्थानानि अरक्षाणि असंप्रमोषधर्मता वासनासमुद्धातः महाकरुणा आवेणिका बुद्धधर्माः सर्वाकारज्ञता इत्येवमादयो गुणा यथा सूत्रान्तरेषु निर्दिष्टाः //
अप्रमाणानि कतमानि / चत्वारि अप्रमाणानि / मैत्री कतमा / ध्यानं निश्रित्य सत्त्वाः सुखेन संप्रयुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // करुणा कतमा / ध्यानं निश्रित्य सत्त्वा दुःखेन वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // मुदिता कतमा / (अभिध्-स् 95) ध्यानं निश्रित्य सत्त्वाः सुखेन न वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // उपेक्षा कतमा / ध्यानं निश्रित्य सत्त्वा हित लभेरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
विमोक्षाः कतमे / अष्टौ विमोक्षाः / कथं रूपी रूपाणि पश्यतीति / ध्यानं निश्रित्य अध्यात्मं द्रष्टरि रूपसंज्ञाया अविभावानाद् द्रष्टरी रूपसंज्ञायाः संनिवेशनाद् वा दृश्य रूपादि पश्यतीति विहारसमृद्धो समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः यावद् निर्माणावरणाद् विमुक्तिः // कथमध्यात्ममरूपसंज्ञी वहिर्द्धा रूपाणि पश्यति / ध्यानं निश्रित्य द्रष्टरि रूपसंज्ञाया विभावनाद् अरूपसंज्ञायाः संनिवेशनाद्वा दृश्य रूपाणि पश्यतीति विहारसमृद्धौ समाधि प्रज्ञा शेषं पूर्ववत् // कथं शुभं विमोक्षं कायेन साक्षात्कृत्योपसंपद्य विहरतीति / ध्यानं निश्रित्य अध्यात्मं शुभाशुभेषु रूपेषु अन्योन्यापेक्षासंज्ञाया अन्योन्यानुगमसंज्ञाया अन्योन्यैकरससंज्ञायाश्च लभात् तत्र लब्धे विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् यावत् शुभशुभनिर्माणात् संक्लेशोत्पत्त्यावरणाच्च विमुक्तिः // आकाशानन्त्यायतनविमोक्षः कतमः / विमोक्षानुकूला काशानन्त्यायतनविमोक्षः तथा विज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनविमोक्षा अपि द्रष्टव्यः यावत् विमोक्षः शान्तो विमोक्षः असक्त्यावरणं च // संज्ञावेदयितनिरोधविमोक्षः कतमः / नैवसंज्ञानसंज्ञायतनविमोक्षं निश्रित्य समतिक्रान्तानां शिष्टे शान्ते विमोक्षे मोक्षानुसदृशो विहारः विहारसमृद्धौ च चित्तचैतसिकानां निरोधः संज्ञावेदयितनिरोधावरणाद् विमुक्त्यर्थम् //
अभिभ्वायतनानि कतमानि / अष्टावभिभ्वायतनानि / पूर्वाणी चत्वारि अभिभ्वायतनानि द्वाभ्यां विमोक्षाभ्यां व्यवस्थाप्यन्ते / उत्तराणि चत्वारि अभिभ्वावतनानि एकेन विमोक्षेण व्यवस्थाप्यन्ते / तत्र विमोक्षैरालम्बनमधिमुच्यते अभिभ्वायतनेषु आलम्बनप्रभिभवति / वशवर्त्तनता मुपादाय // सत्त्वसंख्यातानि असत्त्वसंख्यातानि चाश्रित्य रूपाणि परित्ताधिमात्राण्युच्यन्ते / शुभाशुभान्याश्रित्य रूपाणि सुवर्णदुर्वर्णान्युच्यन्ते / मानुष्यकदिव्यान्याश्रित्य रूपाणि हीनप्रणीतान्युच्यन्ते // शिष्टानि यथा विमोक्षेषूक्तानि // आलम्बनाभिभवनतामुपादाय अभिभ्वायतनानीत्युच्यन्ते //
कृत्स्नायतनानि कतमानि / दश कृत्स्नायतनानि / कृत्स्नस्फरणालम्बनतामुपादाय कृत्स्नायतनानीत्युच्यते / कृत्स्नस्फरणविहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः कृत्स्नायतनानीत्युच्यन्ते // किमुपादाय कृत्स्नायतनेषु पृथिव्यादिव्यवस्थापनम् / तैः कृत्स्नायतनैः आश्रयाश्रितरूपाणि पश्यतीति कृत्स्नस्फरणतामुपदय / शिष्टानि यथायोगं विमोक्षवत् // तथा च कृत्स्नायतनैः परिनिष्पत्तिर्विमोक्षाणाम् //
अरणा कतमा / ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
प्रणिधिज्ञानं कतमत् / ध्यानं निश्रित्य ज्ञेय ज्ञानप्रणिधिसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
प्रतिसंविदः कतमाः / चतस्रः प्रतिसंविदः / धर्मप्रतिसंविद् कतमा / ध्यानं निश्रित्य सर्वधर्म पर्यायेषु अव्याघातसमृद्धौ समाधीः प्रज्ञाशेषं पूर्ववत् // अर्थप्रतिसंविद् कतमा / ध्यानं निश्रित्य लक्षणे अभिप्राये (अभिध्-स् 97) चाव्याघातसमृद्दौ समाधिः प्रज्ञा शेषं पूर्ववत् // निरुक्तिप्रतिसंविद् कतमा / ध्यानं निश्रित्य जनपदभापायामनुव्यवहारे धर्मनिर्वचने च अव्याघात समृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // प्रतिभानप्रतिसंविद् कतमा / ध्यानं निश्रित्य धर्मप्रभेदेषु अव्याघातसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
अभिज्ञा कतमाः / षडभिज्ञाः / ऋद्ध्यभिज्ञा कतमा / ध्यानं निश्रित्य विचित्रर्द्धिविकुर्वित समृद्धौ समाधिः प्रज्ञा तत्सप्रयुक्ताश्च चित्तचैतसिका धर्माः // दिव्यश्रोत्राभिज्ञा कतमा / ध्यानं निश्रित्य विचित्राणां शब्दानामनुश्रवसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // चेतःपर्यायाभिज्ञा कतमा / ध्यानं निश्रित्य परसत्त्वेषु चित्तचरितपर्याय प्रवेशसमृद्धौ यः समाधि प्रज्ञा शेषं पूर्ववत् // पूर्वनिवासानुस्मृत्यभिज्ञा कतमा / ध्यानं निश्रित्य पूर्वान्तचर्यानुस्मरणसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // च्युत्युपपादाभिज्ञा कतमा / ध्यानं निश्रित्य सत्त्वानां च्युत्युपपादप्रकार संदर्शनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // आस्रवक्षयाभिज्ञा कतमा / ध्यानं निश्रित्य आस्रवक्षयज्ञानसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
लक्षणानुव्यञ्जनानि कतमानि / ध्यानं निश्रित्य लक्षणानुव्यञ्जनैर्विभ्राजमानसन्दर्शनसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयूक्ताश्च चित्तचैतसिका धर्माः तत्समुत्थितविपाकाश्च //
परिशुद्धयः कतमाः / चतस्रः परिशुद्धयः / आश्रयपरिशुद्धिः कतमाः / ध्यानं निश्रित्य यथाकाममश्रयस्योपादाने स्थानपरित्यागानां समृद्धौ यः समाधीः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // आलम्बनपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकाममालम्बननिर्माणपरिणामनज्ञानानां समृद्धौ यः समाधि प्रज्ञा शेषं पूर्ववत् // चित्तपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकामं समाधिमुखवशवर्त्तिसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // ज्ञानपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकामं धारणीमुखसन्धारणसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
बलानि कतमानि / बश तथागतबलानि / स्थानास्थानबलं कतमत् ध्यानं निश्रित्य सर्वप्रकार स्थानास्थानज्ञानसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // कर्मस्वकज्ञानबलं कतमत् / ध्यानं निश्रित्य सर्वप्रकार कर्मस्वकज्ञानसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // शिष्टानि बलानि यथायोगं वेदितव्यानि //
वैशारद्यानि कतमानि / चत्वारि वैशारद्यानि // अभिसंबोधिवैशारद्यं कतमत् / ध्यानं निश्रित्य स्वार्थमेवारभ्य सर्वाकारज्ञेयाभिसंबोधिप्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // आस्रवक्षयवैशारद्यं कतमत् / ध्यानं निश्रित्य स्वार्थमेवारभ्य सर्वाकारस्रवक्षयप्रतिज्ञा प्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // अन्तरायिकधर्मवैशारद्यं कतमत् / ध्यानं निश्रित्य परार्थमारभ्य सर्वाकारान्तरायिकधर्मप्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // नैर्याणिकप्रतिपदवैशारद्यं कतमत् / ध्यानं निश्रित्य परार्थमारभ्य सर्वाकार नैर्याणिकमार्गधर्म प्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
स्मृत्युपस्थानानि कतमानि / त्रीण्येव स्मृत्युपस्थानानि / गणपरिकर्षणे सर्वाकारसंक्लेशासमुदाचारसमृद्धौ यः समाधिः प्रज्ञा शेषं पुर्ववत् //
अरक्षाणि कतमानि / त्रीण्येरवारक्षाणि // गणपरिकर्षणे यथाकाममववादानुशासनीप्रयोगसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
असंप्रमोषधर्मता कतमा / सर्वाकारस्य यथावत् कृतस्स भाषितस्य चाभिलपनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
वासनासमुद्घातः कतमः / सर्वज्ञस्य सतः असर्वज्ञचेष्टितासमुदाचारसमृद्दौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
महाकरुणा कतमा / निरन्तरं सर्वप्रकारदुःखालम्बनकरुणाविहारसमृद्दौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
आवेणिका बुद्धधर्माः कतमे / अष्टादशावेणिका बुद्धधर्माः // असाधारण कायवाङ्गनस्कर्थपरिशुद्धि समृद्दौ साश्रयाणां सफलानां तथागतेन्द्रियाणमप्राप्त्यामपरिहाणिसमृद्धौ असाधारण कर्मसमुदाचारसमृद्धौ असाधारणज्ञानविहारसमृद्धौ च यः समाधिः प्रज्ञा शेषं पूर्ववत् //
सर्वाकारज्ञता कतमा / स्कन्धधात्वायतनानां सर्वाकारज्ञतासमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
एतेषां गुणानमभिनिर्हारः कतमः / विशुद्धानि चत्वारि ध्यानानि निश्रित्य अन्यतीर्थीयः श्रावको बोधिसत्त्वो वा अभिनिर्हरति चत्वारि अप्रमाणान्येवं पञ्चाभिज्ञाः / शेषान् गुणान् प्रान्तकोटिकं चतुर्थं ध्यानं निश्रित्य श्रावको बोधिसत्त्वस्तथागतो वाभिनिर्हरति // तत्पुनः किमुपादाय / ध्यानसन्निश्रयेण यथाव्यवस्थानमनसिकारवहुलीकारतामुपादाय //
त एते गुणा द्विविधाः / स्वकारित्रप्रत्युपस्थानाश्च वैहारिकाश्च // ये स्वकारित्रप्रत्युपस्थानाः ते लोकोत्तरपृष्ठलब्धाः संवृतिज्ञानस्वभावा द्रष्टव्याः // ये पुनर्वैहारिकास्ते लोकोत्तरज्ञानस्वभावा द्रष्टव्याः //
अप्रमाणैः किं कर्म करोति / विपक्षं जहाति / अनुकम्पाविहारितया पुण्य संभारं परिपूरयति सत्त्वपरिपाके च न परिखिद्यते // विमोक्षैः किं कर्म करोति / निर्माणकर्माभिनिर्हरति / शुभनिर्माणे न संक्लिश्यते शान्तेषु विमोक्षेषु न सज्जति / परमप्रशान्तेन चार्यविहारेण विहरति / अधिमुच्यनता मुपादाय // अभिभ्वायतनैः किं कर्म करोति / त्रयाणां विमोक्षाणामालम्बनं वशे वर्त्तयत्यालम्बनाभिभवनतामुपादाय // कृत्स्नायतनैः किं कर्म करोति / विमोक्षालम्बनं परिनिष्पादयति कृत्स्नस्फरणतामुपादाय // अरणया किं कर्म करोति / आदेयवचनो भवति // प्रणिधिज्ञानेन किं कर्म करोति / भूतभव्यवर्त्तमानं व्याकरोति बहुमतश्च भवति लोकस्य // प्रतिसंविद्भिः किं कर्म (अभिध्-स् 100) करोति / देशनया सत्त्वचित्तानि संतोषयति // अभिज्ञाभिः किं कर्म करोति / शासने कायकर्मणा आवर्जयति / वाक्कर्मणा चित्तादेशनयावर्जयति सत्त्वचरितं च ज्ञात्वा आगतिं च गतिं च निःसरणे सत्त्वान् यथावदववदते // लक्षणानुव्यञ्जनैः किं कर्म करोति / दर्शनमात्रकेण महापुरुषत्वे संप्रत्ययं जनयति चित्तान्यभिप्रसादयति // परिशुद्धिभिः किं कर्म करोति / संचिन्त्य भवोपपत्तिं परिगृण्हाति / आकाङ्क्षयन्कल्पं वा कल्पावशेषं वा तिष्ठति आयुःसंस्कारान् वा उत्सृजति / धर्मवशवर्त्ती भवति समाधिवशवर्ती सद्धर्मं च सन्धारयति //
बलैः किं कर्म करोति / अहेतुविषमहेतुवादं प्रत्याखायाकृताभ्यागमवादे च सम्यग भ्युदयमार्गं देशयति सत्त्वचित्तचरितानि चानुप्रविश्य देशनाभाजनतां चाशयं चानुशयं चालम्बनं च संभारं च भव्यतां च निःसरणं च यथावन्निःश्रेयसमार्गं देशयति / सर्वमारांश्च निगृण्हाति सर्वत्र च प्रश्नं पृच्छति पृष्टो व्याकरोति // वैशारद्यैः किं कर्म करोति / पर्षदि सम्यगात्मनः शास्तृत्वं व्यवस्थापहति चोदकांश्चान्यतीर्थ्यान्निगृण्हाति // स्मृत्युपस्थानैः किं कर्म गणमववदते समनुशास्ति // असंमोषधर्मतया किं कर्म करोति / बुद्धकृत्यं न हापयति // वासनासमुद्घातेन किं कर्म करोति / निःक्लेशः क्लेशप्रतिरूपां चेष्टान्न(द)र्शयति // महाकरुणया किं कर्म करोति / षट्कृत्वो रात्रिंदिवसेन लोकं व्यवलोकयति // आवेणिकैर्बुद्धधर्मैः किं कर्म करोति / सर्वश्रावकप्रत्येकबुद्धान् कायवाङ्मनस्कर्मपरिशुद्ध्या प्राप्त्या चारेण विहारेण वाभिभवति // (अभिध्-स् 101) सर्वाकारज्ञतया किं कर्म करोति / सर्वसत्त्वानां सर्वसंशयां श्छिनत्ति धर्मनेत्रीञ्च दीर्घकालमवस्थापयति येन परिपक्षा (? क्ष्याः) सत्त्वाः परिपच्यन्ते परिपकाश्च विमुच्यन्ते // एष्वभिसमयेषूत्तरोत्तरं विशिष्टं मार्गं लभमानः पूर्वकं हीनं मार्गं विजहाति संकलनप्रहाणं च साक्षात्करोति / निरुपधिशेषे निर्वाणधातौ श्रावकः सर्वम्मार्गसमवसर्गविहान्या विजहाति नो तु बोधिसत्त्वः // अतएव बोधिसत्त्वा अक्षयकुशलमूला अक्ष(य)गुणा इत्युच्यन्ते //
यान्यव्याकृतवस्तूनि व्यवस्थापितानि किमुपादाय / अयोनिशःपरिप्रश्न तामुपादाय // (अयोनिशः परिप्रश्नता किमुपादाय /) हेतुफलसंक्लेशव्यवदानचिन्तापस्रिवर्जनतामुपादाय // 0 //
केन कारणेन बोधिसत्त्वो बोधिमनव वद्यामवक्रान्तः स्त्रोतापन्नो न भवति / स्त्रोतःप्रतिपत्त्यपरिनिष्पन्नतामुपादाय // केन कारणेन सकृदागामी न भवति / अप्रमाणसंचिन्त्य भवोपप्रत्तिपरिग्रहतामुपादाय // केन कारणेनानागामी न भवति / ध्यानैर्विहृत्य कामधातावुपपद्यानतामुपादाय / बोधिसत्त्वः सत्यान्यभि समयेन लब्ध्वा दशसु मूमिषु भावनामार्गेण ज्ञेयावरणप्रतिपक्षमार्गं भावयति न क्लेशावरणप्रतिपक्षमार्गम् // तथा च बोधिप्राप्तः क्लेशावरणं ज्ञेयावरणं च विजहाति अर्हन् तथागतश्च संपद्यते // स च बोधिसत्त्वः सर्वक्लेशाप्रहाणात् मन्त्रोषधयो विषमिव सर्वक्लेशान् अभिभवति सर्वान् क्लेशान् दोषांश्च नोत्पादयति सर्वासु भूमिषु अर्हन्निव क्लेशान् प्रजहाति /
अपि खलु बोधिसत्त्वो ज्ञेयेषु भावनाकुशलो भवति उपायेषु भावनाकुशलो भवति अभूतपरिकल्पेषु भावनाकुशलो भवति निर्विकल्पेषु भावनाकुशलो भवति तेन कालेन कालमिन्द्रियाण्युत्तापयति /
ज्ञेयं कतमत् / संक्षेपेण षड्विधम् / भ्रान्तिः भ्रान्त्याश्रयः अभ्रान्त्याश्रयः भ्रान्त्यभ्रान्तिः अभ्रान्तिः अभ्रान्तिनिष्यन्दश्च // उपायकौशल्यं कतमत् / संक्षेपराश्चतुर्विधम् / (अभिध्-स् 102) सत्त्वपरिपाककौशल्यं बुद्धधर्मपरिपुरणकौशल्यं क्षिप्राभिज्ञाकौशल्यं मार्गानुपच्छेदकौशल्यं च // अभूतपरिकल्पः कतमः / संक्षेपतो दशविधः / मूलविकल्पः निमित्तिविकल्पः निमित्तप्रतिभासविकल्पः निमित्तविकारविकल्पः निमित्तिप्रतिभासविकारविकल्पः परोपनीतविकल्पः अयोनिशोविकल्पः योनिशोविकल्पः अभिनिवेशविकल्पः विक्षेपविकल्पश्च // स पुनः दशविधः / अभावविकल्प भावविकल्पः समारोपविकल्पः अपवादविकल्पः एकत्ववि कल्पः पृथक्त्वविकल्पः स्वभावविकल्पः विशेषविकल्पः यथानामार्थविकल्पः यथार्थनामविकल्पश्च // निर्विकल्पता कतमा / समासतस्त्रिविधा / सन्तुष्टिनिर्विकल्पता अविपर्यासनिर्घिकल्पता निष्प्रपञ्चनिर्विकल्पता च // ता इमास्तित्रः पृथग्जनश्रावकबोधिसत्त्वानां यथाक्रमं वेदितव्याः // यासौ निमित्ततो निष्प्रपञ्चनिर्विकल्पता तस्याः पुनः अभावस्य पञ्च निमित्तानि / न अमनसिकारतः न मनसिकारसमतिक्रमतः न व्युपशमतः न स्वभावतः न आलम्बने ऽभिसंस्कारतश्च / अपि खलु आलंबने ऽनभिसंस्कारतः / बोधिसत्त्वः प्रकृत्या तीक्ष्णेन्द्रियः कथं पुनः इन्द्रियाप्युत्तापयतीति / तीक्ष्णमृद्विन्द्रियमाश्रित्य तीक्ष्णमध्येन्द्रियमभिनिर्हरति / पुनः तीक्ष्णमध्येन्द्रियमाश्रित्य तीक्ष्णतीक्ष्णेन्द्रियमभिनिर्हरति //
(इति अभिधर्मसमुच्चये प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः //) //
(अथ महायानभिधर्मसमुच्चयशास्त्रे विनिश्चयभागे सांकथ्यपरिच्छेदश्चतुर्थः)
सांकथ्यविनिश्चयः कतमः / संक्षेपतः सप्तविधः / अर्थविनिश्चयः व्याख्याविनिश्चयः प्रभिद्यसंदर्शनविनिश्चयः संप्रश्नविनिश्चयः संग्रहविनिश्चयः वादविनिश्चयः अभिसन्धिविनिश्चयश्च //
अर्थविनिश्चयः कतमः / यत्र षडर्थानारभ्य विनिश्चयो भवति // कतमे (अभिध्-स् 103) षडर्थाः / स्वभावार्थः हेत्वर्थः फलार्थः कर्मार्थः योगार्थः वृत्त्यर्थश्च // स्वभावार्थस्त्रंयः स्वभावाः // हेत्वर्थस्त्रयो हेतवः // उत्पत्तिहेतुः प्रवृत्तिहेतुः सिद्धिहेतुश्च // फलार्थः पञ्चफलानि / विपाकफलं निष्यन्दफलं अधिपतिफलं पुरुषकारफलं विसंयोगफलं च // कर्मार्थः पञ्च कर्माणि / उपलब्धिकर्म कारित्रकर्म व्यावसायकर्म परिणतिकर्म प्राप्तिकर्म च // योगार्थः पञ्च योगाः / सामूहिको योगः आनुबन्धिको योगः सांबन्धिको योगः आवस्थिको योगः वैकारिको योगश्च // वृत्त्यर्थः पञ्च वृत्तयः / लक्षणवृत्तिः अवस्थानवृत्तिः विपर्यासवृत्तिः अविपर्यासवृत्तिः प्रभेदवृत्तिश्च //
व्याख्याविनिश्चयः कतमः / येन सूत्रान्तान् व्याचष्टे // स पुनः कतमः / संक्षेपेण षड्विधः / परिज्ञेयवस्तु परिज्ञेयो ऽर्थः परिज्ञोपनिषद् परिज्ञा परिज्ञाफलम् तत्प्रवेदना च // अपि खलु चतुर्दश मुखानि व्याख्याविनिश्चयस्य / कतमानि चतुर्दश / व्याख्यासंग्रहमुखम् वस्तुसंग्रहमुखम् अङ्गोपाङ्गमुखम् उग्गरोत्तरनिर्हारमुखम् प्रतिक्षेपमुखम् अक्षरपरिणाममुखम् नाशानाशमुखम् पुद्गलव्यवस्थानमुखम् प्रभेदव्यवस्थानमुखम् नयमुखम् परिज्ञादिमुखम् बला बलमुखम् प्रत्याहारमुखम् अभिनिर्हारमुखं च //
प्रभिद्यसंदर्शनविनिश्चयः कतमः / यथानिर्दिष्टेषु स्कन्धादिषु धर्मेषु यथायोगमेकावचरकः पूर्वपदकः पश्चात्पदकः द्विकोटिकः त्रिकोटिकः चतुष्कोटिकः ओंकारितः प्रातिक्षेपिक इत्येवमादयः //
संप्रश्नविनिश्चयः कतमः / अष्टाकारकायदेशेन अष्टाकारयायदेशने च (अभिध्-स् 104) प्रश्नव्याकरणेन सर्वसत्यमिथ्या विनिश्चयः / अपि खलु चत्वारः संप्रश्न विनिश्चयमार्गाः / दूषकः प्रतिष्ठापकः छेदकः बोधकश्च //
संग्रहविनिश्चयः कतमः / दशभिः स्थानैः संगृहीतो विनिश्चयः // कतमानि दश स्थानानि / कृत्यानुष्ठानविनिश्चयस्थानम् अवतारविनिश्चयस्थानम् अधिमुक्तिविनिश्चयस्थानम् युक्तिविनिश्चयस्थानम् सांकथ्यविनिश्चयस्थानम् प्रतिवेधविनिश्चयस्थानम् विशुद्धिविनिश्चयस्थानम् अभिनिर्हारपदप्रभेदविनिश्चयस्थानम् अनाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्थानं च /
वादविनिश्चयः कतमः / संक्षेपतः सप्तविधः / वादः वादाधिकरणं वादाधिष्ठानं बादालंकारः वादनिग्रहः वादनिःसरणं बादे बहुकरा धर्माश्च //
प्रथमो वादः पुनः षड्विधः / वादः प्रवादः विवादः अपवादः अनुवाद अववाश्च // वादः सर्वलोकवचनम् // प्रवादः लोकानुश्रुतो वादः / लोकज्ञानप्रवादतः // विवादः परस्परं विरुद्धयोर्वादे ऽवस्थानम् // अपवादः परस्परं कोपसंरम्भपारुष्यनचनम् // अनुवादः विशुद्धज्ञानदर्शनानुकूलः सांकथ्यविनिश्चयः // अववादः सत्त्वानां असमाहितचित्तानां चित्तसमाधानाय समाहितचित्तानां विमोक्षलाभाय देशनावादः //
द्वितीयं वादाधिकरणं राजकुलं वा प्रजाकुलं वा प्रामाणिकानां सहायकानां धर्मार्थकुशलानां श्रमणब्राह्मणानां नादसभा वा /
तृतीयं वादाधिष्ठानं यदधिष्ठाय वादः क्रियते / संक्षेपतो द्विविधम् / साध्यं साधनं च / साध्यं द्विविधम् / स्वभावो विशेषश्च // साधनानि अष्टौ / प्रतिज्ञा हेतुः दृष्टान्तः उपनयः निगमनं प्रत्यक्षं अनुमानं आप्तागमश्च // साध्यस्य स्वभावः आत्मस्वभावो धर्मस्वभावो वा / विशेषः आत्मविशेषो धर्मविशेषो वा // प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना / हेतुः तस्मिन्नेव साध्ये अप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलम्भानुपलम्भसमाख्यानम् // दृष्टान्त दृष्ट अन्तेन अदृष्टास्य अन्तस्य समीकरणसमाख्यानम् // उपनयः शिष्टतज्जातीय र्म्मापगमाय नयत्वसमाख्यानम् // निगमनं निष्ठागमनसमाख्यानम् // प्रस्वसत्प्रकाशाभ्रान्तो ऽर्थः // अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः // आप्तागमः तदुविरुद्धोपदेशः //
चतुर्थो वादालंकारः वादाधिष्ठाने सम्यग्युक्तिभिः वादसभायां गम्भीरो निपुणश्च भवतीति वादालंकार इत्युच्यते / स पुनः षड्विधः / स्वपरसमयज्ञता वाक्करणसंपद् वैशरद्यं प्रतिभानं स्थैर्यं दाक्षिण्यं च //
पञ्चमो वादनिग्रहः कथात्यागः कथासादः कथादोषश्च // कथात्यागः स्वावाददोषाभ्युपगमः परवाअगुणाभ्युपगमश्च // कथासादः अन्यवस्तुप्रतिसरणेन व्यावृत्तिः बाह्यवस्तुवचनेन मूलपरतिज्ञापरित्यागः क्रोधमदमानम्राक्षादि प्रदर्शनं च // यथोक्तं सूत्रे / कथादोषः संक्षेपेण नवविधः / आकुलं संरब्धम् अगमकम् अमितम् अनर्थकम् अकालम् अस्थिरम् अप्रदीप्तम् अप्रवद्धं च //
षष्ठं वादनिःसरणं गुणदोषौ विचार्य वादान्निःसरत्यकरणेन वा प्रतिवादित्यभाजनतां पर्षदो वैगुण्यमात्मनो ऽकौशल्यं च ज्ञात्वा वादं न करोति / प्रतिवादिनि भाजनतां पर्षदो गुणवत्त्वमात्मनः कौशल्यं च ज्ञात्वा वादं करोति //
वादे बहुकरा धर्माः समासतस्त्रयः / स्वपरसमयज्ञता यया सर्वत्र निपुणो वादं करोति / वैशारद्यं येन निपुणः समग्रपर्षदि वादं करोति / प्रतिमानं येन निपुणः सर्वांन् कठिनान् प्रश्नान् व्याकरोति //
अपि खलु स्वहितसुख कामेन वादेषु अभिज्ञातुं प्रवर्त्तितव्यं न परैः विवादं कर्तुम् / तदुक्तं भगवता महायाना भिधर्मसुत्रे / बोधिसत्त्वेन वीर्यमारभमाणेन कुशलपक्षप्रयुक्तेन प्रतिपत्तिसारकेण धर्मानुधर्मचारिणा सर्वसत्त्वसंग्राहकेण क्षिप्रमनुत्तरां सम्यक् संबोधिमभिसंबुध्यता द्वादशस्थानधर्मान् समनुपश्यता न परैः सह विवादः कार्यः // कतमे द्वादश / अनुत्तरार्थपरमधर्मदेशनायां संप्रत्ययो दुर्लभः / प्राश्निकानामववादग्राहकं चित्तं दुर्लभम् / सभ्या गुणदोषविचारकाश्च दुर्लभा / वादे प्रयुक्तानां षड्दोषविरहो दुर्लभः / कतमे षट् / असत्पक्षभिनिवेशदोषः कुसृतिवचनदोषः अकालिकवाक्करणदोषः कथासाददोषः पारुप्यवचतदोषः चित्ताघातदोषश्च / वादे संरम्भाभावो दुर्लभः / वादे परचित्तानुरक्षणं दुर्लभम् / वादे अनुरक्षणे ऽपि चित्तसमाधिदुर्लभः / वादे चित्तस्य निकार्सपरोत्कर्षकामता दुर्लभा / निकर्षपरोत्कर्षयोरपि चित्तस्यासंक्लेशो दुर्लभः / संक्लिष्टे तु चित्ते स्पर्शविहारो दुर्लभः / अस्पर्शविहारे तु कुशलधर्मभावना दुर्लभा / निरन्तरं कुशलधर्मे ऽभाविते तु असमाहिचित्तस्य क्षिप्रं समाधिलाभः समाहितचित्तस्य वा क्षिप्रं विमोक्षलाभो दुर्लभः //
अभिसन्धिविनिश्चयः कतमः / उक्तादन्यो ऽर्थः / नामपदव्यञ्जनकायानां छन्नस्याभिसन्धेः अन्यार्थाभिव्यञ्जने विपरिणामः //
यथोक्तं सूत्रे / मातरं पितरं हत्वा राजानं द्वौ बहुश्रुतौ / राष्ट्रं सानुचरं हत्वा नरो विशुद्ध उच्यते //
अपिचोक्तं सूत्रे / अश्रद्धो ऽकृतज्ञश्च सन्धिच्छेदी च यो नरः / हतावकाशो वान्ताशः स वै उत्तमपुरुषः //
पुनश्चोक्तं सूत्रे / असारे सारमतयो विपर्यासे च सुस्थिताः / क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम् //
अपि चोक्तं सूत्रे बोधिसत्त्वो महासत्त्वः पञ्चभिर्धर्मैः समन्वागतो दानपार मितायां क्षिप्रं परिपूरिं लभते / कतमे पञ्च / मात्सर्यधर्मतामनुवृंहयति / दानेन च परिखिद्यते / याचनकं च द्वेष्टि / न किंचित् कदाचिद् ददाति / दूरे च भवति दानस्य // पुनश्चोक्तं सूत्रे / बोधिसत्त्वो महासत्त्वः पञ्चधर्मसमन्वागतो ब्रह्मचारी भवति परमेण विशुद्धेन ब्रह्मचर्येण समन्वागतः // कतमे पञ्च // नान्यत्र मैथुन्यान्मैथुनस्य निःसरणं पर्येषते / मैथुनप्रहाणेनोपेक्षको भवति / उत्पन्नं च मैथुनरोगमधिवासयति / मैथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति / अभीक्ष्णं च द्वयद्वयं समापद्यते //
किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते / संक्षेपतस्त्रिभिरर्थैः / समेत्योच्चयतामुपादाय समन्तादुच्चयतामुपादाय सम्यगुच्चयतां चोपादाय //
(इति अभिधर्मसमुच्चये सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः //) //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
