Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यत्तूक्तं 'यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणमपि कार्यं विलक्षणादपि सामग्र्यन्तराद् भविष्यतिऽ; इति । तदयुक्तम् । यतो नास्माभिर्विलक्षणानां जनकत्वं वार्यते जनयन्त्येव परस्पविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस्तदवस्थानियताः तदेकं कार्यं, तस्य तु तेषां च परस्परापेक्षया जन्यजनकस्वभावतानियमात् तादृशस्य तादृशादेव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्यन्यतो भवतस्तदुत्पत्तिनियमाभावात् । अनियमे च कार्यकारणभावायोगात् । यदि त्वग्निरिवेन्धनोपादानोपकृतस्तदुपादानोपकृतं चेन्धनमिव तदवस्थानियतमतादृशमपि धूमादिकं तादृशं धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथावगम्येत तदाग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावे ऽपि तु तादृशस्य भावे तयोर्जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्यहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं "तस्मात्" सो ऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो "यः" आद्य "धूमजननो" नान्यः "स" धूम आद्यो यः "ग्न्यादिसामग्रीविशेषेण" जनितो नान्य अ (ह्ब्ट् 160) इति कृत्वा कार्यकारणयोरेवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य नियमाद् यादृशं यस्य कारणमेकदा प्रत्यक्षानुपलम्भाभ्यामेवावधारितं "तद्विजातीयात्" ततो ऽन्यादृशात् कारणात् "उत्पत्तिः" तादृशस्य कार्यस्य "न भवति" अन्यादृशस्य एव न वार्यत इति ।

तदेवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्नाह- "तत्" तस्मात् यादृशं कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितमेकदा तत् त्"न्न व्यभिचरति" तादृशमन्यादृशान्न भवति । यनैवं "तेन" कारणेन "सिद्धे कार्यकारणभावे" तादृशस्य "कार्यस्य" तादृशमेव कारणमिति निश्चये सति यथोदितेन न्यायेन "कार्यस्य कारणेन व्याप्तिर"न्वयव्यतिरेकरूपा "सिद्धा" भवति ।

"न विजातीयादुत्पत्तिरिति" दृष्टकारणविजातीयात् कारणादन्यादृशान्नोत्पत्तिरित्यसमुमर्थमप्रतिपद्यमानः कार्यस्य विजातीयात् कारणान्नोत्पत्तिरित्ययमत्रार्थो ऽभिमत इति मन्वानः परश्चोदयन्नाह- "ननु" स्वतो "विजातीयादपि" कारणात् "किञ्चित्" कार्यं "भवद् दृष्टं" तत् कथं न विजातीयादुत्पत्तिरित्यस्य न दृष्टविरोधः स्यात् । कथं यथा इत्याह- "तद् यथा गोमयादेः" आदिग्रहणात् शृङ्गचन्द्रकान्तादेः " शालूकादि" आदिग्रहणाच्छरोदकादि । तथा हि- गोमयाच्छालूकस्य भावः शृङ्गाच्छरस्य चन्द्रकान्तादपाम । न च गोमयादिकं शालूकादेर्न विजातीयम् तत् किमुच्यते न विजातीयादुत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्नाह- "न विजातीयादुत्पत्तिः" इति । यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृशान्न भवति इत्ययमत्रार्थो विवक्षितः, न तु कार्यविजातीयादिति । न च तस्य व्यभिचारः । तदाह- "तथाविधमेव हि" गोमयादिरूपं "तादृशं" शालकादीनामा "दिनिमित्तं" शालूकादिप्रबन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणमिति कृत्वा शालूकादिप्रबन्धस्यादेर्न कारणाभेदो (ह्ब्ट् 161) ऽन्यादृशादुत्पत्तिः । सर्वस्य तदादेर्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानामुत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर्भवति शरस्य तदा शराद्भावः । तदेवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च शारादेस्तुदुत्तरोत्तरस्य भावो न तादृशस्य शृङ्गादेरिति न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोरन्वयव्यतिरेकनिश्चयः ।

यदापि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना अनादिसन्तानप्रवृत्ता इष्यन्ते तदापि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान्न व्यभिचार इति दर्शयन्नाह- "अस्ति च" इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर्गोमयेतरजन्मनोः शालूकयोरस्त्येव स्वभावभेदः परस्परमन्यादृशत्वं "रूपस्याभेदे ऽपि" सति । तुल्याकारत्वे सति कथमन्यादृशत्वम्? इति चेत्, आह- "नहि" इत्यादि । यस्मान्नाकारतुल्यतैव भावानां "तत्त्वे" तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोराकारसाम्यात् तादृशत्वमेव स्यान्न जातिभेदः । कुत एतत्? इत्याह- "अभिन्नाकाराणामपि" इत्यादि । येषामपि हि समानाकारता केषाञ्चिद्भावानां तेषामपि यत आकारादन्यतो विशेषाज्जातिभेदो दृश्यते ततो नाकारसाम्यमेव जात्येकत्वे निबन्धनम् । तथा हि- आकारसाम्ये ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोरिव सूर्ययोः, क्वचित्फलात् बन्ध्येतरयोरिव कर्कोटक्योः, क्वचिद् रसाद् वन्येतरयोरिव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोरिव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्त्रंसिन्योरिव हरितक्योरिति । तस्मादाकारसाम्यनिबन्धनं यद्यपि 'तदेवेदम्ऽ; इति प्रत्यभिज्ञानं सजातीयतां गोअमयेतरजन्मनोः शालकयोरूपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर्जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् ।

[6. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः ।]

यदि पुनर्गोमयेतरादिजन्मनः शालूकाकादेरग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्यत आह- "अन्यथा हि" इत्यादि । यदि हि या स्वजाति [लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा याग्नीनधनादिलक्षणा या च शक्रमूर्द्वादिस्वभावा धूमाद्यात्मिका अवि(का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणं तादृशमेव कार्यं धूमशालूकादिकमुत्पद्येत तदा न 'कारणस्यऽ; सामग्रीरूपस्य "भेदाभेदाभ्यां" वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य "भेदाभेदौ" वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्यातामिति कृत्वा "विश्वस्य" सकलस्य पदार्थराशेः "अहेतुकौ भेदाभेदौ" सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति ।

ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामनन्ति विद्वांसः, अतद्रूपपरावृत्तेरुभयत्र समानत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्यगोव्यावृत्तिनिबन्धनगोजातिवद् गवां सर्वधूमानामेकसन्तानव्यवस्थाव्यु(प्यु)पादानकारणक्षणभेदे ऽप्येकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात् सर्वधूमानाम् । तथा हि- अगुरुकर्पूरचन्दनादिजातिभेदमनुकुर्वन्त्येव तद्धूमाः, कासश्वासादिहरद्रव्यनिर्मितवर्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात् । न चाकारान्यतया विजातीयत्वम्, यतो नाकारऽभेदभेदनिबन्धेन सजातीयविजातीयत्वे । नहि शाल्यङ्कुरादयः (ह्ब्ट् 163) तब्दीजाद्याकारमनुकुर्वते । न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनमेव तयोपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जनयतीत्यलमतिप्रसङ्गेन ।

ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्यपि तस्याभावात् तस्याहेतुकतास्तु, अभेदस्य तु किमायातम्? येनोभयोरहेतुकत्वमुच्यते इत्यत आह- "तथाहि" इत्यादि । यदा हि सामग्रीभेदे सत्यपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम्- न हि हेतौ सत्यभवतः कथञ्चिदपि हेतुमत्तोपपद्यते- तदा यो ऽप्यसावभेदः कार्यस्य सो ऽपि सामग्र्योः भिन्नत्वादसत्यभेदे जात इति कुतस्तस्यापि हेतुमत्ता? । यथा हि हेतौ सत्यभवतो न हेतुमत्ता तथा हेतावसत्यपि भवतो हेतुमत्ता कुतः स्यात्? । हेतुभेदस्यैवाभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्ययं भेदः क्वचित् पदमाबध्नीयात्, शालीकोद्रवादेरपि हेतुभेदस्याभेदहेतुत्वान्निमित्तमन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्युपलक्षणात् । स्यादेतत्- यो ह्यतादृशादपि तादृशोद्भवमिच्छति तस्य भेदाभेदयोरहेतुकत्वमिष्टमेव भावा एव केवलं हेतुमन्त इत्यत आह- "तद्व्यतिरिक्तश्च" इत्यादि । नहि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस्तयोरहेतुकत्वे ऽपि हेतुमान् स्यात् । तस्य ताभ्यामन्यत्वे 'अस्येमौ भेदाभेदौऽ; इति सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायामनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर्भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच्च कुतः सम्बन्धिता? । उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? । अथ व्यतिरिक्तभेदाभेदवशाद् (ह्ब्ट् 164)

भेदाभेदौ स्वभावः प्रतिपद्येत, तावपि यदि भिन्नौ तदा भावस्वभावस्तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् । पुनस्तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यमनवस्था च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(म्भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस्ततो ऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोरेव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर्व्यतिरेकवतोः वैयर्थ्यम्; भेदाभेदबुद्धेरपि तत एव सिद्धेः । तस्माद् वैशेषिकादिकल्पितयोर्भेदाभेदयोर्विशेषसामान्यात्मनोरयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोरहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वमापतितम् । ततो भावानामहेतुकत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिदसत्त्वं तदपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिदभावात् । यस्मा "दपेक्षया हि" तस्यापेषणीयस्य हेतोर्भावे भवन्तो ऽभावे च न भवन्तः "कादाचित्काः" कदाचिद्भवा युज्यन्ते, नान्यथेति । तस्मान्न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिरभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् ।

पुनरपि विलक्षणायाः सामग्र्याः अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरमाह- "व्यवस्थावांश्च" प्रतिनियतः "साध्येषु" घटपटादिषु "साधनानां" मृत्तन्त्वादीनां लोके यो "नियोगो" घटार्थी मृत्पिण्डमेव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तूनेव न मृत्पिण्डम् इत्यादिकः स न स्यात् । कस्मात्? इत्याह- "कारणानां"- सामग्रीणां याः "शक्तयः"- आत्मातिशयलक्षणास्तासां "प्रतीनियमे" काचिदेव सामग्री क्वचिदेव (ह्ब्ट् 165) कार्ये उपयुज्यते नान्यान्यत्रेत्येवंरूपे "हि" यस्मात् "किञ्चिदेव" मृदादिकं "कस्यचिदेव" घटादेः साधनायोपादीयते "नापरं" तद्विलक्षणं तन्त्वादिकम् कस्मादेवम्? इति चेत्? "तस्यैव" मृदादेः "तत्र" घटादौ "शक्ते" र्योग्यत्वात् "अन्यस्य" तन्त्वादेस्तत्राशक्तेः । कस्मात्तस्यैव तत्र शक्तिर्नान्यस्य इत्यत आह "तयोः" मृदादेस्तन्त्वादेश्च "तज्जनस्वभावत्वेन" घटादिजननस्वभावत्वेन "इतरस्वभावत्वेन च" घटाद्यजननस्वभावेन च "भेदात्" अन्यत्वभावात् । नहि मृत्तन्त्वादिरूपतातो ऽन्यदेव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानामपि शक्तिप्रतिनियमो नेष्यते विलक्षणादपि अविलक्षणकार्योपगमात् तदा " तज्जननस्वभावविलक्षणादपि" धूमादिजननस्वभावं यत् कारणग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणादपि शक्रमूर्द्वादेः क्षणाश्रयेण वा धूमादेस्तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्क्षणस्य चोत्पत्ताविष्यमाणायां "न तज्जननशक्तेः प्रतिनियमो" विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । "इति"तस्माद् "यत् किञ्चित्" कार्यं "यतः कुतश्चित्" कारणात् "स्यात्" उत्पद्येत, न यथादृष्टमेव यथादृष्टात् । सर्वं सर्वतो जायेतेति यावत् । तस्माच्छक्तिप्रतिनियमः कारणानामभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्यन्यादृशतैवेति सर्वस्तादृशस्तथाविधजन्मेति सिद्धम् ।

स्यान्मतम्- विलक्षणाया अपि सामग्र्यास्तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिदेव च तथाभावान्न यथोदितदोषावसर इत्यत आह "तज्जननशक्तिसाम्ये तु" इत्यादि । उक्तमेव तावद् अत्र पूर्वपक्षे 'न च धूमस्य तदतज्जन्यस्वभावःऽ; इत्यादिकं दूषणम् । अभ्युपगम्यापीदमाह- "यादृशी ह्यग्निसहकारिणः" तदाधीयमानविकारस्ये "न्धनस्य" स्वभेदेन धूमभेदहेतोः "शक्तिः" आत्मातिशयस्तादृश्येव शक्रमूर्द्ध्नो (ह्ब्ट् 166) धूमस्य वा यदि तत्सामग्रीजन्यधूमविलक्षणकार्यजननशक्तिरात्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकमेवार्थान्नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तदविलक्षणात्मातिशयासम्भवात् । स एव ह्यग्निर्य इन्धनविकारमादधानो धूमं जनयति, तच्चेन्धनं यदग्निनाधीयमानविकारं धूमं स्वजातिमनुकारयति । यदि च शक्रमूर्द्वादेरपि एवं भवताभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदमभ्युपगम्य तथाभिधानात् । यत एवम् "इति" तस्मात् "कार्यं" धूमादिकं "दृष्ट"मेकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितमतद्रूपव्यवृत्तेनात्मना "कारण"मिन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा "न व्यभिचरति" तद्विलक्षणादन्यतो न भवतीति कार्यहेतावन्वयव्यतिरेकनिश्चयः सिध्यतीति ।

4. अनुपलब्धिहेतुनिरूपणम् ।]

[1. विप्रतिपत्तिप्रदर्शनपूर्वकमनुपलब्धेस्स्वरूपम् ।]

तदेवं कर्यहेतौ यतो यद्भवदृष्टं सकृत् प्रत्यक्षानुपलम्भाभ्यां तादृशस्य सर्वस्य तथाविधादेव जन्म न तद्विजातीयदित्येकस्या अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्यान्वयव्यतिरेकसिद्धिरिति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर्नान्वयव्यतिरेकयोर्विप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहिकेचिदुपलब्ध्यभावमात्रमनुपलब्धिमभावस्य प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकामिच्छन्ति ईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणाममात्मनः तदन्यवस्तुविषयं विज्ञानमेव वाभावस्य गमकं प्रत्यक्षानुमानाभ्यां प्रमाणान्तरमाहुर्मीमांसकाः । न ह्यन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकमभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततो ऽन्यत्वात् । अभावांशे तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यां लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथान्ये अन्यभावलक्षणां तज्ज्ञानलक्षणां वानुपलब्धिमभावस्यैव साधनमाहुर्नाभावव्यवहारस्य, अनुपलब्धेर्लिङ्गादादभावसिद्धौ स्वयमेव तद्व्यवहारप्रवृत्तेः । नैयायिकास्तु नास्तीति ज्ञानमेव केवलप्रदेशादिग्राहिज्ञानन्तरभाविप्रत्यक्षं न प्रमाणान्तरमभावस्य तुच्छरूपस्य परिच्छेदात्मकमाचक्षते तदेवास्य घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्युच्यते न कश्चिद्विरोधः इति । तदेवमनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनामिति तन्निरासार्थमनुपलब्धिस्वरूपं तावदुपदर्शयन्नाह- "उपलब्धिलक्षणप्राप्तस्य" इत्यादि । 'उपलब्धिलक्षणप्राप्तीःऽ;

'उपलम्भप्रत्ययान्तराणां समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्येवंरूपा शास्त्रकृतान्यत्र (ह्ब्ट् 168) व्याख्याता नैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्युपलब्धिलक्षणप्राप्तिशब्देन महात्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणामाहुः । "महत्त्वादनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः" इति वचनात् । एवं चोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्यपि वस्तुनि सम्भवतीत्यसद्व्य्वहारसिद्धावनैकान्तिकीत्याचक्षते । न हि चाक्षुषस्यापि रश्मेर्महत्त्वानेकद्रव्यवत्त्वरूपाण्युपलम्भकानि भवन्ति । न च तावतानुपलम्भऽप्यसव्द्यवहारस्तत्र शक्यते कर्तुम् । यदाह भाष्यकारः- 'नानुमानत उपलभ्यमानस्य प्रत्यक्षतो ऽनुपलब्धिरभावे हेतुःऽ; इति । इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुरित्यनुमानतश्चाक्षुषो रश्मिरुपलभ्यते तस्य प्रत्यक्षतो ऽनुपलब्धिः कथमभावव्यवहारं साधयेत्? इति । तदेवमुपलब्धिलक्षणप्राप्तस्यानु पलब्धिमसव्द्यवहारे ऽनैका न्तिकीमाहुर्नैयायिकाः तन्निरासमुपलब्धिलक्षणप्राप्तेरविपरीतरूपोपदर्शनेन शास्त्रकारो ऽभ्यधात् । यदा ह्युपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च यथोक्त उपलब्धिलक्षणप्राप्तिरुच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्या असम्भवात् । महत्त्वादिकं त्वसम्भवादेव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । नहि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिनाकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानमनात्मरूपविवेकिना रूपेण प्रत्यक्षतामनुभवत्यतिप्रसङ्गात् ।

तत् कुतो ऽस्यासतो महत्त्वादिसम्भवः? । न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्यस्य महत्तासम्भवः । अपररूपेण वा ग्रहणे कथं तद्ग्राहिज्ञानमभ्रान्तम्? । ततो न महत्त्वं द्रव्यस्योपलम्भकं रूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च तद्विवेकेनानुपलक्षणान्न तथा ग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणमिष्यते । तच्च प्रतिलब्धात्मकमेव तथातामनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणमेव । न चास्य द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वाविर्भवति यतः प्रागप्रतिपन्नाधारभावं (ह्ब्ट् 169) महत्त्वादिगुणप्रतिबन्धादाधारतां यायात् । न चाजनक आधारः । जनकत्वे च क्षणिकता, अर्थक्रियाविरोधादक्षणिकस्य । ततः कुतः सामवायिकारणस्य सम्भवः?, यतः स्वोत्कलितं कार्यं जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्रागऽनाधारस्य पश्चादाधाराभावः । समवायिकारणासम्भवादेवानेकद्रव्यवत्त्वमप्यस्मभवि यस्मादनेकं द्रव्यमारम्भकं समवायिकारणात्मना यस्य विद्यते तदेवं व्यपदिश्यते । द्रव्याभवाच्च नानेकद्रव्यवत्त्वं । सत्त्वे ऽपि महत्त्वादेर्नेयमुपलब्धिलक्षणप्राप्तिरस्माकमभिमता । या त्वभिमा(म)ता न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसव्द्यवहारसिद्धावनैकान्तिकीति शास्त्रकारो दर्शयाम्बभूव "उपलब्धिलक्षणप्राप्तस्य" या "अनुपलब्धिः" कारणस्य व्यापकस्य वा प्रतिषेध्यादन्यस्य सा "अभावहेतुः" कार्यस्य व्याप्यस्य च "अभावव्यवहारहेतुश्च" । या तु

प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः साभावव्यवहारहेतुरेवेति वाशब्देन दर्शयति । या त्वनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः, निमित्ताभावात्तु सव्द्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम् ।

[2. स्वेष्टामनुपलब्धिं स्पष्टयितुमीश्वरसेनकुमारिलादीनां निरासः ।]

तत्र ये तावदुपलब्ध्यभावमात्रमनुपलब्धिमिच्छन्ति, "विज्ञानं वान्यवस्तुनि" इति वचनात् तदन्यवस्तुविज्ञानमेव वा, तन्निरासार्थं ज्ञातृ- ज्ञेयधर्मलक्षणामनुपलब्धिं दर्शयितुमुपलब्धिमेव तावद्द्विविधाम्दर्शयन्नाह- "अत्र" अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतयापेक्ष्यते तदा तस्या "उपलभमानस्य" कतुः "धर्मत्वे" अपेक्ष्यमाणे "तज्ज्ञानम्" उपलभमानस्य यज्ज्ञानं तद् उपलब्धिरुच्यते । उपलभमानश्च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत उपलब्धिजनक उच्यते । तथाहि- उपलब्धेर्जनक आश्रयो वा कर्ता परैरुच्यते । न (ह्ब्ट् 170) चेन्द्रियादेरन्यस्य जनकत्वं सम्भवति यतो ऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेरन्यस्य सम्भवतः सत्स्विन्द्रियादिषु नियमेनोपलब्धेर्भावात् । यदि हीन्द्रियादिषु सत्स्वपि कदाचिदुपलब्धिर्नोपजायते तदा सत्स्वप्यन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तव्द्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतदस्ति, तत् कथमात्मनस्तदुत्पत्तौ निमित्तभावो ऽभ्युपगम्येत? अतिप्रसङ्गात् । यदाह-

"यस्मिन् सति भावत्येव यत् ततो ऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥" इति ।

आश्रयत्वमपि जनकस्यैवेति तदप्यात्मनो न सम्भवति । स्थापकत्वादाश्रय इति चेत्; न, क्षणिकत्वे स्थितेरभावादुपलब्धेरक्षणिकत्वे ऽपि स्वयमेवाविनाशादवस्थानात् । तथाहि- उपलब्धेरविनाश एव स्थितिरुच्यते न पाताभावः तस्या गुरुत्वाभावात् "संयोगाभावेन गुरुत्वात् पतनम्" इति च परेषां कृतान्तः । समवायादाश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानामेवेष्यते । न चापतनधर्मिकाया उपलब्धेराधारेण किंचित्, समवायाच्चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्यामर्थक्रियाविरोधाच्च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्यलं क्षुण्णक्षोदीकरणेनेति ।

एवमुपलब्धिमादर्श्यानुपलब्धिमादर्शयन्नाह- " तस्मादुपलब्धिज्ञानादन्या" वस्त्वन्तरविषया "उपलब्धिः" ज्ञानात्मिका "अनुपलब्धिः" । कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते? इत्याह- "विवक्षिते"त्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्यादन्यत्वाद् 'अभक्ष्यो ग्राम्यकुक्कुटःऽ; भक्ष्यो ऽपि सन् तदन्यस्य- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयादन्यत्वाद् 'अस्पर्शनीयश्चाण्डालादिःऽ- तदन्यस्य स्पर्शनीयो ऽपि सन्- उच्यते । (ह्ब्ट् 171) तद्वदुपलद्भिरेवानुपलब्धिर्मन्तव्या । नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह- "पर्युदासवृत्त्येति" । पर्युदासेन प्रतिषेध्यस्यार्थस्य र्वजनेन या विशिष्टे ऽर्थे वृत्तिस्तया , नञः आगृहीतप्रतिषेधस्य भावविषयता । यत्र विधेः प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक्स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता । विधेश्च प्राधान्यं 'विवक्षितोपलब्धेरन्योपलब्धिर्भवतिऽ; इत्येवं वाक्येनान्योपलब्धेर्विधानात् अन्योपलब्धिसामर्थ्यादेव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेरनिवर्तने तदपेक्षयान्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते । किं तर्हि? । अन्यशब्देन पर्युदासाश्रयेणान्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिरनुपलब्धिरिति । नञश्च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्येकवाक्यत्वं 'न उपलब्धिरनुपलब्धिःऽ; इति । प्रसज्यप्रतिषेधः पुनरेतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिरर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते ।

तदेवं ज्ञातृधर्मलक्षणामनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्नाह- "उपलभ्यमानधर्मत्वे" इत्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर्विवक्ष्यते तदा विषयस्वभाव उपलब्धिर्मन्तव्या । कीदृशो विषयस्वभावः? इत्याह- "स्वविषये"त्यादि । प्रतिषेध्यस्य घटादेर्यदात्मविषयं विज्ञानं तज्जनने या योग्यत तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः, कथं योग्यतालक्षणः? । तथा हि योग्यता धर्मः, धर्मधर्मिणोश्च भेद एव इत्यत आह- "योग्यतायाः" इत्यादि । योग्यता हि परमार्थतो भावरूपैव न वस्तुरूपाद भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यतास्येति च सम्बन्धाभावतो न स्यात् । सम्बन्धकल्पनायामनवस्थेत्युक्तप्रायम् ।

तदेवमुपलभेर्विषयधर्मतां प्रतिपाद्यानुपलब्धेरपि प्रतिपादयन्नाह- "तस्मादन्यः" इत्यादि । "तस्मात्" प्रतिषेध्याद् घटादेः (ह्ब्ट् 172) स्वविषयज्ञानजननयोग्याद् यो ऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनमेव न्यायमत्रादिशन्नाह- "पूर्ववदिति ।" विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत् पर्युदासवृत्येति । कथं पुनरयं नञ अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं पर्युदासवृत्त्या प्रकल्पयति, न पुनरविशेषेण सर्वेषामेवान्यशब्दवाच्यानाम्? इत्यत आह- "यत्र यस्मिन्" इत्यादि । "यत्र" देशे काले ऽवस्थायां वाव्यवधानादिलक्षणायाम्, "यस्मिन्" प्रदेशरूपादौ "उपलभ्यमाने नियमेन" अवश्यंतया "यस्यान्यस्य" पदार्थस्य घटरूपादेरुपलब्धिर्भवति "स" घटरूपादिः पदार्थः "तत्संसृष्टः" तेन प्रदेशरूपादिना संसृष्टः । कथमेकस्मिन्नुपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । प्रदेशघटयोर्हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्पयति तदा घटरूपमपि तत्र तथाविधं स्वाकारं समर्पयत्येव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस्तु कथं तत्संसृष्टता? इत्यत आह- "एकज्ञानसंसर्गादि"ति । एकत्र हि ज्ञाने द्वावपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारमाजायमानं तयोरात्मनि संसर्गं दर्शयति । किमिति पुनस्तत् ज्ञानं पदार्थद्वयाकारमवश्यं भवति

यतस्तयोर्ज्ञानद्वारकः संसर्गः? इत्यत आह- "तयोः सतोः" इत्यादि । यावेतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस्तदा नैवैकाकारनियता प्रतिपत्तिर्भवति । कस्मात्? असम्भवात् । न ह्येष सम्भवो ऽस्ति- यत्तुल्ययोग्यतारूपयोरेक एव प्रतिभासेत नापर इति । तथाहि- अविशिष्टत्वाद् योग्यतायाः कस्तत्र स्वाकारं न समर्पयेत्? । अनुभवसिद्धं च युगपदनेकप्रतिभासनम् । न चानुभवविरुद्धमाचक्षाणा विदुषामवधेयवचसो भवन्ति । लधुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, बाधकप्रत्ययविरहेण (ह्ब्ट् 173) भ्रान्तिकल्पनानुपपत्तेः, सर्वत्र तथाभावाप्रसङ्गात् । करणधर्म एवायं यदेकस्मिन्नेव कर्मणि क्रियां निष्पादयतिनानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुरिति चेत्, कथं प्रदीपादिरनेकत्र बहूनां प्रतिपत्तिजनकः? । कर्तृभेदाददोष इति चेत्; कर्त्रेकत्वात् तर्हि क्रियैकत्र कर्मणीति कथं 'करणधर्मःऽ; इत्यादि वचो न प्लवते? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो युक्तः क्रिया वा काचित् । न च सर्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिदतिशयो ऽस्ति येनायं कर्ता का(क)रणं चेदमित्यादि परिकल्प्येत । तस्मादविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्गः । तुल्ययोग्यतारूपत्वस्य चैतदेव लिङ्गम् । न ह्यसति तुल्ययोग्यतारूपत्वे युगपदेकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति ।

तत्र येषां सौगतानामिदं दर्शनं 'एकायतनसङ्गृहीते ऽनेकत्राप्येकमेवेन्द्रियज्ञानमाजायतेऽ; इति तेषां मुख्य एवैकज्ञानसंसर्गः । ये तु 'तत्रापि प्रत्यर्थं भिन्नान्येवैकेन्द्रियनिमित्तान्येककालानि तद्विषयाणां युगपत्सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्युपजायन्तेऽ; इति वर्णयन्ति तेषामेकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्वेकत्वव्यपदेशो लोके तथाध्यवसायादौपचारिकः ।

यदि नामैकज्ञानसंसर्गात् तत्संसृष्टस्तथापि सामान्येन सर्वमन्यमयं नञ् किन्न प्रतिपदयति? इति, अत आह- "तस्मात्" इत्यादि । यस्मादविशिष्टत्वाद्योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोरपि संसर्गः तस्मादविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्गिणौ तौ तस्मात् तयोरेवंरूपयोः "परस्परापेक्षमेव" न सर्वान्यपदार्थापेक्षम् "अन्यत्वमिह" अनुपलब्ध्यधिकारे "अभिप्रेतम्" । लोके तु यद्यप्यशेषपदार्थान्तरापेक्षमन्यत्वं नञा क्वचिदुच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तदिह न गृह्यते, (ह्ब्ट् 174) "प्रत्यासत्तेराश्रयणात्" एकज्ञानसंसर्गलक्षणा प्रत्त्यासत्तिराश्रीयते नान्या, प्रमाणचिन्ताधिकारात् अन्यथानुपलब्धिरनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस्तथाविधमन्यत्वमाश्रयणीयम् यदनुपलब्धेरव्यभिचारनिबन्धनम् । तच्च यथोक्तमेवेत्यभिप्रायः ।

तदेवमेकज्ञानसंसर्गापेक्षयान्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्नाह- "स केवलः" इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षय तस्मादन्य उच्यते तदा घटविविक्तप्रदेशज्ञानं वानुपलब्धिः, न तु यथेस्वरसेनो मन्यते उपलब्ध्यभावमात्रमनुपलब्धिरिति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा, न तु तद्विविक्तज्ञानमेव यथाह कुमारिलः "विज्ञानं वान्यवस्तुनि" इति । यथा ह्यन्यवस्तुविषयं ज्ञनमनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि । तथाहि- कस्यचित् प्रतिपत्तुः 'यतः केअलप्रदेशाकारमेव ज्ञानं मया संवेद्यते न तु घटाकारमपि तस्मादत्र घटो नास्तिऽ; इति एवं नास्तिताज्ञानमुत्पद्यते; कस्यचित् तु 'यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान्नास्त्यत्र घटःऽ; इत्येवम् । तस्मादुभयोर्नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यमिति द्वयोरपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिः कर्तृस्थक्रियापेक्षया, यदा तत्स्वभावस्तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति ।

एवमनुपलब्धिं पर्युदासवृत्त्या व्यवस्थाप्य साध्यमस्या दर्शयन्नाह- "सा अभावम्" इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्यर्थित्वादिभिः स्मृतिरस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावमभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस्तु अभाव्यवहारमेव । अभावव्यवहारश्च ज्ञानाभिधानप्रवृत्तिलक्षणः । तत्र 'नास्त्यत्र घटःऽ; इत्येवमाकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं, निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिरिति ।

अत्रेश्वरसेन- कुमारिलयोर्वचनावकाशमाशङ्कय सिद्धान्तव्यवस्थामेव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थमाह- "कथमन्यभाव" इत्यादि । ईश्वरसेनो हि मन्यते- कार्य- स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणादवश्यमभावरूपत्वमस्याः, अन्यथा पृथक्करणमनर्थकमेव स्यात् । त्वया चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस्तज्ज्ञानस्य वा भावरूपानुपलब्धिराख्यायते तन्नूनमन्यभावस्तदभावो येनैवमभिधीयते । न चैतद् युज्यते, भावाभावयोर्विरोधादेकात्मतानुपपत्तेरिति ।

कुमारिलो ऽप्येवं मन्यते- येयं ज्ञातृ- ज्ञेयधर्मलक्षणा द्विधानुपलब्धिरभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः प्रतिषेध्यज्ञानादन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथमभावः? प्रतिषेधस्य तज्ज्ञानस्य वा कथमभावांशः? । नैव युज्यते, धर्मरूपतया भावाभावांशयोर्भेदात् । सत्यपि धर्मिरूपेणाभेदे तयोश्चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यदाह-

"धर्मयोर्भेद इष्टो हि धर्म्यभेदे ऽपि नः स्थिते । उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते ॥" इति ।

उक्तोत्तरतामस्य दर्शयन्नाह- "उक्तमुत्तरमत्र"चोद्ये यथा "पर्युदासवृत्त्या अपेक्षातः" । 'प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस्तज्ज्ञानं वाभावो ऽनुपलब्धिश्चोच्यतेऽ; इति ईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन्तु पर्युदासो ऽपि । ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपताप्यन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस्त्वनुलब्धेः पृथक्करणं प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायी । परमार्थतस्तु प्रतिषेध्याभावव्यवहारयोग्यता (ह्ब्ट् 176) वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर्भिद्यत इति ।

यत्तु 'अनपेक्षितार्थान्तरसंसर्गं प्रतिषेधमात्रमनुपलब्धिःऽ; इतीश्वरसेनो मन्यते तन्निराकुर्वन्नाह- "न प्रतिषेधमात्रम्" इत्यादि । कस्मात्? इत्याह- "तस्य साधनासिद्धेः" इत्यादि । नह्यभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात् । हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः । अभावस्य चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश्च साधकत्वायोगादभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनमेव किञ्चिन्न सिध्यतीति । स ह्यभावत्वादपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्यपरेणेत्यनवस्थानम् । न चेन्द्रियवदज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं 'कथमभावः कस्यचित् प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा? । तस्यापि कथं प्रतिपत्तिःऽ; इत्यत्रान्तरे स्वयमेव विपञ्चयिष्यति ।

कुमारिलस्याप्युत्तरमाह- "तस्य" अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्यसौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्यभावांशो ऽपि न क्वचित् सिध्येत् । तस्यैवंविधस्य "भावसिद्धिरेव" भावांशसिद्धिरेव "अपरस्य" प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिरभावांशस्य त्वदभिमतस्य सिद्धिरस्तु भावांशस्यैवाभावांशरूपतोपपत्तेरिति मन्यते । तथा हि- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किमन्येनाभावांशोपगतेन? । अत एवासंसृष्टरूपस्येति विशेषणम् । यत (ह्ब्ट् 177) एवम् "इति" तस्माद् "अन्यभावो ऽपि" अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलमभावांशस्त्वन्मत्याभाव इति व्यपदिश्यते ऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद् विरुध्यत इति ।

यदुक्तं 'ज्ञातृज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावःऽ; इति तत् परो विघटयितुं, यच्चोक्तं 'न प्रतिषेधमात्रमनुपलब्धिः, तस्य साधनासिद्धेःऽ; इति द्वितीये व्याख्याने प्रतिषेधमात्रस्यानुपलब्धि[रि]त्येतस्य साधनं दर्शयितुमाह- "अन्यभावलक्षण" इत्यादि । एवं मन्यते- लोको हि केवलप्रदेशदर्शनात् घटाभावमेव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्यादन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद्वा तज्ज्ञानस्य यो भावस्तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारमित्येवं व्यवस्थापयितुं युक्तम् । न चैवमपि व्यवस्थापने [अस्म]त्पक्षस्य काचित् क्षतिः । तथाहि- पारम्पर्येणापि यदनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत एव सिद्धं भवतीति प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि । अयमभिप्रायः- यथा भवतो ज्ञातृज्ञेयधर्मलक्षणा भावरूपा द्विविधानुपलब्धिस्तथा ममापि ज्ञातृज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्यनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूपो ऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश्च कुतो

ऽनवस्था येन साधनासिद्धिः स्यादिति । तत्र "अन्यभावलक्षण" इति प्रतिषेध्यात् तज्ज्ञानाच्च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ञानाच्चान्यत्वादनुपलब्धित्वेन (ह्ब्ट् 178) भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस्तस्य प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् "तत्सिद्धिसिद्धो" वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस्तस्य प्रतिषेध्यस्य तज्ज्ञानस्य वाभाव इति एवमपीष्यमाणे "न कश्चिद् विशेषः" त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः ततो ऽस्मद्दर्शनं किमिति प्रतिक्षिप्यते? । नन्वस्त्येवैवमिष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिरितरया व्यवहिता तदभावव्यवहारं साधयेदितरा तु साक्षादित्याह- स विशेषो नास्ति येन विशेषेणानुपलब्ध्याभावरूपया वस्तुसंस्पर्शरहितयास्मदभिमतयाभावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतो ऽप्यबाधकत्वादसत्समत्वमेव । यदप्युक्तं- 'तस्य साधनाभावादभावव्यवहारासिद्धिप्रसङ्गःऽ; इति, तदप्यसत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस्तद्विषया चोपलब्धिरनुपलब्धित्वेनेष्टा भवतस्तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च "किं" कस्मात् "न साधनं" लिङ्गम् "इष्यते?" । तथा हि सति लोकप्रतीतिरनुसृता भवति । "किं पुनः" कस्मात् पुनः "अभावस्य" द्विविधस्य "सिद्धिरेव तदभावसिद्धिः" न तत्साध्या काचिदन्या विद्यत

इत्यस्मन्मतनिषेधार्थं लोकातिक्रान्तमिष्यत इति पूर्वपक्षः ।

अत्राह- "अपृथक्सिद्धेरन्यभावात्" तदभावस्य पृथक्सिद्धेरभावात् कुतो लिङ्गलिङ्गिता । तथा "सम्बन्धाभावाच्चा" अन्यभावतदभाव योर्न लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं विवृण्वन्नाह- "अन्यभावस्तद्विविक्तदेशात्मकस्तावन्न साधनं" लिङ्गं प्रतिषेध्याभावस्य, 'तदुपलब्धिरपि तदभावस्य न साधनम्ऽ; इति पश्चाद् वक्ष्यते । तदर्थमेव तावच्छब्दः । कस्मादन्यभावो न साधनम्? इत्याह- "यत्सिद्धौ" यस्य वस्तुनः सिद्धौ प्रतीतौ "यस्य" अपरस्य (ह्ब्ट् 179) वस्तुनो "न सिद्धि"र्न प्रतीतिः तद्वस्तु तस्य वस्तुनो लिङ्गं भवतीत्ययं लिङ्गलिङ्गिनोर्न्यायः । तत्रोदाहरणम्- "धूमाग्निवदिति" । यथा- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर्ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ । यदि नामैवं ततः किम्? इत्यत आह- "अन्यस्य वस्तुनो यो भावः" स्वभाव "तत्सिद्ध्यैव" तत्प्रतीत्येव "तदभावः" तस्य प्रतिषेध्यस्याभावः "प्रसिध्यति" प्रतीयतेअन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेरेव तत्सिद्धिलक्षणत्वात् ।

नैयायिकास्तु मन्यन्ते- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस्तुच्छरूपस्तस्य कथं तदन्यभावरूपता?, भावाभावयोर्विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्यत आह- "तस्य" तदन्यभावस्य प्रदेशलक्षणस्य तस्मादन्येन प्रतिषेध्येन घटादिना "असंसृष्टरूपस्य" रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकतामाह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्? इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । यथा ह्यनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथमस्य प्रतिषेध्येन तुच्छरूपता विरुध्येत? । स्वरूपेण ह्ययमतुच्छरूपः स्यान्न पररूपेण, अन्यथा कथमस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात् सर्वभावाः पररूपेण निःस्वभावाः स्वरूपेण रूपवत्त्वे ऽपी त्यनवद्यम् ।

कस्तर्हि प्रसज्यप्रतिषेधत्पर्युदासस्य भेदः? । न कश्चित्, केवलमनपेक्षितरूपान्तरमभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशन्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं तद्रूपशून्यतया, (ह्ब्ट् 180) कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? । सामर्थ्यात् ततस्तत्प्रतीतिरिति चेत्; न, अकारणप्रतीतौ सामर्थ्यासम्भवात् । तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत एव- न तदुत्तरकालभाविनो 'नास्तीह घटःऽ; इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात्- अन्यस्य घटादेस्तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस्तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्ययं प्रदेशो घटासंसृष्टरूप्सस्तव्द्यावृत्तरूपतया ततो ऽन्यो घटवानपि, केवलश्च घटं प्रति अप्रतिपन्नाधारभावः । तस्य तद्विवेकेन प्रत्यक्षेण ग्रहणे घटादन्यत्वं घटविरहश्च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थम्, 'इहेदं नास्तिऽ; इत्येवमर्थं च प्रमाणान्तरमन्वेषणीयम् । विस्तरतश्चैतदुत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश्चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् ।

द्वितीयं कारणं व्याचक्षाण आह- "सम्बन्धाभावाच्च" इति । अन्यभावतदभावयोर्न कश्चित् सम्बन्धो ऽस्ति, ततः कुतो लिङ्गलिङ्गिभावः? इति । एतच्च कदोच्यते? । यदा तदभावरूपतान्यभावस्य परानभ्युपगतापेक्ष्यते । तदन्यभावात् पृथगेव तदभावस्तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? । प्रत्यक्षसिद्धता च तदैव, न पक्षान्तरेण अभिहिता । "तच्च तस्य" इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन "एकार्थसमवाय" इति परदर्शनेनोक्तं । परेषां हि नैयायिकादीनां व्यतिरिक्तावेव कृतकानित्यत्वाख्यौ धर्मावेकस्मिन्नेव धर्मिणि समवेताविति कृतकस्यानित्यत्वेनैकस्मिन्नर्थे धर्मिणि समवायः सम्बन्धः धमस्य वेति (ह्ब्ट् 181) सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः । संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् । परेषां त्वग्निधूमौ स्वावयवेष्वेव समवेताविति न तयोरेकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेरुपरि दर्शनाल्लौकिकः सम्बन्ध उक्तः । "जन्यजनकभावो वा" इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर्जनकत्वात् इतरस्य च जन्यत्वादिति ।

ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किमिति नैयायिकाभिमस्यापि सम्बन्धस्यान्यभावतदभावयोरभाव उच्यते । सत्यम्, प्रसङ्गेन तु तन्मतस्यापि निषेधार्थमुक्तम् । पूर्वं ह्यन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं 'नास्तीह घटःऽ; इत्येवमाकारं कल्पनीयमिति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गादिदमुच्यते- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं 'नास्ति इह घटःऽ; इत्येवमाकारं विशेषणविशेष्यभावलक्षणात् सन्निकर्षादिष्टं भवता । न चासति सम्बन्धे ऽन्यभावतदभावयोर्विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः कुतस्तल्लक्षणात् सन्निकर्षात् तदभावे प्रत्यक्षं भवेदिति ।

एवं सम्बन्धस्वरूपमाख्याय तस्येहासम्भवमाह- "नैवम्" यथा कृतकत्वानित्यत्वयोरग्निधूमयोर्वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन "अस्य" तदभावस्यान्यभावः साधनं स्यात् । यावेकत्रार्थे धर्मिरूपे प्रवर्तेते तयोरेकार्थसमवायो भवति । अन्यभावश्च प्रदेशाख्यः स्वावयवेषु येषु वर्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे । न चास्य प्रदेशावयवैरारम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरमेवारभन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं तत्रास्ति । न च गुणरूपतया तत्र वर्तते । चतुर्विशतिरेव हि (ह्ब्ट् 182) गुणा इष्यन्ते । न चायं तेषामन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात् तल्लक्षणविरहाच्च । "एकद्रव्यम्" इत्यादिकं हि तल्लक्षणम् । न चैतदभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रुपविरहादेव । नाप्यन्यभावतदभावयोः संयोगो ऽग्निधूमयोरिव, द्रव्ययोरेव तदभ्युपगमात् । न च तदभावो द्रव्यमित्युक्तम् । नाप्याधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते 'इह कुण्डे बदराणिऽ; इति । समवायनिमित्तो वा, 'इह तन्तुषु पटःऽ; इति । न चाभावस्याद्रव्यात्मनः संयोगः समस्ति । नापि समवायः, पञ्चानामेव हि द्रव्यादीनां पदार्थानां समवायित्वमिष्यते; न चाभावः पञ्चस्वन्तर्भवतीति । न च तदात्मानुपकारे सत्याधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभवः । न च तदभावो जन्यः, कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी, यतः स्वकारणसमवायः, सत्तासमवायो वा

कार्यतोच्यते भवद्भिः । अन्यभावस्तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणामेव हि द्रव्यगुणकर्मणां द्रव्यं कारणमिष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस्तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद् भेदे वा सामान्यादिष्वपि तत्प्रसङ्गः । समवायोप्यस्यानन्तरमेव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? । एतेन जन्यजनकभावः प्रयुक्तः । ततः सर्वथा सम्बन्धाभावान्नान्यभावः तदभावस्य साधनमिति ।

परः सम्बन्धान्तरं दर्शयन्नाह- "अस्ति विषये"त्यादि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर्विषयविषयिभावः सम्बन्धः, एवमन्यभावतदभावयोर्विषयविषयिभावः सम्बन्धो भविष्यति । प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनादिति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः स्यादित्यभिसम्बन्धः । (ह्ब्ट् 183) किं रूपः? । "कार्यकारणलक्षणः" । कथं पुनरर्थकार्यता शब्दस्य? । तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच्छब्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्यपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्यर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । "अविनाभावलक्षणो वा" इति परप्रसिद्ध्योच्यते । परो ह्यविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिवन्धन प्रतिपाद्यप्रतिपादकरूपो विषयविषयिभावो युक्तः । तदभावान्यभावयोरप्येवं भविष्यतीति चेत्, आह- "अयं च" अनन्तरोक्तप्रकारः "अत्र" तदभावान्यभावयोः "न सम्भवति" । नहि घटाभावप्रतिपादनाभिप्राये सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो निष्पत्तिर्भवति, घटाभावप्रतिपादनाभिप्रायात् प्रागपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्यपि तदभिप्राये ऽन्यभावस्याभावाच्च । ततश्च कथं तयोः कार्यकारणभावः?, तद्वारको ऽविनाभावो वा स्यात्? यतो विषयविषयिभावः कल्प्येत ।

स्यान्मतम्- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोरपि इत्येतावन्मात्रेण शब्दार्थयोर्दृष्टान्ततेत्यत आह- "सिद्धे हि" इत्यादि । शब्दार्थयोर्हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथार्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे कार्यकारणभावादिके न सिध्यति, सर्वस्य साध्यसाधनताप्रसक्तेः ।

कथमिन्द्रियं स्वविषयसिद्धिनिबन्धनमिति चेत्; परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादिन्द्रियविषययोरेकविज्ञानोत्पादनयोरुदयात् (ह्ब्ट् 184) तथा व्यपदेशः, नैवमिह, अन्यभावतदभावयोस्तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धमन्तरेणायोगात् ।

नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह- "अन्यथा" यदि सम्बन्धान्तरं नेष्यते किन्तु विषयविषयिभावात् साध्यसाधनभावः तस्माच्च विषयविषयिभावः, तत इतरेतराश्रयमिदं स्यात् । तथा चैकासिद्धौ द्वयोरप्यसिद्धिर्भवेदिति । किञ्चान्यभावाच्च लिङ्गभूतादभावस्य लिङ्गिनः सिद्धावनुमिताविष्यमाणायां असमुदायश्च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः । समुदायश्च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस्तदभावदोषश्चेति 'चऽ; शब्दः ।

सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह- "तथा च" धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे 'घटाभावस्तदन्यभावात्ऽ; इत्येवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति ।

अत्राह परः- नासमुदायस्य साध्यता अन्यभावतदभावयोरसम्बन्धो वा । कुतः? । "प्रदेशादि" इत्यादि । 'इह प्रदेशे घटो नास्तिऽ; इत्येवं घटाभावेन प्रदेशादिर्धर्मी विशेष्यते सघटात् प्रदेशादेर्भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तसाध्यते न तु घटो नास्तीत्येवं "केवलो" धर्मिणः कस्यचिग्दुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस्तद्भावी दोषः? । "न च" नैवास्मिन्पक्षे "लिङ्गस्या" न्यभावात्मनो "लिङ्गिनश्च" प्रदेशादिधर्मिलक्षणस्य "असम्बन्धदोषः प्रसज्यते" । कुत? । "अन्यभावस्य" घटविविक्तप्रदेशदिलक्षणस्य "प्रदेशादिना" धर्मिणा (ह्ब्ट् 185) "सम्बन्धात्" तदात्म्यसद्भावादिति । तथा हि- शब्दादिधर्मिणा कृतकत्वादेस्तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्यभिप्रायः । ततश्च 'सम्बन्धाभावाच्चऽ; इत्ययुक्तमिति मन्यते ।

सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्रागुक्तो न धर्मिणा ततः दमुत्तरं सांबध्यत इति मन्यमानो धर्मिणाप्यन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्नाह- "न" लिङ्गलिङ्गिनोरसम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनमिति । किन्तु लिङ्गलिङ्गिनोरसम्बन्ध एवासमुदायसाधनमेव च एवमपि ब्रुवतः । कुतः? । प्रदेशादेरेव धर्मितयावस्थाप्यमानस्यान्यभावत्वादन्यभावलक्षणलिङ्गत्वात् । एतदेव दर्शयति- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् घटादिकं नासीत्युच्यते लोकेन स एव प्रदेशादिस्तेन घटादिनासंसृष्टस्संसर्गरहितः "अन्यभावो" लिङ्गतयेष्टो नापरः कश्चित् यतः "तद्दर्शनादेव" घटासंसृष्टप्रदेशादिदर्शनादेवास्य प्रतिपत्तुः 'घटो नास्तिऽ; इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति । ततः स एवान्यभावः । यदेव हि दृश्यमानं लिङ्गिज्ञानं जनयति तदेव लिङ्गमुच्यते । घटासंसृष्टश्च प्रदेशादिरेवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गमुपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदमननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? । नहि लिङ्गमेव धर्मी भवितुमर्हति, धर्मिप्रतिपत्तावेव साध्यप्रतिपत्तेरन्वयाद्यनुसरणायोगात् । ततश्चान्यस्य धर्मिणो ऽभावात् कथमन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? । शब्दकृतकत्वयोस्तु परमार्थतस्तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्येव भेदः । ततः शब्दादिधर्मिप्रतिपत्तावप्यनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् ।

स्यान्मतम्- सामान्यविशेषकल्पनया लिङ्गलिङ्गितैकस्यापि भविष्यतीत्यत आह- "न चात्र" प्रकृते ऽन्यभावे "सामान्यविशेषभावकल्पना सम्भवति", येन सामान्यविशेषविकल्पेन सामान्यं हेतुर्भवेद् विशेषो धर्मी, यतः समुदायसाध्यता (ह्ब्ट् 186) लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्याह- तद्विशेषप्रतिपत्तेरेव" घटविविक्तप्रदेशविशेषप्रतिपत्तेरेव "तदभावस्य" घटाभावस्य प्रतीतेः । यतश्च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषो ऽन्यत्र वर्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह- "तस्य" घटविविक्तप्रदेशविशेषस्य "अन्यत्र" सजातीये "अन्वयस्य" अनुवृत्तेरभावात् कुतः सामान्यात्मता? । न ह्यसौ देशकालावस्थानियतो विशेषो ऽन्यमन्वेतीति । अत्रैवोपचयहेतुमाह- "प्रतिज्ञार्थे"त्यादि । यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस्तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदमनु(न)नुभवतो हेतुत्वमसिद्धमिति । अथ मा भूत् एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुरिष्यते, किन्तु प्रदेशमात्रं घटविविक्तताविशेषरहितमित्यत आह- "न च यत्र प्रदेशमात्रं तत्र घटाभावः" । सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावादनैकान्तिको हेतुः स्यात् ।

परो ऽन्यथा सामान्यविशेषभावं दर्शयन्नाह- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस्तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? । तथाविधप्रदेशविशेषप्रतीतिरेव घटाभावप्रतीतिस्ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गितानुपपन्नेत्युपदर्शयन्नाह- "ननु तस्यैव" इत्यादि । यो ऽसौ केवलः प्रदेशविशेषो धर्मितयावस्थापितस्तस्यैव यत् कैवल्यं केवल इत्यनेन विशेषणेनोच्यते भवता, त देव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य प्रतिपत्तावेव सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः सिध्यति । ततः कस्येदानीं "तत्प्रतिपत्तावेव" साध्यप्रतीतौ सत्यां तल्लिङ्गम्? । न कस्यचित् । (ह्ब्ट् 187) जिज्ञासितस्य घटाभावस्य सिद्धेरन्यस्य कस्यचिदजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्तावेव घटविरहप्रतीतौ च यदेतदुत्तरकालं 'यत्र यत्र केवलः प्रदेशस्तत्र तत्र घटविरहःऽ; इति "अन्वयस्यानुगमामनु( गमनम्" अनु)सरणम्, तच्च निरर्थकम् आदावेव साध्यप्रतीतेः । यत एवं तस्मादन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर्भेदाभावान्न साधनमभावस्येति स्थितम् । तदेवं समुदायसाध्यतां लिङ्गस्य च धर्मिणासम्बन्धं प्रतिपादयितुं यदुक्तं परेण- 'प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्ऽ; इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् ।

विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर्द्दर्शयन्नाह- "अस्त्य"न्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावादन्यभावादभावस्य सिद्धिर्भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर्विरोधमेवासम्भावयन् पृच्छति- "केन कस्य विरोधः" इति । न ह्यत्र साध्यसाधनयोर्विरोधः संभवतीत्यभिप्रायः । परो विरोधमभिप्रायनभिज्ञतया दर्शयति- "अन्यभावेन" केवलप्रदेशात्मना "प्रतियोगिनो" यस्याभावः प्रमातुमिष्टो घटादेस्तस्येति ।

परस्यैवंवादिनो असम्बन्धाभिधायितामादर्शयन्नाह- "किं नु वै प्रतियोगी" घटादिः प्रमातुमिष्टो येन प्रतियोगिनः प्रमेयत्वेन लिङ्गलिङ्गिनोर्विरोधः सम्बन्धो ऽभिधीयते? । नैव प्रतियोगी प्रमातुमिष्टः किन्तु तदभाव इति चेत्, आह- "अभावस्तु" प्रतियोगिनो यः साध्य .........................................................................................

[कुमारिलस्तु मन्यते भवांशाद्भिन्नो ऽ]यमभावांशस्ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति । तथा ह्ययमभावः प्रागभावादिभेदभिन्नः, (ह्ब्ट् 188) न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव । यदाह-

"न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥" इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश्च तदसंयोगहेतुकत्वात् । यदाह-

"तत्संयोगे सदित्येवं सद्रूपत्वं प्रतीयते । नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ॥" इति ।

तत्कथं तत्प्रतिपत्तिरेवापरस्य व्यवच्छेदनमिति तन्निरासार्थमाह । "तस्या"न्यस्य प्रदेशस्य केवलस्य यत् तत् "कैवल्य" मेकाकिकत्वमसहायता तदेव "अपरस्य" प्रतियोगिनो घटादेः "वैकल्यम्" अभाव "इति" तस्मात् "तदन्यभाव एव" भावांश एव त्वदभिमतः "तदभावः" प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरमित्युच्यते सुगतसुतैः । ततश्च "तत्प्रतिपत्तिरेव च" तस्यान्यभावस्य प्रतिपत्तिरेव च "तदप्रतिपत्तिः" तस्य प्रतियोगिनो ऽप्रतिपत्तिरभावप्रतिपत्तिरिति यावत् । एवं मन्यते- यो ऽयमभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां तद्रूपवैकल्यादेवानुभवति नान्यथा । तच्च तद्रूपवैकल्यमन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । नहि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वमनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वमेकं द्रव्यं प्रसज्येत, ततश्च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्यादित्यवश्यमन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिरेव तदन्याभावप्रतिपत्तिः । तत्संयोग एव चेन्द्रियस्य तदन्याभावसंयोग इति किमुच्यते-

"नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ।" इति? । विकल्पापेक्षयोक्तमिति चेत्, तदेतदबाधकमेव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्यभावात्मके एव वस्तुरूपे प्रतिपन्ने पाश्चात्यस्य (ह्ब्ट् 189) यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश्चायमभावविचारः प्रमाणद्वित्वसिद्धावभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवाववधार्य इति ।

अवश्यं च तदन्यभावप्रतिपत्तिरेव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, 'नास्त्यत्रेदम्ऽ; इत्यभावव्यवहारार्थं चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्नाह- "अन्यथा" यदि तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति नेष्यते तदा "तस्य" अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य "अव्यवच्छेदे" अनिराकरणे तदभावाप्रतिपत्तौ "तत्परिच्छेद एव न स्यात्"- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिरेव न स्यात् । किं कारणम्? "तदतद्रूपयोः" तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच्चातद्रूपं तद्रूपं न भवति पररूपं तयोः "अविवेकाद्" अविवेचनाद् विवेकेनाव्यवस्थापनादसाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्किर्णं हि तद्रूपम् तच्चेत् तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारमेव तदुत्पन्नं तदा कथन्तेन तत्परिच्छेदः स्यात्? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा- शुकुशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथमन्याव्यवच्छेदो नाम? । ततः प्रतिनियतरूपाननुकारादेव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति ।

भवत्येवं ततः को दोषः? इत्यत आह- "य एष व्यवहारः" सर्वजनप्रतितः "कस्यचिद्" अग्न्यादेर्वस्तुनो दर्शनात् "क्वचिद्देशे" तत्सम्बन्धिनि "प्राप्त्यर्थो" दृष्टस्यादृष्टस्य च "परिहारार्थः" प्रवृत्तिनिवृत्तिलक्षणः "स न स्यात्" । किं कारणम्? । "न हि" यस्माद् "अयं" प्रतिपत्ता "अनलं पश्यन्नपि" सङ्कीर्णतदद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथास्य दर्शनरूपताहानेः, तथा हि- असङ्कीर्णस्यादर्शने सङ्कीर्णमपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिदेतद्दर्शनं स्यात्? । स एवंभूतः सङ्कीर्णदर्शनवान् प्रतिपत्ता (ह्ब्ट् 190) कथम् "अनलमेव पश्यति" न सलिलादिकम्? । "किन्तु" सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया "सलिलादिकमपि" पश्यति । ततः कथं "सलिलार्थी तत्र" अग्निमति प्रदेशे "न प्रवर्तेत"? ।

परस्य वचनावकाशमाशङ्कयाह- "अनुपलम्भेन" इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपमेव प्रतीयते । यस्तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर्विवेकाल्लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्याह- "को ऽयमनुपलम्भो नाम" इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रमित्यत आह- "यदि सलिल" इत्यादि । कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपमभावप्रमाणतया नाभिमतमेव ।

"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥"

इति वचनात् । किन्तु यो ऽसावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मनापरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परमभ्युपगमयितुमस्योपन्यासः । तथा चान्यवस्तुविज्ञानमेवाभावप्रमाणमस्तु, किमप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? । न च तदन्यवस्तुविज्ञानपरिणामादन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद्रसाद्यभावप्रतीतिर्युक्तिमती देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपर्पतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित एव । तदभावव्यवहारे त्वस्मदभिमतैवानुपलब्धिरायातेति प्रतिपादयितुमस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः तुच्छरूपो ऽनुपलम्भस्तदा कथमभावः (ह्ब्ट् 191) कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन्तु तद्धेतुभाव इत्यत आह- "प्रतिपत्तिहेतुर्वा" इति । नहि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननादभावज्ञानमेवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् ।

न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तमित्याह- "तस्यापि" सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? । अथायं सलिलोपलम्भाभावः स्वयमप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिदपि । तदेवाह- "तस्य" सलिलोपलम्भाभावस्य ततो वा सलिलादन्यस्यानलादेः 'विज्ञानं वान्यवस्तुनिऽ; इत्यत आत्मनो ऽपरिणामस्य पृथगवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य तदात्मकत्वान्न ततो भेदेन व्यवस्थाप्येत । ततश्च कस्यचिदपि तस्य तदन्यस्य वाप्रतिपत्तावपि यद्यभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्वपि सलिलाद्यभावः किं न प्रतीयते? । तदापि तदभावः प्रतीयेतेत्येतद्विचारितम् प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्यन्यवस्तुनो ऽप्यन्यत्वं तत्तुल्ययोग्यतारूपापेक्षमेव, न तदनपेक्षमुपेयम् । तथा चास्मदुपवर्णितानुपलब्धिसिद्धिरिति । यद चैवमुक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर्न युज्यते ऽनलप्रतिभासिनश्च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते "तस्मादयम्" अनलदर्शी प्रतिपत्तानलं "पश्यन्नपि" सङ्कीर्णरूपप्रतिभासिना ज्ञानेन 'अनलो ऽयं न सलिलम्ऽ; इति नाध्यवस्यति अनध्यवस्यंश्च सलिलरूपस्यापि प्रतिभासनात् तदर्थी "न तिष्ठेत्" प्रवर्तेत "नापि प्रतिष्ठेत" सलिलार्थी न प्रवर्तेत । तथाहि- सलिलं नाम तदुच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं सकलतदन्यरूपासंकीर्णप्रतिनियताकारज्ञानावभासि । इदं त्वन्यदेव शबलरूपं किमप्यवभासत इति । (ह्ब्ट् 192) "ततश्च" प्रवृत्तिनिवृत्त्योर्विरुद्धयोर्युगपदनुष्ठातुमशक्यत्वात् "दुस्तरं व्यसनं प्रतिपत्तुः स्यात् ।"

अत्र परस्य वचनावकाशमाशङ्कयाह- "तत एव" इत्यादि । न मया सलिलोपलम्भनिवृत्तिमात्रात् तु च्छरूपात् तदभावगतिरुच्यते, यथोक्तदोषप्रसङ्गात् । किन्तु यदेतदेकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर्भवति 'विज्ञानं वान्यवस्तुनिऽ; इति वचनात् ।

सिद्धान्तवाद्याह- "कथमेकम्" इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् "अन्याभावं प्रत्याययति?" । तथाहि- तस्मिन् दृश्यमाने तदेवास्तीत्यवगच्छतु, तदन्यत्तु नास्तीति किमिति प्रत्येतीति । "तस्यैव" परिदृश्यमानस्यानलादेः "केवलस्य" सलिलासंसृष्टरूपस्य "दर्शनाद्" अनलज्ञाने प्रतिभासनात् 'सलिलं नास्तिऽ; इति निश्चयः सञ्जायते । तथाहि- अनल इव सलिलमपि यदि तत्राभविष्यत् तदप्यनलवद् दर्शने प्रत्ययभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्मादेकप्रतिभासनमन्याभावनान्तरीयकं इत्यन्याभावे ततो ज्ञानमुत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथान्यद् वसुत् पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव च तज्ज्ञानमन्यत् प्रतियदेवं व्यपदिश्यते ऽन्यथा तदयोगादित्यन्यप्रतिपत्तिरेव तदभावविकल्पहेतुरिति सिद्धान्तवाद्याह- "इदमेव" इत्यादि । नन्वस्माभिरिदमेव प्रागभिहितं "तयोः सतोः नैकरूपनियता प्रतिपत्तिः असम्भवात्" इत्यादिभिर्वचनैः । ततो यदेवान्यासंसर्गिणः केवलस्य प्रतिभासनं तदेव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वादन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभावस्य तब्दलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं विकल्पकमाजायते । (ह्ब्ट् 193) न तु तेनाप्रतिपन्नं किञ्चिदवगम्यते, यतस्तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकमप्यनवगते तदन्याभावे ज्ञानं जनयत् पृथगभावप्रमाणतया व्यवस्थाप्येत । तथा हि- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस्तत्संवेदनमेव

तदभावसंवेदनम् । नहि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनादन्यत्तदभावसंवेदनं नाम । केवलमस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिदनले 'अनलो ऽत्रास्तिऽ; इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानमपि विकल्पकं तत्फंलद्वारेण वान्यवस्तुविज्ञानं न प्रत्यक्षात् पृथगभावाख्यं प्रमाणमिति । तस्माद् यदेवास्माभिरभिहितं तदन्याभावप्रतीतिं प्रति, तदेव त्वयाप्यभिधीयत इति कस्मात् परुषमिवाभाति यतस्तदनभ्युपगमेन पृथगभावाख्यं प्रमाणमभ्युपगतमित्युपहसति । तथा ह्यगत्येदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदमेव किं न पूर्वमेवाभिहितम्?, यत आलजालभिधानेनात्मा परिक्लेशित इत्युपसंहरन्नाह- " तस्मात् तीरादर्शिनेव" इत्यादि । यथा किल वहनारूढैर्वर्णिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरें नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम् । यतश्चावश्यभ्युपगमनीयो ऽयं पक्षस्तस्मान्न किञ्चिदनयाविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् ।

तदेवं परस्यान्यभावतदभावयोर्लिङ्गलिङ्गिभावमिच्छतः सम्बन्धाभावादसावयुक्तः इति प्रतिपादिते परेण 'असति सम्बन्धे ऽन्यभावगत्यापि तदभावगतिर्न स्यात्ऽ; इति चोदिते 'न वै कुतश्चित् सम्बन्धाद्ऽ; इत्याद्यभिहितम् । अतः 'अन्यभाव एव तदभावो ऽन्यभावगतिरेव च तदभावगतिःऽ; इति प्रसाधयता कुमारिलपरिकल्पितः कस्यचिदभावनिश्चयार्थमभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु-

"वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता"

इत्येतदाहत्य निराकर्तुं पूर्वपक्षमुत्थापयन्नाह- "यद्येकपरिच्छेदादेवः" इत्यादि । यदि हि "एकस्य" केवलस्य परिच्छेदादन्यस्य "व्यवच्छेदः" प्रतिषेधः सिध्यति तदा सर्वस्या अ(स्या)न्यस्याविशेषेणैव "तत्र" देशे यत्रासावेकः परिदृश्यते तत्राभावसिद्धिर्भवेत्, न तु विशेषपरिग्रहेण तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानश्च, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तत्मको ऽपि । ततश्च तद्विविक्ताकारतया तदन्याभवसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभवमिव रसाद्यभावमपि साधयेत्, न वा घटाभावमपीति ।

किञ्च, यदेतद् 'उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनीऽ; इति विशेषणमुक्तं तच्च न वक्तव्यम् । किं कारणम्? यतो ये ऽप्यनुपलब्धिलक्षणप्राप्तास्तेषामपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्येव । तथा हि- यथोपलब्धिलक्षणप्राप्तास्तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश्च व्यवच्छिद्यन्ते तथानुपलब्धिलक्षणप्राप्ता अपीति किम् 'उपलब्धिलक्षणप्राप्तस्य" इत्यनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः- ततः पृथक्करणमन्यत्वेन व्यवस्थापनमभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोरभावः, तदयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यमतुल्ययोग्यतारूपे ऽनुपल्ब्धिलक्षणप्राप्ते वा सम्भवति । 'तयोः सतोर्नैकरूपनियता प्रतिपत्तिः असम्भवात्ऽ; इत्येवं हि तदभावसाधनम् । न चैतदन्यत्र सम्भवतीति प्रतिपादयितुम् "एकात्मपरिच्छेदात्" इत्यादिनोपक्रमते । यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः "तदन्यः" ततो ऽन्यस्तद्वयतिरिक्तस्तस्य सर्वस्य य "आत्मा" स्वभावस्ततो (ह्ब्ट् 195) "व्यवच्छेदो" भेदनं पृथक्करणमन्यत्वसाधनमसङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनरेकात्मपरिच्छेदादेव तस्य तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽवस्थितपदार्थसामर्थ्यभावि तद्रूपमेव प्रतिपद्यताम् । यत्तु तद्वयतिरिक्तमशेषपदार्थजातं तदात्मनस्तस्य पुरो ऽवस्थितस्य कथं तव्द्यवच्छेदकम्? अतः तव्द्यवच्छेदार्थमभावप्रमाणमभ्युपेयम्, यतो-

"वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता" इति ।

अत आह- "तदात्मनियतप्रतिभासज्ञानाद्" इति । यतः पुरो ऽवस्थितस्यैकस्य वस्तुनः पररूपासंकीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासंकीर्णस्वभावत्वात् । अन्यथा कथमभावप्रमाणतो ऽप्यसांकर्यमेषां सिध्येत्? । संकीर्णरूपाणामसाङ्कर्यसाधने तस्य भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षाताहानेः । तदुक्तम्- "तद्धयर्थसमर्थ्येनोत्पद्यमानं तद्रूपमेवानुकुर्यात्" इति । तस्य तदात्मनियतप्रतिभासय ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात् । तत्संवेदनमेव हि प्रत्यक्षस्यातद्रूपाद् "व्यवच्छेदनं" पृथक्करणं तब्दलेनैव च पाश्चात्यः 'अन्यात्मकमेतन्न भवतिऽ; इत्यसांकर्यवस्थाप्रत्ययो विकल्पकः संजायते गॄहीतग्राही । न तेनापूर्वं किञ्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदादिति ।

यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथमन्यात्मनः तस्य पृथक्करणम्? इत्यत आह- "न हि तदात्म" इत्यादि । यस्मात्तस्य वस्तुनो य आत्मा पररूपासंकीर्णः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततो ऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेरिति । तस्मात्तदात्मनियतप्रतिभासज्ञानमेव (ह्ब्ट् 196) तदन्येभ्यो निवर्तनम् । नहि ज्ञानेनार्थो हस्ते गृहीत्वान्यतो निवर्तनीयः । केवलमन्यरूपासंकीर्णस्यैकस्यात्मनो ऽनुकरणमेवास्यान्यतो निवर्तनमुच्यत इति । अथान्यात्मानः स्वविषयं न निवर्तयेत्, तदास्य विषयस्यान्यात्मनः सकाशादव्यवच्छेदे पृथगव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा तदपरिच्छेदस्यैवैकात्मपरिच्छेदात्मनस्तन्निवर्तनरूपता स्यात् । ततश्चाव्यवच्छेदे ऽन्यात्मनस्तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योरभाव इति पूर्वः प्रसङ्गो 'न ह्ययमनलं पश्यन्नपिऽ; इत्यादिकः ।

न केवलमन्यात्मनस्तन्निवर्तयति तदात्मनो ऽप्यशेषमन्यदिति दर्शयन्नाह- "तं च" अग्रतः स्थितं देशकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, "तदात्मना" देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकारादुपलभमाना बुद्धिः "तथात्वप्रच्युतिम्" अन्यदेशकालस्वभावावस्थताम् "अस्य" स्वविषयस्य "व्यवच्छिनत्ति" ततः पृथक्करोति । कस्मात्पुनरन्यदेशादितां ततः पृथगवस्थापयति इत्यत आह- "एवं हि" यस्मादन्यदेशतादेस्ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्यन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराव्द्यवच्छिन्नः- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् "इति" तस्मादन्यथाभूतादन्यदेशादिमतस्तथाभूतं तद्देशादिमंतं "व्यवच्छिन्दत्येव" निवर्तयन्त्येव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा "तथाभूतादन्यथाभूतं व्यवच्छिन्दत्येव" इति द्वितीयस्योपसंहारः कार्य इति । "एवम्" उक्तेन न्यायेन "एकस्य" प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्येवमेव स्वविषयपरिच्छेदाद् "वृत्तिः" प्रवृत्तिः सर्वभावान् "द्वैराश्ये" तत्त्वे ऽन्यत्वे च "व्यवस्थापयति" । ततस्तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकयाप्यभावकल्पनयेति? ।

ननु च विकल्पव्यापार एष 'इदमन्यात्मकं न भवति अन्यथैतदात्मकम्ऽ; इति । प्रत्यक्षं च निर्विकल्पकमिष्यते तत् कथमसांकर्यसिद्धिस्ततः? इत्यत आह- "तस्यान्वये" त्यादि । तद्धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणमिष्यते नान्यदा अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात् सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षणिकतादावन्वयव्यतिरेकबुद्धी जनयितुमसामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति ।

स्यान्मतम्- द्वैराश्यसाधने ऽप्यसांकर्यसिद्ध्यर्था मा भूदभावप्रमाणकल्पना किन्तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः प्रतिपादित इति अत आह "तद्व्यतिरिक्ते"त्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस्तत्साधनादेव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस्तदर्थमपि नाभावप्रमाणकल्पना युक्तेति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.