Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- अर्चट
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अर्चट: हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)
श्रीमदर्चटविरचिता ॥ हेतुबिन्दुटीका ॥ नमः सर्वज्ञाय ॥
[जिननमस्कारेण मङ्गलम् ।] यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्, पुण्यज्ञानमयं[1]प्रचित्य विपुलं हेतुं विधूतश्रमः । कृत्स्नज्ञेयविसर्प्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम् ॥ 1 ॥
__________नोतेस्__________
[1] पुण्य- : प्रस्तुत-
[धर्मकीर्तिवचसां सरसतमत्वख्यापनम् । ] वरं हिधार्मकीर्त्तेषुचर्वितेष्व् अपि चर्वणम्[2]। निष्पीडिताऽपि मृद्वी[का माधुर्यं हि जहा]ति किम् ? ॥ 2 ॥
__________नोतेस्__________
[2] चर्चितेष्वपि चर्वनम् -- त्.
[स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा । ] न्यायमार्ग्गतुलारूढं जगद् एकत्र यन्मतिः । जयेत् तस्य क्व गम्भीरा गिरो ऽहं जडधीः क्व च ? ॥ 3 ॥
तथापि मन्दमतयः सन्ति मत्तो [ऽपि केचन । यानुद्दिश्य] मयाप्य् एष हेतुबिन्दुर् विभज्यते ॥ 4 ॥[आदिवाक्यस्य प्रयोजनप्रकटनम् । ] परोक्षे -- [त्त्. 355ब्.] त्य् आदिना प्रकरणारम्भे प्रयोजनम् आह । तच् च[3]श्रोतृजनप्रवृत्त्य् अर्थम् इतिकेचित् । तद् उक्त[म् -- सर्वस्यैव हिशा]स्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनंनोक्तंतावत् तत् केन गृह्यताम् ॥ [श्ल्सू 1.12.] इति । तद् अयुक्तम्[4]। यतो ऽस्य प्रकरणस्येदं प्रयोजनम् इति [प्रदर्शने प्रयो]जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये {प्. 2.1} प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया[5]प्र[करणश्रवणादौ प्रवृत्तिः] [स्. 2अ] स्याद् इति तदभिधानस्यार्थवत्ता[6]वर्ण्यते । न चैतद्[7]युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये[8]तद्भावनिश्चयात्[9]। यथा कृषीव[लादीनां सस्या]द्य् उपाये बीजादावऽबीजादिविवेकेनाऽवधृतबीजादिभावानाम् । अन्यथा ह्य् अनिश्चितोपायानाम् उपेयार्थनां [त्. 206ब्.] प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [भाविनि प्रमा]णव्यापारासम्भवाद् अनिश्चये ऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोर् असम्भवे `योग्यम् एतद् विवक्षितं कार्यं निष्पादयितुम्ऽ इति सं[भावनया प्रवृत्तौ] प्रेक्षावत् तातो न हीयेरन् । निश्चयश् च प्रमाणाद् एव । न च प्रयोजनवाक्यस्य प्रामाण्यम् अस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्ये ऽपि यथा]वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा [स्. 2ब्.] यम् अर्थं विवक्षन्ति ते तथैव तम् अनु[तिष्ठन्ति वि]संवादनाभिप्रायाणाम्
अन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल् लोके सर्वत्रानाश्वासात् । प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषयः संशयः ज]न्यते ततस्[10]तद्भावनिर्धारणाय[11]कृषीवलादेर् इव बीजाद् अवधृतये प्रवृत्तिर् युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात् प्राग् अपि] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य[12]न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किम् अस्यानुमा[नव्युत्पादनं प्र]योजनम् अन्यद् वा, न वा किञ्चिद् अपीत्य् एवं रूपश् च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत । अपि च किम् इदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मद् अभिम]तेन वा प्रयोजनेन तद्वद् इति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । [स्. 3अ.] तस्माद् `यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा । तद्यथा [त्. 207अ.] {प्. 3.1} दशदाडिमादिवाक्यं काकदन्त[परीक्षा च । निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वाऽ इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थम् आदौ प्रयोजनवाक्योपन्यासः ।[प्रकरणतदभिधेययोः प्रयोजनचिन्ता ।] तत्र तद्व्युत्पादनार्थम् इति वाक्येन स्वयम् अस्य प्रकरणस्य प्रयोजनम् आह । यथास्वम् अभिधेयप्रतीतिर् हि वाक्यस्य प्रयोजनम् । तच् चेहास्ति पदानाम् अवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः । तथा हि -- अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम् । तस्यैव तच्छब्देन सम्बन्धात् । यद्य् अपि परोक्षार्थप्रतिपत्तौ गु[णीभूतम् अनु]मानं तथापि वक्तुर् अभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन
परामृश्यते । अन्यथा प्रधानसंस्पर्सो(शो)पि कथं स्यात्? । शब्दानां स्व[भावतः] सम्भद्धा(न्धा)योगात् । पक्षधर्म इत्यादिना चानुमानस्यैव व्युत्पादनात् । तस्य [स्. 3ब्.] व्युत्पत्ति[र् अविपरीतस्वरू]पप्रतीतिर् अस्य प्रकरणस्य प्रयोजनम्, तस्माध्यत्वात् । अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं दर्ष]यितुं णिचा निर्दिशति -- तद्व्युत्पादनार्थम् इति । ततश् च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः[13]सम्बन्धो ऽप्य् उक्तो भवति । यद्य् अपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य[14]प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेर् एव प्रधानता तस्यास् तत्साध्यत्वात्[15]। इतरस्य[16]च तदुपायत्वेनाप्रधानत्वात् । तस्माद् अनुमानव्युत्पत्तिर् [त्. 207ब्.] एव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति । परोक्षार्थप्रति[पत्तेः अनुमानाश्रय]त्वात् इत्य् अनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनम् आह । न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलम्[17]अस्तीत्य् एता[व् अतैव प्रेक्षावान् प्रव]र्त्तते ऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति । तच् चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः -- निश्चयः -- तस्या अनुमा[नं -- त्रिरूपलिङ्गम्] [स्. 4अ.] कारणे कार्योपचारात् । अनन्योपायसाध्यतां दर्शयितुं {प्. 4.1} परमतनिरासार्थम् आश्रयः -- कारणम्, अनुमानम् आश्रयो यस्येति सामान्येन विगृह्य । [तदनु च] कस्यानुमानाश्रयत्वाद् इति विशेषापेक्षायाम् -- यद्य् अपि परोक्षार्थप्रतिपत्तिशब्दसम्भन्धे स्त्रीत्वं गम्यते तथापि तत्[18]पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात् बहिरङ्गम् इति न स्त्रीप्रत्ययनिमित्तं यथाभूतम् इयं ब्राह्मणी, आवपनम् इयम्
उष्ट्रिकेति ।
__________नोतेस्__________
[3] प्रयोजनाभिधानम् [4] श्रोतृजनप्रवृत्त्यर्थत्वम् [5] प्रयोजनार्थितया [6] प्रयोजनाभिधानस्य [7] आदिवाक्यस्य निश्चायकत्वसंवर्णनम् [8] प्रयोजन- [9] उपाय- [10] संशयात् [11] प्रयोजनविशेषोपायत्वस्य [12] संशयस्य [13] तद्व्युत्पत्ति- [14] शाब्दन्यायेन [15] प्रकरणव्यापार- [16] प्रकरण- [17] प्रयोजनम् -- त्. [18] स्त्रीत्वम्
[सर्वपरोक्षप्रतीतेर् लिङ्गजत्वाद् एवानुमानत्वसूचनम् ।]
अनेन च सर्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्य् अयोगात्, त्रिरूपलिङ्गाश्रयैवेत्य् उक्तं भवति [स्. 4ब्.] अनुमानाश्रयत्वाद् एवेति अवधारणात् । [ततश् च शब्दादी]नां सति प्रामाण्ये ऽनुमानता, अन्यथा[19]तेषाम् अपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य[20]समानत्वात् । तथा हि -- सर्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति । तस्याः[21]स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात्[22]। अविसंवादलक्षणत्वाच् च प्रमाणस्य । अन्यतो ऽपि [असम्बद्धाद् यदि स्या]त् [त्. 208अ.] सर्वतः सर्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धे ऽपि सर्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात् । एवम्भूतश् च[23]त्रिरूप[लिङ्गम् एवार्थो भव]तीति सर्वा परोक्षार्थप्रतिपत्तिस् त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति । एष चार्थः पक्षधर्मस् तदंशेन व्याप्तो हेतुः, कस्य?, परोक्षा[र्थप्रतिपत्ते]र् इति [स्. 5.अ] प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर् हेतुर् इत्य् अवधारणात् ।
__________नोतेस्__________
[19] अवधारणाभावे [20] परोक्षार्थप्रतिपत्तिकारणत्वस्य [21] स्वतन्त्रप्रतिपत्तेः [22] स्वार्थ- [23] प्रतिबद्धं पक्षसंबद्धं च
[स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम् ।]
अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेर् इत्य् अ[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम् । अर्थक्रियासमर्थो ह्य् अर्थः, स्वलक्षणं चैवमात्मकम् । अत एव -- वस्त्व् अधिष्ठानत्वात् प्रमाणव्यवस्थायाः -- [इति व]क्ष्यति । अन्यथाऽनुमानात् तत्र प्रवृत्तिर् न स्याद् अर्थक्रियार्थिनः । {प्. 5.1} सामान्यस्यावस्तुत्वे ऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश् च तदु[त्पाद्य]त्वेन सिद्धत्वात् । न हि जातिर् दाहपाकादाव् उपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्[24]। तत्सम्बन्धात् तत्र प्रवृत्तिर् इति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित् सम्भन्धाभावात् । सत्य् अपि च सम्बन्धे कथम् अन्यप्रतिपत्ताव् अन्यत्र प्रवृत्तिः, अतिप्रसङ्गात् । [स्. 5ब्.] समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिर् इति चेत्; [त्. 208ब्.] एवं तर्हि भ्रान्तिमात्रम् एवास्तु, किम् अन्तर्गडुना सामान्येन? । निर्ब्बीजभ्रान्त्ययोगाद् इति चेत्; ता एव व्यक्तयस् तदेकका[र्यकारिण्यो भ्रान्तेर् बीजम्] । वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् । न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेर् ब्बीजम् । सादृश्यनिबन्धना हि भ्रान्तिर् इष्यते परैः । व्यक्त्य एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास् ततस् ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस् तासु भावात् । वस्तुभूतस्य तु सामान्यस्य सम्भन्ध्[आसंभवे]न तासु भावायोगाच् च । यैस्[25]तु व्यक्त्यात्मकम् एव सामान्यं कल्पितं तैः स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् अभ्युपगतम् एव भवति । स्वलक्षणात्मकं तु सामान्यं कथम् अनुमाने[26]प्रतिभासते, वैशेषिकदर्शनोपगमप्रसङ्गात् ।
.............................................................................................................. ................................................................................................................................[s.6a अन्द् स्. 6ब्.]................................................................................................... ............................................................................................................................................................................................................................................................... {प्. 6.1} [ 1. हेतोः सामान्यनिरूपणम् ।] [सेच्तिओन्: 1. हेतोस् त्रित्वेन व्याप्तिः कथं फलितेति चर्चा ।]
__________नोतेस्__________
[24] वर्णाकृत्ययोगाच् च [25] सांख्यैः [26] स्वलक्षणाप्रतिभासे
[स्. 7अ.] ............ हि कथितम् । तत्र कार्यस्वभावयोर् विधिसाधनत्वान् न प्रतिषेधे साध्ये व्यापारः । अनुपलब्धितो ऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध[त्. 209ब्.]विद्धिश् चेति[27]। तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिर् अन्योपलब्धिरूपा अभावव्यवहारहेतुर् इष्यते । न [च हेत्वन्]तरम् अत्यन्ताभावतयोपगतम् अनुक्रान्तरूपम्[28], यदि हि स्याद्देशादिनिषेध एवास्य स्यात् नात्यन्ताभावः । कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः । न च हेत्वन्तरे ऽत्यन्तासत्तयाङ्गीकृते प्रकारो ऽयं सम्भवति । तत् कथं ते तदभावं गमयिष्यतः । विरोधो ऽप्य् अविकल[कारणस्य] भवतो ऽन्यभावे ऽभावाद् अवगम्यत इति विरुद्धोपलब्धिर् अप्य् असम्भविनी । सम्भवे वा कारणानुपलब्ध्य् आदीनां कथम् अत्यन्तनिषेधः? इत्य् आशङ्क्याह -- हेत्वाभासास् ततो ऽपर इति । ततः त्रिविद्धाद् धेतोः अपरे अन्ये हेत्वाभासाः यतस् ततस् त्रिधैव स इति । एवं मन्यते -- इह यद्[29]यत्र नियम्यते [तद्वि]पर्ययेण [स्. 7ब्.] तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति । यथा यत् सत् तत् क्षणिकम् एवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति । एवम् इहापि त्रित्वे हेतुर् नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसांख्यायाम् एव नियतो भवति । ततस् त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतां दर्शयति । तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व]भावानुपलम्भव्यतिरिक्तानाम् अर्थानां
हेतुत्वाभाव[त्. 210अ.]निश्चय इति । हेतुतदाभासयोश् च परस्परपरिहारस्थितलक्षणतयैव विरोधो {प्. 7.1} [हेतुल]क्षणप्रतीतिकाल एव प्रतिपन्नः । तदात्मनियतप्रतिभासज्ञानाद्[30]एव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परम् इतरेतररूपाभाव[निश्च]यात् । तत्र त्रिविधहेतुव्यतिरिक्तेष्व् अर्थेषु हेत्वाभासत्वम् उपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप][स्. 8अ.]गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहात् हेतुत्वम् अन्यत्र प्रसिद्धम् एव तत्रा ऽऽरोपितम् आशङ्कितं वा तद्विरुद्धोपलम्भाद् अपसार्यते । तत् किम् उच्यते -- [अत्यन्तासंभ]विनः कथंविरोधः इति । न च सहानवस्थानलक्षण एव विरोधो येन तन् न्यायः[31]सर्वत्रोपवर्ण्येत । नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन कथम् असतः केनचिद् विरोधगतिः? इति चोद्येत । न हि नात्र शीतस्पर्शो ऽग्नेर् इति साध्यधर्मिण्य् एव शीतस्पर्शस्याग्निना विरोधो ऽपि तु सर्वत्र यथा[32]तु अस्यान्यत्र[33]प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्व् अर्थेषु हेतुत्वनिरासः । [अत्यन्तास]तो ऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिद् अप्य् असम्भवात्, भावेन वा यद्वदभावस्य सर्व[शक्तिविरहल]क्षणस्येत्य् अलं दुर्मतिविस्पन्दितेष्व् अत्यादरेणेति स्थितम् एतत् -- त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या][स्. 8ब्.][त्. 210ब्.] ऽपि च व्याप्तौ सत्यां तत्र[34]नियतं भवतीत्य् अभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुम् इदम् उक्तम् --
हेत्वाभास(सा)स्ततो ऽपर इति ।
__________नोतेस्__________
[27] -चेति । तत्र तुल्य- -- त्. [28] एकज्ञानसंसर्गिव[स्त्वन्तरम्] [29] हेतुत्वम् [30] हेतु- [31] भवतो ऽन्य्भावे ऽभावलक्षणः [32] यथाप्रतीतस्यैवास्य -- त्. [33] शीतस्पर्शस्य [34] त्रित्वे
[सेच्तिओन्: 2. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश् चर्चा]
तत्रैतत् स्यात् -- क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर् बाधकप्रमाणवशाद् अवसिता इह तु त्रिसङ्ख्याबाह्यानाम् अर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य् अ[त्राह] -- अविनाभावनियमात् इति । त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्ख्यमाने वा वस्तुनि पक्षधर्मतासद्भावे ऽप्य् अविनाभावाभावा[द् {प्. 8.1} इत्य् अर्थः] । तथा च वक्ष्यति -- न स त्रिविधाद् धेतोर् अन्यत्रास्तीत्य् अत्रैव नियत उच्यत इति । अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितम् इति हेत्वाभासत्वे साध्ये ऽविनाभाववैकल्यं स्वभावहेतुः । अवीनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वाद् एव [तदन्येषां] [स्. 9अ.] [व्याप]कानुपलब्धितः सिद्धम् । तथा हि -- तादात्म्यतदुत्पत्तिभ्याम् अविनाभावो व्याप्तः, तयोस् तत्रावश्यं[35]भावात् । तस्य च तयोर् एव भावाद् अतत्स्वभावस्यातदुत्पत्तेश् च [तदनायत्तत]या तदव्यभिचारनियमाभावात् । तदुक्तम् -- कार्यकारणभावाद् वा स्वभावाद्[36] वा नियामकात् । अविनाभाव[37]नियमो[38] ऽदर्शनान्[39] न दर्शनात्[40]॥
[avaśyaṃ bhāva]niyamaḥ kaḥ [41]parasyānyathā[42] paraiḥ[43] | ana(arthā)ntaranimitte[44] vā dharme[45] vāsasi [t. 211a.] rāgavat ||[pv i 33-34 xe "pv i 33-34"] iti | rūpādinā 'pi hi rasāder avinābhāvo na sva[taḥ kintu svakāra]ṇāvyabhicāradvāraka iti tatkāraṇotpattir evāvinābhāvanibandhanam | anyathā[46]tadanāyattasya[47]tatprakāraṇānāyattasya[48]vā tenā[vinābhāvakalpa]nāyāṃ sarvasya sarvārthair avinābhāvaḥ syāt, aviśeṣāt | ekārthasamavāyanimitto rūparasāder avinābhāva iti cet | nanu samavāyo 'py ādhāryā[dhāra]bhūtānām upavarṇyate | sa cādhārādheyabhāvas tadātmānupakāre[49]'ti prasaṅgato na sidhyatīty ekasāmagryadhīnataivaikārthasamavāyo[ 'vase]yaḥ | [s. 9b.] anyo vā vastubhūtaḥ saṃbandho 'sambhavī tathāsambandhaparīkṣāyāṃvistarataḥśāstrakṛtāpratipāditam eveti tata evāvadhāryam | asa _ _ na vā {p. 9.1} ja(nanvasaty api ja)nyajanakabhāve, tādātmye vā, tenaivāvinābhāvo nānyenety atra vastusvabhāvair evottaraṃ vācyam ye evaṃ bhavanti nāsmābhiḥ, ke[valaṃ vayaṃ draṣṭāra] iti cet; ākasmikas tarhi sa vastūnāṃ svabhāva iti na kasyacin na syāt | na hy ahetor ddeśakāladravyaniyamo yuktaḥ | [tad dhi kiñcit kvacid upa]nīyeta na vā yasya yatra kiñcid āyattamanāyattaṃ[50]vā | anyathā viśeṣābhāvādiṣṭadeśakāladravyavad anyadeśādibhāvaḥ ke[na vāryeta viśeṣābhāvāt | tato ya]dyenāvinābhūtaṃ dṛśyate tasya tenāvyabhicārakāraṇaṃ tattvacintakair abhidhānīyam, [t. 211b.] na tu pādaprasārikā 'valambanīyā | tac cāvyabhicārakāraṇam [s. 10a.] yathoktād anyan na yujyata iti tadvikalā na hetulakṣaṇabhāja
इति । तथा चाह - संयोग्यादिषु येष्व् अस्ति प्रतीबन्धो न तादृशः। न ते हेतव [इत्य् उक्तं] व्यभिचारस्य संभवात् ॥ [प्व् 4.203] इति । अत्र प्रयोगः -- यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, तथा प्रमेयत्वादिर् अनित्यत्वादिना, न स्तश् च केनचित् तादात्म्यतदुत्पत्ती स्वभावकार्यव्यतिरेकिणाम् अर्थानाम् इति व्यापकानुपलब्धिः । स्वभावानुपलब्धिस् तु स्वभावहेताव् अन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः । व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशाद् एव व्याप्यकार्योर् निवृत्तिं साध्यतः । [तदुक्तम् - तस्मा]त् तन्मात्रसंबद्धःस्वभावो[51] भावम्[52] एव वा। निवर्तयेत् कारणंवाकार्यम् अव्यभिचारतः ॥ [प्व् 3.22] इति । तद् एवं हेतुलक्षणं 1 संख्यानियमः 2 तदुपदर्श[कं च प्रमाण]म् 3 अत्र [स्. 10ब्.] श्लोके निर्दिष्टम् इति ।
__________नोतेस्__________
[35] अविनाभावे [36] तादात्म्यात् [37] साध्येन [38] साधनस्य [39] विपक्षे [40] सपक्षे [41] साधनस्य [42] तादात्म्यतदुत्पत्त्यभावे [43] साध्ये [44] मुद्गरादि- [45] नित्यत्वादिके [46] एकसामग्रीप्रतिबन्धाभावे [47] साध्यानायत्तस्य [48] साध्यकारणानायत्तस्य [49] आधेयस्य रूपरसादेर् अनुपकारे [50] प्रतिबद्धम् [51] अनित्यादिकः [52] व्याप्यं कृतकत्वादिकम्
[सेच्तिओन्: 3. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् ।]
अथवा `त्रिधैव सःऽ इति स पक्षधर्मस् त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस् तदंशेन व्याप्तो नान्यः । [स] त्रिप्रकारस् {प्. 10.1} तदंशेन व्याप्त एवेति सम्भन्धः । किं कारणम्? । अविनाभावनियमात् । अविनाभावस्य -- व्याप्तेः । त्रिविध एव पक्षधर्मे नियमात् । त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् । तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्मव्यतिरिक्ता [त्. 212अ.] न तदंशेन व्याप्ता इति । त्रिविधश् च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस् तदंशेन व्याप्त एवेति न तस्याहेतुत्वम् इत्य् उक्तं भवति । ततस् त्रिविधहेतुबाह्येष्व् अवि[नाभावाभा]वाद् धेतुव्यवहारं कुर्वन्तः, त्रिविधे च हेताव् अविनाभावस्यावश्यम् भावा[भावा]द् अहेतुत्वम् आचक्षाणा[53]निरस्ता भवति । [स्. 11अ.]
__________नोतेस्__________
[53] चार्वाकाः
[सेच्तिओन्: 4. हेत्वाभासालक्षणानभिधानेपि तत्सूचनम् ।]
तत्रैतत् स्यात् -- हेत्वाभासानाम् अपि [लक्षणम् अ]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्य् आह हेत्वाभासास् ततो ऽपर इति । ततः पक्षधर्मस् तदंशेन व्याप्त इति हेतुलक्षणाद् अपरे अ[न्ये त]ल्लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणम् उच्यते । तथा हि -- पक्षधर्मः इत्य् उक्ते यत्र पक्षधर्मता नास्ति न स हेतुः । तदंशेन व्याप्तः इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर् व्यापकस्य वा तत्रावश्यम् भावाभावात्, ते हेतुरूपविकलतया हेत्वाभासाः असिद्धविरुद्धानैकान्तिका गम्यन्त एव । तथा हि -- यल्लक्षणो[54]यो ऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्व्यवहारं स्वयम् एव प्रवर्तयिष्यति अ[तद्रूप]परिहारेनैव तद्रूपप्रतिपत्तोर् इति न तत्र यत्नः फलवान् भवति । [स्. 11ब्.] यत् त्व् अन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य । इदं तु प्रकरणं विपुलमतीन् उद्दिश्य प्रणीतम् संक्षेपतः इति वचनात् । [त्. 212ब्.] त एव हि संक्षेपोक्तं यथावद् अवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानम् अन्तरेण यथावद् अर्थप्रतिपत्तेर् अभावात् । अत एवार्थाक्षिप्तोपन्यासपूर्वकम् एव हेत्वाभासलक्षणं तत्रोपवर्णितम् इति । तदत्र व्याख्याने हेतुलक्षणं 1 {प्. 11.1} हेतुसाम्ख्यानियमः 2 तस्य च त्रिविधस्य हेतुत्वावधारणं 3 तदुभयकारणं[55]श्लिष्टनिर्देशा[त् 4-5] हेत्वाभासलक्षणानभिधानकारणं 6 चेति षडर्थाः श्लोके ऽत्र निर्दिष्टा इति । किञ्चिद् -- इदम् अपि साधु दृश्यते -- त्रिधैव कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः । तथा, त्रिधैव पक्षधर्मान्वयव्यतिरेकरूपभेदात् त्रिप्रकार एव त्रिरूप एव
। [स्. 12अ.] तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोर् अभिधानात् । नाबाधितविषयत्वादिरूपान्तरयोग्य् अपि स हेतुः । कुतः? यतः हेत्वाभासास् ततो ऽपरे ततः त्रिविधात् सवभा[वा]देः, पक्षधर्मादिरूपत्रययोगिनो वा अपरे अन्ये संयोग्यादयो ऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा । कस्माद्? । अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमाद् अन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावाद् इत्य् अर्थः । न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्या ऽविनाभावस्य संभवः तद्वति वा रूपान्तरस्य । तथा चा(च) सत्येवाविनाभावे रूपा[त्. 213अ.]न्तरस्य न सम्भवस् तथा षड्लक्षण इत्यादिना वक्ष्यति ।
__________नोतेस्__________
[54] यद्रूप- [55] तस्योमयस्य हेतुसंख्यानियमस्य हेतुत्वावधारणस्य कारणं अविनाभावनियम इत्य् एत .........
[ सेच्तिओन्: 5. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् ।]
pakṣadharmaḥ ity atra hetulakṣaṇe 'pi kriyamāṇe yadi samudāyaḥ pakṣe(kṣo) gṛhyate yo 'numānaviṣayas tadā sarvo hetur asiddhaḥ, siddhau vā 'numānavaiyarthyam ity āha pakṣo dharmī iti | kathaṃ punaḥ samudāyavacanaḥ [s. 12b.] pakṣaśabdo dharmimātre vartata iti cet? avayave samudāyopacārāt | pakṣākhyasya hi samudāyasya dvāv avayavau dharmī, dharmaś ca | tad atra dharmimātre samudāyopacārāt pakṣaśabdo vartate | tadekadeśatvaṃ[56]ca samudāyopacāranimittam iti na sādhyadharmiṇo 'nyatra tatprasaṅgaḥ | taduktam -- samudāyasya sādhyatvāt dharmamātre [ca] dharmiṇi | amukhye 'py ekadeśatvāt sādhyatvam upacaryate || iti | ps iii 9 (cf. hb 83) __________notes__________
[56] यस्य हि य एकदेशस् तत्र ताद्रूप्योपचारः, न हि पटस्यैकदेशे दग्धे कम्बलो दग्ध इत्य् उपचारः
{p.12.1}[सेच्तिओन्: 6. दिङ्नागव्याख्याने ईश्वरसेनाक्शेपस् तदुद्धारश् च ।]
tad etadācāryīyaṃvyākhyānamīśvarasenenākṣiptaṃ parihartuṃ pūrvapakṣayann āha --prayo[jane]ty ādinā | na rtte prayojanādiṣṭraṃ(ṣṭaṃ) mukhyaśabdārthalaṅghanam | ps iii 39cd (cf. hb 84) ity asati prayojane nopacāro yuktaḥ | tato dharmidharma ity evāstv itiparaḥ| na prayojanābhāvaḥ | kutaḥ? sarvaś cāsau vivādāśrayo 'nyo dharmī yas tasya pratiṣedho 'rthaḥ prayojanaṃ yasyopacārasya tadbhāvas tasmāt sarvadharmidharmapratiṣedhārthatvād upacārasya iti prayojanābhāvād ity asiddho hetuḥ | ka evaṃ sati guṇa iti ced āha [s. 13a.] [t. 213b.] -- evaṃhi upacāre sati cākṣuṣatvādi ādigrahaṇāt `kākasya kārṣṇyāt' ityādi vyadhikaraṇāsiddhaṃ parihṛtaṃ hetutvena nirastaṃ bhavati | dharmidharma iti tu sāmānye[nābhi]dhānāt teṣām api hetutā syād[57]iti | asaty upacāre dharmigrahaṇād apy etat[58]sidhyati | tato 'narthaka evopacāra ity āha paraḥ -- dharmavacanenāpi na kevalaṃ dha[rmiva]canena | dharmyāśrayasiddhau dharmiṇa āśrayaṇam āśrayaḥ parigrahas tasya siddhis tasyāṃ satyām | kiṃ punar ddharmasya dharmyākṣepanimittam iti cet[59]? parā[śrayatvā]t -- dharmiparatantratvāt dharmasya avaśyam asau dharmiṇam ākṣipati | tato dharmivacanam atiricyamānaṃ viśiṣṭaṃ sādhyadharmiṇam eva pratipādayati, [na dharmimātram] | syān matam -- dharmigrahaṇād viśiṣṭo 'tra dharmī kaścid abhipreta iti gamyate, sa tu sādhyadharmīti kuta ity āha -- pratyāsatter nyāyāt | pratyāsattiś cātra dharmi[vacanasāmarthyād a]bhipreteti gamyate | vyāptau[60]tu nyāye dharmavacanenāpi dharmimātrākṣepāt[61]dharmigrahaṇavaiyarthyam | [s.
13ब्.] प्रत्यासन्नता च साध्यधर्मिण एव, तत्र {प्. 13.1} प्रथमं हे[तूप]दर्शनात् । न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः । कुतः? । दृष्टान्तधर्मिणो ऽपि न केवलं साध्यधर्मिणः प्रत्यासत्तेः । कदाचिद्[62]व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिण्य् अपि प्रथमं हेतुसद्भावोपदर्शनात् । यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात् तर्हि भविष्यति । यतः तदंशव्याप्त्या हेतुभूतया दृष्टान्तधर्मिनि धर्मस्य सत्व(त्त्व)सिद्धेः । न हि [त्. 214अ.] दृष्टान्तम् अन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धर्मिग्रहणाद् व्यतिरिच्यमानात् साध्यधर्मिण एव परिग्रहः । तदंशेन इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति तत्सम्भन्धनार्थम् अपि धर्मिग्रहणं नाशङ्कनीयम् । यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्मिवचनस्य त्व् अन्यद् अपि प्रयोजनं सम्भाव्यते । तत् कुतः पारिशेष्यात् धर्मिवचनात् साध्यधर्मिपरिग्रहः? इति मन्यमानःसिद्धान्तवाद्य् आह -- सिद्धे तदंशव्याप्त्यादृष्टान्तधर्मिणि सत्व(त्त्वे) पुनर् द्धर्मिणो [स्. 14अ.] वचनंदृष्टान्तधर्मिण एव यो धर्मःस हेतुर् इति नियमार्थमाशङ्क्येत । ततश्च चाक्षुषत्वादय एव हेतवःस्युः, न कृतकत्वादय इति अनिष्टम् एव स्यात् तस्माद् उपचारःकर्तव्यः इति । किं पुनस्तर्क्कशास्त्रे दृष्टं क्वचित् नियमार्थवचनम् इत्य् अत आह -- दृष्टं सजातीय एव इत्यादि । तत्र यः[63] सन् सजातीये[64] -- [न्मु 7] इत्य् अत्रा ऽऽचार्यीये हेतुलक्षणे `सजातीय ए[व] सत्व(त्त्व)म्ऽ इत्य् अवधारणेन सिद्धे ऽपि हेतोर् व्यतिरेके । कुत्र? । साध्याभावे यदेतत् असंस्तदत्यये [न्मु
7] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म् अ]सत्य्[65]एव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवचनं[66]तत्रैव भावनियमार्थम् आशङ्क्येत । कदा? सिद्धे ऽपि दृष्टान्तधर्मिणि [स]त्वे(त्त्वे) । कुतः? {प्. 14.1} तदंशव्याप्तिवचनात् । क्व भावनियमार्थम्? [त]त्रैव दृष्टान्तधर्मिणि, [त्. 214ब्.] सति चाशङ्कासम्भवे । कुतः? । पारिशेष्यात् साध्यधर्मिपरिग्रहः । [स्. 14ब्.] ननु अपक्षधर्मस्याहेतुत्वात् न नियमार्थाशङ्का । तथा हि -- साध्यधर्मेण व्याप्तो ऽपि धर्मो यदि क्वचिद् धर्मिण्य् उपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत् नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम् । अनुपलब्धस् तु क्वचिद् धर्मिणि कथं गमकः? । तथाभावे[67]वा सर्वत्र स्वव्यापकं गमयेत् प्रत्यासत्तिविप्रकर्षाभावाद् ए[वेत्य् अत] आह -- तस्मात् सामर्थ्यात् इत्यादि । यद् इदम् अनन्तरं सामर्थ्यं समुपवर्णितम् अस्मात् सामर्थ्याद् अर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीति[र् प]टुधियां श्रोतॄणाम्, किन्त्व् अशब्दकम् अर्थं स्वयम् अनुसरतां प्रतिपत्तिगौरवं स्यात् । तदुपचारमात्रात् स्वयम् अशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्य् अने[न प]क्षधर्म इति समानिर्द्देशात् [प्रतिपत्तिगौरवंच] परिहृतंभवति । प्रतिपत्तिगौरवंच इति चशब्देनैतद् आह -- ये परोपदेशम् आकाङ्क्षन्ति, तैर् अयम् अर्थो लक्षण[वच]नाद् बोद्धव्य इति.[s.15a.] यथालक्षणं प्रतीतेर् अपक्षधर्मो न हेतुर् इति कुतः? इयम् आशङ्का । ततस् तेषां[68]लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णम् इ]ति ।
__________नोतेस्__________
[57] घटकाकादिधर्मिधर्मत्वाट् तेषाम् [58] व्यधिकरणासिद्धनिरसनम् [59] चेद् आह -- परा- -- त्. [60] यस्य कस्यचिद् धर्मिणो धर्मस्य हेतुत्वम् इति व्याप्तिन्यायः । स यद्य् अभिप्रेतः स्यात् तदा [61] धर्मिमात्राक्षेपश् च धर्मिपरतन्त्रत्वात् धर्मस्य [62] द्विविधो हि प्रयोगः -- व्याप्तिपुरस्सरपक्षधर्मतोपसंहारवान्, पक्षधर्मतोपसंहारपूर्वकव्याप्तिवांश् च । यत् कृतकं तद् अनित्यम् । यथा घटः । कृतकश् च शब्द i....... । [63] यः सन् सजातीये सपक्षे सन् विद्यमानस् तदत्यये साध्यस्याभावे विपक्षे च द्वेधाऽसन् सद् असन् यदि न भवति । किन्त्व् असन्न् एव विपक्षे यदि भवति तदैव सम्यग् घेतुर् इति भावः [64] यःसन् सजातीये ऽसन् तदत्यय इतिदिग्नागाचार्यीयंसूत्रं व्याख्यातम् अत्र [65] अभावरूप अन्यरूपे विरुद्धरूपे वा नास्तिता यस्य स हेतुर् इत्य् अर्थः [66] धर्मिधर्मवच- -- त्. [67] अनुपलब्धस्यापि गमकत्वे [68] परोपदेशाकाङ्क्षिणाम्
[सेच्तिओन्: 7. पक्षधर्म इत्य् अत्र नियमव्यवस्था ।]
इह व्यवच्छेदफलत्वात् शब्दप्रयोगस्यावश्यम् एवावधारयितव्यम् । षष्ठीसमासाच् च पक्षधर्म इत्य् अत्र नान्यः समासः सम्भवति । तथा च पक्षस्यैव धर्म [इ]त्य् एवम् अवधारणात् तदंशव्याप्तिर् विरुध्यत इति विरुद्धलक्षणताम् उद्भावयन्न् आह -- [त्. 215अ.] पक्षस्य धर्मत्वे त्वं(तं) पक्षंविशेषणम् अन्यतो व्यवच्छेदकम् अपेक्षत इति तद्विशेषणापेक्षस्य धर्मस्य अन्यत्र पक्षीकृताद् अन्यस्मिन् सपक्षे अननुवृत्तिः । तथा हि -- यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य] । यथा -- यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि । {प्. 15.1} ततो ऽन्यत्राननुवृत्तेः असाधारणता -- साधारणता न स्यात् । तदंशव्याप्तिविरोध [इ]ति यावत् । साधारणतायास्त्व(याश् च) तदंशव्याप्त्या प्रतिपादनात् । ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, [स्. 15ब्.] अथ तदंशव्याप्तिर् न पक्षधर्म इति व्याहतं लक्षणम् इति । ननु च तदंशव्याप्तिर् नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्मिणि भाव एव, व्याप्यस्य वा हेतोस् तत्रैव व्यापके साध्यधर्मे सत्य् एव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते । न चानया ऽवश्यं पक्षीकृताद् अन्यत्र वृत्तिर् आक्षिप्यते, यतो[69]लक्षणव्याघात आशङ्क्येत । तथा हि -- तत्रैव पक्षीकृते सत्य् एव साध्यधर्मे हेतुर् वर्त्तमानस् तदंशव्याप्तिं प्रतिपद्यत एव । यैव चास्य साध्यधर्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्मिणि । स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः । न हि लोहलेख्यं वज्रम्
पार्थिवत्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य [त्. 215ब्.] लोहलेख्यता ऽविनाभावो ऽपि तथाभावो भवति [स्. 16अ.] । यदि च पक्षीकृताद् अन्यत्रैव व्याप्तिर् आदर्शयितव्येति नियमस् तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत्? । यो हि सकलपदार्थव्यापिनीम् अक्ष(नीं क्ष)णिकताम् इच्छति तं प्रति कस्यचित् [स]पक्षस्यैवाभावात् । यद् अपि कैश्चित् ज्वालादेः क्षणिकत्वम् अभ्युपगम्यते तद् अपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतया ऽनुपलक्षणात् । अन्यत्रैव च व्याप्तिर् आदर्शनीया न साध्यधर्मिण्य् अपीति को ऽयं न्यायः? । एवं हि काल्पनिकत्वं हेतुलक्षणस्य[70]प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात् स्वसाध्यप्रतिबन्धाद् हेतुस् तेन व्याप्तः सिध्यति । स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्य् अपि सिध्यतीति न किञ्चिद् {प्. 16.1} अन्यत्रानुवृत्त्यपेक्ष्या । अत एवान्यत्रोक्तम्[71]-- [स्. 16ब्.] यत्[72]क्वचिद्[73] दृष्टं[74] तस्य[75] यत्र[76] प्रतिबन्धःतद्विधः[77] तस्य[78] तद्[79] गमकंतत्रेति[80] वस्तुगतिः इति ।
__________नोतेस्__________
[69] वृत्तेः [70] अन्वयव्यतिरेकात्मकस्य [71] विनिश्चये [72] लिङ्गम् [73] प्रदेशे [74] निश्चितम् [75] लिङ्गस्य [76] वह्न्यादौ [77] प्रतिबन्धविदः [78] वह्नेः [79] लिङ्गम् [80] यत्र दृष्टं तत्रैव नान्यत्र
यद् अपि अनुमेये ऽथ तत्तुल्ये सद्भावः-- इत्य्[81]आदि लक्षणं तत्रापि साध्यधर्मवान्[82]एव सपक्ष उच्यते । ततः सत्येव साध्यधर्मे वा ऽस्तीत्य् एवं परम् एतत् । ततश् च तद्धर्मणः साध्यधर्मिणो ऽपि वास्तवं सपक्षत्वं न व्यावर्त्तते । साध्यत्वेनेष्टयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्त्तुम् अशक्यत्वात् । तस्मात् तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगाद्[83]अभिधानान् नावश्य[त्. 216अ.]म् अन्यत्र वृत्तिर् आक्षिप्तेति, कथम् इदम् आशङ्कितम्? । सत्यम्, नैवेदम् आशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धर्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत । [स्. 17अ.] यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या । कार्यहेतोस् तु प[क्षीकृतधर्मिणा । कस्यचित् स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्येत? । तस्मात् तस्यान्यत्रैव[84][प्रसिद्धिर् इति तद्विशेषणापेक्षस्य तत्र अपेक्षणात् अन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता । तदा ह्य् अन्य्त्रावर्तमानः साध्यविपरीत[व्यतिरेक] ................ ......................... तदुभयबहिर्भावायोगात् तद्धर्मिणः[85]साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् तत्र संशयहेतु[र् भवति । स्यान्मतम् -- क्वचिद् आश्रये सत्तायाः प्राक्प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतये ऽन्यत्र[86]वृत्तिर् अपेक्षणीया । [स्. 17ब्.] एतत् परिहरति । न इत्यादि । [नान्यत्राननुवृत्तिः । कुतः? {प्. 17.1} अयोगो ऽसम्ब]न्धः तद्व्यवच्छेदेन विशेषणात् पक्षस्य । न ह्य्
अन्ययोगव्यवच्छेदेनैव विशेषणं भवति । [किन्तु अयोगव्यवच्छेदेनापि । यत्र धर्मिणि ध]र्मस्य सद्भावः संदिह्यते तत्रा ऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र च दृष्टान्तः [यथाचैत्रो धनुर्धर इति । चैत्रे हि धनुर्धर]त्वं संदिह्यते किम् अस्ति नास्ति इति । ततश् चैत्रो धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतिः [त्. 216ब्.] [पक्षान्तरम् अधनुर्धरत्वं श्रोतुर् आशङ्कोपस्थापितं] निराकरोतीत्य् अयोगव्यवच्छेदो ऽत्र न्यायप्राप्तः । [स्. 18अ.] पराभिमतव्यवच्छेदनिराचिकीर्षया ऽऽह -- [न, अन्ययोगव्यवच्छेदेन विशेषणात् अन्यत्राननुवृत्तेर्] असाधारणतेति सम्बन्धः । अत्रापि दृष्टान्तो यथापार्थो धनुर्द्धर इति । सामान्यशब्दो ऽप्य् अयं ध[नुर्धरशब्दः सामर्थ्यादिना प्रकृष्टगुणवृत्तिः । इह पार्थे] हि धनुर्द्धरत्वं सिद्धम् एवेति नायोगाशङ्का । [तादृ]शं तु सातिशयं किम् अन्यत्रास्ति नास्तीत्य् अन्ययोग[शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदा ऽन्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोर् एव पक्षयोः पर[स्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् । तद् इह पक्षे ऽस्त्य् अयं धर्मो न वेति संशीतौ [पक्षधर्म इत्य् उक्ते पक्षस्य धर्म एव [स्. 18ब्.] नाधर्मः । धर्मश् च आश्रितत्वाद् विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस् तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् । तदंशः तद्धर्म इति] । तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् । अंशश् च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् । न तदंशः तस्य च एक]देशाभावाद् इति ।
__________नोतेस्__________
[81] अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तिताऽविपक्षे सति । निश्चिताऽनुपलम्भात्मकार्याख्याहेतुवस् त्रयः॥
[82] स साध्यो धर्मो यस्य साध्यधर्मिणः [83] स्वसाध्याविनाभाव- [84] कार्यहेतोः स्वभावहेतोश् च तस्य .......... [85] स चासौ धर्मी चेति समासः । तद्धर्मणः इति पाठान्तरम्, तत्र च सो ऽसाधारणो धर्मो यस्य तस्येति व्याख्येयम् । स चासौ धर्मी च । तस्य । साध्यधर्मिण इत्य् अर्थः [86] प्राक् प्रवृत्तं च तत् गृहीतं तद् विस्मृतं च तत् प्रतिबन्धसाधकप्रमाणं च तस्य स्मृतय इति समासः
[ सेच्तिओन्: 8. व्याप्तेर् व्याप्यव्यापकोभयधर्मत्वम् ।]
तस्य पक्षधर्मस्य सतो व्याप्तिः -- यो व्याप्नोति यश् च व्याप्यते [तदुभयधर्मतया[87]प्रतीतेः । यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य[88]। तत्रेति [त्. 217अ.] सत् सप्तम्य् अर्थप्रधानम् एतत् नाधारप्रधानम्, धर्माणां धर्माधारत्वा संभवात् । {प्. 18.1} तेनायम् अर्थः -- यत्र धर्मिणि व्याप्यम् अस्ति तत्र सर्व्वत्र भाव एव[89]व्यापकस्य स्वगतो धर्मो व्याप्तिः । तत[श् च व्यापकभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] [स्. 19अ.] । न त्व् एवम् अवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गाद्[90]अव्यापकस्यापि मूर्त्तत्वादेस् तत्र भावात् । नापि `तत्रैवेऽ[91]ति[92]प्रयत्नानन्तरीयकत्वादेर् अहेतुतापत्तेः[93]। साधारणश् च हेतुः स्यात् । नित्यत्वस्य प्रमेयेष्व् एव भावात् । यदा तु व्याप्यधर्मता (र्मतया) विवक्षा व्याप्तेस् तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । यत्र धर्मिणि व्यापको ऽस्ति तत्रैव भावो, न तदभावे ऽपि व्याप्तिर् इति । अत्रापि व्याप्यस्यैव तत्र भाव इत्य् अवधारणं हेत्वभावप्रसक्तेर्[94]एव नाश्रितम्, अव्याप्यस्यापि[95]तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेर्[96]हेतुत्वप्राप्तेः[97]। साधारणस्य [च] हेतुत्वं स्यात् । प्रमेयत्वस्य नित्येष्व् अवश्यं भावाद् इति । व्याप्यव्यापकधर्मतासंवर्णनं तु व्याप्तेर् उभयत्र [स्. 19ब्.] तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूद् इति प्रदर्शनार्थम् । तथा हि -- पूर्वत्रायोगव्यवच्छेदेनावधारणम् [त्. 217ब्.] उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः? । तदुक्तम् -- लिङ्गे लिङ्गीभवत्य् एव लिङ्गिन्य् एवेतरत् पुनः।
नियमस्य विपर्यासे ऽसम्बन्धो लिङ्गलिङ्गिनो ॥ इति । [98]एतेनाचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः -- न च केनचिद् अंशेन न संयोगीहुताशनः। धूमो वासर्वथा[99] तेन प्राप्तंधूमात् प्रकाशनम् ॥ इति । स इह नावतरतीत्य् आख्यातं भवति । तथा हि -- संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः । न हि यादृशी {प्. 19.1} व्यापकधर्मे व्याप्तिः तादृश्य् एव व्याप्यधर्म इति । तथा चाह - सम्बन्धो यद्य् अपि द्विष्ठःसहभाव्यङ्गलिङ्गिनोः। आधाराधेयवद् वृत्तिस् तस्य संयोगिवन् न तु ॥ इति । [स्. 20अ.] तेन व्यापको व्याप्यो न भवति व्याप्यश् च [न] व्यापक इति । तदंशेन व्याप्तो हेतुः इति वचनात् न संयोगिपक्षोक्तो दोषः । ना ऽप्य् उभयोर् ग्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादीति ।
__________नोतेस्__________
[87] व्याप्यव्यापक- [88] भाव एवेति सम्बन्धः [89] व्यापकस्येति [90] सर्वथोच्छेद- [91] हेतौ [92] अवधार्यते [93] व्यापकस्यानित्यत्वादेर् अप्रयत्नानन्तरीयेष्व् अपि विद्युदादिषु भावात् [94] उच्छेद- [95] अनित्यत्वादेर् व्यापकस्येत्य् अर्थः [96] प्रयत्नानन्तरीयकत्वाद् [97] अनित्येष्व् अपि विद्युदादिषु व्याप्यस्य प्रयत्नानन्तरीकत्वस्याभावात् [98] कारणेन [99] सर्वथा गम्यगमकभावः प्राप्तः । अग्नेः सामान्यधर्मवद् विशेषधर्मो अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि धूमत्वपण्डुत्वादिविशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्माः गमका भवेयुः संयोगस्योभयत्रापि तुल्यत्वात्
[ सेच्तिओन्: 9. व्याप्तेर् अन्वयव्यतिरेकरूपयोस् सूचनम् ।]
यदि तर्हि पक्षधर्मस् तदंशेन व्याप्तः इत्य् एतद् धेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश् चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत् कथं न व्याघातः? इत्य् आह एतेन तदंशव्याप्तिवचनेन अन्वयो व्यतिरेको वाउक्तः वेदितव्य इति सम्बन्धः [त्. 218अ.] । अन्वयव्यतिरेकरूपत्वाद् व्याप्तेर् इति भावः । तथा हि -- य[100]एव येनान्वितो[101]यन्[102]निवृत्तौ च निवृत्तते स[103]एव तेन[104]व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर् व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम् । ततो व्याप्तिवचनेन रूपद्वयाभिधानात् न व्याघात इति । [स्. 20ब्.]
__________नोतेस्__________
[100] धू (धूमः) [101] व (वह्निना) [102] व (वह्निं) [103] धू (धूमः) [104] व (वह्निना)
[ सेच्तिओन्: 10 व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः ।]
तौ च ज्ञापकहेत्वधिकारात् निश्चितौ । निश्चयश्च तयोर् नैकेनैव प्रमाणेन अपि तु यथास्वम् । यस्य यद् आत्मीयं प्रमाणं निश्चायकं तेन । यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति । अन्वयो व्यतिरेको वा इति तुल्यकक्षतासूचनार्थो `वाऽशब्दः । तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोर् एकेनैव द्वितीयगतेर् विधिप्रतिषेधरूपतया व्यावृत्तिभेदे ऽपि परमार्थतस् तादात्म्यात् नोभयोपदर्शनम् इति सूचितं भवति । व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्मकत्वं[105]स्वभावभूतो धर्म इत्य् अन्वयरूपता वस्तुतो ऽस्य न विरुध्यते । पक्षधर्मश्च । किं? । यथास्वंप्रमाणेन निश्चितः {प्. 20.1} उक्त इति सम्बन्धः । निश्चयप्रसङ्गेन सो ऽप्य् अत्र प्रतिपाद्यते, निश्चितस्य गमकत्वम् आख्यातुम् । [स्. 21अ. अन्द् 21ब्.] ....................................................................... ................................................................................................................................ ......................................................... ............................................................... ............................................................................................................................................................................................ [स्. 22अ.] इति प्रदर्शनार्थो `वाऽशब्दः । प्रत्यक्षेण[106] च स्वयंस्वलक्षणाकारत्वे ऽप्य् अनन्तरसामान्यविकल्पजननात् प्रसिद्धिः उपचारतो निश्चय उच्यते -- प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं । तेन यद्य् अपि सामान्यरूपं लिङ्गम् अवस्थाप्यते तथापि स्वलक्षणप्रतीतिर् एव तद्व्यवस्थानिबन्धनम् इति प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धिर् उच्यते । एतच् चानन्तरम् एव व्यक्तीकरिष्यते । अनुमानतो वासाध्यधर्मिनि पक्षधर्मस्य प्रसिद्धिर् निश्चयः । प्रमाणफलभेदाच्[107]च अनुमानतः अनुमानेन निश्चयः इति आह । अत्रोदाहरणे यथाक्रमं यथाप्रदेशे [त्त्. 356अ.] धूमस्य धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति ।
__________नोतेस्__________
[105] न तु निवृत्तिमात्रं तुच्छरूपम् [106] ननु निर्विकल्पकेन प्रत्यक्षेण कथं सामान्यात्मनो लिङ्गस्य ग्रहणम्? इत्य् आह [107] बौद्धमते न प्रमित्यात्मकं प्रमाणफलं भिन्नं किञ्चिद् अस्ति । किन्तु भेदम् अभ्युपगम्य अनुमानेन निश्चय इति उच्यते । अत्र ह्य् अयं भ्रमो ........................ । पर्यायः
[ सेच्तिओन्: 11. उद्द्योतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर् गमकत्वोक्तिः ।]
यस् तु मन्यते -- `यः प्रदेशो ऽग्निसम्बन्धी सो ऽप्रत्यक्षो यस् तु प्रत्यक्षो नभोभगरूप आलोकाद्यात्मा[108]धूमवत् तया दृश्यमानो न सो ऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः । [स्. 22ब्.] तस्माद् धूम एव धर्मी युक्तः । साग्निर् अयं धूमः धूमत्वात् इत्य् एवं साध्यसाधनभावःऽ इति -- तस्यापि साग्नेः धूमावयवस्या ऽप्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्ध्वभागवर्तिनो ऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतः प्रसिद्धिः? । धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण [त्. 219ब्.] तस्य्[ह्2]आभावात् । लोकाध्यवसायतस् तस्यैकत्वे वा प्रदेशस्यापि {प्. 21.1} तावतः कल्पितम् एकत्वं न निवार्यते । प्रदेशे एव च लोको ऽग्निं प्रतिपद्यते, न धूमे । देशकालाद्यपेक्षयैव[109]च कार्यहेतुर् ग्गमकः । यद् आह - इष्टं[110] विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् । शब्दे वाकृतकत्वस्य प्रत्ययभेदभेदित्वादिनानुमानेनेति ।
__________नोतेस्__________
[108] [आ] लोकतम् असी नभः [109] धूमकाले एव चाग्निः साध्यते न भस्मकाले [110] न केवलं कार्यहेतौ
[ सेच्तिओन्: 12. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् ।]
अत्र यथोपवर्णितं प्रत्यक्षतः [स्. 23अ.] पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धाव् अभिप्रायम् अप्रतिपद्यमानःकुमारिलः-- `कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्व्रूपग्र[हण]म् अपि तावद् युज्यते, धर्मिणो वा कुत एव तत्सम्बन्धग्रहणम्ऽ -- इति प्रत्यवतस्थे । तेन हि प्रत्यक्षपूर्वकत्वाच् चानुमानादेर् द्धर्मंप्रत्यनिमित्तत्वम् [श्भ् 1.1.4.] इत्य् एतद्भाष्यम् - कथं प्रत्यक्षपूर्वत्वम् अनुमानादिनो भवेत्? । यदा स्मृत्यसमर्थत्वान् निर्विकल्पेन्द्रियस्य धीः॥ न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा। गृहीतिः [श्व् प्प्. 87, 88] इत्य् आक्षिप्य -- प्रत्यक्षाग्रहणं यत् तु लिङ्गादेर् अविकल्पनात् । तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः॥ अस्ति ह्यालोचनाज्ञानंप्रथमंनिर्विकल्पकम् । बालमूकादिविज्ञानसदृशंशुद्धवस्तुजम् ॥ ततः[त्. 220अ.] परंपुनर्वस्तु धर्मैर् जात्यादिभिर् ययः। बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन सम्मता॥ [श्व् प्प्. 111, 112, 120]
{प्. 22.1}[ह्3]इति ब्रुवता -- `सौगत्[ह्4]आनाम् एवायं लिङ्गधर्मितत्सम्बन्धाग्राहणलक्षणो दोषो येषाम् अविकल्पकम् एव प्रत्यक्षं, नास्माकं सविकल्पम् अपि प्रत्यक्षम् इच्छताम्ऽ [स्. 23ब्.] इत्य् उक्तं भवति । ततस् तदुपवर्णितदोषप्रतिविधानाया ऽऽह -- सधूमंहि [त्त्. 356अ.] इत्यादि । अयम् अत्र समुदायार्थः -- प्रत्यक्षं हि पुरोवस्थितम् औत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परम् असंकीर्णरूपत्वात् तत्सामर्थ्यभावि यथास्थानम्[111]अनुकुर्वत् पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदेषाख्यौ धर्मधर्मिणौ तयोश् चौत्तराधर्यम् `एवम् एतत् नान्यथाऽ इति विकल्पयति । यथानुभवम् अभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानाम् उदयात् । ततो धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश् च प्रत्यक्षनिबन्धनः सम्पद्यते । तथा हि -- अयम् एव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः `आत्रायम्ऽ इत्य् अध्यवसायः । स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव । न चौत्तराधर्यावस्थिताद् वस्तुद्वयाद् अन्य [स्. 24अ.] एव कश्चिद् आधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य [त्. 220ब्.] प्रत्यक्षेणाननुभूतत्वात् पश्चाद(द्) विकल्पनं स्यात् । वस्तुभूतस्य तस्यान्यत्र निषेधात् । तस्माद् अयं तद् एव तथावस्थितम्[112]अर्थद्वयम्[113]आश्रित्य कल्पनासमारोपित एव । तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मितया व्यवहारो लोके न तु पारमार्थिकः । सामान्यव्यवहारो ऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते । तेषाम् एव भिन्नानाम् अप्य् अनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात् तथा चाह - एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदे ऽपि नियताःकेचित् स्वभावेनेन्द्रियादिवत् ॥ [प्व् 3.72] इति ।
__________नोतेस्__________
[111] पुरो ऽवस्थितार्थसामर्थ्यभाविप्रत्यक्ष- [112] औत्तराधर्यावस्थितम् [113] धूमप्रदेशलक्षण-
{प्. 23.1} ततः सामान्यवि[कल्पजननद्वारा] [s.24b.] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात् । न हि विजातीयव्यावृत्तिर् व्यावृत्ताद् अन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात् । तस्माद् यथापरिदृष्टं धूमादिस्वलक्षणम् एवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्त्रध्यवसायवशात् स्मृतिर् एव । द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर् निर्विषय एव । ततो यद् आह -- सामान्यस्याननुभूत तथा -- स्मार्त्तम् एतद् अभेदेन विज्ञानम् इति यो वदेत् । अनुमानग्राह्यम् एव । तत्र चानवस्था लिङ्गग्राहिणो ऽप्य् अनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः । तस्य च सामान्यरूपतया [स्. 25अ.] तदन्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिद् एकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैर् अपि न सम्भवति । किम् अङ्ग पुनर् एकेन पुरुषायुष्केणेति । तथा चाह - सामान्यंनानुमानेन विनायस्य प्रतीयते । न च लिङ्गविनिर्मुक्तम् अनुमानंप्रवर्त्तते ॥ असामान्यस्य लिङ्गत्वंन च केनचिद् इष्यते । न चानवगतंलिङ्गंकिञ्चिद् अस्ति प्रकाशकम् ॥ तस्यापि चानुमानेन स्याद् अन्येन गतिःपुनः। इत्य् आशङ्क्याह [स्. 25ब्.] -- सधूमंहि इत्यादि । एवं मन्यते । यस्यानुमानम् अन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः, {प्. 24.1} अस्माकं तु प्रत्यक्षपृष्ठभाविना ऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् [त्. 221ब्.] परम्परया वस्तुप्रतिबन्धाद् अविसंवादकत्वम्, मणिप्रभायाम् इव मणिभ्रान्तेः । कार्यहेतुत्वम् अपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतया ऽवस्थाप्यमानस्य
कार्यदर्शनाश्रयतया तदध्यवसायाच् च । न हि धूमस्वलक्षणस्य लिङ्गता ऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच् चेति । यत् तूक्तम् [स्. 26अ.] `सामान्यलक्षणविषयम् अनुमानम्ऽ इति तत्र नैवम् अवधार्यते -- सामान्यलक्षणविषयम् अनुमानम् एवेति । प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य[114]च विकल्पस्य । किन्तु सामान्यलक्षणविषयम् एवानुमानम् इत्य् अवधार्यते स्वलक्षणविषयत्वनिषेधार्थम् इति । तत्र सह धूमेन वर्तत इति सधूमः । पक्षधर्मताप्रतिपादनार्थम् एवम् उक्तम् । विधिविकल्पस्य चैतद् एव बीजम् । तं सधूमंप्रदेशंदृष्टवतः प्रत्यक्षेणेति सम्भन्धः । कीदृशम् अर्थान्तरविविक्तरूपम् अर्थान्तरैः सजातीयविजातीयैर् विविक्तम् असङ्कीर्णं रूपम् अस्येति विग्रहः । सर्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् । अन्यथा सर्वस्य सर्वत्रोपयोगाद् अतिप्रसङ्गः । [स्. 26ब्.] अनेन प्रतिषेधविकल्पस्य निमित्तम् आख्यातम्, सामान्योत्प्रेक्षायाश् च बीजम् । तदुक्तम् - इतरेतरभेदो ऽन्त्य(स्य)[115] बीजंसंज्ञायदर्थका[त्. 222अ.] [प्व् 3.71] इति । तथा हि -- अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानाम् अपि समानाम् उत्पश्यतो भिन्नम् एषां रूपं तिरोधाया ऽभिन्नं स्वभावम् आरोपयन्ती कल्पनोत्पद्यते[116]। अस्[ह्5]आधारणात्मना इति अर्थान्तरव्यावृत्तेन स्वभावेन । न तु यथाकुमारिलो मन्यते -- `अर्थान्तरविवेको ऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयःऽ इति । न हि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् । {प्. 25.1}
तेनात्मना[ह्6]दृष्टवतः सतः पुंसो ऽनन्तरं स्मार्त्तंलिङ्गज्ञानम् उत्पद्यत इति सम्बन्धः । स्मृतिर् एव स्मार्त्तम् । लिङ्गप्रतिभासि ज्ञानं लिङ्गज्ञानम् । अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लिङ्गव्यवस्थाम् आह । परमार्थतः किं विषयम्? यथादृष्टभेदपरमार्थ[विषयम्] [स्. 27अ. अन्द् 27 ब्.] ........................................................................................ .................................................................................................................................................................................................................................................................................................................................................................................. [ सेच्तिओन्: 14. दर्शनविधिप्रतिषेदविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था ।]
__________नोतेस्__________
[114] स्मृत्यादेः [115] सामान्यस्य [116] -यन् विकल्प उत्प- -- त्.
[स्. 28अ.] [द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्ताम् आरभते. तत्र तेषु दर्शनविधिप्रतिषेध[त्. 223अ.]विकल्पेषु. तद् आद्यं यद् एतत् -- अस्ति ह्य् आलोचनाज्ञानं प्रथमम् [श्व् प्रत्यक्षपरिच्छेद 112अब्]इति आदौ विकल्पप्रवृत्तेर् भवम् इति आद्यम् आख्यातम् असाधारणविषयं स्वलक्षणविषयं दर्शनम्, तद् एव प्रमाणम्, न विधिप्रतिषेधविकल्पाव् अपि, तस्यैव प्रमाणलक्षणयोगाद् इतरयोश् च तदसम्भवात्. तथा हि -- अनधिगतविषयत्वम् अर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम्.[117]तद् दर्शनस्यैवास्ति. तत्र आद्यम् इत्य् अपूर्वार्थविज्ञानत्वम् आख्यातम् असाधारणविषयम् इति अर्थक्रियासाधनविषयत्वम्, स्वलक्षणस्यैवार्थक्रियासाधनत्वात्.[ सेच्तिओन्: 15. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् ।]
__________नोतेस्__________
[117] प्रथमविशेषणात् प्रतिषेधविकल्पस्याऽध्यवसेयार्थक्रियासाधनविषयत्वे ऽपि न प्रामाण्यम् । द्वितीयात् तु धिधिविकल्पस्यानधिगतसामान्यविषयत्वे ऽपि न प्रामाण्यम्
तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्न् आह -- तस्मिन् असाधारणे तथाभूते अर्थान्तरैर् असङ्कीर्ण[स्. 28ब्.]रूपे दर्शनेन असङ्कीर्णरूपसामर्थ्यभाविना दृष्टे अधिगते सति. तथा हि -- व्यतिरिक्तम् अपि भावांशाद् अभावांशम् इच्छता भावांशः स्वभावेनासङ्कीर्णरूपः कल्पनीयः, अन्यथा[118]स एवाभावांशो न सिध्येत्. न च {p.26.1} स्वभावेनासङ्कीर्णरूपतायाम् असत्यां पृथग्भूताभावांशसद्भावे ऽपि सा[119]युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिञ्चित्कराभावांशसम्भवे ऽपि त्यागायोगात्. न[120]च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात्. तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोर् एव स्वभावतो ऽसङ्कीर्णरूपाणामुदयो ऽस्तु किं परिव्राङ्मो[त्. 223ब्.]दकन्यायोपगमेन? तस्मात् स्वभावत एव भावानां पररूपविकलत्वम् अभावांशः[121], नान्यः. स च तथाभूतो दर्शनेन गृहीत एव. तस्मिंस् तथाभूते [स्. 29अ.] दृष्टे स पदार्थो येन वस्तुना असाधारणः समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात् तदसाधारणतां तेन तेनातद्रूपेणासमानस्वभावतां एतद् एव व्यनक्ति । ततः अर्थान्तराद् भेदं वैलक्षण्यम् अन्यरूपम् इदं न भवतीति अभिलपन्ती अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया स्मृतिर् उत्पन्नाप्रत्यक्षबलेन । यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयापि स्मृतिर्[122]न स्याद् इति भावः । किं विषया? अतदव्यावृत्तिविषया. तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः. न तत् अतत् विजातीयम् । अतस्माद् व्यावृत्तिः अतद्व्यावृत्तिः । सा विषयो यस्याः सा तथा । यथादृष्ट एवार्थान्तरेभ्यो
भेदो मया ऽपि कल्प्यत इति प्रतिपत्र(त्त्र)ध्यवसायाच् चैवम् उक्तम् । परमार्थतो निर्विषयत्वात् । [स्. 29ब्.] सा न प्रमाणं नाभावप्रमाणफलम्[123]इत्य् अर्थः । न हि स्मृतिजनकत्वेन प्रमाणता युक्ता । कस्मात् न प्रमाणम्? । यथादृष्टस्याकारो ऽभ्यासपाटवादिप्रत्यायान्तरसापेक्षो विशेषस् तस्य ग्रहणात् । न हि दृष्टम् इत्य् एव विकल्पेन गृह्यते, दर्शनाविशेषात् सर्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिद् एवाभ्यासादिप्रत्ययापेक्ष इत्य् आकारग्रहणेनाचष्टे । भवतु यथादृष्टा[त्. 224अ.]कारग्रहणम्[124]। प्रमाणम् तु कस्मान् न भवतीति परस्य[125]तदुक्तप्रमाणलक्षणविरहं दर्शयन्न् आह -- प्राग् {प्. 27.1.} आलोचनाज्ञानोदयकाले असाधारणम् असङ्कीर्णरूपं दृष्ट्वा असाधारनम् अर्थान्तररूपं न भवतीति अभिलपतः विकल्पयतः प्रतिषेधविकल्पस्यापूर्वार्थाधिगमाभावाद् अपूर्वार्थ्विज्ञानताविरहात् [स्. 30अ.] । अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः । [सेच्तिओन्: 16. विधिविकल्पस्याप्य् अप्रामाण्यव्यव्य्स्थापनम् ।]
__________नोतेस्__________
[118] स्वभावेन संकीर्णत्वे [119] असंकीर्न्न(ण्ण)रूपता [120] नाकिञ्चित्करो ऽभावांशः तेनैव संकीर्णरूपताविनाशनात् इति चेद् आह [121] पररूपस्य कल्पितत्वाद् अभावांशः -- त्. [122] अपि त्व् अनुमानं स्या [123] परैर् वस्तुदर्शनस्यैव नास्तिताविकल्पजनकत्वेनाभावप्रमाणतयोक्त्वादित्थं व्याख्यातम् [124] भवतापि यथा- -- त्. [125] आलोचनाज्ञानाद् उत्तरस्य,कुमारिलस्य वा
यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस् तर्हि प्रमाणं भविष्यति. न हि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति । तत्प्रतिभासिनो ऽनुगतस्य सामान्याकारस्यासाधारनरूपाव् अलम्बिना दर्शनेनानधिगमात् तत् कुतो ऽस्याप्रामाण्यम् । तद् उक्तम् -- ततः परंपुनर् वस्तु[श्व् प्रत्यक्ष 120] इत्यादि । तद् एतत्कुमारिलवचनम् आशङ्क्य विधिविकल्पस्यापि प्रामाण्यम् अनुप(म् अप)नुदन्न् आह -- अर्थक्रियासाधनस्य स्वलक्षणस्य आलोचनाज्ञानेन दर्शनाद् अदृष्टस्य पुनस् तत्साधनस्य अर्थक्रियासाधनस्य स्वभावस्य विकल्पेनाप्रतिपत्तेःविधिविकल्पो न प्रमाणम् । यद्य् अपि[126]तेनानधिगतं सामान्यम् अधिगम्यत इति वर्ण्यते, तथापि तद् अर्थक्रियासाधनं न भवति इति तद् अधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् । [स्. 30ब्.] ततः[127] परंपुनर् वस्तु धर्मैर् जात्यादिभिर् यया। अधिगमे ऽपि केशादिज्ञानस्येव न प्रामाण्यम् । अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षता ऽप्य् असम्भविनी । चकारेण स्मृतित्वाच् चेति पूर्वोक्तकारणसमुचयः । स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते । अनुमानवद् {p.28.1} इति वैधर्म्यदृष्टान्तः. यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्ये धर्मिण्य् अधिगते ऽप्य् अनधिगतस्याग्नेर् अर्थक्रियासाधनस्यासामान्याकारेण[128]परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुम् अशक्यत्वात् प्रतिपत्तिः[129], नैवं विधिविकल्पेन सामान्याकारेणानधिगतम् अर्थक्रियासाधनम् अधिगम्यते,[130]तस्यालोचनाज्ञानेनैवाधिगमात्. [स्. 31अ.] तस्मिं(स्मिन्) स्मृतिर् एवासाव् इति न प्रमाणम् इति । [ सेच्तिओन्: 17. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् ।]
__________नोतेस्__________
[126] सामान्यमात्रं वा विधिविकल्पेन गृह्यते तद्विशिष्टं वा स्वलक्षणम्, गत्यन्तराभावात् । तत्र पूर्वपक्षे आह यद्य् अपि इत्य् आदि [127] उत्तरस्मिन् पक्षे आह [128] -धनस्य सामा- -- त्. [129] अनुमानेनेति शेषः [130] वस्तुनः
अर्थक्रियासाधनविषयम् एव प्रमाणम्, नेतरद् इति कुत एतत् इति चेत् अर्थक्रियार्थीहि पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी सर्वो न काकतालीयन्यायेन कश्चिद् एव, पक्षावान् बुद्धिपुर्वकारी प्रमाणम् अप्रमाणंवा प्रमानाद् एव सर्वदा प्रवर्त(र्ते)य अप्रमाणात् मा कदाचित्, विप्रलम्भसम्भवाद्, उभयम् अन्वेषते न व्यसनितया । ततो ऽयम् अर्थक्रियासाधनविषयम् एव प्रमाणम् ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् । नेतरत्, तद्विपरीतत्वात् । तथा हि -- प्रमाणम् अविसंवादकम् अप्रतारकम् उच्यते लोके ऽपि । [त्. 225अ.] यच् चार्थक्रियासाधनम् अनधिगच्छन् न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथम् अविसंवादकतया प्रेक्षापूर्वकारी प्रमाणम् आचक्षीत? ।
[सेच्तिओन्: 18. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् ।]
[स्. 31ब्.] यद्य् एवं सामान्यम् अप्य् अर्थक्रियासाधनम् एव ततस् तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद्, आह -- न च नैव सामान्यंकाञ्चित् तत्साध्यतयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् अन्यां वा व्यक्तिसाध्याम् अर्थक्रियाम् उपकल्पयति । कीदृशम्?, स्वलक्षणप्रतिपत्तेः व्यक्तिप्रतिपत्तेर् आलोचनाज्ञानसंज्ञिताया ऊर्द्ध्वम् उत्तरकलां तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम् इति । तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते । `ततः परं पुनर् वस्तुऽ इत्य्[131]आदिपरैर् अभिधानाद् एवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् । सर्वम् एव तु सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयति. {p.29.1} यत् तु सामान्यम् अनुमानविकल्पग्राह्यम्, तत् कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वारायातं सम्बद्धसम्बन्धाद् अनधिगतार्थक्रियासाधनविषयाम् अर्थक्रियाम् उपकल्पयतीति तद्विषयो विकल्पः प्रमाणम् । [स्. 32अ.] इदं तु नैवम्, अधिगतत्वाद् अर्थक्रियासाधनस्यालोचनाज्ञानेनेति । अत्रोदाहरणम् यथा-- नीलंदृष्ट्वानीलम् इति ज्ञाने प्रतिभासमानम् इति शेषः । न सामान्यं काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रकृतेन सम्बन्धः । ननु च लिङ्गविकल्पप्रतिभासि [त्. 225ब्.] सामान्यं प्रकृतम् तत् किम् अन्यद् उदाह्रियते? । सर्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् । कां पुनर् नीलम् इति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यम् अर्थक्रियां नोपकल्पयति? । यदि व्यक्तिसाध्याम्; तदा ऽन्यो ऽपि पदार्थो ऽन्यदीयाम् अर्थक्रियां नोपकल्पयतीति तस्याप्य् अनर्थक्रियासाधनत्वाद् अवस्तुत्वप्रसङ्गः । अथ
स्वसाध्याम्; तद् असिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणाद् इत्य् आशङ्क्याह -- तद् एव हि [त्त्. 356ब्.] यत् तदालोचनाज्ञानेनोपलब्धं [स्. 32ब्.] नीलस्वलक्षणम् नीलव्यक्तिः तथाविधसाध्यार्थक्रियाकारि । तथाविधशब्देन सामान्यम् अत्राभिप्रेतम्, तादृशपर्यायत्वाद् अस्य, साधारणरूपस्य च तादृशत्वात् । तेन तथाविधसाध्यां नीलसामान्यसाध्याम् अभिन्नज्ञानाभिधानलक्षणाम् अर्थक्रियां कर्तुं शीलम् अस्य स्वलक्षणस्येति तत् तथोक्तम् । एवं मन्यते -- यथा भिन्ना अपि व्यक्त्यः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकम् अभिन्नं सामान्यम् उपकुर्वन्ति[132], तदपरसामान्ययोगम् अन्तरेणापि, अन्यथा ऽनवस्थाप्रसङ्गात्, तथा ऽभिन्नज्ञानाभिधानात्मिकाम् अप्य् अर्थक्रियां साधयिष्यन्ति । किम् अप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन? । [त्. 226अ.] तथा हि -- अनुमानादिके ज्ञाने यथाविधम् अस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानास् उपलक्षयामः । एकम् एव हि व्यक्तिदर्शनकाले स्पष्टम् नीलादिरूपं विभावयामः । [स्. 33अ.] {p.30.1} तत् कथम् अदृष्टकल्पनया ऽऽत्मानं स्वयम् एव विप्रलभे महि? । व्यक्तिरूपसंसर्गाद् अयोगोलकवह्निवद् अविभावनम्[133]इति चेत्; न, सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् । अस्योत्तरस्यान्यत्रापि सुलभत्वात् । न च सामान्यस्य द्वे रूपे स्तः स्पष्टम् अस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्[134]निःसामान्यस्य चास्योपगमात् ।
__________नोतेस्__________
[131] क्रियाविशेषणमदः [132] अनुपकृतस्य तदाधेयत्वाभावात् [133] सामान्यस्य [134] दूषणान्तरम् आह
[ सेच्तिओन्: 19. कुमारिलोक्तद्व्यात्मकबुद्धेर् निरसनम् ।]
एतेनैतद् अपि निरस्तम् यद् आह -- सर्ववस्तुषु बुद्धिश् च व्यावृत्त्यनुगमात्मिका । जायते द्व्यात्मकत्वेन विना सा च न युज्यते ॥ [श्व् आकृति- 5] न चात्रान्यतरा भ्रान्तिरूपचारेण चेष्यते । दृढत्वात्[135]सर्वदा बुद्धेर् भ्रान्तिस् तद्भ्रान्तिवादिनाम् ॥ [श्व् आकृति- 7]
__________नोतेस्__________
[135] अबाध्यमानत्वात्
[स्. 33ब्.] इति । यतो यदीन्द्रियबुद्धिम् अभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्य् आकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः । तद्भावे[136]च व्यक्तिद्वयान्तरालम् अप्य् आप्नुवतः कथं [त्. 226ब्.] तदनुगमः[137]? । व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः? । न हि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् । तथा चाह -- व्यक्ताव् एकत्र सा व्यक्ता ऽभेदात् सर्वत्रगा यदि । जातिदृश्येत सर्वत्र [सापि न व्यक्त्यपेक्षिणी] ॥ [प्व् 3.154-5] इति । एकत्रापि च व्यक्ताव् उपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत? । न ह्य् एकस्याः किञ्चिद् दृष्टम् अदृष्टं वा नाम क्षणिकतादिवद् । दृष्टायाम् अप्य् एकत्रैवाश्रये दर्शनावसायो न सर्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात् । न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् । ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः । न हि [स्. 34अ.] तद्दर्शने[138] {p.31.1} तत्सहचारिण[139]उपलभ्यस्य तदभिन्नस्वभावस्य[140]चानुपलम्भो युक्तः । ततः कथम् इन्द्रियबुद्धेर् द्व्यात्मकता? । अथानुमानादिबुद्धिम्[141]; तस्याम् अपि स्वलक्षणाप्रतिभासनात् कुतो द्व्यात्मकत्वम्? । न हि नासु सामान्यग्राहिणीष्व् स्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः । तद्भावे ऽपि तासां भावात् । आकारान्तरेणः च स्वज्ञाने [ऽ]प्रतिभासनात् अनेकाकारायोगाद् एकस्य, अतिप्रसङ्गाच्[142]च । तस्मान् नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोद्भाव सती । किन्त्व् अनादिवितथ[त्. 227अ.]विकल्पाभ्यासवासनाजनिता सती तथा ऽवभासते । दृढत्वं
च बुद्धेर् नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात् किन्त्व् अबाध्यमानत्वम् । न चास्यास् तत् सम्भवति, लेशतो बाधकस्योक्तत्वात् । विस्तरतस् तुस्याद्वादभङ्गाद् यथावसरम् इहैव तत्र तत्र विधास्यमानाद् बाधकम् अवधार्यम् । तस्माद् यथा व्यक्त्यः सामान्यान्तरम् अन्तरेण तद् एकम् उपकुर्वन्ति तथा ऽभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तद् एव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि ।[ सेच्तिओन्: 20. कुमारिलदत्तस्य दोषस्य सौगतबुद्द्यबाधकत्वदर्शनम् ।] यस्[143]तु -- [स्. 34ब्.] सामान्यं नान्यद् इष्टं चेत् तस्य[144] वृत्तेर् नियामकम् । विशेषाद् अन्यद् इच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥
ता हि तेन विनोत्पन्ना मिथ्या स्युर् विषयाद् ऋते । न त्व् अन्येन[145]विना वृत्तिः सामान्यस्येह दुष्यति ॥[श्व् आकृति- 37, 38]
{p.32.1} इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौतथागतसमयनयावदातबुद्धीन् बाधते । सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात् । तथा हि -- कस्माट् सास्नादिमत्स्व् एव गोत्वं? यस्मात् तदात्मकम् । तादात्म्यम् अस्य कस्मात् चेत्, स्वभावादिति गम्यताम् ॥[श्व् आकृति- 47] इति वचनात् [त्. 227ब्.] `व्यक्तिस्वभावं च सामान्यम् । न चासाधारणम् व्यक्त्युदयविनाशयोर् ध्या(योश् च) नोदयव्यययोगिऽ इत्य् अयुक्तम्, विरुद्धधर्माध्यासतो भेदप्रसङ्गाद् इति । आह च - तादात्म्यंचेन् मतंजातेर् व्यक्तिजन्मन्यजातता। नाशे ऽनाशश्च केनेष्टः[146]? तद्वच्[147] चाऽनन्वयो[148] न किम्? ॥ व्यक्तिजन्मन्यजाता[149] [स्. 35अ.] चेदागतानाश्रयान्तरात् । प्रागासीन् न च तद्देशे सातयासङ्गताकथम्? ॥ व्यक्तिनाशे न चेन् नष्टागताव्यक्त्यन्तरंन च । तर्ह्य् अधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्य् आह -- तच् च नीलस्वलक्षणम् । तेनात्मना नीलसाध्यार्थक्रियाकारिणा स्वभावेन दृष्टम् एव आलोचनाप्रत्ययेन । ततो निष्पादितक्रिये कर्मण्य् अविशेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात्? । अथ[150]मतम् -- सामान्यम् एव तर्ह्य् अधिगच्छन् नीलविकल्पः प्रमाणम् अस्तु । तच् च सामान्यम् अर्थक्रियाकारि । यतो नीलसाध्यम् एवार्थक्रियां नीलेन सह सम्भूय करिष्यति । व्यक्तिस्वभावान्य् एव हि सामन्यानीत्य् आह -- [स्. 35ब्.] न च नैव तत् स्वलक्षणग्रहणोत्तरकालभाविनो नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य । लिङ्गग्रहणोत्तरकालभाविनस् तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य {p.33.1} व्यवस्थापयितुं शक्यत इति भावः । नीलविकल्पस्य[151] विषयेण नीलसामान्येन [त्.
228अ.] नीलसाध्यार्थक्रिया रञ्जनादिका क्रियते । तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात् । न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्या ऽन्या वा ऽर्थक्रिया क्रियते । क्रमयौगपद्यविरोधाद् इति मन्यते ।[ सेच्तिओन्: 22. मीमांसकसमतप्रमाणलक्षणे दोषदर्शनम् ।] तद् एवं नीलं दृष्ट्वा नीलम् इति ज्ञाने प्रतिभासमानं सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गाद् अतिव्याप्तिर् इति तत्रापूर्वार्थविज्ञानम् इति [स्. 36अ.] प्रमाणलक्सणेमीमांसकैर् विशेषणम् उपादेयम् इति दर्शयन्न् आह -- तस्मात्. यत एवम् अनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यम् अयुक्तम्, तस्मादस्मदभिमतं प्रमाणम् अविसंवादि ज्ञानम् इति प्रमाणलक्षणं व्युदस्य, अनधिगतार्थविषयंप्रमाणम्, तत्रापूर्वार्थविज्ञानं प्रमाणम् इत्य् अपि,एतस्मिन्न् अप्य् आहोपुरुषिकया ऽन्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय विशेषणीयं विशेषणम् उपादेयम्. कथं विशेषणीयम् अनधिगते स्वलक्षण इति. अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञान- पृष्ठभाविनश् च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्वं सुस्थम् । तद् एवं विधिविकल्पस्यानर्थक्रियासाधनविषयतया ऽनधिगतसामान्याधिगमे ऽपि प्रामाण्यं निराकृत्य [त्. 228ब्.] च शब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणम् प्रामाण्यकारणं [स्. 36ब्.] दर्शयन्न् आह -- अधिगते तु स्वलक्षणे आलोचनाज्ञानेन तत्सामर्थ्यजन्मा स्वलक्षणाधिगमबलभावी विकल्पस् तदनुकारी साक्षाद्
अनुत्पत्तेर् दर्शनसंस्काराधेय(रावेध)वशाच् चास्पष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश् चैकीकरणाद् एवम् उच्यते । वस्तुतस् तु {प्. 34} न किञ्चिद् असाव् अनुकरोति । स स्मृतिर् एव । कुतः? कार्यतस् तद्विषयत्वात् न परमार्थतः । कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश् च । यतश् च कार्यतः तद्विषयत्वात् स्मृतिर् एवातो न प्रमाणम् दर्शनबलोत्पन्नो विकल्पः । तथा हि -- स्मृतेर् अप्य् अनुभूतस्वलक्षणांशविषयाया न परमार्थतस् तद्विषयत्वम् । स्वलक्षणस्येन्द्रियबुद्धाव् इव स्फुटरूपतया स्मृताव् अप्रतिभासनात् । किन्तु यथोक्तात् कार्यत एव । तच् च विधिविकल्पे ऽपि समानम् इति कथम् असौ स्मृतिर् न स्याद् इति । [ सेच्तिओन्: 23. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् ।] तत्रैतत् स्यात् -- नन्व् अनुमानविकल्पः स्मृतिरूपो ऽपि प्रमाणम् इष्यते । [स्. 37अ.] तथा हि -- यद् एवानग्निव्यावृत्तं वस्तुमात्रं महानसादाव् अनुभूतम् आसीत्, तद् एव प्रदेशविशेषे धूमदर्शनात् स्मर्यते. तद्वद् विधिविकल्पो ऽपि प्रमाणं भविष्यतीत्य् अत आह -- अनाधिगतस्य वस्तुनो रूपस्य अनधिगतेर् इति । एवम् मन्यते -- यत् महानसादाव् अनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादिसम्बन्धितयैवानुमानविकल्पेन [त्. 229अ.] स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया । ततः साध्यधर्मिदृष्टान्तधर्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तम् अस्य प्रामाण्यम् । न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वाद् इति । [स्. 37ब्.]
__________नोतेस्__________
[145]सामान्येन [146] हेतुना [147] व्यक्तिर् इव [148] अननुवृत्तिः [149] जातिः [150] साङ्ख्यमतम् आकुट्टयन्न् आह [151] `न चऽ इत्य् अनेन सम्बन्धः
[ सेच्तिओन्: 24. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् ।]
यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान् न भवतीति चेद् आह -- वस्त्वधिष्ठानत्वात् इत्यादि । वस्त्वधिष्ठानत्वं च प्रमाणव्यवस्थायाः प्रमाणव्यापारविषयम्[152]अभिप्रेत्योच्यते नालम्भनलक्षणम्[153], अन्यथा ऽनुमानस्य परिकल्पितसामान्यालम्भनतया वस्त्वधिष्ठानत्वाभावाद् अव्यापिनी प्रमाणव्यवस्था स्याद् । यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं {प्. 35.1} विप्रकृष्टविषयाया[154]अनुपलब्धेः प्रामाण्यम् इति चेत्; तत्रापि प्रधानादिविकल्पस्यैव[155]भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानता ऽस्त्य् एवेत्य् अदोषः । अथा वत्वधिष्ठानैव प्रमाणव्य्वस्थे ऽति कुत एतद्? इत्य् आह -- अर्थक्रियायां सुखदुःखलक्षणायां यद् [स्. 38अ.] योग्यं शक्तं तद्विषयत्वात् तदर्थिनाम् अर्थक्रियार्थिनां प्रवृत्तेः प्राप्तित्यागलक्षणायाः । यदि नामार्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस् तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत्; आह -- अर्थक्रियायां यद् योग्यं तल्लक्षणम् एव हि वस्तु । ततो ऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः । [त्. 229ब्.] इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनम् अनधिगते स्वलक्षण इत्य् उक्ते कदाचित् परो ब्रूयात् -- वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव । ततो यद्य् अप्य् अनधिगतं स्वलक्षणं नाधिगच्छति तथाप्य् अनधिगतवस्तुरूपम् अधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थम् उक्तम् -- अनधिगतवस्तुरूपेत्य् आदि । [स्. 38ब्.] तदसिद्धतोद्भावने चानधिगतवस्तुरूपाधिगन्तुर् एव
प्रामाण्यं नेतरस्येति कुतः? इति पर्यनुयोगे अर्थक्रियायोग्येत्य् आदि उक्तम् । तथा च वस्तुविषयम् अपि प्रामाण्यं ब्रुवता स्वलक्षणविषयम् एवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते । पुनर् अप्य् अनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यम् अपनेतुम् उपचयहेतुम् आह -- ततो ऽपि यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद् वस्तुन्य् एव स्वलक्षण एव तदध्यवसायेन स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् पुरुषस्य प्रवृत्तेः अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इति सम्बन्धः । पूर्वम् अनधिगतवस्तुरूपानधिगतेर् अप्रामाण्यम् उक्तम् । अधुना त्व् अधिगतस्यैवाधिगमाद् इति [स्. 39अ.] {प्. 36.1} विधिप्रतिषेधरूपतयोपपत्त्योर्[156]भेदः । यद् वा कार्यतस् तद् विषयत्वात् इति यद् उक्तं तद् एवोपचयहेतुव्याजेन स्फुतीकृतम् ।
__________नोतेस्__________
[152] प्रवर्तकत्व- [153] ग्राह्य- [154] नास्ति प्रधानम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः [155] प्रधानविकल्पो वस्तुकारणो न भवति, तदभावे ऽपि भावात्, खरविषाणादिविकल्पवत् [156] युक्त्योः
[ सेच्तिओन्: 25. विकल्पस्य दर्शनात् पृथक् प्रामाण्याभावः ।]
[त्. 230अ.] यदि नाम तदध्यवसायेन वस्तुन्य् एव पुरुषस्य प्रवृत्तिस् तथाप्य् अनधिगतसामान्यग्राहिणो ऽस्य दर्शनात् पृथक् प्रामाण्यं किम् इति नेष्यते? इति चेत्; आह -- प्रवृत्तौ स्वलक्षण एव सत्यां प्रत्यक्षेण आलोचनाज्ञानाख्येन अभिन्नयोगक्षेमत्वात् । योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् । अभिन्नौ योगक्षेमावस्थेति स तथोक्तः । तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः । अभिन्नः क्षेम आलोचनाविज्ञानाद् इव विकल्पाद् अपि स्वलक्षण एव प्रवृत्तेः । अयम् अस्याभिप्रायः -- यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस् तदा तत्रैव पुरुषं प्रवर्तय तु तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् । नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद् [स्. 39ब्.] विकल्पोदयाद् एव च तत्सिद्धेः । न हि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिद् अपीति । तस्माद् आलोचनाज्ञानान् नैवायं प्रमेयान्तरविषयः । विशेषेण यैर् एवं व्याख्यायते - निर्विकल्पकबोधेन[157] द्व्यात्मकस्यापि वस्तुनः। प्रहणम् [श्व् प्. 118] इति[158]। ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य [त्. 230ब्.] स्मृतेर् इव विकल्पस्यापि दर्शनात् पृथग्[159]एव । अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतीच्छाद्वेषप्रयत्नादि प्रमाणम् अनुषज्यत इति प्रमाणानाम् इयत्ता विशीर्येतेति ।
__________नोतेस्__________
[157] अत्र `नऽ कारस्योपरि प्रताव् एव `3ऽ इति लिखितं वर्तते [158] विशेषेण तेषां मते नैवायं प्रमेयान्तरविषय इति संबेधः [159] प्रामाण्यं युक्तम्
{p.37.1}[ सेच्तिओन्: 26. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये ।]
यदैकस्मिन्न् एव नीलादिवस्तुनि [स्. 40अ.] धारावाहीनीन्द्रियज्ञानान्य् उत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषाम् इन्द्रियज्ञानानाम् अप्रामाण्यप्रसङ्गः । न चैवम्, अतो ऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्न् आह -- पूर्वप्रत्यक्षक्षणेन इत्यादि । एतत् परिहरति -- न, उत्तरेषां प्रामाण्यप्रसङ्गः । कुतः? । नानायोगक्षेमत्वात्[160] । तथा हि -- प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश् च क्षेमः परिपालनरूपो भिद्यते । ततो विपक्षे वृत्त्यभावात् न हेतुर् अनैकान्तिकः । कदा नानायोगक्षेमत्वम्? । क्षणविशेषसाध्यार्थवाञ्छायाम् । यदा क्षणविशेषसाध्ये ऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच् छा योगिनां परोपकारम् उद्दिश्य भवति कस्यचित्[161]कथञ्चित् क्वचिद् उपयोगात् तदा[162]। यथा दर्शनमार्ग्गे[163]दुःखे[164]धर्मज्ञानक्षान्तिर् दमा(र् दशा)नाम्[165]अनुशयानां वासनां[166]निरोधयति, तद्विरुद्धाशयोत्पादनात् । दुःखे धर्मज्ञानं[167]क्लेषविविक्ततालक्षणां निर्वाणप्राप्तिम् उत्पादयति, [स्. 40ब्.] अनुशयविरुद्धाशयदार्ढ्योत्पादनात् । तत एषां[168]ग्राहकाणि परचित्तज्ञानानि[169]पृथग् एव प्रमाणानि । [त्. 231अ.] परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिद् एवार्थक्षणः कस्यचिद् एव परार्थस्यानुग्राहको[170]विबन्धको वेति सर्वभावान् प्रतिक्षणं वीक्षमाणानाम् अध्यक्ष चेतसाम् तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात् । तद् यदि प्रतिक्सणं[171]क्सणविवेकदर्शिनो ऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः । अथ सर्वपदार्थेष्व् एकत्वा
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
