Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- अर्चट
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ऽध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलम् एव [स्. 41अ.] {प्. 38.1} नीलसन्तानम् एकम् अर्थं स्थिररूपं तद्साध्यां चार्थक्रियाम् एकात्मिकाम् अध्यवस्यन्तीति प्रामाण्यम् अप्य् उत्तरेषाम् अनिष्टम् एवेति कुतो ऽनेकान्तः? इति दर्शयन्न् आह -- साधारणे हि इति । तत्सन्तानवर्त्तिनां सर्वक्षणानाम् एकत्वेनाध्यवसितानां व्यवहर्तृभिर् यत् साधारणं प्रतिक्षणम् अन्यान्यकारणतया विभिन्नम् अपि परमार्थतो विपर्यासाद् एकतया ऽभिनिविष्टं रञ्जनादिकं नीलादिककार्यं तत्र न तेषाम् उत्तरेषां ज्ञानक्षणानां सामर्थ्यस्यार्थप्रापणशक्तेर्भेदः । पूर्वप्रत्यक्षक्षणविषय एव तेभ्यो ऽपि प्रवृत्तेर् आद्यस्यैव तत्र[172]प्रामाण्यम् । तथा हि -- अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं [त्. 231ब्.] कुर्वताम् अविक्लवधियाम् अर्थक्रियासाधनभेदाद् एव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः [स्. 41ब्.] अन्यथा स्मृत्यादेर् अपि प्रामाण्यप्रसङ्गः कथम् अपाक्रियेत?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति? । केषाम् इव साधारेणे कार्ये न सामर्थ्यभेदः? इत्य् आह[173]अपरापरे च ते धुमाश् च तैः प्रमिताश् च ते सन्निकृष्टाग्नयश् च तेष्व् इव तद्विषयाणाम् इव अनुमान्ज्ञानानाम् अग्निमात्रसाध्ये ऽर्थे सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात् तथा प्रामाण्यभेदो न युक्तो विदुषां तथा ऽत्रापि । यदा तु पञ्चतपस् तप्तुकामो भवति तदा ऽपरापरधूमप्रमितसन्निकृष्टाग्निविषयाणां अप्य् अनुमानानां सामर्थ्यभेदात् प्रामाण्यम् अनिवारितम् एव ।
__________नोतेस्__________
[160] योगिज्ञानानि क्षणविवर्तलक्षकाणीति कृत्वा न एक्योगक्षेमाणि, विवक्षितदवदत्तादेः प्रथमः क्षणो धर्मायोग्यः द्वितीयस् तु मनागयोग्यः तृतीयस् तु योग्य इति ज्ञायते योगिना । ततश् च क्षणाः भिन्नाः अर्थक्रिया च भिन्ना [161] ज्ञानक्षणस्य [162] योगिनि [163] बौद्धमते [164] अवज्ञाकारिणि म्लेच्छादौ संसारिस्कन्धे [165] [धर्मज्ञा] नेन क्षान्तिः । समर्थेन यत् सह्यत इत्य् अर्थः [166] क्लेशजननशक्तिम् [167] वैराग्यज्ञानम् [168] धर्मज्ञानक्षान्त्यादिचित्तानाम् [169] योगिनः सत्कानि [170] कञ्चित् परचित्तक्षणं दृष्ट्वा भगवान् तस्यैवानुग्रहाय प्रवर्तते । कञ्चित् तु दृष्ट्वा औदासीन्यम् आलम्बते । कञ्चित् त्व् अवबोध्य निग्रहाय [171] प्रत्यक्षणाम् -- त्. [172] कार्ये [173] इत्य् आह -- अपरापरधूम इति । अपरापरे च -- त्.
[ सेच्तिओन्: 27. विकल्पप्रामाण्यनिरासस्य फलितार्थः ।]
तद् एवं `यथा नीलं दृष्ट्वा नीलम् इति ज्ञान(म्)ऽ इत्य् उदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योज्यन्न् आह -- एतेन नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरेण । तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः। [श्व् प्. 111] इति ब्रुवताकुमारिलेन प्रदे[स्. 42अ.]शादिदर्शनोत्तरकालभाविनो {प्. 39.1} धर्मिविकल्पस्य, तथा सम्बन्धप्रतिपत्तिकाले ऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनो ऽग्निसामान्यविषयस्य साध्यधर्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यावभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद् धर्म[त्. 232अ.]धर्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो धर्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्वकस्य न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा गृहीतिः [श्व् प्. 88] इत्य् आक्षेपभयाद् यद् अभ्युपगतं प्रामाण्यं तत् प्रत्युक्तं प्रत्याख्यातम् । पूर्वकम् एव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानम् इति व्यवहृतं तत् प्रमाणं न तु तद्बलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितम् एतत् -- पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतो ऽनुमानतो वाप्रसिद्धिः निश्चय इति । तद् एवं प्रत्यक्षतः पक्षधर्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् । प्रत्यक्षंकल्पनापोढम् [प्व् 2.123] इति प्रतिपादितम् ।
[ सेच्तिओन्: 28. अनुमानप्राधान्यज्ञापनम् ।]
यद्य् एवं कस्माद् अनुमानव्युत्पादनार्थम् इदमारभ्यते [स्. 42ब्.] इत्य् उक्तम् न सामान्येन `सम्यग्ज्ञानव्युत्पादनार्थम्ऽ इति? । सङ्ख्यादिविप्रतिपत्तिर् अप्य् अत्र तद्विषया निरस्तैव । परोक्षार्थप्रतिपत्तेर् अनुमान[म् एवाश्र]यः । कस्माद्? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्य् अभिधानात् परोक्षार्थविषयं सर्वं प्रमणम् अनुमाने ऽन्तर्भावितम् इति सङ्क्सेपतः सङ्ख्याविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता । तथा, व्यापकांशस्य[174]गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयम् अनुमानं न स्वलक्षणविषयम् इत्य् आख्यातम् [त्. 232ब्.] तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच् च । तत्र तदाद्यमसाधारणविषयम् इत्य् आचक्षाणेन स्वलक्षणविषयम् एव प्रत्यक्षम् उक्तम् । {प्. 40.1} दर्शनम् एव प्रमाणम् [ह्8]इत्य् आख्यानात् प्रमाणम् एव फलम् इति सूचितम्, [स्. 43अ.] तस्यार्थप्रतीतिरूपत्वात् । तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् । सङ्क्षेपतश् चानुमानव्युत्पादनम् अप्य् अभिमतम् । तच् च सर्वत्रास्त्य्[175]एवेति कस्मात् अनुमानव्युत्पादनार्थम् इत्य् उक्तम्[176]? । सत्यम्, प्राधान्यात् तु तद्ग्रहणम् । तथा हि -- प्रधानपुरुषार्थोपयोगिनस् तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत[177]एव निश्चयात् तस्य प्राधान्यम् । तथा प्रत्यक्षे ऽपि विषये विवादसम्भवे, नानुमानाद् अन्यन् निर्णयनिबन्धनम् इत्य् अतो ऽप्य् अस्य प्राधान्यम् । प्रवर्तकत्वाच् च प्राधान्यम् अस्य । तथा हि -- यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं न
तत्प्रवृत्तिविषयो निष्पन्नत्वात् फलस्य । तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षम् अपि तत्राप्य् अनुमानम् एव प्रवर्तकम् । न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य [s.43b.] परोक्षत्वात् । तदुक्तम् -- न ह्य् अप्रत्यक्षे कार्ये कारणभावगतिः इति । तस्मात् पूर्वानुभूतसुखदुःखसाधन[त्. 233अ.]साधर्म्यात् प्रत्यक्षविषयस्यापि वस्तुनो ऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः । तथा चाह -- तद्[178]यथादृष्टसाधर्म्यात्[179] तथाप्रसाधितं[180] नानुमेयताम् अतिपतति इति । कथं तर्हि द्वयोर् अपि प्रवर्तकत्वम्? -- न ह्याभ्याम् अर्थंपरिच्छिद्य प्रवर्तमानो ऽर्थक्रियायांविसंवाद्यत इत्य् उक्तम् । सुखदुःखसाधनस्य[181]जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलम् अनागतं प्रति योग्यताया अनुमानत इत्य् उभयोर् अपि प्रवर्तकत्वम् । सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोर् उक्तम् न त्व् अनागतफलं प्रति योग्यतायाः प्रत्यक्षतो ऽनिश्चयात् । [स्. 44अ.] न ह्य् अर्वाग्दर्शिनां भाविफलयोग्यतायास् ततो निश्चयः, ततः प्राधान्याद् अनुमानग्रहणम् इत्य् अलम् अतिविस्तरेणेति ।
__________नोतेस्__________
[174] अग्नि- [175] प्रत्यक्षादौ [176] `सङ्क्षेपेणैव प्रत्यक्षव्युत्पादनं न विस्तरतःऽ इत्य् आशङ्क्याह [177] दुःख-समुदय-मार्ग-निरोधाः [178] वस्तु [179] अन्यत्र [180] सुखदुःखहेतुतया [181] उत्तरम्
{प्. 41.1}[ सेच्तिओन्: 29. स्वभावहेताव् अन्वयनिश्चयः स्वप्रमाणायत्तः ।]
तत्र स्वभावकार्यानुपलम्भानां पक्षधर्मनिश्चयस् तुल्योपायसाध्यतया ऽभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावद् अन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्न् आह -- अन्वयनिश्चयो ऽपि न केवलं पक्षधर्मनिश्चय उक्तः किन्त्व् अन्वयनिशयो ऽपि स्वभावहेतौ उच्यत इति शेषः । साधनधर्मस्य यद् भावमात्रं सत्तामात्रं मुद्गरादिनिमित्तान्तरानपेक्षं तस्य अनुबन्धो अनुगमनं व्याप्तिः तस्य सिद्धिः या स स्वभावहेताव् अन्वयनिश्चयः । कस्य [त्. 233ब्.] साधनधर्मभावमात्रानुबन्धसिद्धिः? । साध्यधर्मस्य [स्. 44ब्.] साध्यश् चासौ असिद्धत्वात् धर्मधर्मिसमुदयैकदेशत्वात् धर्मश् चेति तथोक्तः । यत्र यत्र साधनधर्मस्य भावः तत्र तत्र साध्यधर्मस्यापि निमित्तान्तरानपेक्षो भाव इत्य् एतस्यार्थस्य सिद्धिः स्वभावहेताव् अन्वयनिश्चयः । कथं पुनः साध्यधर्मः साधनधर्मभावमात्रम् अनुबध्नाति ।? तद्भावतया स साधनधर्मो भावः -- स्वभावो यस्य तस्य भावतया तद्भावतया । यो हि साधनधर्मः साध्यधर्मस्य स्वभावः स[182]कथं तं[183]नानुबध्नीयात्, नीरूपत्वप्रसङ्गात्? ।
__________नोतेस्__________
[182] साध्यधर्मः [183] साधनधर्मम्
[ सेच्तिओन्: 30. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था ।]
ननु तत्स्वभावत्वे भेदाभावात् कथं साध्यसाधनभावः? इत्य् आह -- वस्तुतः परमार्थतः । साध्यसाधनसंकल्पकाले[184]तु परम्परया तत् तद्व्यावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ [स्. 45अ.] भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते । न ह्य् असौ[185]पारमार्थिकं साध्यसाधनधर्मयोर् द्धर्मिणश् च कृतकत्वादौ भेदम् अवलम्भते[186], सम्बन्धाभावेन साध्यसाधनभावायोगात् । एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततो[187]ऽर्थान्तरत्वे `अयम् अनयोर् अस्मिन्न् अर्थे समवायःऽ इति {प्. 42.1} सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्व् अप्य् आत्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे समवायो [त्. 234अ.] यद्बलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्व् अपि, तस्यैकत्वेनोपगतत्वात् इत्य् आत्मादौ वृत्तिः कृतकत्वादेः केन निवर्येत? । अथ `य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मा ऽस्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्तेऽ इति व्यवस्थाप्यते । सैव तर्ह्य् अभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषययायाः कल्पनाबुद्धेर् निबन्धनं किं नेष्यते? । [स्. 45ब्.] तयैव[188]परमार्थाभेदवतोर् द्धर्मयोः साध्यधर्मिणि वृत्तेः किम् अन्तरालगडुना कृतकत्वादिना व्यतिरेकवता[189]उपगतेन? । तथा हि -- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव
। स च विकल्पः स्वप्रतिभासिनम्[190]एवाकारं बहीरूपतया ऽध्यवसितम् अनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतो ऽसंस्पर्शे ऽपि तद्रूपस्य[191], परम्परया तदुपादानत्वात् । व्यतिरिक्तास् तु धर्मास् तदुत्पत्तिनिमित्तमात्रतया[192]परिकल्प्यन्ते, तद् वरं यद्[193]एव तत्कल्पनानिबन्धनं[194]तद् एव तथाविधविकल्पप्रसवनिमित्तम् अस्तु, तस्यावश्यम्[195]अभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्य् अलं तत्कल्पनया । अवश्यं च व्यतिरिक्ता ऽनित्यताद्वारेणापि वस्तुन एवानवस्थायिनम् आत्मानं प्रतिपद्यते(न्ते), [स्. 46अ.] [त्. 234ब्.] तदनुरूपार्थकृ(क्रि)य्[ह्9]आर्थितया[196]प्रवृत्तेः, अन्यथा[197]व्यतिरिक्ता ऽनित्यतया नित्यत्वात्[198]तदवगमार्थत्वेनायम् अनित्यसाध्यार्थक्रियार्थी[199]नित्यं शब्दादिकम् आशङ्कमानः किम् अनित्यताविचारं प्रति आहितास्थः[200]?[201]। {प्. 43.1} व्यतिरिक्तायां चानित्यतायाम् अवगतायां तत्रैव प्रवर्तताम्, किम् इति नित्ये शब्दात्मनि? । तद्वा(द्द्वा)रेण[202]प्रतिपत्तेः इति चेत्; तत् किम् अनेन व्यवधिना? । वरम् अव्यवहितस्यैव प्रतिपत्तिर् अस्तु, तेनैवार्थत्वाद् इति । तदेतद् अतिप्रचर्च्च्यमानम्[203]अतिगहनं सम्पद्यत इत्य् आस्तां तावत् । ये ऽपिजैमिनीयामन्यन्ते -- `येषाम् अत्यन्तव्यतिरेकवन्तो धर्माः तेषाम् एवायंनैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषःऽ इति; तेषाम् अपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् [स्. 46ब्.] फलम् उत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्य् उपपत्तेः । न चैकात्म्ये
कथञ्चिद् अपि भेदो युक्तः, एकस्मात् स्वभावाद् अभेदात् । ततो ऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् । तथा हि -- धर्मयोस् तदेकस्वभावाद्[204]अपि भेदवतोस् तेन स्वभावेन कथञ्चिद् अभेदनिमित्तम् अभिन्नो ऽपरः स्वभावो ऽभ्युपगन्तव्यः, तथा तेना ऽप्य् अपरः इत्य् अनन्तैव [त्. 235अ.] भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धाव् अनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किम् इति तत्कल्पनया ऽऽत्मानं विप्रलभन्ते भवन्तः? । कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणां अनवसरः? । यं चात्मानं पुरोधाय `इमौ धर्माउ, अयं धर्मीऽ इति व्यवस्थाप्यते[ह्10]यदि तेन भेदस् तदा भेद एवेति कुतो ऽनेकान्तवादः? । अथाभेदः; तदा `अयं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्ऽ इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? । [स्. 47अ.] तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवताम् इव धर्मधर्मिणां प्रतिभासनात् साध्यसाधनभावः । तन्मात्रानुबन्धस् तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन वस्तुतस् तद्भावतया इत्य् उक्तम् ।
__________नोतेस्__________ [184] -धनविकल्प- -- त्. [185] साध्यसाधनभावः [186] श्रयते [187] कृतकत्वानित्यत्वाभ्याम् [188] [अ] भूत्वा भवनादिस्वभावतया [189] भिन्नेन [190] परिच्छेद्यवस्तुन्य् अविद्यमानम् [191] वस्तु- [192] विकल्पोत्पत्तिनिमित्तमात्रतया [193] अभूत्वा भवनादिकम् । [194] तेषां कृतकत्वादीनां प्रतिनियते शब्दादौ वृत्तिकल्पनाया निबन्धनम् [195] अभूत्वा भवनादिकस्य [196] अनित्यस्वभावानुरूपार्थक्रियार्थितया [197] स्वभावभूतधर्मानभ्युप्गमे [198] शब्दादेः [199] नित्यशब्दाद्यवगमार्त्थित्वे[न] [200] आहिता आस्था येन । कृतयत्न इत्य् अर्थः [201] किं अनित्यताव्यापारं प्रति अहितं करोति? -- त्. [202] अनित्यताद्वारेण [203] प्रपञ्च्यमा- -- त्. [204] न केवलं धर्मिणः
{प्. 44.1}[ सेच्तिओन्: 31. बाधकप्रमाणाद् एव स्वभावहेतौ साध्यसाधनतादात्म्यम् ।]
का पुनर् असौ वस्तुतस् तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्य् आह -- सा वस्तुतस् तद्भावता साध्यस्य विपर्ययो विपक्षः तत्र, हेतोः यद् बाधकंप्रमाणं तद्विपरीतधर्मप्रत्यवस्थापकम्[205], येन[206]बाध्यमानो हेतुस् तत्र न प्रवर्तते, विरुद्धयोर् एकत्र सहभावासम्भवात्, तस्य या वृत्तिः प्रवृत्तिः बाधकप्रमाणवृत्तिः तत्साध्यत्वाच् च वस्तुतस् तद्भावतायाः सा बाधकप्रमाणवृत्तिर् उक्ता । तस्यां हि सत्यां [त्. 235ब्.] विपक्षाट् निवृत्तो हेतुः साध्यधर्मवत्य् एव धर्मिणि वर्तत इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति । तयाच वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति [स्. 47ब्.] अन्वयनिश्चयः `यत्र यत्र साधनधर्मस् तत्र साध्यधर्मःऽ इत्य् एवं रूपो जायते । अत्रोदाहरणं यथा-- यत् सत् तत् क्षणिकम् एव । अवधारेन व्याप्तिम् आह । साधनधर्मभावमात्रानुबन्धनस्य चैतद्रूपम् आख्यातं, निमित्तान्तरम् अन्तरेण सत् इत्य् एव कृत्वा क्षणिकम् इत्य् उपदर्शनात् । स च वस्तुतस् तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति -- अक्षणिकत्वे क्षणिकविपर्यये सति अर्थक्रियाविरोधात् अर्थस्य -- कार्यस्य क्रिया -- निष्पत्तिस् तस्या विरोधात् तल्लक्षणं सा ऽर्थक्रिया लक्षणं यस्य वस्तुत्वस्य अर्थक्रियासामर्थ्यात्मनः, तत् तथोक्तम् । अर्थक्रिया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । तद् एवं विधं वस्तुत्वं हीयते निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्या ऽऽकर्षणात् । एतच् च बाधकं प्रमाणं व्यापकानुपलब्धिरूपम् उत्तरत्रावसरप्राप्तं स्वयम् एव वक्ष्यति । तदनया बाधकप्रमाणवृत्तया साध्यधर्मस्य [स्. 48अ.] वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्ध इति ।
__________नोतेस्__________
[205] सत्वा(त्त्वा)ख्यहेतुविपरीतासत्व(त्त्व)- [206] येन साध्य- -- त्.
{प्. 45.1}[ सेच्तिओन्: 32. कार्यहेताव् अन्वयनिश्चयनिरूपणम् ।]
एवं स्वभावहेतौ [त्. 236अ] विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितो ऽन्वयनिश्चयं प्रतिपाद्य कार्यहेतौ प्रतिपादयन्न् आह -- कार्यहेतौ अन्वयनिश्चयः इति प्रकृतम् । कः पुनर् असौ कार्यकारणयोर् भावः? । कार्यत्वंकारणत्वंच । तस्य या सिद्धिः प्रतीतिः सा कार्यहेताव् अन्वयनिश्चयः । यथा च कार्यकारणभावसिद्धिर् भवति तथोपदर्शयन्न् आह -- यथा इत्यादि । यथाशब्द उपदर्शनार्थः[207]। इदं धूमादिकम् अस्य अग्नेः उपलम्भे सति उपलभ्यत इति सम्बन्धः । अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारम् आह । न च केवलं प्रत्यक्षं कार्यकारणभावम् असन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायम् इति [स्. 48ब्.] दर्शायितुम् आह -- उपलब्धिलक्षणप्राप्तम् अनुपलब्धम् इति । यदि तद् धूमादिकम् उपलब्धिलक्षणप्राप्तं सत्स्व् अन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादि(तदग्न्यादि)सामग्र्याम् उपलभ्यमानायाम् उपलभ्यमानं तत्कार्यं सिध्यति । न तूपलम्भप्रत्ययान्तर्वैकल्याद् अनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितम् अप्य् अनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्री सन्निधानात् प्रागनुपलब्धम् इति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भेनाग्न्यादिसामग्री सन्निधानात् प्रागन्यता आगमनं, तद्देशकालसंन्निहितात् कटकुट्या[त्. 236ब्.]देर् उत्पत्तिः, तद्देशे चा ऽसन्निधानम् इति, त्रितयम् अपाक्रियते । एतावद्भिश् च प्रकारैर् अतत्कार्यता भवन्ती भवेत् । ततो ऽनुपलम्भेना ऽतत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावो ऽसन्दिग्धः [स्. 49अ.] सिध्यति । न
चाग्नीन्धनादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्य् आशङ्कनीयम् । अग्नीन्धनादिभेदानुविधानाद् धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनाद् अल्पमहदिन्धनविकारकारिणश्चाग्नेस् तदनुरूपस्य[208]। न चाग्नीन्धनादिसन्निधाव् अदृश्यात्मनो नियतसन्निधानता युक्ता, {प्. 46.1} प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता[209]तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्क्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानाद् एव चास्यापि तत्कार्यत्वम् । तच् च धूमे ऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनात् । तत्रापि तथाभावकल्पनायां[210]तद् एवोत्तरं वाच्यम् । पुनश् चोद्ये स एव परिहारो ऽनवस्था च । एतेनैकसामग्र्यधीनता ऽपि प्रत्युक्ता । तदन्वयव्यतिरेकानुविधानाद् एव च धूमस्य तत्[211]कारणं कल्पेत । तच् चाग्न्यादाव् अपि तुल्यम् । तद् अपि तत्र कारणम् अस्तु इति चेत्; न, अग्न्यादिभावे ऽवश्यम् भाविनो ऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [स्. 49ब्.] कारणभावकल्पनायाः । तथा अग्नीन्धना[त्. 237अ.]देर् एवान्यतराभावे अभवतः[212][ह्11]। भवतु वा ऽन्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् । न हि सर्वसत्त्वकर्माधिपत्यजनितत्वे ऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस् तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिर् इत्य् अलम् अतिप्रसङ्गेन । किं रूपः पुनर् असौ कार्यकारणभावो ऽनुपलम्भसहाय प्रत्यक्षनिबन्धन इत्य्
आह -- तद्भावे भावःतदभावे ऽभावश्च इति । य[213]एव हि कारणाभिमतस्य[214]भावे[215]भाव एव । कार्यत्वेनाभिमतस्य[216]भावः । तदभावे कारणत्वाभिमतस्या ऽभावे अभाव[217] एव कार्यत्वेनाभिमतस्याभावश् च । स एव कार्यकारणभावो नान्यः । स हि ताभ्याम् अन्यो भवन् स्वभावतो ऽप्रतिपन्नकार्यकारणरूपयोर् वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः । यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूते ऽपि वस्तुनि [स्. 50अ.] भवेत् तन्नियमकारणाभावात् । ततः सर्वं सर्वस्य कार्यं स्यात् । {प्. 47.1} स्वभावेन चातद्रूपस्यान्ययोगे ऽपि न तद्रूपता । न हि भावाः प्रतिनियतरूपत्यगेनान्ययोगे ऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस् तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् । ना ऽप्य् अपूर्वम् उत्पादयति तस्य ततो ऽर्थान्तरत्वप्रसङ्गात् । न हि तेषु निष्पन्नेष्व् अनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः । अयं हि भेदो [त्. 237ब्.] भेदहेतुर् वा विरुद्धधर्माध्यासः कारण भेदश् च । ततश् चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत । प्रतिभासभेदो ऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति । ततश् च पूर्वके वस्तुनी [स्. 50ब्.] तदवस्थे एवेति न तयोर् अन्ययोगे ऽपि कार्यकारणरूपतापत्तिः । अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वाद् अन्यस् तद्भावः कथं न वैयर्थ्यम् अनुभवेत्? । कार्यकारणबुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य[218]कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् ।
तथाविधास्यापि[219]ग्रहणकल्पनायाम् अतिप्रसङ्गः । अनुपलब्धिलक्षणप्राप्ततायां[220]कथं कार्यकारणभावबुद्धी तन्निबन्धने? । न हि तद् अर्थान्तरं स्वसत्तामात्रेण तद्बुद्धी प्रवर्तयति । सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणम् अगृहीतं [स्. 51अ.] विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनम् इत्य् अयुक्ता ऽस्यानुपलब्धिलक्षणप्राप्तता । न च दृष्टस्याप्य् अनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस् तन्निबन्धनतोपगमात् । न हि यन्निमित्तो यो ऽन्यत्रातद्बुद्धिभाजि तद्व्यवसायः स तदनुपलक्षणे[221]युक्तः । देवदत्ते दण्डिव्यवसायवद् दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायाम् अनवस्था[त्. 238अ.]प्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्याम् असहभाविता सद्भावस्य । ततश् च कार्यकारणकाले तस्यासन्निधानात् कथं {प्. 48.1} कार्यकारणबुद्धिहेतुता? । निरुद्धयोर् अध्याहृत्य[222]तत्प्रत्ययकल्पनायां[223]च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः । स च विशिष्टभावाभावनिबन्धनो ऽभ्युपगत एवेति किम् अर्थान्तरकल्पनया? । कल्पितविषयत्वे तद्व्यवसायस्य[224], तस्या[225]वैयर्थ्यात् कार्यकारणयोश् चायौगपद्यात् । न हि [स्. 51ब्.] ताभ्याम् असौ जन्यते, प्रत्येकजन्यश् च कथं कार्यकारणभावः? । यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? । केवलो ऽपि किं स्वकार्यात् प्राग्, अथ पश्चात्? । यदि स्वकार्यसहितस् तदु(दो)भयोर् अन्यत एव भावात् परस्परम् असम्बन्ध इति कार्यसम्बन्धिता ऽस्य हीयेत । अथ केवलः स्वकार्यात् प्राक्; तदा
क्षणिकतया कारणस्य तम्[226]एव जनयित्वा ध्वंसात् कथं स्वकार्यक्रिया? । तस्यां चासत्यां कथं तदपेक्षम्[227]अस्य कारणत्वम्? । तस्मिंश् चासति कथम् अकारणेन कार्यकारणसम्बन्धो जन्यते? । अथ स्वकार्यं कृत्वा पश्चाज् जन्येत तदा ऽपि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? । तद्भावश्[228]च सम्बन्ध उच्यते । [स्. 52अ. अन्द् स्. 52ब्.] .............................................................................................. ...................................................................................................................................................................................................................................................................................................................... ................................................................ ................................................................................................................................................................................................................................................................ [स्. 53अ.] जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतो ऽन्यत्र[229]कल्प्यते । तत्राप्य् अपरसामग्री योगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा [त्. 239अ.] एव जनकाः । तेषां च कारणत्वम् एकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्य् आह -- सत्स्व् अप्य् अन्येषु तत्सामग्र्यन्तर्ग्गतेषु हेतुषु जनकेषु {प्. 49.1} प्रत्येकं तेषां
व्यञ्जनकत्वाद्[230]अस्याभावे जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे न भवति इत्य् अनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस् तु पूर्वोक्तैवा ऽनुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते । तथा चायम् अपि तद्भावे भावः तदभावे ऽभावश् च कार्यकारणभावः किं साधनः? इत्य् आह -- प्रत्यक्षानुपलम्भसाधनः प्रत्यक्षपूर्वको ऽनुपलम्भः तद्विविक्तान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनम् अस्येति प्रत्यक्षानुपलम्भसाधनःकार्यकारणभावः । यस् त्व् अनुपलम्भसापेक्षेण [स्. 53ब्.] प्रत्यक्षेण साध्यत इति प्रागुक्तः सो ऽनुपलम्भपूर्वकं प्रत्यक्षं साधनम् अस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः । तस्य कार्यकारणभावस्यान्वयव्यतिरेकात्मनः सिद्धिः निश्चयो यथोक्ताभ्यां प्रत्यक्षानुपलम्भाभ्यां कार्यहेताव् अन्वयनिश्चय इति सम्बध्यते । ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तया ऽनुगमनम् इत्य् एवम् अवसायः तत्[231]कथं कार्यकारणभावसिद्धिर् एवा ऽसाव्[232]उच्यते? इत्य् आशङ्क्य कार्य[t.239b.]कारणभावसिद्धिनिबन्धनत्वाद् अन्वयनिश्चयस्य कारणे कार्योपचाराद् अनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तम् इच्छन्ति तन्मतनिषेधार्थम् असाव् एवम् उक्त इति दर्शयन्न् आह -- कार्यकारणभाव एव हि कार्यकारणभावे सत्य् एव हि यस्मात् अर्थान्तरस्य साध्याद् व्यतिरिक्तस्य, यस् त्व् अव्यतिरिक्तः [स्. 54अ.] तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयाद् एवान्वयनिश्चय इति पूर्वम् उक्तम् एवेत्य् अर्थान्तरग्रहणम् । तस्यार्थान्तरस्य एवंस्यात् । कथम्? । `यत्र नाम क्वचिद् धूमः तत्रावश्यम् अग्निःऽ
इति नियमेन `अग्नेः तत्र भावःऽ इत्य् एवं रूपो ऽन्वयनिश्चयः । यस् त्व् अकार्यकारणभावे ऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य[233]स्वकारणव्यभिचारद्वारक एवेत्य् अदोषः । {प्. 50.1} अथ यदि नाम कार्यम् अग्नेर् धूमस् तथापि किम् इति यत्रासौ तत्रावश्यम् अग्निर् भवति यतः कार्यकारणभावसिद्धिनिबन्धनो ऽन्वयनिश्चय उच्यत इत्य् आह -- अग्नेःभावे एव सत्तायाम् एव हिः यस्मात् भावः सत्ता धूमस्य कार्यत्वम् इति । तस्मात् कार्यकारणभावे सत्य् एव यथोक्तो ऽन्वयनिश्चय इति । यदि हि यत्र धूमस् तत्रावश्यम् अग्निर् न स्यात् तदा ऽग्निम् अन्तरेणाप्य् अस्य भावाद् अग्निभाव [स्. 54ब्.] एव भावलक्षणं कार्यत्वं हीयेत ।
__________नोतेस्__________
[207] उपलक्षणार्थः -- त्. [208] अल्पमहदिन्धनरूपस्य [209] तेषाम् अग्न्यादीनां तददृश्यात्मकं वस्तु कार्यम् [210] वृक्षादिभ्यो ऽपीन्धनाद्युत्पत्तिकथने ऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम् [211] अदृश्यं [212] धूमस्य [213] अवधारणगर्ब्भम् इदं वाक्यम् इति तथैव व्याख्याति [214] वह्नेः [215] न पुनरकारणाभिमतस्य भावे [216] धूम- [217] न पुनरकारणाभिमतस्याभावे [218] तस्योपलब्धिलक्षणप्राप्तत्वं स्यात् तद्विपर्ययो वा । तत्राद्ये आह [219] रूपान्तरेणाप्रतिभासमानस्य [220] द्वितीये आह [221] युक्तः दण्डेन दण्डिव्यवसायाभावे देव- -- त्. [222] -योर् आरोप्य -- त्. [223] कार्यकारणबुद्धिहेतुत्वकल्पनायाम् [224] कार्यकारणभाव- [225] अर्थान्तरकल्पनायाः [226] सम्बन्धं [227] कार्य- [228] कार्यकारण- [229] सामग्र्याम् [230] व्यञ्जक- -- त्. [231] इत्य् एवं साधनावसरः तत् -- त्. [232] अन्वयनिश्चयः [233] रस्य (रसस्य)
[ सेच्तिओन्: 33. अनुपलब्धाव् अन्वयनिश्चयोपायकथनम् ।]
इदानीम् अनुपलब्धाव् अन्वयनिश्चयम् आह -- अनुपलब्धाव् अपि [त्. 240अ.] न केवलं स्वभावकार्यहेतो(त्वो)र् अन्वयनिश्चय उक्तः किन्त्व् अनुपलब्धाव् अप्य् अन्वयनिश्चय उच्यते । किं रूपो ऽसौ? इत्य् आह -- असदव्यवहारस्य साध्यधर्मस्य योग्यतायाश् च साध्यत्वात् तद्योग्यता ऽसद्व्यवहारो ऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः तदन्योपलब्धिरूपा तन्मात्रे निमित्तान्तरानपेक्षणी, या वृत्तिः प्रवृत्तिर् असद्व्यवहारस्य तस्याः साधनं सिद्धिः अनुपलब्धाव् अन्वयनिश्चयः । कुतः पुनर् असद्व्यहारस्य तन्मात्रे वृत्तिर् भवति? इत्य् आह -- निमित्तान्तराभावोपदर्शनात् इति । यदा ह्य् असद्व्यवहारस्य यथोक्तानुपलब्धिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति [स्. 55अ.] साध्यते तदा यथोक्तानुपलब्धिमात्रे ऽस्य वृत्तिः सिद्धा भवति । तथा(तया)[234]चानुपलब्धाव् अन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्याम् अपि यथोक्तानुपलब्धौ नावश्यम् असद्व्यवहारस्य भाव इति कुतो ऽन्वयनिश्चयः स्यात्? । निमित्तान्तराभावस् तु विस्तरतोवादन्याय उक्त इति तत एवावधार्यः । अथवा सद्व्यवहारस्य यन्निमित्तम् उपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असद्व्यवहारनिमित्ताद् अन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेर् अभाव उपदर्श्यते येन प्रमाणेन तद् एवम् उक्तम्, तेन, सति वस्तुनि तस्या [त्. 240ब्.] असम्भवनिश्चयाद् अनुपलब्धाव् अन्वयनिश्चयः । तच् च तद्व्यतिरेकचिन्तायां दर्शयिष्यामः । {प्. 51.1} तद् एवं त्रयाणाम् अपि हेतूनां तथास्वं प्रमाणेनान्वयविनिश्चय उक्तः । स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, [स्. 55ब्.] अनुपलब्धौ निमित्तान्तराभावप्रसाधकमाणतस्तदभावसिद्धिहेतुत्वाच् चेति ।
__________नोतेस्__________
[234] तदा च -- त्.
[ सेच्तिओन्: 34. कार्यस्वभावयोर् व्यतिरेकनिश्चयोपायकथनम् ।]
सम्प्रति त्रयाणाम् अपि हेतूनां स्वस्वप्रमाणनिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह -- व्यतिरेकनिश्चयो ऽपि न केवलम् अन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस् तयोर् उक्तः अपि तु व्यतिरेकनिश्चयो ऽपि कार्यस्वभावहेत्वोर् यथास्वं प्रमाणनिमित्त उच्यते । कः पुनर् असौ? साध्याभावे ऽभावसिद्धिः । याव् अतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस् तयोः । केन प्रमाणेन? । कारणव्यापकानुपलब्धिभ्यां । कार्यहेतौ कारणानुपलब्ध्या साध्याभावे ऽभावनिश्चयः । स्वभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस् ते ऽनुपलब्धी साधिके तस्य भवतः? । कार्यकारणव्याप्यव्यापकभावसिद्धौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावे ऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितो । व्याप्यव्यापकभावसिद्धौ सत्यां [स्. 56अ.] [त्. 241अ.] व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावे ऽभावस्य साधिकेति । तद् एवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयाद् एव द्वयोर् अप्य् अन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र -- कार्यकारणभावाद् वा [प्व् 3.30] इत्यादि उक्तम् । कीदृशीभ्यां? दृश्यविषयाभ्यां दृश्यो विषयो ययोस् ते तथोक्ते । यदि कारणव्यापकाव् उपलब्धिलक्षणप्राप्तौ भवतस् तदा तदनुपलब्धी साध्याभावे ऽभावं साध्यत इति यावत् । कदा पुनस् तयोः दृश्यविषयताविशेषणम् अपेक्ष्यते? इत्य् आह -- उद्दिष्टविषयस्य उद्दिष्टः -- कथितो विषयः -- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावे ऽभावस्य तस्योपदर्शने
क्रियमाणे । {प्. 52.1} तत्रापि कस्माद् दृश्यविषयता ऽपेक्ष्यते? इति चेत् आह -- अनुपलब्धि इत्यादि । अन्यथा यदि दृश्यविषयताविशेषणम् अनुपलब्ध्योर् नापेक्ष्यते । यदा ऽनुपलब्धिलक्षणप्राप्तं [स्. 56ब्.] विषयं वैधर्म्यदृष्टान्तरूपम् उपादत्ते तदा ऽनुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकाव् अपि भवत इति अनुपलब्धिलक्षणप्राप्तस्य कारणस्य व्यापकस्य वा क्वचिद् विप्रकृष्टे विषये सुमेर्वादौ अभावासिद्धेह् कथमाभ्यां साध्याभावे ऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योर् एवासिद्धत्वात् इत्य् अभिप्रायः । अथानुद्दिष्टविषयस्याप्य् अभावस्योपदर्शने ऽनुपलब्ध्योर् दश्यविषयताविशेषणं किम् इति नापेक्ष्यते? इत्य् आह -- अनुद्दिष्टविषयम् [त्. 241ब्.] अनुद्दिष्टो विषयः -- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् प्रतिबन्धमात्रसिद्धौ सत्यां दृश्यविषयताविशेषणम् अन्तरेणापि यस्मात् सिध्यति इति तस्मात् न तत्र अनुद्दिष्टविषये व्यतिरेकसाधने अनुपलब्ध्योर् दृश्यविषयताविशेषणम् अपेक्ष्यते अङ्गीक्रियते । [स्. 57अ.] तथा हि -- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावे ऽवश्यम् एव न भवतीति निःस्वभावत्वा ऽहेतुकत्वप्रसङ्गात् । तदुक्तम् - स्वभावे ऽप्य् अविनाभावो भावमात्रानुरोधिनि । तदभावे स्वयंभावस्याभावःस्याद् अभेदतः॥ [प्व् 3.38] तथा -- कार्यंधूमो हुतभुजःकार्यधर्मानुवृत्तितः। स भवंस् तदभावे ऽपि हेतुमत्तांविलङ्घयेत् ॥ [प्व् 3.33] इति । ततस् तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिद् इति भावः । प्रतिबन्धमात्रसिद्धौ इत्य् अनेन ये प्रतिबन्धं
हेतोर् न वर्णयन्ति किन्त्व् अदर्शनमात्राद् एव व्यतिरेकम् आहुस् तेषां तदसम्भवं च दर्शयति । तथा हि -- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणो ऽर्था दृश्या भवन्ति तदा तेष्व् अनुपलब्धस्य साधनस्याभावः शिष्येत्(त) । तद् आहकुमारिलो ऽपि -- {प्. 53.1} गत्वागत्वातु तान् देशान् यद्य् अर्थो नोपलभ्यते । तदान्यकारणाभावाद् असन्न् इत्य् अवगम्यते ॥ [श्वर्था- 38] इति । देशादिविप्रकर्षितया[235]त्व् अदृश्यत्वे सत्य् अपि तत्र[236][स्. 57ब्.] हेताव् अनुपलम्भमात्रस्य सम्भवात् सन्दिग्धो ऽसाव् ऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव[237]यत्र यत्र साध्याभावः [त्. 242अ.] तत्र तत्र साधनाभाव इति वीप्सापदाभ्याम् अभिधानात् । अन्वयनिश्चयो[238]ऽपि प्राक् प्रतिबन्धनिबन्धन एव वर्णितः ततस् तेनापि[239]परेषां दर्शननिबन्धनाम्[240]अन्वयसिद्धिम् इच्छताम् अभावो ऽस्यापि[241]कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुम् अशक्यत्वाद् अनुमातृभिः । अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शने ऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानाम् अप्य् अन्यथा त्व् अस्यापि सम्भवात्, तदसम्भवे[242]बाधकप्रमाणाभावात् ।
__________नोतेस्__________
[235] ननु यो ऽपि न दृश्यास् तेष्व् अदर्शनम् अस्ति, अतो ऽदर्शनाद् एव सर्वत्र व्यतिरेकनिश्चयः इत्य् आह [236] साध्ये [237] अशेषसाध्याभावे साधनाभावलक्षणस्य [238] दृश्ये ऽदृश्ये च [239] प्रतिबन्धनिबन्धनेनान्वयेन [240] दर्शनमात्रनि- -- त्. [241] अन्वयस्य [242] अन्यथा त्व् -
[ सेच्तिओन्: 35. अनुपलब्धौ व्यतिरेकनिश्चयोपायकथनम् ।]
अनुपलब्धिम् अधिकृत्याधुना ऽऽह -- व्यतिरेकनिश्चयो ऽनुपलब्धौ उच्यत इति शेषः । [स्. 58अ.] किम् आत्मको ऽसौ? इत्य् आह -- उपलब्धिलक्षणप्राप्ताद् विद्यमानोपलम्भप्रत्ययान्तराद् दृश्यस्वभावाच् च[243]सतः विद्यमानात् साध्याभावरूपाद्[244]अनुपलम्भस्य तद्विविक्तोपलम्भात्मनो यो ऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस् तस्य दर्शनं दर्श्यते -- प्रत्याय्यते ऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मको ऽनुपलब्धौ व्यतिरेकनिश्चयः । तद्धेतुत्वाच् च तत् प्रमाणं तथोच्यते[245]। यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानो ऽपि नोपलभ्येत कथम् असौ {प्. 54.1} [त्. 242ब्.] दृश्यस्वभावः स्यात्? । यो हि सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात् तथाविधे सन्निहिते ऽवश्यं प्रत्यक्षवृत्त्या[246]भवितव्यम्, अन्यथा ऽस्य न कदाचिद् अपि प्रत्यक्षता स्यात्, विशेषाभावाद् इति । प्रयोगः -- यद् यन्मात्रनिमित्तं तत् [स्. 58ब्.] तस्मिन् सति नियमेन भवति । तद् यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षम् इति स्वभावहेतुः । [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावे ऽभावलक्षणो व्यतिरेको निश्चीयते । एतच् च प्रमाणम् अन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरे ऽनुपलब्धेर् अभावोपदर्शनात् । कारणव्यापकानुपलब्ध्योस् तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्ध्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् । स च कार्यस्वभावहेत्वोर् उपदर्शित एवेति पृथग् नोक्तः । तथा हि -- कारणव्यापकयोर् अभावः कार्यव्याप्याभावाभ्याम् अवश्यम् अन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणे ऽवश्यं[247]व्यतिरिच्यते[248]कारणव्यापकयोर् भावात् । अन्यथा कार्यव्याप्ययोर् अहेतुकत्वनिःस्वभावताप्रसङ्गाद् इति [स्. 59अ.] न किञ्चित् पृथगभिधानेनेति ।
__________नोतेस्__________
[243] उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यंस्वभावविशेषश्च -- [न्ब् परि- 2] [244] अनुपलब्धो (?) साध्यम् असत्त्वम् [245] अनन्योपायसाध्यतां दर्शयितुम् [246] -वश्यं तथाविधप्र- -- त्. [247] सति [248] कारणव्यापकाभावो निवर्तते
[ सेच्तिओन्: 36. हेतोः प्रकारत्रयस्य नामनिर्देशः ।]
तदेताव् अता ग्रन्थेन पक्षधर्मस् तदंशेन व्याप्तो हेतुः इति व्याख्यातम् । [त्. 243अ.] अधुना त्रिधैव सः इत्य् एतद् व्याख्यातुम् आह -- एतल्लक्षणः `पक्षधर्मः सन् यस् तदंशेन व्याप्तो हेतुःऽ इत्य् एतल्लक्षणं यस्य स एतल्लक्षणः । त्रिधैव सः । `सःऽ इत्य् एतस्य व्याख्यानं हेतुर् इति, । `त्रिधैवऽ इत्य् अस्य विवरणं त्रिप्रकार एवेति । तान् हेतून् स्वेन स्वेन नाम्ना कीर्त्तयति -- स्वभावःकार्यम् अनुपलब्धिश्चेति । चकारो हेतुत्वसमुच्चयार्थः । इत्य्शब्दः समाप्तिं सूचयन्न् अवधारणार्थम् एव स्फुटयति । यथा-- अनित्ये कस्मिंश्चित् शब्दादौ साध्ये सत्व(त्त्व)म् इति स्वभावहेतूपदर्शनम्, {प्. 55.1} अग्निमति प्रदेशे साध्ये धूम इति कार्यहेतोः प्रदर्शनम्, अभावे च अभावस्य व्यवहारे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् इति अनुपलब्धेर् उपन्यासः ।
[ सेच्तिओन्: 37. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् ।]
कस्मात् पुनः त्रिविध एव हेतुः? इत्य् आशङ्क्य [स्. 59ब्.] त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस् त्रिष्व् एव हेतुत्वं नियतं भवतीति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्न् आह -- अत्रैव स्वभावकार्या ऽनुपलब्ध्याख्ये त्रिविधहेतौ अविनाभावस्य नियमाद् इति त्रिविधहेतुव्यतिरिक्तेश्व् अर्थेष्व् अविनाभावा ऽभावाद् इत्य् अर्थः । ततश् चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणो ऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्य् उक्तं भवति । अविनाभावाभावश् च त्रिविधहेतुव्यतिरिक्तत्वाद् एव तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर् अभावाद् व्यापकानुपलब्धितो ऽवगतः ।
[ सेच्तिओन्: 38. अविनाभावनिरूपणम् ।]
अथ को ऽयम् अविनाभावः? कस्य चासौ? कथं वा ऽत्रैव नियत उच्यते? इत्य् अत आह -- यथोक्ताव्याप्तिःव्यापकस्य -- तत्कारणतया तद्भावतया च । यत्र तद्व्याप्यं कार्यं स्वभावो वा सन्निहितस् तत्र भाव एव । व्याप्यस्य वा -- कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावे ऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिर् उक्ता सा यथोक्ताव्याप्तिर् अविनाभावः । कस्य? । पक्षधर्मस्य साध्यधर्मिधर्मस्य । स एवं रूपो ऽविनाभावः [स्. 60अ.] तृ(त्रि)विधाद् यथोक्ताद् हेतोः अन्यत्र तद्व्यतिरेकिण्य् अर्थे नास्ति । यतो ऽत्र च तृ(त्रि)विधे ऽस्ति, तादात्म्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावात्, कृतकत्वानित्यत्ववदनयोर् व्याप्यव्यापकभावाद् इति, तस्माद् अत्रैव त्रिविधे हेतौ तदन्यत्राभावमुखेन नियतः उच्यते । तद् अनेन हेत्वाभासास् ततो ऽपर इत्य् अस्य अविनाभावनियमात् इत्य् उपपत्तिसहितस्यार्थाः प्रदर्शितः । यथा च त्रिविधाद् हेतोर् अन्यत्राविनाभावो नास्ति तथा प्राग् एवोक्तम् । {प्. 56.1} यदि व्[ह्12]आ स्वभावाद् अन्यो ऽर्थो ऽर्थान्तरम्, तच् च[249]कार्याद् अप्य् अन्यत् -- कारणम् अनुभयं [त्. 244अ.] वा । अनुपलब्धेर् अप्य् अन्यद् यथोक्तायाः -- अनुपलब्धिमात्रम् उपलब्धिर् वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरम् यद्य् अनन्तरकार्यं[250]तस्यार्वाद्गर्शिभिः इतरविवेकेन लक्षयितुम् अशक्यत्वात् अलिङ्गत्वम् । कार्यदर्शनात् [स्. 60ब्.] विवेकावसाये ऽपि साध्यसिद्ध्युत्तरकालभावी पक्षधर्मतावसायो ऽन्वयानुगमनं च व्यर्थं । व्यवहितकार्यम् अपि कारणं न कार्यस्य लिङ्गम्,
अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम् । सामग्रीफलशक्तीनां[251] परिणामानुबन्धिनि । अनैकान्तिकताकार्ये प्रतिबन्धस्य सम्भवात् ॥ [प्व् 3.7] इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् । नाप्य् अनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः? इति चेत् । ननुऽ सा ऽपि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्य् उक्तत्वात् । तस्मान् नक्षत्रचक्रस्य सङ्क्रान्तिहेतुर् एव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंअक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या । अनुपलब्धिमात्रम् अपि साम्शयहेतुः, [स्. 61अ.] [त्. 244ब्.] प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः । उपलब्धिर् अपि प्रतिषेध्यस्य कथम् अभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुद्धोपलब्धिस् तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस् तद्भावे सत्य् अन्यानुपलम्भाद् एव सिद्ध इति तद्द्वारेणानुपलब्धिर् एव प्रयुक्ता भवति । अन्यथा ऽनिषिद्धोपलब्धेर् अभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधे ऽनैकान्तिकी, सहभावसम्भवाद् अविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावो ऽन्यत्र विद्यत इति । {प्. 57.1} [ 2. स्वभावहेतुनिरूपणम् ।] [ सेच्तिओन्: 1. स्वभावहेतोर् लक्षणाभिधानम् ।] __________नोतेस्__________
[249] कार्यहेतोर् अपि यद् अन्यद् अभ्युपगम्यते तद् अपि तच् च ...........ऽर्थान्तरम् एवेत्य् अर्थः [250] अनन्तरं कार्यं यस्मात् कारणात् [251] सामग्र्याः फलं च ताः शक्तयश् च
इदानीं स्वभावहेतोस् तावल् लक्षणम् आह -- तत्र हेतुत्रये स्वभावहेतोस् तावल् लक्षणम् उच्यते । साध्यते येन तत् साधनम् । तच् चासौ धर्मश् च तस्य भावस् तद्भावः । स एव साधनधर्मभावमात्रम् । तस्य अन्वयः । स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् । स्वभावो हेतुः । साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते । कथं पुनर् असौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्य् अत आह -- अपरस्माद्[252] अपरस्माद् च असतो ऽक्षणिकाच् च या व्यावृत्तिस् तस्या यो [स्. 61ब्.] भेदः अवधिभेदोपकल्पितस् तेन हेतुभूतेन साध्यधर्मात् साधनधर्मस्य यो भेदस् तस्मिन् सत्य् अपि वस्तुतः परमार्थतो लिङ्गस्वभाव एव साध्यधर्मस्वभाव [त्. 245अ.] एव । तथा हि -- य एवासतो व्यावृत्तः स एवाक्षणिकाद् अपि । तत एकस्माद् धर्मिणो भेदाभावात् साध्यसाधनधर्माव् अपि परमार्थतो नैव भिद्येत इति ।
__________नोतेस्__________
[252] आह परस्परेति अप- -- त्.
[ सेच्तिओन्: 2. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् ।]
यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत् कस्मात् साधनधर्मभावमात्रान्वयिनि इति साध्यधर्मो विशेष्यते? । यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गाद् अतत्स्वभावता वा इत्य् अत आह -- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् हेतुस्वभावे साध्यधर्मे सति अन्वयव्यभिचाराभावात् साधनधर्मभावमात्रस्य यो ऽन्वयस् तस्य व्यभिचाराभावात् । [स्. 62अ.] सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति विशेषणम् अयुक्तम् एव । तथापि स्वभावहेतुलक्षणे क्रियमाणे यद् एतत् साध्यधर्मस्य तन्मात्रान्वयेन साधनधर्मभावमात्रानुगमनेन विशेषणं तत् परमतापेक्षंनैयायिकादीनां विप्रतिपत्तेस् तन्मतापेक्षं न तु स्वमतापेक्षम् । {प्. 58.1} ताम् एव परविप्रतिपत्तिं दर्शयन्न् आह -- परे हिनैयायिकादयः अर्थान्तरनिमित्तं जनकाद् अर्थाद् अन्यो यो ऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् । ते ह्य् एवम् आहुः -- वेगवद्द्रव्ययोगाद् अवयवेषु कर्माण्य् उत्पद्यन्ते । तेभ्यो ऽवयवविभागः । ततस् तत्संयोगविनाशस् तदारब्धं कार्यद्रव्ये ऽपि(कार्यद्रव्यम् अपि) नश्यतीति । [त्. 245ब्.] एवम् अर्थान्तरं निमित्तं । तत एव अर्थान्तरनिमित्तम् अपेक्षमाणं कृतकत्वादिभावे ऽप्य् अभावाद् अतद्भावमात्रान्वयिनं तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति [स्. 62ब्.] साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् अपि कृतकत्वादेः स्वभावम् इच्छन्ति यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावताम् आह लक्षणे विशेषणकारः । स्वसत्तामात्रभाविन्य् एव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् ।
[ सेच्तिओन्: 3. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् ।]
तथा, तस्मिन् अर्थान्तरनिमित्ते साध्ये हेतोः कृतकत्वादेः व्यभिचारम् अनैकान्तिकतां चाह । अत्रोदाहरणं यथा-- हेतुमति विनाशे साध्ये कृतकत्वास्य हेतोः अतत्स्वभावताव्यभिचारश्चेति । ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस् तत् किम् उच्यते -- अतद्भावमात्रान्वयिनम् अपि स्वभावम् इच्छन्ति इति? । एवं मन्यते -- व्यतिरिक्ताव् अपि कृतकत्वानित्यत्वाख्यौ धर्माव् अभ्युपगच्छद्भिर् अवश्यम् `अभूत्वा भवनं भूत्वा चाभवनम् अनवस्थायिस्वभावत्वम्ऽ अभ्युपगन्तव्यम्, [स्. 63अ.] अन्यथा ऽऽत्मादिष्व् अपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् । ततो यद् एव `अभूत्वा भवनं भूत्वा[ ऽभवनं] चानवस्थायित्वम्ऽ उपादीयते भावस्य तयोर् एव तद्दर्शनबलोत्पन्नकृतकत्वानित्यत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावो ऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? । [त्. 246अ.] कल्पयित्वा ऽपि वस्त्व् आत्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम् -- {प्. 59.1} सदसत्पक्षभेदेनशब्दार्थानपवादिभिः। वस्त्व् एव चिन्त्यते ह्य् अत्र[253] प्रतिबद्धःफलोदयः॥ अर्थक्रियाऽसमर्थस्य विका(चा)रैःकिंतदर्थिनाम्? । षण्ढस्य रूपवैरूय्पे कामिन्याःकिंपरीक्षया? ॥ [प्व् 3.209-219] इति । तस्माद् दृष्टा अपि भावाः केनचिद्[254]आत्मना तदन्यव्यावृत्तेन कथञ्चिन् निश्चिताः तदन्येनाप्य्[255]अतद्रूपव्यावृत्तेनात्मना[256]भ्रान्तिकारणसद्भावाद्[257]अनिश्चीयमानाः,[258]निश्चितानिश्चितयो[259]रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायपुरोवर्त्तिनो[260]ऽनुमानतो निश्चीय(यं)त इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा च विनाशस्वभाव
एव कृतकत्वाख्यो हेतुः तैर् अथोक्तन्यायादिष्टो भवति । तस्या[261]ऽतन्मात्रान्वयित्वे ऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता [स्. 63अ.] कथ्यते । स्यान्मतम् -- कृतकत्वेन साक्षाद् हेतुमान् विनाशो ऽनुमीयते ततः प्राक् प्रध्वंसाभावविशेषणा सत्ता तत्समवायो वा ऽनित्यता व्यवस्थाप्यते । अत एवात्मादिष्व् अनित्यताप्रसङ्गाभावः । विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य[262]विशेषणेन विनाशो ऽस्व(शास्व)भावताख्यापने[263]न किञ्चिद् अनिष्टम् इति । तद् अयुक्तम्, तथाविधस्य[264]विनाशस्य हेतुमत्ताविरोधात्, स्वयम् एव चैतद् आचार्यो [त्. 246ब्.] वक्ष्यति । न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःखसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित्[265]परीक्षन्ते न व्यसनितया । तस्माद् अनेनास्थिरस्वभावतैव भावस्यानुमातव्या । सैव च हेतुमती {प्. 60.1} कल्पनीया । अन्यथा भावविलक्षणस्य[266]प्रध्वंसाभावस्य मुद्गरादेर् उदये ऽपि तस्य भावे ऽनुपयोगात् स भवस् तदवस्थ [स्. 64अ.] एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? । अविचलितरूपस्य च भावस्य मुद्गरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्य् अनित्यता, किं नात्मादेर् अपि? इति प्रसङ्गः तदवस्थ एव । स्वकारणसमवायो ऽपि चाभूत्वा भवनम् अनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोर् नित्यतयोपगतयोर् निरतिशयत्वात् प्राक् प्रध्वंसाभावौ विशेषणं युज्यते । अभूत्वा भवनोपगमे च तद् एव कृतकत्वम् अस्थिरस्वभावता च विनाशो ऽस्तु ।
किं निष्फलया अप्रमाणिकया प्रमाणबाधितया ऽर्थान्तरकल्पनया? । एवं कृतकत्वविनाशयोस् तादात्म्योपगमो ऽवश्यम् भावी परेषाम् अपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्ताव् अनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् । तथा, तस्मिन् साध्ये [स्. 64ब्.] कृतकत्वस्य व्यभिचारः । तथा हि -- ये यत्र हेत्व[त्. 247अ.]न्तरापेक्षिणो न ते तत्रावश्यम् भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्व् अपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः । ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम् भाविता युक्तैव । न पुनर् विनाशस्य, तद्धेतूनाम् आनन्त्याद् अवश्यं कस्यचिद् घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिद् उपघ्नन्ति, यतस् तदभावाद् विनाशो नारभ्येतेति ।
__________नोतेस्__________
[253] वस्तुनि [254] कृतकत्वादिना [255] अनित्यत्वादिना [256] सदृशापरापरोत्पत्ति- [257] -द्भावसंभवादिन -- त्. [258] [कृत] क- [259] अनित्य- [260] निश्चितानिश्चितयोर् यः प्रतिबन्धावसायः स पुरोवर्ती यस्य तस्मात् [261] विनाशस्य [262] कृतकत्वस्य [263] विनाशस्व- -- त्. [264] प्रध्वंसरूपस्य [265] किञ्चिद् वस्तु ज्ञात्वा यथार्हं सुखदुःखसाधनप्राप्तिपरिहारप्रतिपित्सवः सुखदुःखसाधने परीक्षन्त इत्य् अर्थः । यद् वा सुखदुःखसाधने ज्ञात्वा तत्प्राप्तिपरिहारप्रतिपित्सवः किञ्चिद् वस्तु परीक्षन्त इति सम्बन्धः [266] भावविविक्तलक्षण- -- त्.
तद् अयुक्तम्, यतो यद्य् अपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकारणायत्तसन्निधित्वात् तथा तत्कारणानां च सन्निहितानाम् अपि विरोधिनाम् अप्य् आनन्त्यात् तद्भावे तच्छक्तिप्रतिबन्धान् नावश्यं हेतवः फलवन्त इति कश्चिन् न विनश्येद् अपीति {p.61.1} व्यभिचारो न निवर्तते । नन्व् अयं वाससि रागः सापेक्षो ऽपि यदि सर्वत्रोपलभ्येत ततः किम् अवश्यम्भावी न स्यात्? । स्याद्, यदि तथोपलम्भ्येत । स त्व् अन्यथा ऽपि [स्. 65अ.] गृह्यते । यद्य् एवं[267]न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया[268]मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति । तथाभावे वा कथम् अनुमानवृत्तिर् दृष्टे न वैफल्यम् अश्नुवीत? । कस्यचित् तु [त्. 247ब्.] हेतुकृतविनाशदर्शने ऽपि हेत्वायत्तजन्मनाम् अन्यथा ऽपि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं[269]निश्चिन्वीत? । कृतकम् अपि चायं भावाभावलक्षणं विनाशं नित्यम् उपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् । न चास्य घटादेर् इव विनाशहेतुर् उपलभ्यते कश्चिद् इति । तदुक्तम् -- घतादिषु यथादृष्टाहेतवो ध्वंसकारिणः। नैवंनाशस्य सो[270]ऽहेतुस् तस्य[271] संजायते कथम्? ॥ इति । ततः कृतकत्वस्य विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? । भावानाम् अयम् ऐकान्तिक एव धर्म इति चेत्, कुतः पुनर् एतद् वसितम्? । तेषाम् अन्यथाभावस्यानुपलम्भाद् इति [स्. 65ब्.] चेत् । नन्व् अयम् अनुपलम्भो भवन्न् अप्य् आत्मादेर् अनिवर्त्तकः सत्तायाः, कथम् अन्यत्रान्यथाभावं निवर्त्तयति? ।[272]तस्यानुमानेनोपलम्भाद् इति यद्य् उच्यते तदा तत्राप्य्[273]अनुमाने विपक्षे वृत्तिम् अनुपलम्भ[274]एव हेतोः कथं निवर्त्तयति? इति यत् किञ्चिद् एतत् । तस्मात् साधूक्तम् -- `हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाहऽ इति अलम् अतिजल्पितेनेति ।
__________नोतेस्__________
[267] परः [268] अवश्यम्भावित्वाशङ्कया [269] अवश्यम्भाविविनाशित्वम् [270] नाशः [271] नाशस्य [272] आत्मादेः [273] आत्मानुमाने ऽपि [274] अप्रमाणकः सन् (प्रथमं टिप्पनम्) आत्मादेः संशयापनिवर्त्तकत्वेनाभिमतो यः स एव (द्वितीयं टिप्पनम्)
[ सेच्तिओन्: 4. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् ।]
इदानीं यद्य् अपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्ग्यैव प्रतिपद्यत इति स्वार्थानुमाने ऽपि {प्. 62.1} तत्सम्भवात्[275]प्रसङ्गेन परार्थानुमानं च व्युत्पादयितुम्[276]आह -- तस्य स्वभावहेतोः द्विधा त्रैलक्षण्यप्रतिपादको [त्. 248अ.] वचनोदाहारः प्रयोगः । तम् एव दर्शयति -- समानो धर्मो यस्य तस्य भावः तेन साध्य(ध)र्म्येणैकःप्रयोगः । अपरो विसदृशो धर्मो यस्य तस्य भावः तेन वैधर्म्येण । यथाक्रममनयोर् उदाहरणम् आह -- यथायत् सत् । यद्यत्सद् इति[277]वीप्साप्रधानो यच्छब्दः । तत् सर्वम् इति तच्छब्दो ऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् [स्. 66अ.] बहिर्व्याप्तेर् निरासः । यथाघटादयः इति । यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेर् अभावात् । न ह्य् एकस्य तथा भावे सर्वस् तथा भवति, अतिप्रसङ्गात् । संश्चशब्दः इति पक्षधर्मोपसंहारः । वैधर्म्यप्रयोगस्योदाहरणम् -- तथाइत्यादि । तथाशब्दः समुच्चये । वैधर्म्येण च प्रयोग उदाह्रियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् क्षणिकत्वाभावे सर्वस्मिन् सत्वा(त्त्वा)भावः इति । प्रयोगद्वये ऽपि सर्वग्रहणस्य फलं दर्शयन्न् आह -- सर्वस्मिन् साधनधर्मवति धर्मिणि न दृष्टान्तधर्मिण्य् एव साध्यधर्मस्योपसंहारणं उपसंहारो ढौकनं तेन या व्याप्तिः `व्यापकस्य तत्र भाव एवऽ इत्यादि रूपा तस्याः प्रदर्शनं प्रतिपादनं तद् एव लक्षणं ययोः तौ तथोक्तौ ।
ततश् च ये [त्. 248ब्.] [स्. 66ब्.] साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते -- यद्य् अपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावता ऽस्य सर्वत्र तथाभावाभावात् साध्यसिद्धिर् अयुक्तेति -- निरस्ता भवन्ति । सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन् न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिर् आख्यायते? । न हि `स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्ऽ इति तत्पुत्रत्वस्य {प्. 63.1} श्यमत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शने ऽपि साध्यसिद्धिर् भवति । तस्माद् यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये[278]प्रदर्शनीया । न च सर्वोपसंहारेण व्याप्तिप्रदर्शने ऽपि धर्मविशिष्टो धर्म्य् अपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनो ऽनुमानस्य स्मृतित्वं [स्. 67अ.] स्यात् । तस्याः[279]साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्राग् असम्भवात् । तत्पूर्विकायां[280]च व्याप्तौ अनन्तरं[281]विशेषविषयम् अनुमानं कथं स्मृतिः स्यात्? इति ।
__________नोतेस्__________
[275] प्रयोग- [276] -मानप्रयोगं व्यु- -- त्. [277] -म् आह यद्यत्सद् इति -- त्. [278] प्रतिबन्ध- [279] साध्यधर्मविशिष्टधर्मिप्रतीतेः [280] पक्षधर्मोपदर्शनपूर्विकायाम् [281] व्याप्तिस्मरणात्
[ सेच्तिओन्: 5. वैधर्म्यप्रयोगे ऽपि व्याप्तिप्रदर्शनं सांगतम् ।]
ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यावश्यम् भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? । तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ [त्. 249अ.] सति साध्यस्य भाव एवेति । नैष दोषः । न ह्य् अत्र साध्याभावे हेत्वभावस् तुच्छरूपो दर्श्यते, तस्य[282]हेतुरूपताविरोधात्[283]। वस्तुधर्मो हि सत्त्वादिको हेतुः । तस्यात्मन[284]एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस् त्रिरूपो हेतुर् भवेत् । किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे[285]च साधनधर्मे ऽवश्यं तया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगाद् इति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते । [स्. 67ब्.]
__________नोतेस्__________
[282] तुच्छरूपस्य [283] तस्य हेतुव्याप्तिनिर्देशलक्षणरूपसम्बन्धित्वाभावात् -- त्. [284] सत्व(त्त्व)स्य- [285] विपक्षनिवर्त्तनधर्मस्वभावे
[ सेच्तिओन्: 6. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् ।]
ननु द्विविधे ऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगो ऽभिमतः इत्य् अत आह -- अत्र अनयोः प्रयोगयोः पक्षधर्मसम्बन्धवचनमात्रसामर्थ्याद् एव {प्. 64.1} वक्ष्यमाणकात् प्रतिज्ञार्थस्य धर्मधर्मिसमुदायलक्षणस्य साध्यस्य प्रतीतेः हेतोः न प्रतिज्ञायाःप्रयोग उपदर्शितः । परः सामर्थ्यम् अनवबुद्यमान आह -- अप्रदर्शिते वचनेन प्रमेये साध्ये कथं न कथञ्चित् तत्प्रतीतिः प्रतिज्ञार्थप्रतीतिः इति एवं चेद् यदि मन्यसे तदा स्वार्थानुमानकाले स्वयं परं प्रतिपादकम् अन्तरेण प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता? नैव [त्. 249ब्.] कश्चित् । स्वयम् एव तु साध्याविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथा परार्थानुमाने ऽपि तत एव तत्प्रतीतिर् अस्तु किं प्रतिज्ञावचनेन? । यदि स्वयं प्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं [स्. 68अ.] तर्हि तत्प्रतिपत्तिः? इत्य् अत आह -- प्रदेशस्थं साध्यधर्मिणि स्थितं धूमं साधनधर्मं उपलब्धवतः प्रत्यक्षेण दृष्टवतः सतः तस्य धूमस्य अग्निना साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक् प्रतिपन्नायाः व्याप्तेः अविनाभावस्य स्मरणे सति तत्सामर्थ्याद् एव पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्याद् एव प्रतिज्ञाप्रयोगरहिताद् अग्निर् अत्र इति एवंरूपा प्रतिज्ञार्थप्रतीतिर् भवति । स्यान्मतम् -- तत्राप्य् अस्य कर्णपिशाचिकादिः प्रमेयं कथयत्य् एवेत्य् अत आह -- न च नैव तत्र स्वार्थानुमानकाले कश्चित् कर्णपिशाचिकादिर् अदृश्यो `अग्निर् अत्रऽ -- इति एवम् अस्मै प्रतिपत्रे(त्त्रे) प्रमेयं निवेदयति कथयति । यदि भवान्
सत्यवादी नैवं वक्तुम् अर्हति । तथा हि -- वयम् अपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षाद् अग्निं [स्. 68ब्.] प्रतिपद्यामहे । न चास्मभ्यं कश्चित् निवेदयति `अग्निर् अत्रऽ इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति । यद्य् अपि न कश्चित् निवेदयति तथापि स्वयम् एव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गम् अनु[त्. 250अ.]सरिष्यतीति चेत्, आह -- नापि न केवलं न कश्चित् निवेद्यति स्वयम् अपि प्राग् एव लिङ्गव्यापारात् न प्रतिपद्यते किञ्चिद् अग्न्यादिकम् । कस्मात्? {प्. 65.1} इति चेत्, प्रमाणं हेतुम् अन्तरेण विना `अग्निर् अत्रऽ इत्य् एवं प्रतीतेः निमित्ताभावात् । त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर् निमित्तम्, तदभावे सा कथं भवेत्? । अथ लिङ्गम् अन्तरेणाप्य् एवं प्रतीतिर् भवतीति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथम् अस्य निष्प्रयोजनता न स्यात्? । अत्यन्तमूढतां च परस्य दर्शयन्न् आह -- स्वयम् एव स्वतन्त्र एव `अग्निर् अत्रऽ -- इति व्यवस्थाप्य । कथं [स्. 69अ.] स्वतन्त्रो व्यवस्थपयति ? । अकस्मात् प्रमाणम् अन्तरेण व्यवस्थापनात्[286]तत्प्रतिपत्तये निर्न्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं पश्चात् लिङ्गं तन्निमित्तम् अनुसरतीति को ऽयंप्रतिपत्तेःक्रमः परिपाटिः? । तथा हि -- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिर् इति विपश्चितां क्रमः । अयं त्व् अपूर्वो ऽनुमाता यस् तद्विपर्ययम् आश्रयत इति उपहसति । यत्तल्लोके गीयते -- शिरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वाद् अस्य क्रमस्य । तस्मात् पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्याद्
एव स्वयं प्रतिपद्यते । तच् च प्रतिपादकं कथितम् एवेति न किञ्चित् प्रमेयनिर्द्देशेन । यदि नाम स्वार्थानुमानकाले स्वयम् एव साध्यं [त्. 250 ब्.] प्रतिपद्यते तद् युक्तम् एव, लिङ्गस्यापि तत्र स्वयम् एव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयम् अपि परत [स्. 69ब्.] एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्य् अत आह -- परेणापि न केवलं स्वयम् एव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना तत् प्रमेयम् उच्यमानंप्लवत एव तद्वचनस्य सन्दिग्धार्थाभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवगाहिनः परम्परया ऽप्य् अतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् । कस्मात् प्लवते? इति चेत्, उपयोगाभावात् नास्य साध्यप्रतीतिं प्रति कश्चिद् उपयोगः, तत्प्रत्यायनसमर्थस्यानभिधानाद् इति यावत् । {प्. 66.1} परस् तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्य् आशङ्क्याह -- विषयोपदर्शनं हेतोर् यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः चेत् मतम् । अत्राह तेनैव विषयेण, तावच् छब्दः क्रमे । विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्श्यमानेन को ऽर्थः किं [स्. 70अ.] प्रयोजनम्? । ननु साध्यप्रतीतिः साधर्म्यवत्प्रयोगादिप्रतीतिश् च विषयोपदर्शनस्यार्थः । ततस् तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि असति साध्यनिर्देशे `यत् कृतकं तद् अनित्यम्ऽ इत्य् उक्ते `किम् अयं साधर्म्यवान् प्रयोगः? [त्. 251अ.] उत वैधर्म्यवान्?ऽ इति न ज्ञायेत । उभयं ह्य् अत्राशङ्ख्यते -- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्,
नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति । `अनित्यः शब्दःऽ `अकृतको वाऽ इति तु प्रतिज्ञावचने सत्य् उभयम् असन्दिग्धम् अवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश् च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे `अनित्यः शब्दः, कृतकत्वात्ऽ इति हेतुभावः प्रतीयते, `नित्यः, कृतकत्वात्ऽ इति विरुद्धता, `प्रयत्नानन्तरीयकः कृतकत्वात्ऽ इत्य् अनैकान्तिकत्वम् । हेतोश् च त्रैरूप्यं न गम्यते, तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र [स्. 70ब्.] वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन च समानो ऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्; न सपक्षो ऽसपक्ष इति साध्यधर्मविरहिण्य् अवृत्तस्यासपक्षे ऽप्य् असत्त्वं प्रतीयेत इत्य् आशङ्क्याह -- यदि प्रतीतिः साध्यस्य निश्चयलक्षणा साधर्म्यवत् प्रयोगादेश् च स्वरूपावधारणात्मिका । अन्यथा प्रतिज्ञावचनम् अन्तरेण न स्यात् तदा यदुक्तं साध्यसिद्ध्यर्थं साधर्म्यवत् प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् सर्वंशोभेत यावता स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेणापि पक्षधर्मग्रहण[त्. 251ब्.]सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्य् एव प्रतीतिः इत्य् आख्यातम् एव । तद्वत् परार्थे ऽप्य् अनुमाने {प्. 67.1} भविष्यति । यत एवं तस्मात् एष प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य [स्. 71अ.] प्रतीतौ विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा केनचित् तेन विनापि प्रतियन् साध्यं निश्चिन्वन् लिङ्गसामर्थ्याद् एव । यदा ऽस्माभिः प्रतिपाद्यते तदा अस्मान् कार्यिणो दृष्ट्वाव्यक्तंप्रतिज्ञाप्रयोगलक्षणं
मूल्यंमृगयते । क इव? पर्वब्राह्मण इव । यथा दक्षिणाम् अन्तरेणाप्य् अन्यदा और्द्वरथिको ब्राह्मणो भुञ्जानो ऽन्यदा श्राद्धादिपर्वण्य् अर्थिनं श्रद्धालुं ब्रवीति -- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततो ऽहं भुञ्जे नान्यथेति । तेन तुल्यो भवान् अपीति । किञ्च, यद् अपि ब्रवीषि -- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस् तथा साध्यम् अपीति । तदैतद् युज्यते यद्य् असौ वादिवचनमात्रेण लिङ्गम् अपि निश्चित्य तदनुसारेण साध्यम् अवगच्छेत्, परप्रतीत्यर्थिनश् च तदा वयम् अपि प्रतिज्ञां किन् न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? । [स्. 71ब्.] अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य[287]चरितार्थत्वात् । न चैतद् अस्ति, यतः अस्मद्वचनाद् अपि न केवलं स्वार्थानुमानकाले ऽस्मद्वचनम् अन्तरेण इत्य् अपि शब्दः । किन्तु [त्. 252अ.] यदाप्य् अस्मद्वचनं प्रवृत्तं तदापि नैव अस्मद्वचनात् लिङ्गम् अपि प्रत्येति, कुत एव साध्यसिद्धये ऽनुसरिष्यति? । अपि तु स्वयम् अस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति अस्मद्वचनेन तु केवलं तत्र स्मृतिसमाधानमात्र क्रियते । तदा स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात् पानीयम् अपि पिबतीति । तस्मात् को ऽनयोः प्रतिज्ञावचनावचनात्मिकयोः अवस्थयोर् विशेषः?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्याद् एव साध्यप्रतीतेर् न कश्चित् । ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमाने ऽपि व्यर्थ [स्. 72अ.] एव । लिङ्गम् अपि हि तावद् अत्र नाभिधीयते यदि
तत् {प्. 68.1} पूर्वप्रसिद्धं स्वयम् अनुस्मरेत् किम् अङ्गः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनम् उपादीयते? । स्यान्मतम् -- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस् तदर्थो ऽस्य प्रयोगो मा भूत्, साधर्म्यवत् प्रयोगादिज्ञानार्थं तु तदुपादानम् अवस्थितम् एव, तस्यान्यथा प्रतीत्य् अभावात् इत्य् अत आह -- दृष्टाच साधर्म्यवत् प्रयोगादेःप्रतिज्ञावचनम् अन्तरेणापि प्रतीतिः, ततस् तदर्थो ऽपि प्रतिज्ञोपन्यासो न शोभते । कुतः पुनः साधर्म्यवत् प्रयोगादेर् असति साध्यनिर्देशे प्रतीतिः? [त्. 252ब्.] इत्य् आह -- पक्षधर्मसम्बन्धवचनमात्राद् इति । एवं मन्यते -- नैव हि कश्चित् `यत् कृतकं तद् अनित्यम्ऽ एतावन् मात्रम् अभिधाया ऽऽस्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्व् अवश्यं हेतोर् द्धर्मिण्य् उपसंहारं करोतीति । तत्र यदि `कृतकश् च शब्दःऽ इति ब्रूयात् तदा [स्. 72ब्.] साध्य्(ध)र्म्यवत् प्रयोगप्रतीतिः, अथ `नित्यश् चऽ इत्य् अभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात् पक्षधर्मवचनात् प्रयोगद्वयावगतिः । हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनम् अपि क्रियते तदा कथम् अप्रतीतिः? । तथा हि `यत् कृतकं तद् अनित्यम्ऽ इति पक्षधर्मवचने सत्य् उक्ते हेतुर् अवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तः । `यत् कृतकं तन् नित्यम्ऽ इत्य् अभिधाने विरुद्धः, विपर्ययव्याप्तेः । `यत् कृतकं तत् प्रयत्नानन्तरीयकम्ऽ इति प्रदर्शने व्यभिचाराद् अनैकान्तिकाध्यवसायः । त्रैरूप्यम् अपि हेतोर् गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया ऽवगम्यते । यत्र च व्याप्यो धर्मो धर्मिण्य्
उपसंह्रियते स व्यापकधर्मविशिष्टतया ऽवगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्य् उपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, [स्. 73अ.] सा च व्याप्तिर् यत्र धर्मिण्य् उपदर्श्यते स साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः प्रतीयत इति सपक्षे {प्. 69.1} सत्त्वम् अवगम्यते, सामर्थ्याच् च [त्. 253अ.] व्यापकनिवृत्तौ व्याप्यनिवृत्तिर् यत्रावसीयते सो ऽसपक्ष इत्य् असपक्षे ऽप्य् असत्व(त्त्व)म् अपि निश्चीयत इति, यदि पक्षादिभिर् अपि ज्ञातैः किञ्चित् प्रयोजनं । न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर् भवति । तथा हि -- यत् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस् तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर् भवति, न पक्षादिसङ्केतग्रहणापेक्षा । तत्र यथेष्टंशास्त्रकारागमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं क्वचिद् उपयुज्यते । तत्सङ्केतप्रतिपादितम् एव तु यथोक्तं गमकं रूपम् उपयोगि व्यवहर्तृऋणाम् । तच् चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञाने ऽपि [स्. 73ब्.] न किञ्चित् प्लूयते । अत एवाचार्यपादैर् `न्नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम्ऽ इति गमकरूपमात्रम् एव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु(त्तु) तत्रापि कैश्चिद् असन्त एव दोषाः प्रकीर्त्यन्त इति किम् अत्र ब्रूमः? । तस्मात् साधर्म्यवत् प्रयोगादिज्ञानार्थम् अपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र [त्. 253ब्.] एव यथोक्तेन प्रकारेण प्रतीतेर् अयुक्तम् इति कस् तस्य प्रतिज्ञावचनस्य उपयोगः नैव कश्चित् । स्वयं चायं वादी येन क्रमेणानुमेयं
प्रतिपन्नवाम्स् तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरम् आश्रयन् परवञ्चकतया धूर्त्त एव प्रतीयते, न सद्धृत्त इत्य् उपदर्शयन्न् आह -- स्वनिश्चयवत् इत्यादि । यथा ऽऽत्मनो निश्चयस्योत्पादनं कृतं तथैव अन्येशाम् अपि निश्चयोत्पादा(द)नाय च परहितनिरतैः साधनम् उच्यते, तत्र एतस्मिं(स्मिन्) न्याये सति स्वयम् अयं वादी प्रमेयस्योपदर्शनेन उपदर्शकेन वचनेन विनाऽपि स्वार्थानुमानकाले प्रतिपद्य प्रमेयं परं संशयितादिकं प्रतिपादयन् स्वप्रतिपन्नं प्रमेयम् अवबोधयन् अपूर्वं स्वप्रतिपत्तिकाले पूर्वं [s.74a.] यः प्रमेयप्रतिपत्तौ क्रमः उपायो ऽनुभूतस् तस्माद् अन्यम् आश्रयत इति किम् अत्र क्रमान्तराश्रयेण कारणम्? नैव किञ्चित् परव्यामोहनं मुक्त्वा । तथा हि -- यदि स्वप्रतिपत्तिक्रमः {प्. 70} प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? । यत एवं तस्मान् न प्रमेयस्य साध्यस्य वचनेन प्रतिज्ञाख्येन किञ्चित् प्रयोजनम् । कुतः? । `अन्यथापिऽ [त्. 254अ.] विना ऽपि तेन प्रतिपत्तेः साध्यप्रतीतेः उत्पत्तेर् इत्य् उपसंहारः ।
__________नोतेस्__________
[286] व्यवस्थापयिष्यति -- त्. [287] लिङ्ग-
[ सेच्तिओन्: 7. उपनयनिगमनादेर् अपि साधनवाक्यानङ्गत्वम् ।]
एवं प्रतिज्ञां साधनवाक्याद् अपनीयापरम् अप्य् उपनयनिगमनादिकं परपरिकल्पितं साधनवाक्याद् अपनेतुम् उक्तम् एव न्यायम् अतिदिशन्न् आह -- एतेन `अन्यथा ऽपि प्रतिपत्तेर् उत्पत्तेःऽ इति न्यायेन उपनयनिगमनादिकं आदिग्रहणात् संशयजिज्ञासादिकं प्रत्युक्तं प्रत्याख्यातम् । [स्. 74ब्.] तत्र उदाहरणापेक्षः`तथाऽ इत्य् उपसंहारो `न तथेऽति वासाध्यस्योपनयः [न्सू 1.1.38], प्रतिज्ञायाःपुनर्वचनंनिगमनम् [न्सू 1.1.39] इत्य् अनयोर् लक्षणम् । साध्यनिर्द्देशःप्रतिज्ञा [न्सू 1.1.33] इति तु प्रतिज्ञायाः । एतेनेत्य् एतद् एव दर्शयति -- एताव् अतैव पक्षधर्मसम्बन्धवचनमात्रैव उपनयादिरहितेन साध्यप्रतीतेःभावात् उत्पत्तेर् इति । अत्रोद्यो(द्द्यो)तकरःप्राह -- प्रतिज्ञा तावद् विषयनिर्द्देशार्थम् अवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः? । स्वार्थानुमानदृष्टश् च प्रत्यवमर्शप्रत्ययार्थो ऽनेन दर्श्यते । तथा हि -- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो `यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निम् अपिऽ इति व्याप्तिं [त्. 254ब्.] स्मरति । ततो `धूमश् चात्रऽ इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । [स्. 75अ.] निगमनम् अप्य् अवश्याभिधानीयम्, यतो यद्य् अपि पूर्वं अनित्यः शब्द इत्य् उक्तम्, न तु तावता ऽस्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातो ऽर्थः तत्सम्प्रत्ययार्थम् अनेन निगम्यते । अशेषप्रमाणव्यापारश् चानेनोपसंह्रियते । तथा हि आगमः प्रतिज्ञा, हेतुर्
अनुमानं, {प्. 71.1} दृष्टान्तः प्रत्यक्षम् उपमानम् उपनयः । तदेतस्य प्रमाणचतुष्टयस्यापि व्यापारो निगमनेनोपसंह्रियते -- इति कथम् अस्य न साफल्यम्? इत्य् एतद् आशङ्क्याह -- डिण्डिकरागंपरित्यज्य डिण्डिकाः --नग्नाचार्याःते निष्फलम् उपर्य् उपरि नामलेखने प्रसक्ताः ततस् तेषाम् इव `परेणोक्ते तस्योपरि मया ऽवश्यम् अयुक्ततया निष्फलम् अप्य् अभिधानीयम्ऽ इत्य् अस्थानाभिनिवेशं त्यक्त्वा अक्षिणीनिमील्य बहिर्विक्षेपम् उपसंहृत्य चिन्तय तावत् -- किम् इयता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिःस्यात् न वा? इति । यावता यावान् एव [स्. 75ब्.] परार्थानुमाने ऽर्थो ऽभिधानीय इत्य् अस्माभिर् अनुज्ञायते तावान् एवान्यूनानतिरिक्तः स्वार्थानुमाने ऽपि प्रतीतिहेतुर् दृष्टः, तस्य क इह शक्तेर् व्याघात्? येनासौ परार्थानुमाने ऽपि प्रतीतिं न कुर्यात् । भावे प्रतीतेः किंप्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया [त्. 255अ.], बालप्रतारकतदुपयोगोपवर्णलक्षणया[288]वा? । तथा हि ः प्रतिज्ञोपनयनिगमनप्रयोगे ऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस् तदा ऽस्य[289]नैव प्रतीतिहेतुता । तत्सम्भवे[290]तु प्रतिज्ञाद्यभावे ऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा[291]न निवार्यत इति किम् अस्थाननिर्बन्धेन इति? । न हि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैयर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति[292]। यत् तूक्तम् `विषयप्रदर्शनाय प्रतिज्ञाऽ इत्य् अत्रशास्त्रकृतैव दत्तम् उत्त-रम् । यश् च साधनं प्रयुंक्ते तेन `अहम् अनेन
[स्. 76अ.] साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामिऽ इति कर्म निरूप्यैव तत्[293]प्रयुक्तम् इति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिर् उपजायते तेनैव कर्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने [त्. 255ब्.] साध्यसिद्धिः {प्. 72.1} साधननिबन्धना स्यात्? । यश् चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य `क्वाग्निः क्वाग्निः?ऽ इत्य् अग्निं पर्येषते स प्रदेशे धूमदर्शनमात्राद्[294]एवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? । अथ कदाचिद् असौ दृष्टस् तत्रेति[295]परार्थे ऽप्य् अस्योपादानं तदा दध्यादिकम् अपि भुक्त्वा कदाचिद् धूमाद् अग्निं प्रतिपन्नवान् इति किन् न दधिभोजनादेर् अपि कादाचित् कस्योपादानम्? । यत् पुनरुक्तम् `आगमः प्रतिज्ञाऽ इति, तत्र यदि वादिवचनम् एवागमस् तदा तत एव साध्यसिद्धेर् हेत्वाद्युपादानम् अनर्थकम् । अथ प्रतिज्ञार्थस्यागमे पाठाद् आगमः प्रतिज्ञा, तदा न क्वचिद् आगमे पठ्यते अत्र प्रदेशे ऽग्निर् इति [स्. 76ब्.] कथम् आगमत्वं प्रतिज्ञायाः? । `हेतुर् अनुमानम्ऽ इत्य् अप्य् अयुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तो ऽपि न सर्वः प्रत्यक्ष इति कथं `दृष्टान्तः प्रत्यक्षम्ऽ भवेत्? । उपमानं तु प्रमाणम् एव न भवति, कथं तद्व्यापार उपसंह्रियेत निगमनेन? । यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिण्य् उपनेयः तदोपनय एवास्तु किं `कृतकत्वाट्ऽ इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुम् उपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित् तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
