Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनर्वचनं कुतो निगमनं भविष्यति? । इत्य् आह -- इति तस्माद् इयान् एव पक्षधर्मसम्भन्धवचनमात्रात्मकः [त्. 256अ.] साधनवाक्ये प्रयोगो ज्यायान् न पञ्चावयवात्मक इति स्थितम् । __________नोतेस्__________

[288] प्रतिज्ञादि- [289] हेतोः [290] व्याप्त्यादिसम्भवे [291] [प्रती] तिहेतुता [292] उपन्यासवैयर्थ्यप्रसङ्गात् [293] साधनम् [294] -षते सधूमप्रदेशदर्शन- -- त्. [295] स्वार्थानुमाने

[ सेच्तिओन्: 8. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः ।]

अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः [स्. 77अ.] `पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तःऽ इति क्रमनियमो ऽपि न कश्चित् । कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् ।

{प्. 73.1}[ सेच्तिओन्: 9. हेतोस् त्रिधाप्रयोगस्य खण्डिनम् ।]

ननु तस्य द्विधा प्रयोग इत्य् अयुक्तम् उक्तम् । यतस् त्रिविधो हेतुः -- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेतिनैयायिकाः, ततस् तस्य त्रिधा प्रयोगः -- साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यम् इत्य् अत आह -- सम्बन्धवचने ऽपि न केवलं क्रमनियमो न युक्तः किन्तु अर्थ भेदो ऽपि न कश्चिद् उभयत्रापि त्रिरूपसद्भावात् । ततः सर्व एव हेतुर् अन्वयव्यतिरेकी, न त्व् अन्वयी व्यतिरेकी वा कश्चिद् धेतुर् अस्तीति भावः । तत् कुतस् त्रैविध्यं प्रयोगस्य स्यात्? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति? चेत्, आह -- उभयथा साधर्म्येण वैधर्म्येण च प्रयोगे यद्य् अपि विधिप्रतिषेधरूपतया धर्मभेदः [त्. 256ब्.] प्रतीयते तथापि तद्भावस्यैव साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां ख्यापनात् । ननु साधर्म्यप्रयोगे हेतुभावे [स्. 77ब्.] साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दाद् अवगम्यते, न तादात्म्यम् । तत् किम् उच्यते `तद्भावस्यैव ख्यापनात्ऽ? इत्य् अत आह -- न हि इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य अतत्स्वभावस्य भावे किम् इति एकान्तेन अवश्यन् तया साध्यस्य भावः? । कादाचित् कस् तु भवतु नाम? । `यत् कृतकं तद् अनित्यम्ऽ इत्य् एकान्तभावश् च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगे ऽभिधीयते । स[296]च तादात्म्यम् अन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति । कथम् इवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह -- कृतकत्वेत्य् आदि । यदि प्रयत्नानन्तरीयकत्वाम् अन्तरेणापि कृतकत्वस्य भावाद् अतत्स्वभावत्वम् अनित्यत्वे[297]ऽप्य् अयम् एव

वृत्तान्तः । ततश् च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ[298]वा निवृत्तिर्[299]इति कथं ततस्[300]तत्[301][स्. 78अ.] {प्. 74.1} प्रतीयते? । नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य[302]तेन[303]साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकाव् अनिवारितौ अनित्यत्वकृतकत्वमात्रापेक्षया[304][त्. 257अ.] तु तादात्म्यविरहो ऽस्याभिहित[305]इति । नन्व् अग्निनिवृत्ताव् अतत्स्वभावस्यापि धूमस्य निवृत्तिर् दृष्टा ऽन्वयश् चेत्य् आह -- कार्यस्य इति । अन्वयव्यतिरेकयोर् हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोर् अप्य् अभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ तदुत्पत्तिलक्षणःप्रतिबन्दो ऽन्वयव्यतिरेकनिमित्तम् अस्तीति भवेतां तौ[306]। यत्र त्व् अनर्थान्तरस्य ताव् उच्येते तत्रावश्यं तादात्म्येन भवितव्यम् इत्य् अभिप्रायः । अत्रोदाहरणम् यथा-- अनयोर् एव कृतकत्वप्रयत्नानन्तरीयकत्वयोर् विपर्ययेण नैकनिवृत्ताव्[307] अन्यनिवृत्तिः[308]-- `यत् प्रयत्नानन्तरीयकं न भवति [स्. 78ब्.] तत् कृतकम् अपि न भवतिऽ इत्य् एवंरूपा । यत एवं तस्माद् अन्वयव्यतिरेकयोर् यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोर् अवश्यम् अभावः इत्य् एको ऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयम् आक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्[309], तस्यापि[310]चेतरेण[311]व्याप्तेः । तस्माद् उभयत्र त्रैरूप्यप्रतीतेर् एकस्य शब्दे(ब्द)तो ऽपरस्यार्थत इति सम्बन्धवचने ऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धिं ततस् तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण

च । न तु साधर्म्यवैधर्म्याभ्याम् अपि, तदर्थस्यान्यतरेणैव [त्. 257ब्.] प्रकाशनात् । सर्वो हेतुर् अन्वयव्यतिरेक्य् एव वस्तुतो न कश्चिद् अन्वयी व्यतिरेकी वा नामेत्य् एतद् उपसंहरन्न् आह -- इति नैकत्रान्वयमुखेन व्यतिरेकमुखेण [स्. 79अ.] वा साधनवाक्ये द्वयोर् अन्वयव्यतिरेकयोः प्रयोगः साक्षाच् छब्देन प्रतिपादनम् इष्यते, वैयर्थ्यात् प्रतीतप्रत्यायने प्रयोजनाभावात् । {प्. 75.1} ताम् एवार्थतो ऽपरस्य प्रतीतिं स्फुटयन्न् आह -- तत्स्वभावतया इत्यादि । यदि तत्स्वभावतया साध्येन हेतोर् अन्वयः सिध्यति तत एव तदभावे ऽभावो ऽपि सिध्यत्य् एव । तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । तथा तत्स्वभावतया साध्याभावे साधनस्याभावसिद्धौ च सत्यां तत एव साध्येन हेतोः अन्वयस्यापि सिद्धेर् इति । यैस् तु व्याख्यायते -- साधर्म्यवति[312]प्रयोगे तदभाव एव विपक्षे हेतोर् अभावख्यातिर् यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत[313]एव व्यवच्छेदप्रसङाच् चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः इति । स तदर्थो ऽप्य् अयुक्तः । कुतः? अन्यविरुद्धयोर् अपि न केवलं तदभावस्य विपक्षत्वात् यस्य हि -- अन्य एव विपक्षो ऽन्यधर्मयोगी वा ऽन्यो, न विवक्षितधर्मानाश्रयः[314], [स्. 79ब्.] विरुद्ध एव वा सहानवस्थानलक्षणेनैव[315][त्. 258अ.] विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः -- तस्यानित्यत्वाद् अन्यानात्मादिधर्मवति[316]अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्ये[317]ऽग्निलक्षणस्य हेतोर् विरुद्धाद् एव शीतात् नानुष्णशीताद् अप्य् अन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यम् अग्निर्

ग्रसयेद् इति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम्[318]-- यद्य् एकस्य[319]विपक्षत्वम् इष्यते तदा तदभावस्यैवेष्यताम्[320], न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि[321]विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावम्[322]अन्तरेण तयोर् अन्यविरुद्धत्वायोगात्[323] । न त्व् अस्माकं[324]त्रिविधम् अपि विपक्षम् इच्छताम्[325], विवक्षितधर्मानाश्रयं चा ऽन्यम् इति भावः ।

__________नोतेस्__________

[296] एकान्तभावः [297] प्रयत्नानन्तरीयकत्वम् अन्तरेणापि अनित्यत्वस्य भावात् [298] साध्य- [299] हेतोः [300] हेतोः [301] साध्यम् [302] न तु समग्रपदार्थस्वभावस्य [303] प्रयत्नानन्तरीयकत्वेन [304] प्रयत्नानन्तरीयकः शब्दः, कृतकत्वात् अनित्यत्वाच् च [305] प्रयत्नानन्त- [306] अन्वयव्यति- [307] प्रयत्न- [308] हेतु- [309] रूपाव्यतिरेक- (?) [310] प्रतिबन्धस्य [311] अन्वयेन व्यतिरेकेण वा [312] वैधर्म्ये तु तदभावे ऽभावस्य प्रतीतत्वान् न शङ्का [313] ............र् एव सकाशाद् व्यावृत्तिः (?) [314] अनित्यत्वं [315] शीतवह्निवत् [316] निरवयवत्वादि [317] उष्णो ऽयं पदार्थः, अग्नित्वात् [318] दिग्नागेन [319] साध्याभावे तदभावान्यविरुद्धलक्षणात् त्रितयान् मध्याद् एकस्य [320] साध्याभावे साधनाभावस्य [321] तदभावस्य [322] साध्याभावम् [323] अन्य- । विरु- [324] दोषः [325] यश् च युज्यते एतन्मध्यात् स ग्रहीष्यते

[ सेच्तिओन्: 10. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् ।]

यदि स्वभावहेताव् अन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनम् इत्य् अन्वयेन व्यतिरेकेण वा साधर्म्यवैधर्म्यवतोः {प्. 76.1} प्रयोगयोर् अभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थाद् इतराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर् निबन्धनं [स्. 80अ.] न शब्दमात्रतः प्रतीयमानेत्य् अभिप्रायवान् आह -- कथम् इदम्[326]इत्यादि । येनेति सतो नश्वरस्वभावत्वेन । सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश् चायम् अभिप्रायः -- इह [त्. 258ब्.] द्विविधाः सन्तः -- कृतकाश् च घटादयः अकृतकाश् चाकाशादयः । तत्र ये तावद् अकृतकास् ते सदकारणवत् नित्यम् [वैसू 4.1.1.] इति नित्यलक्षणयोगाद् अनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता । ये ऽपि सन्तः कृतकास् तेषाम् अपि मुद्गराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्धेत्वसन्निधाव् विनाशात् कृतकात्मनो ऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्य् एवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि - अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम्[327] । विनासंसर्ग्गितांयाति न विनाशो घटादिभिः॥ [स्. 80ब्.] अन्यत्रापि[328]चान्वयव्यतिरेकानुविधानम् एव हेतुमत्ताव्यवहारनिबन्धनम् अभ्युपेयतेसौगतैर् अपि, तद् इहाप्य्[329]अस्तीति किन् न तद्व्यवहारः प्रवर्त्त्यते? इति । ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्वम् एव प्रतिपादिता `अन्वयनिश्चयो ऽपि स्वभावहेतौऽ इत्यादि विचनात् । तत् कुतो ऽस्य पूर्वपक्षस्यावसरः? । सत्यम्,

किन्तुपूर्वाचार्यैःकृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानाम् अन्ते ऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्धेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकम् उक्तं तत् प्रसङ्गमुखेन[330]कृतकलक्षणस्यैव सत्त्वस्य तदात्मताम्[331]गमयति नान्यस्य [त्. 259अ.] इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं[332]तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण[333]{प्. 77.1} प्राग् उक्तम् अपि विपञ्चयितुं पूर्वपक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्य् एव, नियामकं हेतुम् अन्तरेण देशकालस्वभावनियमायोगात् । ततःपूर्वाचार्यैर् न [स्. 81अ.] तस्यैकाङ्गवैकल्याद् एव सदकारणवत् नित्यम् [वैसू 4.1.1.] इति नित्यतासम्भव इति न तदात्मतां[334]प्रति यत्नः कृतः ।शास्त्रकारस् तु सामान्येन[335]सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम् भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन[336]प्रतिपादयिष्यति ।

__________नोतेस्__________

[326] परः [327] एव [328] अङ्कुरादौ [329] विनाशे [330] आपत्ति- [331] क्षणिक- [332] प्रमाणम् [333] सामान्येन [334] क्षणिकत्व- [335] कृतका ऽकृतकविशेषविरहेण [336] विनाशस्य

[ सेच्तिओन्: 11. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समालोचनम् ।]

तत्रपूर्वाचार्योक्तं `सर्वस्य सतः कृतकस्यावश्यमन्ते हेतुकृतो विनाश इतिऽ यः परैर् इष्यते तं प्रत्यनपेक्षत्वं क्यापयितुम् उपक्रमते -- विनाशहेत्वयोगाद् इति । यदि तर्हि नाशस्य हेतुर् नास्ति, स तेषां कृतकानां सताम् अवश्यम् भावी विनाशः कुतः? । न ह्य् आकस्मिकः कश्चित् स्वभावो युक्त इत्य् आह -- स्वभावत एव । भवत्य् अस्मात् कार्यम् इति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव नश्वराः नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि भावाजायन्ते । नैषां कृतकलक्षणानां सतां भावानां स्वहेतुभ्यो निष्पन्नानांअन्यतः अभिघातादेर् विनाशोत्पत्तिः । कुतः? [स्. 81ब्.] [त्. 259अ.] तस्याभिघाताग्निसंयोगादेस् तद्धेतुतयोपगतस्य असामर्थ्यात् । तथा हि -- अग्निसंयोगादिकाले त्रितयं लक्षयामः । तद् एव काष्ठादिकं विनाश्यम्, अङ्गारादिकम् अवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर् व्यापारः चिन्त्येत । एतावत् यां च वस्तुगतौ न क्वचिद् अत्र विनाशहेतोः सामर्थ्यं युज्यते । यतो न हि विनाशहेतुर् भावस्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य स्वभावम् एवास्थिरात्मतालक्षणं करोति । कुतः? तस्येन्धनादेः स्वहेतुभ्य एव निर्वृत्तेः । न हि {प्. 78.1} स्थिरात्मनो निर्वृत्तस्यान्यथाभावः[337], [338]तदात्मा[339]शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भवतो ऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुम् अशक्यत्वात् । अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावम्[340]एवाग्निसंयोगादिर् विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेर् इति ।

__________नोतेस्__________

[337] अस्थिरस्वभावता [338] -नो ऽनिवृत्तस्यान्यथा ऽभाव -- तिब्. [339] स्थिरात्मा [340] काष्ठत्वम्

[ सेच्तिओन्: 12. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम् ।]

कुमारिलस् तु मन्यते -- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्व् इन्धनादेः [स्. 82अ.] प्रध्वंसाभावः । स चेन्धनादिरूपविकलम् अङ्गारादिकम् उत्तरं भावान्तरम् एव । तदुक्तम् -- नास्तितापयसो दध्नि प्रध्वंसाभावलक्षणम्[341] [श्ल्व् अभाव 3] इति । तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते । तथा चाह कश्-चित् - भावान्तरविनिर्मुक्तो भावो ऽत्रानुपलम्भवत् । अभावःसम्मतस् तस्य हेतोःकिन्न समुद्भवः? ॥ इति तद् एतत्कौमारिलं[त्. 260अ.] दर्शनम् अपनुदन्न् आह -- नापि इत्यादि । यद्य् उत्तरं कार्यात्मकं भावान्तरम् एव अभावस् तदा ऽग्निसंयोगादयो ऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टम् एवास्माकम्, किन्तु भावान्तरकरणे अभ्युपगम्यमाने ऽग्न्यादीनाम् इन्धनादाव् अव्यापारात् तदवस्थम् एवेन्धनादिकम् । ततश् च यथा ऽग्निसंयोगात् प्राग् इन्धनादेर् उपलब्धिः अन्या च तत्साध्या ऽर्थक्रिया तथा ऽङ्गाराद्युत्पत्ताव् अप्य् उपलब्ध्यादेः प्रसङ्गः । ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताव् इन्धनादीनां [स्. 82ब्.] प्रध्वस् तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? । सत्यम्, एवं मन्यते -- सर्वस्येन्धनादेर् अन्यस्य गवादेर् अपि तथाभावो मा भूत् इत्य् अङ्गारादेः ध्वंसव्यवस्थायां निबन्धनम् {प्. 79.1} अभिधानीयम् । तस्मिं(स्मिन्) सति तन्निवृत्तिर् इति चेत्, अहो वचनकौशलम् यतो निवृत्तेस् तुच्छस्वभावतानङ्गीकरणात् तद् एव भावान्तरम् अङ्गारादिकं निवृत्तिं ब्रूषे । तद् अयम् अर्थः सम्पन्नः -- अङ्गारादिभावे ऽङ्गारादिभावाद् अङ्गारादिकं ध्वंसः काष्ठादेर् इति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्न्यादिभ्यश् च

तदुत्पादवचनाद् इन्धनाद्युपमर्द्देनाङ्गारादि[त्. 260ब्.]भावात् अस्य ध्वंसरूपतेति चेत् । को ऽयम् उपमर्द्दो नाम? । यदि निवृत्तिः सा ऽङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते । तस्मात् [स्. 83अ.] स्वरसतो निवर्त्तते काष्ठादिः, अग्न्यादिभ्यस् त्व् अङ्गारादिजन्म इत्य् एव भद्रकम्, अन्यथा काष्ठादेस् तथोपलब्ध्यादिप्रसङ्गः कथं न स्यात्? अपि च -- यदि भावान्तरं प्रध्वंसाभावो य एते ऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? । ते ऽप्य् अव्यक्तताम्[342]आत्मभावं[343]च विकारम् एव ध्वंसं समालम्बन्त इति चेत् । न, प्रदीपादेर् भावरूपाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिर् अव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे[344]कथं प्रदीपादयः शक्त्यात्मना ऽवस्थिताः कल्पेरन्[345]? । अथोपलब्धियोग्यताविकलात्मतापत्तिर् अव्यक्तिः; अत्रापि तदात्मना ऽवस्थितौ नैव प्रमाणम् अस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । आत्मनश् चासत्त्वात् कथं तद्भावो[346]बुद्ध्यादीनां [स्. 83ब्.] विकारः परिणामश् च? । अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रन्यत इत्य् अलं प्रसङ्गेन । स्यान्मतम् -- भावान्तरेणाङ्गारादिना ऽऽवृतत्वात् इन्धनादेस् तथोपलब्ध्यादयो न भवन्तीत्य् अत आह -- नापि इत्यादि । स्वभावान्तरम् अन्यस्येन्धनादेर् आवरणम् अपि न युज्येत तदवस्थे अविचलित[त्. 261अ.]रूपे तस्मिन्न् इन्धनादौ सत्यावरणस्यापि न केवलम् अनुपलब्ध्यादेर् अयोगात् ।

__________नोतेस्__________

[341] -साभाव इष्यते -- श्ल्व् [342] प्रदीप- [343] बुद्धिः [344] कार्य- [345] कल्प्येरन् -- तिब्. [346] आत्मता

{प्. 80.1}[ सेच्तिओन्: 13. भावाभावपक्षस्यापि समालोचनम् ।]

न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावो ऽपि न क्रियत इत्य् आह -- नापि इत्यादि । कुतः? इति चेत्, अभावस्य विधिना पर्युदासेन विवक्षिताद् भावादन्यतया कार्यत्वोपगमे क्रियमाणे किम् इन्धनादिरूप एवासौ? अथार्थान्तरम्? इति व्यतिरेकाव्यतिरेकविकल्पानतिक्रमात् । तत्र चोक्त एव दोषः । ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपो ऽसाव् अग्न्यादिजन्यो ऽभ्युपेयते । तद्भावे चेन्धनादीनां नैःस्वाभाव्यात् कुतः पूर्वदोषावसरः? । स चावश्यम् अग्न्यादिभावाभावानुविधायितया [स्. 84अ.] तत्कार्यस् तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम् -- सन् बोधगोचरप्राप्तस् तद्भावे[347] नोपलभ्यते । नश्यन् भावःकथंतस्य[348] न नाशःकार्यतामियात् ॥ प्राग् अभूत्वाभवन् भावो हेतुभ्यो जायते यथा। भूत्वाऽपि न भवंस् तद्वद्धेतुभ्यो न भवत्य् अयम्[349] ॥ इति । अत आह -- भावप्रतिषेधेत्य् आदि । अयम् अभिप्रायः -- यद्य् अनपेक्षितभावान्तरसंसर्ग्गश् च्युतिमात्रम् एव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्य् एव तत्सम्भवात् । तस्याप्य् [त्. 261ब्.] अभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेर् अभावत्वहानेः । यतो भवतीति भावो मण्यते, नापरम् अङ्कुरादेर् अपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यम् इति चेत् । सर्वसामर्थ्यविरहिणस्[350]तर्ह्य् अस्य कथं प्रतीतिविषयता? । न ह्य् अकारणं प्रतीतिविषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा?, येनोच्यते `तुच्छरूपम् एव तद् वस्तुऽ इति । प्रतीतिजनकत्वे वा कथं न [स्. 84ब्.]

सामर्थ्यसम्बन्धिता? । सद् इति प्रत्यया ऽविषयस्य कथं भावतेति चेत् । कार्यता ऽप्य् अस्य कथम्? । स्वहेतुभावे भावात् इति चेत् । कथं तर्हि सत्प्रत्यया ऽविषयता? । {प्. 81.1} तथा हि -- यदि स्वहेतुभावे भवतीति प्रतीयते सद् इत्यादि प्रतीयेत । यतो ऽस्तीति सद् इति वदन्ति विद्वांसः । न चास्ति, भवति, भावः, सन्निति शब्दानाम्[351]अर्थभेदः परमार्थः कश्चित् । अभावात्मकतयैव भवत्य् असाव् इति चेत् । न । व्याहतत्वात्, यतो न भवतीत्य् अभाव उच्यते स कथं भवतीति व्यपदिश्यते? । प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्य् अप्रतिभासनात् न भाव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनाम् अभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् । न । अस्यापि भवितृरूपतया ऽवभासनात् । [त्. 262अ.] सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? । केनचिद् रूपेणोन्मज्जनं हि भवनम् । ज्ञानविषयतया ऽस्यापि च तद्धेतुरूपतया ऽवभासनस्य तुल्यत्वात्[352], अहेतोष् च विषयत्वायोगात् । अस्माकं त्व् अभावबुद्धयः स्ववासनापरिपाकान्वया निर्विषया एव । अभावस्य च भवितृत्वे कथं पर्युदासात् प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात् [स्. 85अ.] स भिद्यत इति चेत् । न । असद्रूपस्य भवनविरोधात् । भवतीति हि भूत्या सत्तया ऽभिसम्बध्यते । तत्र कथं सद्रूपस्य विधानम्? । पर्युदास एवैको नञर्थश् च स्यात्, सर्वत्र विधेः प्राधान्यात् । सो ऽपि वा न भवेत् । यदि हि किञ्चित् कुतश्चित्[353]निवर्त्येत तदा तद्व्यतिरेकि[354]संस्पृश्येत तत्पर्युदासेन । तच् च नास्ति । सर्वत्र निवृत्तिर् भवति इत्य् उक्ते वस्त्वन्तरस्यैव कस्यचित्

विधानात् । तथा ऽनेन वस्त्वन्तरम् एवोक्तं स्यात्, न तयोर् विवेकः । अविवेके च न पर्युदासः । अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ[355]प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात् । न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्य् असतः कार्यत्वविरोधात् । पररूपेण तु सर्वम् एव वस्त्वसदात्मकम् इति नास्य घटादेः कश्चिद् विशेषः [त्. 262ब्.] भवतु वा ऽयम् अभावो ऽग्न्यादिभ्यस् तद्भावे किम् इति नोपलभ्यन्ते काष्ठादयः? । तथा हि -- अग्न्यादीनाम् अन्यक्रियायां चरितार्थत्वाद् अनिवृत्ता एव तेभ्यः {प्. 82.1} [स्. 85ब्.] इन्धनादयः प्राग्वद् उपलभ्येरन् । तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? । न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश् चानवस्था । स एव ध्वंस इन्धनादेर् अग्न्यादिजन्मा निवृत्तिः, अतो ऽस्यानुपलब्धिर् इति चेत् । कथम् अन्यो ऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् । यदि चायं हेतुमांस् तद्भेदाद् आत्मभेदं किं नानुभवति? । शालियवाङ्कुरादयो ऽपि कारणभेदाद् एवात्मभेदम् अत्यन्तविलक्षणम् अनुभवन्तो ऽध्यक्षत एवावसीयन्ते । न त्व् एवम् अनपेक्षितभावान्तरसंसर्ग्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदे ऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्य् अवभासनात् । न हि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपम् ईक्सामहे । विस्तरतश् चैतत्क्षणभङ्गसिद्धौ विचारितम् इत्य् आस्तां तावाद् इह । [स्. 86अ.] तस्माद्

अग्न्यादिसंयोगकाले न तस्य किञ्चिद् भवति न भवत्य् एव केवलम् इत्य् एवोपगन्तुं युक्तम् । यतो नायं कस्यचिद् [त्. 263अ.] भावेन नष्टो नाम किन्तु यतः स्वयम् अस्थिररूपतया भूतस् ततो नष्टो नाम । तेन नास्या ऽभवनम् अन्यद् वा किञ्चिद् भवति । तथा च भवनधर्मणः कस्यचिद् अभावाद् भावं भवन्तं कुतश्चिन् न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् । एव च सति कर्त्ता अग्निसंयोगादिः न भवति इत्य् अकर्तुर् अहेतुत्वम् इति तस्मान् न विनाशहेतुःकश्चित् ।

__________नोतेस्__________

[347] अग्निः [348] अग्न्यादेः [349] भावः [350] भावशब्दप्रवृत्तिनिमित्तं अभावस्यापि यदि सामर्थ्यम् अस्ति तदा भावत्वम् अथ नास्ति तत्राह [351] सन्निति सामान्यशब्दानाम् -- तिब्. [352] चक्षुरादीभिः [353] ब्राह्मणादि (प्रथमं टिप्पणम्) क्षत्रिया- (dvi. टि.) [354] निवर्त्यव्यतिरेकि [355] तुच्छरूपायाम्

[ सेच्तिओन्:14. वैयर्थ्याद् अपि विनाशे हेत्वयोगः ।]

न केवलम् असामर्थ्याद् विनाशहेत्वयोगः, किन्तु वैयर्थ्याच् च, तद् एवाह -- यदि स्वभावतो नश्वरो नशनशीलः स्वात्मन्य् अनवस्थायी स्थातुम् अशक्तो यथा सूच्यग्रे सर्षपः तस्य न किञ्चिन्नाशकारणैः । किं कारणम्? । स्वयंनाशात् । तत्स्वभावतयैव अस्थिरस्वभावतयैव । न हि प्रकृत्य् एव स्थातुम् अशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् । {प्. 83.1} अत्रैव व्याप्तिम् आदर्शयति -- यो हि इत्यादि । न पुनःतद्भावे तत्स्वभावत्वे जनकात् [स्. 86ब्.] हेतोर् हेत्वन्तरम् अपेक्षते । न हि प्रकाशादयः इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति -- तदात्मनो यो यस्य स्वभावः तत्स्वभावस्य तादात्म्याभावे हेत्वन्तरम् अपेक्षमाणस्य स्वहेतोर् निष्पन्नस्यापि तत्स्वभावत्वाभावे नैरात्म्यस्य निःस्वभावतायाः प्रसङ्गात् । तद्वत् प्रकाशादिवत् न पुनः पश्चात् [त्. 263ब्.] तदात्मतायां अस्थितिधर्मात्मतायां हेत्वन्तरम् अपेक्षत इति प्रमाणफलम् । अस्थितिधर्माचेत् नश्वरस्वभावश् चेत् । स्वभावतःस्वहेतुभ्यो निष्पन्नो भाव इति पक्षधर्मोपसंहारः । विरुद्धव्याप्तोपलब्धिश् चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् ।

[ सेच्तिओन्: 15. स्वतो विनश्वरत्वसाधकहेताव् अनेकान्तदोषोद्धारः ।]

अत्र च परस्य वचनाव् अकाशम् आशङ्क्याह -- बीजादिवत्[8.16] इत्यादि । स्याद् एतत् इत्यादिना एतद् एव विभजते केवलान जनयन्ति इति । कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानाम् अपि [स्. 87अ.] बीजादीनां तदात्मतायाम् अपेक्षणात् । ततश् च न पुनस् तद्भावे हेत्वन्तरम् अपेक्षन्त इत्य् अनेकान्तः । तद्वद् भावो ऽपीन्धनादिः स्वहेतोर् नश्वरात्मा निष्पन्नो ऽपि विनाशे विनश्वरात्मतायां स्याद् इति दार्ष्टान्तिकम् । न बीजादिवद् अनेकान्तः । कुतः? तत्स्वभावस्य अङ्कुरादिजननस्वभावस्य बीजादेर् अङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश् च क्षित्यादिकम् अपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य अजनकस्य च अतत्स्वभावत्वात् अङ्कुरादिजननस्वभावत्वाभावात् । तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः ।

[ सेच्तिओन्: 16. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः ।]

ननु प्रत्यभिज्ञाप्रत्यक्षत एव बीजादिर् एकस्वभावो लक्ष्यते । तत्र कुतो ऽयं जननस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? {प्. 84.1} यतो ऽनेकान्तो [त्. 264ब्.] न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, तत्रापूर्वार्थविज्ञानम् इत्यादि प्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश् च प्रत्यक्षम् एव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद् गरिष्ठं प्रमाणम् अस्ति, यतस् तद्विषयस्य भेदसिद्ध्या बाधाम् अनुभवद् अप्रमाणम् एतत् [स्. 87ब्.] स्यात् इत्य् आशङ्क्याह -- `अत एवऽ जनकत्वाजनकत्वाद् एव विरुद्धधर्माध्यासात् `तयोर् अवस्थयोःऽ जनकाजनकावस्थयोः बीजादेः वस्तुभेदः स्वभावभेदो निश्चेयः अध्यवसातव्यः । यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभवदर्शनात् प्रत्यक्षतो ऽवगम्यते, यवबीजं चातज्जननस्वभावम् तद्भवे शाल्यङ्कुरानुपलब्ध्या[356][त्. 265अ.] तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथा ऽत्राप्य् अवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलाद् एव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? । इष्यत एवावस्थयोर् भेदो ऽवस्थावतस् त्व् अभेद इति चेत् । न । तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासते तस्य प्रत्यक्षता युक्ता । अवस्थातद्वतोः स्वभावभेदाभावात् [स्. 88अ.] कथं रूपान्तरेण प्रतिभासनम्? इति चेत् । नन्व् अवस्थाभ्यो ऽनवाप्तरूपभेदस्यावस्थानाम् इवात्मनस् तद्भेदे सत्य् अभेदो न सङ्गच्छते । [त्. 265ब्.] ततश् चास्यावस्थानाम् इवात्मभेदम् अनुभवतः कथम् अवस्थातृत्वम्? । अवस्थाभेदे ऽप्य् अभिन्नरूपस्य

तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाद् अदोष इति चेत् । यदि यम् आत्मानं पुरोधय `अयम् अवस्थाता, अवस्थाश् चेमाःऽ इति भण्यते तेनावस्थातद्वतोर् भेदस् तदा भेद एवेति `कथञ्चित्ऽ इत्य् अन्धपदम् एतत् । ततो ऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्त्तते । अथ तेनात्मना ऽभेदः[357]। अवस्थावद् भेदप्रसङ्गो ऽवस्थातुः, तद्वद् अवस्थानाम् अभेदस्य वा । तयोर् अपि कथञ्चिद् भेदाभेदाव् इति चेत् । तयोस् तर्ह्य् अवस्थातद्वद् आत्मनोर् भेदवतोः कथञ्चिद् अभेदनिमित्तं रूपान्तरम् इष्टं स्यात् । {प्. 85.1} तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावाद् अत्यन्तम् अभेदाद् अवस्थातद्वतोः परस्परम् अत्यन्तं भेदाभेदौ प्रसज्येयाताम्[358]। रूपान्तरस्य कथञ्चिद्भेदे [स्. 88ब्.] तन्निबन्धनम् अपरं रूपम्, तथा ऽस्यापि तदन्यद् इत्य् अपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षम् अनुभवामः । अननुभवन्तश् च कथं तत्कल्पनया ऽऽत्मनैवात्मानं विप्रलभेमहि? । तस्माद् अवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच् च कथञ्चिद् भेदाभेदवतो ऽवस्थातुर् असत्त्वम् एव । ताश् चावस्था जनकाजनकस्वभावभेदवत्यः [त्. 266अ.] प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यव-सायि प्रत्यभिज्ञानं तद्बाधाम्[359]अनुभवत् कथं प्रमाणं स्यात्?, यतो बीजादीनां अङ्कुरादिजननस्वभावानाम् अपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य[360]हेतोर् अनैकान्तिकता भवेत् । भवतु वा ऽवस्थाता कश्चित्, तस्याप्य् एतद्[361]एव भेदं साधयति । तथा हि -- तयोः [त्. 264अ.]

जनकाजनकावस्थयोर् इति सप्तमीद्विवचनम् एतत् तदा भवति । तद् अयम् अर्थो -- जनकावस्थायाम् अजनकावस्थायां च वस्तुनः धर्मिलक्षणस्य भेद स्वभावनानात्वम् अत एव[ह्ब्टा 356,24] जनकाजनकस्वभावत्वाद् एव प्रत्यक्षावसितात् निश्चेयः[8,19] निश्चयलक्षणस् तत्र व्यवहारः कर्तव्यः, विषयस्य [स्. 89अ.] विरुद्धधर्माध्यासलक्षणस्य दर्शनाद् इति । न च शक्यते वक्तुम् -- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । [त्. 264ब्.] ततो यद् एकरूपतया प्रत्यभिज्ञानं भवेषु तत् पूर्वोत्तरकालयोर् जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनाम् अनुभवद्बाधां कथम् इव प्रमाणं स्यात्? । तत्प्रतिभासिनश् चाभिन्नरूपस्यालीकत्वे ऽक्षसमुद्भवाम् अपि वृत्तिम् अनुभवतो ऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियाम् इव कुतः प्रत्यक्षता? । न {प्. 86.1} चार्थक्रियानिबन्धनं रूपम-पास्य बीजादेर् अपरः परमार्थतः स्वभावो ऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः । तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्व् इवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त [स्. 89ब्.] एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतो ऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् । यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदा ऽस्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिम् अवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वाद् अपरं सादृश्यम् । भेदा ऽविशेषे ऽपि च स्वहेतुबलायात् अप्रकृतिवशात्

केचिद्[362]एवैकाकारपरामर्शप्रत्ययलक्षणाम् अर्थज्ञानादिलक्षणां वा ऽर्थक्रियां कुर्वन्ति नापर इति विपञ्चितंप्रमाणवार्तिक एवशास्त्रकृतेति नेह प्रपञ्च्यते ।

__________नोतेस्__________

[356] in tib. this passage -anupalabdhyā to tayoḥ (p. 85. line 15) is read after svabhāvaḥ (p. 86. line 22). [357] tadā [358] parasparayātyantaṃ bhedābhedau vastvantare prasajye- -- t. [359] pratyakṣa [360] yo hi yatsvabhāvaḥ ityādinā kathitasya | [361] pratyakṣam [362] rūpālokādayaḥ

[ सेच्तिओन्: 17. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः ।]

अवश्यं च बीजादेर् जनकाजनकावस्थयोर् वस्तुभेदो यथोक्तो ऽवगन्तव्य इति दर्शयितुम् अनुमानम् अभेदस्य [त्. 265अ.] बाधकम् आह -- भावानां बीजादीनां स्वकार्यजनको यः स्वभावः तस्य तेषु सत्सु अन्यथात्वाभावात्[8,21] कदाचिद् अजनकत्वासम्भवात् [स्. 90अ.] तत्स्वभावस्य अङ्कुरादिजनकस्वभावस्य पश्चाद् इव सलिलादिकारणसन्निधान इव प्राग् अपि कुशूलाद्यवस्थितिकाले ऽपि स्वकार्यजननप्रसङ्गात् । तथ हि -- सलिलादिसन्निधाने ऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण । यश् चास्य तदा [त्. 266अ.] कार्यजनकः स्वभावः, स चेत् प्राग् अप्य् अस्ति, `स एवायम्ऽ इति प्रत्यभिज्ञायां पुरो ऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किम् इति प्राग् अपि तत्कार्यं न कुर्याद् इति? । प्रयोगः -- यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्य् एव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः । यथा -- तद् एव बीजादिकं सलिलादिसन्निधिकाले । कुशूलाद्यवस्थास्व् अपि चेदं बीजादिकं स्वकार्यजननस्वभावम् {प्. 87.1} एव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान् न तज्जननस्वभावम् इति । विपर्ययप्रयोगः -- यद् यदा यज्जननस्वभावं(व) निर्वर्त्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद् यथा -- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यम् अजनयत् कोद्रवबीजम् । न जनयति च सलिलादिकारणसन्निधेः[363]प्राक् तत्कार्यजननस्वभावनिर्वर्त्त्यं [स्. 90ब्.] स्वकार्यं बीजादिकम् इति [त्. 266ब्.] व्यापकानुपलब्धिः । ततो ऽनुमानतो ऽपि बाधम् अनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? । ननु चानेन[364]बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम्? । अनिश्चितप्रमाणभावेन[365]कुतो बाधा? । नापि इतरेतराश्रयत्वम् । न हि प्रत्यभिज्ञानस्याप्रामाण्याद् एतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलान् निश्चित इति ।

__________नोतेस्__________

[363] च शाल्यादिका- -- त्. [364] प्रत्यभिज्ञानेन [365] उत्तरम्

[ सेच्तिओन्: 18. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः ।]

न प्रत्यक्षाद् अन्यद् गरिष्ठं प्रमाणम् इति चेत् । न । प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयम् अनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? । तद् ध्य् अर्थस्यासम्भवे ऽभावात् प्रमाणम् उच्यते तच् चानुमानस्याप्य् अर्थप्रतिबद्धलिङ्गजन्यतया समानम् इति नास्य कश्चिद् विशेषः । यदि चानुमानविरोधम् अश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदा ऽऽकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः[366][प्रतीतिः] किं न प्रमाणम्? । न हि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस् तथाभावम् अनुभवति । विस्तरतश् च प्रत्यभिज्ञाप्रामाण्यनिरासः [स्. 91अ.]क्षणभङ्गसिद्धाव् एव विहित इत्य् आस्तां तावद् इह । यतः एवम् उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर् वस्तुभेदः तस्माद् यो ऽन्यो ऽवस्थाविशेषो यदन्तरं अङ्कुरादिकार्यप्रसवः {प्. 88.1} स एवाङ्कुरजननस्वभावः, [त्. 267अ.] कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः । यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनाम् अवस्थाभेदानाम् अतज्जननभावत्वात् कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर् वा तदुपादानम्? इत्य् अत आह -- `पूर्वभाविनस् तुऽ कुशूलाद्यवस्थितिकालभाविनस् तु अवस्थाविशेषाअङ्कुरकारणस्यान्त्यस्यावस्थाविशेषस्य कारणानि प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया तेभ्यस् तदुत्पत्तेः । अतस् तेषूपचारतः कारणव्यपदेशो ऽङ्कुरार्थिभिश् चोपादानम् । यतस् तत्स्वभावस्य बीजादेर् जननं न हेत्वन्तरापेक्षम्, यच् चाजनकम् अपेक्षते न तस्य [स्. 91ब्.] तज्जननस्वभावत्वम् इति । तस्मान् नानेकान्तो बीजादिवत् `तत्स्वभावत्वात्ऽ इत्य् अस्य

हेतोः इत्य् उपसंहारः । तद् एवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैर् उच्यते बीजादिवद् अनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस् तत एकता भावानाम्?, यतो ऽनेकान्तः स्याद् इति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोर् एकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदा ऽयम् असिद्धो हेतुः । न च स पक्षे क्वचिद् वर्त्तत इत्य् आह -- क्षणिकेषु भावेषु अस्माभिर् इष्यमाणेषु एक्याभावाद् इति सम्बन्धः ।

__________नोतेस्__________

[366] गिरिकान्तका (?)-कन्नि- (?)

[ सेच्तिओन्: 19. तत्स्वभावत्वात् इत्य् अत्र पुनर् अपि अनेकान्तदोषोद्धारः ।]

अथ यस्यापि क्षनिका भावास् तस्यापि बीजादीनां [त्. 267ब्.] प्रतिक्षणम् ऐक्याभावे ऽपि विशेषानुपलक्षणाद् अन्त्यक्षणवत् सर्वेषां जनकस्वभावानाम् अपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थम् अनैकान्तिकत्वम् इत्य् आशङ्क्याह -- अपरापरोत्पत्तेः क्षणिकैर् अपि [स्. 92अ.] नानेकान्तः, अपरेभ्यो ऽपरेभ्यश् च प्रत्ययेभ्यः प्रतिक्षणम् उत्पत्तेः क्षणिकानां भिन्नशक्तित्वाद् अन्त्यक्षणवज् जनकस्वभावताविरहात् कुतस् तैर् अप्य् अनेकान्तः स्यात्? न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणे ऽप्य् अभिन्नस्वभावता युक्ता, हेतु {p.89.1} भेदाननुविधाने ऽहेतुकताप्रसङ्गात् । तथा च वक्ष्यति -- `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्य् अपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ इति । यद् उक्तं `तत्स्वभावस्य जननात्ऽ इत्य् अस्यानेकान्तम् उद्भावयन्न् आह परः -- ते बीजक्षित्यादयः अन्त्याः अन्ते भवाः प्रत्येकम् अङ्कुरजनने समर्थाः खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिर् इष्यन्त इति किन्न जनयन्ति प्रत्येकम्? । ततश् चैषाम् एक एव कश्चिद् अङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्तः । तद्वत् कुशूलाद्यवस्था अपि बीजादयो ऽङ्कुरादिजननस्वभावा अपि न जनयिष्यन्तीति तैर् अनेकान्तः [स्. 92ब्.] तदवस्थ एवेति मन्यतेपरः। अत्राह -- इति यद् एवं त्वं मन्यसे । परेण सामान्येनाभिधानात् सामान्येनैवोत्तरम् आह -- जनयन्त्य् एव [t.268a.] नात्र स्वकार्यजनने अन्यथाभावः अजनकत्वम् आशङ्कनीयम् । कुतः? स्वभावस्यावैपरीत्यात् । यदि हि न जनयेयुर् जननस्वभावा एव न स्युः । तत्स्वभावाश् चेष्यन्त इत्य् अवश्यं जनयन्ति, तथा च कुतो ऽनैकान्तः? इति भावः ।

[ सेच्तिओन्: 20. एकेनैव समर्थ्येन कार्यजनने परेषाम् अनुपयोगम् आशङ्क्य तदुद्धारः ।]

प्रत्येकम् अन्त्यानां जनकत्वे कार्यस्यैकेन जननाद् अपरेषाम् उपयोगस्य निर्विषयत्वाद् अजननम् एवेति मन्यमान आह परः -- तेषु अन्त्येषु सहकारिषु सह -- युगपत् करणशीलेषु समर्थस्वभावेषु तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु कार्यस्यैकेनैव जनितत्वात् को ऽपरस्योपयोगः? नैव कश्चित् । तत् किम् उच्यते `जनयन्त्य् एवऽ इति? । एतत् परिहरति -- `न वैऽ नैव भावानां बीजादीनां काचित् प्रेक्षापूर्वकारिता बुद्धिपूर्वकारिता, यतः प्रेक्षापूर्वकारित्वात् `अयम् अस्मास्व् अन्यतम् एको ऽपि समर्थः कार्यजनने, किम् अत्रास्माभिः कर्त्तव्यम्?ऽ इत्य् आलोच्य अपरे निवर्तेरन् [स्. 93अ.] {प्. 90.1} औदासीन्यं[367]भजमानास् तत्कार्यजनने न व्याप्रियेरन् । यस्मात् ते बीजादयो भावाः निरभिप्रायव्यापाराः पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने कार्ये सर्व एव व्याप्रियन्ते । भवनधर्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः । तदन्यस्यायोगात्[368]। यदि हि व्यापृताद् अन्य एव व्यापारः [त्. 268ब्.] तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वम् एव हीयते । तस्यासौ व्यापारः ततस् तस्य कारकत्वम् इति चेत् । नन्व् एवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात्[369]पारमार्थिकम् अस्य कारकत्वं हीयेत । कश् चास्य[370]व्यापारेण सम्बन्धः? । समवायश् चेत् । न । तस्य प्राग् एव निरस्तत्वात् । समवायाच् च व्यापारवत्त्वे अन्यस्यापि[371]तत्कार्यानुपयोगिनस्[372]तद्भावप्रसङ्गः[373], समवायस्येहेति बुद्धिहेतोर् एकत्वेन सर्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तद्व्यापारोत्पादनात् नातिप्रसङ्गः इति चेत् । ननु तेन[374]तदुत्पादनं[375]तत्र[376]समवायाद् एवोच्यते । स च [स्. 93ब्.] सर्वत्र

समानः । येन च परिश्रमेण व्यापारं जनयति तेन कार्यम् एव किन् नोत्पादयति? येन व्यवधानम् आश्रीयते । यथा च स्वसन्निधिमात्रेणैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत एव कार्यम्[377]अपीत्य् उक्तप्रायम् । तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स च सर्वेषां अस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते । तद् अपि कार्यंसर्वेभ्य एव जायते सर्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावम् अन्तरेणापरं जन्म । तथाभावे[378]हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत् । ततश् च सत्स्व् अपि कारणेषु कथम् अस्य भाव उपलब्धिर् वा स्यात्? । तत्सम्बन्धिनो जन्मनः करणात् इति चेत् । न । असता {प्. 91.1} तेन[379]सम्बन्धायोगात् । स्वत एव सत्त्वे वा [त्. 269अ.] जन्मार्थानुपपत्तेः । जन्मकाले चोपलभ्यस्यात्मनः[380]प्राग्[381]अपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण[382]भावे न [स्. 94अ.] तस्य भावः स्यात्[383]। रूपभेदलक्षणत्वाद् भावभेदस्य[384]। तस्माद् उपलब्ध्यात्मनो[385]जन्मनः प्रागनुपलम्भाद् असत्त्वम् । ततो ऽस्य[386]जन्मसम्बन्धिता कुतः? । तस्मात् कार्यम् एवाभूत्वा हेतुभावे भवतीति भाव एवास्य[387]ततो जन्मेति सर्वेभ्यस् तत् जायते । नन्व् एकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रापरेषां भावः सङ्गच्छत इति चेद् आह -- स्वहेतोः क्षितिबीजसलिलादिसामग्रीलक्षणस्य परिणामः कार्योत्पादानुगुणविशेषवतः प्रतिक्षणम् उपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः उपनिधिः कार्यदेशे सन्निधानं धर्मो

येषां ते तथाभवन्तः कार्यदेशे सन्निधीयमानाः नोपालम्भम् अर्हन्ति -- `एकस्याप्य् एतत्कार्यकरणे समर्थत्वात् किम् अत्र भवन्तः सन्निहिताः?ऽ इति न पर्यनुयोगम् अर्हन्ति । न हि तदपरसन्निधिम्[388]अन्तरेण तत्रैकस्यापि[389]भाव उपपद्यते । कुतः? तत्प्रकृते तत्प्रकृतित्वात् इति भावप्रधानो [स्. 94ब्.] निर्द्देशः । क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वाद् एकैकस्य समर्थस्य तद्भावे[390]कुतः केवलस्य सम्भवः[391]?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थ- स्वस्वलक्षणान्तरारम्भात् । ततश्[392]च प्रतिक्षणम् उपधीयमानातिशयस्योत्पादात् केवलानां [त्. 269ब्.] च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः । एतच् च यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावे ऽपि कारणवैकल्यान् न सम्भवतीत्य् एकसामग्रीजन्मनां सहभावो नियतः । सर्वेषां तेषां भाव एव कार्यस्य भावात् सर्व एव जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अत्र नानेकान्तः इति । {प्. 92.1} येनाभिप्रायेण `ते ऽन्त्याः समर्थाः किन् न जनयन्तिऽ इत्य् उक्तं तं प्रकटयन्न् आह -- समर्थाः इत्यादि । सिद्धान्तवाद्य् अपि `जनयन्त्य् एवऽ इति यदभिप्रायवतोक्तं तम् आदर्शयति -- न, तत्रैव इत्यादि । एतद् एव व्याचष्टे -- तस्यैव इत्यादि । [स्. 95अ.] अयम् अभिप्रायः -- `इदम् अत्र समर्थम्, इदम् असमर्थम्ऽ इति प्रत्यक्षानुपलम्भसाधनाभ्याम् अन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् । तौ चान्वयव्यतिरेकाव् एकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति

नापरापरजननम् । ते तु यदवस्था जनयन्तो दृश्यन्ते -- किं तज्जननस्वभावास् तदैव? आहोस्वित् प्राग् अपि? इत्य् अत्र विवादः । तत्र प्राग् अपि तत्स्वभावत्वे पश्चाद् इव प्राग् अपि जननप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति ।

__________नोतेस्__________

[367] `निवर्तेरन्ऽ इत्य् एतद् व्याख्याति [368] क्रियारूपस्य [369] व्यापारवति कारणे [370] व्यापृतस्य [371] घटादेः [372] अङ्कुर- [373] अङ्कुरजनन- [374] बीजा- [375] व्यापारोत्पाद- [376] बीजादौ [377] एव स्वसंनिधिमात्राद् एव का- -- त्. [378] अपरजन्मसद्भावे [379] कार्येण [380] कार्यसम्बन्धिनः [381] कार्यजन्मनि [382] अव्यक्तेन [383] अव्यक्ताद् अव्यक्तम् एव रूपं जातं यतः [384] अव्यक्तरूपाद् व्यक्तरूपं भिन्नम् एव [385] कार्यस्य [386] कार्य- [387] कार्य- [388] तदन्यतर- [389] कार्यदेशे [390] अपरसन्निधानाभावे [391] कुतः [392] नोपालम्भम् अर्हन्ति

[ सेच्तिओन्: 21. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैर् अनेकान्तस्योद्भावनम् ।]

पुनर् अन्यथाक्षपणकजैमिनीयाअनेकान्तम् उद्भावयन्त [त्. 270अ.] आहुः -- भिन्नः परस्परव्यावृत्तः स्वभावो येषां तेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः युगपत्कर्तृभ्यः एकस्य विज्ञानलक्षणस्य कार्यस्योत्पत्तौ सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्व् एकम् अभिन्नस्वभावम् इति न कारणभेदात् कार्यभेदःस्यात् । ततश् चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः । किन्त्व् अभिन्नम् एषाम् एककार्यजनकं सामान्यभूतं रूपम् उपेयं येनाभिन्नं कार्यं जनयन्ति । तच् च समग्रावस्थायाम् एव तत्कार्यं जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः [स्. 95ब्.] कदाचिद् अभावविरोधात् । न च तदा ऽस्या ऽजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थायोर् भेदप्रसङ्गात् । तथा च सामान्यात्मना हानिः । ततो यद् अस्य समग्रेषु चक्षुरादिषु जनकं रूपं तद् एकैकाभावे ऽपि विद्यते न च जनयतीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त इति ।

[ सेच्तिओन्: 22. सिद्धान्तवादिना दूषणोद्धारः ।]

सिद्धान्तवाद्य् आह -- न, यथास्वम् इत्यादि । एवं मन्यते -- किं पुनर् इदं कारणम् अभिमतं भवतः? । यदि प्रत्येकं चक्षुरादिकम्; {प्. 93.1} तद् अयुक्तम् । सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकम् एव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकम् एव चक्षुरादिकं कारणम् । [त्. 270ब्.] यद्य् एवं को ऽयं नियमो यदनेकस्माद् भवता ऽनेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं करोतीति कुतो ऽवसितम्? । तद्भावे भावात् इति चेत् । अनेकत्रापि समानम् एतत् । तद् उक्तम् -- तस्यैवैकस्य जनने समर्थाःनान्यस्य इति नापरापरजननम् इति । न चानेकस्माद् भवद् अनेकं प्राप्नोति । यतो नास्माकं भवताम् इव कारणम् एव [स्. 96अ.] कार्यात्मताम् उपैति, यतो ऽनेकपरिणतेर् अनेकरूपत्वात् कार्यस्यानेकता स्यात् । किन्तु अपूर्वम् एव केषुचित् सत्सु भवति । तच् चानेकभाव एव भावात् तत्कार्यम् उच्यते तस्य कुतो ऽनेकताप्रसङ्गः? । यत् त्व् अभिन्नं रूपं जनकम् उच्यते तस्यैकस्थिताव् अपि भावात् तत्कार्यजननस्वभावाच् च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वा न जनयेत् । तस्माद् येषु भावाभाववत्सु कार्यं भावाभाववद् दृश्टं त एव विशेषा जनका इति कुतो ऽनेकान्तः? । अथ सामग्रीं कारणम् आश्रित्योच्यते `न कारणभेदात् कार्यभेदः स्याद् इतिऽ, तन् न, यथास्वं यस्याः सामग्र्याः य आत्मीयः स्वभावस् तद्भेदेन तद्विशेषोपयोगतः तस्य -- विज्ञानलक्षणस्य कार्यस्य, विशेषाः -- सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः [त्. 271अ.] तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये

स्वभावविशेषाः -- कार्याणां विशिष्टाः स्वभावाः [स्. 96ब्.] तेषाम् असङ्करात् परस् परव्यावृत्तरूपत्वात् । सामग्रीभेदाद् भिन्नरूपतैव कार्याणाम् इति कथन् न कारणभेदाद् कार्यभेदः स्यात्? । तथा हि -- एका सामग्री मनस्कारतत्[393]साद्गुण्यादिलक्षणा[394], ततो विकल्पविज्ञानमात्रं[395]जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः[396]; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततो ऽप्य् अभ्रान्तविज्ञानसम्भूतिर् इति भिन्नसामग्रीजन्मनां {प्. 94.1} कार्यस्वभावविशेषाणाम् असाङ्कर्याद् अस्त्य् एव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति । ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषाम् उपयोगविषयस्यैकत्वात् कथम् असाङ्कर्यम्? । तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः । तदुक्तम् -- तत्रैवैकत्र सामर्थ्यात् इत्यादि । कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात् [स्. 97अ.] न भिद्यते कार्यम् । किं नु वै समग्राणाम् अन्यान्यकार्यजननेन जनकत्वम् यतस् तद्भावे तन् न स्यात् । जनकत्वं ह्य् एषां तद्भाव एव कस्यचिद् भावात् । तत्रैकस्यानेकस्य वा भावे तेषाम् एकानेकजनकत्वम् उच्यते ।

__________नोतेस्__________

[393] चारुत्वम् [394] देशकालादयः [395] अर्थाभावे ऽप्य् आन्तरो विकल्पः [396] मरुमरीचिकासु जलज्ञानम्

[ सेच्तिओन्: 23. एकसामग्रीजन्येष्व् अपि कार्येषु भेदोपपादनम् ।]

नन्व् एकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस् तु कथम्? । [त्. 271ब्.] तदतद्रूपहेतुजत्वाद् धि भावास् तदतद्रूपणि इष्यन्ते । तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोर् अपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर् विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? । आह च -- तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः। तद्रूपादि[397] किम् अज्ञानंविज्ञानाभिन्नहेतुजम् ॥ [प्व् 2.251] इति । नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस् तु स्वविज्ञानजननयोग्यस्य जन्मनि सहकारिकारणम् । एवम् इतरत्रापि यथायोगम् वाच्यम् । ततो ऽन्यादृशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादृशी च विज्ञानदेर् इति तद्वैलक्षण्याद् एव [स्. 97ब्.] कार्याणां वैलक्षण्यम् । स्याद् एतत् -- सर्वेषां अन्वयव्यतिरेकाव् अनुविधीयेते तदा चक्षुरादिक्षणैर् इति कुतो ऽयं भेदः -- इहोपादानभावे भेद(-भावेनेद)म् उपयुज्यते, अन्यत्र तु सहकारिभावेनेति? । बोधरूपतादेर्[398]{प्. 95.1} अनुकाराननुकाराभ्यां तद्भावे[399]व्यभिचाराव्यभिचारतश् च । तथा हि -- विज्ञानं मनस्कारस्य बोधरूपताम् अनुकरोति, न चक्षुरादेर् जरा(डा)दिभावम् । एवम् अन्यद् अपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये[400]च पूर्वभाविनश् चक्षुषो[401]न स्वविज्ञानयोग्यताहेतोः [त्. 272अ.] समनन्तरप्रत्ययस्य । एवंरूपस्यापि वाच्यम् । तस्माद् अवस्थाभेदे ऽपि यद् एकाकारपरामर्ष(श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादान-कारणं । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् । स चेयं भावानां स्वहेतुपरम्परायाता प्रकृतिर् यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्य् अपरं च सन्तानान्तरव्यपदेशनिबन्धनम् इति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच् चक्षूरूपविज्ञानक्षणानां परस्परतो [स्. 98अ.] वैलक्षण्यं न विरुध्यते ।

__________नोतेस्__________

[397] तत्सुखादि -- प्व् [398] उत्तरम् आह [399] कार्यभावे [400] -क्षणानन्तरोदये -- त्. [401] नियमेन व्यापार इति सम्बन्धः

[ सेच्तिओन्: 24. कारणानेकत्वे ऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः ।]

तस्माद् यदि `कारणभेदात्ऽ कारणानेकत्वात् कार्यस्य भेदः अनेकत्वं तदा प्रतिबन्धाभावाद् अनेकान्तः । न च तदभ्युपगम्यत इति न काचित् क्षतिः । अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदो ऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा[402]तस्येह[403]भावात् कथं न कारणभेदात् कार्यभेदः स्यात्? इति अभिप्रायवता `नऽ[404]कारणभेदात् कार्यभेदो न स्यात् । कुतः? । यथास्वम् इत्य् आद्य् अभिहितम् । उभयं[405]चैतत् कार्येषु प्रमाणपरिदृष्टम् इति दर्शयन्न् आह -- यथा इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वे ऽप्य् अनेकरूपता । नाऽपि सामग्र्यन्तरजन्याद् अभिन्नस्वभावतेत्य् उदाहरणार्थः । तत्र [त्. 272ब्.] सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति -- मृत्पिण्डात् इत्यादि । इह मृत्पिण्डकुलालसूत्राणि {प्. 96.1} व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्यो भिन्नस्वभावानि [स्. 98ब्.] यानि कार्याणि साधयन्ति तेभ्यो विलक्षणम् एव समग्राणि घटात्मकं कार्यं जनयन्ति । तथा हि -- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर् विलक्षणम् एवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः । कुलालादिसहितो ऽपि तदात्मकम् एव घटम् । तत्कारणाहितविशेषश् च केवलमृत्पिण्डाद् भिन्नस्वभावतया तत्कार्याद् अपीष्टकादेर् विलक्षणम् एव करोति । एवं कुलालादिकम् अपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यम् करोति तद्विलक्षणम् एव मृत्पिण्डसहितं तत्कारनाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपादानकारणतया मृत्स्वभावा न

भवन्ति वृक्षादयस् तेभ्यो भवति । कुलालात् मृत्पिण्डोपादानाहितातिशयात् सहकारिभावेनोपयुज्यमानात् तस्यैव घटस्य मृत्पिण्डोपादानतया मृदात्मनः सतः संस्थानविशेषः पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस् तदन्यनिमित्तसहित [स्. 99अ.] उपादानम् इष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । सूत्रात् मृत्पिण्डकुलालकारणाहितविशेषात् [त्. 273अ.] तस्यैव घटस्य मृत्संस्थानविशेषात्मनो मृत्पिण्डकुलालयोस् तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् तयोश्च[406]सूत्रकारणोपहितविशेषयोस् तन्निरपेक्षावस्थातो भिन्नात्मकतया चक्रादेर् विभक्तो विच्छिन्नः स्वभावो भवति तस्माद् अनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्माद् एकैककार्याद् द्विद्विकार्याच् च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परम् असङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः[407]सिद्धः । तस्य[408]चैकैकतदवस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशो ऽनुत्पादाच् च । तदेकैकजन्यत्वे ऽपि[409]वस्तुतस् तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य विशेषस्येतरसन्निधौ तद्दर्शनात् `तज्जन्यो ऽयम्ऽ[410]इति तत्त्वचिन्तकैर् विवेच्यते । यतः[411]{प्. 97.1} कार्यविशेषार्थिनो ऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् । यत [स्. 99ब्.] एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघट तद्विभक्तघटलक्षणानि कार्याणि भवन्ति तत् तस्मात् एवम् उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहिताद् अन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य,

मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः, तत्सामग्रीबहिर्भूतायाः संस्थान[त्. 273ब्.]विशेषः कुलालोपादानोपकृतताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् ।

__________नोतेस्__________

[402] वैलक्षण्यस्य [403] सामग्र्याम् [404] न इति सूत्रांशस्य व्याख्या `कारणऽ इत्यादि [405] कारणानेकत्वे कार्यस्यैकत्वम्, सामग्रीवैलक्षण्यात् कार्यवैलक्षण्यं च [406] मृत्पिण्डकुलालयोः [407] तेषां कारणानाम् उपयोगैः व्यापारैः कार्या ये स्वभावविशेषः तेषाम् [408] घटस्य [409] `तज्जन्यो ऽयम्ऽ इति तत्त्वचिन्तकैर् विवेच्यत इति सम्बन्धः [410] मृदादि- [411] विवेकात्

[ सेच्तिओन्: 25. सहकार्यनेकत्वे ऽपि कार्यस्य ऐक्यम् ।]

तद् एवं सामग्रीभेदाद् भेदं कारस्योदाहरणे प्रतिपाद्य सहकारिणाम् अनेकत्वे ऽप्य् अनेकात्मताविरहं प्रतिपादयन्न् आह -- न च तयोः मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य[412]तदन्यावस्थाविषयाद् भेदे सत्य् अपि यथा तदन्यस्माद् भेदः, एवं स्वभावेन न भेदः । स्वरूपतो ऽपि न नानात्वं नानेकात्मकता कार्यस्य । ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य । कथं पुनर् एत[द्] ज्ञायते `तदन्यस्माद् इव [स्. 100अ.] स्वभावतो ऽप्य् अस्य भेदो नास्तिऽ इत्य् अत आह -- मृत्संस्थानयोः इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनोः शक्तिविशेषविषयो मृत्संस्थानविशेषात्मको भेदस् तदन्यस्माद् इव स्वरूपतो भिद्येत तदा मृत्संस्थानयोर् अपरस्परात्मतया परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थानविशेषः, यथा तदन्यरूपेण । न[413]हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपम् अनुकर्तुं युक्तम्, {प्. 98.1} भ्रान्तताप्रसङ्गेन तद्वशाद् अर्थव्यवस्थानाभावप्रसक्तेः । तस्मात् मृत्संस्थानयोर् एकात्मतैवेति [त्. 274अ.] न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधाद् एकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणम् इयेत । [स्. 100ब्.] एतच् चैकसामग्र्यपेक्षयैककार्यकर्तृत्वम् उच्यते । परमार्थतस् तु तत्सामग्र्यन्तर्ग्गतानां सजातीयस्या ऽपि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिद् एकं नास्ति तथा ऽनेकप्रत्ययजनितम् अपीति कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिः । तत एककार्यापेक्षया ऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च ।

__________नोतेस्__________

[412] शक्तिविशेषविषयस्य [413] व्यतिरेकी

[ सेच्तिओन्: 26. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः ।]

ननु च मृत्संस्थानविशेषयोर् एकस्वभावत्वे ऽप्यह्रीकादिभिः सङ्ख्यादिभेदाद् भेद इष्यते तत् कथम् अनेकप्रत्ययजनितस्यैकत्वे एतद् उदाहरनाम् स्यात्? । सर्वत्रैव हि द्रव्यपर्याययोः सङ्ख्यासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच् चाभेद इष्यते, यथा घटस्य रूपादीनां च । तथा हि -- एको घटः रूपादयो बहव इति सङ्ख्याभेदः । घतः रूपादयः इति संज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यवन् नित्यं च, व्यावृत्तिलक्षणा [स्. 101अ.] भेदाः क्षणिकाश् च;जैमिनीयस्य तु [त्. 274ब्.] केचित् कालान्तरस्थायिनो ऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादिभिः पुनर्वस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्याययोः सङ्ख्यादिभिर् भेदः देशादिभिस् त्व् अभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकता ऽस्त्य् एव । यथा त्व् एकता[414]तथा ताभ्यां[415]तस्य अभिन्नात्मजन्यतैवेति यद् अनेककारणं तद् अनेकम् एव, यत् पुनर् एकं तत् सहकारिणाम् अभिन्नरूपजन्यतयैककारणम् एवेति न व्यभिचार इति । {प्. 99.1} तद् अयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा[416]भेदासिद्धेः अनेकस्माद् एककार्योत्पत्तेर् अभाधनात् । स्वभावतो भेदोपगमे वा ऽपरस्परात्मतया मृत्संस्थानयोः संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनं दुर्न्निवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्ख्यादिभेदाद् अपि नैव भेदः । न हि पररूपाः भिद्यमाना अपि सङ्ख्यादय आत्मभूतम् अभेदं बाधितुं समर्थाः । सङ्ख्याभेदस् तावद् असमर्थः, एकस्मिन्न् अपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य

नियमेनादर्शनाद् रूपादयो ऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचित् एकवचनं स्यात् । [स्. 101ब्.] सम्भवि धर्मिरूपमात्रम् अभिधेयत्वेन विवक्षितम् इति चेत् । न । तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोर् अप्रतीतिप्रसङ्गात् । व्रीहय इति च जातिवचने [त्. 275अ.] धर्मिणो रूपादीनां चानभिधानात् न किञ्चिद् उत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? । ततश् चैको गुरुर् इति सामानाधिकरण्य् अदर्शनात् पर्याया अप्य् एकसंख्याविषयाः । ते च पर्यायरूपेण भिद्यन्ते । तत् कथं संख्याभेदाद् भेदसिद्धिः? इति । संज्ञा ऽपि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिर् इति कुतस् ततो ऽर्थभेदः? । एकस्मिन्न् अपि संज्ञाभेददृष्टेः कथम् अस्य भेदनिमित्तता? । यथा इन्द्रः शक्रः पुरन्दरः इति । अत्रापि इन्दनात् शकनात् दारणाच् च शक्तिभेदो गम्यत इति चेत् । न । समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिर् एव इन्दति शक्नोति दारयति च । किं तर्हि? । धर्मिरूपम् अपि, तयोर् एकस्वभावोपगमात्, शक्नोत्यादिपदैस् तद्वाचिनां सामानाधिकरण्य् अदर्शनाच् च । न[417]चास्खलद्वूत्तिप्रत्ययविषयत्वाद् उपचारकल्पना युक्तेति । येषां च पर्यायाणां न काचिद् अर्थानुगममात्रा तत्र किं वक्तव्यम्? । लक्षणभेदो ऽप्य् अहेतुः असिद्धत्वात् । न ह्य् एको भावः क्वचिद् अप्य् अन्वयी सिद्ध इति । तथा हि -- न कूटस्थनित्यतया नित्यं {प्. 100.1} द्रव्यमह्रीकैर् इष्यते, परिणाम[स्. 102अ.]नित्यतोपगमात् । सा च पूर्वोत्तरक्षणप्रबन्धवृत्त्या । न ह्य् अस्य पर्यायाणाम् इवोच्छेदः तद्रूपेण[418], पर्याया [त्. 275ब्.] एव पर्यायरूपेण निरुध्यन्ते न तु

द्रव्यम् इति नित्यम् अभ्युपगम्यते । न चेयं[419]कूटस्थनित्यता वा द्रव्ये सम्भवति[420], पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् । पर्यायेष्व् एव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस् तत् ततो विलक्षणम् उपलक्ष्यते । कार्यभेदस् त्व् अस्मान् प्रति असिद्ध एव । रूपादीनाम् एव केषाञ्चित् तत्कार्यकर्तृत्वात्[421]। तथाप्य् अभ्युपग्यम्योच्यते -- कार्यं हि द्विविधम् । भिन्नकालम् अभिन्नकालं च । तत्र पूर्वं भवति भेदनिबन्धनम् यदीह सम्भवेत् । तत् तु न सम्भवति धर्मधर्मिणोस् तुल्यकालत्वात् । अभिन्नकालस् तु कार्यभेदे ऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयो ऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः । न च धर्मिरूपेण भिद्यन्ते, एकस्यानेककियाविरोधाभावाच् च । न ह्य् अत्र कारणम् एव कार्यात्मताम् उपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर् न स्यात् । किन्त्व् अपूर्वम् एव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणाम् इतरेतरोपादानाहितरूपभेदानां [स्, 102ब्.] सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानु[त्. 277अ.][422]विधानाद् अनेकक्रियोपगमो न विरुध्यते । यत एकक्रियायाम् अपि तस्य[423]तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायाम् अपि समानेति । ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषाम् अवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कतं {प्. 101.1}

तदन्यकार्यसम्भवः? । तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश् च विज्ञानम् एव न कुर्युः, तदन्यजननस्वभावत्वात् । नैष दोषः, तेषाम् अनेककार्यक्रियास्वभावत्वात् । तथा हि -- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षाणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभवता । न चातस् तेषाम् अनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्ययव्यावृत्तिम् उपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस् तथाभिधानात् । यथा [स्. 103अ.] रूपं सनिदर्शनं सप्रतिघम् इति । न ह्य् अत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तन्निमित्तानाम्[424]एकत्र[425]भावात् अदोष इति चेत् । न । तेषां[426]तदेकोपकारानपेक्षिणां तदयोगात्[427]। अपेक्षायां वा कथम् एकम् अनेक[त्. 277ब्.]कार्यं न स्यात्? । अनेकेनैवात्मनोपयोगात् इति चेत् । न । सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् । न च नीलादीनाम् आत्मभेदम् अध्यक्षम् ईक्षामहे[428]। नापि कार्यभेदाद् एवात्मभेदानुमानम्, प्रतिबन्दाभावात्, तद्ग्राहकप्रमाणाभावात् । प्रत्यक्षतो ऽनेककार्याणाम् अपि भावानाम् एकात्मतयैवोपलक्षणात् प्रदीपादीनाम् । नानुमानतः[429], तत्रापि विपर्यये बाधकप्रमाणाभावात् । एकस्यानेकक्रिया ऽनभ्युपगमे च यो ऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिन्ननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानाम्[430]अपि

तदेककारणानायत्तजन्मनां [स्. 103ब्.] नियतसाहित्यासम्भवात् । तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्यानेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तद्वद्[431]अनेकताया दुर्निवारत्वात् अन्यथा धर्मधर्मिणां कथं {प्. 102.1} नैकान्तिको भेदः? । तथा हि -- यम् आत्मानं पुरोधाया ऽयं धर्मी पर्यायाश् चैते इति व्यवस्थाप्यते, यदि तस्य भेदस् तदा भेद एवेति । अनेकस्याप्य्[432]एककार्यता न स्यात्[433]। न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकम् एव किञ्चित् क्वचित् जनयति । ततश् च सर्वत्र कार्यकारणभाव एवोत्सीदेत्, अनेकस्यैकस्य[434]चैकानेकक्रियाविरहात् प्रकारान्तराभावाच् च । नाप्य् अहेतुकम् एव विष्वम्, [त्. 276अ.] देशकालप्रकृतिनियमात्[435]। तस्माद् एकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानाम् एककार्यक्रियानियमो वा । ततश् च स्वसन्तानक्षणम् इतरोपादानं[436]च युगपद् उपकुर्वतः कथम् एकस्यानेककार्यता न स्यात्? । ततः कथं कार्यभेदाद् भेदः कल्प्येत? । द्रव्यपर्यायाणां चैकस्वभावताम् आचक्षाण [स्. 104अ.] एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः[437]?, स्वभावस्यैव[438]वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद[439]एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदम् अभिदधानः स्फुटम् अह्रीक एवायम् इत्य् उपेक्षाम् अर्हति ।

__________नोतेस्__________

[414] मृत्संस्थानयोर् देशादिभिः [415] मृत्कुलालाभ्याम् [416] संख्यादिभिः [417] शक्त्योर् भेदे ऽपि तदाधारस्यैक्याद् औपचारिकं सामानाधिकरण्यम् इत्य् आशङ्क्याह -- न च इत्यादि ॥

[418] dravyarūpeṇa [419] pariṇāmanityatā [420] -yaṃ pariṇāminityatā kūṭasthanityatāvat sambha- -- t. [421] dravyakāryakartṛtvāt [422] the order of the tib. fol. should be 275, 277, 276 and 278 according to the s. mss. [423] dravyasya [424] śabda- [425] avayavini [426] nimittānām [427] ekatra samavāyāyogāt [428] yathā bhavati [429] kāryabhedasyātmabhede pratibandha ity apekṣyate [430] rūpādipāścātyakṣaṇānām [431] rūpādivat [432] prakṛte dūṣaṇāntaram āha [433] ekasyānekakriyā 'nabhyupagame ceti pūrveṇa yogaḥ [434] pratyekam ekānekakriyāvirahaḥ [435] -kṛtipratiniya- -- t. [436] itara upādānaṃ yasya [437] notpannaḥ -- t. [438] svabhāvasyaiva bhedo vastuna iti ced āha [439] dravyaparyāyakāryabhedaḥ

[ सेच्तिओन्: 27. वैशेषिककृतो ऽप्य् एकस्यानेककार्यकारित्वाक्षेपो न युक्तः ।]

वैशेषिको ऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश् चैकस्य संयोगविभागसंस्कारनिमित्तताम्[440]एकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः । न चात्र शक्तिभेदो निबन्धनम्, यतस् तदेकोपकारनिरपेक्षाः कथम् एताः शक्तयो नियतार्थाधाराः?, न पुनर् अनवयवेन[441]व्यक्तीर् वा ऽश्नुवीरन्? । ततो यत[442]एवास्या[443]ऽऽत्मातिशायाद् अनेकशक्त्युपकार {p.103.1} तत एवानेककार्यक्रिया ऽपि, इत्य् अलम् अतिविस्तारिण्या कथयेति ।

__________नोतेस्__________

[440] -गविशेषसं- -- त्. [441] कार्त्स्न्येन [442] एकस्या- -- त्. [443] द्रव्यस्य

[ सेच्तिओन्: 28. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः ।]

देशकालस्वभावाभेदाद् अभेदस् तु यो ऽभ्युपगम्यते सो ऽप्य् अनुपपन्न एव । तथा हि -- देशकालयोर् अभेदे ऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः[444]कथम् अभेदसिद्धिः? । स्वभावो ऽपि यदि द्रव्यपर्याययोर् द्वयोर् अपि प्रत्येकम् अनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं [त्. 276ब्.] [स्. 104ब्.] स्याद् घटपटवद्, न त्व् एकं द्विरूपम् इति कथन् तस्माद् अभेदसिद्धिः? । न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोर् अनुवर्त्तमानव्यावर्त्तमानाधीनत्वात् । ततश् चानुवर्त्तमानव्यावर्त्तमानयोः स्वभावो ऽन्यो वक्तव्यः, न तु तयोर् अनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन[445]भवित्रधीनत्वात् । न हि स्मृतिः स्मर्त्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश् च स्वभावत्वे[446]लक्षणात् स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्य् अभेद इति यदि सादृश्यम् उच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश् च पदार्थद्वयम् एव स्यात् न त्व् एकं द्विरूपम् इति । अथैक्यं द्वितीयरूपरहितता ऽभेदो ऽङ्गीक्रियते कथं तर्हि द्विरूपता? । रूपशब्देन ह्य् अत्र स्वभावो ऽभिधीयते । तस्य चैक्ये कथं द्विरूपता? । विप्रतिषिद्धं ह्य् एतत् एकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्य् उच्यते अनेकः सन्? । न तावद् एककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः । नाप्य् एककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदा ऽभ्युपगमात् । एकाभिधानाभिधेयत्वाद् अपि नैकत्वम्, एकस्याप्य् अनेकपर्यायसम्भवात् । योग्यत्वाच् च विश्वस्य

कृताकृतानाम्[447]एकाभिधानाभिधेयत्वस्य क्वचिद् असम्भवात् शक्तिभेदाच् च विषयभेदं ब्रुवाणं [स्. 105अ.] प्रति अभिहितम्[448]। नाप्य् एकविज्ञानविषयत्वाद् एकम्, एकत्राप्य् अनेकविज्ञानप्रसूतेः । तथा हि -- शशाङ्कोदयं[449]बहवो निरीक्षन्ते [त्. 278अ.] तस्य कथम् {प्. 104.1} एकत्वम् अभ्युपगतम्? । बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनाम् एकताप्रसङ्गः । सर्वथेदं न कथञ्चिद् अपि सङ्गच्छते यदुत एकस्य द्वैरूप्यम् इति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टम् ख्याप्यते, न पुनर् अस्य भावतो[450]द्वे रूपे स्तः । अथ पुनर् द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवद् एकं शबलरूपत्वात् द्विरूपम् उच्यते । तद् अयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्य् अनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस् तस्य सिंहरूपः, अघोभागस् तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलम् उच्यते । [स्. 105ब्.] विचित्रता च नानास्वभावता । नानास्वाभाव्ये चैकत्वं कुतः? इति केवलम् अनेकत्वे ऽपि बहुष्व् एककार्यदर्शनात् सेनादिवद्[451]एकव्यवहारदर्शनकृतो ऽयं विपर्यासो जडमतीनाम् । तद् एवं तावत् प्रत्येकम् अहेतुत्वं देशकालस्वभावानाम् एकत्वप्रसाधने । समुदितानाम् अपि व्यभिचारित्वं पर्यायैः । तथा हि -- पर्याया अभिन्नदेशकालस्वभावाश् च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच् च धर्मधर्मिणोर् निषेधान्[452]नोभयवादसम्भव इति ।

__________नोतेस्__________

[444] देशकालाभेदात् [445] क्रियात्वेन [446] -त्वेन ल- -- त्. [447] संकेतितासंकेतितानाम् [448] संज्ञाभेदाद् भेद इत्य् अस्य दूषणावसरे [449] शशाङ्कादयः -- त्. [450] भवतो -- त्. [451] सेनावनादि- -- त्. [452] स्वभावहेतुव्याख्यायाम्

[ सेच्तिओन्: 29. द्रव्यपर्यायानेकान्तवादखण्डनम् ।]

आह च - द्रव्यपर्यायरूपत्वात् द्वैरूप्यंवस्तुनःकिल । तयोर् एकात्मकत्वे ऽपि भेदःसंज्ञादिभेदतः॥ 1 ॥ इन्द्रियज्ञाननिर्भासि वस्तुरूपंहि गोचरः। शब्दानांनैव, तत् केन संज्ञाभेदाद् विभिन्नता॥ 2 ॥ `परमार्थैकतानत्वऽ[453] [त्. 278ब्.] इत्यादिवचनात् तथा। शब्देनाव्यापृताक्षस्य बुद्धाव्[454] अप्रतिभासनात् ॥ 3 ॥ अर्थस्य, दृष्टाव् इव तच्छब्दाःकल्पितगोचराः। कल्पितस्यैव तद्भेदः[455] संज्ञाभेदाद् भवेद् यदि ॥ 4 ॥ {p.104.1} व्यावृत्तिभेदःकाश्चित्[456] स्याद्, वस्तुनो न कथंचन[स्. 106अ.] । संख्याभेदो ऽपि नैवान्यो मतो वचनभेदतः॥ 5 ॥ ततो[457]ऽपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता। `येषां[458] वस्तुवशावाचऽ[प्व् 3.64] इत्यादेर् न तु वस्तुनः[459] ॥ 6 ॥ भेद एव विशीर्येत तदेकाव्यतिरकतः॥ 19 ॥ {प्. 106.1}अभेदस्यापरित्यागे[466] भेदःस्यात् कल्पनाकृतः। तस्या[467]ऽवितथभावे वास्याद् अभेदे मृषार्थता॥ 20 ॥ अन्योन्याभावरूपाणाम् अपराभावहेतुकः। एकभावो यतस् तस्मान् नैकस्य स्याद् द्विरूपता॥ 21 ॥ तस्य भेदो ऽपि ताभ्यांचेद् यदि येनात्मनाच ते । धर्मीधर्मस् तदन्यश्च यदि भेदस् तदात्मना॥ 43 ॥ भेद एवाथ तत्रापि तेभ्यो ऽन्यःपरिकल्प्यते । तेषाम् अभेदसिद्ध्यर्थंप्रसङ्गःपूर्ववद् भवेत् ॥ 44 ॥ धर्मित्वंतस्य चैवंस्यात् तत्तन्त्रत्वात् तदन्ययोः। अत्रवैशेषिकमतम् आशङ्क्याह -- अन्यद् एव इत्यादि । संस्थानं ह्य् अवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः । ततो मृद्द्रव्याद् अस्यान्यत्वं [स्. 108अ.] द्रव्यगुणयोर् असंकीर्णस्वभावत्वात्[473]। तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते,

तदा तयोर् अत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तम् इति । सिद्धान्तवाद्य् आह -- उक्तम् अत्र इति । मृत्संस्थानयोः स्वभावभेदे दूषणम् उक्तम् {प्. 108.1} मृत्संस्थानयोर् अपरस्परात्मतया इत्यादिकम् इति न संस्थानस्य मृद्द्रव्याद् अन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलम् एव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्य् अनेकत्वम् अस्य । अत्रैवोपचयहेतुम् आह -- अपि च [त्. 280ब्.] इत्यादि । यत् तद् घटगतं संस्थानं यदि तत मृदो भिन्नंस्यात् तदा कुलालः पृथग् एव किम् इति न करोति? । न हि भिन्नानाम् आवश्यकम् अपृथक्करणम्, कुलालश् चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति स पृथग् अपि तत् कार्यात् । पर आह -- गुणस्येतिआदि । द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष [वैसू 1.1.16] इति गुणलक्षणात् सर्वदा [स्. 108ब्.] गुणो द्रव्यप्रतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? ।वैशेषिक एवबौद्धीयंचोद्यम् आशङ्क्याह -- तत्संस्थान इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य क्रियावद् गुणवद् [वैसू 1.1.15] इत्यादिवचनाद् आधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किम् इति कुलालव्यापारम् अपेक्षते? । स्वत एव किं न भवति? इति चोदकाभिप्रयः । एवं चोद्यम् आशङ्क्यवैशेषिकःपरिहारम् आह -- न, ततः इत्यादि । यत् तत् मृद्द्रव्यं पृथुवुध्नोदराद्याकारं च संस्थानं तयोर् यः सम्बन्ध आधाराधेयलक्षणः तत्र या योग्यता तां द्वयम् अप्य् एतत् कुलालाद्

यतः प्रतिलभते तस्मात् कुलालम् अपेक्षते कुलालानपेक्षायां दोषम् आह -- अन्यथा यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य [त्. 281अ.] तथाविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश् च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मता ऽस्तीति कुलालसन्निधेः प्राग् अपि संस्थानविशेषेण सम्बन्धः स्याद् इतिवैशेषिकीयश्चोद्यपरिहारः ।

__________नोतेस्__________

[473] द्रव्यसंस्थानयोर् यथाकार्यस्वभावत्वात् -- त्.

{प्. 109.1}[ सेच्तिओन्: 31. द्रव्यगुणयोर् अभेदस्योपपादनम् ।]

सिद्धान्तवाद्य् आह -- एवम् इत्यादि । यदि [स्. 109अ.] परस्परसम्बन्धयोग्यतायां कुलालम् अपेक्षते एवं तर्हि सायोग्यतामृद्द्रव्यस्य कुलालाद् भवति इति[474]आपन्नम् । न च अनयोः मृद्द्रव्ययोग्यतयोः स्वभावस्य भेदः नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं प्राग्वत् प्रसज्येत । अथ योग्यताया अपि योग्यपारतन्त्र्याद् अपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्राग् अपि समावेशो मा भूद् इति द्रव्येण सह सम्बन्धयोग्यताया अन्या योग्यता कुलालाद् भवतीत्य् एष्टव्या । सा ऽपि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस् तद् एवोत्तरम्, इत्य् अनवस्थाप्रसङ्गाद् अवश्यम् अभिन्नस्वभावता कपालात्मममृद्द्रव्ययोग्यतयोर् अभ्युपगन्तव्या । किम् एवं सति सिद्धं भवति? इत्य् अत आह -- अस्ति तावत् इत्यादि । मृत्पिण्डकुलालाभ्यां कपालद्रव्यस्य [स्. 109ब्.] संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्य् एकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश् च किम् अस्माकं मृत्संस्थानयोर् एकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? । [त्. 281ब्.] यदि योग्यताम् अप्य् आश्रित्यानेकप्रत्ययजन्यत्वे ऽप्य् एकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुणवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वाद् इत्य् अभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोर् अपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गात् इत्य् अनयोपपत्त्या साधितम् एवानयोर् एकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेर् अन्यथा ऽपि भावाद् इत्य् आचष्टे ।

__________नोतेस्__________

[474] इत्य् उपपन्नम् -- त्.

[ सेच्तिओन्: 32. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः ।]

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.