Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तद् एवं सामग्रीभेदात् [स्. 110अ.] सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणाम् अनेकत्वे ऽपि च कार्यस्यैकत्वम् अविरुद्धम् इति प्रतिपाद्य {प्. 110.1} उपसंहरन्न् आह -- तेन सहकारिणः इत्यादि । येन -- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच् च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरम् एव जनयति; एकसामग्रीव्यपदेशविषयाणां च सह-कारिणाम् अनेकत्वे ऽप्य् अनेकस्यैकक्रियाविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश् च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम् -- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्ग्गताः प्रत्ययाः सामग्र्य्-अन्तरैः सह नैकोपयोगविषयाः एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैर् एव सह भिन्नोपयोगाविषयत्वस्य न्यायबलात् प्रतीतेः । अनेन यत् प्राग् विकल्पितं `यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदाद् अस्त्य् एवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किम् उच्यते -- न कारणभेदाद् भेदः [त्. 282अ.] स्यात्ऽ इति एतद् उदाहरणोपदर्शितं निगमितम्[475]। अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदाद् अनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच् चेति मृत्संस्थानयोर् एकात्मकतोपदर्शितं [स्. 110ब्.] निगमयति -- `कार्यस्वभावस्यऽ मृत्संथानात्मन `एकत्वे ऽपिऽ नानात्वाभावे ऽपि `वस्तुतःऽ परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर् भिन्नयोर् इव प्रतिभासने ऽपीति । एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदाद् अनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ

योजयन्न् आह -- यथाइहोदाहरणे कारणभेदः सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो `भिन्नेषुऽ नानास्वभावेषु `विशेषेषुऽ[476]इष्टकादिचक्राविभक्तघट तद्विभक्तघटलक्षणेषूपयोगान् नैककार्यः किन्तु भिन्नकार्य एव, तथा तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्य् उन्नेयः । {p.111.1} एतद् एव विभजन्न् आह -- तथाहि इत्यादि । या चक्षूर् उपरहिता समनन्तरप्रत्ययाख्यविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य [त्. 282ब्.] विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । तस्यैव चक्षुर्विज्ञानस्य । किदृशस्य? । उपलम्भात्मनःसतो भवतः जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् [स्. 111अ.] समनन्तरप्रत्ययोपादानोपकृतात् ततो रूपग्रहणप्रतिनियमो रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं(व)[477]कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । विषयाद् विषयाधिकात्[478]समनन्तरप्रत्ययाद् इन्द्रियाच् च तेन विषयेण तुल्यरूपता न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यम् एवं प्रदर्शितम् । तद् अन्यद् एकद्वयजन्यं तु कार्यं स्वयम् अभ्यूह्यम् । अत्राभिन्नत्वे ऽपि वस्तुतः कार्यस्य चक्षुर्विज्ञानलक्षणस्य कारणानां विषयेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानाम् एषां यः स्वभावस् ततो भिन्ना एवातज्जन्येभ्यो[479]विधिशे(-न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षना भवन्ति ।

अतज्जन्यापेक्षया[480]चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् इति तस्मात् न कारणभेदे ऽपि । [स्. 111ब्.] यथैकसामग्र्यन्तर्ग्गतप्रत्ययभेदे ऽप्य् अभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्य् अभेदः सामग्र्यन्तरस्जन्येभ्यः कार्यविशेषस्य विशिष्टस्य कार्यस्येति । तेन यदुच्यते -- [त्. 283अ.] `यदि सहकारिणां भेदे ऽप्य् अभिन्नं कार्यं भवति सामग्रीभेदे ऽप्य् अभिन्नम् अस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदाद् अपि किम् इति भिन्नं न भवति विशेषाभावात्?ऽ इति तदपास्तं भवति । तथा हि परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् एककार्योद्देशेनेतरेतरसन्तानोपकाराच् च सहकारिणां प्रतिनियतशक्तीनाम् उदयाद् एकं कार्यं समाजायते[481]। {प्. 112.1} सामग्र्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिर् इति कुतो विशेषाभावः? ।

__________नोतेस्__________

[475] -णोपदर्शनात् निग- -- त्. [476] विषयेषु -- त्. [477] एव -- त्. [478] -धिकारात् -- त्. [479] एव तज्ज- -- त्. [480] अतो जनकापेक्षया -- त्. [481] कार्यं न जायते -- त्.

[ सेच्तिओन्: 33. जनकत्वम् एवाधारत्वं न तु स्थापकत्वम् ।]

ननु च सर्वं कार्यं साधारं[482]यथा उपादायरूपम् । तद् धि भूतेभ्यो जायमानं तान्य् एवाश्रयत[483]इति भवद्भिर् इष्यते । तथा ऽन्यद् अपि विज्ञानादिकं कार्यम् । अतो ऽनेनापि किञ्चित् कारणम् आश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् [स्. 112अ.] कार्यं प्रत्याधारभाव एव, न जननम्, ततस् तत्स्वभावस्य जननाद् इत्य् अनेकान्तः तदवस्थ एवेत्य् अत आह -- त एवैते ये ऽनन्तरम् उक्ताः कारणशक्तिभेदाः कारणानां शक्तिविशेषाः । कीदृशाः? यथास्वं येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं [त्. 283ब्.] प्रतिबन्धुम् अशक्या शक्तिर् येषां तद्भावस्[484]तया अव्यवधेयशक्तितया अवश्यं कार्यकारिशक्तितया प्रत्युपस्थिताः उद्युक्ताः सन्तः सामग्रीकार्यस्य एकप्रत्ययजनितस्य कस्यचिद् अभावात्[485]सर्वं सामग्र्या एव कार्यम् इति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्य् उच्यन्ते । कस्मात् पुनर् अव्यवधेयशक्तिता? क्षणिकत्वात् । न हि क्षणिकस्य शक्तिः प्रतिबन्धुं शक्यते, स्वभावान्तरोत्पादने यावत्[486]प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् । कथं पुनर् असमानकालं कारणम् आधारो युज्यते?, इत्य् अत आह -- तथाहि इत्यादि । यस्मात् तत् विज्ञानलक्षणं कार्यं तेभ्यः चक्षुरादिभ्यः समस्तभ्यो बोधरूपतया तदन्यस्मात् तदजन्यात् [स्. 112ब्.] प्रतिविशिष्टस्वभावम् एकं खण्डशः कार्यस्यानुत्पादाद् एकैकस्मात् सकलस्यैव भावाद् एकं जातम्, तस्मात् ते आधारा उच्यन्ते । न हि जनकाद् अन्य एवोपकारकः । न चानुपकारक {प्. 113.1} आधारः, अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यद् अपि भूतानाम् उपादायरूपं प्रत्याश्रयत्वम्[487]उच्यते तद् अपि स्वदेशस्यास्य जनकत्वम् एवेति न किञ्चित् प्राग् जनकं भूत्वा पश्चात् स्थापकताम् उपैति[488], यतो ऽनेकान्तः स्याद् इति ।

__________नोतेस्__________

[482] साधनाधारम् -- त्. [483] -मानम् अन्यम् एवाश्रयते -- त्. [484] स्वभावस् -- त्. [485] क्वचिद् अप्य् अभावात् -- त्. [486] -न्तरम् आश्रित्य या- -- त्. [487] प्रवृत्तित्वं -- त्. [488] स्थापनाहेतुर् भवति -- त्.

[ सेच्तिओन्: 34. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् ।]

पुनर् अन्यथा तत्स्वभावस्य जननाद् इत्य् अनेकान्तोद्भावनं परस्याशङ्क्याह -- अप्रतिरोधशक्तिकेषु अविद्यमानः प्रतिरोधः -- प्रतिबन्धो यस्याः शक्तेः सा येषाम् [त्. 284अ.] अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्य् उत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्याद् अपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरम् एव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणाम् उपघातकाभावम् आह । अनुग्राहकविरहम् अप्य् आह -- अनाधेयविशेषेषु । तच् चानाधेयविशेषत्वं क्षणिकेषु इत्य् अनेनाह । न हि क्षणिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा [स्. 113अ.] च तस्य निरोधात् । तेष्व् एवंविधेषु प्रत्ययेषु परस्परंकःसहकारार्थः येन सहकारिण उच्यन्ते? । नन्व् अनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किम् अर्थम् इदम् अप्रतिरोधशक्तिकेष्व् इति? । न हि शक्तिप्रतिरोधकः सहकारी भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थम् एतद् उक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्माद् अतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धम् एव जनकत्वम् । तच् चैवं विधं सर्वदा ऽस्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननाद् इत्य् अनेकान्त एवेति मन्यते । एतत् परिहरति -- न वै नैव अतिशयोत्पादनं[489]सहक्रिया यतस् तदभावात् सहकारिणो न स्युः । क्व पुनर् अतिशयोत्पादनं सहक्रिया प्रतिययानां न भवति? । सर्वत्र । न हि क्वचिद् अपि सहभाविनाम् अतिशयोत्पादनलक्षणा[490][त्. 284ब्.] सहक्रिया {प्. 114.1} सम्भवति । का तर्हि सहक्रिया? इत्य् आह -- एकार्थकरणम् एककार्यनिष्पादनं यद् बहूनाम् । अपि सम्भावनायाम् । [स्. 113ब्.] न्यायबलाद् एवंविधाम् एव सर्वत्र सहक्रियां सम्भावयामः, नान्याम् इति । अत्रोदाहरणम् -- यथाअन्त्यस्य अनन्तराङ्कुरादिकार्यस्य कारणकलापस्य प्रत्ययसामग्र्या इति ।

__________नोतेस्__________

[489] -योपादानम् -- त्. [490] -योपादान- -- त्.

[ सेच्तिओन्: 35. एककार्यकारित्वम् एव मुख्यं सहकारित्वम् इतरत् तु गौणम् ।]

स्याद् एतत् -- औपचारिकम् एतत् सहकारित्वम्, अतिशयोत्पादनम् एव तु मुख्यम् इत्य् अत आह -- तद् एव एककार्यकारणलक्षणं मुख्यंसहकारित्वम् नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच् चोत्तरत्र वक्ष्यते । कुत एतत्? इत्य् आह -- तस्यैव अन्यस्य विवक्षितकार्यं प्रति कारणत्वात् । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह -- युगपत् सर्वन्तः सहकारिण उच्यन्ते, अन्त्यश् च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकारणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्य् अवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात् सर्वं कार्यम् अङ्कुरादिकं विशेषलक्षणं वा ऽनेकप्रत्ययजन्यम् इति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनम् इति । स्याद् एतत् -- एकार्थकरणम् अपि तत्र [स्. 114अ.] सहकारित्वम् अस्तु अतिशयोत्पादनलक्षणम् अपीत्य् अत आह -- तत्र च क्षणे ऽन्त्ये विशेषस्य कर्त्तुम् अशक्यत्वात् नातिशयोत्पादनम् अपि सहकारित्वम् । कुतो विशेषस्य [त्. 285अ.] कर्त्तुम् अशक्यत्वम्? इत्य् अत आह -- एकस्य अनंशस्य स्वभावस्याविवेकात् । न हि तत्र `अयम् अनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिर् आहितातिशयःऽ इति विवेको ऽस्ति । यदि नामाविवेकः, विशेषस् तु किम् इति न क्रियते? इत्य् अत आह -- स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः, निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? । स्यान्मतम् -- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्य् अत आह -- भावान्तर- इत्यादि । यदि भावान्तरलक्षणो विशेषो {प्. 115.1} भवेत् तदा तस्यान्त्यत्वम् एव हीयेत ।

हीयेनां(हीयतां) को दोषः? इति चेत्; ततश्च अनन्त्यत्वात् न साक्षात् कारणंस्यात् । यत एवं तस्मान् न कारणस्य मुख्यस्य सहकारिभ्यः सकाशाद्[491]विशेषस्योत्पत्तिः इत्य् एकार्थक्रियैव सहकारित्वम् इति । नन्व् असत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यम् एषां न युज्यत इत्य् अत [स्. 114ब्.] आह -- ते समर्थाह् इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिर् अभ्युपगम्येत । यावता ते ऽन्त्याःस्वभावेनैव समर्थाःप्रत्ययाःसहिताजायन्ते क्षणमात्रविलम्बिनो । येषाम्[492]एकक्षणनियतत्वात् ततः प्राक् पश्चात् पृथक् त्व् अभावो नास्ति । येभ्यश्चानन्तरम् एव कार्यम् उत्पद्यते न कालान्तरेण तत्र तेष्व् एवंविधेषु एकार्थक्रियैव सहकारित्वम् नातिशयोत्पादनलक्षणम् । स्वभावतः सामर्थ्यस्य [त्. 285ब्.] भावविरोधात्, परस्परतश् चानभ्युपगमात् समर्थस्य जन्मैवायुक्तम् इति मन्वानः परः आह -- समर्थःकुतः इत्यादि । सिद्धान्तवाद्य् आह -- स्वकारणेभ्यः इति । परमतापेक्षया तु स्वभावत इत्य् उक्तम् । परो ह्य् अत्यन्तस्य (ह्य् उत्पन्नस्य)[493]कारणस्य सहकारिभ्यः सामर्थ्यम् इच्छतीति तन्निषेधपरं[494]स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज् जायते, तस्याहेतुकत्वप्रसङ्गात् ।

__________नोतेस्__________

[491] साक्षाद् -- त्. [492] -लम्बिनो जन्मनस् तेषां -- त्. [493] ह्य् उत्पाद[क]स्य -- त्. [494] तन्निषेधाय परं -- त्.

[ सेच्तिओन्: 36. क्षणिकेष्व् एकार्थक्रियानियमस्य यवस्थापनम् ।]

एकार्थक्रियानियम एव क्षणिकानाम् अयुक्तः, केवलानाम् अप्य् अंत्यक्षणसरूपाणां दर्शनात् । तथा हि -- `इदम् एवंरूपं नैवं चऽ इति दर्शनादर्शनाभ्यां [स्. 115अ.] विभज्यते । तत्र यादृशाः क्षित्यादयस् तदन्यप्रत्ययसन्निधाव् उपलभ्यन्ते तादृशा एव केवला अपि । ततस् तदन्यसहिता इव केवला अपि समर्थम् अङ्कुरजनने स्वं स्वं क्षणान्तरम् आरभेरन् । ततः केवलस्याप्य् अङ्कुरादिजननस्वाभाव्याद् अजननाच् च `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त एवेति मन्यमानः पर {प्. 116.1} आह -- तानि स्वकारणानि क्षितिबीजादीनि एनं समर्थम् अपरस्य अन्यस्य प्रत्ययस्य सन्निधान एव किं कस्मात् अनयन्ति? न केवलानि?, सहितानाम् एव सर्वदा सम्भवात् इति चेत् आह -- कदाचित् कस्मिंश्चित् काले अन्यथाऽपि केवला अपि स्युः भवेयुः । तथा हि -- दृश्यन्त एवाध्यातिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । [त्. 286अ.] जनयन् तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेद् आह -- ततश्च केवलानाम् अपि समर्थजनकानां सम्भवात् एको ऽपि न केवलम् अनेकः क्वचिद् देशादौ [स्. 115ब्.] समर्थः उत्पन्नः क्षितिबीजादिर् अङ्कुरादिकार्यं जनयेत् यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्त इति परः । एतत् परिहरन्न् आह -- अपरापर- इत्यादि । अपरैश् चापरैश् च कुशूल तदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः प्रत्ययैर् यो योगःतेन कारणेन प्रतिक्षणंभिन्नशक्तयो न कदाचित् पूर्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्य् अभिन्नशक्तितायाम्[495]अहेतुकत्वप्रसङ्गात् ।

अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् । संस्काराः समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः सन्तन्वन्तः सन्तानेन भवन्तो यद्य् अपि कुतश्चित् साम्याद् वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्याद् एकाकारपरामर्शप्रत्ययजननलक्षणात् समानं रूपम् एषाम् इति सरूपाः सदृशाः प्रतीयन्ते प्रत्यभिज्ञायन्ते तथापि कृत्रिमकृत्रिमाणां इव मणिमुक्तादीनाम् अपरापरप्रत्यययोगलक्षणसामग्रीभेदाद् भिन्न एव विसदृश एव न प्रत्यभिज्ञानवशाद् अभिन्नः तुल्यरूप एषां बीजादीनां स्वभावः [त्. 286ब्.] यत एवं तेन भिन्नस्वभावत्वेन भिन्नशक्तितया वा ऽपरापरसामग्रीजन्यत्वेन क्षणानां सिद्धया किञ्चिद् एव क्षितिबीजादिकं कस्यचिद् एव कार्यस्याङ्कुरादेस् {प्. 117.1} तज्जननसमर्थस्य वा कारणम् । न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादिनाम् अङ्कुरजननस्वभावता समर्थक्षणजननस्वभावता वा नास्त्य् एवेति तत्स्वभावस्य जननाद् अजनकस्य चातत्स्वभावत्वाद् इत्य् अत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भवे हेत्वन्तरम् अपेक्षत इत्य् अत्रानेकान्तः स्याद् इति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदाद् अनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणाम् इति । पूर्वं च `अत एवान(एव त)योर् अवस्थयोर् वस्तुभेदो निश्चेयःऽ इत्य्[496]आदिना [स्. 116ब्.] एकत्वाविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयम् इति भेदः । एतद् अपि तत्र `अपरापरोत्पत्तेःऽ इत्य्[497]अनेनोक्तम् एव । विपञ्चनार्थं[498]तु पुनः इह उपन्यस्तम् ।

__________नोतेस्__________ [495] -भेदेपि भिन्न- -- त्. [496] प्. 84, 5 [497] प्. 88, 24 [498] विषयनिवेदनार्थम् -- त्.

[ सेच्तिओन्: 37. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् ।]

किञ्चिद् एव कस्यचित् कारणम् इत्य् उक्तम् तत्र किं कस्य कारणम् इति शक्यपरिच्छेदम् अप्य् आध्यात्मिकेषु तावद् दर्शयन्न् आह -- तत्र -- इत्यादि । तत्र तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं -- व्यवधीयते येन, तदादिर् येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना[499]यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, [त्. 287अ.] रूपम् इन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः[500]स चासौ कारणकलापश् च सामग्रीलक्षणस् तथोक्तः, अव्यवधानादिदेशश् चासौ रूपेन्द्रियादिकारणकलापश् च स विज्ञानजनने समर्थो हेतुः नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच् च समर्थासमर्थव्यवस्थायाः । यस् तेषाम् इन्द्रियादीनां परस्परोपसर्प्पणस्य अन्योन्यढौकनस्य । आदिग्रहणाद् व्यवधानापनयना ............ [स्. 117अ.] ............................................................................................................... [स्. 117ब्.] ............................................................................................................... [सा]मग्र्यधीनत्वेनासंभवाद् इति । {प्. 118.1} इमम् एवंविधं [स्. 118अ.] हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मकेषु दर्शितम् [त्. 288अ.] अन्यत्राप्य् अतिदिशन्न् आह -- अनेन न्यायेन इत्यादि । यो ऽयम् अनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽअन्यत्रा ऽपि सर्वत्र द्रष्टव्यः । सर्वत्रेति वचनात् अक्षणिकेष्व् अपि प्रतीतिर् म्मा भूत् इत्य् आह -- प्रतिक्षणम् इत्यादि । याः क्षणे क्षणे ऽन्याश् चान्याश् च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायम् एकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्व् अपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्य् एकग्रहणम् । क्षणे ऽप्य् एकत्वम् अस्तीति स्थिरग्रहणम् ।

__________नोतेस्__________

[499] अव्यवधीयमाना -- त्. [500] सत्पे- -- त्.

[ सेच्तिओन्: 38. अक्षणिके एकार्थक्रियाकारित्वस्याभावः ।]

कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्य् आह -- स्वभाव- इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश् च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यत इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः, तदापि क्रिया ऽनुपपन्ना, सर्वदैव न कुर्याद् इति भावः । यत् तु कदाचित् करोति कदाचिन् न [स्. 118ब्.] इत्य् एतन् न लभ्यते । ततश् चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोर् एकरूपत्वात् केवलानाम् अपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं [त्. 288ब्.] सहकारित्वं सम्भवेत्? । अत्र पर आह -- अन्यसहितः इत्यादि । यद्य् अपि केवलस्याप्य् अक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयम् अपि ह्य् अस्य स्वभावः यद् -- `अन्यसहितेन स्वकार्यं कर्त्तव्यम् न समर्थस्वभावेनापि सता केवलेनऽ इति । सिद्धान्तवाद्य् आह -- किंकेवलस्य इत्यादि । अन्यसहितेनैव स्वकार्यं कर्त्तव्यं न केवलेन इत्य् एतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस् त्व् अनवगताभिप्राय आह -- समर्थ इति । केवलस्याप्य् अक्षणिकस्य समर्थ एव {प्. 119.1} स्वभावः अन्यथा ऽस्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्य् आह -- किन् न करोति इति । न हि समर्थस्याक्रिया, सहितस्यावस्थायाम् इव युज्यत इति सहितस्यैव क्रियाम् इच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या । अथ मतम् -- केवलस्य यदि शिरश् छिद्यते तथापि न करोतीत्य् अत आह -- अकुर्वन् इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिद् अपि

कार्यक्रिया ऽस्तीति कथं सामर्थ्यं कल्प्यते? । नायं नियमः यत् समर्थस्वभावेनावश्यम् एव कार्यं कर्त्तव्यम्, अन्यथा ऽपि दर्शनात् इति मन्यमान [स्. 119अ.] आह परः -- कुविन्दादयः इत्यादि । सिद्धान्तवाद्यपसन्न् आह -- क्रीडनशीलः इत्यादि । देवानांप्रियः ऋजुः मूर्खो वा [त्. 289अ.] सुखसंवर्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्व् अनभियोगम् । यो ह्य् अनभियुक्तो दुर्वुद्धिश् च स कृतम् अपि वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः कारयतीति पुनः प्रतिविधापयति । क्व पुनर् एतत् प्रतिविहितम्? इत्य् आह -- तथाहि -- इत्यादि । `बीजादिवद् अनेकान्तःऽ इत्य्[501]अनेन प्रस्तावेन निर्ल्लोठितम् एवैतत् । तद् एवम् अक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्यक्रियास्वभावत्वविरोधात्[502]केवलस्याक्रिया[503]ऽनुपपन्नेति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्स्वभावस्य कार्यक्रियासमर्थस्य अन्यथात्वासम्भा(म्भ)वात् कदाचिद् असमर्थत्वाभावात्[504]तद्धर्मणः कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया अन्त्यावस्थावत् सहितावस्थायाम् इव अनिवार्यः ।{120}

__________नोतेस्__________

[501] प्. 83, 15 [502] -स्यैवैककार्य- -- त्. [503] -स्य क्रिया- -- त्. [504] -चिद् अप्य् असम्- -- त्.

[ सेच्तिओन्: 39. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः ।]

स्यान्मतम् -- केवलो ऽयम् अक्षणिको ऽसमर्थ एव । ततः केवलो न [स्. 119ब्.] करोति, सहितावस्थायां त्व् अस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्य् अत आह -- अन्त्यावस्थायांसामर्थ्योत्पत्तौ कीदृशस्य प्राग् असमर्थस्य सतः तस्य सामर्थ्यस्य यस्य तदुपजायते तत्स्वभावत्वेमीमांसकादिभिर् {120} इष्यमाणे । न हि तेषां समर्थ्यस्य सामर्थ्यस्य[505]च स्वभावभेदो ऽभिमतः । कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वाद् इति ते मन्यन्ते । अपूर्वोत्पत्तिर् एव सा [त्. 289ब्.] अपूर्वस्यैव वस्तुनः सा उत्पत्तिर् या तत्स्वभावस्य सामर्थ्यस्य । न ह्य् एकस्वभावत्वे सामर्थ्यम् एवापूर्वम् उपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । ननु प्रतीयमाने एव सामर्थ्यतद्वतोर् उत्पत्त्यनुपत्ती एकस्वभावता च कथं निह्नोतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निह्नोतव्याः । बाधकप्रमाणसम्भवात् ते ऽपह्नूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुपत्ती परस्परविरुद्धे बाधिके किं नेष्येते? । व्यवस्थितस्यैव वज्रोपलादेर् द्धर्मिणः [स्. 120अ.] तत्स्वभावं सामर्थ्यम् उत्पन्नम् इति च पूर्वापरकालयोर् अप्रतिभासमानविवेकः कथं प्रतीयात्? । विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्राग् असत् तत् सामर्थ्यम् उत्पन्नं क्रमवच् चेति निश्चय इति चेत् । यद्य् एवम् एकाकारतया पूर्वापरकालयोर् अधि(वि)कृतं प्रत्यभिज्ञानम् उपजायमानम् अपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्य्[506]अप्य् अनुमानाद् अर्थापत्तितो वा बाधाम् अनुभवन् न प्रमाणम् इत्य् उपगतं स्यात् । तथा, उत्पत्त्यनुत्पत्त्योर् एकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः[507]सदृशापभावग्रहकृतश् चार्वाग्दर्शनानाम् एकत्वविभ्रमो लूनपुनर्ज्जातेष्व् इव केशनखादिष्व् इति किं नेष्यते? ।

__________नोतेस्__________

[505] तेषां सामर्थ्यस्यासाम- -- त्. [506] -रहित- [507] -स्यैवाननुभूतपूर्व- -- त्.

[ सेच्तिओन्: 40. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः ।]

अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणम् एवेत्य् अतत्स्वभावम् इति नापूर्वोत्पत्तिप्रसङ्ग [त्. 290अ.] इतिनैयायिकादयो मन्येरन् अत्राह -- अतत्स्वभावत्वे सामर्थ्यस्येष्यमाणे स बीजादिः पदार्थः[508]प्राग् इव तद्रूपापरित्यागात् पश्चाद् अप्य् अकारक एव । {प्. 121.1} कुतः? । सामर्थ्यम् इत्य् आख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इतिनैयायिकैर् अभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । ते ऽपि सहकारिणः प्रत्ययाः यद्य् अक्षणिकाः तेष्व् अप्य् एवं [स्. 120ब्.] प्रसङ्गो ऽनिवारित एवेति क्षणिकतैवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वम् इच्छतो ऽभ्युपेया । पुनर् अप्य् अक्षणिकानाम् एकार्थक्रियाप्रतिनियमं निराकर्तुम् उपचयहेतुम् आह -- अपि च इत्यादि । यो ऽसाव् अक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? । येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्राग् अपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः । काचान्यामृग्यते युक्तिःयथातद् दृश्यते तथा इति सर्वत्रेयम् अप्रतिहता युक्तिर् इति मन्यमानःकुमारिलःप्राह -- कुर्वन् दृष्टः इत्यादि । यतस् तदैव कार्यं कुर्वम्(न्)[509]दृष्टो मया तेन दर्शनबलेन करोतीति ब्रूमः, किम् अत्रान्ययोपपत्त्या [त्. 290ब्.] ऽभिहितया[510]?, प्राक् तत् कुर्वन् न दृष्टः तेन न करोतीत्य् एकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानाम् अपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदम् उत्तरं सम्बध्यत इत्य् उपहसन्न् आह -- अहो

महासामर्थ्यम् इत्यादि । महाप्रभावस्य भवतो महासामर्थ्यं दर्शनम्, यस्माद् एतद् भावान् कार्यकरणस्वभावविकलान् अपि -- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतद् एवोत्तरं किं नोक्तम्?, यतः [स्. 121अ.] कार्यकरणे दर्शनम् उत्तरीकृतम् इति कृत्वा -- स्वभावमात्रेण आत्मसत्तामात्रेण नानाप्राकारेषु व्यापारेषु नियुङ्क्ते तत् कथं महासामर्थ्यं न स्यात्? । न चात्र मे काचिद् अक्षमा[511]किन्तु यदि नाम किञ्चित् कारनं कथञ्चिद् अनादृतस्य वा व्याक्षिप्तस्य वा अत्रभवत इति पूजावचनम् {प्. 122.1} दर्शनस्य विषयताम् अतिक्रामेत् तदा हन्त इति दैन्योद्भावनम् एतत्, अप्रसवो धर्मो ऽस्य तद् इदम् -- अप्रसवधर्मकं ततो ऽपेतसन्तानं स्याद् इति इयम् अस्माकं चिन्ता चित्तं दुनोति । पर आह -- न वै वयम् इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां भावानाम् अस्मद् दर्शनवशात् काऋयक्रियांब्रूमः, किन्तु स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । तान् पश्यन्तःकेवलंजानीमहे त[512]एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायाम् इति। सिद्धान्तवाद्य् आह -- सत्यम्, इदम् अप्य् अस्ति । किं वयं न्यायानुरागितया न्याय्यं [त्. 291अ.] वचनम् उपलक्षयामः, उत भवान् एव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन् न्याय्यम् उक्तवान् इति सञ्जातपरितोषः पृच्छति -- किं तद्? इत्य् आह -- स्वभावस् तेषां भावानां कार्यक्रियाधर्मा कार्यकरणधर्मा तेन कारणेन समस्ताह् समग्राः प्रत्ययाः सहकारिणो येषां तेषाम् अकृत्वा कार्यं नोपेक्षापत्तिः नौदासीन्य् अप्रतिपत्तिः इति सत्यम् -- इदम् अप्य् अस्ति भवतो

न्याय्यं वचनम् इति, किन्तु इदम् असि प्रष्टव्यः -- [स्. 121ब्.] सो [ऽक्षेप]क्रियाधर्मास्वभावःकिंतेषांतदैवान्त्यावसथायां समग्रावस्थायां यदनन्तरं कार्यम् उत्पद्यते तदैव उत्पन्नः? आहोस्वित् प्राग् अपि परस्परविरहावस्थायाम् अपि आसीत्? । तत्र तदैवोत्पन्ने तत्स्वभावत्वे ऽपूर्वोत्पत्तिर् एव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह -- आसीत् । कुतः? प्रच्युतश् च उत्पन्नश् च प्रच्युतोत्पन्नः[513], तस्य प्रतिषेधः अप्रच्युतो ऽनुत्पन्नः स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले कस्यचित् स्वभावस्य तत्रोपलब्धस्य अभावविरोधात् । क्षणिकेष्व् एव ह्य् एकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्व् इति । {प्. 123.1} अत्राह -- तत् किम् इदानीम् इत्यादि । स्यान्मतम् -- नैवेदम् अनेन वाक्येन सदृशम् अस्मद् वाक्यम् इत्य् आह -- को वाऽस्य इत्यादि । यद्य् एतद् अनेन तुल्यं [त्. 291ब्.] न भवति तदा सकलसहकार्यवस्थायाः[514]प्राग् अपि अयम् अक्षेपक्रियास्वभावः अविलम्वितकार्यकरणस्वभावः कार्यंच न करोतीत्य् अस्य भाषितस्यार्थो वक्तव्य इति । नैयायिकास् तु मन्यन्ते -- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायम् अप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि [स्. 122अ.] न प्राग् अपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतम् आशङ्कमान आह -- सहितः इत्यादि । एतन् निरस्यति -- अन्यस् तर्हि इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद् भवति? इत्य् अत आह

-- स्वभावभेद इत्यादि । स्वभावभेद एव हि भावभेदस्य लक्षणम् । स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनाम् इव कथं इव भावभेदो न स्यात्? । न हि स्वभावाद् अन्यो भावः यतस् तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् । ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास् तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?,[515]तस्यापरापेक्षस्वभावभेदलक्षणत्वात्[516]इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि । तदैतद् उत्तरं भावत्कं सम्बध्येत[517]यदि भावो यो ऽसौ परः सहकारित्वाभिमतः [त्. 292अ.] सन्निधीयते तद्रूपेण कर्त्ता स्यात् न स्वरूपेण । न चैतद् अस्ति, तथाभावे हि परमार्थतः स एव परः[518]कर्त्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः [स्. 122ब्.] कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन् यो ऽर्थक्रियाः । न हि माणवको दहनोपचाराद् आधीयते पाके । ततश् च नास्यानुपकारिणो भावम् अपेक्षेत कार्यम् इति तद्रहितेभ्य एव {प्. 124.1} सहकारिभ्यो भवेत् । यद् वा तेभ्यो ऽपि न भवेत् । तेषाम् अपि पररूपेण कर्तृत्वे स्वयम् अकारकत्वात् । ततः सर्वेषाम् एवं स्वयम् अकारकत्वे पररूपेणाप्य् अकारकत्वात् सर्वथा कारकोछेद एवेति न किञ्चित् कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्त्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततो ऽन्यः सहितो ऽन्यश् च केवलः इत्य् एतद् अविचलम् एवेति । अथ येन स्वरूपेणायं जनकस् तद् अस्य सहितासहितावस्थयोः सर्वदा ऽस्ति तदा स्वरूपं च स्वकार्यजनकम् अस्य स्थिरस्वभावस्य प्राग् अपि सहितावस्थायास् तद् एव यत्सहितावस्थायाम्

अक्षेपक्रियास्वभावम् इति तस्मात् न कथंचित् कार्यक्रियाविरामः । अथवा कदाचित् परो ब्रूयात् स्वहेतुभिर् एवायं प्रत्ययान्तरापेक्षः [त्. 292ब्.] स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः [स्. 123अ.] सर्वदा भावात् इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्राग् अपि भावात् प्रत्ययान्तरापेक्षायाश् च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वाद् अस्य, अन्यथा ऽतिप्रसङ्गात्, केवलस्य कार्यकरणम् अनिवार्यम् इति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्य् अपि पररूपेणाकारस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्राग् इत्य् अयम् अर्थः । ततश् च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रुवता कथं सर्वदा कार्यजननस्वभावता ऽस्योक्ता भवति? । नन्व् एवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान् नाक्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वम् इति स्थितम् । परः समानदोषताम् आपादयन्न् आह[519]-- यस्यापि इत्यादि सुबोधम् । यदि नाम क्षणिकस् तथापि किन्न भवति? इत्य् आह -- उक्तंयादृशस्य सहकारिभिर् अपृथग्भाविनः क्रिया । `ते[520]{प्. 125.1} समर्था [स्. 123ब्.] एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां [त्. 293अ.] प्राक्पश्चात्पृथग्भावो नास्तिऽ इत्य् अत्र । स कथम् एकक्षणभावी एकस्मिन्न् एवान्त्ये क्षणे भवनशिलः अन्यथाभवेत् अन्त्यक्षणात् प्राक् पश्चात् पृथग् वा भवेत्? यश्चा अन्यथा भवति स एवान्त्यक्षणभावी

सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा[521]न भवतीति नायम् अक्षणिकपक्षोदितः प्रसङ्गः[522]क्षणिकपक्षे । कुतः? । कारकाकारकयोः इत्यादि । कारको ऽन्त्यः अकारकस् तदन्यः तयोर् यः स्वभावः स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुर् उपान्त्यः, अकारकस्यापि यो हेतुस् तदन्यः स भिन्नो ऽप्य् अभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर् यौ स्वभावौ तयोर् एकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर् जनकौ यौ हेतू -- एकः कारकस्वभावजनको ऽन्यश् चाकारकस्वभावजनकः -- तयोर् अप्य् एकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोर् उत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् यश्च भवति स एव न भवतीति नायंप्रसङ्ग इति । __________नोतेस्__________

[508] -दिः समर्थः पदा- -- त्. [509] तद् एवैकम् अर्थं कुर्वन् -- त्. [510] किम् अत्र न्यायोपपत्त्या दृष्टया -- त्. [511] अक्षमता -- त्. [512] केवलं न जनयन्ति । त -- त्. [513] कर्मधारयो ज्ञेयः । [514] -कारिकार्याव- -- त्. [515] भावभेदस्य [516] भावभेदस्य अपरापेक्ष[स्वभावत्वे] यः स्वभावभेदः तन्निमित्तत्वात् । [517] संवाद्यते -- त्. [518] परस्य -- त्. [519] तां विवक्षन्न् आह -- त्. [520] प्. 115.6 [521] -भावापेक्षक्रि- -- त्. [522] दोषः -- त्.

[ सेच्तिओन्: 41. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः ।]

अपरस् त्व् अन्यथा स्थिररूपेष्व् एकार्थाक्रियाप्रतिनियमं [स्. 124अ.] कल्पितवान् तम् उपन्यस्यति यो ऽपि मन्यत इत्यादि । भावस्य ह्य् अक्षेपक्रियाधर्मैव[523]सर्वदा स्वभावः[524], न तु [त्. 293ब्.] यथा केचिद् ब्रू(ब्रु)वते -- सहकारिसन्निधानापेक्षा वस्तूनां कारकस्वभावव्यवस्था, न स्वत इति । स्वतो ऽकारकात्वे पररूपेण कारकत्वायोगात् कारकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश् च केवलः कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं(स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलाद् अभावात्, तेनात्र कार्यम् एवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतया ऽवस्थिते ऽपि प्रत्ययान्तराण्य् अपेक्षत इति । ततः {प्. 126.1} तदात्मनः कार्यस्य सहितेभ्य एव भावाद् एकार्थक्रियालक्षणं सहकारित्वम् अक्षणिकानाम् अप्य् उपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रमम् अस्य दर्शयन्न् आह -- तस्यापि एवंवादिनाः कथंस नित्याभिमतो भावः केवलःकरोत्य् एव `अक्षेपक्रियाधर्मैव स तस्य स्वभावःऽ इति [s.124b.] वचनात् । कार्यं च सहितेभ्य एव भवति, `सामग्रीजन्यस्वभावत्वात् तस्यऽ इति वचनात् । तस्मात् केवलान् न भवतीति तदवस्थो विरोधो यः पूर्वम् उक्तः. तथा हि -- यद्य् अक्षेपक्रियाधर्मा तदा ऽवश्यम् अनेन कार्यं कर्तव्यम् न चेद् अवश्यं करोति कथम् अक्षेपक्रियास्वभावः । अक्षेपेण कार्यदर्शनाद् अक्षेपक्रियास्वभावता ऽवगम्यते [त्. 294अ.] नान्यथा इति पराभिप्रायाशङ्कया ऽऽह -- न केवलः इत्यादि । नैवं

मयोक्तं केवलः करोत्य् एवेति किन्त्व् अक्षेपक्रियास्वभाव इति । अत्राह -- कथम् इदानीम् इत्यादि । यदि करोत्य् एवेति नेष्यते कथम् अक्षेपक्रियास्वभाव इति कथ्यते? । अथ तथोच्यते तदा नन्व् एतद् एवानेन वचसापरिदीपितम् अभिहितं भवति । किं तत्? । करोत्य् एवेति । स एव ह्य् अक्षेपक्रियास्वभावो यः करोत्य् एव, यस् तु नावश्यं करोति स कथं तद्रूपः स्यात्? । यद् अप्य् उक्तं `कार्यस्यैवायम् अपराधो यत् तस्मिं(स्मिन्) जनकतया ऽवस्थिते प्रत्ययान्तराण्य् अपेक्षतेऽ इति तद् अप्य् अयुक्तम्, यतः कार्यं चायम् अक्षणिको भावः केवलो ऽपि समर्थःसन् परं प्रत्ययान्तरम् अपेक्षमाणंकथम् उपेक्षेत? नैव । अनुपेक्षमाणेन किं कर्त्तव्यम्? । आह -- परं प्रत्ययान्तरम् अनादृत्य तिरस्कृत्य एतत् [स्. 125अ.] कार्यं प्रसह्य हठात् कुर्यात् । क एवं सत्य् अस्य गुणो भवति? इति चेत्, आह -- एवंहि परम् अनादृत्य हठात् स्वकार्यं कुर्वताऽनेन केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि सामर्थ्यं तद् दर्शितं प्रकाशितं भवति । अन्यथा ऽन्यसहितस्यैव करणात् केवलस्य च कदाचिद् अप्य् अकरणात् न `अयं केवलो ऽपि समर्थःऽ इति परेषां बुद्धिः स्यात् । ततो ऽयं तिरस्कृतप्रभाव[525]इव कथं भ्राजेत[526]? । तस्माद् अयुक्तम् उच्यते कार्यं [त्. 294ब्.] प्रत्ययान्तरापेक्षम् इति । {प्. 127.1} कार्यापेक्षया ऽपि विरोधस्य तादवस्थ्यं दर्शयन्न् आह -- कार्यंपरम् इत्यादि । कार्यस्य परापेक्षां ब्रुवन् केवलात् कारणाद् अनुत्पत्तिम् अस्य[527]कथयसि, `स केवलो ऽपि समर्थःऽ इतीदं वदंस् ततः केवलाद् उत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । तत एवैकस्मात् कारणाद् उत्पत्त्यनुत्पत्ती

परस्परविरुद्धे कथम् एकत्र कार्याख्ये धर्मिणि स्याताम्? विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रुवाणो `माता च वन्ध्या चऽ इत्य् अनेन सदृशं ब्रूष इति न [स्. 125ब्.] पूर्वोक्तदोषान् मुच्यसे, यत एवम् अपि ब्रुवाणो विरुद्धम् एव ब्रूते न च लक्षयति तत् तस्मात् अयम् अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो यमीर्ष्याशल्यवितुद्यमानमर्मा वराको ऽस्वस्थचित्ततया विरुद्धाभिधानम् अप्य् अलक्षयन् विक्लवम् आकुलं पूर्वापरासम्बद्धं विक्रोशति विरोदिति इति कृत्वा अस्वस्थचित्तवचनेष्व् अनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् उपेक्षाम् एव विपश्चितानां(-श्चितां) कृपाधनानाम् अर्हतीति । तद् एवम् अक्षणिकेषु न कथञ्चिद् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं [त्. 295अ.] सम्भवतीति प्रतिपाद्योपसंहारन्न् आह -- तस्माद् इदम् इत्यादि । येषां हि स्थिररूपतया पृथग् अपि भावः सम्भवति तेषाम् अक्षणिकानां पृथक् केवलानां कार्यकरणसम्भवेन हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगाद् इदम् एकार्थक्रियालक्षणं सहकारित्वं [स्. 126अ.] क्षणिकानाम् एव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथग् असम्भवात् ।

__________नोतेस्__________

[523] अपेक्षक्रिया- -- त्. [524] धर्मः -- त्. [525] -प्रसाव -- त्. [526] भजेत -- त्. [527] अवश्यं -- त्.

[ सेच्तिओन्: 42. क्षणिकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था ।]

ननु अतिशयोत्पादनलक्षणम् अपि सहकारित्वं भावेषु दृश्यते तत् कथम् उक्तं प्राक्[528]`सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनाम् एकार्थकरणम् एवऽ इत्य् अत आह -- यत्र तु सन्तानोपकारेण {प्. 128.1} इत्यादि । एकार्थक्रियालक्षणम् एव सहकारित्वं सर्वत्र न क्वचिद् अतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजननेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश् चाङ्कुरादिजन्मनि पृथिव्यादयः -- तत्र विशेषोत्पादने प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो[529]द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यम् आशृ(श्रि)त्य [त्. 295ब्.] पूर्वोत्तरक्षणयोर् एकत्वाध्यवसायेन तस्यैवायम् अतिशय इति न द्रव्याश्रयेण । औपचारिकम् एव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस् तु [स्. 126ब्.] स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणम् एव तत्र परमार्थतः सहकारित्वम् इति न काचित् क्षतिर् इति । कस्माद् द्रव्याश्रयेणातिशयोत्पादनं नेष्यते? । क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् । यदि तर्हि क्षणिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरम् अप्य् असौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवम् अक्षणिका अपि । तेनैषाम् एकार्थक्रियालक्षणम् एव सहकारित्वं भविष्यति । न च शक्यं वक्तुम् -- यो यस्य प्राग् अकारकः स्वभावः स पश्चाद् अपीति । तथा हि --

प्रभास्वराद् अपवरकं प्रविष्टस्येन्द्रियम् अर्थप्रतिपत्तिम् अकुर्वद् अपि पश्चात् कुर्वाणम् उपलभ्यते । तद् उक्तम् -- न हि प्रविष्टमात्राणाम् उष्णाद् गर्भगृहादिषु । अर्थान प्रतिभान्तीति गृह्यन्ते नेन्द्रियैःपुनः॥ [श्ल्व् प्रत्यक्ष- 126] इति । अत आह -- न हि तण्डुलादीनाम् इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्य् असन्निधानतुल्यत्वात् [स्. 127अ.] दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । [त्. 296अ.] तथा प्रभास्वराद् अपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्राग् इव पश्चाद् अप्य् अर्थप्रतिपत्तिं नैव जनयेत् । {प्. 129.1} तस्माद् यद् असम्भवि कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वम् एव, शालिबीजाद् इव कोद्रवबीजस्येति निरतिशयाद् अन्यत्वम् एव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणम् औपचारिकं सहकारित्वम् एकार्थक्रियालक्षणम् एव तु मुख्यं तत्रापीति प्रतिपादितम् । यत्र त्व् अक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयम् अतिशयोत्पादनम् अस्ति? इत्य् अत आह -- अक्षेपकारिषु इत्यादि । `ये ह्य् अव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास् तेष्व् अविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ इत्य् उक्तं [स्. 127ब्.] प्राक् । यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणी भवन्ति? इत्य् अत आह -- तत्र यथास्वं यस्य ये आत्मीयाः प्रत्ययाः तैः, परस्परोपसर्प्पणव्यवधानादिविरहादेराश्रयभूतैर् ये जाताः योग्यश् चासाव् अत्यासन्नत्वातिविप्रकर्षविरहाद् देशश् च स आदिर् यस्याव्यवहितदेशादेः

तत्रावस्थानम् अवस्था येषां ते सह स्वभावनिष्पत्त्या [त्. 296ब्.] स्वभावनिष्पत्तिर् विद्यत[530]इत्य् एव कृत्वा ज्णानहेतुतांप्रतिपद्यन्ते तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? । यदि हि स्वहेतुभ्य एव परस्परोपसर्प्पणाद्याश्रेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानाम् उत्पत्तौ । यत एवम् इति तस्मात् तत्र तेषु अक्षेपकारिष्व् इन्द्रियादिषु एकार्थक्रियैव मुख्यं सहकारित्वं न सन्तानाश्रयेण [स्. 128अ.] व्यवस्थाप्यमानम् अतिशयोत्पादनलक्षणं गौणम् इति । अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? । तद् अपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयम् एवेत्य् अत आह -- यत्र तु कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु {प्. 230.1} विवक्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषम् उत्पादयन्तः तत्र कालक्षेपभाविनि कार्ये कर्त्तव्ये हेतुसन्तानो ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्य् अपेक्षते, न तु तत्समानकालः कारणक्षण इति । ततस् तेभ्यः कारणान्तरेभ्यः स्वभावान्तरस्य कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य प्रतिलभ्यः सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थस् तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे [त्. 297अ.] विशिष्टक्षणे प्रतिनियत इत्य् एकार्थक्रियालक्षणम् एव सहकारित्वम् अनुभवति । कथाम् पुनः स्वभावान्तरप्रतिलम्भस् तेषाम्?, यतः क्रमेण कार्यं निर्वर्त्तयन्तीत्य् अत आह --

तत्र स्वरसतः इत्यादि । तत्र तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास् तेषां ये पूर्वे [स्. 128ब्.] प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्त्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावद् अत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्य् एवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिर् इति । अत्र परश् चोदयन्न् आह -- सहकारिणः सह करणशीलात् कारणात्, जाताव् एकवचनम्, यत् समुत्पन्नविशेषम् अनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर् न स्यात् प्रथमक्षणोपनिपातिनां [त्. 297ब्.] परस्परतो विशेषानासादनात् क्षणानाम् अविवेकात् अनभ्युपगमाच् च । परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषम् आरप्स्यन्त इति चेद् आह -- अविशिष्टाद् अविशिष्टेभ्यः परस्परतो {प्. 131.1} विशेषस्य कार्योत्पादानुगुणस्योत्पत्ताव् इष्यमाणायां कार्यस्य अङ्कुरादेः स्यात्, विशेषाभावाद् इत्य् अभिप्रायः । ततश् च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः [स्. 129अ.] कार्यं कुर्वीरन् । किम् एवं सति सिद्धं भवति? इति चेत्, आह -- तेन येन क्षणिका अपि परस्परतो विशेषोत्पादा ऽनपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं

प्रतिपद्यन्ते तेन कारणेन अक्षणिकानाम् अपि कारणतास्यात्, अपेक्षणीयेभ्यःस्वभावातिशयोत्पत्तिश्च न स्यात् इत्य् अक्षणिकवादी क्षणिकपक्षेण[531]स्वपक्षस्य साम्यमापादयति । यद् आह -

__________नोतेस्__________

[528] प्. 113.27 [529] पूर्वपूर्वक्ष- -- त्. [530] मिद्यते -- त्. [531] क्षणिकापेक्षणात् -- त्.

कःशोभेत वदन्नेवंयदि न स्याद् अह्नीकता। अज्ञतावायतःसर्वंक्षणिकेष्व् अपि तत्समम् ॥ विशेषहेतवस् तेषांप्रत्ययान कथञ्चन । नित्यानाम् इव युज्यन्ते क्षणानाम् अविवेकतः॥ इति । तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते -- येन यस्याभिसम्भन्धो दूरस्थस्यापि तेन सः। इति न्यायाद् धि दूरदेशवर्त्तिनाम् अपि हेतुफलभावात् इत्य् आशङ्क्याह -- अथ सहकारिणा इत्यादि । सहकारिणः [त्. 298अ.] परस्परसम्पर्क्कविकला अपि वस्तुधर्मतयैवान्योन्यम् उपकुर्वन्तीति सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्क्ककाल उपतिष्ठेत, एवं [स्. 129ब्.] सत्य् अनवस्था स्यात् । तथा हि -- तद्विशेषोत्पत्ताव् अप्य् अपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्ताव् अप्य् अन्य इति । अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषनिमित्तम् अपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्य् अत आह -- न च इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने नित्यं सर्वकालं योग्यावस्था येन योग्यावस्थत्वेन नित्यानुशक्तः नित्यानुबद्धः एषां क्षितिबीजादीनां {प्. 132.1} कार्योत्पादानुगुणविशेषजनको विशेषः स्यात् यतः `अविशिष्ताद् विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ इत्य् एतद् अपि परिह्रियेत । कुत एतद्? इत्य् आह -- तदुपाय इत्यादि । तेषां क्षितिबीजादीनाम् उपाये -- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात्[532]अपाये च -- परस्परसम्पर्क्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादानुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा [त्.

298ब्.] स्यात् । ततस् तत्परम्पराभावि कार्यम् इति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । [स्. 130अ.] तस्मान् न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश् च प्रथमसम्पर्क्कक्षणभाविनां नोपेयते[533]युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः नोत्पद्यते[534], उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनाम् अपि क्षणानाम् अविशेषात् तज्जननस्वभावत्वे ऽप्य् अजननात् समग्रावस्थायाम् एव जननाद् । यथा क्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानाम् अपि भविष्यतीति क्षीणसर्वोपायो ऽक्षणिकवादी साम्यम् एवातुर इव बहुमन्यमानस् तत्रैव भरं[535]कृतवान् । सिद्धान्तवादी भङ्ग्या परम् उपहसन्न् आह -- नास्माकंपुनःपुनः इत्यादि । यदि पुनः पुनर् वचने ऽपि लोकस्य न्यायप्रतीतिर् भवति शतशो ऽपि ब्रूमः । किम् अङ्ग पुनर् द्वौ त्रीन् वा वारान्? । न हि परार्थप्रवृत्तानाम् अस्माकं पुनः पुनर् अभिधाने कश्चिद् उद्वेगो भवति । एवं वादिनश् च शास्त्रकृतः क्वचित् प्रकारान्तरेण[536]तम् एवार्थं [त्. 299अ.] स्फुटीकुर्वतो ये पुनरुक्तापरिहाराय यत् अन्ते स तेषाम् अस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्य् उच्यताम् इत्य् अत आह -- न विशेषोत्पादनाद् एव इत्यादि । नैव विशेषोत्पादनात् {प्. 133.1} सहकारिणां सहकारित्वं परमार्थतः क्वचित् [स्. 130ब्.] सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्त्तव्ये

सहकारिताविरहः स्यात् । किन्त्व् एकार्थक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर् युक्तिभिः सम्भाव्यते । सा च प्रथमसम्पर्क्कभाजाम् अस्त्य् एवेति किं न सहकारिणः स्युः? । पर आह -- सा ऽप्य् एकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानाम् अपि तदेकार्थक्रिया ऽङ्गीक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायाम् इव पृथग् अपि सा भवेत् । तथा हि -- ते तदवस्थायाम् अपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथग् अपि तद्विशेषक्रिया कथम् इव न प्रसज्येत? । न ह्य् एषां संहतासंहतावस्थयोः कश्चिद् विशेषो ऽस्तीति । भवतु, को दोषः? इति चेत्; तथाच कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति तस्माद् विशेषाद् भवनशीलम् अङ्कुरादि कार्यम् अपि विशेषवत् केवलात् सहकारिणः स्यात् इति चेन् मन्यसे, अत्रापि सर्वम् उक्तम् उत्तरम् । तथा हि -- संहतासंहतावस्थयोर् निर्विशेषा एव क्षणक्षयिणो भावा इति तदुच्यते तत् किं तावद् विशेषमात्रापेक्षया? आहोस्वित् [त्. 299ब्.] कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? । यदि प्राच्यो विकल्पः तद् अयुक्तम् । न हि काचिद् विशेषमात्ररहिता ऽवस्था [स्. 131अ.] सम्भवति, सर्वदा ऽपरापरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । न हि कदाचित् किंचिद् एकम् एव, आधारच्छायातपवातशीतादेर् यथासम्भवं भावात् । न च तभावे ऽपि तत् तादृशम् एव, कारणभेदात् । एतावत् तु स्यात् -- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति । एतच् च प्राग् एवोक्तम् इति दर्शयन्न् आह -- प्रतिक्षणम् अपरापरैःप्रत्ययैः इति ।

`अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ[537]इति, `क्षणिकेषु {p.134.1} भावेष्व् अपरापरोत्पत्तेर् ऐक्याभावात्ऽ[538]इति चात्र संक्षिप्ततरम् उक्तम् । एवं च `नास्माकं पुनः पुनर् वचनऽ इत्य् अत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]द् अप्य् उक्तम् -- `तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिःऽ[539]इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्क्कभाजः परस्परतो निर्विशेषा इत्य् अभिमतं तद् अप्य् अयुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः [स्. 131ब्.] क्षितिबीजादयः कीदृशाः ये [त्. 300अ.] व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच् च जनकं व्य(-कव्य)वस्थायाः[540]। ते च तथाविधाः सर्वदा न भवन्ती कथं पृथग् अपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानाम् अपि कार्यक्रिया प्रसज्येत तद् दर्शयति -- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर् येषां अव्यवहितदेशत्वादीनाम् अवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश् च तथोक्ताः । योग्यदेशताअ(-ताद्य)व्यवहितदेशतादयो ये अवस्थाविशेषाः क्षितिबीजादीनाम् उपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथम् एषां पृथग् अपि तथाविधविशेषारम्भः स्यात्? । एतद् अपि प्राग् एवोक्तम् `तत्र यो ऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स

विज्ञानजनने समर्थो हेतुःऽ[541]इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुर् इति प्रतीयत एव । स च [स्. 132अ.] तथाविधो विशेषः सर्वदा न भवति, तज्जनकस्य हेतोर् अभावात् । परस्परोपसर्प्पणाद्याश्रयस्यैव [त्. 300ब्.] प्रत्ययविशेषस्य तद्धेतुत्वात् । एतद् अपि पूर्वम् एवोक्तम् इत्य् आह -- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस् तद् अप्य् उक्तम् असकृद् एव `यस् तेषां परस्परोपसर्प्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ[542]इति । तथा `यथास्वं प्रत्ययैः परस्परोपसर्प्पणाश्रयैर् ये {प्. 135.1} योग्यदेशाद्यवस्था जातास् ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ[543]इत्य् अनेन, इहापि गम्यमानत्वात् । ततो यद्य् अप्य् एषां परस्परतो ऽनुपपत्तेर्[544]विशेषो न भवति, स्वहेतुकृतस् तु केन वार्यते? । न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस् तदाशंसा, यतः परस्परतो विशेषायोगः[545]प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानाम् अक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितिबीजादिकलापस्य पृथग् एकैकस्य समर्थस्य भावस्याभावाद् इत्य् एतद् अप्य् असकृद् एवोक्तम् `तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानापि [स्. 132ब्.] पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ इत्यादिवचनात् । ततस् तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन [त्. 301अ.]

केवलानाम् अप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यम् अपि स्याद् इति? । कुतः पुनर् अयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्य्[546]अत आह -- कार्यद्वैविध्यंच यस्मात् तस्माद् एवंविभज्यते । कथं द्वैविध्यं कार्याणाम् इति? अत आह -- सहकारिभिर् अव्यवधानादिदेशैर् अनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास् तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभावरूपया उत्पत्तिर् द्धर्मो यस्य तदात्मकम् एकं कार्यम् । अन्यच् च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्पराम् अपेक्षते । अत्रोदाहरणम् -- अङ्कुरादिवत्, आदिग्रहणाद् ओदनादिवत् । तथा ऽक्षेपेण[547]करणशीलं यदिन्द्रियं [स्. 133अ.] तद्विज्ञानादिवच् च । प्रभास्वराद् अपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् । कुत एतद्? इति चेत् {प्. 136.1} कार्यकारणयोः स्वभावभेदात् । किंचिद् धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तद् अन्यत् तु तत्परिणामापेक्षम् इति । कारणम् अपि किञ्चित् [त्. 301ब्.] स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत् तु तद्विपरीतस्वभावम् । यथा किञ्चिद् एव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश् च तद्बीजजन्यस्वभावो न यवादिबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वाभावाः पर्यनुयोज्याः । ये तु

यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्य् अत्र चिन्ता प्रवर्त्तते । तत्र सर्वदा तत्स्वभावत्वे पश्चाद् इव प्राग् अपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य [स्. 133ब्.] भिन्नस्वभावता कारकाकारकावस्थायोः शालियवबीजादीनाम् इव तत्त्वचिन्तकैर् उच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्व् इव केशनखादिषु इत्य् अत्र[548]विरोधाभावाद् इति । यदा च तत्कार्यकारणस्वभावभेदात् कार्यद्वैविध्यम्, तत्रैतस्मिं(स्मिन्) सति सहकारिभ्यः क्षितिबीजादिभ्यस् तेषां परस्परसन्तानोपकारम् अपेक्षते यत् कारणम् अन्त्यवस्थाप्राप्तं तस्य यत् कार्यम् अङ्कुरादिकं तज्जन्मनिमित्तं सहकारिणां प्रथमक्षणानन्तरं विशिष्टद्वितीयक्षणभावरूपो यो [त्. 302अ.] विशेषः कार्योत्पादानुगुणः आद्यो भवति स तेषां सहकारिणां प्रथमसम्पर्क्कभाजां परस्परकृतो यो विशेषस् तज्जन्मा न भवति परस्परोपसर्प्पणाद्याश्रयाद् एव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणाद् आद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिर् अन्यतः [स्. 134अ.] समासादितविशेषैः जनितात् तत्प्रभृति ये विशेषाः प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते ते तज्जन्मानः सहकारिकृतविशेषजन्मानः । कुतः? तत्प्रकृतित्वात् तस्याद्यस्य विशेषस्य परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् आसादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर् जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां {137.1} सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । यत एवम् इति तस्मात् नानवस्था प्राग्[549]उक्ता । अथ सहकारिणा

क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्थेतानवस्थैवं स्यात् इति । तस्य प्रकारस्यानभ्युपब्गमात् पुरुषप्रयत्नादेर् एव [त्. 301ब्.] क्षेत्रप्रकिरणहेतोर् अव्यवहितस्निग्धपृथिवीबीजसम्पर्क्कलक्षणस्य कार्योपादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् । तत्र यद् उक्तं परेण `यथा प्रथमसम्पर्त्तभाजः क्षितिबीजादयः परस्परस्य विशेषमनाद् अधानाह् कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा [स्. 134ब्.] स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भाविष्यन्तिऽ इति, तदभ्युपगच्छन्न् आह -- तथायद्य् अक्षणिको ऽपि इत्यादि । क्षणिकवद् अक्षणिको ऽपि यदि कार्यं करोति करोतु नाम । न कश्चिद् वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि अविलम्बितकार्यकर्तृधर्मा अपेक्षेण करोतीत्य् एवंशीलो धर्मो यस्य स तथोक्तः, तदा पृथग्भावस्य सम्भवात् केवलो ऽपि न केवलं सहितः तथास्यात् तत्कार्यकारकः स्याद् इत्य् उक्तं बहुशः । अतत्स्वभावस् तु अक्षेपकर्तृस्वभावविकलस् तु तदाऽपि सहितावस्थायाम् अपि प्राग्वत् अकारक एव पररूपेण कर्तृत्वस्य पूर्वम् एव निषेधात् । तद् एवम् एकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्न् आह -- तस्मात् इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान् नैवाक्षणिकस्य कश्चित् [त्. 303अ.] सहकारीति केवलो ऽपि स्वकार्यं कुर्याद् इति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तम् इति [स्. 135अ.] दर्शयन्न् आह -- प्रायस् तु इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्य् अपेक्ष्य कार्यं करोति तदा व्यक्तम् अवश्यं तस्य

स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिर् इति । नाकार्यस्य कार्यताम् अननुभवतो ऽपेक्षेत्य् उच्यते । यतः सहकारिणां यः संघातः सन्निपातः तत्स्थायी तत्र वर्त्तमानो भावसन्तानः प्रायः बाहुल्येन सहकारिप्रत्ययैर् उपजनितविशेषः सन् स्वकार्यंकुर्वन् दृष्टो {प्. 138.1} बीजादिवत् तस्माद् एवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिद् अपि कल्पयितुम् अशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस् तु न विरुध्यते । तस्यैव ह्य् अकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्व् अतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलम् अकारकस्वभावस्य स्वरसनिरोधितामात्रम् उपेयम् । [त्. 303ब्.] ततः सर्वं सुस्थम् इति । अथ मतम् -- कारकस्वभावान्तरोत्पत्तिर् इष्यते यदि स्थिरस्य हेतोः प्राग् अपि कारकस्वभावो [स्. 135ब्.] न स्यात् । तस्य तु प्राग् अपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिर् अप्य् उक्तेति अत आह -- कारकस्य इत्यादि । यदि हि समग्रावस्थायाः प्राग् अपि कारकस्वभावो भवेत् तदा ऽस्याक्रिया न युज्यते, संहतावस्थायाम् अपि तत्स्वभावतयैव करणात्, पररूपेण कर्तृत्वस्य प्राग् एव निषिद्धत्वात् । न च करोति । तस्मात् सो ऽस्य स्वभावः प्राङ् नैवासीत् । यदि च प्रत्ययान्तरैर् अप्य् असौ न क्रियेत तत् किम् इति मुधैव तान्य् अपेक्षते?[550]इति ।

__________नोतेस्__________

[532] कार्योत्पाददर्शनात् -- त्. [533] नोपायता -- त्. [534] नोपपद्यते -- त्. [535] परं -- त्. [536] पर्यायान्तरेण -- त्. [537] प्. 116.13 [538] प्. 88.19 [539] प्. 130.11 [540] जनकव्यव- -- त्. [541] प्. 117.15 [542] प्. 117.24 [543] प्. 129.12 [544] ऽनुत्पत्तेर् -- त्. [545] विशेषयोग -- त्. [546] -देशक्रममात्रे- -- त्. [547] -दि गृह्यते । अक्षे- -- त्. [548] अत्रापि -- त्. [549] न घटाभाव इति नानावस्था प्राग् -- त् [550] किम् इति तथा ऽन्यान्यपेक्षते -- त्.

[ सेच्तिओन्: 43. निर्हेतुकविनाशचर्चाया उप्संहारः ।]

तद् एवं `तत्स्वभावस्य जननात्ऽ[551]इत्य् अस्य `यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भावे हेत्वन्तरम् अपेक्षतेऽ[552]इत्य् अस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया अपरापरप्रत्यययोगेन[553]इत्य् आद्य् अभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्व् असम्भवं प्रतिपादयितुं प्रासङ्गिकं यद् उपक्रान्तं तत् परिसमापय्य प्रकृतम् अनुबध्नन्न् आह -- तस्माद् यो यदात्मा इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य [स्. 136अ.] न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्य् अत आह -- स्थितिधर्मणो ऽपि इत्यादि । स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभावः {प्. 139.1} तदन्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुम् अशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणो ऽप्य् अन्यथात्वप्रतिपत्तिर् इष्यते तदा ऽन्यथात्वप्रतिपत्तौ वा तत्स्वभाव एव स्थितिधर्मैव न स्यात्, आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्राग् अप्य् अभावआयोगात् । न हि तदातमनस् तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतत्स्वभावताप्रसङ्गात् `विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्ऽ इत्य् उक्तम् । तथा च सति पूर्व एव विकल्पः स्वभावेनास्थितिधर्मा भाव इति । तत्र च पूर्वविकल्पे प्राग् एवोक्तं दूषणं विनाशहेतोर् वैयर्थ्यम् इति । अथासौ स्थिरस्वभाव एव, केवलम् अस्यास्थिरस्वभावता प्राग् असति विनाशहेतोर् उपजायते, अन्यथा निवृत्त्ययोगाद् इत्य्

अत आह -- यश्च परस्मात् नाशहेतोः स्थितिधर्मणः [स्. 136ब्.] सतः अन्यथाभावः अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् अपरः अन्यः स्वभावस् तस्मिन् निष्पन्ने पश्चा[ज् जन्य]त्वाद् भिन्नहेतुकत्वाच् च कथंतस्य स्वभावः स्यात्? । तदात्मतया प्रतिभासनाद् इति चेत् । सारूप्याद् अलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्य् असौ [त्. 304ब्.] पूर्वस्वभावे सत्य् एवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? । भवत्व् अपरः स्वभाव इति चेत् । यश् चापरः स्वभावः स कथं तस्य? । न ह्य् अन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । यो ऽपरः स्वभावः स किम् इति तस्य न भवति? इत्य् अत आह -- स्वभावभेद- इत्यादि । भवतु वस्त्वन्तरम् एव तदपरस्वभावतया को दोषः? इत्य् अत आह -- तथाच वस्त्वन्तरत्वे सति विनाशहेतोर् उपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा [स्. 137अ.] जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ् न भवति, विनाशहेतोर् वस्त्वन्तरोत्पत्तौ व्यापृतत्वाद् इति न तस्य स्थितिधर्मणो ऽन्यथाभावो निवृत्तिः । न हि मुद्गरादेर् वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर् युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्राग् एव प्रोक्तम् । {प्. 140.1} ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेर् अग्न्यादेर् विनाशहेतोर् द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्य् अत आह -- एतेन अनन्तरोक्तेन कठिनादीनाम् आदिशब्दाद् द्रवादीनां ताम्रसुवर्णादीनाम्[554]अग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर् व्यवस्थितरूपस्य ताम्रादेः प्रत्युक्ता प्रत्याख्याता,

तुल्यदूषणत्वात् । कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो [त्. 305अ.] युक्तः? इत्य् आह -- तत्रापि कठिनादिरूपे ताम्रादौ पूर्वकस्य कठिनद्रवादिरूपस्य स्वरसनिरोधित्वात् विनाशहेत्वयोगेन । विनाशे सति अग्न्यादेः आदिग्रहणाज् जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्प्पणाद्याश्रय प्रत्ययविशेषोपजातातिशयाद् उपादानाच् च यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो विरुध्यते । तत एव उपादानकारणाद् अग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् अपर एव अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, [स्. 137ब्.] उत्पन्नो न तु पूर्वकम् एव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतम् इति । अत्र पर आह -- केनोक्तं यथा `स्थितिधर्मणः सतो विनाशहेतोर् अस्थितिस्वभावोत्पत्तिस्[555]ततो विनाशःऽ इति, येन `यश् च परस्माद् अन्यथाभावः सो ऽपरः स्वभावःऽ इत्याद्य् उच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर् जनितो नास्यास्थिरस्वभावता विनाशहेतोर् उपजायते । कथं ज्ञायते यथा `स्वहेतुभिः [त्. 305ब्.] स्वभावेन स्थितिधर्मैव जनितःऽ इति? । विनाशहेतोर् अग्न्यादेर् असम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर् जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिर् एवायम् अपरः स्वभावो नियमितो यदुत परस्मात् विरोधिनो ऽग्न्यादेर् विनाशःस्वयंभवतीति । परस्माद् इति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्य् अर्थः । स्वहेतुभिर् एवायं {141.1} नियमितस्वभावो जातो यथा त्वया विरोधिनम् अपेक्ष्य स्वयं निर्व(व)र्त्तितव्यम् इति ।

तद् उक्तम् - स्वभावो ऽपि स तस्येत्थंयेनापेक्ष्य निवर्त्तते । विरोधिनंयथाऽन्येषांप्रवाहो मुद्गरादिकम् ॥ इति । ननु यद्य् अस्य विनाशो विरोधिसन्निधाने स्वयम् एव भवत्य् अहेतुकः प्राप्नोति, अहेतोश् च देशकालस्वभावनियमो न युक्त इत्य् अत आह -- न च नैव विनाशो नाम विनंष्टुर् अपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु भावच्युतिर् एव विनाशः । [स्. 138अ.] तस्याश् च निःस्वभावत्वाद् धेतुमत्ता नैव युज्यते । न हि सा तस्य भवति । केवलम् असौ स्वयम् एव न भवति । ततो भवितुर् अभावात् कस्य हेतुमत्तोपगम्यते ? । सिद्धान्तवाद्य् आह -- नेदम् अनतरोक्तंविकल्पद्वयम् अतिक्रामति । कीदृशं विकल्पद्वयम्? । `किं नित्यो भावः?ऽ इत्यादि । [त्. 306अ.] ननु च कालान्तरस्थितिधर्मताम् उपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमे ऽपि नित्यतैवोपगता भवति । तथा हि -- यद्य् अयं संवत्सरस्थितिधर्मा स्वहेतुभिर् जनितस् तदा संवत्सरपरिसमाप्तौ यो ऽस्यादाव् उदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि । ततो ऽपरं संवत्सरम् अवतिष्ठेत । तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागाद् अपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्न्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्त्तत इति चोपगमाद् अनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि -- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभाव स एव भावस्यैकरूपत्वाद् उत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथम् अस्य कालान्तरस्थितिधर्मता सम्भवति? । एवं

विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिर् एवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र [स्. 138ब्.] विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो [त्. 306ब्.] विनश्वरस्वभावो भवतीति ब्रूते । एवंच ब्रुवाणो भावद्वयंचाह । वक्ष्यमाणापेक्षश् चकारः । {प्. 142.1} कीदृशं भावद्वयम्? । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान् नाशं ब्रुवाणः सर्वदा प्रतिक्षणम् एव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चाद् अपि नाशासम्भवात् । अथ प्रतिक्षणम् अस्य नाशो न भवति तदा पश्चाद् अपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्न् इत्य् आभिमते स्वभावे विनाशहेतुर् असमर्थो ऽकिञ्चित्कर एव । ननु च विनाशहेतोर् नैव सामर्थ्यम् उपगतं परेण विरोधिसन्निधिम् अपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य । अन्यथा ह्य् अकिञ्चित्करः किम् इत्य् असाव् अपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनर् अयम् अस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । [स्. 139अ.] तस्माद् उपकार्यपेक्षायाम् एव हेतवो[556]नियुञ्जानाः शोभन्ते । अन्यथा ते ऽपि कार्यात्मानो[557]नैव तन्नियोगमाद्रियेरन्[558]। कथं चाकिञ्चित्करो विरोधी नाम? । न ह्य् अस्याविरोधित्वाभिमताद्[559]विशेषः कश्चिद् इति यत्किञ्चिद् एतत् । यद् अप्य् उक्तं `यथा ऽन्येषां क्षणिकवादिनाम् अकिञ्चित्करम् अपि मुद्गरादिकम् अपेक्ष्य [स्. 307अ.] घटादिप्रवाहो निवर्त्तते तथा ऽस्माकम् अपि कालान्तरस्थायी भावःऽ इति

तद् अपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुद्गरादिसन्निधौ निवर्त्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुद्गरादिकम् अपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्याम् एकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् `निवृत्ता घतादयःऽ इति व्यवहारः, तत्राकिञ्चित्करत्वं मुद्गरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन् मुद्गरादिसहकारिणो घटक्षणात् परस्परोपसर्प्पणाद्याश्रयात् {प्. 143.1} प्रत्ययविशेषात् [स्. 139ब्.] सञ्जातातिशयात् कपालादेर् भवनधर्मत्वात् तस्य तज्जननस्वभावाद् इति । स्वभावद्वयोपगमप्रसङ्गाद् इति परिजिहीर्षया पर आह -- न प्राग् इत्यादि । कुत एतत्? । एकस्वभावत्वात् । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चाद् अनित्यस्वभावतासम्भव इति । सिद्धान्तवाद्य् आह -- स तर्हि भावः [त्. 307ब्.] सर्वदा नित्यस्वभावः स्वभावेन नाशमनाविशन् अप्रतिपद्यमानः कथं नैव नष्टो (कथं नष्टो) नाम[560]? । कुतः? तत्स्वभावविनाशयोः नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश् च अपरस्पररूपत्वात् परस्परपरिहाररूपत्वात् । उपसंहरन्न् आह -- यत एवं स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्य् अवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस् तदा विनाशस्वभावेन विनश्यति नावतिष्ठत इति विनाशः । कर्त्तरि बहुलवचनाद् घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । तेन कृतकरूपेण सता वस्तुना स्वहेतुभ्यो भवितव्यम् अन्यथा

ऽवश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् । भवत्व् एवम् इति चेत् । आह -- तथापि स्वयं विनाशस्वभावत्वे ऽपि [स्. 140अ.] न केवलम् अविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुर् इति प्रथमविकल्पोपन्यास एवोक्तम् न पुनर् उच्यते । यत एवं तेन इत्यादि सुगमम् । तद् एवं विनाशं प्रत्यनपेक्षाम् असामर्थ्य-वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्यपूर्वाचार्यदर्शतां प्रतिपाद्य यथा ऽसौ विपर्यये बाधकप्रमाणताम् अनुभवति तद् दर्शयन्न् आह -- तस्माद् विनाश इत्यादि । प्रयोगस् त्व् एवम् -- ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियताः । [त्. 308अ.] तद् यथा -- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश् च कृतकरूपः सन् भावो विनाशे {प्. 144.1} ऽवश्यम्भाविविनाशतयोगतः परैर् इति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणंपूर्वाचार्यप्रदर्शितम् । ततः तद्भावनियतत्वे, नाशस्याकादाचित्कत्वाद् उदयानन्तरं नाश इति यःसन् कृतकलक्षणो भावः स विनाशी विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिर् इति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायाम् अन्वयव्यतिरेकसिद्धिः सम्पद्यते ऽनपेक्षया ऽन्यक्रान्तसत्त्वक्षणिकत्वयोस् तादात्म्यसिद्धेः तन्निबन्धनयोर् अन्वयव्यतिरेकयोर् अपि निश्चयात् । तद् एवंपूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् सदकारणवन् नित्यम् [वैसू 4.1.1.] इति नित्यलक्षणविरहाद् एव न तन्नित्यत्वम् । यत् तु [स्. 140ब्.] सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यं नाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् ।

__________नोतेस्__________

[551] प्. 83.22 [552] प्. 83.1 [553] प्. 116.13 [554] -नां संग्रहः । ता- -- त्. [555] विनाशहेतोर् अस्थिरस्वभावत्वात् विनाशहेतोर् अस्थिति- -- त्. [556] एव स्वहे- -- त्. [557] कार्याणि । [558] हेतु- । [559] विरोधिनः । [560] कथं नष्टो नाम -- त्ब्.

[ सेच्तिओन्: 44. सामान्येन सत्त्वक्षणिकत्वयोस् तादात्म्यव्याप्तिप्रदर्शनम् ।]

यदा तु यत् सत् तत् क्षणिकम् एवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदम् अनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो [त्. 308ब्.] नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वम् एव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषाम् एव तद्धेत्वयोगात् तत्रानपेक्षा युज्यते । ये तु देशादिव्यवहिताः पर्वतादयो वा विनाशम् आविशन्तो न दृष्टाः तेषाम् अवश्यं विनाशित्वोपगमनिबन्धनाभावाद् अन्त्ये ऽप्य् अयं विनाशं प्रत्यनपेक्ष एव विनश्यन्न् ऽविशेषाद् आदाव् अपि तद्भावनियत इति वक्तुम् अशक्यत्वात् तत्स्वभावसापेक्षत्वात्[561]। विनाशं प्रत्यनपेक्षत्वासिद्धेर् अकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणाम् इत्य् अनपेक्षया सतो नश्वरस्वभावता ऽसिद्धेः अन्वयव्यतिरेकयोस् तन्निबन्धनयोर् अयोगम् उत्पश्यन्न् अर्थक्रियाविरोधलक्षणम् एव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकम् अभिधानीयम् इति मन्यमानः पूर्वपक्षम् उत्थापयन्न् आह -- स्वभावतो नश्वरत्वे ऽप्य् उक्तेन {प्. 144.1} न्यायेन परिदृश्यमानविनाशानां घटादीनां कश्चिद् देशादिव्यवहितः[562]पर्वतादिर् वा ऽनुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर् वा ऽकृतकः [स्. 141अ.] सन् न ऽतत्स्वभावो ऽपि अविनाशिस्वभावो ऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तस्य[563]विनाशिस्वभावसंसाधकप्रमाणाभावाद् आशङ्क्यत एतत् । ततश् च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वम् असिद्धम् इति तद्वशात्[564]साध्यस्य [त् 309अ.] क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिर् इति । किं पुनर् अत्राशङ्कानिमित्तं येन कश्चिद् अतत्स्वभावो ऽप्य् आशङ्क्यत इत्य् आह -- न हि

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.