Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)
- Tác giả
- अर्चट
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सर्वःसर्वस्य स्वभावः इति । विचित्रस्वभावा हि भावा दृश्यन्ते -- केचित्[565]सप्रतिघाः केचिद्[566]अप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद् विनाशिनः अन्ये त्व् अविनाशिस्वभावाः शङ्क्यन्त इति पूर्वपक्षाशङ्का । न -- `कश्चिद् अतत्स्वभावो ऽपि स्यात्ऽ -- इति आशङ्कनीयम्, तथाभावे ह्य् अक्षणिकत्वं तस्य स्यात् । तस्मिंश् च सत्य् अवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? । कथं पुनर् अक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? । यतः[567]सत्त्वस्य क्षणिकत्वस्वभावतया ऽन्वयव्यतिरेकसिद्धिर् इत्य् अत आह -- शक्तिर् हि इत्यादि ।
__________नोतेस्__________
[561] अनित्य- [562] विप्रकृष्टः -- त्. [563] आकाश- [564] अनपेक्षत्ववशात् [565] घटपटादयः [566] विज्ञानादयः [567] अवस्तुत्वप्रसङ्गत्वात्
[ सेच्तिओन्: 45. अर्थक्रियाकारित्वम् एव सत्त्वं, तच् च क्षणिकानाम् एवेति ।]
एवं मन्यते -- इह तावद् इदम् एव विचारणीयम् [स्. 141ब्.] किं लक्षणम् एतद् भावानां सत्त्वं युक्तम् इति । तत्र न सत्तायोगलक्षणम् अव्याप्तेः, सामान्यादिष्व् अभावात् । वन्ध्यासुतादिष्व् अपि भावाद् अतिव्याप्तेर् वा । वन्ध्यासुतादीनाम् असत्त्वात् कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस् तेषाम् असत्त्वं सत्तायोगविरहाद् एव [त्. 309ब्.] तद्विरहश् चासत्त्वाद् इति । यदि च सताम् एव सत्तायोगः एवं तर्ह्य् अन्यत् सत्त्वलक्षणम् अभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत एव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात् {प्. 146.1} सत्तायोगाभावस् तेषाम् इति चेत् । एवं सति यद् एवार्थक्रियासामर्थ्ययुक्तं तस्यैव सत्तायोग इत्य् अर्थक्रियासामर्थ्यम् एव भावलक्षणमायातम् इत्य् अपार्थकः सत्तायोगः । इत्थंच एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? । अर्थक्रियासामर्थ्यं तु सर्वेषाम् अस्तीति तद् एव भावलक्षणम् । उत्पादव्ययध्रौव्ययुक्तंसत् [तत्त्वार्थ- 5.29.] इत्य् एतद् अप्य् अयुक्तम्, ध्रौव्येणोत्पादव्यययोर् विरोधात् एकस्मिं(स्मिन्) धर्मिण्य् अयोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यम् इति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाव् इति नैकं वस्तु यथोक्तलक्षणं [स्. 142अ.] स्यात् । ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश् चान्तशः स्वज्ञानजनने ऽप्य् उपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनर्भावलक्षणम् । सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वाद् अभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते । शक्तिलक्षणम्
एव सत्त्वम् अक्षणिके स्यात् ततः क्षणिकात्मता [त्. 310अ.] सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह -- न चैवाक्षणिकस्य क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिर् अस्ति तत् कुतस् तस्य तल्लक्षणं सत्त्वम् अतीतादेर् इव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् । ननु च शक्तेर् अतीन्द्रियत्वात् कारणानां कार्यारम्भनियमाभावाच् च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मताम् एवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्याताम् इत्य् अत आह -- क्रमयौगपद्याभ्याम् इत्यादि । नैव प्रत्यक्षतः [स्. 142ब्.] कार्यविरहाद् वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तद्व्यापकविरहात् । तथा हि -- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस् तयोर् अक्षणिकत्वे {प्. 147.} विरोधात् निवृत्तेस् तद्व्याप्तायाः कार्यक्रियाशक्तेर् अपि निवृत्तिर् इति सर्वशक्तिविरहलक्षणम् असत्त्वम् अक्षणिकत्वे व्यापकानुपलब्धिर् आकर्षति, विरुद्धयोर् एकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्व् एवावतिष्ठमानं तदात्मताम् अनुभवतीति -- `यत् सत् तत् क्षणिकम् एवऽ इत्य् अन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर् निश्चयो भवति । ननु च प्रकारान्तराभावात् कार्यम् अङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्याम् एव क्रियत इत्य् उच्यते स एव तु प्रकारान्तरविरहः [त्. 310ब्.] कार्यात्मनः कुतः सिद्धः? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथम् अत्यन्तासम्भवः? । केवलं देशादिनिषेधमात्रम् एव स्यात् । अनुपलब्धिलक्षणप्राप्तत्वे ना ऽसत्तानिश्चयो विप्रकर्षिणाम्[568]इति कुतस्
तदभावसिद्धिः? । ततः प्रकारान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्ताव् अपि नार्थक्रियासामर्त्थ्यनिवृत्तिर् इति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणम् असत्त्वम्?, यतः सत्त्वस्य क्षणिकात्मतया ऽन्वयव्यतिरेकौ स्याताम्? । न । उभयथा ऽप्य् अदोषात् । [स्. 143अ.] तथा हि -- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यम् अङ्कुरादेः, यौगपद्यम् अपि तस्यापरैर् ब्बीजादिकार्यैः साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्य् अन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वा ऽभावे प्रत्यक्षबोधगम्यमाने सत्य् उपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः[569]प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीतरस्मिन् वा भावे ऽपि न काचित् क्षतिः । ततः प्रत्यक्षत एव [त्. 311अ.] प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्याम् अर्थक्रियाशक्तिर् अव्याप्ता स्यात्? ।शास्त्रकारस् तु यथा प्रत्यक्षता एव प्रकारान्तराभावसिद्धिः तथा स्वयम् एतेन क्रमाक्रमादयो ऽपीति अतिदिशन् वक्ष्यति । {प्. 148.1} अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोर् अन्यो ऽन्यव्य[s.143b.]वच्छेदरूपत्वाद् एवाश्रयसि(-द् एवाभावसि)द्धिः तथा हि -- अन्योन्यव्यवच्छेदरूपाणाम् एकनिषेधेनापरविधानात् तस्या[570]ऽप्रतिषेधे विधिप्रतिषेधयोर् विरोधाद् उभयप्रतिषेधात्मनः प्रकारान्तरस्य
कुतः सम्भवः? । अत्र प्रयोगः -- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद् यथा -- नीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोर् अन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानम् व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे[571]वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्[572], [573] च ततो बहिर्भावलक्षण इत्य् अनयोस् तत्त्वा ऽन्यत्वरूपयोर् अन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कया ऽनवस्थानम् आशङ्कनीयम्, पूर्वप्रसिद्धस्य [त्. 311ब्.] [स्. 144अ.] विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावम् उपदर्श्य विरोधसाधनम् एव बाधकम्, तच् चेहास्ति । ततो विरुद्धयोर् एकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोर् इव भावाभावयोर् इव वेति कुतो ऽनवस्था? । तत्र न क्रमेणाक्षणिकः कार्याणि करोत्य् अविशेषाद् अकारकावस्थायाम् इव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगाद् अनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्[574]पुनस् तत्क्रियाप्रसङ्गाच् च । कृतत्वान् नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्राग् अप्य् अकारकरूपाविशेषाद् क्रिया स्यात् । कृतस्य कर्त्तुम् अशक्यत्वाद् इति चेत् । शक्ताशक्ततया तर्ह्य् एकत्रैव कार्ये भेदप्रसङ्गः शालिकोद्रवबीजादेर् इव । नित्यश् च यदा युगपत् करोति ततः प्राग् अपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस् ततो ऽपि पूर्वतरम्
इत्य् एवं [स्. 144ब्.] न कदाचिद् युगपत् क्रिया स्यात् । पूर्वोत्तरकालयोश् चैकदा युगपत् कारिणो ऽन्यदा {प्. 149.1} सर्वार्थक्रियासामर्थ्यविरहलक्षणम् असत्त्वं स्याद् इति कथं न क्षणिकता? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवम् अक्षणिकत्वे [त्. 312अ.] सति चक्षुराद्याय- तनानामसत्त्वप्रसङ्गात्[575]क्षणिकतायाम् एव सत्त्वम् इति यत् सत् तत् क्षणिकम् एवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिर् इति ॥[576] {प्. 150.1} [ 3. कार्यहेतुनिरूपणम् ।]
__________नोतेस्__________
[568] -त्वेन सत्तानिश्चयो न, वि- -- त्. [569] प्रकारान्तर- । [570] विहितस्य । [571] -णभूते -- त्. [572] व्यवच्छिद्यमानप्रकारेणेतरव्यवस्थानात् । [573] -रान्तरास- -- त्. [574] प्रत्यक्षविरोधात् -- त्. [575] -द्यायत्तानाम- -- त्. [576] त्. अद्द्स् हेरे ब्राह्मणाचतविरचिते विवरणे स्वभावहेत्वधिकारः प्रथमः ।
[ सेच्तिओन्: 1. कार्यकारणभावव्यवस्था ।]
तद् एवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनम् अन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस् तस्याश् च प्रत्यक्षानुपलम्भनिबन्धनायाः प्राग् एव दर्शितत्वात् तद्गतम् अपरम् अपि परेषां भ्रान्तिकारणम् अपनेतुं तद्विषयं दर्शयन्न् आह -- अर्थान्तरे हेतोर् व्यतिरिक्ते वस्तुनि गम्ये कार्यंहेतुः । अनर्थान्तरे तु स्वभावो हेतुर् इत्य् उक्तम् । कस्मात् [स्. 145अ.] पुनर् अर्थान्तरे कार्यम् एव हेतुर् इत्य् आह -- अव्यभिचारात् इति कार्यम् एव ह्य् अर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यम् एवार्थान्तरे गम्ये हेतुर् उच्यते संयोगवशाद् गमकत्वे । न च केनचित् इत्य्[577]आदिना यः[578]सर्वथा गम्यगमकभावप्रसङ्गआचार्येणोक्तः परस्य, तम् इहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेद् इत्य् आशङ्कमान आह -- कार्यकारण- इत्यादि [त्. 312ब्.] यदि हि कार्यं हेतुर् उच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः । कुतः? सर्वथाजन्यजनकभावात् । जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोर् अंशेन अपि तु सर्वेण प्रकारेण । तथा हि -- यथा अग्निर् अग्नित्वद्रव्यत्वसत्वादिभिः सामान्यधर्मैर् जनकः तथा तार्णपार्णत्वादिभिर् विशेषधर्मैर् अपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर् विशेषधर्मैर् जन्यः तथा [स्. 145ब्.] सामान्यधर्मैर् अपि सत्त्वद्रव्यत्वादिभिः । ततश् च यथा तयोः कार्यकारणभावः
तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वाद् इति पूर्वपक्षाशङ्का । अत्राह -- न सर्वथाजन्यजनकभावः ततश् च कुतस् तथा गम्यगमकभावः स्यात्? । कस्मात्? इति चेत्, {प्. 151.1} तद्भावे तेषां तार्णपार्णत्वादीनां विशेषधर्माणाम् अभावे भवतो धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवम् आत्मनः तदुत्पत्तिनियमस्याभावात् । तथा तदभावे अग्न्यभावे भवतो द्रव्यत्वादेः [त्. 313अ.] सामान्यधर्मस्याग्नेर् एवायं भवतीत्य् एवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्य् असति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः[579]। यत एवं तस्मात् कार्यं धूमादिकं स्वभावैर् यावद्भिर् धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा च तृतीया । अविनाभावि विना न भवति । कैर् विना न भवति? । `कारणे यावद्भिः स्वभावैःऽ इत्य् अत्रापि सम्बध्यते । कारणाश्रितैर् यावद्भिः [स्. 146अ.] स्वभावैर् विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस् तेषाम् इति गम्यते । क्व अविनाभावि? । कारणे कारणविषये अपरो ऽर्थः कारणे आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर् यावद्भिर् अग्नित्वद्रव्यत्वादिभिर् अविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्य् आह -- तत्कार्यत्वनियमात् तेषाम् एव कारणगतानां सामान्यधर्माणां तत् कार्यम् इत्य् एवंरूपस्य नियमस्य सद्भावात् । न हि तान् सामान्यधर्मान् कदाचिद् अपि कार्यं व्यभिचरति । एवंकारणगतम् अंशं पाश्चात्येनार्थेन[580]निरूप्य प्राक्तनेनार्थेन कार्यगतम् अंशं निरूपयन्न् आह -- तैर् एव च
इत्यादि । कार्यम् अपि तैर् एव धर्मैः [त्. 313ब्.] स्वगतैः कारणगतानां धर्माणां गमकम् यथा ऽन्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो[581]विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर् विना न भवन्ति । अत्रापि `तत्कार्यत्वनियमात्ऽ इत्य् अपेक्ष्यते । तेषाम् एव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः [स्. 146ब्.] कारणस्थसामान्यधर्मैर् विना कदाचिद् अपि भवन्ति । ततस् तेषाम् एव कार्यत्वनियमः, नान्येषां {प्. 152.1} द्रव्यत्वादीनां कारणस्थसामान्यधर्मैर् विना भवताम् । तद् एवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधर्मा यैस् तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस् तेषाम् अपि तत्कार्यत्वनियमाभावाद् एव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषाम् इव प्रसज्येत? ।
__________नोतेस्__________
[577] प्. 18.21 [578] -ना प्राक् यः -- त्. [579] शक्यः -- त्. [580] -नार्थिना -- त्. [581] पाण्डुत्वपार्ण -- त्.
[ सेच्तिओन्: 2. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् ।]
परस्यानिष्टापादनम् आशङ्क्याह -- अंशेन इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमाद् इष्यन्ते, हन्त तर्ह्य् अंशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावो ऽभिमत [त्. 314अ.] इत्य् अभ्युपगमविरोधः । एतत् परिहरति -- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथा ऽभिमतत्वात् । तद् आह -- तज्जन्य -- इत्यादि । यदि हि कार्यस्य तैः कारणगतैर् विशेषधर्मैर् जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् [स्. 147अ.] कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादिः उपाधिर् विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाद् गमकत्वस्य । तथा हि -- अगुरुधूमग्रहणे भवत्य् एव तदग्नेर् अनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिना ऽग्नेर् अनुमानम् । न हि सर्वथा जन्यजनकभावो ऽस्तीत्य् एव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि -- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्[582]। ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यम् अर्थं ज्ञापयति, नान्यथा । कथं {प्. 153.1} तर्ह्य् उक्तं तदभावे बवतःतदुत्पत्तिनियम(मा)भावात्[583]इति? । सर्वथा जन्यजनकभावाभ्युपगमे [त्. 314ब्.] तदभावे भावस्यैवाभावाद् इत्य् अत[ह्13]आह -- अविशिष्त इत्यादि । यदि हि तज्जन्यविशेषग्रहणरहितम् अविशिष्टं कार्यमात्रम् उपादीयते
लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा अविशिष्टसामान्यविवक्षायां कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेर् अग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा [स्. 147ब्.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश् च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि -- यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वम् अस्त्य् एव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्य् अपि द्रव्यत्वसत्त्वमात्रम् अग्न्यभावे ऽपि भवति न तु धूमात्मकम् इति तद्विशिष्टस्याव्यभिचाराद् गमकत्वम् अपि न वार्यत इति ।
__________नोतेस्__________ [582] ज्ञापकापेक्षत्वात् -- त्. [583] प्. 151.1.
[ सेच्तिओन्: 3. कार्यकारणभावप्रतीतेर् अतिदुर्लभत्वाशङ्काया निरासः ।]
अत्र परस्य वचनावकाशम् आशङ्क्याह -- कस्यचित् धूमादेः कदाचित् कस्मिंश्चित् काले कुतश्चित् अग्न्यादेः भावे ऽपि सति सर्वो धूमादिः तादृशो यादृश एकदा ऽग्न्यादेर् भवन् दृष्टः तज्जातीयः, तथाविधजन्मा यथाविधात् स एको भवन् दृष्टः तादृशाद् एव जन्म यस्य स । तथाविधजन्मेत्य् एतत् कुतः प्रमाणाद् अवसितम्? येनोच्यते [त्. 315अ.] `कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनाव् अन्वयव्यतिरेकौऽ इति । तथा हि -- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वम् अवगतं किम् एतावता ऽन्यस्यापि [स्. 148अ.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः[584]प्रत्यक्षानुपलम्भयोर् अव्यापारात् । तत्रैव हि तयोर् व्यापारस् तस्यैव तत्कार्यता भवतु, तद् अन्यस्य तु किम् आयातम्? येन तथाविधाद् अस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेर् अग्न्यादिजन्यता दृष्टेति किन्न घटादेर् अपि सा ऽभ्युपगम्यते? {प्. 154.1} अन्यत्वेन विशेषाभावात् । क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयाद् अतादृशाद् अपि जन्माशङ्कायां तादृशस्य धूमादेर् अग्न्यादिना ऽन्वयव्यतिरेकौ न निश्चिताव् इति कुतः कार्यहेतोर् ग्गमकत्वम्? । न हि यो ऽस्माव् एको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादाव् असम्भवात् । किं तर्हि? । तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधाद् अपि जन्माशङ्कायां कुतस् तथाविधेनान्वयो व्यतिरेको वा? । तद् उक्तम् - अवस्थादेशकालानांभेदाद् भिन्नासुशक्तिषु । [त्. 315ब्.] भावानाम् अनुमानेन प्रतीतिर्[585] अतिदुर्ल्लभा॥ [वाक्य- 1.32]
इति[586]। सिद्धान्तवाद्य् आह -- न, अतद्भाविनः इत्यादि । एवं मन्यते -- इहैकदा धूमादेर् अग्न्यादिसामग्रीजन्यतया [स्. 148ब्.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशाद् अपि भावः समाशङ्क्यते यथापरिदृष्टाद् अन्यत्वेन । तत्र यो ऽसाव् अग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस् तदपेक्षया यथा ऽन्यो धूमविशेषस् तादृशो यो ऽन्यादृशाद् अपि -- भावानां विचित्रशक्तितया -- भवेद् इति शङ्क्यते, तथा सो ऽप्य् एकदा ऽग्न्यादिसामग्रीजन्यतया निश्चितस् तदन्यापेक्षया तादृश एव । तत्र यदि तद् अन्यस्य तादृशस्यातादृशाज् जन्म स्यात् तदा तादृशस्य[587]स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि[588]धूमस्य ना ऽग्न्यादिसामग्री कारणम् इत्य् आयातम् । तादृशस्य स्वभावस्या ऽग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश् चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् । न हि यद् यस्य कारणं न भवति तत् ततः सकृद् अपि जायते, तस्याहेतुकत्वप्रसङ्गाद् इति । अतद्भाविनः इति तच्छब्देन विवक्षितम् अग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अतस्माद्[589]भवितुं [त्. 316अ.] शीलं {प्. 155.1} यस्य तस्यातद्भाविनस् तादृशस्य तल्लक्षणस्य धूमवस्तुनः सकृद् अपि एकदा ऽपि [स्. 149अ.] ततः अग्न्यादेः अभावाद् भावविरोधात् । भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस् तादृशस्य स्वभावस्य तादृशम् एव कारणम् इत्य् अवगम्यते सकृत्प्रवृत्ताभ्याम् एव प्रत्यक्षानुपलम्भाभ्याम् इति कुतो व्यभिचाराशङ्का? । तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया
तादृशाद् एव भावात् `यत्र धूमस् तत्राग्न्यादिसामग्रीऽ इत्य् अन्वयव्यतिरेकनिश्चयः । अथवा ऽन्यथा व्याख्यायते -- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनाव् अन्वयव्यतिरेकौ प्रतिपादयितुम्, तच् चायुक्तम्[590]। तथा हि -- कस्यचित् धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य कदाचित् प्रथमोत्पादकाले कुतश्चिद् अग्न्यादिसामग्र्याः भावे ऽपि उत्पादे ऽपि सर्वस् तादृशो यादृशः[591]प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्व् अपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । तथाविधजन्मा इति यथाविधाद् अग्नीन्धनसामग्रीलक्षणात् कारणाद् आद्यो धूमक्षण उत्पन्नस् तथाविधाज् जन्म यस्य स तथाविधजन्मेत्य् एतत् कुतः नैव तस्य धूमादेर् अभावात् [त्. 316ब्.] । एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [स्. 149ब्.] इति अन्यमान आह -- तथाच अनग्नितो धूमाद् अपि धूमस्य भावे शक्रमूर्द्धादेर् अपि तस्य भावाविरोधाद् अग्निना धूमस्य नान्वयव्यतिरेकाव् इति चेन् मन्यस इति पूर्वपक्षाशङ्का । तदुक्तम् - क्षणिकत्वे कथंभावाःक्वचिदायत्तवृत्तयः। प्रथमधूमक्षणजनितो धूमक्षणस् तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्व् अप्य् अङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनर् अयं विभागः? इति चेत्, आह -- अतद्भाविनः अतस्माद् -- अनग्नीन्धनादिरूपाद् धूमाद् [त्. 317अ.] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य सकृद् अपि [स्. 150अ.] एकदापि ततः अग्न्यादिसामग्र्याः अभावाद् अभावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस् तादृशस् तथा तदपेक्षया प्रथमो
ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृद् अपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावताम् आत्मनस् तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्माद् अन्यादृशाद् भवन्न् अन्यादृश एव ततो न व्यभिचारः ।
__________नोतेस्__________
[584] कार्यकारणभावनि- [585] प्रसिद्धि- -- वाक्य- [586] इति चेत् -- त्. [587] तदा ऽतादृ- -- त्. [588] -तेत्य् अप- -- त्. [589] तस्मात् -- त्. [590] -तुम् इष्टौ त- -- त्. [591] -शो न यादृ- -- त्. [592] कारणशक्तिभेदेन स्वयं -- त्.
[ सेच्तिओन्: 4. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः ।]
ननु सर्वेषां धूमक्षणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायाम्[593]अर्थक्रियायाम् उपयोगात् कथं तादृशस्वभावता न स्यात्? । न, तस्या अप्य् अर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणैर् व्यवहारायोगाच्[594]च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशाद् अन्यत्वात् सदृशस्य । तथा हि -- गोसदृशो भवति गवयः न तु तादृशः, गोर् एवापरस्य तादृशत्वात् । परमार्थेनातादृशे ऽपि तादृशाभिमानो [स्. 150ब्.] मन्दमतीनां भवन् कथं निवार्येत? । तथा हि -- तत्त्वाध्यवसायो ऽपि तावद् -- अतस्मिन्न् अर्वाग्दृशां [त्. 317ब्.] विनिवारयितुं न पार्यते, किम् अङ्ग पुनस् तादृशत्वाध्यवसायः? यथोक्तम् - {प्. 157.1.} समानवर्णसंस्थाने सन्ताने ऽन्यत्र जायते । अतस्मिंस् तन्मतिःपुंसांकिम् उतैकत्र संततौ ॥ इति । तत्त्वचिन्तकास् तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् । तद् यद्य् अतादृशाद् अपि तादृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्य् अतद्भाविनः सकृद् अपि ततो भावो न स्यात् । अमुम् एवार्थं समर्थयमान आह -- परस्परापेक्षया इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्य् अत आह तत्र एवस्मिन् न्याये सति यदि धूमो यादृश आद्यो ऽग्न्यादिसामग्रीजनितस् तादृशो
द्वितीयादिक्षणभावी अग्न्यादिसामग्र्या [स्. 151अ.] अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिताद्[595]अन्यतो ऽग्नीन्धनादिसामग्रीजनिताद् आद्याद् धूमक्षणाद् भ-वेत् । तदा तस्य तादृशस्य धूमस्वभावस्य तज्जन्यो ऽग्न्यादिसामग्रीजन्यः स्वभावो न भवति किन्तु धूमजन्य एवेति कृत्वा सकृद् अपि ततो ऽग्न्यादिसामग्रीतो न भवेत् । तादृशस्य हि [त्. 318अ.] स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृद् अपि ततो भावो युज्यते[596]। अत्र दृष्टान्तः अर्थान्तरवद् इति । यथा ह्य् अर्थान्तरम्[597]अतज्जन्याभिमतम् अन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावम् इति सकृद् अपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्न् अन्यादृश एवासाव् इति गम्यते । स्यान्मतम् -- अग्न्यादिसामग्र्या ऽसाव् अतज्जन्यस्वभावो ऽपि तादृशो बलाज् जन्यते कस् तस्य तपस्विनो ऽपराधः? इत्य् अत आह -- नापि न केवलं स्वयम् अतज्जन्यस्वभावतया ततो न भवेत्, किन्त्व् अग्न्यादिसामग्र्य् अपि तं तादृशं धूमं -- यादृशो द्वितीयादिक्षणभावी {प्. 158.1} -- न जनयेत् । कुतः ? । अतज्जननस्वभावत्वात् । तादृशस्य ह्य् अन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् ? । अत्राप्य् उदाहरणम् -- सामग्र्यन्तरवद् इति । यथा सामग्र्यन्तरम् अतज्जननस्वभावाभिमतं [स्. 151ब्.] न जनयति तद्वद् अग्न्यादिसामग्र्य् अपि । तथा हि -- सा आत्मीयं स्वभावम् अनुसृत्यैव प्रवर्त्तते, ततः कुतो ऽसौ सामग्रीबलाज् जायेत ? ।
__________नोतेस्__________
[593] -नां वर्णकालीकरणादि- -- त्. [594] -हारयो- -- त्. [595] निवारिता- -- त्. [596] भावो न यु- -- त्. [597] अङ्कुराद्यर्था- -- त्.
[ सेच्तिओन्: 5. त्[ह्14]आदृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् ।]
स्यान्मतम् -- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो धूमो धूमजन्यस्वभावो[598]ऽपि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश् चोभयतो [त्. 318ब्.] भवति । तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्य् अत आह -- न च नैव धूमस्य तादृशस्य तदतज्जन्यः अग्न्यादिसामग्रीजन्यो धूमजन्यश् च स्वभावो युक्तः युक्त्या सङ्गताः । कुतः ? एकस्वभावत्वात् । तादृशस्य धूमरूपस्य भेदाभावात् । न हि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते ।भेदे ह्य् अन्यादृशस्यान्यादृशाद् भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस् तादृशातादृशस्वभावतैव स्यात् । तद् एव दर्शयन्न् आह -- धूमाऽधूम इत्यादि । धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस् तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो ऽन्यदृशः । तयोश् च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावता ऽवगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात् धूमाधूमजननस्वभावात्[599]तादृशातादृशजननस्वभावात् [स्. 152अ.] तादृशातादृशतया ऽस्य भवतो धूमाधूम[स्वभाव]स् तादृशातादृशस्वभावः स्यात् कुतस् तादृश एव? । कुत एतत्? इत्य् आह -- कार्यस्वभावानाम् इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । [त्. 319अ.] ततस् तादृशातादृशाद् भवतो धूमस्य तादृशातादृशस्वभावतैव स्यात्[600]। {प्. 159.1.} स्यान्मतम् -- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणाम् उत्पत्तिमात्र एव कारणापेक्षणाद् इत्य् अत[601]आह -- अकारणापेक्षणे च
तादृशातादृशरूपतायां तादृशातादृशकारणानपेक्षणे च तादृशातादृशतायाः अहेतुकत्वप्रसङ्गात् । न हि तादृशातादृशस्वभावयोर् अभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र[602]तादृशातादृशस्वभावकारणनिरपेक्षाणाम् अपि तदपेक्षा स्यात् । तस्माद् उत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । [स्. 152ब्.] तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वाद् एव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात् तादृशसम्भवः? इति । यत् तूक्तं `यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणम् अपि कार्यं विलक्षणाद् अपि सामग्र्यन्तराद् भविष्यतिऽ इति । तद् अयुक्तम् । यतो नास्माभिर् विलक्षणानां जनकत्वं वार्यते जनयन्त्य् एव परस्परविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस् तदवस्थानियताः तद् एकं कार्यं, तस्य तु तेषां च परस्परापेक्षया [त्. 319ब्.] जन्यजनकस्वभावतानियमात् तादृशस्य तादृशाद् एव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्य् अन्यतो भवतस् तदुत्पत्तिनियमाभावात् । अनियमे च [स्. 153अ.] कार्यकारणभावायोगात् । यदि त्व् अग्निर् इवेन्धनोपादानोपकृतस् तदुपादानोपाकृतं चेन्धनम् इव तदवस्थानियतम् अतादृशम् अपि धूमादिकं तादृशं[603]धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथा ऽवगम्येत तदा ऽग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावे[604]ऽपि तु तादृशस्य भावे तयोर् जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्य् अहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं तस्मात् सो
'gnīndhanādisāmagrīviśeṣo mantavyo yaḥ ādyadhūmajanano nānyaḥ sa dhūma ādyo yaḥ agnyādisāmagrīviśeṣeṇa janito nānya {p. 160.1} iti kṛtvā kāryakāraṇayor evaṃ yathoktena nyāyena janyajanakarūpasya svabhāvasya niyamād yādṛśaṃ yasya[605]karaṇam ekadā pratyakṣānupalambhābhyām evāvadhāritaṃ tadvijātīyāt tato 'nyādṛśāt kāraṇāt utpattiḥ tādṛśasya [s. 153b.] kāryasya na bhavati anyādṛśasya eva na vāryata iti | tad evaṃ tādṛśātādṛśakāraṇakṛtakatvaṃ tādṛśātādṛśakāryasvabhāvasya pratipādyopasaṃharann āha -- tat tasmāt yādṛśaṃ [t. 320a.] kāryaṃ yādṛśāt kāraṇāt dṛṣṭaṃ pratyakṣānupalambhābhyāṃ niścitam ekadā tat tan na vyabhicarati tādṛśam anyādṛśān na bhavati | yanaivaṃ tena kāraṇena siddhe kāryakāraṇabhāve tādṛśasya kāryasya tādṛśam eva kāraṇam iti niścaye sati yathoditena nyāyena kāryasya kāraṇena vyāptir anvayavyatirekarūpā siddhābhavati | na vijātīyād utpattir iti dṛṣṭakāraṇavijātīyāt kāraṇād anyādṛśān notpattir ity amum artham apratipadyamānaḥ kāryasya {na (? s. p. xxxv)} vijātīyāt kāraṇān notpattir ity ayam atrārtho 'bhimata iti manvānaḥ paraś codayann āha -- nanu svato vijātīyād api kāraṇāt kiñcit kāryaṃ bhavad dṛṣṭaṃtat [s. 154a.] kathaṃ na vijātīyād utpattir ity asya na dṛṣṭavirodhaḥ syāt | kathaṃ yathā[606]ity āha -- tad yathāgomayādeḥ ādigrahaṇāt śṛṅgacandrakāntādeḥ śālūkādi ādigrahaṇāc charodakādi | tathā hi -- gomayāc chālūkasya bhāvaḥ śṛṅgāc charasya candrakāntādapām | na ca gomayādikaṃ śālūkāder na vijātīyam tat kim ucyate na vijātīyād utpattiḥ iti | siddhāntavādī parasya
भ्रांततां दर्शयन्न् आह -- न विजातीयाद् उत्पत्तिः इति । यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृश्यान् न भवति इत्य् अयम् अत्रार्थो विवक्षितः, न तु कार्यविजातीयाद् इति । न च तस्य[607]व्यभिचारः । तद् आह -- तथाविधम् एव हि गोमयादिरूपं तादृशां शाल{ऊ}कादीनाम्[608]आदिनिमित्तं शालूकादिप्रबन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणम् इति कृत्वा शालूकादिपबन्धस्यादेर् न {प्. 161अ.} कारणभेदो ऽन्यादृशाद् उत्पत्तिः [त्. 320ब्.] सर्वस्य तदा ऽऽदेर् ग्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानाम् उत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर् भवति शरस्य तदा शराद् भावः[609]। तद् एवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च [स्. 154ब्.] शरादेस् तदुत्तरोत्तरस्य भावो न तादृशस्य शृङ्गादेर् इति[610]न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोर् अन्वयव्यतिरेकनिश्चयः । यदा ऽपि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना[611]अनादिसन्तानप्रवृत्ता इष्यन्ते तदा ऽपि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान् न व्यभिचार इति दर्शयन्न् आह -- अस्ति च इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर् गोमयेतरजन्मनोः शालूकयोर् अस्त्य् एव स्वभावभेदः परस्परम् अन्यादृशत्वं रूपस्याभेदे ऽपि सति । तुल्याकारत्वे सति कथम् अन्यादृशत्वम्? इति चेत्,[ह्15]आह -- न हि इत्यादि । यस्मान् नाकारतुल्यतैव भावानां तत्त्वे तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोर् आकारसाम्यात् तादृशत्वम् एव स्यान् न जातिभेदः । कुत एतत् ? इत्य् आह -- अभिन्नाकाराणाम् अपि इत्यादि
। येषाम् अपि हि समानाकारता [स्. 155अ.] केषाञ्चिद् भावानां तेषाम् अपि यत आकाराद् अन्यतो [त्. 321अ.] विशेषाज् जातिभेदो दृश्यते ततो नाकारसाम्यम् एव जात्य् एकत्वे निबन्धनम् । तथा हि -- आकारसाम्ये ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोर् इव सूर्ययोः, क्वचित् फलात् वन्ध्येतरयोर् इव कर्क्कोटक्योः, क्वचिद् रसाद् वन्{ध्}येतरयोर् इव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोर् इव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्रंसिन्योर् इव हरितक्योर् इति । तस्माद् आकारसाम्यनिबन्धनं यद्य् अपि `तद् एवेदम्ऽ इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालूकयोर् उपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर् जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् ।
__________नोतेस्__________
[598] धूमो ऽधूम- -- त्. [599] -माद् धूमज- -- त्. [600] -व न स्यात् -- त्. [601] -पेक्षणम् अभिमतम् इत्य् अत -- त्. [602] उत्पत्तौ [603] -कं अतादृ- -- त्. [604] धूमव्यतिरिक्तसामग्र्यभावे [605] नियमदर्शनात् यस्य -- त्. [606] दृष्टान्तः -- त्. [607] तत्र -- त्. [608] उत्पला- -- त्. [609] शरोद्भवः -- त्. [610] शृङ्गादेर् अन्यादृशस्य भाव इति -- त्. [611] सजात्यनुबन्धना -- त्.
{प्. 162.1}[ सेच्तिओन्: 6. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः ।]
यदि पुनर् गोमयेतरादिजन्मनः शालूकादेर् अग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्य् अत आह -- अन्यथा हि इत्यादि । यदि [स्. 155ब्.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा या ऽग्नीन्धनादिलक्षणा [त्. 321ब्.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि(-का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणम् तादृशम् एव कार्यं धूमशालूकादिकम् उत्पद्येत तदा न `कारणस्यऽ सामग्रीरूपस्य भेदाभेदाभ्यां वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य भेदाभेदौ वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्याताम् इति कृत्वा विश्वस्य सकलस्य पदार्थराशेः अहेतुकौ भेदाभेदौ सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति । ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामन्ति विद्वांसः, अतद्रूपपरावृत्तेर् उभयत्र समान्तत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्य् अगोव्यावृत्तिनिबन्धनगोजातिवद् गवां [स्. 156अ.] सर्वधूमानाम् एकसन्तानव्यवस्थाव्यु(प्य् उ)पादानकारणक्षणभेदे[612]ऽप्य् एकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात्[613]सर्वधूमानाम् । तथा हि -- अगुरुकर्पूरचन्दनादिजातिभेदम् अनुकुर्वन्त्य् एव [त्. 322अ.] तद्धूमाः, कास् अश्वासादिहरद्रव्यनिर्मितवर्त्तिभेदं च तद्धूमाः,
तद्रसवीर्यविपाकानुविधानात्[614]। न चाकारान्यतया[615]विजातीयत्वम्, यतो नाकारा ऽभेदभेदनिबन्धने सजातीयविजातीयत्वे । न हि {प्. 163.1} शाल्यङ्कुरादयः तद्वीजाद्याकारम् अनुकुर्वते । न च तज्जातीयतामशाल्यादि- व्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनम् एव तस्योपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जन्यतीत्य् अलम् अतिप्रसङ्गेन । ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्य् अपि तस्याभावात् तस्याहेतुकता ऽस्तु, अभेदस्य तु किम् आयातम्? येनोभयोर् अहेतुकत्वम् उच्यत इत्य् अत आह -- तथाहि इत्यादि । यदा हि सामग्रीभेदे [स्. 156ब्.] सत्य् अपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् -- न हि हेतौ सत्य् अभवतः कथञ्चिद् अपि हेतुमत्तोपपद्यते -- तदा यो ऽप्य् असाव् अभेदः कार्यस्य[616]सो ऽपि सामग्र्योः[617]भिन्नत्वाद् असत्य् अभेदे[618]जात इति कुतस् तस्यापि हेतुमत्ता? । यथा हि हेतौ सत्य् अभवतो न हेतुमत्ता तथा हेताव् असत्य् अपि भवतो हेतुमत्ता कुतः स्यात्? । हेतुभेदस्यैवा ऽभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्य् अयं भेदः क्वचित् पदम् आबध्नीयात्, शालीकोद्रवादेर् अपि [त्. 322ब्.] हेतुभेदस्याभेदहेतुत्वान् निमित्तम् अन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्य् उपलक्षणात् । स्याद् एतत् -- यो ह्य् अतादृशाद् अपि तादृशोद्भवम् इच्छति तस्य भेदाभेदयोर् अहेतुकत्वम् इष्टम् एव भावा एव केवलं हेतुमन्त इत्य् अत आह -- तद्व्यतिरिक्तश्च इत्यादि । न हि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस् तयोर् अहेतुकत्वे ऽपि
हेतुमान् स्यात् । तस्य ताभ्याम् अन्यत्वे `अस्येमौ भेदाभेदौऽ इति[619][स्. 157अ.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायाम् अनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर् भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच् च कुतः सम्बन्धिता? । उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य[620]एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे[621]ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? । अथा {प्. 164.1} व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, ताव् अपि यदि भिन्नौ तदा भावस्वभावस् तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् । पुनस् तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यम् अनवस्था [त्. 323अ.] च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस् ततो ऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोर् एव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर् व्यतिरेकवतोः वयर्थ्यम्; [स्. 157ब्.] भेदाभेदबुद्धेर् अपि तत एव सिद्धेः । तस्माद्वैशेषिकादिकल्पितयोर् भेदाभेदयोर् विशेषसामान्यात्मनोर्[622]अयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोर्[623]अहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वम् आपतितम् । ततो भावानाम् अहेतुकत्वान् नित्यं सत्त्वम् असत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिद् असत्त्वं तद् अपि सर्वदा स्यात्
। कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिद्[624]अभावात् । यस्माद् अपेक्षयाहि तस्यापेक्षणीयस्य हेतोर् भावे भवन्तो ऽभावे च न भवन्तः कादाचित्काः कदाचिद् भवा युज्यन्ते, नान्यथेति । तस्मान् न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिर् अभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् । पुनर् अपि विलक्षणायाः सामग्र्याः [त्. 323ब्.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरम् आह -- व्यवस्थावांश्च प्रतिनियतः साध्येषु घटपटादिषु साधनानां मृत्तन्त्वादीनां लोके यो नियोगो घटार्थी मृत्पिण्डम् एव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तून् एव न मृत्पिण्डम् इत्यादिकः स न [स्. 158अ.] स्यात् । कस्मात्? इत्य् आह -- कारणानां -- सामग्रीणां याः शक्तयः -- आत्मातिशयलक्षणास् तासां प्रतिनियमे काचिद् एव सामग्री {प्. 165.1} क्वचिद् एव कार्ये उपयुज्यते नान्या ऽन्यत्रेत्य् एवंरूपे हि यस्मात् किञ्चिद् एव मृदादिकं कस्यचिद् एव घटादेः साधनायोपादीयते नापरं तद्विलक्षणं तन्त्वादिकम् कस्माद् एवम्? इति चेत्? तस्यैव मृदादेः तत्र घटादौ शक्तेर् योग्यत्वात् अन्यस्य तन्त्वादेस् तत्राशक्तेः । कस्मात् तस्यैव तत्र शक्तिर् नान्यस्य इत्य् अत आह तयोः मृदादेस् तन्त्वादेश् च तज्जननस्वभावत्वेन घटादिजननस्वभावत्वेन इतरस्वभावत्वेन च घटाद्यजननस्वभावेन च भेदात् अन्यत्वभावात् । न हि मृत्तन्त्वादिरूपतातो ऽन्यद् एव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानाम् अपि शक्तिप्रतिनियमो नेष्यते विलक्षणाद् अपि अविलक्षणकार्योपगमात् [त्. 324अ.] तदा तज्जननस्वभावविलक्षणाद् अपि धूमादिजननस्वभावं यत् कारणम्
अग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणाद् अपि शक्रमूर्द्धादेः क्षणाश्रयेण वा धूमादेस् तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्लक्षणस्य चोत्पत्ताव् इष्यमाणायां न तज्जननशक्तेःप्रतिनियमो विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । इति तस्माद् यत् किञ्चित् कार्यं यतःकुतश्चित् कारणात् स्यात् उत्पद्येत, न यथादृष्टम् एव यथादृष्टात्[625]। सर्वं [स्. 158ब्.] सर्वतो जायेतेति यावत् । तस्माच् छक्तिप्रतिनियमः कारणानाम् अभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्य् अन्यादृशतैवेति सर्वस् तादृशस् तथाविधजन्मेति सिद्धम् । स्यान्मतम् -- विलक्षणाया अपि सामग्र्यास् तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिद् एव च तथाभावान् न यथोदितदोषावसर इत्य् अत आह तज्जननशक्तिसाम्ये तु इत्यादि । उक्तम् एव तावद् अत्र पूर्वपक्षे `न च धूमस्य तदतज्जन्यस्वभावःऽ इत्यादिकं दूषणम् । अभ्युपगम्यापीदम् आह -- यादृशीह्य् अग्निसहकारिणः तदाधीयमानविकारस्येन्धनस्य स्वभेदेन धूमभेदहेतोः[626][त्. 324ब्.] शक्तिः आत्मातिशयस् तादृश्येव शक्रमूर्द्ध्नो[627]{प्. 166.1} धूमस्य वा यदि तत्सामग्रीजन्यधूमाविलक्षणकार्यजननशक्तिर् आत्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकम् एवार्थान् नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तद्विलक्षणात्मातिशयासम्भवात् । स एव ह्य् अग्निर् य इन्धनविकारमादधानो धूमं जनयति, तच् चेन्धनं यदग्निना ऽऽधीयमानविकारं धूमं स्वजातिम् अनुकारयति । यदि [स्. 159अ.] च शक्रमूर्द्धादेर् अपि एवं भवता ऽभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्,
अर्थाभेदम् अभ्युपगम्य तथाभिधानात् यत एवम् इति तस्मात् कार्यं धूमादिकं दृष्टम् एकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितम् अतद्रूपव्यावृत्तेनात्मना कारणम् इन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा न व्यभिचरति तद्विलक्षणाद् अन्यतो न भवतीति कार्यहेताव् अन्वयव्यतिरेकनिश्चयः सिध्यतीति ।[628] {प्. 167.1} [ 4. अनुपलब्धिहेतुनिरूपणम् ।] [ सेच्तिओन्: 1. विप्रतिपत्तिप्रदर्शनपूर्वकम् अनुपलब्धेस् स्वरूपनम् ।]
__________नोतेस्__________
[612] एकजातिव्य- -- त्. [613] एकसन्तानरा(-नव्य)वस्थेति सम्बन्धः [614] तद्रसकार्यवि- -- त्. [615] च कारणजन्यतया -- त्. [616] -दः सर्वस्य -- त्. [617] ऽपि कारणस्य -- त्. [618] -द् अभेदे -- त्. [619] इत्य् आकार -- त्. [620] स्वात्मना -- त्. [621] भेदाभेद- [622] भेदाभेद- [623] भेदाभेदयोः [624] कदाचिद् -- त्. [625] यथादृष्टायथादृष्टयोः -- त्. [626] स्वभावभेदहे- -- त्. [627] शक्रमूर्ध्नादेर् वा -- त्. [628] त्. अद्द्स् ब्राह्मणाचतेन विरचिते हेतुबिन्दुप्रकरणे कार्यहेत्वधिकारो द्वितीयः ।
tad evaṃ kāryahetau yato yadbhavadṛṛṣṭaṃsakṛt pratyakṣānupalambhābhyāṃtādṛśasya sarvasya tathāvidhād eva janma na tadvijātīyād ity ekasyā [t. 325a.] api kāryavyakteḥ kutaścid bhāvadarśane vyāptyā'nvayavyatirekasiddhir iti pratipāditam | anupalabdhau tu yathoktāyāṃ nimittāntarābhāvopadarśananibandhanayor nānvayavyatirekayor vipratipattiḥ | svarūpa eva tu pare vipratipadyante | tathāhi kecid upalabdhyabhāvamātram anupalabdhim abhāvasya [s. 159b.] prasajyapratiṣedhātmanaḥ pramāṇāntaratvena gamikām icchantiīśvarasenaprabhṛtayaḥ, apare tu pratiṣedhyaviṣayajñānarūpeṇāpariṇāmam[: pratiṣedhyaviṣayajñānaviṣayarūpeṇāpariṇāmas hbṭā 380.28f.] ātmanaḥ tadanyavastuviṣayaṃ vijñānam eva vā 'bhāvasya gamakaṃ pratyakṣānumānābhyaṃ pramāṇāntaram āhurmmīmāṃsakāḥ| na hy anyavastuviṣayaṃ jñānaṃ pratyakṣānumānātmakam abhāvaṃ pratipadyate, tasya bhāvāṃśaviṣayatvāt, abhāvāṃśasya ca tato 'nyatvāt | abhāvāṃśe[: bhāvāṃśa (abhāvāṃśe) janayad iti hbṭā 381.3] tu nāstīti jñānaṃ janayat tadabhāvapramāṇākhyaṃ labhate, yathendriyaṃ svaviṣayapratipattijanakatvena pratyakṣākhyām | tathā'nye anyabhāvalakṣaṇāṃ tajjñānalakṣaṇām[629]vā 'nupalabdhim abhāvasyaiva sādhanam āhur nābhāvavyavahārasya, anupalabdher liṅgād abhāvasiddhau svayam eva tadvyavahārapravṛtteḥ |naiyāyikās tu nāstīti jñānam eva kevalapradeśādigrāhijñānānantarabhāvipratyakṣaṃ na pramāṇāntaram abhāvasya tuccharūpasya paricchedātmakam ācakṣate tad evāsya [t. 325b.] ghaṭādeḥ pratiṣedhyasyānupalabdhiśabdena yady ucyate na kaścid virodhaḥ iti | tad evam
अनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनाम् इति [स्. 160अ.] तन्निरासार्थम् अनुपलब्धिस्वरूपं तावद् उपदर्शयन्न् आह उपलब्धिलक्षणप्राप्तस्य इत्यादि । `उपलब्धिलक्षणप्राप्तिःऽ -- `उपलम्भप्रत्ययान्तराणां[630]समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश् च । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्य् एवंरूपाशास्त्रकृताऽन्यत्र {प्. 168.1} व्याख्यातानैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्य् अनुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणाम् आहुः । महत्त्वाद्[: महतीति ह्ब्टा 382.7] अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः [वैसू iv.1.6.] इति वचनात्[: एवं वचनाद् इत्य् ह्ब्टा 382.8] । एवंचोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्य् अपि वस्तुनि सम्भवतीत्य् असद्व्यवहारसिद्धाव् अनैकान्तिकीत्य् आचक्षते । न हि चाक्षुषस्यापि रश्मेर् महत्त्वानेकद्रव्यवत्त्वरूपाण्य् उपलम्भकानि भवन्ति । न च तावता ऽनुपलम्भ ऽप्य् असद्व्यवहारस् तत्र शक्यते कर्त्तुम् । यद् आहभाष्यकारः[631]`नानुमानत उपलभ्यमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावे हेतुःऽ[632][ दुर्वेक: भाष्यकार इस् न्यायभाष्यकार पक्षिलस्वामी (ह्ब्टा 382.23)]इति । इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुर् इत्य् अनुमानतश् चाक्षुषो रश्मिर् उपलभ्यते तस्य [स्. 160ब्.] प्रत्यक्षतो ऽनुपलब्धिः कथम् अभावव्यवहारं साधयेत्? इति । तद् एवम् उपलब्धिलक्षणप्राप्तस्यानुपलब्धिम् असद्व्यवहारे ऽनैकान्तिकीम् आहुर्नैयायिकाः[त्. 326अ.] तन्निरासम्[: तन्निरासार्थम् ह्ब्टा 383.3] उपलब्धिलक्षणप्राप्तेर् अविपरीतरूपोपदर्शनेनशास्त्रकारो ऽभ्यधात् । यदाह्य्
उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च यथोक्त उपलब्धिलक्षणप्राप्तिर् उच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्याअसम्भवात् । महत्त्वादिकंत्व् असम्भवाद् एव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । न हि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिना ऽऽकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानम् अनात्मरूपविवेकिना रूपेण प्रत्यक्षताम् अनुभवत्य् अतिप्रसङ्गात् । तत् कुतो ऽस्या ऽसतो महत्त्वादिसम्भवः? । न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्य् अस्य महत्तासम्भवः । अपररूपेण[633]वा ग्रहणे कथंतद्ग्राहिज्ञानम्[634]अभ्रान्तम्? । ततो न महत्त्वं द्रव्यस्योपलम्भकंरूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च [स्. 161अ.] तद्विवेकेनानुपलक्षणान् न तथाग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणम् इष्यते । तच् च प्रतिलब्धात्मकम् एव तथाताम् अनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणम् एव । न चास्य[अस्य : स्वस्य ह्ब्टा 382.13] द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वा ऽऽविर्भवति यतः{प्. 169.1} प्रागप्रतिपन्नाधारभावं महत्त्वादिगुणप्रतिबन्धाद् आधारतां यायात् । न चाजनक आधारः । जनकत्वे च [त्. 326ब्.] क्षणिकता, अर्थक्रियाविरोधाद् अक्षणिकस्य । ततः कुतः समवायिकारणस्य सम्भवः?, यतःस्वोत्कलितंकार्यं जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्राग् ऽनाधारस्य पश्चादाधाराभावः। समवायिकारणासम्भवाद् एवानेकद्रव्यवत्त्वम् अप्य् असम्भवि यस्माद् अनेकं द्रव्यम्
आरम्भकं समवायिकारणात्मना यस्य विद्यते तद् एवंव्यपदिश्यते । द्रव्याभावाच् च नानेकद्रव्यवत्त्वं । सत्त्वे ऽपि महत्त्वादेर् नेयम् उपलब्धिलक्षणप्राप्तिर् अस्माकम् अभिमता । या त्व् अभिमा(म)ता[635]न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारसिद्धाव् अनैकान्तिकीति शास्त्रकारो दर्शयाम् बभूव [स्. 161ब्.] उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः कारणस्य व्यापकस्य वा प्रतिषेध्याद् अन्यस्य सा अभावहेतुः कार्यस्य व्याप्यस्य च अभावव्यवहारहेतुश्च । यातु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा ऽभावव्यवहारहेतुर् एवेति वाशब्देन दर्शयति । या त्व् अनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः, निमित्ताभावात् तु सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् ।
__________नोतेस्__________
[629] तदज्ञा- -- त्. [630] आलोक-मनस्कार-चक्षुषाम् [631] न्यायसूत्रभाष्यकृच् चान्वयः [632] अत्र न्यायसूत्रम् -- नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः॥ [न्सू 3.1.36] इत्य् एवरूपं भाष्यकारवचनत्वेनोद्धृतम् -- सम्पादकः । लभ्यते [633] महत्त्वेन [634] प्रच्य- [635] -भिमता भवताम् अप्य् अभिमता -- त्.
[ सेच्तिओन्: 2. स्वेष्टाम् अनुपलब्धिं स्पष्टयितुम् ईश्वरसेनकुमारिलादीनां निरासः ।]
तत्र ये तावद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् इच्छन्ति, विज्ञानंवाऽन्यवस्तुनि [श्ल्व् अभावपरिच्छेद 11द्.] इति वचनात् तदन्यवस्तुविज्ञानम् एव वा, तन्निरासार्थं [त्. 327अ.] ज्ञातृ-ज्ञेयधर्मलक्षणाम् अनुपलब्धिं दर्शयितुम् उपलब्धिम् एव तावद् द्विविधाम् दर्शयन्न् आह -- अत्र अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतया ऽपेक्ष्यते तदा तस्या उपलभमानस्य कर्तुः धर्मत्वे अपेक्ष्यमाणे तज्ज्ञानम् उपलभमानस्य यज्ज्ञानं तद् उपलब्धिर् उच्यते । उपलभमानश् च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत[636]उपलब्धिजनक उच्यते । तथा हि -- उपलब्धेर् जनक आश्रयो वा कर्त्ता परैर् उच्यते । न {प्. 170.1} चेन्द्रियादेर् अन्यस्य जनकत्वं [स्. 162अ.] सम्भवति यतो ऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेर् अन्यस्य सम्भवतः सत्स्व् इन्द्रियादिषु नियमेनोपलब्धेर् भावात् । यदि हीन्द्रियादिषु सत्स्व् अपि कदाचिद् उपलब्धिर् नोपजायते तदा सत्स्व् अप्य् अन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तद्व्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतद् अस्ति, तत् कथम् आत्मनस् तदुत्पत्तौ निमित्तभावो[637]ऽभ्युपगम्येत? अतिप्रसङ्गात् । यद् आह - यस्मिन् सति भवत्य् एव यत् ततो ऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः[638]॥ [pv i 26] इति । आश्रयत्वम् अपि जनकस्यैवेति तद् अप्य् आत्मनो न सम्भवति । स्थापकत्वाद् आश्रय इति चेत्; न, क्षाणिकत्वे स्थितेर् अभावाद् उपलब्धेर् अक्षणिकत्वे ऽपि स्वयम् एवाविनाशाद् अवस्थानात् । तथा हि -- उपलब्धेर् अविनाश एव स्थितिर् उच्यते न
पाताभावः [त्. 327ब्.] तस्या गुरुत्वाभावात् संयोगाभावेन गुरुत्वात् पतनम् [व्सू v.1.7.] इति चपरेषांकृतान्तः । समवायाद्[639]आश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानाम् एवेष्यते । न चापतनधर्मिकाया उपलब्धेर् आधारेण किंचित्, [स्. 162ब्.] समवायाच् चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाच् च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्य् अलं क्षुण्णक्षोदीकरणेनेति । एवम् उपलब्धिम् आदर्श्यानुपलब्धिम् आदर्शयन्न् आह -- तस्माद् उपलब्धिज्ञानाद् अन्या वस्त्वन्तरविषया उपलब्धिः ज्ञानात्मिका अनुपलब्धिः । कथं पुनर् उपलब्धिर् एवानुपलभ्दिर् उच्यते? इत्य् आह -- विवक्षितेत्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्याद् अन्यत्वाद् `अभक्ष्यो ग्राम्यकुक्कुटःऽ -- भक्ष्यो ऽपि सन् तदन्यस्य -- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयाद् अन्यत्वाद् `अस्पर्शनीयश् चाण्डालादिःऽ -- तदन्यस्य स्पर्शनीयो ऽपि सन् -- उच्यते । {प्. 171.1} तद्वद् उपलब्धिर् एवानुपलब्धिर् म्मन्तव्या । नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह -- पर्युदासवृत्त्येति । पर्युदासेन प्रतिषेध्यस्यार्थस्य वर्जनेन या विशिष्टे ऽर्थे वृत्तिस् तया, नञः आगृहीतप्रतिषेधस्य[640]भावविषयता । यत्र विधेः [स्. 163अ.] प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक् स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता । विधेश् च प्राधान्यं `विवक्षितोपलब्धेर् अन्योपलब्धिर् भवतिऽ इत्य् एवं वाक्येनान्योपलब्धेर् विधानात् [त्. 328अ.] अन्योपलब्धिसामर्थ्याद् एव
विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेर् अनिवर्त्तने तदपेक्षया ऽन्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते । किं तर्हि? । अन्यशब्देन पर्युदासाश्रयेणा ऽन्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिर् अनुपलब्धिर् इति । नञश् च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्य् एकवाक्यत्वं `न उपलब्धिर् अनुपलब्धिःऽ इति । प्रसज्यप्रतिषेधः पुनर् एतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिर् अर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते । तद् एवं ज्ञातृधर्मलक्षणाम् अनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्न् आह -- उपलभ्यमानधर्मत्व इत्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर् विवक्ष्यते तदा विषयस्वभाव उपलब्धिर् मन्तव्या । कीदृशो [स्. 163ब्.] विषयस्वभावः? इत्य् आह -- स्वविषयेत्यादि । प्रतिषेध्यस्य घटादेर् यदात्मविषयं विज्ञानं तज्जनने या योग्यता तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः कथं योग्यतालक्षणः? । तथा हि योग्यता धर्मः, धर्मधर्मिणोश् च भेद एव इत्य् अत आह -- योग्यतायाः इत्यादि । योग्यता हि परमार्थतो [त्. 328ब्.] भावरूपैव न वस्तुस्वरूपाद् भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यता ऽस्येति च सम्बन्धो भावतो न स्यात् । सम्बन्धकल्पनायाम् अनवस्थेत्य् उक्तप्रायम् । तद् एवम् उपलब्धेर् विषयधर्मतां प्रतिपाद्यानुपलब्धेर् अपि प्रतिपादयन्न् आह तस्माद् अन्यः इत्यादि । तस्मात् प्रतिषेध्याद् घटादेः {प्. 172.1} स्वविषयज्ञानजननयोग्याद्[641]यो ऽन्य उपलम्भजननयोग्य एव न
तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनम् एव न्यायम् अत्रादिशन्न्[642]आह पूर्ववद् इति । विवक्षितोपलब्धेर् अन्यत्वाद् अभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्येति । कथं पुनर् अयं नञ् अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य [स्. 164अ.] तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं[643]पर्युदासवृत्त्या प्रकल्पयति, न पुनर् अविशेषेण सर्वेषाम् एवान्यशब्दवाच्यानाम्? इत्य् अत आह -- यत्र यस्मिन् इत्यादि । यत्र देशे काल ऽवस्थायां वा ऽव्यवधानादिलक्षणायाम्, यस्मिन् प्रदेशरूपादौ उपलभ्यमाने नियमेन अवश्यंतया यस्यान्यस्य पदार्थस्य घट्ररूपादेर् उपलब्धिर् भवति स घटरूपादिः पदार्थः तत्संसृष्टः तेन प्रदेशरूपादिना संसृष्टः । कथम् एकस्मिन्न् उपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । [त्. 329अ.] प्रदेशघटयोर् हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्प्पयति तदा घटरूपम् अपि तत्र[644]तथाविधं स्वाकारं समर्प्पयत्य् एव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस् तु कथं तत्संसृष्टता? इत्य् अत आह -- एकज्ञानसंसर्ग्गाद् इति । एकत्र हि ज्ञाने द्वाव् अपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारम् आजायमानं तयोर् आत्मनि संसर्ग्गं दर्शयति । किम् इति पुनस् तत् ज्ञानं पदार्थद्वयाकारम् अवश्यं [स्. 164ब्.] भवति यतस् तयोर् ज्ञानद्वारकः संसर्ग्गः? इत्य् अत आह -- तयोःसतोः इत्यादि । याव् एतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस् तदा
नैवैकाकारनियता प्रतिपत्तिर् भवति । कस्मात्? असम्भवात् । न ह्य् एष सम्भवो ऽस्ति -- यत् तुल्ययोग्यतारूपयोर् एक एव प्रतिभासेत नापर इति । तथा हि -- अविशिष्टत्वाद् योग्यतायाः कस् तत्र स्वाकारं न समर्प्पयेत्? । अनुभवसिद्धिं च युगपद् अनेकप्रतिभासनम् । न चानुभवविरुद्धम् आचक्षणा विदुषाम् अवधेयवचसो भवन्ति । लघुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, {प्. 173.1} बाधकप्रत्ययविरहेण भ्रान्तिकल्पनानुपपत्तेः [त्. 329ब्.] सर्वत्र तथाभावप्रसङ्गात् । करणधर्म एवायं यद् एकस्मिन्न् एव कर्मणि क्रियां निष्पादयति नानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुर् इति चेत्, कथं प्रदीपादिर् अनेकत्र बहूनां प्रतिपत्तिजनकः? । कर्तृभेदाद् अदोष इति चेत्; कर्त्त्रेकत्वात् तर्हि क्रियैकत्र कर्माणीति कथं `करणधर्मःऽ इत्यादि वचो न प्लवते? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो [स्. 165अ.] युक्तः क्रिया वा काचित् । न च सर्र्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिद् अतिशयो ऽस्ति येनायं कर्त्ता का(क)रणं चेदम् इत्यादि परिकल्प्येत । तस्माद् अविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्ग्गः । तुल्ययोग्यतारूपत्वस्य चैतद्[645]एव लिङ्गम् । न ह्य् असति तुल्ययोग्यतारूपत्वे युगपद् एकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति । तत्र येषांसौगतानाम् इदं दर्शनं `एकायतनसङ्गृहीते ऽनेकत्राप्य् एकम् एवेन्द्रियज्ञानम् आजायतेऽ इति तेषां मुख्य एवैकज्ञानसंसर्ग्गः । ये तु `तत्रापि प्रत्यर्थं भिन्नान्य् एवैकेन्द्रियनिमित्तान्य् एककालानि तद्विषयाणां युगपत्
सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत[646]एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्य् उपजायन्ते` इति वर्णयन्ति [त्. 330अ.] तेषाम् एकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्व् एकत्वव्यपदेशो लोके[647]तथाध्यवसायाद् औपचारिकः । यदि नामैकज्ञानसंसर्ग्गात् तत्संसृष्टस्यापि [स्. 165ब्.] सामान्येन सर्वम् अन्यम् अयं नञ् किन् न प्रतिपादयति? इति अत आह -- तस्मात् इत्यादि । यस्माद् अविशिष्टत्वाद् योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोर् अपि संसर्ग्गः तस्माद् अविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्ग्गिणौ तौ तस्मात् तयोर् एवंरूपयोः परस्परापेक्षम् एव न सर्वान्यपदार्थापेक्षम् अन्यत्वम् इह अनुपलब्ध्यधिकारे अभिप्रेतम् । लोके तु यद्य् अविशेषपदार्थान्तरापेक्षम् अन्यत्वं नञा क्वचिद् उच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तद् इह न गृह्यते, {प्. 174.1} प्रत्यासत्तेराश्रयणात् एकज्ञानसंसर्ग्गलक्षणा प्रत्त्यासत्तिर् आश्रीयते ना ऽन्या प्रमाणचिन्ताधिकारात् अन्यथा ऽनुपलब्धिर् अनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस् तथाविधम् अन्यत्वम् आश्रयणीयम् यद् अनुपलब्धेर् अव्यभिचारनिबन्धनम् । तच् च यथोक्तम् एवेत्य् अभिप्रायः । तद् एवम् एकज्ञानसंसर्ग्गापेक्षया ऽन्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्न् आह -- स केवलः इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षया तस्माद् अन्य उच्यते [स्. 166अ.] तदा घटविविक्तप्रदेशज्ञानं [त्. 330ब्.] वा ऽनुपलब्धिः, न तु यथेश्वरसेनो मन्यते उपलब्ध्यभावमात्रम् अनुपलब्धिर् इति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा; न तु तद्विविक्तज्ञानम् एव यथाहकुमारिलःविज्ञानंवान्यवस्तुनि [श्ल्व्
अभावपरिच्छेद 11द्.] इति । यथा ह्य् अन्यवस्तुविषयं ज्ञानम् अनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि । तथा हि -- कस्यचित् प्रतिपत्तुः `यतः केवलप्रदेशाकारम् एव ज्ञानं मया संवेद्यते न तु घटाकारम् अपि तस्माद् अत्र घटो नास्ति` इति एवं नास्तिताज्ञानम् उत्पद्यते; कस्यचित् तु `यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान् नास्त्य् अत्र घटः` इत्य् एवम् । तस्माद् उभयोर् नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यम् इति द्वयोर् अपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणा ऽनुपलब्धिः कर्तृस्थक्रिया ऽपेक्षया यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति । एवम् अनुपलब्धिं [स्. 166ब्.] पर्युदासवृत्त्या व्यवस्थाप्य साध्यम् अस्या दर्शयन्न् आह -- साअभावम् इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि [त्. 331अ.] प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्य् अर्थित्वादिभिः स्मृतिर् अस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावम् अभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस् तु अभावव्यवहारम् एव । अभावव्यवहारश् च ज्ञानभिधानप्रवृत्तिलक्षणः । तत्र `नास्त्य् अत्र घटः` इत्य् एवम् आकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिर् इति । {प्. 175.1} अत्रेश्वरसेनकुमारिलयोर् वचनावकाशम् आशङ्क्य सिद्धान्तव्यवस्थाम् एव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थम् आह -- कथम् अन्यभाव इत्यादि ।ईश्वरसेनो हि मन्यते -- कार्य-स्वभावहेतुभ्यां
भावरूपाभ्यां अनुपलब्धेः पृथक्करणाद् अवश्यम् अभावरूपत्वम् अस्याः, अन्यथा पृथक्करणम् अनर्थकम् एव स्यात् । त्वया [स्. 167अ.] चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस् तज्ज्ञानस्य वा भावरूपानुपलब्धिर् आख्यायते तन्नूनम् अन्यभावस् तदभावो येनैवम् अभिधीयते । न चैतद् युज्यते, भावाभावयोर् विरोधाद् एकात्मतानुपपत्तेर् इति । कुमारिलो ऽप्य् एवं मन्यते -- येयं ज्ञातृ-ज्ञेयधर्मलक्षणा द्विधा ऽनुपलब्धिर् अभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः [त्. 331ब्.] प्रतिषेध्यज्ञानाद् अन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथम् अभावः? प्रतिषेध्यस्य तज्ज्ञानस्य वा कथम् अभावांशः? । नैव युज्यते, धर्मरूपतया भावाभावांशयोर् भेदात् । सत्य् अपि धर्मिरूपेणाभेदे तयोश् चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यद् आह -- धर्मयोर् भेद इष्टो हि धर्म्यभेदे ऽपि नःस्थिते । उद्भवाभिभवात्मत्वाद् ग्रहणंचावतिष्ठते[648]॥ [श्ल्व् अभाव 20.] इति । उक्तोत्तरताम् अस्य दर्शयन्न् आह -- उक्तम् उत्तरम् अत्र चोद्ये यथा पर्युदासवृत्त्याअपेक्षातः । `प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस् तज्ज्ञानं [स्. 167ब्.] वा ऽभावो ऽनुपलब्धिश् चोच्यते` इतिईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन् तु पर्युदासो ऽपि । ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपता ऽप्य् अन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस् त्व् अनुपलब्धेः पृथक्करणं प्रतिपत्त्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ
वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्व् अभावप्रतिपत्त्य् अध्यवसायी । परमार्थतस् तु प्रतिषेध्याभावव्यवहारयोग्यता {प्. 176.1} वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर् भिद्यत[649]इति । यत् तु `अनपेक्षितार्थान्तरसंसर्ग्गं प्रतिषेधमात्रम् अनुपलब्धिः` इतीश्वरसेनो मन्यते तन्निराकुर्वन्न् आह -- न प्रतिषेधमात्रम् इत्यादि । कस्मात्? इत्य् आह -- तस्य साधनासिद्धेः इत्यादि । [त्. 332अ.] न ह्य् अभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात्[650]। हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः । अभावस्य [स्. 168अ.] चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश् च साधकत्वायोगाद् अभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनम् एव किञ्चिन् न सिध्यतीति । स ह्य् अभावत्वाद् अपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्य् अपरेणेत्य् अनवस्थानम् । न चेन्द्रियवद् अज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं `कथम् अभावः कस्यचित्, प्रतिपत्तिः प्रतिपत्तिहेतुर् वा? । तस्यापि कथं प्रतिपत्तिः` इत्य् अत्रान्तरे स्वयम् एव विपञ्चयिष्यति[651]। कुमारिलस्याप्य् उत्तरम् आह -- तस्य अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्य् असौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्य् अभावांशो ऽपि न क्वचित् सिध्येत् । तस्यैवंविधस्य भावसिद्धिर् एव भावांशसिद्धिर् एव
अपरस्य प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिर् अभावांशस्य त्वदभिमतस्य सिद्धिर् अस्तु भावांशस्यैवाभावांशरूपतोपपत्तेर् इति मन्यते । तथा हि -- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा [स्. 168ब्.] तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किम् अन्येनाभावांशोपगतेन? । अत [त्. 332ब्.] एवासंसृष्टरूपस्येति विशेषणम् । यत {प्. 177.1} एवम् इति तस्माद् अन्यभावो ऽपि अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलम् अभावांशस् त्वन्मत्या ऽभाव इति व्यपदिश्यते ऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद् विरुध्यत इति । यद् उक्तं `ज्ञातृ-ज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावः`[652]इति तत् परो विघटयितुं, यच् चोक्तं `न प्रतिषेधमात्रम् अनुपलब्धिः, तस्य साधनासिद्धेः`[653]इति द्वितीये व्याख्याने[654]प्रतिषेधमात्रस्यानुपलब्धि[र् इ]त्य् एतस्य साधनं[655]दर्शयितुम् आह -- अन्यभावलक्षण इत्यादि । एवं मन्यते -- लोको हि केवलप्रदेशदर्शनात् घटाभावम् एव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्याद् अन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद् वा तज्ज्ञानस्य यो भावस् तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं [स्. 169अ.] घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारम् इत्य् एवं व्यवस्थापयितुं युक्तम् । न चैवम् अपि व्यवस्थापने
[अस्म]त्पक्षस्य काचित् क्षतिः । तथा हि -- पारम्पर्येणापि यद् अनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत् एव सिद्धं भवतीति [त्. 333अ.] प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि । अयम् अभिप्रायः -- यथा भवतो ज्ञातृ-ज्ञेयधर्मलक्षणा भावरूपा द्विविधा ऽनुपलब्धिस् तथा ममापि ज्ञातृ-ज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्य् अनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूप ऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश् च कुतो ऽनवस्था येन साधनासिद्धिः स्याद् इति । तत्र[656]अन्यभावलक्षण इति प्रतिषेध्यात् तज्ज्ञानाच् च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ज्ञानाच् चान्यत्वाद् {प्. 178.1} अनुपलब्धित्वेन भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस् तस्य [स्. 169ब्.] प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् तत्सिद्धिसिद्धो वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस् तस्य प्रतिषेध्यस्य तज्ज्ञानस्य[657]वा ऽभाव इति एवम् अपीष्यमाणे न कश्चिद् विशेषः त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः [त्. 333ब्.] ततो ऽस्मद् दर्शनं किम् इति प्रतिक्षिप्यते? । नन्व् अस्त्य् एवैवम् इष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिर्
इतरया[658]व्यवहिता तदभावव्यवहारं साधयेद् इतरा तु साक्षाद् इत्य् आह -- स विशेषो नास्ति येन विशेषेणानुपलब्ध्या ऽभावरूपया वस्तुसंस्पर्शरहितया ऽस्मदभिमतया ऽभावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतो ऽप्य् अबाधकत्वाद् असत्समत्वम् एव । यद् अप्य् उक्तं -- `तस्य साधनाभावद् अभावव्यवहारासिद्धिप्रसङ्गः`[659]इति, तद् अप्य् असत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस् तद्विषया चोपलब्धिर् अनुपलब्धित्वेनेष्टा भवतस् तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च किं कस्मात् न साधनं लिङ्गम् इष्यते? । तथा हि सति लोकप्रतीतिर् अनुसृता भवति । किंपुनःकस्मात् पुनः अभावस्य द्विविधस्य सिद्धिर् एव तदभावसिद्धिः न तत्साध्या काचिद् अन्या [स्. 170अ] विद्यत इत्य् अस्मन्मतनिषेधार्थं लोकातिक्रान्तम् इष्यत इति पूर्वपक्षः । अत्राह -- अपृथक्सिद्धेर् अन्यभावात् तदभावस्य पृथक्सिद्धेर् अभावात् कुतो लिङ्गलिङ्गिता । तथा सम्बन्धाभावाच् च अन्यभावतदभावयोर् न लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं [त्. 334अ.] विवृण्वन्न् आह अन्यभावस् तद्विविक्तप्रदेशात्मकस् तावन् न साधनंलिङ्गं प्रतिषेध्याभावस्य, `तदुपलब्धिर् अपि तदभावस्य न साधनम्` इति पश्चाद् वक्ष्यते । तदर्थम् एव तावच्छब्दः । कस्माद् अन्यभावो न साधनम्? इत्य् आह -- यत्सिद्धौ यस्य वस्तुनः सिद्धौ प्रतीतौ यस्य अपरस्य {प्. 179.1} वस्तुनो न सिद्धिर् न प्रतीतिः तद् वस्तु तस्य वस्तुनो लिङ्गं भवतीत्य् अयं लिङ्गलिङ्गिनोर् न्यायः । तत्रोदाहरणम् -- धूमाग्निवद् इति । यथा -- यदा धूमप्रतीतौ नाग्निः
प्रतीयते तदा तयोर् ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ । यदि नामैवं ततः किम्? इत्य् अत आह -- अन्यस्य वस्तुनो यो भावःस्वभावः तत्सिद्ध्यैव तत्प्रतीत्यैव तदभावः तस्य [स्. 170ब्.] प्रतिषेध्यस्याभावः प्रसिध्यति प्रतीयते अन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेर् एव तत्सिद्धिलक्षणत्वात् । नैयायिकास् तु मन्यन्ते -- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस् तुच्छरूपस् तस्य कथं तदन्यभावरूपता?, भावाभावयोर् विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्य् अत आह -- तस्य तदन्यभावस्य प्रदेशलक्षणस्य तस्माद् अन्येन प्रतिषेध्येन घटादिना असंसृष्टरूपस्य रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकताम् आह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्?, इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । [त्. 334ब्.] यथा ह्य् अनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथम् अस्य प्रतिषेध्येन तुच्छरूपता [स्. 171अ.] विरुध्येत? । स्वरूपेण ह्य् अयम् अतुच्छरूपः[660]स्यान् न पररूपेण, अन्यथा कथम् अस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात् सर्वभावाः पररूपेण निःस्वभावः स्वरूपेण रूपवत्त्वे ऽपीत्य् अनवद्यम् । कस् तर्हि प्रसज्यप्रतिषेधात् पर्युदासस्य भेदः? । न कश्चित्,
केवलम् अनपेक्षितरूपान्तरम् अभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशून्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं {प्. 180.1} तद्रूपशून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? । सामर्थ्यात् ततस्[661]तत्प्रतीतिर्[662]इति चेत्; न अकारणप्रतीतौ[663]सामर्थ्यासम्भवात्[664]। तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् [स्. 171ब्.] प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत् एव -- न तदुत्तरकालभाविनो [त्. 335अ.] `नास्तीह घटः` इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात् -- अन्यस्य घटादेस् तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस् तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्य् अयं प्रदेशो घटासंसृष्टरूपस् तद्व्यावृत्तरूपतया ततो ऽन्यो घटवान् अपि, केवलश् च घटं प्रति अप्रतिपन्नाधारभावः[665]। तस्य तद्विवेकेन[666]प्रत्यक्षेण ग्रहणे घटाद् अन्यत्वं घटविरहश् च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थं, `इहेदं नास्ति` इत्य् एवम् अर्थं च प्रमाणान्तरम् अन्वेषणीयम् । विस्तरश् चैतद् उत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश् चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् । द्वितीयं कारणं व्याचक्षाण आह -- सम्बन्धाभावाच् च इति । अन्यभावतदभावयोर् न [स्. 172अ.] कश्चित् सम्बन्धो ऽस्ति ततः कुतो लिङ्गलिङ्गिभावः इति । एतच् च
कदोच्यते? । यदा तदभावरूपता ऽन्यभावस्य परानभ्युपगता[667]ऽपेक्ष्यते । तदन्यभावात्[668]पृथग् एव तदभावस् तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? । प्रत्यक्षसिद्धता च[669]तदैव[670], न पक्षान्तरेण[671]अभिहिता । तच् च तस्य इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन एकार्थसमवाय इति[672][त्. 335ब्.] परदर्शनेनोक्तं । परेषां हिनैयायिकादीनांव्यतिरिक्ताव् एव कृतकानित्यत्वाख्यौ धर्माव् एकस्मिन्न् एव धर्मिणि समवेताव् इति कृतकस्यानित्यत्वेनैकस्मिन्न् अर्थे धर्मिणि समवायः सम्बन्धः धूमस्य वेति {प्. 181.1} सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः । संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् । परेषां त्व् अग्निधूमौ स्वावयवेष्व् एव समवेताव् इति न तयोर् एकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेर् उपरि दर्शनाल् लौकिकः सम्बन्ध उक्तः । जन्यजनकभावो वा इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर् जनकत्वात् इतरस्य च जन्यत्वाद् इति । ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किम् इतिनैयायिकाभिमतस्यापि सम्बन्धस्यान्यभावतदभावयोर् अभाव उच्यते । सत्यम्, [स्. 172ब्.] प्रसङ्गेन तु तन्मतस्यापि निषेधार्थम् उक्तम् । पूर्वं ह्य् अन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं `नास्तीह घटः` इत्य् एवमाकारं कल्पनीयम् इति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गाद् इदम् उच्यते -- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं
`नास्ति इह घटः` इत्य् एवम् आकरं विशेषणविशेष्यभावलक्षणात् सन्निकर्षाद् इष्टं भवता[673]। न चासति सम्बन्धे ऽन्यभावतदभावयोर् विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः [त्. 336अ.] कुतस् तल्लक्षणात् सन्निकर्षात् तदभावे[674]प्रत्यक्षं भवेद् इति । एवं सम्बन्धस्वरूपम् आख्याय तस्येहासम्भवम् आह -- नैवम्, यथा कृतकत्वानित्यत्वयोर् अग्निधूमयोर् वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन अस्य तदभावस्यान्यभावः साधनं स्यात् । याव् एकत्रार्थे धर्मिरूपे प्रवर्त्तेते तयोर् एकार्थसमवायो भवति । अन्यभावश् च प्रदेशाख्यः स्वावयवेषु येषु वर्त्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे । न चास्य प्रदेशवयवैर् आरम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरम् एवारम्भन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं [स्. 173अ.] तत्रास्ति । न च गुणरूपतया तत्र वर्त्तते । चतुर्विशतिर् एव हि {प्. 182.1} गुणा इष्यन्ते । न चायं तेषाम् अन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात्[675]तल्लक्षणविरहाच् च । एकद्रव्यम् [वैसू i.1.15.] इत्य् आदिकं हि तल्लक्षणम् । न चैतद् अभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रूपविरहाद् एव । नाप्य् अन्यभावतदभावयोः संयोगो ऽग्निधूमयोर् इव, द्रव्ययोर् एव तदभ्युपगमात् । न च तदभावो द्रव्यम् इत्य् उक्तम् । नाप्य् आधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते `इह कुण्डे बदराणि` इति । समवायनिमित्तो वा, `इह तन्तुषु [त्. 336ब्.] पटः` इति । न चाभावस्याद्रव्यात्मनः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
