Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

संयोगः समस्ति[676]। नापि समवायः, पञ्चानाम् एव हि द्रव्यादीनां पदार्थानां समवायित्वम् इष्यते; न चाभावः पञ्चस्व् अन्तर्भवतीति । न च तदात्मानुपकारे सत्य् आधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभावः । न च तदभावो जन्यः; कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी[677], [स्. 173ब्.] यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः । अन्यभावस् तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणाम् एव हि द्रव्यगुणकर्मणां द्रव्यं कारणम् इष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस् तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद् भेदे वा सामान्यादिष्व् अपि तत्प्रसङ्गः । समवायोप्य् अस्यानन्तरम् एव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? । एतेन जन्यजनकभावः प्रत्युक्तः । ततः सर्वथा सम्बन्धाभावान् नान्यभावः तदभावस्य साधनम् इति । परः सम्बन्धान्तरं दर्शयन्न् आह -- अस्ति विषयेत्य् आदि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर् विषयविषयिभावः सम्बन्धः, [स्. 174अ.] एवम् अन्यभावतदभावयोर् विषयविषयिभावः सम्बन्धो भविष्यति [त्. 337अ.] प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनाद् इति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः {प्. 183.1} स्याद् इत्य् अभिसम्बन्धः । किं रूपः? । कार्यकारणलक्षणः । कथं पुनर् अर्थकार्यता शब्दस्य? । तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच् छब्दोच्चारणात् ।

तेनार्थेन विवक्षाविपरिवर्त्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्य् अपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्य् अर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । अविनाभावलक्षणो वा इति परप्रसिद्ध्योच्यते । परो ह्य् अविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिबन्धनः प्रतिपाद्यप्रतिपादकरूपो[678]विषयविषयिभावो युक्तः । तदभावान्यभावयोर् अप्य् एवं भविष्यतीति चेत्, आह -- अयंच अनन्तरोक्तप्रकारः अत्र तदभावान्यभावयोः न सम्भवति । न हि घटाभावप्रतिपादनाभिप्राये [स्. 174ब्.] सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो[679]निष्पत्तिर् भवति, घटाभावप्रतिपादनाभिप्रायात् प्राग् अपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्य् अपि तदभिप्राये ऽन्यभावस्याभावाच् च । ततश् च कथं तयोः कार्यकारणभावः? तद्द्वारको ऽविनाभावो वा स्यात्? यतो [त्. 337ब्.] विषयविषयिभावः कल्प्येत । स्यान् मतम् -- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोर् अपि इत्य् एतावन्मात्रेण शब्दार्थयोर् दृष्टान्ततेत्य् अत आह -- सिद्धे हि इत्यादि । शब्दार्थयोर् हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथा ऽर्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे कार्यकारणभावादिके न सिध्यति[680], सर्वस्य साध्यसाधनाप्रसक्तेः । कथम्

इन्द्रियं स्वविषयसिद्धिनिबन्धनम् इति चेत्; परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् इन्द्रियविषययोर् एकविज्ञानोत्पादनयोर् {प्. 184.1} उदयात् तथा व्यपदेशः, नैवम् इह, अन्यभावतदभावयोस् तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य [स्. 175अ.] च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धम् अन्तरेणायोगात् । नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह -- अन्यथा यदि [त्. 338अ.] सम्बन्धान्तरं नेष्यते किन् तु विषयविषयिभावात् साध्यसाधनभावः तस्माच् च विषयविषयिभावः, तत इतरेतराश्रयम् इदं स्यात् । तथा चैकासिद्धौ द्वयोर् अप्य् असिद्धिर् भवेद् इति । किञ्चान्यभावाच् च लिङ्गभूताद् अभावस्य लिङ्गिनः सिद्धाव् अनुमिताव् इष्यमाणायां असमुदायश्[681]च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः । समुदायश् च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस् तदभावदोषश् चेति `च` शब्दः । सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह -- तथा च धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे `घटाभावस् तदन्यभावात्` इत्य् एवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति । अत्राह परः -- नासमुदायस्य [स्. 175ब्.] साध्यता अन्यभावतदभावयोर् असम्बन्धो[682]वा । कुतः? । प्रदेशादि इत्यादि । `इह प्रदेशे घटो नास्ति` इत्य् एवं

घटाभावेन प्रदेशादिर् धर्मी विशेष्यते सघटात् [त्. 338.ब्.] प्रदेशादेर् भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तः साध्यते न तु घटो नास्तीत्य् एवं केवलो धर्मिणः कस्यचिद्गुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस् तद्भावी दोषः? । न च नैवास्मिन्पक्षे लिङ्गस्यान्यभावात्मनो लिङ्गिनश्च प्रदेशादिधर्मिलक्षणस्य असम्बन्धदोषःप्रसज्यते । कुत? । अन्यभावस्य घटविविक्तप्रदेशादिलक्षणस्य प्रदेशादिना {प्. 185.1} धर्मिणा सम्बन्धात् तादात्म्यसद्भावाद् इति । तथा हि -- शब्दादिधर्मिणा कृतकत्वादेस् तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्य् अभिप्रायः । ततश् च `सम्बन्धाभावाच् च` इत्य् अयुक्तम् इति मन्यते । सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्राग् उक्तो न धर्मिणा ततः क्वदम् उत्तरं संबध्यत इति मन्यमानो धर्मिणा ऽप्य् अन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्न् आह -- न लिङ्गलिङ्गिनोर् असम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनम् इति । किन् तु लिङ्गलिङ्गिनोर् असम्बन्ध एवासमुदायसाधनम् एव च एवम् अपि ब्रुवतः । कुतः? । प्रदेशादेर् एव धर्मितया ऽवस्थाप्यमानस्यान्यभावत्वाद् अन्यभावलक्षणलिङ्गत्वात् । एतद् एव [स्. 176ब्.] दर्शयति -- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् [त्. 339अ.] घटादिकं नास्तीत्य् उच्यते लोकेन स एव प्रदेशादिस् तेन घटादिना ऽसंसृष्टस् संसर्गरहितः अन्यभावो लिङ्गतयेष्टो नापरः कश्चित् यतः तद्दर्शनाद् एव घटासंसृष्टप्रदेशादिदर्शनाद् एवास्य प्रतिपत्तुः `घटो नास्ति` इति विकल्पो लिङ्गिज्ञानतयोपगतो

भवति । ततः स एवान्यभावः । यद् एव हि दृश्यमानं लिङ्गिज्ञानं जनयति तद् एव लिङ्गम् उच्यते । घटासंसृष्टश् च प्रदेशादिर् एवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गम् उपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदम् अननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? । न हि लिङ्गम् एव धर्मी भवितुम् अर्हति, धर्मिप्रतिपत्ताव् एव साध्यप्रतिपत्तेर् अन्वयाद्यनुसरणायोगात् । ततश् चान्यस्य धर्मिणो ऽभावात् कथम् अन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? । शब्दकृतकत्वयोस् तु परमार्थतस् तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्य् एव भेदः । ततः शब्दादिधर्मिप्रतिपत्ताव् अप्य् अनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् । स्यान् मतम् -- सामान्यविशेषकल्पनया [स्. 176ब्.] लिङ्गलिङ्गितैकस्यापि भविष्यतीत्य् अत आह -- न चात्र प्रकृते ऽन्यभावे सामान्यविशेषभावकल्पनासम्भवति, येन [त्. 339ब्.] सामान्यविशेषविकल्पेन सामान्यं हेतुर् भवेद् विशेषो धर्मी, यतः {प्. 186.1} समुदायसाध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्य् आह -- तद्विशेषप्रतिपत्तेर् एव घटविविक्तप्रदेशविशेषप्रतिपत्तेर् एव तदभावस्य घटाभावस्य प्रतीतेः । यतश् च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषो ऽन्यत्र वर्त्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह -- तस्य घटविविक्तप्रदेशविशेषस्य अन्यत्र सजातीये अन्वयस्य अनुवृत्तेर् अभावात् कुतः सामान्यात्मता? । न ह्य् असौ देशकालावस्थानियतो विशेषो ऽन्यम् अन्वेतीति । अत्रैवोपचयहेतुम् आह -- प्रतिज्ञार्थेत्यादि ।

यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस् तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदम् अनु(न)नुभवतो हेतुत्वम् असिद्धम् इति । अथ मा भूत् [स्. 177अ.] एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुर् इष्यते, किन् तु प्रदेशमात्रं घटविविक्तताविशेषरहितम् इत्य् अत आह -- न च यत्र प्रदेशमात्रंतत्र घटाभावः । सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावाद् अनैकान्तिको हेतुः स्यात् । परो ऽन्यथा सामान्यविशेषभावं [त्. 340अ.] दर्शयन्न् आह -- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस् तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? । तथाविधप्रदेशविशेषप्रतीतिर् एव घटाभावप्रतीतिस् ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गिता ऽनुपपन्नेत्य् उपदर्शयन्न् आह -- ननु तस्यैव इत्यादि । यो ऽसौ केवलः प्रदेशविशेषो धर्मितया ऽवस्थापितस् तस्यैव यत् कैवल्यं केवल इत्य् अनेन विशेषणेनोच्यते भवता, तद् एव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य प्रतिपत्ताव् एव[683]सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः[684]सिध्यति । ततः कस्येदानीं तत्प्रतिपत्ताव् एव साध्यप्रतीतौ सत्यां तल्लिङ्गम्[685]? । न {प्. 187.1} कस्यचित् । जिज्ञासितस्य घटाभावस्य सिद्धेर् अन्यस्य कस्यचिद् अजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्ताव् एव घटविरहप्रतीतौ च यद् एतद् उत्तरकालं `यत्र यत्र केवलः प्रदेशस् तत्र तत्र घटविरहः` इति [स्. 177ब्.]

अन्वयस्यानुगमामनु(गमनम् अनु)सरणम्, तच् च निरर्थकम् आदाव् एव साध्यप्रतीतेः । यत एवं तस्माद् अन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर् भेदाभावान् न साधनम् अभावस्येति स्थितम् । तद् एवं [त्. 340ब्.] समुदायसाध्यतां लिङ्गस्य च धर्मिणा सम्बन्धं[686]प्रतिपादयितुं यद् उक्तं परेण -- `प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्`[687]इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् । विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर् दर्शयन्न् आह -- अस्त्य् अन्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावाद् अन्यभावाद् अभावस्य सिद्धिर् भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर् विरोधम् एवासम्भावयन् पृच्छति -- केन कस्य विरोधः इति । न ह्य् अत्र साध्यसाधनयोर् विरोधः संभवतीत्य् अभिप्रायः । परो विरोधम् अभिप्रायानभिज्ञातया दर्शयति -- अन्यभावेन केवलप्रदेशात्मना प्रतियोगिनो यस्याभावः प्रमातुम् इष्टो घटादेस् तस्येति । परस्यैवंवादिनो असम्बन्धाभिधायिताम् आदर्शयन्न् आह -- किंनु वै प्रतियोगी घटादिः प्रमातुम् इष्टो येन प्रतियोगिनाः प्रमेयत्वेन लिङ्गलिङ्गिनोर् विरोधः सम्बन्धो ऽभिधीयते? । नैव प्रतियोगी प्रमातुम् इष्टः किन् तु तदभाव इति चेत्, आह -- अभावस् तु प्रतियोगिनो यः साध्यः [स्. 178अ.] ................................................................................................................ [स्. 178ब्.] ........................................................................................................................ [कुमारिलस् तु मन्यते भावांशाद्

भिन्नो ऽ] [स्. 179अ.] यम् अभावांशस् ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति । तथा ह्य् अयम् अभावः {प्. 188.1} प्रागभावादिभेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव । यद् आह -- न चावस्तुन एते स्युर् भेदास् तेनास्य वस्तुता॥ [श्ल्व् अभाव 8अब्.] इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश् च तदसंयोगहेतुकत्वात् । यद् आह -- तत्संयोगे सद् इत्य् एवंसद्रूपत्वंप्रतीयते । नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् ॥ [श्ल्व् अभाव 26.] इति । तत् कथं तत्प्रतिपत्तिर् एवापरस्य व्यवच्छेदनम् इति तन्निरासार्थम् आह । तस्यान्यस्य प्रदेशस्य [त्. 342अ.] केवलस्य यत् तत् कैवल्यम् एकाकित्वम् असहायता तद् एव अपरस्य प्रतियोगिनो घटादेः वैकल्यम् अभाव इति तस्मात् तदन्यभाव एव भावांश एव त्वद् अभिमतः तदभावःप्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरम् इत्य् उच्यतेसुगतसुतैः। ततश् च तत्प्रतिपत्तिर् एव च तस्यान्यभावस्य प्रतिपत्तिर् एव च तदप्रतिपत्तिः[688] तस्य प्रतियोगिनो ऽप्रतिपत्तिर् अभावप्रतिपत्तिर् इति यावत् । एवं मन्यते -- यो ऽयम् अभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां [स्. 179अ.] तद्रूपवैकल्याद् एवानुभवति नान्यथा । तच् च तद्रूपवैकल्यम् अन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । न हि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वम् अनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वम् एकं द्रव्यं

प्रसज्येत, ततश् च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्याद् इत्य् अवश्यम् अन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिर् एव तदन्याभावप्रतिपत्तिः[689]। तत्संयोग एव चेन्द्रियस्य तदन्यभावाभावसंयोग [त्. 342ब्.] इति किम् उच्यते -- नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् । [श्ल्व् अभाव 26च्द्] इति? । विकल्पापेक्षयोक्तम् इति चेत्, तदेतदबाधकम् एव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्याभावात्मके[690]एव वस्तुरूपे प्रतिपन्ने पाश्चात् यस्य {प्. 189.1} यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश् चायम् अभावविचारःप्रमाणद्वित्वसिद्धाव् अभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवावधार्य इति । अवश्यं च तदन्यभावप्रतिपत्तिर् एव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, `नास्त्य् अत्रेदम्` इत्य् अभावव्यवहारार्थं [स्. 180अ.] चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्न् आह -- अन्यथा यदि तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति नेष्यते[691]तदा तस्य अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य अव्यवच्छेदे अनिराकरणे तदभावाप्रतिपत्तौ तत्परिच्छेद एव न स्यात् -- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिर् एव न स्यात् । किं कारणम्? तदतद्रूपयोः तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच् चातद्रूपं तद्रूपं न भवति पररूपं तयोः अविवेकाद् अविवेचनाद् विवेकेनाव्यवस्थापनाद् असाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्कीर्णं हि तद्रूपम् तच् चेत् [त्. 343अ.] तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारम्[692]एव तदुत्पन्नं तदा

कथन् तेन तत्परिच्छेदः स्यात्? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा -- शुक्लशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथम् अन्या ऽव्यवच्छेदो नाम? । ततः प्रतिनियतरूपाननुकाराद् एव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति । भवत्व् एवं ततः को दोषः? इत्य् अत आह -- य एष व्यवहारः सर्वजनप्रतीतः कस्यचिद् अग्न्यादेर् वस्तुनो दर्शनात् क्वचिद्देशे तत्सम्बन्धिनि [स्. 180ब्.] प्राप्त्यर्थो दृष्टस्यादृष्टस्य च परिहारार्थःप्रवृत्तिनिवृत्तिलक्षणः स न स्यात् । किं कारणम्? । न हि यस्माद् अयंप्रतिपत्ता अनलंपश्यन्न् अपि सङ्कीर्णतदतद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथा ऽस्य दर्शनरूपताहानेः, तथा हि -- असङ्कीर्णस्यादर्शने सङ्कीर्णम् अपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिद् एतद्दर्शनं स्यात्? । स एवंभूतः सङ्कीर्णदर्शनवान् {प्. 190.1} प्रतिपत्ता कथम् अनलम् एव पश्यति न सलिलादिकम्? । किन् तु सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया सलिलादिकम् अपि पश्यति । ततः कथं सलिलार्थीतत्र अग्निमति प्रदेशे न प्रवर्तेत? । परस्य वचनावकाशम् आशङ्क्याह -- [त्. 343ब्.] अनुपलम्भेन इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपन् एव प्रतीयते । यस् तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर् विवेकाल् लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्य् आह -- को ऽयम् अनुपलम्भो नाम इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रम् इत्य् अत आह -- यदि सलिल इत्य् आदि

।कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपम् अभावप्रमाणतया नाभिमतम् एव । प्रत्यक्षादेर् अनुत्पत्तिःप्रमाणाभाव उच्यते । [स्. 181अ.] सात्मनो ऽपरिणामो वाविज्ञानंवाऽन्यवस्तुनि ॥ [श्ल्व् अभाव 11] इति वचनात् । किन् तु यो ऽभावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मना ऽपरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परम् अभ्युपगमयितुम् अस्योपन्यासः । तथा चान्यवस्तुविज्ञानम् एवाभावप्रमाणम् अस्तु, किम् अप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? । न च तदन्यवस्तुविज्ञानपरिणामाद् अन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्ग्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद् रसाद्यभावप्रतीतिर् युक्तमती [त्. 344अ.] देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपप्रतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित[693]एव । तदभावव्यवहारे त्व् अस्मदभिमतैवानुपलब्धिर् आयातेति प्रतिपादयितुम् अस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः [स्. 181ब्.] तुच्छरूपो ऽनुपलम्भस् तदा कथम् {प्. 191.1} अभावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन् तु तद्धेतुभाव इत्य् आह -- प्रतिपत्तिहेतुर् वा इति । न हि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं

तज्ज्ञानजननाद् अभावज्ञानम् एवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् । न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तम् इत्य् आह -- तस्यापि सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? । अथायं सलिलोपलम्भाभावः स्वयम् अप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिद् अपि । तद् एवाह -- तस्य सलिलोपलम्भाभावस्य ततो वा सलिलाद् अन्यस्यानलादेः `विज्ञानं वा ऽन्यवस्तुनि` इत्य् अत आत्मनो ऽपरिणामस्य पृथग् अवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य [त्. 344ब्.] तदात्मकत्वान् न ततो भेदेन व्यवस्थाप्येत । ततश् च कस्यचिद् अपि [स्. 182अ.] तस्य तदन्यस्य वा ऽप्रतिपत्ताव् अपि यद्य् अभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्व् अपि सलिलाद्यभावः किं न प्रतीयते? । तदापि तदभावः प्रतीयेतेत्य् एतद्विचारितम्प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्य् अन्यवस्तुनो ऽपि अन्यत्वं तत्तुल्ययोग्यतारूपापेक्षम् एव, न तदनपेक्षम् उपेयम् । तथा चास्मद् उपवर्णितानुपलब्धिसिद्धिर् इति । यदा चैवम् उक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर् न युज्यते ऽनलप्रतिभासिनश् च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते तस्माद् अयम् अनलदर्शी प्रतिपत्ता ऽनलं पश्यन्न् अपि सङ्कीर्णरूपप्रतिभासिना ज्ञानेन `अनलो ऽयं न सलिलम्` इति नाध्यवस्यति अनध्यवस्यंश् च सलिलरूपस्यापि प्रतिभासनात् तदर्थी न तिष्ठेत् प्रवर्तेत नापि प्रतिष्ठेत सलिलार्थी न प्रवर्तेत । तथा हि -- सलिलं नाम तद् उच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं[694]सकलतदन्यरूपासङ्कीर्णप्रतिनियताकारज्ञानावभासि । इदं त्व् अन्यद्

एव शबलरूपं किम् अप्य् अवभासत इति । {प्. 192.1} ततश्च प्रवृत्तिनिवृत्तियोर् विरुद्धयोर् युगपद् अनुष्ठातुम् अशक्यत्वात् दुस्तरंव्यसनंप्रतिपत्तुःस्यात् । अत्र परस्य [स्. 182ब्.] वचनावकाशम् आशङ्क्याह -- तत एव इत्यादि । न मया [त्. 345अ.] सलिलोपलम्भनिवृत्तिमात्रात् तुच्छरूपात् तदभावगतिर् उच्यते, यथोक्तदोषप्रसङ्गात् । किन् तु यद् एतद् एकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर् भवति `विज्ञानं वा ऽन्यवस्तुनि` इति वचनात् । सिद्धान्तवाद्य् आह -- कथम् एकम् इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् अन्याभावंप्रत्याययति? । तथा हि -- तस्मिन् दृश्यमाने तदेवास्तीत्य् अवगच्छतु, तदन्यत् तु नास्तीति किम् इति प्रत्येतीति । तस्यैव परिदृश्यमानस्यानलादेः केवलस्य सलिलासंसृष्टरूपस्य दर्शनाद् अनलज्ञाने प्रतिभासनात् `सलिलं नास्ति` इति निश्चयः सञ्जायते । तथा हि -- अनल इव सलिलम् अपि यदि तत्राभाविष्यत् तदप्य् अनलवद् दर्शने प्रत्यभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्माद् एकप्रतिभासनम् अन्याभावनान्तरीयकं इत्य् अन्याभावे ततो ज्ञानम् उत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथा ऽन्यद् वस्तु पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव[695]च तज्ज्ञानम् अन्यत्[696]प्रतियद् एवं व्यपदिश्यते ऽन्यथा[697]तदयोगाद्[698]इत्य् अन्यप्रतिपत्तिर् एव तदभावविकल्पहेतुर् इति सिद्धान्तवाद्य् आह -- इदम् एव इत्यादि । नन्व् अस्माभिर् इदम् एव प्राग् अभिहितं तयोःसतोःनैकरूपनियताप्रतिपत्तिः असम्भवात्[699] इत्य् आदिभिर् वचनैः । ततो यद्

एवान्यासंसर्ग्गिणः केवलस्य [त्. 345ब्.] प्रतिभासनं तद् एव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वाद् अन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभावस्य तद्बलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं {प्. 193.1} विकल्पकम् आजायते । न तु तेनाप्रतिपन्नं किञ्चिद् अवगम्यते, यतस् तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकम् अप्य् अनवगते तदन्याभावे ज्ञानं जनयत् पृथग् अभावप्रमाणतया व्यवस्थाप्येत । तथा हि -- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस् तत्संवेदनम् एव तदभावसंवेदनम् । न हि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनाद् अन्यत् तदभावसंवेदनं नाम । केवलम् अस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिद् अनले `अनलो ऽत्रास्ति` इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानम् अपि विकल्पकं तत्फलद्वारेण वा ऽन्यवस्तुविज्ञानं न प्रत्यक्षात् पृथग् अभावाख्यं [स्. 183ब्.] प्रमाणम् इति । तस्माद् यद् एवास्माभिर् अभिहितं तदन्याभावप्रतीतिं प्रति, तद् एव त्वया ऽप्य् अभिधीयत इति कस्मात् पुरुषम् इवाभाति यतस् तदनभ्युपगमेन पृथगभावाख्यं प्रमाणम् अभ्युपगतम् इत्य् उपहसति । तथा ह्य् अगत्य् एदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदम् एव किं न पूर्वम् एवाभिहितम्?, यत आलजालाभिधानेन ऽऽत्मा परिक्लेशित [त्. 346अ.] इत्य् उपसंहरन्न् आह -- तस्मात् तीरादर्शिनेव इत्यादि । यथा किल वहनारूढैर् वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरं नासादयति

तदा वहनम् एवागच्छति तद्वद् एतद् अपि द्रष्टव्यम् । यतश् चावश्याभ्युपगमनीयो ऽयं पक्षस् तस्मान् न किञ्चिद् अनया ऽविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् । तद् एवं परस्यान्यभावतदभावयोर् लिङ्गलिङ्गिभावम् इच्छतः सम्बन्धाभावाद्[700]असाव् अयुक्तः इति प्रतिपादिते परेण `असति सम्बन्धे ऽन्यभावगत्या ऽपि तदभावगतिर् न स्यात्` इति चोदिते `न वै कुतश्चित् सम्बन्धाद्` इत्य् आद्य् अभिहितम् । ततः `अन्यभाव एव तदभावो ऽन्यभावगतिर् एव च तदभावगतिः` इति प्रसाधयताकुमारिलपरिकल्पितः कस्यचिद् अभावनिश्चयार्थम् अभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु -- {प्. 194.1} वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता [श्ल्व् अभाव 2च्द्.] इत्य् एतद् आहत्य निराकर्तुं [स्. 184अ.] पूर्वपक्षम् उत्थापयन्न् आह -- यद्य् एकपरिच्छेदाद् एव इत्यादि । यदि हि एकस्य केवलस्य परिच्छेदाद् अन्यस्य व्यवच्छेदःप्रतिषेधः सिध्यति तदा सर्वस्या अ(-स्या)न्यस्या ऽविशेषेणैव तत्र देशे यत्रासाव् एकः परिदृश्यते तत्राभावसिद्धिर् भवेत्, न तु विशेषपरिग्रहेण [त्. 346ब्.] तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि -- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानस्य, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तात्मको ऽपि । ततश् च तद्विविक्ताकारतया तदन्याभावसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभावम् इव रसाद्यभावम् अपि साधयेत्, न वा घटाभावम् अपीति । किञ् च, यद् एतद् `उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावसाधनी` इति विशेषणम् उक्तं तच् च न वक्तव्यम् । किं कारणम्? यतो ये ऽप्य्

अनुपलब्धिलक्षणप्राप्तास् तेषाम् अपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्य् एव । तथा हि -- यथोपलब्धिलक्षणप्राप्तास् तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश् च व्यवच्छिद्यन्ते [स्. 184ब्.] तथा ऽनुपलब्धिलक्षणप्राप्ता अपीति किम् उपलब्धिलक्षणप्राप्तस्य इत्य् अनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः -- ततः पृथक्करणम् अन्यत्वेन व्यवस्थापनम् अभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोर् अभावः, तद् अयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यम् अतुल्ययोग्यतारूपे ऽनुपलब्धिलक्षणप्राप्ते वा सम्भवति । `तयोः सतोर् नैकरूपनियता प्रतिपत्तिः असम्भवात्`[701]इत्य् एवं हि तदभावसाधनम् । न [त्. 347अ.] चैतद् अन्यत्र सम्भवतीति प्रतिपादयितुम् एकात्मपरिच्छेदात् इत्य् आदिनोपक्रमते । यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः तदन्यःततो ऽन्यस् तद्व्यतिरिक्तस् तस्य सर्वस्य य आत्मा {प्. 195.1} स्वभावस् ततो व्यवच्छेदो भेदनं पृथक्करणम् अन्यत्वसाधनम् असङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनर् एकात्मपरिच्छेदाद् एव तस्य[702]तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽव्स्थितपदार्थसामर्थ्यभावि [स्. 185अ.] तद्रूपम् एव प्रतिपद्यताम् । यत् तु तद्व्यतिरिक्तम् अशेषपदार्थजातं तदात्मनस् तस्य पुरो ऽवस्थितस्य कथं तद्व्यवच्छेदकम्? अतः तद्व्यवच्छेदार्थम् अभावप्रमाणम् अभ्युपेयम्, यतो --

vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā [ślv abhāva 2cd.] iti | ata āha -- tadātmaniyatapratibhāsajñānād iti | yataḥ puro 'vasthitasyaikasya vastunaḥ pararūpāsaṅkīrṇa ātmā, sarvabhāvānāṃ svabhāvata eva svasvabhāvavyavasthiteḥ pararūpeṇāsaṅkīrṇasvabhāvatvāt | anyathā katham abhāvapramāṇato 'py asāṃkaryam eṣāṃ sidhyet? | saṃkīrṇarūpāṇām asāṅkaryasādhane tasya [t. 347b.] bhrāntatāprasaṅgāt | tasmin pararūpāsaṃkīrṇe svabhāvata eva tadātmaniyato yaḥ pratibhāsaḥ pararūpapratibhāsāsaṃkīrṇaḥ tadekapadārthasāmarthyabhāvini pratyakṣe pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣatāhāneḥ | tad uktam -- tad dhy arthasāmarthyenotpadyamānaṃtadrūpam evānukuryāt [pvin i 40.12f.: gaṅ gi phyir de don gyi nus pa las skyes pa na de 'i raṅ bḥzin kho na'i rjes su byed pa'i phyir ro ||] iti | tasya tadātmaniyatapratibhāsasya jñānāt pratyakṣeṇa svasaṃvittyā saṃvedanāt | tatsaṃvedanam eva [s. 185b.] hi pratyakṣasyātadrūpād vyavacchedanaṃpṛthakkaraṇaṃ tadbalenaiva ca pāścātyaḥ `anyātmakam etan na bhavati` ity asāṃkaryavyavasthāpratyayo vikalpakaḥ saṃjāyate gṛhītagrāhī | na tenāpūrvaṃ kiñcit pratīyate, pararūpāsaṃkīrṇasyātmanaḥ pratyakṣeṇaiva tadākārānukāriṇā paricchedād iti | yadi nāma tadātmaniyatapratibhāsajñānaṃ tathāpi katham anyātmanaḥ tasya pṛthakkaraṇam? ity ata āha -- na hi tadātma ityādi | yasmāt tasya vastuno ya ātmā pararūpāsaṃkīṛṇnaḥ sa tadanyasya śeṣasya vastuna ātmā na bhavati, sarvasya tato 'nyasvabhāvatvāt, anyathā tadanyatvahāner iti | tasmāt {p. 196.1}

तदात्मनियतप्रतिभासज्ञानम् एव तदन्येभ्यो निवर्त्तनम् । न हि ज्ञानेनार्थो हस्ते गृहीत्वा ऽन्यतो निवर्त्तनीयः । केवलम् अन्यरूपासंकीर्णस्यैकसात्मनो ऽनुकरणम् एवास्यान्यतो [त्. 248अ.] निवर्त्तनम् उच्यत इति । अथान्यात्मनः स्वविषयं न निवर्त्तयेत्, तदा ऽस्य विषयस्यान्यात्मनः सकाशाद् अव्यवच्छेदे पृथग् अव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा[703]तदपरिच्छेदस्यैवैकात्म[704]परिच्छेदात्मनस् तन्निवर्त्तनरूपता[705][स्. 186अ.] स्यात् । ततश् चाव्यवच्छेदे ऽन्यात्मनस् तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योर् अभाव इति पूर्वः प्रसङ्गो `न ह्य् अयम् अनलं पश्यन्न् अपि`[706]इत्य् आदिकः । न केवलम् अन्यात्मनस् तन्निवर्त्तयति तदात्मनो ऽप्य् अशेषम् अन्यद् इति दर्शयन्न् आह -- तंच अग्रतः स्थितं देशाकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, तदात्मना देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकाराद् उपलभमाना बुद्धिः तथात्वप्रच्युतिम्[707] अन्यदेशकालस्वभावावस्थताम् अस्य स्वविषयस्य व्यवच्छिनत्ति ततः पृथक्करोति । कस्मात् पुनर् अन्यदेशादितां ततः पृथगवस्थापयति इत्य् अत आह -- एवंहि यस्माद् अन्यदेशतादेस् ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः [त्. 348ब्.] परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्य् अन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराद् व्यवच्छिन्नः -- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् इति तस्माद् अन्यथाभूताद् अन्यदेशादिमतस् तथाभूतं तद्देशादिमंतं व्यवच्छिन्दत्य् एव [स्. 186ब्.] निवर्त्तयन्त्य्

एव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा तथाभूताद् अन्यथाभूतंव्यवच्छिन्दत्य् एव इति द्वितीयस्योपसंहारः कार्य इति । एवम् उक्तेन न्यायेन एकस्य प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्य् एवम् एव स्वविषयपरिच्छेदाद् वृत्तिः प्रवृत्तिः सर्वभावान् द्वैराश्ये तत्त्वे ऽन्यत्वे च व्यवस्थापयति । ततस् तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकया ऽप्य् अभावकल्पनयेति? । {प्. 197.1} ननु च विकल्पव्यापार एष `इदम् अन्यात्मकं न भवति अन्यथैतद् आत्मकम्` इति । प्रत्यक्षं च निर्विकल्पकम् इष्यते तत् कथम् असांकर्यसिद्धिस् ततः? इत्य् अत आह -- तस्यान्वयेत्यादि । तद् धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणम् इष्यते [त्. 349.अ] नान्यदा । अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात्[708]सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षाणिकतादावन्वयव्यतिरेकबुद्धी जनयितुम् असामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति । स्यान् मतम् -- द्वैराश्यसाधने ऽप्य् असांकर्यसिद्ध्यर्था मा भूद् अभावप्रमाणकल्पना किन् तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः [स्. 187अ.] प्रतिपादित इति अत आह -- तद्व्यतिरिक्तेत्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस् तत्साधनाद् एव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस् तदर्थम् अपि नाभावप्रमाणकल्पना युक्तेति । अथ मतम् -- सर्वस्यापरिदृष्टस्य दृश्यमानाद् अन्यतया व्याप्तिं नैव प्रत्यक्षं साधयति

तत् कुतस् तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेद् इत्य् अत आह -- तस्य तृतीयराशितया कल्प्यमानस्य ततो दृष्टाद् अन्यतया व्यप्त्यभावे तेन प्रत्यक्षेण ततो[709] ऽर्थात् स्वविषयस्य अव्यवच्छेदाद् अपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयाद् अव्यवच्छेदात् अपृथक्करणात् पुनर् अपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । [त्. 349ब्.] स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? । तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथाइकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वाद् इति । यत एवं तस्मात् क्वचिद् वस्तुनि प्रमाणं {प्. 198.1} प्रत्यक्षादिकं [स्. 187ब्.] प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत् तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य[710]वा सर्ववस्तुनो द्वैविध्यस्य साधनाद् इति । एवम् एकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तम् एवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह -- तथाहि क्वचिद् वस्तुनि प्रमाणं प्रत्यक्षादि प्रवृत्तं तद् एव वस्तु तदन्यस्मात् पररूपाद् व्यवच्छिनत्ति ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस् तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किम् इति पररूपाद् व्यवच्छिनत्ति? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा तद् अन्यद् एव च तस्माद् दृश्यमानाद् अन्यद् एव च व्यवच्छिनत्ति ।

कुतः? । तस्मात् [त्. 350अ.] स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परम् अपि स्वविषयाद् इति । कुत एतद्? । अन्यस्य पररूपस्य तत्र स्वालम्बने ऽपरिच्छेदाद् अवश्यम् एवापरिच्छिन्नस्य [स्. 188अ.] परिच्छिन्नाद् अन्यत्वं भवति । यत एवम् अतः तद् एव प्रमाणम् एकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? । तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं दृष्टतदन्यत्वं तेन सर्वस्य तद्व्यतिरिक्तस्य व्यवस्थापनान् न अ(-पनेन अ)तद् अन्यस्यैव च यद् अन्यन् न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनाद् इति । अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- एतेन क्रमाक्रमादयः इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिर् उपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति[711]ये केचिद् अन्योन्यव्यवच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । {प्. 199.1} तथा हि -- कार्यस्य क्रममनन्यसहायतां प्रतियत्य् एव बुद्धिस् तस्याक्रमं कार्यान्तरसाहित्यं [त्. 350ब्.] ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतया ऽवस्थानात् । एवम् उदयानन्तरध्वंसिता [स्. 188ब्.] क्षणिकतोच्यत इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस् तद्विपरीतरूपतायाः स्वविषयाद् अपाकरणात् ततो ऽन्यत्वेन

प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव[712]इति । तद् एवम् एकप्रमाणनिबन्धनाम् असाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरयन्न् आह -- तद् एवम् उक्तेन न्यायेन एकस्य प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस् ततो ऽन्यस् तत्तुल्ययोग्यतारूपस् तद्विपरीतो वा तद्रूपविकलस् तदात्मनो व्यवच्छेदः पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान् निर्देशस्य व्यवच्छेदो भवति असाङ्कर्यं सिध्यति । तद् यद्य् एतद् अविशेषणान्यस्य सर्वस्य तत्राभावसिद्धिः स्याद् इत्य् अत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वम् अविशेषेणैव तद् एकाकारया बुध्या तद्रूपविकलं स्वविषयाद् अवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रति-भासनात् । अथ तद्देशकालयोर् अभावः सर्वस्य [त्. 351अ.][स्. 189अ.] तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति -- न तद्देशकालयोः यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस् तस्मिन् सति तद् एकरूपनियतायाः प्रतिपत्तेर् असंभवात् तद्[713]अभावनान्तरीयिका सा भवन्ती तत्प्रतिषेधं[714]गमयतीति तत्कारणम् अनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् । {प्. 200.1} एतद् एवोपसंहरन्न् आह -- तस्माद् अतदात्मा च सर्वस् तद्विपरीतरूपस् तदेकाकारया बुद्ध्या प्रसाधितः स्यात् तद्देशकालश्च तस्य प्रतिभासमानस्य यौ

देशकालौ तौ यस्य, स च स्यात् । किंवत्? । रसरूपादिवद् इति । न हि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तद् असांकर्यसाधने ऽपि तद्देशकालयोर् अभावः [स्. 189ब्.] सिध्यति । ततश् च कथं सर्वस्यातुल्ययोग्यावस्थस्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं तस्मात् क्वचित् कदाचित् कस्यचिद् अभावसिद्धिर् यथोक्ताद् एवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य [त्. 351ब्.] तत्तुल्ययोग्यतारूपोपलम्भात्मनश् चेत्य् एवंरूपात्, न तु सामान्येन यथा ऽऽहुःपरे -- प्रमाणपञ्चकंयत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थे तत्राभावप्रमाणता॥ [श्ल्व् अभाव 1; त्स् 1647.] इति । न ह्य् अनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्ताव् अपि तदभावः सिध्यति, सत्य् अपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवाद् इति । तद् एवं प्रासङ्गिकं परिसमापय्य यद् उक्तंपरेण `स एवान्यभावस् तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्`[715]इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर् निराकुर्वन्न् आह -- अन्यभावविषयेत्यादि । यत् पुनर् उक्तम् -- अन्यभावविषयोपलब्धिस् तदभावस्य किन्न साधनम्`[716]इति सा तदभावस्य साधिकेष्टैवास्माकम्, [स्. 190अ.] न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? । यतः तत्राप्य् अन्यभावविषयायाम्[717]उपलब्धाव् ऽभावस्य पृथग् अन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिद् एकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति । अपृथक् सिद्धेर् इत्य् अस्यापि

तुल्यतां दर्शयन्न् -- आह लिङ्गाविर्भावेत्यादि । येयम् अन्यभावविषया उपलब्धिर् ल्लिङ्गतयोच्यते तस्यास् {प्. 201.1} तद्विविक्तप्रदेशाकाराया [त्. 352अ.] आविर्भावकाल एव जन्मकाले प्रतीतिकाल एव[718]वा तदभावसिद्धेश् च । तथा हि -- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनम् एव तदभावसंवेदनम् इति । तद् एव साधयति -- न ह्य् अन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनर् उत्तरकालं तत्प्रतिपत्तेर् अन्यभावप्रतिपत्तेस् तदभावेनान्यव्यतिरेकौ प्रसाध्य प्रतिबिन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? । तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य प्रतियोगिनो ऽभावं[719]प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि -- सघटप्रदेशासंकीर्णरूपस्य [स्. 190ब्.] केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् । न हि `घटो ऽत्र नास्ति` `घटवानयं न भवति` `सघटाद् अन्यः` इत्य् अर्थभेदः कश्चित् । ततः सघटाद् अन्यतया केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् इति । `घटो ऽत्र नास्ती`ति ज्ञानं गृहीतग्राहितया स्मृतिर् एवेति । कथं ज्ञायत इति चेत् । दर्शनानन्तरम् अन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना `इदम् घटविविक्तं प्रदेशवस्त्व् अस्ति` `इदं तु घटवस्तु नास्ति` इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात्[720]। ततो नान्वयव्यतिरेकानुसरणम् अत्रास्तीति [त्. 352ब्.] । किञ् च -- दृष्टान्तरासिद्धे स्वात्मन्यभावविषयोपलब्धिस् तदभावस्य साधनं[721]। तद् एव व्यतिरेकमुखेन दर्शयति -- तच् च तस्य इत्यादि । इहाप्य् अस्त्य् एवान्वय इति चेत्, आह -- न ह्य् एवंशक्यम् इत्यादि । कस्मान् न शक्यं

दर्शयितुम्? । तद् एकोपलब्धेः तस्यैकस्यानन्यसंसर्ग्गिणो योपलब्धिर् विशेषरूपा तस्याः क्वचिद् अप्य् अन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुर् उच्यते -- यत्र यत्र घटविविक्तभूतलोपलब्धिस् तत्र [स्. 191अ.] तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्य् आह -- सामान्येन प्रदर्शने क्रियमाणे दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरम् अन्यभावविषयोपलब्धेर् नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य {प्. 202.1} साधिका । सा च यथा साध्यधर्मिणि तदभावसिद्धये दृष्टान्तम् अपेक्षते तथा दृष्टान्ते ऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं तस्मान् न कुतश्चिल् ल्लिङ्गात् तदन्यभावात् तदुपलब्धेर् वा तदभावसिद्धिर् इति । यदि तदन्यभावस् तदभावं न साधयति, किं पुनर् ल्लिङ्गतया [त्. 353अ.] साधयति[722]?, इत्य् अत आह -- सो ऽन्यभावः प्रत्यक्षलक्षणेन -- प्रत्यक्षस्यैव विवक्षितोपलम्भाद् अन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्न् अभावव्यवहारं साधयेत्,[723]कर्मस्थक्रियापेक्षायां[724]तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनर् असाव् अभावव्यवहारं साधयेत्? । मूढप्रतिपत्तौ साध्यायां । यस् त्व् अमूढो [स्. 191ब्.] विषयप्रतिपत्तौ विषयिणं स्मरत्य् एव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर् लिङ्गतेति सुचर्च्चितम् एवान्यत्रेतीहालं प्रसङ्गेनेति ।

__________नोतेस्__________

[636] पूर्वक्षणेनैवयेनाध्यवसीयमानः [637] निमित्ताभावो -- त्. [638] येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने ॥ तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः ॥ [pv ii 24] [639] संयोगाद् -- त्. [640] अगृहीत- -- त्. [641] स्वविषयविज्ञाने जननयोगाद् -- त्. [642] अत्रातिदिशन् -- त्. [643] वा प्रदेशस्य घटविविक्तस्यानुपलब्धित्वं -- त्. [644] ज्ञाने [645] एकज्ञानसंसर्ग्गित्वम् [646] एककालत्वाद् एव [647] व्यवहार लोके -- त्. [648] चकाराद् अग्रहणं च [649] वेद्यते -- त्. [650] हेतुत्वा- [651] अत्रान्तरे ग्रन्थे स्वयम् एवाचार्यो विप- -- त्. [652] प्. 174,27 [653] प्. 176,4 [654] प्. 176,11 [655] एतस्यासा- -- त्. [656] अतो ग्रन्थव्याख्या [657] प्रत्यभिज्ञानस्य -- त्. [658] घटाभावरूपया घटाज्ञानभावाख्याया वा (प्रथमं टिप्पनं) उपलब्ध्य् ऽभावरूपया (dvi. टि.) [659] प्. 176,11 [660] हि यस् तुच्छ- -- त्. [661] अन्यभावात् [662] प्रसज्यप्रतीतिः [663] प्रसज्यप्रतीतौ [664] अन्य्भावस्य [665] प्रति प्रति- -- त्. [666] तस्य द्विविधेन -- त्. [667] -स्य रूपानभ्यु- -- त्. [668] तदान्य- -- त्. [669] तादात्म्यपक्षे [670] तदेव -- त्. [671] तादात्म्याभावेन [672] -मुखेन संबन्धः एकार्थसमवायसंबन्ध इति -- त्. [673] सन्निकर्षादीष्टं भवति -- त्. [674] विशेषणविशेष्याभावे [675] स्वकर्मस्वानन्तर्भावात् -- त्. [676] समस्त -- त्. [677] चात्रसम्- -- त्. [678] -दकभावरूपो -- त्. [679] प्रयोगात् -- त्. [680] -दिके कुतः सि- -- त्. [681] -यां अयं (ओर् स) समुदायः -- त्. [682] -योस् सं- -- त्. [683] प्रतिपत्तिकाल एव -- त्. [684] धूमादेर् अग्निः -- त्. [685] लिङ्गलिङ्गिनौ -- त्. [686]

liṅgaliṅginoś ca liṅginā sa- -- t. [687] p. 184,29 [688] ca tadabhāvapratipattiḥ tadapra- -- t. [689] tadanyabhā- -- t. [690] -nyābhāvaḥ tadātmake -- t. [691] na yujyate --t. [692] saṃyukta- -- t. [693] -kṣāvasitaḥ -- t. [694] tṛṣā- [695] asaṃkirnna(ṇṇa)vastupratibhāsitayā [696] anyajṭānam [697] asaṃkīrṇatvābhāve [698] anyatvāyogāt [699] p. 172,22 nāstītājñāna- [700] p. 178,23; p. 180,17 [701] p. 172,22 [702] pramātuḥ [703] ghaṭa- [704] bhūtala- [705] ghaṭa- [706] p. 189,24f. [707] tathātvāpra- -- t. [708] -svabhāvasya pratyakṣāṃśāṃ -- t. [709] tadarthāvyavacchedād iti samāsadvayena cā(vyā)caṣṭe [710] prakārā(ra)- [711] aneneti śeṣaḥ [712] dravyānta- -- t. iti sūcayati [713] gha- [714] sā tannibandhanāt prati- -- t. [715] p. 178,14 [716] p. 178,15 [717] -bhāvaviṣayāyāḥ -- t. [718] pratītijanmakāla eva -- t. [719] rūpasyā 'bhāvaṃ -- t [720] jñāpanāt -- t. [721] -sya na sādhanam -- t. [722] -tayā na sā- -- t. [723] bhūtala- [724] anyabhāvo 'nupalambhena siddho yaḥ sa katham anupalabdhiḥ? ity āha

[सेच्तिओन्: 3. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् ।]

तद् एवम् अनुपलब्धेर् अशेषविप्रतिपत्तिनिराकरणेन स्वरूपम् अवस्थाप्य प्रभेदनिर्द्देशार्थम् आह -- सेयंयतोक्तात्रिधाऽनुपलब्धिः । कथम्? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? । सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेर् एवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश् चेति । एवं त्रिविधा ऽनुपलब्धिः । कथं पुनः कारणव्यापकयोर् अभावव्यवहारः सिध्यति यतस् तयोः सिद्धाभावतोच्यत [त्. 353ब्.] इत्य् आह -- तत्र कारणव्यापकयोर् अपि न केवलं यस्य साक्षाद् अभावव्यवहारः साध्यते । स्वभावानुपलब्धौ स्वभावस्यासद्व्यवहारस्य सिद्धिर् अन्यस्य तद्विविक्तस्य भावसिद्धिर् या सैवासद्व्यवहारसिद्धिहेतुत्वाद् एवम् उच्यते । [स्. 192अ.] स कारणव्यापकाभावः तथासिद्धो ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदा ऽनयोर् विरूपविषयतया {प्. 203.1} सविशेषाणाम् उपलब्धिर् न सिध्यति तदाऽभावम् अभावव्यवहारंवासाधयति । समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धाव् अप्य् अभावो लिङ्गतया साध्यत इत्य् आह -- स्वभावानुपलब्धौ तु इत्यादि । अभावव्यवहार एव, नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् । अत्र परस्य वचनावकाशम् आशङ्क्याह -- यदि तर्हि कारणव्यापकौ सिद्धो ऽसद्व्यवहारो ययोः तौ सन्तौ । केन? । तदन्यस्य करणव्यापकविविक्तस्य भावस्य सिद्धिर् या प्रत्यक्षात्मिका तद्रूपया ऽनुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वा ऽभावम् अभावव्यवहारं च

साधयतः । सा चान्यभावोपलब्धिस् तयोः कारणव्यापकयोर् उपलब्धिलक्षणप्राप्ताव् एव सत्याम् असद्व्यवहारस्य साधिका नान्यथा इत्य् एवम् इष्यमाणे [त्. 354अ.][स्. 192ब्.] सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर् व्यतिरेकप्रयोगः क्रियते -- यत्र यत्राग्निर् नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्य् अशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । न हि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश् च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः[725]प्रतियोगिनो नोपलब्धिलक्षणप्राप्तता सिद्धा? । तथा च कथम् अशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोर् व्यतिरेकः सिध्येत्? । तदसिद्धौ वा कथम् अनयोर् ग्गमकत्वम्? । तस्मात् क्वचिद् अदर्शनमात्राद् एव व्यतिरेक एष्टव्यः, क्वचिच् च दर्शनमात्राद् अन्वयः । तथा च प्रतिबन्धघोषणा ऽनर्थिकेति मन्यते परः । सिद्धान्तवाद्य् आह -- नैव परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः प्रयोगो [स्. 193.अ] व्यतिरेकोपदर्शनकाले प्रमाणतया कारणस्य व्यापकस्य वा ऽनुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? । लिङ्गस्य कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा अनिश्चयात् तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च [त्. 354ब्.] सन्दिग्धत्वात् । कथं तर्हि तदा ऽनयोः प्रयोग इष्यते? इत्य् आह -- केवलम् इत्यादि । कारणव्यापकयोर् हि {प्. 204.1} कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे

च सम्बन्धे साधिते सिद्धसम्बन्धयोर् यद्य् अभावो यत्र यत्राभावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वा ऽवश्यं नियमेनाभावो ऽन्यथा ऽहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच् च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्याद् इत्य् एतस्यार्थस्य दर्शनार्थम् एते कारणव्यापकानुपलब्धी प्रयुज्येत इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? । न ह्य् अप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिद् एकभावाभावयोर् अपरस्य [स्. 193ब्.] भावाभावदर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह -- देशादिभेदादृऋष्यन्ते भिन्नाद्रव्येषुशक्तयः। प्रमाणसिद्धे सत्य् अवश्यम् एव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्य् अभावो ऽन्यथा कारणम् अन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश् च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस् तत्र तत्र तद्भावः[726]अन्यथा तस्य नैरात्म्यम् एव स्याद् इति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्राग् एव विस्तरतो विपञ्चितम् ।

__________नोतेस्__________

[725] अग्निवृक्ष- [726] तत्स्वभावः -- त्.

[ सेच्तिओन्: 4. हेतोस् त्रैरूप्यत्रैविध्ययोर् हेत्वाभासत्वस्य चोपसंहारः ।]

एवं कारय्स्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावाद् अन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्न् {प्. 205.1} आह -- इति एष एव [स्. 194अ.] स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात्[727]। यतश् चान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावाद् उक्तेन न्यायेन इति तस्मात् तदंशेन व्याप्तो ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर् निश्चयाद् यथोक्तं प्राक्, [त्. 355ब्.] ततश् च तदंशव्याप्तिवचनात् त्रिलक्षण एव त्रिरूप एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायाम् अप्य् अव्यभिचाराभावेनागमकत्वात् । कस्मात् त्रिलक्षाण एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति स्वसाध्यधर्माव्यभिचाराद् इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् । स्वसाध्यधर्माव्यभिचार एव च गमकत्वम् इति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायाम् अपि स्वसाध्यधर्माव्यभिचाराभावात् । तद् अनेन `त्रिधैव स` इत्य् अस्य त्रिलक्षण एव स हेतुर् अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य नियमाद् अवश्यन् तया सद्भावात् [स्. 194ब्.] प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे(गमे) च रूपान्तरकल्पनायाम् अपि हेत्वाभासास् ततो ऽपरे यथोक्तत्रिलक्षणाद् अपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा [त्. 356अ.] अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्व् अभावाद् इत्य् अपरो ऽर्थो दर्शित इति । __________नोतेस्__________

[727] -सद्भावात् अस्यैव स्वभावकार्यानुपलब्धिलक्षणाश्रय(णास् पद)त्वात् -- त्.

[ सेच्तिओन्: 5. हेतुलक्षणे ऽधिकरूपवादिनां निरासः ।]

यदुक्तं `त्रिलक्षण एव हेतुर् नान्यलक्षणः` इति तत्र परेषां विप्रतिपत्तिं दर्शयन्न् आह -- षड्लक्षणो हेतुर् इत्य् अपरेनैयायिक-मीमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस् तैर् इष्यंते? इत्य् आह -- त्रीणि चैतानि पक्षधर्मान्वयव्यतिरेकाख्यानि । तथा ऽबाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वम् अपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य {प्. 206.1} हेतुद्रव्यस्य तदेकसंख्यं विवक्षितम् एकसंख्यं हेतुद्रव्यम् आश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् । यद्य् एकसंख्याव्यवच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायाम् अपि द्विसंख्यायुक्तायाम् इति[728]। [स्. 195अ.] यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञानत्वं च ज्ञानविषयत्वं च । न ह्य् अज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः [त्. 356ब्.] इति । तत्रैतेषु रूपान्तरेषु यद् एतद् अबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मका ऽविनाभावसम्भवे सति ततः पृथग् अन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तम् इति न वक्तव्यम् इति । कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधाद् इति । तथा हि -- सत्य् अप्य् अविनाभावे यथोक्ते बाधासम्भवं मन्यमानैर् अबाधितविषयत्वं रूपान्तरम् उच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन विरोधात् सहानवस्थानलक्षणात् । तम् एव विरोधं साधयन्न् आह --

अविनाभावो हि इत्यादि । सत्य् एव हि साध्यधर्मे भावो हेतोर् अविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्य् एव तस्मिंस् तदभावविषयं प्रमाणं प्रवर्त्तेत तदा ऽस्य भ्रान्तत्वाद् अप्रमाणतैव स्यात् इति कुतो बाधा? । ततः स हेतुः तल्लक्षणः साध्याविनाभावी धर्मिणि स्यात् । अत्र च साध्यधर्मःकथंन भवेत्? यतो [स्. 195ब्.] बाधावकाशः स्यात् । तस्माद् अविनाभावस्य प्रमाणबाधायाश् च सहानवस्थानम् अविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्य् असम्भवाद् इति । तम् एव विरोधं सष्टीकर्तुं परोपहासव्याजेनाह -- प्रत्यक्षानुमाने हि इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, तंग्रीवायांगृहीत्वा [त्. 357अ.] धर्मिणः स्वाश्रयात् निष्कासयतः[729]। तस्मिंश् च साध्यधर्मे सत्य् एव तदविनाभावित्वाद् धेतुर् भवंस् तं {प्. 207.1} साध्यधर्मं निष्कास्यमानं गले गृहीत्वा हठात् तत्रैव धर्मिण्यवस्थापयतीति परं प्रकृष्टं वत भावानां साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि -- यन्त्रद्वयनियन्त्रितानां निरुच्छ्वासितया मरणम् एव प्राप्तम् इति । परो बाधा ऽविनाभावयोर् विषयभेदाद् अविरोधं दर्शयन्न् आह -- अन्यत्र साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर् न पुनः साध्यधर्मिण्य् एव । ततः [स्. 196-7अ.] कुतो बाधा ऽविनाभावयोर् विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनाद् अन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्य् अपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य

सम्भव इति । एवंविधाविनाभावोपगमे सत्य् अप्य् अबाधितविषयत्वादिके रूपन्तरे हेत्वाभासास् ततो ऽपरे रूपान्तरसम्भविन इत्य् आपादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकम् आह -- तत् किम् अयं साध्यधर्मी तपस्वी वराकः शड्ढ्(ण्ढ)म् उद्वाह्य तस्मिन् साध्यधर्मसाधनशाक्तिविकलं [त्. 357ब्.] हेतुं परिणाय्य साध्यधर्मलक्षणं पुत्रंमृगयते? । एतद् एव व्यनक्ति -- यस्य हेतोर् द्धर्मिण्य् असत्य् अपि साध्यधर्मे भाव इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् । तं तथाविधं साध्यधर्मिण्य् उपदर्श्य कथं धर्मी साध्यधर्मवान् इत्य् उच्यते? । न ह्य् ऽम्भस्त्वस्य[730]समुद्रे[731]लवणत्वेनाविनाभवे ऽपि तद्व्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिर् इति । परस्य वचनावकाशम् आशङ्ख्याह -- अत एव इत्यादि । एतद् एव विवृनोति -- स्याद् एतद् भवतो मतम् । यत एव हेतुर् अन्यथा ऽपि साध्यधर्मम् अन्तरेणापि धर्मिणि भवेद् अम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभाओपगमात् अत एव कारणात् प्रमाणाभ्याम् अबाधितधर्मा धर्मीत्य् उच्यते । यदि {प्. 108.1} प्रत्यक्षानुमानाभ्यां साध्यधर्मिणि [स्. 196-7ब्.] हेतोर् विषयः साध्यधर्मो न बाध्यते यथा ऽम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेर् अनभ्युपगमात् न यथोक्तो दोष इति । सिद्धान्तवाद्य् आह -- तत् किम् इदानीं [त्. 358अ.] यदा हेतोर् धर्मिण्य् अविनाभावितानभ्युपगमात् साध्यसिद्धेर् अभावात् तत्सिद्धये रूपान्तरम् अबाधितविषयत्वम् उच्यते तदा हेतोर् न किञ्चित् सामर्थ्यम् । कस्मात्? अबाधयैव हेतुम् अन्तरेणापि

साध्यसिद्धेः अकिञ्चित्कर एव हेतुः । तथा ह्य् अत्र कल्पनाद्वैयम् -- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? । तत्र यदि पूर्वो विकल्पस् तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावाद् इति । तस्माद् अबाधायां बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्य् अभावात् साध्यसिद्धेः भवत्य् एवेति व्यर्थ एव हेतुर् इति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरण् भवेत्? । स्यान् मतम् -- मा भूद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्त्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्य् अत [स्. 198अ.] आह -- बाधायाम् अपि इति । यदि बाधकं प्रमाणं वर्त्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर् ब्रह्नणापि तद्भावस्य कर्त्तुम् अशक्यत्वात् किम् अङ्ग पुनः शष्ठेन हेतुनेति[732]कुतः साधनस्य हेतोः सामर्थ्यम्? । अत [त्. 358ब्.] एव हि भवद्भिर् अबाधितविषयत्वं रूपान्तरम् उच्यत इति । अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपिभावाद् इति द्वितीयः पक्ष इष्यते तद् अप्य् अबाधायाः सामर्थ्यविरह इति दर्शयन्न् आह -- अनियमे बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदम् आपतितम् । न च -- बाधकं प्रमाणं स्यात् साध्याभावस्य च सम्भवः इति न साध्यसाधने सामर्थ्यम् अबाधायाः सत्याम् अपि साध्याभावस्य स्म्भवाद् इति तद्योगिनो ऽपि हेत्वाभासतैवेति । यद् उक्तम् -- अबाधयैव साध्यसिद्धेर् व्यर्थो हेतुः इति तत्रान्यथार्थम् अबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्न् आहपरः-- न बाधाया अभावो समाबाधा

ऽभिमता । किं तर्हि? । बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधाया सम्भवे ऽपि स्यात् । ततो बाधा ऽनुपलब्धिमात्रेण सध्यसिद्धेर् अभावात् तत्सिद्ध्ये ऽवश्यं [स्. 198ब्.] हेतुर् अभिधानीय इति स हेतुप्रयोगस्य विषयः. तदा हि हेतुः स्वसाध्यं साधयन् कथम् असमर्थः स्याद् इति. सिद्धान्तवाद्य् आह -- किं नु वै हेतुर् बाधाया या उपलब्धिस् तस्याः बिभेति न पुनर् ब्बाधाया येन बाधां सम्भवन्तीम् अप्य् अनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः । कदाचित्परो ब्रूयात् -- किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी, [त्. 359अ.] तदुपलब्धिर् एव राक्षसी । तस्मात् तत एव हेतोर् भयं तदभावे हेतुः प्रयोक्तव्य एवेत्य् अत आह -- स तर्हि इत्यादि । एवं तर्हि परमार्थेन बाधा किम् अस्ति नास्तीत्य् एतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित् परो ब्रूयात् -- उक्तम् एवैतत् किम् अर्थं पृच्च्यते? इत्य् आह -- किम् अर्थंप्रयुज्यत इति । बाधा ऽनुपलम्भे ऽपि तत्सम्भवे साध्यस्धनायोगाद् इत्य् अभिप्रायः । परो ऽनवगताभिप्राय आह -- साध्यसिद्ध्यर्थम् इति बाधकप्रत्ययाभावे प्रामाण्यस्येष्टत्वात् ततः साध्यसिद्धिर् अविरूद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिम् असम्भावयन् पृच्छति स किंक्वचिद् इत्यादि । किं [स्. 199अ.] पुनर् असौ हेतुः सत्याम् अपि बाधायां साध्यं साधयेद् इति सम्भव्यते भवता येनास्या बाधाया अभाव विनिश्चयं प्रति यत्नो न क्रियते हेतुश् च प्रयुज्यत इति । एवम् एतत् इति चेत्; तथा सत्याम् अपि बाधायां साध्यसाधनसामर्थ्योपगमे सत्य्

अबाधितविषयत्वं न भवति । किं कारणम्? । बाधायाम् अपि सत्याम् अस्य हेतोः सामर्थ्यात् सामर्थ्योपगमात् । तद् धि हेतोर् लक्षणम् उच्यते येन विना साध्यं न साधयेद् इति । {प्. 210.1} स्यन् मतम् -- अनुपलभ्यमानबाधत्वं हेतुलक्षणं [त्. 359ब्.] परमार्थेन, नाबाधितविषयत्वम् इत्य् अत आह -- तथाच इत्यादि । एवं सति बाधायाः सद्भावसम्भवे ऽपि ताम् अभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधाम् अभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदा ऽनुपलम्भमात्रेण बाधायां संशयात् -- सताम् अपि केशाञ्चित् कथञ्चिदनुपलम्भसम्भवात् -- संशयितस्य हेतुप्रयोगे प्रवृत्तिर् एव न युज्येत । तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षम् अभ्युपेत्यैव प्रवर्त्तते । तथा च यथा बाधानुपलब्धौ ताम् अभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धाव् अपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर् विशेषाभावाद् इति नानुपलभ्यमानबाधत्वम् अपि [स्. 199ब्.] हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्य् असति प्रतिबन्धे प्रामाण्यस्य सम्भव इति । परस्य वचनावकाशम् आशङ्ख्याह -- न बाधायाम् इत्यादि । नैव हि बाधायां सत्यां हेतोः सामर्थ्यम् इष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? । सिद्धान्तवाद्य् आह -- यद्य् एवं बाधायां सत्यां हेतुर् असमर्थो यदीष्यते तदा ऽनिर्णीतो अधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगंबाधा ऽनुपलम्भमात्रेण नार्हति । किं कारणम्? । मा भूद् बाधायाः सम्भस्वपक्षे प्रयुक्तस्यापि हेतोः साध्यसिद्धौ असामर्थ्यम् इति[733]। [त्. 360अ.] पूर्वपक्षवाद्य् आह --

बाधानुपलम्भे सति बाधाया आभावात्[734]सदुपलम्भकप्रत्ययाभावे[735]सत्य् अवश्यम् अर्थानाम् असत्त्वाद् धेतोः सामथ्यम् इति चेन् मन्यसे सिद्धान्तवाद्य् आह -- किम् उपलम्भो बाधाम् इत्यादि । उपलम्भो ह्य् अर्थानां कार्यं, न च कार्यं कारणं व्याप्नोति । न ह्य् ऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात्[736]। तत् कथम् अव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर् ब्बाधायाः सम्भवकृतम् असामर्थ्यं न सम्भवेद् इति । एतच् च परैर् अपीष्यत एव; [स्. 200अ.] प्रमाणतयोपगतस्याप्य् उदयकाले ऽनुपलब्धबाधस्य {प्. 211.1} कालान्तरेण बाधकप्रत्ययोत्पादे सत्य् अप्रामाण्योपगमात् । अथाव्यापकस्याप्य् उपलम्भस्य इवृत्तौ बाधा निवर्त्तते -- निवर्त्तते हि मिथ्यात्वंदोशाजानादयत्नतः॥ [श्ल्व् सू 2.52] इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेर् इत्य् आह -- तथापि व्यर्थो हेतुः । कुतः? । बाधानुपलम्भाद् एव हेतुपयोगरहितात् साध्यसिद्धेः । किं कारणम्? । अनुपलम्भे बाधाया असम्भवात् । तथा हि -- यत्र बाधाया अनुपलम्भस् तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति, तत्र साध्यधर्मस्याभावो ऽपि परमार्थेनैव [त्. 360ब्.] नास्ति, अन्यथा परमार्थेन बाधाया अभावायोगात्. ततश् च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्य साध्यप्रतीतेर् व्यर्थता हेतोर् इति. अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिर् इष्यते, तत्राह -- उपलम्भस्य निवृत्ताव् अपि सत्यां बाधाया अनिवृत्ताव् इष्यमाणायां तदवस्थं हेतोर् असामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोर् अप्रयोग इति

कस्याबाधितविषयत्वं [स्. 200ब्.] रूपान्तरं स्यात्? । एतद् एवोपसंहरन्न् आह -- तस्मात् स्वसाध्य इत्यादि. यत एवं व्याप्त्य हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्तविषयमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् स्वसाध्यभावाभावाभ्यांअन्यथाऽपि स्वसाध्यभावे ऽप्य् अभवन् न ऽभावे ऽपि च भवन् हेतुर् धर्मिणि किञ्चित् साध्यं न भावयति न साधयति न विभावयति तद्विपरीतं न निषेधयति इति तस्य विधिप्रतिषेधावकुर्वत उपक्षेपः प्रयोगो न समर्थः इत्य् अवश्यं हेतुप्रयोगम् इच्छता स्वसाध्याविनाभावः सर्वत्र हेतोर् अभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रायत्तो यथोक्तं प्रक् । तस्मिंश् चाभ्युपगते बाधाविनाभावयोर् विरोधः [त्. 361अ.] सिद्ध इत्य् उपसंहरन्न् आह -- तन् न इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति । यदि नाम बाधाविनाभावयोः सहावस्थानाभावाद् अविनाभावे {प्. 212.1} सत्य् अबाधा गम्यते रूपान्तरं तु किम् इति न भवति? इति, अत आह -- तन् नाम इत्यादि । तद् धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थितया । [स्. 201अ.] लक्षणकारैश् च रूपान्तरत्वेनोपादानम् अर्हति यस्य विशेषणस्य भवे ऽपि यस्यापरस्याभावः स्यात् । यतः स्वभावे व्यभिचारे च विशेषणविशेश्यभावो न सम्भव एव केवले । उदाहरणम् आह -- तद् यथा इत्यादि । सत्य् अपि हि श्रावणत्वादेः सपक्षे भावो नास्ति । सत्य् अपि च चाक्शुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततो ऽन्योः सम्बवव्यभिचारयोर् भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[737]। इहा ऽप्य् एवं भविष्यतीति चेद् आह --

न चैतद् अनन्तरोदितम् अबाधाया अविनाभावे सति सम्भवति । सत्य् अविनाभावे नियमेनाबाधायाः सम्भवाद् व्यभिचाराभावात् कुतो विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[738]अर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुर् एवाविषये तु प्रयोगाद् धेत्वाभास उच्यते । यत एवम् इति तस्मान् न तदभावो बाधाविरहः [त्. 361ब्.] पृथगविनाभावाद् अन्वयव्यतिरेकात्मनो ऽनयोर् हेतुविरुद्धयोर् लक्षणान्तरत्वेन वाच्यः, [स्. 201ब्.] व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश् चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद् धेतोर् यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरम् उच्यते? असम्भविनां च तेषां उपवर्णनं निष्फलम् इत्य् आकूतम्[739]। केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह -- नापि इत्यादि । हेतुप्रयोगे ह्य् असति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश् चशास्त्रकारैर् न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति ।दिङ्नागपादैस् तु {प्. 213.1} साध्यासाध्यविपर्ययेण[740]विप्रतिपत्तिदर्शनाद् अप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तम् एवापक्षत्व न नि(-त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्व् अतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेर् इति । तद् एवम् अबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्न् आह -- एतेन

अविनाभावे सति बाधाया [त्. 362अ.] असम्भवदर्शनेन एकसंख्याविवक्षाऽपि विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना प्रत्युक्ता प्रत्याख्याता । परःपृच्छति -- कथम् इति केन प्रकारेण -- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोर् अपि?, येनैकसंख्याविवक्षा तद्वद् एव प्रत्याख्यायेत इति । सिद्धान्तवादी साम्यं दर्शयन्न्[741]आह -- एक इत्यादि । एको हि हेतुर् लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? । यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणम् अविनाभावो नाम हीयेत । अत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्माद् अन्यो ऽपि प्रतिहेतुर् विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? । एकस्य हेतोर् यत् साध्यं[742]तद्बाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावाद् अविनाभावाद् इति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुर् इति [स्. 202ब्.] निरस्त इति । अत्रैव दूषणान्तरम् अभिधातुं विकल्पयन्न् आह -- अपि च इत्यादि । `वस्तुतः` परमार्थतो यस्य प्रतिहेतुर् न सम्भवति -- किम् असौ सम्यग्ज्ञानस्य विपर्ययस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुर् इष्टो [त्. 362ब्.] यतो विवक्षितैकसंख्यत्वं तल्लक्षणम् उच्यते, आहोस्विद् यस्य प्रतिहेतुस् तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्न् अपीति । परो दोषम् अपश्यन्न् आह -- किञ्चतः इत्यादि । यदि नाम पूर्वो विकल्प उत्तरो वा ततः को दोषः? इति[743]। {प्. 214.1} सिद्धान्तवाद्य् आह -- यद्य् असम्भवन् प्रतिहेतुर् यस्य स सम्यग्ज्ञानादिहेतुर् इष्यते, तदा ऽलक्षणम् एतद् विवक्षितैकसंख्यत्वम् । कस्मात्? अशक्यो निश्चयो यस्य वस्तुतो

ऽसम्भवत् प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतद् उच्यते । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । ततस् तस्य प्रतिहेतोर् एवंविधस्य सम्भवो ऽस्ति । स चानुपलभ्यमानो ऽपि कदाचित् स्याद् इति वस्तुतस् तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्व् अस्माकं [स्. 203अ.] प्रतिहेत्वसम्भवः सुनिश्चित एव । न हि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुन स्वसाध्ये साधिते पुनस् तत्रैव धर्मिणि तल्लक्षणस्य [त्. 363अ.] तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्ख्यते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्ध्ययोगाद् इति । स्यान् मतम् -- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर् निश्चेतुम् अशक्यस् तथाप्य् असम्भवत् प्रतिहेतुत्वं विवक्षित्तैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान् न भवति? इत्य् आह -- न ह्य् अनिश्चितात्मनः इत्यादि । प्रतिपादको यो धर्मो हेतोस् तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्दिग्धं लक्षणं यस्य स हेतुर् भवतीति न कश्चिद्धेतुर् भवेद् इति हेत्वभावो [स्. 203ब्.] वा इत्य् अस्य समर्थनम् । ततश् च हेत्वाभासास् ततो ऽपि इत्य् अत्रापि योजितम् इति । स्यान् मतम् -- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर् न

दृश्यते स वस्तुत एवासम्भवत् प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्क्यते, बाधकप्रत्ययम् अन्तरेण बाधाशङ्काया अयोगात् । तद् उक्तम् -- बाधाज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति । {प्. 215.1} अत आह -- तुल्ये लक्षणे हि इत्यादि । शङ्यमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः [त्. 363ब्.] प्रतिहेतोर् ब्बाधकस्य सम्भव स येशाम् अपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्व् अपि शङ्कां प्रतिहेतुसम्भवविषयाम् उत्पादयति । किं कारणम्? । अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । न हि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस् तत्सम्भवो न शङ्क्येत । पुरुषशक्तिवैकल्यादिना तु तददर्शनं[744]सम्भाव्येतेति किम् उच्यते `नाशङ्का निःप्र(ष्प्र)माणिका` इति । अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोर् अदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्का ऽस्तम् उपैति । [स्. 204अ.] तदा सति वा विशेषे स विशेषो हेतोर् लक्षणम् । किं कारणम्? । यतस् ततो विशेषाद् धेतुर् एकान्तेन निश्चयेन निरस्तप्रतिपक्षस् तथाविधे धर्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति । यस् तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामा ऽहेतौ प्रतिहेतुर् दृष्टो, हेतोः किम् आयातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्शा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेर् इत्य् आह -- तथाच हेतौ तद्विशेषयोगिनि प्रतिहेत्वसम्भवे सति व्यर्था निष्प्रयोजनम् एकसंख्याविवक्षेति । [त्. 364अ.] यथोक्तविशेषाङ्गीकरणे तल्लक्षणस्य

प्रतिहेतोर् असम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य कार्यकत्वं स्याद् इति । विरुद्धाव्यभिचारिणश् च हेत्वाभासस्य व्यवच्छेदार्थम् एकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतो ऽसम्भवत् प्रतिहेतुत्वसिद्ध्ये च प्रतिबन्धलक्षणे विशेषे हेताव् इष्यमाणे विरुद्धाव्यभिचार्य् अपि हेत्वाभासो न [स्. 204ब्.] भवति । ततो व्यवच्छेद्याभावात् किम् एकसंख्याविवक्षया? इति दर्शयन्न् आह -- अतः प्रतिबन्धलक्षणविशेषोपगमात् विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणंतद् धीयेत न सम्भवेत् । किं पुनस् तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्य् आह -- स्वलक्षण इत्यादि । हेतोर् यदात्मीयं लक्षणं तद्युक्तयोर् हेत्वोर् {प्. 216.1}एकत्र धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । न हि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतिबन्धवत्य् एकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस् तल्लक्षणस् तत्रैव हेतुः सम्भवेत्, [त्. 364ब्.] भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर् द्वितीयस्य तत्र कुतः सम्भवावकाश इति । ननु यदि तथाविधविशेषसम्भवे [स्. 205अ.] सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यार्था, तथापि नैव हेत्वभावप्रसङ्गः, तत् किम् उक्तं हेत्वभावो वेत्य् अत आह -- न च नैव तस्य विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं निश्चीयते । स्वरूपं तादात्म्यतदुत्पत्तिलक्षणं निर्द्देश्यते भवद्भिः यथा ऽस्माभिर्

निर्दिष्टं य्द्रूपं प्रतीत्य प्रतिपद्य प्रतियोगिनः सम्भवासम्भवाउ उत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने । यत्र त्व् अस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति यत एवं तस्मान् नास्त्य् एव भवतां स विशेषः -- भवद्भिर् न ज्ञायत एव स विशेष इति -- तस्मात्[745]सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि षाङ्क्या प्रतियोगिविषयया भवितव्यम् । ताम् एव शङ्खां द्रढ्यन्न् आह -- दृष्टप्रतिहेतोर् अपि इत्यादि । यस्यापि [स्. 205ब्.] हि प्रतिहेतुर् दृष्टस् तस्यापि प्राक् प्रतियोगिदर्शनाद् इतरेण सर्वकालम् अदृष्टप्रतियोगिना कश्चिद् विशेषो लक्ष्यते [त्. 365अ.] यद्दर्शनाज् ज्ञायेत `अत्र प्रतियोगी सम्भवति न्यान्यत्र` इति दर्शनादर्शनमात्रनिबन्धनयोर् अन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात् तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न विवर्त्तत इति । स्यान् मतम् -- येषु प्रतियोगी सम्भवति तेष्वश्यम् एव कदाचिद् असाव् उपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते त्र्ष्व् असौ {प्. 217.1} नास्त्य् एव । ततः स तथाविधो हेतुर् भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्य् अत आह -- न च इत्यादि । येषाम् अपि हि प्रतिहेतुः सम्भवति तेषाम् अपि नैव सर्वदा तस्य प्रतिहेतोर् उपलब्धिः प्रतिपत्तृऋणाम् । न ह्य् असर्वदर्शिनाम् उपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्रा(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्का [स्. 206अ.] कथं क्रियते? । तथा चाह -- बाध(धा)ज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति

। तथा ऽपरम् -- शिष्यपरम्परयाकुमारिलोत्पादात् प्राग्दृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशाक्तिना प्रतिहेतव उत्प्रेक्षिताः ततस् तद्दर्शनात् यावज् जीवं अदृष्टप्रतिहेतुष्व् अपि तदाशङ्का निवर्त्तते ।ततः कथम् आशङ्का निष्प्रमाणिकोच्यते? । तुल्यलक्षणे हि इत्यादिकम् अपि प्रतियोगिसम्भवाशङ्काकारणम् उक्तम् एव । न च प्रतियोगिसम्भवम् आशङ्कमानस् तन्निमित्तसंभवात् `उत्प्रेक्षेत हि` इत्याद्याक्रोशमात्रेअ निवर्त्तयितुं शक्यते । तेनास्य[747]प्रतियोग्याशङ्कापनोदक्षं किञ्चित् कारणम् अभिधानीयम् यथा ऽस्माभिर् अभिहितं `स्वभावहेतोर् विपर्यये बाधकप्रमाणवशाद् आत्म्यनिश्चये सत्य् अन्वयव्यतिरेकयोस् तत्र निर्णय; [स्. 206ब्.] कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस् तन्निश्चय` इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्त्तते भवद् दर्शने तेन कारणानिश्चयः प्रतियोगिनः सम्भवयोः `इह प्रतियोगी सम्भवति इह तु न सम्भवति` इत्य् एवंरूप इति -- तस्माद्[748]वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं {प्. 218.1} यल्लक्षणम् हेतोः [त्. 366अ.] तस्यानिश्चितत्वाद् एकसंख्याविवक्शाव् आदिनां न कश्चिद्धेतुः स्यात् । न ह्य् अनिश्चितलक्षणो हेतुर् भवतीत्य् उपसंहार इति । तद् एवं `किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुर् इष्टः` इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुर् आह -- अथाप्रदर्शितप्रतिहेतुः सम्यग्ज्ञानविविपर्ययहेतुर् इष्ट इति सम्बन्धः । अयं च पक्षः किलदिङ्नागाचार्यस्याप्य् अभिमत इति पर उपदर्शयन्न् आह -- यथाह दिङ्नागाचार्यः । किम् आह? यदातर्हि इत्यादि । श्रावणत्वस्य हि न कथञ्चिद्व्यवच्छेदहेतुत्वम्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.