Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुबिन्दुटीका (commentary on धर्मकीर्ति's हेतुबिन्दु)

Tác giả
अर्चट
Thông tin
GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति दिङ्नागाचार्येणोक्ते परेणाभिहितम् -- यदातर्हिवैयाकारणःशब्दत्वंसामान्यविशेषंनित्यम् अभ्युपगच्छति तदाऽयंश्रावणत्वलक्षणःपक्षधर्मःहेतुर् एव स्यात् । नित्यःशब्दःश्रावणत्वात्शब्दत्ववत् इत्य् एवं परेणोक्ते सत्याचार्येणोक्तम् -- यद्य् अत्रशब्दाख्ये धर्मिण्य् अनित्यत्वहेतुंकृतकत्वप्रयत्नानन्तरीयकत्वादिलक्षणं कश्चिद्वैशेषिकादिर् न दर्शयेत्[749] तदाऽयम् प्रदर्शितप्रतिहेतुर् हेतुर् एव भवेत् इति । तद् एवमाचार्यापदैः[750]साक्षित्वे दत्ते मुजम् उत्क्षिप्य शास्त्रकारः पूत्कुर्वन्न्[751]आह -- इदम् इदानीम्[752]इत्यादि । यदा ह्याचार्यस्याप्य्[753]एतद् अभिमतम् इति [त्. 366ब्.] कैश्चिद्व्याख्यायते तदिदं[754]सुमहद्व्यसनम् आयतम् -- गुरुभिर् अभिहितत्वाद् अप्रकाश्यम्, न हि गुरूणां दोषः प्रकाशयितुं युक्तः, न्यायम् अनुपालयद्भिः असंवरणीयम् अप्रच्छादनीयम् । तत् किं गुरून्[755]दूषयाम उत न्यायम् अप्य् उपेक्षामहे[756]इत्य् उभयम् अप्य् अशक्यम्[757]इति कष्टतरंव्यसनंकथम् निर्वोढुंशक्येत? । न कथंचिद् इति । कः पुनर् अत्र दोषो येनेदं कष्टतरम् इत्य् आह -- स तावद् अयं श्रावणत्वलक्षणो हेतुर् वस्तुनि शब्दादीनि स्वसाध्यं तत्त्वम्[758]नित्यत्वं तत्प्रकृतीनि तदात्मकानि कृत्वा [स्. 207ब्.] तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणांमीमांसकवैयाकरणदीनां तान् {प्. 219.1} अभ्युदयेन स्वर्ग्गेण निःश्रेयसेन चापवर्ग्गेण योजयित्वा । तथा हि -- वस्तुतत्त्वं यावन् क्लेशान् न प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस् तु प्रजहन् निर्वाणपरायणो भवति । अथवा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्वहिताग्निहोत्रानुष्ठानात्[759]स्वर्ग्गो वेदान्तनिषेवणाद् अपवर्ग्गः । पुनर् उत्तरकालं

प्रतिभावता[760] प्रज्ञाजातीयेनवैशेषिकादिना पुरुषेण हेत्वन्तरस्य[761] [त्. 367अ.] प्रतिहेतोः निदर्शनेन यद् अस्य नित्यत्वसाधनसामर्थ्य प्रतिहेत्वनुपदर्शने[762]सत्यासीत् तत् तदुपदर्शनेन[763]उत्कीलितम् अपनीतम् इति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश् च तत्प्रमाणकान्[764]पुरुषान् स्वर्ग्गापवर्ग्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुम् अशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति स्वैर् एव दुश्चरितैर्[765]इति किम् अत्र वयं ब्रूमः? । तद् एवम् उपहस्यैतस्मिन् पक्षे [स्. 208अ.] दोषम् उपदर्शयन्न् आह -- पुरुषप्रतिभा इत्यादि । यदा ह्य् अप्रदर्शितप्रतिहेतुर् हेतुर् इष्यते तदा पुरुषप्रतिभाकृतं साधनत्वम् अभ्युपगतं भवति । ततश् च वस्तुतो न किञ्चित् साधनम् असाधनं वा प्राप्तम् । तथा हि -- यदा प्रतिहेतुर् नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनम् इति पुरुषप्रतिभाकृतं साधनत्वम् आयातम् इति । अपि च -- अप्रदर्शितप्रतिहेतोर् हेतोर् हेतुत्वे ऽङ्गीक्रियमाणे विकल्पद्वयम् -- किं परमार्थतो हेतुस् तद्धर्मभावी, उता ऽतद्धर्मभावीति? । तत्राद्यं विकल्पम् अधिकृत्याह -- स च हेतुर् यो ऽसौ प्रथमं उपादीयते । स यदि स्वभावतः एव तस्मिन् साध्यधर्मे सत्येव भवति इत्य् एवंशीलो ऽस्मद् उपवर्णितप्रतिबन्धोपगमात् [त्. 367ब्.] यदीष्यते तदाकथम् अन्यथाक्रियेत हेत्वन्तरेणातद्धर्मभावी कथं क्रियते? । न कथञ्चित् । किं कारणम्? । वस्तूनां [स्. 208ब्.] हेतुलक्षणानां यः स्वभावः -- `सत्य् एव साध्यधर्मे भवनात्मकः` -- तदन्यथाभावस्य तद्विपर्ययस्य अभावाद् उभयोश् च

स्वसाध्यधर्माविनाभावित्वे {प्. 220.1} स्वभावत एव धर्मिण्य् एकत्र तयोर् भावे विरुद्दाव् उभौ स्वभावाव् एकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस् तदा अतद्धर्मभावीच असत्य् अपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् कथम् अन्यदाऽपि अप्रदर्शितप्रतिहेत्ववस्थायाम् अपि साधनंकस्यचित्? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायाम् इति । उपसंहरन्न् आह -- तस्मात् सवभावतः इत्यादि । यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश् चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन [स्. 209.1अ.] साध्येनाविनाभाविनोर् यथोक्तलक्षणयोः [त्. 368अ.] कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोर् असम्भवाद् अलक्षणम् एकसंख्याविवक्षा विवक्षितैकसंख्यत्वं लक्षणम् न भवति । किं कारणम्? इत्य् आह -- व्यवच्छेद्याभावाद् इति । प्रतिहेतुर् हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर् न भवत्य् एवेति कथं तद्धेतुलक्षणं स्याद् इति । तद् एवम् अनयोर् द्वयो रूपयोर् यः सम्भवो यथोक्ताविनाभावा ऽसम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति हेत्वाभासास् ततो ऽपर इति इत्य् अस्यार्थो विवृत इति । ज्ञातत्वनिराकरणायाह -- ज्ञानंपुनः इत्यादि । अबाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्यस्वभावहेत्वोर् एवाविनाभावे सति बाधाप्रतिहेत्वोर् असम्भवात् व्यवच्छेद्याभावत्वेन सत्य् अपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्य् उक्तम् । ज्ञानं तु

jñātatvam, tasyaiva [s. 209.1b.] bhāvapratyayenābhidhānāt | tathā hi -- jñānaśabdapravṛttinimittaṃ jñātatvam ucyate, tac ca jñānam eva, tadutpāde sati jñāta iti vyavahārāt | na ca tat liṅgasyātmarūpam iti [t. 368b.] kathaṃ liṅgalakṣaṇaṃ bhaviṣyati? | yady api vikalpapratibhāsī sāmanyākāro liṅgatayā 'vasthāpyate tathāpi na jñānasya liṅgadharmatā | na hy asau svatantra eva liṅgam | yad āha -- vikalpabhedāna {p. 221.1} svatantrāṇām anvarthāśrayaṇāt tatkalpitaviṣayāda[766]'rthapratipattāv[767] anarthapratilambha eva syāt iti | tamād bāhyavastūpādānasyaivāsya liṅgatā 'vasthāpyate | sādhyasādhanasaṃkalpe vastudarśanahāneḥ[768]svalakṣaṇasya kvacidananvayāc ca taddharmatām eva tv anusmaranto vikalpā nānaikavyatirekān[769]saṃdarśayanto vastuni paramparayā pratibandhād avisaṃvādakāḥ kāryādiliṅgavyapadeśanibandhanaṃ cety uktaprāyam | na ca tasya kāryāder ātmarūpaṃ [s. 209.2a.] jñātam | vikalpāvabhāsī ca sāmānyākāro naiva vikalpasyātmabhūtaḥ, tasya nīrūpasya vasturūpavirodhāt | tadrūpasya ca vikalpapratibimbacakrasya sāmānyātmatāvirahāt | yasmād abāhyāsyāpi bāhyatayā vyavasitasyānanuyāyino 'py anuyāyitayā sāmānyāmakatvaṃ tathātve cāsya vikalparūpatayā kutaḥ? yadā ''ha -- jñānād avyatiriktaṃca katham arthāntaraṃvrajet? || tasmān mithyāvabhāso 'yam artheṣv ekātmatāgrahaḥ| [pv 3.70f.] iti | na jñānasya liṅgadharmatā | etad eva sādhayann āha -- kiṃrūpād ityādi | kim ātmakāt hetor anumeyo 'rtho jñātavyaḥ iti cintāyāṃ prakṛtāyāṃ pratipattuḥ puṃso yad avisaṃvādakaṃ liṅgaṃ tasya svarūpam

अभिधीयते शास्त्रकारैः [त्. 369अ.] यस्य रूपस्य दर्शनादयं प्रतिपत्ता ओयत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलम् असाधनमो इति प्रविभागेन व्यवस्थाप्य यत् तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिम् अवलम्बते । तथा, एतस्मिंश् च न्याये [स्. 209.2ब्.] व्यवस्थिते यद् अस्य लिङ्गस्यात्मरूपं तल् लक्षणं भवितुम् अर्हति पक्षधर्मादिवत् न तु यत् पररूपम् । स्याद् एतद् -- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्य् अत आह -- प्रतिपत्तिजन्मनि इत्यादि । यद्य् अनुमेयप्रतीतिजन्मन्य् उपयुज्यते ज्ञानम् इति तन्मात्रेण लिङ्गस्य लक्षणम् इष्यते तदा ऽतिप्रसङ्गः प्राप्नोति । तम् एवाह -- एवंप्रतिपत्तिजन्मन्य् उपयोगमात्राल् लिङ्गलक्षणत्वे प्रमेयस्य अर्थस्य पुरुषस्य {प्. 222.1} प्रमातुः अदि शब्दात् संयोगसमवायादीनाम् आलोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणम् आह -- न हि तेष्व् अपि प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परो ऽनिष्टम् आपादयन्न् आह -- निश्चितग्रहणंतर्हि इत्यादि । यदि पररूपत्वाज् ज्ञानं लिङ्गलक्षणं न भवति तदा च यद् एतदाचार्येण -- अनुमेये ऽर्थ तत्तुल्ये सद्भावो नास्तिताऽसति । निश्चितेति -- निश्चितग्रहणं कृतं भवतश् चाभिमतं [त्. 369ब्.] तन् न कर्त्तव्यम् । तथा हि -- निश्चयो हि लिङ्गस्य पररूपम् एव । स चेत् तल्लक्षणम्, ज्ञानं किम् इति नेश्यते यतो निश्चयो विज्ञानम् एव तद्विशेषत्वाद् अस्येति । सिद्धान्तवाय् आह -- न न कर्त्तव्यं किन्तु कर्तव्यम् एव तस्य [स्. 210अ.] निश्चितग्रहणस्य लिङ्गरूपप्रतिपादनाद् अन्यार्थत्वात् । ताम्

एवान्यार्थतां दर्शयन्न् आह -- सपक्षविपक्षयोः इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुम् इच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर् भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर् विद्यमानयोर् अपि दर्शनादर्शनयोर् अगमकत्वं हेतोर् दृश्यते `स श्यमः, तत्पुत्रत्वात्` इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेना ऽसपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुर् इत्य् अस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतद् उक्तं भवति -- याव् एव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्याम् एव हेतुर् गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्य् अस्यार्थस्य [स्. 210ब्.] ज्ञापनाय निश्चितग्रहणं कृतम् इति । प्रकृतम् उपसंहरन्न् आह -- तेन इत्यादि । येन विशिष्टयोर् भावाभावयोर् एव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य [त्. 370अ.] च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न किञ्चिद् रूपविशेषो ऽभिधीयत इति । {प्. 223.1} ननु च परे ऽपि सपक्षविपक्षयोर् भावाभावाभ्यां गमकं हेतुम् इच्छन्ति, दर्शनादर्शने तु तयोर् एव साधके, तत् किम् अर्थं निश्चितग्रहणम्? इति, अत आह -- तौ हि इत्यादि । यद्य् अपि परे भावाभावाभ्याम् एव गमकं हेतुम् इच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस् तौ

तथाविधाउ सिध्यतः, प्रतिबन्धविकलानाम् अप्य् अथानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् [स्. 211अ.] यौ `हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एव` इत्य् एवम् आत्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणण् तादात्म्यतदुत्पत्तिसाधनविषयं तद्वृत्त्या बोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेशां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतद् असर्वदर्शिनः सम्भवतीति । यत उपयान्तरं नास्ति तेन कारणेन तयोर् विशिष्टयोर् भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षाणे लक्षणकाएणेति । ननु च भावाभाववचनमात्राद् एव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोर् एव सत्ता न प्रसिध्येद् इति, अत आह -- यद्य् अपि इत्यादि । अनुमेये ऽर्थ तत् तुल्य सद्भावो नास्तिताऽसति । इत्य् अनेनैव सपक्षासपक्षयोः [त्. 370ब्.] भावाभाववचनमात्रेण निश्चितग्रहणनिरपेक्षेण तयोर् भावाभावयोर् यत् साधनं प्रमाणं तस्य वृत्तिर् यद्य् अप्य् आक्षिप्यते । कथं पुनर् निश्चितग्रहणम् अन्तरेण भावाभाववचनमात्रतस् तद्वृत्तेः आक्षेपः? इत्य् आह -- अन्यथा यदि तत्साधनप्रमाणवृत्तिर् नाक्षिप्येत, [स्. 211ब्.] तदा तयोर् एव सपक्षविपक्षयोर् एव भावाभावयोर् या सत्ता स्वरूपव्यवस्था तस्या अप्रसिद्धेः । कस्माद् अप्रसिद्धिः? इत्य् आह -- ज्ञानस्य उपलब्धेर् या सत्ता उत्पत्तिः तन्निबन्धनत्वाज् ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्य् उपलम्भम् अन्तरेण स्वत एवार्थाः {प्. 224.1}

सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्माद् इदम् एवंरूपं नैवंरूपम् इति तदाकारज्ञानोदयाद् एव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विना ऽपि तत्साधनं तत्सत्तासाधनं प्रमाणम् आकर्शति आक्षिपतीति । किञ् च, परार्थत्वाच् च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिर् आक्षिप्यत इति सम्बन्धः । कीदृशं पुनस् तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणम् आक्षिपति? इत्य् आह -- त्रिरूपंलिङ्गंवःसंवादकंप्रापकं [त्. 371अ.] वाञ्चितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिम् आक्षिपतीत्य् आह -- तद्रूपं तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेशां ततस् त्रिरूपाल् लिङ्गाच् छास्त्रोक्ताद् वाञ्चिते ऽर्थे प्रवृत्तिर् भवति, अज्ञातस्यार्थस्य [स्. 212अ.] ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् इति तस्मात् परोपलक्षणत्वाद् एव परेषां ज्ञापकत्वाद् एव प्रवर्त्तके त्रिरूपलिङ्गे ज्ञानं सिद्धम् इति यद्य् अपि निश्चितग्रहणम् अतिरिच्यते तथापि ताव् एव लिङ्गस्य सपक्षासपक्षयोर् भावाभावौ विशिष्टौ शस्त्रोक्तौ `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इत्य् एवंरूपौ केचिन्नैयायिक प्रभृतयः, परे दर्शनादर्शनमात्रेण -- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः -- तन्मात्रेण व्यवस्थापयन्ति यत एव[770] इति तस्मात् तेषां वादिनां निशेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्तआचार्येणास्माभिश् चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति ।

किम् इति पुनर् दर्शनादर्शनाभ्यां भावाभावविशयाभ्यां सपक्षा[स]पक्शयोः विशिष्टौ भावाभावाव् अन्वयव्यतिरेकात्मकौ [त्. 371ब्.] नेष्येत इत्य् आह -- सतोर् अपि इत्यादि सत्य् अपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच् चासपक्षे ऽभावदर्शने `स श्यमः, तत्पुत्रत्वात्` इत्यादाव् अन्वयव्यतिरेकयोः संशयात् । तथा हि -- अन्वयो नाम सर्वत्र सत्य् एव साध्ये हेतोर् {प्. 225.1} भावो व्याप्त्या चासति साध्ये हेतोर् अभावो व्यतिरेकः । न च क्वचित् सति साध्ये [स्. 212ब्.] हेतोर् भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमा ऽभावात् । तथा क्वचित् साध्याभिमतस्याभावे सत्य् अभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यम् अभावः, तदनायत् तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थम् एव निश्चितग्रहणं कृतम् इत्य् उपदर्शयन्न् आह -- तस्मात् इत्यादि । अस्माभिः इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकम् अभिमतत्वात् अस्माभिः इत्य् आह । तद् एवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन् न कर्तव्यम् एवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भावतीति [त्. 372अ.] दर्शयन्न् आह -- यतो ऽपि इत्यादि । पृथग् अतः इति पक्षधर्मत्वादेस् त्रैरूप्यात् । कुतः? । तेनैव त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः अवगतत्वात् प्रतिपन्नत्वाद् इति । किंवत्? उपनयार्थवत् पक्षधर्मत्वात् इति । यथा पक्षधर्मत्ववचनेनैव हेतोर् उपनयस्यार्थो ऽवगतस् तस्य धर्मिणि हेतोः

सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो [स्. 213अ.] रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वाद् इति । अत्र परो ऽनिष्टम् आपादयन्न् आह -- अन्वयव्यतिरेकयोर् अपि इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज् ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् हन्त तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच् च पृथगन्वयः । किं कारणम्? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगाद् उभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यम् इति । सिद्धान्तवाद्य् आह -- न, हेतोः इत्यादि । नान्वयव्यतिरेकयोर् न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि -- अन्वयो हेतोः {प्. 226.1} सपक्षे भाव उच्यते, व्यतिरेकः पुनर् अभावो ऽसपक्षे । न च तौ परस्परम् आक्षिपतः [त्. 372ब्.] परस्परम् अन्तर्भवतो विधिप्रतिषेधरूपयोर् भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तः । ननु च यद्य् अन्वयव्यतिरेकयोर् भिन्नरूपता कथं तर्हि त्रैरूपं लिङ्गम् उच्यते? । न हि परस्परभिन्नाव् आत्मानाव् एवास्य युज्यते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथा ऽन्वयव्यतिरेकौ [स्. 213ब्.] व्यवस्थाप्येते न वा नयो(-प्येते तथा तयो)र् अनन्तर्भाव उच्यते नान्यथा । कथं चैतौ ववस्थाप्येते? । व्यावृत्तिकृतं भेदम् उपादाय । तथा चानयोर् भिन्नरूपतैव । व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्य् एकं लिङ्गं त्रिरूपम् इत्य् उच्यत इति । कथं तर्हि प्रागुक्तम्[771]`नानयोर् अर्थः कश्चिद् भेदः, अन्यत्र

प्रयोगभेदाद्` इति? अत आह -- एकंवाक्यम् इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तम् एकं वाक्यम् उभयम् अन्वयं व्यतिरेकं च भिन्नलक्षणम् एव गमयतीत्य् उच्यते ऽस्माभिर् नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोर् एवैकवाक्यार्थरूपत्वात् । अत्र पर आह -- नतु(नु) तत्रैव इत्यादि । अयम् अभिप्रायः -- लक्षणवाक्यप्रतिपादिताव् अन्वयव्यतिरेकाव् आश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत[772]एव । तथा हि -- `तत्रैव भावः` इत्य् अत्र लक्षणवाक्ये तदर्थतया[773]तदभावे ऽभावो गम्यते; `अतदभावे ऽवश्यम् अभावः` इति [त्. 373अ.] चात्र `तद्भावे भावः` । न ह्य् असति प्रतिबन्ध एकाभावे ऽपरस्याभावः । प्रतिबन्धश् च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश् चैकेनैव सपक्षासपक्ष्योर् भावाभावप्रतिपादकेन [स्. 214अ.] प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर् द्वितीयवचनं न कर्त्तव्यम् इति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावता ऽप्य् अनयोर् दुर्ल्लभा । ततश् च यदुक्तम् `अन्वयव्यतिरेकयोर् अपि तर्हि न पृथक्त्वम् इति` तत् तदवस्थम् एवेति । {प्. 227.1} सिद्धान्तवाद्य् आह -- वचनम् एतद् `तत्रैव भावः` इत्यादिरूपम् उभयमाक्षिपति प्रतिपादयति । कुतः? । सामर्थ्याद् उभयप्रतिपादनशक्तस्य? । नियमस् व्यापकस्य `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इति सावधारणस्य द्वितीयाक्षेपनान्तरीयकत्वात् द्वितीयप्रतिपादननान्तरीयकत्वात् । न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोर् एकस्वभावता भिन्नस्वभावानाम् अप्य् अथानाम् एकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगताव् अपि यत् पृथअभिधानं तत्

प्रयोगनियमार्थम् । साधर्म्यप्रयोगे [त्. 373ब्.] वैधर्म(र्म्य)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनम् इति न पुनर् एकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः परोपलक्षणाथेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य [स्. 214ब्.] प्रतिपादनाल् लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनम् अस्तीति नास्य पृथग्वचनं युक्तम् इति । स्यान्मतम् -- केवलाव् अपि तर्ह्य् एकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैकवाक्यार्थान्तर्भावाद् इत्य् अत आह -- न पुनःकेवलौ एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परम् आक्षिपतो ऽन्तर्भवतः भिन्नरूपाणाम् अप्य् अर्थानाम् एकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्ताव् अपि भावाभावौ केवलाव् एव, तयोः परस्पराक्षेपे केवलयोर् अपि तत्प्रसङ्ग इत्य् अत आह -- नियमवन्तौ च सावधारणवाक्यप्रतिपादितौ न केवलौ किन्तु सहिताव् एव । कुतः? । नियमस्य सावधारणस्य वाक्यस्य उभयरूपत्वात् भावाभावप्रतिपादनात्मकत्वात् । तद् एवं सावधरणेन [त्. 374अ.] वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वा ऽभिधीयते । तदन्तर्भावात् तु द्वितीयगतिः किन्तु परस्परानन्तर्भूताव् एव सहिताव् एकेन वाक्येनाभिधीयेत इति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्रैव [स्. 215अ.] सपक्ष एव भाव {प्. 228.1} इत्य् अनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? । असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्य् असपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो

ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयम् आक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् । तस्माद् यदा ऽन्वयव्यतिरेकौ भावाभावाव् अभिप्रेतौ तदा तौ भिन्नरूपाव् एवेति कथं तयोः न पृथक्त्वम्? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्याद् एवोभयगतेः पृथग्वचनं न कर्त्तव्यम् एव । तत् तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थम् इत्य् उक्तम् एतद् इति । स्यान्मतम् -- यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश् च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशस्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भूतम्, ततो रूपान्तरं भविष्यतीत्य् अत [त्. 374ब्.] आह -- नैवम्, यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ परस्परम् अनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् । कुतः? । परोपलक्षणात् -- परे उपलक्ष्यन्ते [स्. 215ब्.] उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्माद् अव्यतिरेकाद् आगृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावाद् इति यावत्, इति तस्मान् न लक्षणान्तरं त्रैरूप्याद् इति । तद् अयम् अत्र समुदायार्थः -- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानम् एवोच्यते तदा तल्लिंगस्यानात्मभूतम् इति न तल्लक्षणम् । अथावि(पि )ज्ञानापेक्षः कर्मभावो ज्ञातत्वम् उच्यते तदा ऽपि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानम् आक्षिपति । ततस् तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्त्तव्यम् । तथा

परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्याद् अव्यतिरेकाद् इति । तद् एवम् अबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्न् आह -- तस्मान् न हेतुःषड्लक्षणः। [त्. 375अ.] किं तर्हि? । त्रैलक्षण्य एवेति । {प्. 229.1} इमं क्षताशेषकुतर्कमार्गं, मुनीशराद् धान्तन्नयप्रदीपम् । वितत्य पुण्यं यदुपार्जितं तत्, परां विशुद्धिं जगतो विधेयात् ॥

[स्. 216अ.] हेतुबिन्दुटीका[774]समाप्ता । .................................................................................................................................................................................................................................................................. मा यतत इमा या तद्रूपा बल (?) त्रिभुवनस्य हिताय शश्वत् । नरस्य सेतोः दो... ...तथागतमतस्य निबोधयित्री ॥ 2 ॥

....... 74 मार्ग(र्ग्ग)सिर वदि 7 रवौ । मंगलं महाश्रीः ॥

न गुरोर् उपदेशम् अग्रहीत् बुबुधे वस्तु ततो ... ... धीः । यततो स्म न तस्य वृद्धये न परिस्पन्दितुम् अप्य् अपारयत् ॥ [1 ||] जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै ...त् । तद् एव शक्ता ...था परत्र चित्रा हि विश्वप्रकृति...नाः ॥ 2 ॥

हे! रोहिणीरमण! सर्वकलानिकेत! तारापते! रजनिनाथ! सुधानिधान! कादम्बरीरसगुणेषु नि... ... व -- मात्मानम् अर्पितशरीरम् अनुस्मरेन्दोः ॥ 3 ॥

श्रीब्रह्माणगच्छे पं- अभयकुमारस्य हेतुबिन्दुतर्कः ॥

__________नोतेस्__________

[728] -yām api anupalambhāt -- t. [729] niṣkāsya yataḥ -- t. [730] hetoḥ [731] sādhya- [732] punaḥ tadṛśena he- -- t. [733] asāmarthyaprāptir iti -- t. [734] anupalambhāt -- t. [735] -pratyayasadbhāve -- t. [736] pratibandhāt vai- -- t. [737] nopādanam -- t. [738] nopā- -- t. [739] iti kutaḥ -- t. [740] sādhyam apy asādhyaṃ asādhyam api sādhyaṃ pare prāhuḥ [741] -dī sandarśa- -- t. [742] hetor ātmano sā- -- t. [743] iti manyate -- t. [744] taddarśanam -- t. [745] {? -- s. p. xxv, śuddhipatrakam: iti | ta- : iti -- ta} [746] this verse is omitted in the t. [747] pratipattuḥ [748] {? -- s. p. xxv, śuddhipatrakam: iti | ta- : iti -- ta} [749] ni- -- na. t. [750] -cārya pūjyapādaiḥ -- pu. [751] pṛthakkurvan -- na. [752] idam ityādi- -- pu. [753] yadācārya- -- pu. [754] tadaivaṃ -- pu. [755] gurūṃ -- pu. [756] -yam upe- -- pu. [757] -yam aśa- -- pu. [758] -dhyata- -- na. t. [759] -trādyanu- -- na. t. [760] prati-bhavatā -- t. [761] -ṣeṇa akṛtakatvād he- -- t. [762] kṛtakatvādi- [763] tadu- -- pu. t. [764] -kāt -- pu. [765] duśceṣṭitaiḥ -- na. [766] tair vikalpaiḥ kalpito yo 'sau viṣayo 'vagru(?)rūpo na dhūmatvādiḥ [767] vahnitvādi [768] vastudarśanāpravṛttā (?) [769] nānābhūtānāṃ yo vāstavavyatireka ekasya ca vyāvṛttiparikalpitas taṃ darśayantaḥ [770] evaṃ -- t. [771] p. 74,18-21 [772] vidyate -- t. [773] tatraivety avadhāraṇasya tadathitayā [774] -ṭīkā brāhmaṇārcatena vivṛtā samā- -- t.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.