Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
हेतुबिन्दुटीका
- Tác giả
- अर्चट
- Thông tin
- GRETIL — Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्रागसत् तत् सामर्थ्यमुत्पन्नं क्रमवच्चेति निश्चय इति चेत् । यद्येवमेकाकारतया पूर्वापरकालयोरधिकृतं प्रत्यभिज्ञानमुपजायमानमपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्यप्यनुमानादर्थापत्तितो वा बाधामनुभवन्न प्रमाणमित्युपगतं स्यात् । तथा, उत्पत्त्नुत्पत्त्योरेकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः सदृशापरभवग्रहकृतश्चार्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्ज्जातेष्विव केशनखादिष्विति किं नेष्यते? ।
[40. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः]
अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणमेवेत्यतत्स्वभावमिति नापूर्वोत्पत्तिप्रसङ्ग इति नैयायिकादयो मन्येरन् अत्राह- "अतत्स्वभावत्वे" सामर्थ्यस्येष्यमाणे "स" बीजादिः पदार्थः "प्रागिव" तद्रूपापरित्यागात् "पश्चादप्यकारक एव" । (ह्ब्ट् 121) कुत? । सामर्थ्यमित्याख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इति नैयायिकैरभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । ते ऽपि सहकारिणः प्रत्ययाः यद्यक्षणिकाः तेष्वप्येवं प्रसङ्गो ऽनिवारित एवेति क्षणिकतेवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वमिच्छतो ऽभ्युपेया ।
पुनरप्यक्षणिकानामेकार्थक्रियाप्रतिनियमं निराकर्तुमुपचयहेतुमाह- "अपि च" इत्यादि । यो ऽसावक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? । येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्रागपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः ।
"का चान्या मृग्यते युक्तिः यथा तद् दृश्यते तथा" इति सर्वत्रेयमप्रतिहता युक्तिरिति मन्यमानः कुमारिलः प्राह- "कुर्वन् दृष्टः" इत्यादि । यतस्तदैव कार्यं कुर्वम्(न्) दृष्टो मया "तेन दर्शनबलेन करोतीति ब्रूमः", किमत्रान्ययोपपत्त्याभिहितया?, प्राक् तत् कुर्वन्न दृष्टः तेन न करोतीत्येकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानामपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदमुत्तरं सम्बध्यत इत्युपहसन्नाह- "अहो महासमर्थ्यम्" इत्यादि । महाप्रभावस्य भवतो महसामर्थ्यं दर्शनम्, यस्मादेतद्भावान् कार्यकरणस्वभावविकलानपि- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतदेवोत्तरं किं नोक्तम्?, यतः कार्यकरणे दर्शनमुत्तरीकृतमिति कृत्वा- "स्वभावमात्रेण" आत्मसत्तामात्रेण "नानाप्रकारेषु व्यापारेषु नियुङ्क्ते" तत् कथं महासामर्थ्यं न स्यात्? । न चात्र मे काचिदक्षमा किन्तु "यदि नाम किञ्चित्" कारणं "कथञ्चिद्" अनादृतस्य वा व्याक्षिप्तस्य वा "अत्र भवत" इति पूजावचनम् (ह्ब्ट् 122) "दर्शनस्य विषयतामतिक्रामेत्" तदा "हन्त" इति दैन्योद्भावनमेतत्, अप्रसवो धर्मो ऽस्य तदिदम्- "अप्रसवधर्मकं" ततो ऽपेतसन्तानं "स्यादि"ति इयमस्माकं चिन्ता चित्तं दुनोति ।
पर आह- "न वै वयम्" इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां "भावानामस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः, किन्तु" स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । "तान् पश्यन्तः केवलं जानीमहे" त एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायामिति ।
सिद्धान्तवाद्याह- "सत्यम्, इदमप्यस्ति" । किं वयं न्यायानुरागितया न्याय्यं वचनमुपलक्षयामः, उत भवानेव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन्न्याय्यमुक्तवान् इति सञ्जातपरितोषः पृच्छति- किं तद्? इत्याह- "स्वभावस्तेषां" भावानां "कार्यक्रियाधर्मा" कार्यकरणधर्मा "तेन" कारणेन "समस्ताः" समग्राः प्रत्ययाः सहकारिणो येषां तेषामकृत्वा कार्यं "नोपेक्षापत्तिः" नौदासीन्यप्रतिपत्तिः इति सत्यम्- इदमप्यस्ति भवतो न्याय्यं वचनमिति, किन्तु इदमसि प्रष्टव्यः- "सौ[ऽक्षेप]क्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायां" समग्रावस्थायां यदनन्तरं कार्यमुत्पद्यते तदैव "उत्पन्नः? आहोस्वित् प्रागपि" परस्परविरहावस्थायामपि "आसीत्"? ।
तत्र तदैवोत्पन्ने तत्स्वभवत्वे ऽपूर्वोत्पत्तिरेव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह- "आसीत्" । कुतः? प्रच्युतश्च उत्पन्नश्च प्रच्युतोत्पन्नः, तस्य प्रतिषेधः "अप्रच्युतो ऽनुत्प(अप्रच्युतोत्प)न्नः" स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले "कस्यचित्" स्वभावस्य तत्रोपलब्धस्य "अभावविरोधात्" । क्षणिकेष्वेव ह्येकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्विति ।
अत्राह- "तत् किमिदानीम्" इत्यादि । स्यान्मतम्- नैवेदमनेन वाक्येन सदृशमस्मद्वाक्यमित्याह- "को वास्य" इत्यादि । यद्येतदनेन तुल्य न भवति तदा सकलसहकार्यवस्थायाः "प्रागपि" अयम् "अक्षेपक्रियास्वभावः" अविलम्बितकार्यकरणस्वभावः "कार्यं च न करोती"त्यस्य भाषितस्यार्थो वक्तव्य इति ।
नैयायिकास्तु मन्यन्ते- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायमप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि न प्रागपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतमाशङ्कमान आह- "सहितः" इत्यादि ।
एतन्निरस्यति- "अन्यस्तर्हि" इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद्भवति? इत्यत आह- "स्वभावभेद" इत्यादि । "स्वभाव भेद एव हि भावभेदस्य लक्षणम्" । स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनामिव कथमिव भावभेदो न स्यात्? । नहि स्वभावादन्यो भावः यतस्तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् ।
ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास्तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?, तस्यापरापेक्षस्वभावभेदलक्षणत्वात् इत्यत आह- "नहि स साहित्ये ऽपि" इत्यादि । तदैतदुत्तरं भावत्कं सम्बध्येत यदि भावो यो ऽसौ परः सहकारित्वाभिमतः सन्निधीयते तद्रूपेण कर्ता स्यात् न स्वरूपेण । न चैतदस्ति, तथाभावे हि परमार्थतः स एव परः कर्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन्यो ऽर्थक्रियाः । नहि माणवको दहनोपचारादाधीयते पाके । ततश्च नास्यानुपकारिणो भावमपेक्षेत कार्यमिति तद्रहितेभ्य एव (ह्ब्ट् 124) सहकारिभ्यो भवेत् । यद्वा तेभ्यो ऽपि न भवेत् । तेषामपि पररूपेण कर्तृत्वे स्वयमकारकत्वात् । ततः सर्वेषामेवं स्वयमकारकत्वे पररूपेणाप्यकारकत्वात् सर्वथा कारकोच्छेद एवेति न किञ्चित् कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततो ऽन्यः सहितो ऽन्यश्च केवलः इत्येतदविचलमेवेति ।
अथ येन स्वरूपेणायं जनकस्तदस्य सहितासहितावस्थयोः सर्वदास्ति तदा स्वरूपं च स्वकार्यजनकमस्य स्थिरस्वभावस्य प्रागपि सहितावस्थायास्तदेव यत्सहितावस्थायामक्षेपक्रियास्वभावमिति तस्मात् न कथंचित् कार्यक्रियाविरामः । अथवा कदाचित् परो ब्रूयात् स्वहेतुभिरेवायं प्रत्ययान्तरापेक्षः स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावात् इत्यत आह- "नहि स साहित्ये ऽपि" इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्रागपि भावात् प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वादस्य, अन्यथातिप्रसङ्गात्, केवलस्य कार्यकरणमनिवार्यमिति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्यपि पररूपेणाकारकस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्रागित्ययमर्थः । ततश्च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रूवता कथं सर्वदा कार्यजननस्वभावतास्योक्ता भवति? । नन्वेवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान्नाक्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वमिति स्थितम् ।
परः समानदोषतामापादयन्नाह- "यस्यापि" इत्यादि सुबोधम् । यदि नाम क्षणिकस्तथापि किन्न भवति? इत्याह- "उक्तं यादृशस्य" सहकारिभिरपृथग्भाविनः "क्रिया" । 'ते समर्था (ह्ब्ट् 125) एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्पश्चात्पृथग्भावो नास्तिऽ; इत्यत्र । "स कथमेकक्षणभावी" एकस्मिन्नेवान्त्ये क्षणे भवनशीलः "अन्यथा भवेत्" अन्त्यक्षणात् प्राक् पश्चात् पृथग्वा भवेत्? "यश्च" अन्यथा "भवति स" एवान्त्यक्षणभावी सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा "न भवतीति नायम्" अक्षणीकपक्षोदितः "प्रसङ्गः" क्षणिकपक्षे । कुतः? । "कारकाकारकयोः" इत्यादि । कारको ऽन्त्यः अकारकस्तदन्यः तयोर्यः "स्वभावः" स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुरुपान्त्यः, अकारकस्यापि यो हेतुस्तदन्यः स भिन्नो ऽप्यभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर्यौ स्वभावौ तयोरेकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर्जनकौ यौ हेतू- एकः कारकस्वभावजनको ऽन्यश्चाकारकस्वभावजनकः- तयोरप्येकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोरुत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् "यश्च भवति स एव न भवतीति नायं प्रसङ्ग" इति ।
[41. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः ।]
अपरस्त्वन्यथा शिररूपेष्वेकार्थक्रियाप्रतिनियमं कल्पितवान् तमुपन्यस्यति "यो ऽपि मन्यते" इत्यादि । भावस्य ह्यक्षेपक्रियाधर्मैव सर्वदा स्वभावः, न तु यथा केचिद् ब्रू(ब्रु)वते- सहकारिसन्निधानापेक्षा वस्तूनां करकस्वभावव्यवस्था, न स्वत इति । स्वतो ऽकारकत्वे पररूपेण कारकत्वायोगात् करकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश्च केवलः कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं (स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलादभावात्, तेनात्र कार्यमेवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतयावस्थिते ऽपि प्रत्ययान्तराण्यपेक्षत इति । ततः (ह्ब्ट् 126) तदात्मनः कार्यस्य सहितेभ्य एव भावादेकार्थक्रियालक्षणं सहकारित्वमक्षणिकानामप्युपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रममस्य दर्शयन्नाह- "तस्यापि" एवंवादिनः "कथं स" नित्याभिमतो भावः "केवलः करोत्येव" 'अक्षेपक्रियाधर्मैव स तस्य स्वभावःऽ; इति वचनात् । कार्यं च सहितेभ्य एव भवति, 'सामग्रीजन्यस्वभावत्वात् तस्यऽ; इति वचनात् । तस्मात् केवलान्न भवतीति "तदवस्थो विरोधो" यः पूर्वमुक्तः । तथाहि- यद्यक्षेपक्रियाधर्मा तदावश्यमनेन कार्यं कर्तव्यम् न चेदवश्यं करोति कथमक्षेपक्रियास्वभावः ।
अक्षेपेणा कार्यदर्शनादक्षेपक्रियास्वभावतावगम्यते नान्यथा इति पराभिप्रायाशङ्कयाह- "न केवलः" इत्यादि । नैवं मयोक्तं केवलः करोत्येवेति किन्त्वक्षेपक्रियास्वभाव इति । अत्राह- "कथमिदानीम्" इत्यादि । यदि करोत्येवेति नेष्यते कथमक्षेपक्रियास्वभाव इति कथ्यते? । अथ तथोच्यते तथा नन्वेतदेवानेन "वचसा परिदीपितम्" अभिहितं भवति । किं तत्? । करोत्येवेति । स एव ह्यक्षेपक्रियास्वभावो यः करोत्येव, यस्तु नावश्यं करोति स कथं तद्रूपः स्यत्? । यदप्युक्तं 'कार्यस्यैवायमपराधो यत् तस्मिं (स्मिन्) जनकतयावस्थिते प्रत्ययान्तराण्यपेक्षतेऽ; इति तदप्ययुक्तम्, यतः "कार्यं" चायमक्षणिको भावः "केवलो ऽपि समर्थः सन् परं" प्रत्ययान्तरम् "अपेक्षमाणं कथमुपेक्षेत?" नैव । अनुपेक्षमाणेन किं कर्तव्यम्? । आह- "परं" प्रत्ययान्तरम् "अनादृत्य" तिरस्कृत्य एतत् कार्यं "प्रसह्य" हठात् "कुर्यात्" । क एवं सत्यस्य गुणो भवति? इति चेत्, आह- "एवं हि" परमनादृत्य हठात् स्वकार्यं "कुर्वतानेन" केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि "सामर्थ्यं" तद् "दर्शितं" प्रकाशितं भवति । अन्यथान्यसहितस्यैव करणात् केवलस्य च कदाचिदप्यकरणात् न 'अयं केवलो ऽपि समर्थःऽ; इति परेषां बुद्धिः स्यात् । ततो ऽयं तिरस्कृतप्रभाव इव कथं भ्राजेत? । तस्मादयुक्तमुच्यते कार्यं प्रत्ययान्तरापेक्षमिति ।
कार्यापेक्षयापि विरोधस्य तादवस्थ्यं दर्शयन्नाह- "कार्यं परम्" इत्यादि । कार्यस्य परापेक्षां ब्रूवन् केवलात् कारणादनुत्पत्तिमस्य कथयसि, 'स केवलो ऽपि समर्थःऽ; इतीदं वदंस्ततः केवलादुत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । तत् एवैकस्मात् कारणादुत्पत्त्यनुत्पत्ती परस्परविरुद्धे "कथमेकत्र" कार्याख्ये धर्मिणि "स्याताम्?" विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रूवाणो 'माता च वन्ध्या चऽ; इत्यनेन सदृशं ब्रूष इति न पूर्वोक्तदोषान्मुच्यसे, यत एवमपि ब्रूवाणो विरुद्धमेव ब्रूते न च लक्षयति "तत्" तस्मात् "अयम्" अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो "ऽयमीर्ष्याशल्यवितुद्यमानमर्मा" वराको ऽस्वस्थचित्ततया विरुद्धाभिधानमप्यलक्षयन् "विक्लवम्" आकुलं पूर्वापरासम्बद्धं "विक्रोशति" विरोदिति "इति" कृत्वा अस्वस्थचित्तवचनेष्वनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् "उपेक्षामेव" विपश्चितानां (श्चितां) कृपाधनानाम् "अर्हतीति" ।
तदेवमक्षणिकेषु न कथञ्चिदेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवतीति प्रतिपाद्योपसंहरन्नाह- "तस्मादिदम्" इत्यादि । येषां हि स्थिररूपतया पृथगपि भावः सम्भवति तेषामक्षणिकानां "पृथक्" केवलानां "कार्यकरणसम्भवेन" हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथगसम्भवात् ।
[42. क्षणीकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था ।]
ननु अतिशयोत्पादनलक्षणमपि सहकारित्वं भावेषु दृश्यते तत् कथमुक्तं प्राक् 'सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनामेकार्थकरणमेवऽ; इत्यत आह- "यत्र तु सन्तानोपकारेण" इत्यादि । (ह्ब्ट् 128) एकार्थक्रियालक्षणमेव सहकारित्वं सर्वत्र न क्वचिदतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजनेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश्चाङ्कुरादिजन्मनि पृथिव्यादयः- तत्र विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यमाश्रृ(श्रि)त्य पुर्वोत्तरक्षणयोरेकत्वाध्यवसायेन तस्यैवायमतिशय इति न द्रव्याश्रयेण । औपचारिकमेव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस्तु स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणमेव तत्र परमार्थतः सहकारित्वमिति न काचित् क्षतिरिति । कस्माद् द्रव्याश्रेयेणातिशयोत्पादनं नेष्यते? । क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् ।
यदि तर्हि क्षनिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरमप्यसौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवमक्षणिका अपि । तेनैषामेकार्थक्रियालक्षणमेव सहकारित्वं भविष्यति । न च शक्यं वक्तुम्- यो यस्य प्रागकारकः स्वभावः स पश्चादपीति । तथा हि- प्रभास्वरादपवरकं प्रविष्टस्येन्द्रियमर्थप्रतिपत्तिमकुर्वदपि पश्चात् कुर्वाणमुपलभ्यते । तदुक्तम्-
"न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु । अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥" इति ।
अत आह- "नहि तण्डुलादीनाम्" इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्यसन्निधानतुल्यत्वात् दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्रागिव पश्चादप्यर्थप्रतिपत्तिं नैव जनयेत् । तस्माद्यदसम्भवि (ह्ब्ट् 129) कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वमेव, शालिबीजादिव कोद्रवबीजस्येति निरतिशयादन्यत्वमेव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणमौपचारिकं सहकारित्वमेकार्थक्रियालक्षणमेव तु मुख्यं तत्रापीति प्रतिपादितम् । यत्र त्वक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयमतिशयोत्पादनमस्ति? इत्यत आह- "अक्षेपकारिषु" इत्यादि । 'ये ह्यव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास्तेष्वविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ; इत्युक्तं प्राक् । यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणीभवन्ति? इत्यत आह- "तत्र यथास्वं" यस्य ये आत्मीयाः प्रत्ययाः तैः, "परस्परोपसर्पणव्यवधानादिविरहादेराश्रयभूतैर्ये जाताः" योग्यश्चासावत्यासन्नत्वातिविप्रकर्षविरहाद् देशश्च स आदिर्यस्याव्यवहितदेशादेः तत्रावस्थानमवस्था येषां "ते सह स्वभावनिष्पत्त्या" स्वभावनिष्पत्तिर्विद्यत इत्येव कृत्वा "ज्ञानहेतुतां प्रतिपद्यन्ते" तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? । यदि हि स्वहेतुभ्य एव परस्परोपसर्पणाद्याश्रयेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानामुत्पत्तौ । यत एवं "इति" तस्मात् "तत्र"तेषु अक्षेपकारिष्विन्द्रियादिषु "एकार्थक्रियैव" मुख्यं "सहकारित्वं" न सन्तानाश्रयेण व्यवस्थाप्यमानमतिशयोत्पादनलक्षणं गौणमिति ।
अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? । तदपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयमेवेत्यत आह- "यत्र तु" कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु विवक्षितकार्योत्पादानुगुणं (ह्ब्ट् 130) प्रतिक्षणं प्रकृष्यमाणं विशेषमुत्पादयन्तः "तत्र" कालक्षेपभाविनि कार्ये कर्तव्ये "हेतुसन्तानो"ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्यपेक्षते, न तु तत्समानकालः कारणक्षण इति । "तत" स्तेभ्यः कारणान्तरेभ्यः "स्वभावान्तरस्य" कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य "प्रतिलम्भः" सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थतस्तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे विशिष्टक्षणे प्रतिनियत इत्येकार्थक्रियालक्षणमेव सहकारित्वमनुभवति ।
कथं पुनः स्वभावान्तरप्रतिलम्भस्तेषाम्?, यतः क्रमेण कार्यं निर्वर्तयन्तीत्यत आह- "तत्र स्वरसतः" इत्यादि । "तत्र" तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास्तेषां ये पूर्वे प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावदत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्येवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिरिति ।
अत्र परश्चोदयन्नाह- "सहकारिणः" सह करणशीलात् कारणात्, जातावेकवचनम्, यत् समुत्पन्नविशेषमनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर्न स्यात् प्रथमक्षणोपनिपातिनां परस्परतो विशेषानासादनात् क्षणानामविवेकात् अनभ्युपगमाच्च ।
परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषमारप्स्यन्त इति चेदाह- "अविशिष्टाद" विशिष्टेभ्यः परस्परतो "विशेषस्य" (ह्ब्ट् 131) कार्योत्पादानुगुणस्योत्पत्ताविष्यमाणायां "कार्यस्य" अङ्कुरादेः स्यात्, विशेषाभावादित्यभिप्रायः । ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्वीरन् ।
किमेवंसति सिद्धं भवति? इति चेत्, आह- "तेन" येन क्षणिका अपि परस्परतो विशेषोत्पादानपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन "अक्षणिकानामपि कारणता स्यात्, अपेक्षणीयेभ्यः स्वभावातिशयोत्पतिश्च न स्यात्" इत्यक्षणिकवादी क्षणिकपक्षेण स्वपक्षस्य साम्यमापादयति । यदाह-
"कः शोभेत वदन्नेवं यदि न स्यादह्रीकता । अज्ञता वा यतः सर्वं क्षणिकेष्वपि तत्समम् ॥
विशेषहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥"
इति । तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते-
"येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः ।"
इति न्यायाद्धि दूरदेशवर्तिनामपि हेतुफलभावात् इत्याशङ्कयाह- "अथ सहकारिणा" इत्यादि । सहकारिणः परस्परसम्पर्कविकला अपि वस्तुधर्मतयैवान्योन्यमुपकुर्वन्तीति शहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्ककाल उपतिष्ठेत, एवं सत्यनवस्था स्यात् । तथा हि- तद्विशेषोत्पत्तावप्यपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्तावप्यन्य इति ।
अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषणिमित्तमपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्यत आह- "न च" इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने "नित्यं" सर्वकालं योग्यावस्था "येन" योग्यावस्थत्वेन "नित्यानुषक्तः" नित्यानुबद्धः "एषां" क्षितिबीजादीनां कार्योत्पादानुगुणविशेषजनको (ह्ब्ट् 132) विशेषः स्यात् यतः 'अविशिष्टाद् विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ; इत्येतदपि परिह्रियेत ।
कुत एतद्? इत्याह- "तदुपाय" इत्यादि । तेषां क्षितिबीजादीनामुपाये- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात् अपाये च- परस्परसम्पर्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादनुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा स्यत् । ततस्तत्परम्पराभावि कार्यमिति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । तस्मान्न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश्च प्रथमसम्पर्कक्षणभाविनां नोपेयते युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः "नोत्पद्यते", उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनामपि क्षणानामविशेषात् तज्जननस्वभावत्वे ऽप्यजननात् समग्रावस्थायामेव जननाद् । यथा क्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानामपि भविष्यतीति क्षिनसर्वोपायो ऽक्षणिकवादी साम्यमेवातुर इव बहुमन्यमानस्तत्रैव भरं कृतवान् ।
सिद्धान्तवादी भङ्ग्या परमुपहसन्नाह- "नास्माकं पुनः पुनः" इत्यादि । यदि पुनः पुनर्वचने ऽपि लोकस्य न्यायप्रतीतिर्भवति शतशो ऽपि ब्रूमः । किमङ्ग पुनर्द्धौ त्रीन् वा वारान्? । नहि परार्थप्रवृत्तानामस्माकं पुनः पुनरभिधाने कश्चिदुद्वेगो भवति । एवंवादिनश्च शास्त्रकृतः क्वचित् प्रकारान्तरेण तमेवार्थं स्फुटीकुर्वतो ये पुनरुक्तताअप्रिहाराय यतन्ते स तेषामस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्युच्यताम् इत्यत आह- "न विशेषोत्पादनादेव" इत्यादि । नैव विशेषोत्पादनात् सहकारिणां (ह्ब्ट् 133) सहकारित्वं परमार्थतः क्वचित् सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्तव्ये सहकारिताविरहः स्यात् । किन्त्वेकार्थाक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर्युक्तिभिः सम्भाव्यते । सा च प्रथममसम्पर्कभाजामस्त्येवेति किं न सहकारिणः स्युः? ।
पर आह- साप्येकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानामपि तदेकार्थक्रियाङ्गिक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायामिव पृथगपि सा भवेत् । तथाहि- ते तदवस्थायामपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथगपि तद्विशेषक्रिया कथमिव न प्रसज्येत? । नह्येषां संहतासंहतावस्थयोः कश्चिद्विशेषो ऽस्तीति । भवतु, को दोषः? इति चेत्; "तथा च" कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति "तस्माद् विशेषाद् भवनशीलम्" अङ्कुरादि "कार्यमपि" विशेषवत् केवलात् सहकारिणः स्यात् इति चेन्मन्यसे, अत्रापि सर्वमुक्तमुत्तरम् । तथा हि- संहतासंहतावस्थयोन्निर्विशेषा एव क्षणक्षयिणो भावा इति यदुच्यते तत् किं तावद्विशेषमात्रापेक्षया? आहोस्वित् कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? । यदि प्राच्यो विकल्पः तदयुक्तम् । न हि काचिद् विशेषमात्ररहितावस्था सम्भवति, सर्वदापरपरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । नहि कदाचित् किंचिदेकमेव, आधारच्छायातपवातशीतादेर्यथासम्भवं भावात् । न च तद्भावे ऽपि तत् तादृशमेव, कारणभेदात् । एतावत्तु स्यात्- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति । एतच्च प्रागेवोक्तमिति दर्शयन्नाह- "प्रतिक्षणमपरापरैः प्रत्ययैः" इति । 'अपरापरप्रत्ययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिदेव कस्यचित् कारणम्ऽ; इति, 'क्षणिकेषु (ह्ब्ट् 134) भावेष्वपरापरोत्पत्तैरैक्याभावात्ऽ; इति चात्र
संक्षिप्यतरमुक्तम् । एवं च ऽनास्माकं पुनः पुनर्वचनऽ; इत्यत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]दप्युक्तम् 'तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिःऽ; इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्कभाजः परस्परतो निर्विशेषा इत्यभिमतं तदप्ययुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः क्षितिबीजादयः कीदृशाः ये व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच्च जनकं व्य(कव्य)वस्थायाः । ते च तथाविधाः सर्वदा न भवन्तीति कथं पृथगपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानामपि कार्यक्रिया प्रसज्येत तद् दर्शयति- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर्येषामव्यवहितदेशत्वादीनानवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश्च तथोक्ताः । "योग्यदेशता अ(ताद्य) व्यवहितदेशतादयो" ये "अवस्थाविशेषाः" क्षितिबीजादीनामुपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथमेषां पृथगपि तथाविधविशेषारम्भः स्यात्? । एतदपि प्रागेवोक्तम् 'तत्र यो ऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुःऽ; इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुरिति प्रतीयत एव । स च तथाविधोविशेषः सर्वदा न भवति, तज्जनकस्य हेतोरभावात् । परस्परोपसर्पणाद्याश्रयस्यैव प्रत्ययविशेषस्य
तद्वेतुत्वात् । एतदपि पूर्वमेवोक्तमित्याह- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस्तदप्युक्तमसकृदेव 'यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ; इति । तथा 'यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये (ह्ब्ट् 135) योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ; इत्यनेन, इहापि गम्यमानत्वात् । ततो यद्यप्येषां परस्परतो ऽनुपपत्तेर्विशेषो न भवति, स्वहेतुकृतस्तु केन वार्यते? । न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस्तदाशंसा, यतः परस्परतो विशेषायोगः प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानामक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितीबीजादिकलापस्य पृथगेकैकस्य समर्थस्य भावस्याभावादित्येतदप्यसकृदेवोक्तम् 'तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ; इत्यादिवचनात् । ततस्तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन केवलानामप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यमपि स्यादिति? ।
कुतः पुनरयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्यत आह- "कार्यद्वैविध्यं च यस्मात् तस्मादेवं विभज्यते" । कथं द्वैविध्यं कार्याणामिति? अत आह- सहकारिभिरव्यवधानादिदेशैरनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास्तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभवरूपया उत्पत्तिर्द्धर्मो यस्य तदात्मकमेकं कार्यम् । अन्यच्च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्परामपेक्षते । अत्रोदाहरणम्- "अङ्कुरादिवत्", आदिग्रहणादोदनादिवत् । तथाक्षेपेण करणशीलं यदिन्द्रियं तद्विज्ञानादिवच्च । प्रभास्वरादपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् । कुत एतद्? इति चेत् ; कार्यकारणयोः (ह्ब्ट् 136) स्वभावभेदात् । किंचिद्धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तदन्यत्तु तत्परिणामापेक्षमिति । कारणमपि किञ्चित् स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत्तु तद्विपरीतस्वभावम् । यथा किञ्चिदेव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश्च तब्दीजजन्यस्वभावो न यवादीबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्यत्र चिन्ता प्रवर्तते । तत्र सर्वदा तत्स्वभावत्वे
पश्चादिव प्रागपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य भिन्नस्वभावता कारकाकारकावस्थयोः शालियवबीजादीनामिव तत्त्वचिन्तकैरूच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु इत्यत्र विरोधाभावादिति । यदा च तक्तार्यकारणस्वभावभेदात् कार्यव्दैविध्यम्, "तत्रै"तस्मिं(स्मिन्) सति "सहकारिभ्यः" क्षितिबीजादिभ्यस्तेषां परस्परसन्तानोपकारमपेक्षते यत् कारणमन्त्यावस्थाप्राप्तं तस्य यत् कार्यमङ्कुरादिकं तज्जन्मनिमित्तं "सहकारिणां" प्रथमक्षणान्तरं विशिष्टद्वितीयक्षणभावरूपो यो विशेषः कार्योत्पादानुगुणः "आद्यो" भवति "स तेषां" सहकारिणां प्रथमसम्पर्कभाजां परस्परकृतो यो विशेषस्तज्जन्मा न भवति परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणादाद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिरन्यतः समासादितविशेषैः जनितात् तत्प्रभृति "ये विशेषाः" प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते "ते तज्जन्मानः" सहकारिकृतविशेषजन्मानः । कुतः? "तत्प्रकृतित्वात्" तस्याद्यस्य विशेषस्य परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादासादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर्जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । (ह्ब्ट् 137) यत एवम् "इति" तस्मात् "नानवस्था" प्रागुक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्ठेतानवस्थैवं स्यात् इति । तस्य प्रकारस्यानभ्युपगमात् पुरुषप्रयत्नादेरेव
क्षेत्रप्रकिरणहेतोरव्यवहितस्निग्धपृथिवीबीजसम्पर्कलक्षणस्य कार्योत्पादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् । तत्र यदुक्तं परेण 'यथा प्रथमसम्प्रर्कभाजः क्षितिबीजादयः परस्परस्य विशेषमनादधानाः कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भविष्यन्तिऽ; इति, तदभ्युपगच्छन्नाह् "तथा यद्यक्षणिको ऽपि" इत्यादि । क्षणिकवदक्षनिको ऽपि यदि कार्यं करोति करोतु नाम । ना कश्चिद् वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि "अविलम्बितकार्यकर्तृधर्मा" अक्षेपेण करोतीत्येवंशीलो धर्मो यस्य स तथोक्तः, तदा "पृथग्भावस्य सम्भावात् केवलो ऽपि" न केवलं सहितः "तथा स्यात्" तत्कार्यकारकः स्यादित्युक्तं बहुशः । "अतत्स्वभावस्तु" अक्षेपकर्तृस्वभावविकलस्तु "तदापि" सहितावस्थायामपि प्राग्वत् "अकारक एव" पररूपेण कर्तृत्वस्य पूर्वमेव निषेधात् ।
तदेवमेकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्नाह- "तस्मात्" इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान्नैवाक्षणिकस्य कश्चित् सहकारीति केवलो ऽपि स्वकार्यं कुर्यादिति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तमिति दर्शयन्नाह- "प्रायस्तु" इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्यपेक्ष्य कार्यं करोति तदा "व्यक्तम्" अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिरिति । "नाकार्यस्य" कार्यतामननुभवतो अपेक्षेत्युच्यते । यतः सहकारिणां यः "संघातः" सन्निपातः "तत्स्थायी" तत्र वर्तमानो भावसन्तानः "प्रायः" बाहुल्येन "सहकारिप्रत्ययैरुपजनितविशेषः" सन् "स्वकार्यं कुर्वन् दृष्टो बीजादिवत्" (ह्ब्ट् 138) तस्मादेवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिदपि कल्पयितुमशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस्तु न विरुध्यते । तस्यैव ह्यकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्वतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलमकारकस्वभावस्य स्वरसनिरोधितामात्रमुपेयम् । ततः सर्वं सुस्थमिति ।
अथ मतम्- कारकस्वभावान्तरोत्पत्तिरिष्येत यदि स्थिरस्य हेतोः प्रागपि कारकस्वभावो न स्यत् । तस्य तु प्रागपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिरप्ययुक्तेति अत आह- "कारकस्य" इत्यादि । यदि हि समग्रावस्थायाः प्रागपि कारकस्वभावो भवेत् तदास्याक्रिया न युज्यते, संहतावस्थायामपि तत्स्वभ्वतयैव करणात्, पररूपेण कर्तृत्वस्य प्रागेव निषिद्धत्वात् । न च करोति । तस्मात् सो ऽस्य स्वभावः प्राङ्नैवासीत् । यदि च प्रत्ययान्तरैरप्यसौ न क्रियेत तत् किमिति मुधैव तान्यपेक्षते? इति ।
[43. निर्हेतुकविनाशचर्चाया उपसंहारः ।]
तदेवं 'तत्स्वभावस्य जननात्ऽ; त्यस्य 'यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति पुनस्तद्भावे हेत्वन्तरमपेक्षतेऽ; इत्यस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया "अपरापरप्रत्यययोगेन" इत्याद्यभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्वसम्भवं प्रतिपादयितुं प्रासङ्गिकं यदुपक्रान्तं तत् परिसमापय्य प्रकृतमनुबध्नन्नाह- "तस्माद् यो यदात्मा" इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्यत आह- "स्थितिधर्मणो ऽपि" इत्यादि । स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभवः तदन्यथात्वस्यास्थिरात्मतापत्तेः (ह्ब्ट् 139) केनचित् कर्तुमशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणो ऽप्यन्यथात्वप्रतिपत्तिरिष्यते तदान्यथात्वप्रतिपत्तौ वा "तत्स्वभाव एव" स्थितिधर्मैव "न स्यात्" आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्रागप्यभावायोगात् । नहि तदात्मनस्तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतस्त्वभावताप्रसङ्गात् 'विरुद्धधर्माध्याअस्य भेदलक्षणत्वात्ऽ; इत्युक्तम् । तथा च सति "पूर्व" एव "विकल्पः" स्वभावेनास्थितिधर्मा भाव इति । "तत्र च" पूर्वविकल्पे प्रागेवोक्तं दूषणं विनाशहेतोर्वैयर्थ्यमिति ।
अथासौ शिरस्वभाव एव, केवलमस्याशिरस्वभावता प्रागसति विनाशहेतोरुपजायते, अन्यथा निवृत्त्ययोगादित्यत आह- "यश्च परस्मात्" नाशहेतोः स्थितिधर्मणः सत "अन्यथाभावः" अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् "अपरः" अन्यः "स्वभावस्तस्मिन्निष्पन्ने" पश्चा[ज्जन्य]त्वाद् भिन्नहेतुकत्वाच्च "कथं तस्य" स्वभावः "स्यात्"? । तदात्मतया प्रतिभसनादिति चेत् । सारूप्यादलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्यसौ पूर्वस्वभावे सत्येवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? । भवत्वपरः स्वभाव इति चेत् । यश्चापरः स्वभावः स कथं तस्य? । न ह्यन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । यो ऽपरः स्वभावः स किमिति तस्य न भवति? इत्यत आह- "स्वभावभेद-" इत्यादि । भवतु वस्त्वन्तरमेव तदपरस्वभावतया को दोषः? इत्यत आह- "तथा च" वस्त्वन्तरत्वे सति विनाशहेतोरुपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ्न भवति, विनाशहेतोर्वस्त्वन्तरोत्पत्तौ व्यापृतत्वादिति न "तस्य" स्थितिधर्मणो "ऽन्यथाभावो" निवृत्तिः । नहि मुग्दरादेर्वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर्युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्रागेव प्रोक्तम् ।
ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेरग्नयादेर्विनाशहेतोर्द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्यत आह- "एतेन" अनन्तरोक्तेन "कठिनादीनाम्" आदिशब्दाद् द्रवादीनां ताम्रसुवर्णादिनामग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर्व्यवस्थितरूपस्य ताम्रादेः "प्रत्युक्ता" प्रत्याख्याताः, तुल्यदूषणत्वात् ।
कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो युक्तः? इत्याह- "तत्रापि" कठिनादिरूपे ताम्रादौ "पूर्वकस्य" कठिनद्रवादिरूपस्य "स्वरसनिरोधित्वात्" विनाशहेत्वयोगेन । "विनाशे" सति "अग्न्यादेः" आदिग्रहणाज्जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया "दुपादानाच्च" यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो निरुध्यते । तत एव उपादानकारणादग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् "अपर एव" अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, "उत्पन्नो" न तु पूर्वकमेव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतमिति ।
अत्र पर आह- "केनोक्तं" यथा 'स्थितिधर्मणः सतो विनाशहेतोरस्थितिस्वभावोत्पत्तिस्ततो विनाशःऽ; इति, येन 'यश्च परस्मादन्यथाभावः सो ऽपरः स्वभावःऽ; इत्याद्युच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितो नास्यास्थिरस्वभावता विनाशहेतोरुपजायते । कथं ज्ञायते यथा 'स्वहेतुभिः स्वभावेन स्थितिधर्मैव जनितःऽ; इति? । विनाशहेतोरग्न्यादेरसम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर्जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिरेवायमपरः स्वभावो नियमितो यदुत "परस्मात्" विरोधिनो ऽग्न्यादे "र्विनाशः स्वयं भवतीति" । परस्मादिति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्यर्थः । स्वहेतुभिरेवायं नियमितस्वभावो (ह्ब्ट् 141) जातो यथा त्वया विरोधिनमपेक्ष्य स्वयं निर्व(व)र्तितव्यमिति । तदुक्तम्-
"स्वभावो ऽपि स तस्येत्थं येनापेक्ष्य निवर्तते । विरोधिनं यथान्येषां प्रवाहो मुग्दरादिकम् ॥" इति ।
ननु यद्यस्य विनाशओ विरोधिसन्निधाने स्वयमेव भवत्यहेतुकः प्राप्नोति, अहेतोश्च देशकालस्वभावनियमो न युक्त इत्यत आह- "न च" नैव विनाशो नाम विनष्टुरपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु "भावच्युतिरेव विनाशः" । तस्याश्च निःस्वभावत्वाद्धेतुमत्ता नैव युज्यते । नहि सा तस्य भवति । केवलमसौ स्वयमेव न भवति । ततो भवितुरभावात् कस्य हेतुमत्तोपगम्यते? ।
सिद्धान्तवाद्याह- "नेदमनन्तरोक्तं विकल्पद्वयमतिक्रामति" । कीदृशं विकल्पद्वयम्? । 'किं नित्यो भावः?ऽ; इत्यादि । ननु च कालान्तरस्थितिरधर्मतामुपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमे ऽपि नित्यतैवोपगता भवति । तथा हि- यद्ययं संवत्सरस्थितिधर्मा स्वहेतुभिर्जनितस्तदा संवत्सरपरिसमाप्तौ यो ऽस्यादावुदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि । ततो ऽपरं संवत्सरमवतिष्ठेत । तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागादपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्तत इति चोपगमादनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभावः स एव भावस्यैकरूपत्वादुत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथमस्य कालन्तरस्थितिधर्मता सम्भवति? । एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिरेवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ्नित्यो भूत्वा पश्चादनित्यो विनश्वरस्वभावो भवतीति ब्रूते । "एवं च ब्रूवाणो भावद्वयं चाह" । वक्ष्यमाणापेक्षश्चकारः । (ह्ब्ट् 142) कीदृशं भावद्वयम्? । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान्नाशं ब्रूवाणः सर्वदा प्रतिक्षणमेव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चादपि नाशासम्भवात् । अथ प्रतिक्षणमस्य नाशो न भवति तदा पश्चादपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्नित्याभिमते स्वभावे विनाशहेतुरसमर्थो ऽकिञ्चित्कर एव ।
ननु च विनाशहेतोर्नैव सामर्थ्यमुपगतं परेन विरोधिसन्निधिमपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य । अन्यथा ह्यकिञ्चित्करः किमित्यसावपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनरयमस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । तस्मादुपकार्यपेक्षायामेव हेतवो नियुञ्जानाः शोभन्ते । अन्यथा ते ऽपि कार्यात्मानो नैव तन्नियोगमाद्रियेरन् । कथं चाकिञ्चित्करो विरोधी नाम? । न ह्यस्याविरोधित्वाभिमताद्विशेषः कश्चिदिति यत्किञ्चिदेतत् ।
यदप्युक्तं 'यथान्येषां क्षणिकवादिनामकिञ्चित्करमपि मुग्दरादिकमपेक्ष्य घटादिप्रवाहो निवर्तते तथास्माकमपि कालान्तरस्थायी भावःऽ; इति तदपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुग्दरादिसन्निधौ निवर्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुग्दरादिकमपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्यामेकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् 'निवृत्ता घटादयःऽ; इति व्यवहारः, तत्राकिञ्चित्करत्वं मुग्दरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन्मुग्दरादिसहकारिणो घटक्षणात् परस्परोपसर्पणाद्याश्रयात् (ह्ब्ट् 143) प्रत्ययविशेषात् सञ्जातातिशयात् कपालदेर्भवनधर्मत्वात् तस्य च तज्जन्नस्वभावत्वादिति ।
स्वभावद्वयोपगमप्रसङ्गादिति परिजिहीर्षया पर आह- "न प्राग्" इत्यादि । कुत एतत्? । "एकस्वभावत्वात्" । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चादनित्यस्वभावतासम्भव इति ।
सिद्धान्तवाद्याह- "स तर्हि भावः" सर्वदा नित्यस्वभावः स्वभावेन "नाशमनाविशन्" अप्रतिपद्यमानः कथं नैव नष्टो(कथं नष्टो) नाम? । कुतः? "तत्स्वभावविनाशयोः" नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश्च "अपरस्पररूपत्वात्" परस्परपरिहाररूपत्वात् । उपसंहरन्नाह- "यत एवं" स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्यवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस्तदा "विनाशस्वभावेन"- विनश्यति नावतिष्ठत इति विनाशः । कर्तरि बहुलवचनाद् घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । "तेन" कृतकरूपेण सता वस्तुना स्वहेतुभ्यो "भवितव्यम्" अन्यथावश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् ।
भवत्वेवम् इति चेत् । आह- "तथापि" स्वयं विनाशस्वभावत्वे ऽपि न केवलमविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुरिति प्रथमविकल्पोपन्यास एवोक्तम् न पुनरुच्यते । यत एवं "तेन" इत्यादि सुगमम् ।
तदेवं विनाशं प्रत्यनपेक्षामसामर्थ्य- वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्य पूर्वाचार्यदर्शितां प्रतिपाद्य यथासौ विपर्यये बाधकप्रमाणतामनुभवति तद दर्शयन्नाह- "तस्माद् विनाश" इत्यादि । प्रयोगस्त्वेवम्- ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । तद्यथा- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च कृतकरूपः सन् भावो विनाशे ऽवश्यम्भाविविनाशतयोपगतः (ह्ब्ट् 144) परैरिति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणं पूर्वाचार्यप्रदर्शितम् । "ततः" तद्भावनियतत्वे, नाशस्याकादाचित्कत्वादुदयानन्तरं नाश इति "यः सन्" कृतकलक्षणो भावः "स विनाशी" विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिरिति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायामन्वयव्यतिरेकसिद्धिः सम्पद्यते अनपेक्षयानुक्रान्तसत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धेः तन्निबन्धनयोरन्वयव्यतिरेकयोरपि निश्चयात् ।
तदेवं पूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् "सदकारणवन्नित्यम्" इति नित्यलक्षणविरहादेव न तन्नित्यत्वम् । यत्तु सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यंनाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् ।
[44. सामान्येन सत्त्वक्षणिकत्वयोस्तादात्म्यव्याप्तिप्रदर्शनम् ।]
यदा तु यत् सत् तत् क्षणिकमेवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदमनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वमेव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषामेव तद्धैत्वयोगत् तत्रानपेक्षा युज्यते । ये तु देशादिव्यवहिताः पर्वतादयो वा विनशामाविशन्तो न दृष्टाः तेषामवश्यं विनाशित्वोपगमनिबन्धनाभावादन्त्ये ऽप्ययं विनाशं प्रत्यनपेक्ष एव विनश्यन्नऽविशेषादादावपि तद्भावनियत इति वक्तुमशक्यत्वात् तत्स्वभावसापेक्षत्वात् । विनाशं प्रत्यनपेक्षत्वासिद्धेरकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणामित्यनपेक्षया सतो नश्वरस्वभावतासिद्धेः अन्वयव्यतिरेकयोस्तन्निबन्धनयोरयोगमुत्पश्यन्नर्थक्रियाविरोधलक्षणमेव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकमभिधानीयमिति मन्यमानः पूर्वपक्षमुत्थापयन्नाह- "स्वभावतो" नश्वरत्वे ऽप्युक्तेन (ह्ब्ट् 145) न्यायेन परिदृश्यमानविनाशानां घटादीनां "कश्चिद्" देशादिव्यवहितः पर्वतादिर्वानुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर्वाकृतकः सन्न "ऽतत्स्वभावो ऽपि" अविनाशिस्वभावो ऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तस्य विनाशिस्वभावसंसाधकप्रमाणाभावादाशङ्कयत एतत् । ततश्च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वमसिद्धमिति तद्वशात् साध्यस्य क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिरिति । किं पुनरत्राशङ्कानिमित्तं येन कश्चिदतत्स्वभावो ऽप्याशङ्कयत इत्याह- "न हि सर्वः सर्वस्य स्वभावः" इति । विचित्रस्वभावा हि भावा दृश्यन्ते- केचित् सप्रतिघाः केचिदप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद्विनाशिनः अन्ये त्वविनाशिस्वभावाः शङ्कयन्त इति पूर्वपक्षाशङ्का ।
न- 'कश्चिदतत्स्वभावो ऽपि स्यात्ऽ- इति आशङ्कनीयम्, तथाभावे ह्यक्षणिकत्वं तस्य स्यात् । तस्मिंश्च सत्यवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? । कथं पुनरक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? । यतः सत्त्वस्य क्षणिकत्वस्वभावतयान्वयव्यतिरेकसिद्धिरित्यत आह- "शक्तिर्हि" इत्यादि ।
[45. अर्थक्रियाकारित्वमेव सत्त्वं, तच्च क्षणिकानामेवेति ।]
एवं मन्यते- इह तावदिदमेव विचारणीयम् किंलक्षणमेतद् भावानां सत्त्वं युक्तमिति । तत्र न सत्तायोगलक्षणमव्याप्तेः, सामान्यदिष्वभावात् । वन्ध्यासुतादिष्वपि भावाद् अतिव्याप्तेर्वा । वन्ध्यासुतादीनामसत्त्वात् कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस्तेषामसत्त्वं सत्तायोगविरहादेव तद्विरहश्चासत्त्वादिति । यदि च सतामेव सत्तायोगः एवं तर्ह्यन्यत् सत्त्वलक्षणमभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत् एव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात् सत्तायोगाभावस्तेषामिति (ह्ब्ट् 146) चेत् । एवं सति यदेवार्थक्रियसामर्थ्ययुक्तं तस्यैव सत्तायोग इत्यर्थक्रियासामर्थ्यमेव भावलक्षणमायातमित्यपार्थकः । सत्तायोगः । "इत्थं च" एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? । अर्थक्रियासामर्थ्यं तु सर्वेषामस्तीति तदेव भावलक्षणम् ।
"उत्पादव्यव्यघ्नौव्ययुक्तं सत्" इत्येतदप्ययुक्तम्, ध्रौव्येणोत्पादव्यययोर्विरोधात् एकस्मिं(स्मिन्) धर्मिण्ययोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यमिति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाविति नैकं वस्तु यथोक्तलक्षणं स्यात् । ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश्चान्तशः स्वज्ञानजनने ऽप्युपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनरभावलक्षणम् ।
सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वादभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते ।
शक्तिलक्षणमेव सत्त्वमक्षणिके स्यात् ततः क्षणिकात्मता सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह- "न चैवाक्षणिकस्य" क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिरस्ति तत् कुतस्तस्य तल्लक्षणं सत्त्वमतीतादेरिव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् ।
ननु च शक्तेरतीन्द्रियत्वात् कारणानां कार्यरम्भनियमाभावाच्च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मतामेवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्यातामित्यत आह- "क्रमयौगपद्याभ्याम्" इत्यादि । नैव प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तव्द्यापकविरहात् । तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे (ह्ब्ट् 147) विरोधात् निर्वृत्तेस्तव्द्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- 'यत् सत् तत् क्षणिकमेवऽ; इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति ।
ननु च प्रकारान्तराभावात् कार्यमङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्यामेव क्रियत इत्युच्यते स एव तु प्रकारान्तरविरहः कार्यात्मनः कुतः सिद्धः? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथमत्यन्तासम्भवः? । केवलं देशादिनिषेधमात्रमेव स्यात् । अनुपलब्धिलक्षणप्राप्तत्वेनासत्तानिश्चयो विप्रकर्षिणामिति कुतस्तदभावसिद्धिः? । ततः प्रकरान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्तावपि नार्थक्रियासामर्थ्यनिवृत्तिरिति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणमसत्त्वम्?, यतः सत्त्वस्य क्षनिकात्मतयान्वयव्यतिरेकौ स्याताम्? । न । उभयथाप्यदोषात् । तथा हि- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः, यौगपद्यमपि तस्यापरैर्ब्बीजादिकार्यैः साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्यन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वाभावे प्रत्यक्षबोधगम्यमाने सत्युपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीरतरस्मिन् वा भावे ऽपि न काचित् क्षतिः । ततः प्रत्यक्षत एव प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्यामर्थक्रियाशक्तिरव्याप्ता स्यात्? । शास्त्रकारस्तु यथा प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः तथा स्वयम् "एतेन क्रमाक्रमादयो ऽपी"ति अतिदिशन् वक्ष्यति ।
अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोरन्यो ऽन्यव्य वच्छेदरूपत्वादेवाश्रयसि (देवाभावसि)द्धि तथाहि- अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात् तस्याप्रतिषेधे विधिप्रतिषेधयोर्विरोधादुभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? । अत्र प्रयोगः- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद्यथानीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्च ततो बहिर्भावलक्षण इत्यनयोस्तत्त्वान्यत्वरूपयोरन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कयानवस्थानमाशङ्कनीयम्, पूर्वप्रसिद्धस्य विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावमुपदर्श्य विरोधसाधनमेव बाधकम्, तच्चेहास्ति । ततो विरुद्धयोरेकत्रासम्भावात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतो ऽनवस्था? ।
तत्र न क्रमेणाक्षणिकः कार्याणि करोत्यविशेषादकारकावस्थायामिव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगादनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्, पुनस्तत्क्रियाप्रसङ्गाच्च । कृतत्वान्नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्रागप्यकारकरूपविशेषादक्रिया स्यात् । कृतस्य कर्तुमशक्यत्वादिति चेत् । शक्ताशक्ततया तर्ह्येकत्रैव कार्ये भेदप्रसङ्ग शालिकोद्रवबीजादेरिव । नित्यश्च यदा युगपत् करोति ततः प्रागपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस्ततो ऽपि पूर्वतरम् इत्येवं न कदाचिद्युगपत् क्रिया स्यात् । पूर्वोत्तरकालयोश्चैकदा युगपत्कारिणो ऽन्यदा सर्वार्थक्रियासामर्थ्यविरहलक्षणमसत्त्वं (ह्ब्ट् 149) स्यादिति कथं न क्षणिकता? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवमक्षणिकत्वे सति चक्षुराद्यायतनानामसत्त्वप्रसङ्गात् क्षणिकतायामेव सत्त्वमिति यत् सत् तत् क्षणिकमेवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिरिति ॥
3. कार्यकारणभावव्यवस्था ।]
तदेवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनमन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस्तस्याश्च प्रत्यक्षानुपलम्भनिबन्धनायाः प्रागेव दर्शितत्वात् तग्दतमपरमपि परेषां भ्रान्तिकारणपनेतुं तद्विषयं दर्शयन्नाह- "अर्थान्तरे" हेतोर्व्यतिरिक्ते वस्तुनि गम्ये "कार्यं हेतुः" । अनर्थान्तरे तु स्वभावो हेतुरित्युक्तम् । कस्मात् पुनरर्थान्तरे कार्यमेव हेतुरित्याह- "अव्यभिचारात्" इति कार्यमेव ह्यर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यमेवार्थान्तरे गम्ये हेतुरुच्यते संयोगवशाग्दमकत्वे ।
"न च केनचित्" इत्यादिना यः सर्वथा गम्यगमकभावप्रसङ्ग आचार्येणोक्तः परस्य, तमिहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेदित्याशङ्कमान आह- "कार्यकारण- " इत्यादि । यदि हि कार्यं हेतुरुच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः । कुतः? "सर्वथा जन्यजनकभावात्" । जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोरंशेन अपि तु सर्वेण प्रकारेण । तथाहि- यथा अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्मैर्जनकः तथा तार्णपार्णत्वादिभिर्विशेषधर्मैरपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर्विशेषधर्मैर्जन्यः तथा सामान्यधर्मैरपि सत्त्वद्रव्यत्वादिभिः । ततश्च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वादिति पूर्वपक्षाशङ्का । अत्राह- "न सर्वथा जन्यजनकभावः" ततश्च कुतस्तथा गम्यगमकभावः स्यात्? । कस्मात्? इति चेत्, (ह्ब्ट् 151) "तदभावे" तेषां तार्णपार्णत्वादिनां विशेषधर्माणामभावे "भवतो" धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवमात्मनः "तदुत्पत्तिनियमस्याभावात्" । तथा "तदभावे" अग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्मस्याग्नेरेवायं भवती त्येवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्यसति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः ।
यत एवं "तस्मात् कार्यं" धूमादिकं "स्वभावैर्यावद्भि" र्धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा च तृतीया । "अवीनाभावि" विना न भवति । कैर्विना न भवति? । 'कारणे यावद्भिः स्वभावैःऽ; इत्यत्रापि सम्बध्यते । कारणाश्रितैर्यावद्भिः स्वभावैर्विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस्तेषामिति गम्यते । क्व अविनाभावि? । "कारणे" कारणविषये अपरो ऽर्थः "कारणे" आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर्यावद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्याह- "तत्कार्यत्वनियमात्" तेषामेव कारणगतानां सामान्यधर्मानां तत् कार्यमित्येवंरूपस्य नियमस्य सद्भावात् । नहि तान् सामान्यधर्मान् कदाचिदपि कार्यं व्यभिचरति ।
एवं कारणगतमंशं पाश्चात्येनार्थेन निरूप्य प्राक्तनेनार्थेन कार्यगतमंशं निरूपयन्नाह- "तैरेव च" इत्यादि । कार्यमपि तैरेव धर्मैः स्वगतैः कारणगतानां धर्माणां गमकम् यथान्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर्विना न भवन्ति । अत्रापि 'तत्कार्यत्वनियमात्ऽ; इत्यपेक्ष्यते । तेषामेव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः कारणस्थसामान्यधर्मैर्विना कदाचिदपि भवन्ति । ततस्तेषामेव कार्यत्वनियमः, नान्येषां द्रव्यत्वादीनां (ह्ब्ट् 152) कारणस्थसामान्यधर्मैर्विना भवताम् । तदेवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधर्मा यैस्तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस्तेषामपि तत्कार्यत्वनियमाभावादेव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषामिव प्रसज्येत? ।
[2. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् ।]
परस्यानिष्ठापादनमाशङ्कयाह- "अंशेन" इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमादिष्यन्ते, हन्त तर्ह्यशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावो ऽभिमत इत्युभ्युपगमविरोधः । एतत् परिहरति- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथाभिमतत्वात् । तदाह- "तज्जन्य" इत्यादि । यदि हि कार्यस्य तैः कारणगतैर्विशेषधर्मैर्जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादि उपाधिर्विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाग्दमकत्वस्य । तथा हि- अगुरुधूमग्रहणे भवत्येव तदग्नेरनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिनाग्नेरनुमानम् । न हि सर्वथा जन्यजनकभावो ऽस्तीत्येव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात् । ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यमर्थं ज्ञापयति, नान्यथा । कथं (ह्ब्ट् 153) तर्ह्युक्तं "तदभावे भवतः तदुत्पत्तिनियम(मा)भावात्" इति ।? । सर्वथा जन्यजनकभावाभ्युपगमे तदभावे भावस्यैवाभावादित्यत आह- "अविशिष्ट"- इत्यादि । यदि हि तज्जन्यविशेष ग्रहणरहितमविशिष्टं कार्यमात्रमुपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा
"अविशिष्टसामान्यविवक्षायां" कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेरग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश्च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि- यदि नामधूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वमस्त्येव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्यपि द्रव्यत्वसत्त्वमात्रमग्न्यभावे ऽपि भवति न तु धूमात्मकमिति तद्विशिष्टस्याव्यभिचाराद् गमकत्वमपि न वार्यत इति ।
[3. कार्यकारणभावप्रतीतेरतिदुर्लभत्वाशङ्काया निरासः ।]
अत्र परस्य वचनावकाशमाशङ्कयाह- "कस्यचित्" धूमादेः "कदाचित्" कस्मिंश्चित् काले "कुतश्चित्" अग्न्यादेः "भावे ऽपि" सति "सर्वो" धूमादिः "तादृशो" यादृश एकदाग्न्यादेर्भवन दृष्ट तज्जातीयः, "तथाविधजन्मा" यथाविधात् स एको भवन् दृष्टः तादृशादेव जन्म यस्य स । "तथाविधजन्मेत्येतत् कुतः" प्रमाणादवसितम्? येनोच्यते 'कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनावन्वयव्यतिरेकौऽ; इति । तथाहि- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वमवगतं किमेतावतान्यस्यापि तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः प्रत्यक्षानुपलम्भयोरव्यापारात् । यत्रैव हि तयोर्व्यापरस्तस्यैव तत्कार्यता भवतु, तदन्यस्य तु किमायातम्? येन तथविधादस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेरग्न्यादिजन्यता दृष्टेति किन्न घटादेरपि साभ्युपगम्यते? अन्यत्वेन (ह्ब्ट् 154) विशेषाभावात् । क एवं सति दोषः? इति चेत् ; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयादतादृशादपि जन्माशङ्कायां तादृशस्य धूमादेरग्न्यादिनाऽन्वयव्यतिरेकौ न निश्चिताविति कुतः कार्यहेतोर्गमकत्वम्? । न हि यो ऽसावेको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादावसम्भवात् । किं तर्हि? । तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधादपि जन्माशङ्कायां कुतस्तथाविधेनान्वयो व्यतिरेको वा? । तदुक्तम्-
"अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु । भावानामनुमानेन प्रतीतिरतिदुर्ल्लभा ॥" इति ।
सिद्धान्तवाद्याह- "न, अतद्भाविनः" इत्यादि । एवं मन्यते- इहैकदा धूमादेरग्न्यादिसामग्रीजन्यतया प्रत्याक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशादपि भावः समाशङ्क्यते यथापरिदृष्टादन्यत्वेन । तत्र यो ऽसावग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस्तदपेक्षया यथान्यो धूमविशेषस्तादृशो यो ऽन्यादृशादपि- भावानां विचित्रशक्तितया- भवेदिति शङ्कयते, तथा सो ऽप्येकदाग्न्यादिसामग्रीजन्यतया निश्चितस्तदन्यापेक्षया तादृश एव । तत्र यदि तदन्यस्य तादृशस्यातादृशाज्जन्म स्यात् तदा तादृशस्य स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि धूमस्य नाग्न्यादिसामग्री कारणमित्यायातम् । तादृशस्य स्वभावस्याग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश्चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् । नहि यद् यस्य कारणं न भवति तत् ततः सकृदपि जायते, तस्याहेतुकत्वप्रसङ्गादिति । "अतद्भाविनः" इति तच्छब्देन विवक्षितमग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तव्दिलक्षणं अतादृशं शक्रमुर्द्धादिकम्, अतस्माद् भवितुं शीलं (ह्ब्ट् 155) यस्य तस्यातद्भाविनस्तादृशस्य तल्लक्षणस्य धूमवस्तुनः "सकृदपि" एकदापि "ततः" अग्न्यादेः "अभावाद्" भावविरोधात् । भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस्तादृशस्य स्वभावस्य तादृशमेव कारणमित्यवगम्यते सकृत्प्रवृत्ताभ्यामेव प्रत्यक्षानुपलम्भाभ्यामिति कुतो व्यभिचाराशङ्का? । तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशादेव भावात् 'यत्र धूमस्तत्राग्न्यादिसामग्रीऽ; इत्यन्वयव्यतिरेकनिश्चयः ।
अथवान्यथा व्याख्यायते- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनावन्वयव्यतिरेकौ प्रतिपादयितुम्, तच्चायुक्तम् । तथा हि- "कस्यचित्" धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य "कदाचित्" प्रथमोत्पादकाले "कुतश्चिद्" अग्न्यादिसामग्र्याः "भावे ऽपि" उत्पादे ऽपि "सर्वस्तादृशो" यादृशः प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्वपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । "तथाविधजन्मा" इति यथाविधादग्नीन्धनसामग्रीलक्षणात् कारणादाद्यो धूमक्षण उत्पन्नस्तथाविधाज्जन्म यस्य स "तथाविधजन्मेत्येतत् कुतः" नैव तस्य धूमादेरभावात् । एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास इति मन्यमान आह- "तथा च" अनग्नितो धूमादपि धूमस्य भावे शक्रमूर्द्धादेरपि तस्य भावाविरोधादग्निना धूमस्य नन्वयव्यतिरेकाविति चेन्मन्यसे इति पूर्वपक्षाशङ्का ।
तदुक्तम्-
"क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः । प्रसिद्धकारणाभावे येषां भावस्ततो ऽन्यतः ॥
अतश्चानग्नितो माद् यथा धूमस्य सम्भवः । शक्रमूर्द्व्नस्तथा तस्य केन वार्येत संभवः ॥"इति ।
सिद्धान्तवाद्याह- नाग्नीन्धनसामग्रीजन्यो यादृशो धूमस्तादृश एव धूमादपि भवति कारणभेदेन । कुतश्चित् साम्यात् (ह्ब्ट् 156) सरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यग्नीन्धनसामग्रीक्षणान्तरजन्य आद्य एवापरः क्षणस्तथा तदन्य आद्य एवापराग्नीन्धनसामग्रीजन्य इति तादृशस्य धूमस्य धूमादसम्भवात् न क्वचिदनाश्वासः कार्यः । तथा यादृशो द्वितीयक्षणभावी प्रथमधूमक्षणजनितो धूमक्षणस्तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्वप्यङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनरयं विभागः? इति चेत्, आह- "अतद्भाविनः" अतस्माद्- अनग्नीन्धनादिरूपाद् धूमाद् भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य "सकृदपि" एकदापि "ततः" अग्न्यादिसामग्र्याः "अभावाद" भावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस्तादृशस्तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृदपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावतामात्मानस्तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्मादन्यादृशाद् भवन्नन्यादृश एव ततो न व्यभिचारः ।
[4. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः ।]
ननु सर्वेषां धूमक्षाणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायामर्थक्रियायामुपयोगात् कथं तादृशस्वभावता न स्यात्? । न, तस्या अप्यर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणिअर्व्यवहारायोगाच्च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशादन्यत्वात् सदृशस्य । तथा हि- गोसदृशो भवति गवयः न तु तादृशः, गोरेवापरस्य तादृशत्वात् । परमार्थेनातादृशे ऽपि तादृशाभिमानो मन्दमतीनां भवन् कथं निवार्त्येत्? । तथा हि- तत्त्वाध्यवसायो ऽपि तावद्- अतस्मिन्नर्वाग्दृशां विनिवारयितुं न पार्यते, किमङ्ग पुनस्तादृशत्वाध्यवसायः? यथोक्तम्-
"समानवर्णसंस्थाने सन्ताने ऽत्यत्र जायते । अतस्मिंस्तन्मतिः पुंसां किमुतैकत्र संततौ? ॥" इति ।
तत्त्वचिन्तकास्तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् । तद् यद्यतादृशादपि तदृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्यतद्भाविनः सकृदपि ततो भावो न स्यात् । अमुमेवार्थं समर्थयमन आह- "परस्परापेक्षया" इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्यत आह- "तत्र" एतस्मिन् न्याये सति "यदि धूमो" यादृश आद्यो ऽग्न्यादिसामग्रीजनितस्तादृशो द्वितीयादिक्षणभावी "अग्न्यादिसामग्र्या" अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिता "दन्यतो"ऽग्नीन्धनादिसामग्रीजनितादाद्याद्धूमक्षणाद् भवेत् । तदा "तस्य" तादृशस्य धूमस्वभावस्य "तज्जन्यो"ऽग्न्यादिसामग्रीजन्यः "स्वभावो न भवति" किन्तु धूमजन्य एवेति कृत्वा सकृदपि "ततो"ऽग्न्यादिसामग्रीतो "न भवेत" । तादृशस्य हि स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृदपि ततो भावो युज्येत । अत्र दृष्टान्तः "अर्थान्तरवद्" इति । यथा ह्यर्थान्तरमतज्जन्याभिमतमन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावमिति सकृदपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्नन्यादृश एवासाविति गम्यते ।
स्यान्मतम्- अग्न्यादिसामग्र्यासावतज्जन्यस्वभावो ऽपि तादृशो बलाज्जन्यते कस्तस्य तपस्विनो ऽपराधः? इत्यत आह- "नापि" न केवलं स्वयमतज्जन्यस्वभावतया ततो न भवेत्, किन्त्वग्न्यादिसामग्र्यपि तं तादृशं धूमं- यादृशो द्वितीयादिक्षणभावी- (ह्ब्ट् 158) न जनयेत् । कुतः? । अतज्जननस्वभावत्वात् । तादृशस्य ह्यन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत्? । अत्राप्युदाहरणम्- "सामग्र्यन्तरवदिति" । यथा सामग्र्यन्तरमतज्जननस्वभावाभिमतं न जनयति तद्वदग्न्यादिसामग्र्यपि । तथा हि- सा आत्मीयं स्वभावमनुसृत्यैव प्रवर्तते, ततः कुतो ऽसौ सामग्रीबलाज्जायेत? ।
[5. तादृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् ।]
स्यान्मतम्- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो धूमो धूमजन्यस्वभावो ऽपि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश्चोभयतो भवति । तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्यत आह- "न च" नैव "धूमस्य" तादृशस्य "तदतज्जन्यः" अग्न्यादिसामग्रीजन्यो धूमजन्यश्च "स्वभावो युक्तः" युक्त्या सङ्गतः । कुतः? "एकस्वभावत्वात्" तादृशस्य धूमरूपस्य भेदाभावात् । नहि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते । भेदे ह्यन्यादृशस्यान्यादृशाद्भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस्तादृशातादृशस्वभावतैव स्यात् । तदेव दर्शयन्नाह- "धूमाधूम"- इत्यादि । धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस्तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो ऽन्यादृशः । तयोश्च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावतावगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात् "धूमाधूमजननस्वभावात्" तादृशातादृशजननस्वभावात् तादृशातादृशतयास्य भवतो धूमाधूम[स्वभाव]स्तादृशातादृशस्वभावः स्यात् कुतस्तादृश एव? । कुत एतत्? इत्याह- "कार्यस्वभावानाम्" इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । ततस्तादृशातादृशाद् भवतो धूमस्य तादृशातादृशस्वभावतैव स्यात् ।
स्यान्मतम्- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणामुत्पत्तिमात्र एव कारणापेक्षणादित्यत आह- "अकारणापेक्षणे च" तादृशातादृशरूपतायां तादृशातादृश- कारणानपेक्षणे च तादृशातादृशतायाः "अहेतुकत्वप्रसङ्गात्" । न हि तादृशातादृशस्वभावयोरभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र तादृशातादृशस्वभावकारणनिरपेक्षाणामपि तदपेक्षा स्यात् । तस्मादुत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वादेव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात्तादृशसम्भवः? इति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
